००४

अथ चतुर्थोऽध्यायः।
प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

उपवासैर्हृषीकेशः कथं तुष्यति भार्गव।
परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिनाम् ॥१॥

मूलम्

उपवासैर्हृषीकेशः कथं तुष्यति भार्गव।
परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिनाम् ॥१॥

विश्वास-प्रस्तुतिः

यद्यत्कार्यं यथा चैव केशवाराधने नरैः।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि ॥२॥

मूलम्

यद्यत्कार्यं यथा चैव केशवाराधने नरैः।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि ॥२॥

शुक्र उवाच।

विश्वास-प्रस्तुतिः

स्मृतः सम्पूजितो धूपपुष्पाद्यैर्दयितैर्हरिः।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् ॥३॥

मूलम्

स्मृतः सम्पूजितो धूपपुष्पाद्यैर्दयितैर्हरिः।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् ॥३॥

विश्वास-प्रस्तुतिः

उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥४॥

मूलम्

उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥४॥

विश्वास-प्रस्तुतिः

एकरात्रं द्विरात्रं वा त्रिरात्रमथवापरम्।
उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः ॥५॥

मूलम्

एकरात्रं द्विरात्रं वा त्रिरात्रमथवापरम्।
उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः ॥५॥

विश्वास-प्रस्तुतिः

तन्नामजापी तत्कर्मरतिस्तद्गतमानसः।
निष्कामो दैत्य स ब्रह्म परमाप्नोत्यसंशयम् ॥६॥

मूलम्

तन्नामजापी तत्कर्मरतिस्तद्गतमानसः।
निष्कामो दैत्य स ब्रह्म परमाप्नोत्यसंशयम् ॥६॥

विश्वास-प्रस्तुतिः

यं च काममभिध्यायन्केशवार्पितमानसः।
उपोष्यति तमाप्नोति प्रसन्ने गरुडध्वजे ॥७॥

मूलम्

यं च काममभिध्यायन्केशवार्पितमानसः।
उपोष्यति तमाप्नोति प्रसन्ने गरुडध्वजे ॥७॥

विश्वास-प्रस्तुतिः

कथ्यते च पुरा विप्रः पुलस्त्यो ब्रह्मवादिना।
दाल्भ्येन पृष्टोऽकथयद्यथैतदरिसूदन ॥८॥

मूलम्

कथ्यते च पुरा विप्रः पुलस्त्यो ब्रह्मवादिना।
दाल्भ्येन पृष्टोऽकथयद्यथैतदरिसूदन ॥८॥

दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथा मुने।
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् ॥९॥

मूलम्

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथा मुने।
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् ॥९॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

अनाराध्य जगन्नाथं सर्वधातारमच्युतम्।
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् ॥१०॥

मूलम्

अनाराध्य जगन्नाथं सर्वधातारमच्युतम्।
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् ॥१०॥

विश्वास-प्रस्तुतिः

विषयग्राहि वै यस्य न चित्तं केशवार्पितम्।
स कथं पापपङ्काङ्की नरो यास्यति सद्गतिम् ॥११॥

मूलम्

विषयग्राहि वै यस्य न चित्तं केशवार्पितम्।
स कथं पापपङ्काङ्की नरो यास्यति सद्गतिम् ॥११॥

विश्वास-प्रस्तुतिः

यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि।
तदाराधय सर्वेशं जगद्धातारमच्युतम् ॥१२॥

मूलम्

यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि।
तदाराधय सर्वेशं जगद्धातारमच्युतम् ॥१२॥

विश्वास-प्रस्तुतिः

पुष्पैः सुगन्धैर्हृद्यैश्च धूपैः सागरुचन्दनैः।
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः ॥१३॥

मूलम्

पुष्पैः सुगन्धैर्हृद्यैश्च धूपैः सागरुचन्दनैः।
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः ॥१३॥

विश्वास-प्रस्तुतिः

यदि संसारनिर्वेदादभिवाञ्छसि सद्गतिम्।
तदाराधय गोविन्दं यच्चेष्टं तव चेतसि ॥१४॥

मूलम्

यदि संसारनिर्वेदादभिवाञ्छसि सद्गतिम्।
तदाराधय गोविन्दं यच्चेष्टं तव चेतसि ॥१४॥

विश्वास-प्रस्तुतिः

पुष्पाणि यदि ते न स्युः शस्तं पादपपल्लवैः।
दूर्वाङ्कुरैरपि ब्रह्मंस्तदभावेऽर्चयाच्युतम् ॥१५॥

मूलम्

पुष्पाणि यदि ते न स्युः शस्तं पादपपल्लवैः।
दूर्वाङ्कुरैरपि ब्रह्मंस्तदभावेऽर्चयाच्युतम् ॥१५॥

