अथ षष्ठोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
उपवासव्रतानीह केशवाराधनं प्रति।
ममाचक्ष्व महाभाग परं कौतूहलं हि मे ॥१॥
मूलम्
उपवासव्रतानीह केशवाराधनं प्रति।
ममाचक्ष्व महाभाग परं कौतूहलं हि मे ॥१॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
कामान्यान्यान्नरो भक्तो मनसेच्छति केशवात्।
व्रतोपवासनात्प्रीतस्तांस्तान्विष्णुः प्रयच्छति ॥२॥

रत्नपर्वतमारुह्य यथा रत्नं महामुने।
सत्त्वानुरूपमदत्ते तथा कृत्स्नान्मनोरथान् ॥३॥

मार्गशीर्षं तु यो मासमेकभक्तेन यः क्षपेत्।
कुर्वन्वै विष्णुशुश्रूषां स देशे जायते शुभे ॥४॥

पौषमासं तथा दाल्भ्य एकभक्तेन यः क्षपेत्।
शुश्रूषणपरः शौरेर्न रोगी स च जायते ॥५॥

माघमासं द्विजश्रेष्ठ एकभक्तेन यः क्षपेत्।
विष्णुशुश्रूषणपरः स कुले जायते सताम् ॥६॥

क्षपयेदेकभक्तेन शुश्रूषुर्यश्च फाल्गुनम्।
सौभाग्यं स्वजनानां स सर्वेषामेति सोन्नतिम् ॥७॥

चैत्रं विष्णुपरो मासमेकभक्तेन यः क्षपेत्।
सुवर्णमणिमुक्ताढ्यं स गार्हस्थ्यमवाप्नुयात् ॥८॥

यः क्षपेदेकभक्तेन वैशाखं पूजयन्हरिम्।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥९॥

कृष्णार्पितमना ज्येष्ठमेकभक्तेन यः क्षपेत्।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ॥१०॥

आषाढमेकभक्तेन यो नयेद्विष्णुतन्मनाः।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥११॥
मूलम्
आषाढमेकभक्तेन यो नयेद्विष्णुतन्मनाः।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥११॥
विश्वास-प्रस्तुतिः
क्षपयेदेकभक्तेन श्रावणं विष्णुतत्परः।
धनधान्यहिरण्याढ्ये कुले स ज्ञातिवर्धनः ॥१२॥

एकाहारो भाद्रपदं यश्च कृष्णपरायणः।
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥१३॥

नयंश्चाश्वयुजं विष्णुं पूजयेदेकभोजनः।
धनवान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥१४॥

कार्त्तिके चैकदा भुङ्क्ते यश्च विष्णुपरो नरः।
शूरश्च कृतविद्यश्च बहुपुत्रश्च जायते ॥१५॥

यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः।
अहिंसः सर्वभूतेषु वासुदेवपरायणः ॥१६॥
मूलम्
यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः।
अहिंसः सर्वभूतेषु वासुदेवपरायणः ॥१६॥
विश्वास-प्रस्तुतिः
नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्।
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् ॥१७॥

दश वर्षसहस्राणि स्वर्गलोके महीयते।
तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते ॥१८॥

ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रोवा यथोदितान्।
उपवासानिमान्कुर्वन्फलान्येतान्यवाप्नुयात् ॥१९॥

जगत्पतिं जगद्योनिं जगन्निष्ठं जगद्गुरुम्।
जयं शरणमभ्येत्य न जनैः शोच्यते जनः ॥२०॥

यस्य नाम्नि स्मृते मर्त्यः समुत्क्रान्तेरनन्तरम्।
प्राप्नोति शाश्वतं स्थानं ततः पूज्यतरो हि सः ॥२१॥

नादिर्न मध्यं नैवान्तो यस्य देवस्य विद्यते।
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः ॥२२॥

परापरं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवन्निधानमव्ययं।
सनातनं यदमृतमच्युतं ध्रुवं प्रविश्य तं हरिममरत्वमश्नुते ॥२३॥

इति विष्णुधर्मेष्वेकभक्तविधिः।