अथ तृतीयोऽध्यायः।
शौनक उवाच।
विश्वास-प्रस्तुतिः
राज्यस्थस्तु महीपालः प्रणिपत्य पुरोहितम्।
वसिष्ठं परिपप्रच्छ विष्णोराराधनं प्रति ॥१॥
मूलम्
राज्यस्थस्तु महीपालः प्रणिपत्य पुरोहितम्।
वसिष्ठं परिपप्रच्छ विष्णोराराधनं प्रति ॥१॥
विश्वास-प्रस्तुतिः
देवदेवेन भगवन्नादिष्टोऽसि महात्मना।
क्रियायोगाश्रितं सर्वं व्याख्यास्यति भवान्किल ॥२॥
मूलम्
देवदेवेन भगवन्नादिष्टोऽसि महात्मना।
क्रियायोगाश्रितं सर्वं व्याख्यास्यति भवान्किल ॥२॥
विश्वास-प्रस्तुतिः
स त्वां पृच्छाम्यहं सर्वं क्रियायोगेन केशवम्।
सन्तोषयितुमीशानं यथा शक्ष्यामि तद्वद ॥३॥
मूलम्
स त्वां पृच्छाम्यहं सर्वं क्रियायोगेन केशवम्।
सन्तोषयितुमीशानं यथा शक्ष्यामि तद्वद ॥३॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
देवप्रसादादखिला ममापि स्मृतिरागता।
ज्ञानमेतदशेषं ते कथयामि निबोध तत् ॥४॥
मूलम्
देवप्रसादादखिला ममापि स्मृतिरागता।
ज्ञानमेतदशेषं ते कथयामि निबोध तत् ॥४॥
भक्तिमानभवद्दैत्यो हिरण्यकशिपोः सुतः।
विश्वास-प्रस्तुतिः
नारायणे महाप्रज्ञः सर्वलोकपरायणे।
स पप्रच्छ भृगुश्रेष्ठं शुक्रमात्मपुरोहितम् ॥५॥
मूलम्
नारायणे महाप्रज्ञः सर्वलोकपरायणे।
स पप्रच्छ भृगुश्रेष्ठं शुक्रमात्मपुरोहितम् ॥५॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
भगवन्नृसिंहरूपस्य विष्णोस्तातं जिघांसतः।
दृष्टं देहे मया सर्वं त्रैलोक्यं भूर्भुवादिकम् ॥६॥
मूलम्
भगवन्नृसिंहरूपस्य विष्णोस्तातं जिघांसतः।
दृष्टं देहे मया सर्वं त्रैलोक्यं भूर्भुवादिकम् ॥६॥
विश्वास-प्रस्तुतिः
ब्रह्मा प्रजापतिश्चेन्द्रोरुद्रैः पशुपतिः सह।
वसवोऽष्टौ तथादित्या द्वादशाहःक्षपा मही ॥७॥
मूलम्
ब्रह्मा प्रजापतिश्चेन्द्रोरुद्रैः पशुपतिः सह।
वसवोऽष्टौ तथादित्या द्वादशाहःक्षपा मही ॥७॥
विश्वास-प्रस्तुतिः
दिशो नभस्तारकौघं नक्षत्रग्रहसङ्कुलम्।
अश्विनौ मरुतः साध्या विश्वेदेवास्तथ र्षयः ॥८॥
मूलम्
दिशो नभस्तारकौघं नक्षत्रग्रहसङ्कुलम्।
अश्विनौ मरुतः साध्या विश्वेदेवास्तथ र्षयः ॥८॥
वर्षाचलास्तथा नद्यः सप्त सप्त कुलाचलाः।
विश्वास-प्रस्तुतिः
समुद्राः सप्त ऋतवः कान्ताराणि वनानि च।
नगरग्रामतरुभिः समावेतं च भूतलम् ॥९॥
मूलम्
समुद्राः सप्त ऋतवः कान्ताराणि वनानि च।
नगरग्रामतरुभिः समावेतं च भूतलम् ॥९॥
विश्वास-प्रस्तुतिः
एतच्चान्यच्च यत्किञ्चिद्देवर्षिपितृमानवम्।
सतिर्यगूर्ध्वपातालं तस्य दृष्टं तनौ मया ॥१०॥
मूलम्
एतच्चान्यच्च यत्किञ्चिद्देवर्षिपितृमानवम्।
सतिर्यगूर्ध्वपातालं तस्य दृष्टं तनौ मया ॥१०॥
विश्वास-प्रस्तुतिः
सोऽहं तमजरं देवं दुष्टदैत्यनिवर्हणम्।