विश्वास-प्रस्तुतिः

सुगन्धिपुष्पदीपाद्यैर्यः कुर्यात्केशवालये।
सर्वतीर्थफलं तस्य सम्भवेत्केशवार्चया।
सबाह्याभ्यन्तरं यस्तु मार्जयेदच्युतालयम्।
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत्।

मूलम्

सुगन्धिपुष्पदीपाद्यैर्यः कुर्यात्केशवालये।
सर्वतीर्थफलं तस्य सम्भवेत्केशवार्चया।
सबाह्याभ्यन्तरं यस्तु मार्जयेदच्युतालयम्।
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत्।

विश्वास-प्रस्तुतिः

पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमच्युतः।
पूजितस्तुष्टिमतुलां भक्त्यायात्येकचेतसाम् ॥१६॥

मूलम्

पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमच्युतः।
पूजितस्तुष्टिमतुलां भक्त्यायात्येकचेतसाम् ॥१६॥

विश्वास-प्रस्तुतिः

यः सदायतने विष्णोः कुरुते मार्जनक्रियाम्।
स पांसुभूमेर्देहाच्च सर्वपापं व्यपोहति ॥१७॥

मूलम्

यः सदायतने विष्णोः कुरुते मार्जनक्रियाम्।
स पांसुभूमेर्देहाच्च सर्वपापं व्यपोहति ॥१७॥

विश्वास-प्रस्तुतिः

यावन्त्यः पांसुकणिका मार्ज्यन्ते केशवालये।
दिनानि दिवि तावन्ति तिष्ठत्यस्तमलो नरः ॥१८॥

मूलम्

यावन्त्यः पांसुकणिका मार्ज्यन्ते केशवालये।
दिनानि दिवि तावन्ति तिष्ठत्यस्तमलो नरः ॥१८॥

विश्वास-प्रस्तुतिः

अहन्यहनि यत्पापं कुरुते द्विजसत्तम।
गोचर्ममात्रं सम्मार्ज्य हन्ति तत्केशवालये ॥१९॥

मूलम्

अहन्यहनि यत्पापं कुरुते द्विजसत्तम।
गोचर्ममात्रं सम्मार्ज्य हन्ति तत्केशवालये ॥१९॥

विश्वास-प्रस्तुतिः

यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः।
सोऽपि लोकं समासाद्य मोदते च शतक्रतोः ॥२०॥

मूलम्

यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः।
सोऽपि लोकं समासाद्य मोदते च शतक्रतोः ॥२०॥

विश्वास-प्रस्तुतिः

मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा।
उपलेपनकृद्याति विमानं मणिचित्रितम् ॥२१॥

मूलम्

मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा।
उपलेपनकृद्याति विमानं मणिचित्रितम् ॥२१॥

विश्वास-प्रस्तुतिः

उदकाभ्युक्षणं विष्णोर्यः करोति तथा गृहे।
सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः ॥२२॥

मूलम्

उदकाभ्युक्षणं विष्णोर्यः करोति तथा गृहे।
सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः ॥२२॥

विश्वास-प्रस्तुतिः

पुष्पप्रकरमत्यर्थं सुगन्धं केशवालये।
उपलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् ॥२३॥

मूलम्

पुष्पप्रकरमत्यर्थं सुगन्धं केशवालये।
उपलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् ॥२३॥

विश्वास-प्रस्तुतिः

विमानमतिविद्योति सर्वरत्नमयं दिवि।
समाप्नोति नरो दत्त्वा दीपकं केशवालये ॥२४॥

मूलम्

विमानमतिविद्योति सर्वरत्नमयं दिवि।
समाप्नोति नरो दत्त्वा दीपकं केशवालये ॥२४॥

विश्वास-प्रस्तुतिः

यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः।
ध्वजं तु विष्णवे दद्यात्सममेतत्फलं द्विज ॥२५॥

मूलम्

यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः।
ध्वजं तु विष्णवे दद्यात्सममेतत्फलं द्विज ॥२५॥

विश्वास-प्रस्तुतिः

विधुन्वन्हन्ति वातेन दातुरज्ञानतः कृतम्।
पापं केतुर्गृहे विष्णोर्दिवारात्रमसंशयम् ॥२६॥

मूलम्

विधुन्वन्हन्ति वातेन दातुरज्ञानतः कृतम्।
पापं केतुर्गृहे विष्णोर्दिवारात्रमसंशयम् ॥२६॥

विश्वास-प्रस्तुतिः

गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम्।
गान्धर्वैर्गीतनृत्यैः स विमानस्थो निषेव्यते ॥२७॥

मूलम्

गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम्।
गान्धर्वैर्गीतनृत्यैः स विमानस्थो निषेव्यते ॥२७॥

