००५

अथ पञ्चमोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

पञ्चदश्यां च शुक्लस्य फाल्गुनस्यैव सत्तम।
पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः ॥१॥

मूलम्

नास्तिकान्भिन्नवृत्तींश्च पापिनश्चाप्यनालपन्।
नारायणे गतमनाः पुरुषो नियतेन्द्रियः ॥२॥

तिष्ठन्व्रजन्प्रस्खलिते क्षुते वापि जनार्दनम्।
कीर्तयेत्तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् ॥३॥

लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम्।
सन्ध्याव्युपरमे चेन्दुस्वरूपं हरिमीश्वरम् ॥४॥

रात्रिं च लक्ष्मीं सञ्चिन्त्य सम्यगर्घ्येन पूजयेत्।
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् ॥५॥

तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम।
अर्चयीत यथाप्रोक्तं प्राप्ते प्राप्ते तु तद्दिने ॥६॥

निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः।
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ॥७॥

आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा।
तथैवाश्वयुजेऽभ्यर्च्य श्रीधरं च श्रिया सह ॥८॥

सम्यक् चन्द्रमसे दत्त्वा भुञ्जीतार्घ्यं यथाविधि।
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ॥९॥

कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम्।
भूत्या समन्वितं दद्याच्छशाङ्कायार्हनं निशि ॥१०॥

भुञ्जीत च तथा प्रोक्तं तृतीयमिति पारणम्।
प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ॥११॥

प्रतिमासं च वक्ष्यामि प्राशनं कायशोधनम्।
चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम् ॥१२॥

कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम्।
सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् ॥१३॥

गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथान्।
कारियीत च देवस्य पारणे पारणे गते ॥१४॥

एवं सम्पूज्य विधिवत्सपत्नीकं जनार्दनम्।
नाप्नोतीष्टवियोगादीन्पुमान्योषिदथापि वा ॥१५॥

जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः।
सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ ॥१६॥

यावन्त्येतद्विधानेन पारणेनार्चति प्रभुम्।
तावन्ति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् ॥१७॥

देवस्य च प्रसादेन मरणे प्राप्य तत्स्मृतिम्।
कुले सतां स्फीतधने जायते नरः ॥१८॥

-———–नारिं प्राप्नोति न व्याधिं नरकं च न पश्यति।
दुर्गमं यममार्गं च नेक्षते द्विजसत्तम।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

श्रोतुमिच्छाम्यहं तात यममार्गं सुदुर्गमम्।
यथा सुखेन संयान्ति मानवास्तद्वदस्व मे ॥१९॥

मूलम्

श्रोतुमिच्छाम्यहं तात यममार्गं सुदुर्गमम्।
यथा सुखेन संयान्ति मानवास्तद्वदस्व मे ॥१९॥

पुलस्त्य उवाच।
प्रतिमासं तु नामानि कृष्णस्यैतानि द्वादश।

विश्वास-प्रस्तुतिः

कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम्।
उच्चारयन्नरोऽभ्येति सुसुखेनैव तत्पथम् ॥२०॥

ततो विप्राय वै दद्यादुदकुम्भं सदक्षिणं।
उपानद्वस्त्रयुग्मं च छत्त्रं कनकमेव च ॥२१॥

यद्वै मासगतं नाम तत्प्रीतिश्चापि संवदेत्।

विश्वास-प्रस्तुतिः

संवत्सरान्तेऽप्यथवा प्रतिमासं द्विजान्बुधः।
वाचयेदुदकुम्भाद्यैर्दानैः सर्वाननुक्रमात् ॥२२॥

केशवं मार्गशीर्षे तु पौषे नारायणं तथा।
माधवं माघमासे तु गोविन्दं फाल्गुने तथा ॥२३॥

विष्णुं चैत्रेऽथ वैशाखे तथैव मधुसूदनम्।
ज्येष्ठे त्रिविक्रमं देवमाषाढे वामनं तथा ॥२४॥

श्रावणे श्रीधरं चैव हृषीकेशेति चापरम्।
नाम भाद्रपदे मासि गीयते पुण्यकाङ्क्षिभिः ॥२५॥

पद्मनाभं चाश्वयुजे दामोदरमतः परम्।
कार्त्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् ॥२६॥

इह वै स्वस्थतां प्राप्य मरणे स्मरणं ततः।
याम्यक्लेशमसम्प्राप्य स्वर्गलोके महीयते ॥२७॥

ततो मानुष्यमासाद्य निरातङ्को गतज्वरः।
धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति ॥२८॥

इति विष्णुधर्मेषु याम्यक्लेशमुक्तिः।