आराधयितुमिच्छामि भगवंस्त्वदनुज्ञया ॥११॥
मूलम्
सोऽहं तमजरं देवं दुष्टदैत्यनिवर्हणम्।
आराधयितुमिच्छामि भगवंस्त्वदनुज्ञया ॥११॥
विश्वास-प्रस्तुतिः
अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति।
तन्ममोपदिशाद्य त्वं महदाराधनं हरेः ॥१२॥
मूलम्
अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति।
तन्ममोपदिशाद्य त्वं महदाराधनं हरेः ॥१२॥
शुक्र उवाच।
विश्वास-प्रस्तुतिः
अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः।
आराधनाय दैत्येन्द्रयत्ते तत्प्रवणं मनः ॥१३॥
मूलम्
अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः।
आराधनाय दैत्येन्द्रयत्ते तत्प्रवणं मनः ॥१३॥
विश्वास-प्रस्तुतिः
यदि देवपतिं विष्णुमाराधयितुमिच्छसि।
भगवन्तमनाद्यन्तं भव भागवतोऽसुर ॥१४॥
मूलम्
यदि देवपतिं विष्णुमाराधयितुमिच्छसि।
भगवन्तमनाद्यन्तं भव भागवतोऽसुर ॥१४॥
विश्वास-प्रस्तुतिः
न ह्यभागवतैर्विष्णुर्ज्ञातुं स्तोतुं च तत्त्वतः।
द्रष्टुं वा शक्यते मर्त्यैः प्रवेष्टुं कुत एव हि ॥१५॥
मूलम्
न ह्यभागवतैर्विष्णुर्ज्ञातुं स्तोतुं च तत्त्वतः।
द्रष्टुं वा शक्यते मर्त्यैः प्रवेष्टुं कुत एव हि ॥१५॥
विश्वास-प्रस्तुतिः
जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः।
भवन्ति वै भागवतास्ते विष्णुं प्रविशन्ति च ॥१६॥
मूलम्
जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः।
भवन्ति वै भागवतास्ते विष्णुं प्रविशन्ति च ॥१६॥
विश्वास-प्रस्तुतिः
अनेकजन्मसंसारचिते पापसमुच्चये।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥१७॥
मूलम्
अनेकजन्मसंसारचिते पापसमुच्चये।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥१७॥
विश्वास-प्रस्तुतिः
प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति।
यो नरस्तं विजानीयादसुरांशसमुद्भवम् ॥१८॥
मूलम्
प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति।
यो नरस्तं विजानीयादसुरांशसमुद्भवम् ॥१८॥
विश्वास-प्रस्तुतिः
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता।
जायते विष्णुमायाम्भःपतितानां दुरात्मनाम् ॥१९॥
मूलम्
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता।
जायते विष्णुमायाम्भःपतितानां दुरात्मनाम् ॥१९॥
विश्वास-प्रस्तुतिः
यदा पापक्षयः पुंसां तदा वेदद्विजातिषु।
विष्णौ च यज्ञपुरुषे श्रद्धा भवति ते यथा ॥२०॥
मूलम्
यदा पापक्षयः पुंसां तदा वेदद्विजातिषु।
विष्णौ च यज्ञपुरुषे श्रद्धा भवति ते यथा ॥२०॥
विश्वास-प्रस्तुतिः
यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः।
भवन्ति ते भागवतास्तदा दैत्यपते नराः ॥२१॥
मूलम्
यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः।
भवन्ति ते भागवतास्तदा दैत्यपते नराः ॥२१॥
विश्वास-प्रस्तुतिः
भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे।
हस्तावलम्बदो ह्येको भक्तिप्रीतो जनार्दनः ॥२२॥
मूलम्
भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे।
हस्तावलम्बदो ह्येको भक्तिप्रीतो जनार्दनः ॥२२॥
विश्वास-प्रस्तुतिः
स त्वं भागवतो भूत्वा सर्वपापहरं हरिम्।
आराधय परं भक्त्या प्रीतिमेष्यति केशवः ॥२३॥
मूलम्
स त्वं भागवतो भूत्वा सर्वपापहरं हरिम्।
आराधय परं भक्त्या प्रीतिमेष्यति केशवः ॥२३॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
किंलक्षणा भागवता भवन्ति पुरुषा गुरो।
यच्च भागवतैः कार्यं तन्मे कथय भार्गव ॥२४॥
मूलम्
किंलक्षणा भागवता भवन्ति पुरुषा गुरो।
यच्च भागवतैः कार्यं तन्मे कथय भार्गव ॥२४॥
शुक्र उवाच।
विश्वास-प्रस्तुतिः
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः।
भावभक्तश्च गोविन्दे दैत्य भागवतो हि सः ॥२५॥
मूलम्
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः।
भावभक्तश्च गोविन्दे दैत्य भागवतो हि सः ॥२५॥
विश्वास-प्रस्तुतिः
यो ब्राह्मणांश्च वेदांश्च नित्यमेन्वानुमंस्यति।
न च द्रोग्धा परं वादे दैत्य भागवतो हि सः ॥२६॥
मूलम्
यो ब्राह्मणांश्च वेदांश्च नित्यमेन्वानुमंस्यति।
न च द्रोग्धा परं वादे दैत्य भागवतो हि सः ॥२६॥
विश्वास-प्रस्तुतिः
सर्वान्देवान्हरिं वेत्ति सर्वलोकांश्च केशवम्।
तेभ्यश्च नान्यमात्मानं दैत्य भागवतो हि सः ॥२७॥
मूलम्
सर्वान्देवान्हरिं वेत्ति सर्वलोकांश्च केशवम्।
तेभ्यश्च नान्यमात्मानं दैत्य भागवतो हि सः ॥२७॥
विश्वास-प्रस्तुतिः
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान्।
तरुपाषाणकष्ठादि भूम्यम्भोगगनं दिशः ॥२८॥
मूलम्
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान्।
तरुपाषाणकष्ठादि भूम्यम्भोगगनं दिशः ॥२८॥
विश्वास-प्रस्तुतिः
आत्मानं वापि देवेशान्नातिरिक्तं जनार्दनात्।
यो भजेत विजानीष्व तं वै भागवतं नरम् ॥२९॥
मूलम्
आत्मानं वापि देवेशान्नातिरिक्तं जनार्दनात्।
यो भजेत विजानीष्व तं वै भागवतं नरम् ॥२९॥
विश्वास-प्रस्तुतिः
सर्वं भगवतो भावो यद्भूतं भवसंस्थितम्।
इति यो वै विजानाति स तु भागवतो नरः ॥३०॥
मूलम्
सर्वं भगवतो भावो यद्भूतं भवसंस्थितम्।
इति यो वै विजानाति स तु भागवतो नरः ॥३०॥
विश्वास-प्रस्तुतिः
भवभीतिं हरत्येष भक्तिभावेन भावितः।
भगवानिति भावो यः स तु भागवतो नरः ॥३१॥
मूलम्
भवभीतिं हरत्येष भक्तिभावेन भावितः।
भगवानिति भावो यः स तु भागवतो नरः ॥३१॥
विश्वास-प्रस्तुतिः