विश्वास-प्रस्तुतिः

जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम्।
प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः ॥२८॥

मूलम्

जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम्।
प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः ॥२८॥

उपोषितः पूजितो वा दृष्टो वा नमितोऽपि वा।
प्रदम्भ हरते पापं को न सेवेद्धरिं ततः।
वेदवादक्रियायज्ञस्नानतीर्थफलं परम्।
अष्टाङ्गप्रणिपातेन प्रणिपत्य हरिं लभेत्।
प्रगम्य हृदा शिरसा पादपद्मे महीतले।
निष्कल्मषो भवेत्सद्यो न नाटी पादपांसुना।
एकस्य कृष्णस्य क्राजतः प्रणामो दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधैः पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय।

विश्वास-प्रस्तुतिः

एवं देवेश्वरो भक्त्या येन विष्णुरुपासितः।
स प्राप्नोति गतिं श्लाघ्यां यां यामिच्छति चेतसा ॥२९॥

मूलम्

एवं देवेश्वरो भक्त्या येन विष्णुरुपासितः।
स प्राप्नोति गतिं श्लाघ्यां यां यामिच्छति चेतसा ॥२९॥

विश्वास-प्रस्तुतिः

देवत्वं मनुजैःकैश्चिद्गन्धर्वत्वं तथापरैः।
विद्याधरत्वमपरैराराध्याप्तं जनार्दनम् ॥३०॥

मूलम्

देवत्वं मनुजैःकैश्चिद्गन्धर्वत्वं तथापरैः।
विद्याधरत्वमपरैराराध्याप्तं जनार्दनम् ॥३०॥

विश्वास-प्रस्तुतिः

शक्रः क्रतुशतेनेशमाराध्य गरुडध्वजम्।
देवेन्द्रत्वं गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ॥३१॥

मूलम्

शक्रः क्रतुशतेनेशमाराध्य गरुडध्वजम्।
देवेन्द्रत्वं गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ॥३१॥

विश्वास-प्रस्तुतिः

देवेभ्योऽपि हि पूज्यस्तु स्वगुरुर्ब्रह्मचारिणः।
तस्यापि यज्ञपुरुषो विष्णुः पूज्यो द्विजोत्तम ॥३२॥

मूलम्

देवेभ्योऽपि हि पूज्यस्तु स्वगुरुर्ब्रह्मचारिणः।
तस्यापि यज्ञपुरुषो विष्णुः पूज्यो द्विजोत्तम ॥३२॥

विश्वास-प्रस्तुतिः

स्त्रियश्च भर्तारमृते पूज्यमन्यन्न दैवतम्।
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ॥३३॥

मूलम्

स्त्रियश्च भर्तारमृते पूज्यमन्यन्न दैवतम्।
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ॥३३॥

विश्वास-प्रस्तुतिः

वैखानसानामाराध्यस्तपोभिर्मधुसूदनः।
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ॥३४॥

मूलम्

वैखानसानामाराध्यस्तपोभिर्मधुसूदनः।
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ॥३४॥

विश्वास-प्रस्तुतिः

एवं सर्वाश्रमाणां हि वासुदेवः परायणम्।
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् ॥३५॥

मूलम्

एवं सर्वाश्रमाणां हि वासुदेवः परायणम्।
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् ॥३५॥

विश्वास-प्रस्तुतिः

शृणुष्व गदतः काम्यामुपवासांस्तथापरान्।
तत्तमाश्रित्य यान्कामान्कुर्वीतेप्सितमात्मनः ॥३६॥

मूलम्

शृणुष्व गदतः काम्यामुपवासांस्तथापरान्।
तत्तमाश्रित्य यान्कामान्कुर्वीतेप्सितमात्मनः ॥३६॥

विश्वास-प्रस्तुतिः

-———————-एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः।
जपेत्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ॥३७॥

मूलम्

-———————-एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः।
जपेत्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ॥३७॥

विश्वास-प्रस्तुतिः

देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः।
प्रातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ॥३८॥

मूलम्

देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः।
प्रातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ॥३८॥

पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः।

विश्वास-प्रस्तुतिः

नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः।
इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः ॥३९॥

मूलम्

नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः।
इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः ॥३९॥

विश्वास-प्रस्तुतिः

कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव।
संसारान्तर्निमग्नानां प्रसीद मधुसूदन ॥४०॥

मूलम्

कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव।
संसारान्तर्निमग्नानां प्रसीद मधुसूदन ॥४०॥

एवं प्रसाद्योपावासं कृत्वा नियतमानसः।

विश्वास-प्रस्तुतिः

पूर्वाह्न एव चान्येद्युर्गव्यं सम्प्रास्य वै सकृत्।
स्नातोऽर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ॥४१॥

मूलम्

पूर्वाह्न एव चान्येद्युर्गव्यं सम्प्रास्य वै सकृत्।
स्नातोऽर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ॥४१॥

विश्वास-प्रस्तुतिः

वारिधारात्रयं चैव विक्षिपेद्देवपादयोः।
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयेत् ॥४२॥

मूलम्

वारिधारात्रयं चैव विक्षिपेद्देवपादयोः।
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयेत् ॥४२॥

विश्वास-प्रस्तुतिः

मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः।
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुते ॥४३॥

मूलम्

मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः।
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुते ॥४३॥

विश्वास-प्रस्तुतिः

आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
तथैवाश्वयुजे देवमनेन विधिना नरः ॥४४॥

मूलम्

आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
तथैवाश्वयुजे देवमनेन विधिना नरः ॥४४॥

विश्वास-प्रस्तुतिः

उपोष्य सम्पूज्य तथा केशवेति च कीर्तयेत्।
गोमूत्रप्राशनात्पूर्वं स्वर्गलोकगतिं व्रजेत् ॥४५॥

मूलम्

उपोष्य सम्पूज्य तथा केशवेति च कीर्तयेत्।
गोमूत्रप्राशनात्पूर्वं स्वर्गलोकगतिं व्रजेत् ॥४५॥

विश्वास-प्रस्तुतिः

आराधितस्य जगतामीश्वरस्याव्यायात्मनः।
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ॥४६॥

मूलम्

आराधितस्य जगतामीश्वरस्याव्यायात्मनः।
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ॥४६॥

विश्वास-प्रस्तुतिः

क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम्।
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ॥४७॥

मूलम्

क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम्।
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ॥४७॥

विश्वास-प्रस्तुतिः

तेनैव विधिना ब्रह्मन्विष्णोर्नाम प्रकीर्तयेत्।
स याति विष्णुसालोक्यं विष्णुं स्मरति च क्षये ॥४८॥

मूलम्

तेनैव विधिना ब्रह्मन्विष्णोर्नाम प्रकीर्तयेत्।
स याति विष्णुसालोक्यं विष्णुं स्मरति च क्षये ॥४८॥

विश्वास-प्रस्तुतिः

प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेच्छया।
चातुर्मास्ये च सम्पूर्णे पुण्यं श्रवणकीर्तनम् ॥४९॥

मूलम्

प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेच्छया।
चातुर्मास्ये च सम्पूर्णे पुण्यं श्रवणकीर्तनम् ॥४९॥

विश्वास-प्रस्तुतिः

कथां वा वासुदेवस्य तद्गीतीर्वापि कारयेत्।
एवमेतां गतिं श्रेष्ठां देवनामानुकीर्तनात् ॥५०॥

मूलम्

कथां वा वासुदेवस्य तद्गीतीर्वापि कारयेत्।
एवमेतां गतिं श्रेष्ठां देवनामानुकीर्तनात् ॥५०॥

विश्वास-प्रस्तुतिः

कथितं पारणं यत्ते कार्ष्णं मासचतुष्टयम्।
आधिपत्यं तथा भोगांस्तेन प्राप्नोति मानुषान् ॥५१॥

मूलम्

कथितं पारणं यत्ते कार्ष्णं मासचतुष्टयम्।
आधिपत्यं तथा भोगांस्तेन प्राप्नोति मानुषान् ॥५१॥

विश्वास-प्रस्तुतिः

द्वितीयेन तथा भोगानैन्द्रान्प्राप्नोति मानवः।
विष्णोर्लोकं तृतीयेन पारणेन तथाप्नुयात् ॥५२॥

मूलम्

द्वितीयेन तथा भोगानैन्द्रान्प्राप्नोति मानवः।
विष्णोर्लोकं तृतीयेन पारणेन तथाप्नुयात् ॥५२॥

विश्वास-प्रस्तुतिः

एवमेतत्समाख्यातं गतिप्रापकमुत्तमम्।
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ॥५३॥

मूलम्

एवमेतत्समाख्यातं गतिप्रापकमुत्तमम्।
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ॥५३॥

विश्वास-प्रस्तुतिः

सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः।
उपोष्य च तथा नारी प्राप्नोति त्रिविधां गतिम् ॥५४॥

मूलम्

सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः।
उपोष्य च तथा नारी प्राप्नोति त्रिविधां गतिम् ॥५४॥

विश्वास-प्रस्तुतिः

एषा धन्या पापहरा तिथिर्नित्यमुपासिता।
आराधनाय शिष्टैषा देवदेवस्य चक्रिणः ॥५५॥

मूलम्

एषा धन्या पापहरा तिथिर्नित्यमुपासिता।
आराधनाय शिष्टैषा देवदेवस्य चक्रिणः ॥५५॥

इति विष्णुधर्मेषु सुगतिद्वादशी।