भावं न कुरुते यस्तु सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा स तु भागवतो नरः ॥३२॥
मूलम्
भावं न कुरुते यस्तु सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा स तु भागवतो नरः ॥३२॥
विश्वास-प्रस्तुतिः
बाह्यार्थनिरपेक्षो यो भक्तो भगवतः क्रियाम्।
भावेन निष्पादयति ज्ञेयो भागवतस्तु सः ॥३३॥
मूलम्
बाह्यार्थनिरपेक्षो यो भक्तो भगवतः क्रियाम्।
भावेन निष्पादयति ज्ञेयो भागवतस्तु सः ॥३३॥
विश्वास-प्रस्तुतिः
नारयो यस्य न स्निग्धा न चोदासी न वृत्तयः।
पश्यतः सर्वमेवेदं विष्णुं भागवतो हि सः ॥३४॥
मूलम्
नारयो यस्य न स्निग्धा न चोदासी न वृत्तयः।
पश्यतः सर्वमेवेदं विष्णुं भागवतो हि सः ॥३४॥
विश्वास-प्रस्तुतिः
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः।
तां गतिं न नरा यान्ति यां वै भागवता गताः ॥३५॥
मूलम्
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः।
तां गतिं न नरा यान्ति यां वै भागवता गताः ॥३५॥
विश्वास-प्रस्तुतिः
योगच्युतैर्भागवतैर्देवराजः शतक्रतुः।
अर्वाङ्निरीक्ष्यते यज्ञी किमु ये योगपारगाः ॥३६॥
मूलम्
योगच्युतैर्भागवतैर्देवराजः शतक्रतुः।
अर्वाङ्निरीक्ष्यते यज्ञी किमु ये योगपारगाः ॥३६॥
विश्वास-प्रस्तुतिः
यज्ञनिष्पत्तये वेदा यज्ञो यज्ञपतेः कृते।
तत्तोषणाय भावेन तस्माद्भागवतो भव ॥३७॥
मूलम्
यज्ञनिष्पत्तये वेदा यज्ञो यज्ञपतेः कृते।
तत्तोषणाय भावेन तस्माद्भागवतो भव ॥३७॥
विश्वास-प्रस्तुतिः
येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः।
दैत्येश्वर कृतार्थत्वाच्छ्लाघ्यो भागवतो हि सः ॥३८॥
मूलम्
येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः।
दैत्येश्वर कृतार्थत्वाच्छ्लाघ्यो भागवतो हि सः ॥३८॥
विश्वास-प्रस्तुतिः
अपि नः स कुले धन्यो जायते कुलपावनः।
भगवान्भक्तिभावेन येन विष्णुरुपासितः ॥३९॥
मूलम्
अपि नः स कुले धन्यो जायते कुलपावनः।
भगवान्भक्तिभावेन येन विष्णुरुपासितः ॥३९॥
विश्वास-प्रस्तुतिः
यः कारयति देवार्चां हृदयालम्बनं हरेः।
स नरो विष्णुसालोक्यमुपैति धूतकल्मषः ॥४०॥
मूलम्
यः कारयति देवार्चां हृदयालम्बनं हरेः।
स नरो विष्णुसालोक्यमुपैति धूतकल्मषः ॥४०॥
विश्वास-प्रस्तुतिः
यश्च देवालयं भक्त्या विष्णोः कारयति स्वयम्।
स सप्तपुरुषांल्लोकान्विष्णोर्नयति मानवः ॥४१॥
मूलम्
यश्च देवालयं भक्त्या विष्णोः कारयति स्वयम्।
स सप्तपुरुषांल्लोकान्विष्णोर्नयति मानवः ॥४१॥
विश्वास-प्रस्तुतिः
यावन्त्यब्दानि देवार्चा हरेस्तिष्ठति मन्दिरे।
तावद्वर्षसहस्राणि विष्णुलोके स मोदते ॥४२॥
मूलम्
यावन्त्यब्दानि देवार्चा हरेस्तिष्ठति मन्दिरे।
तावद्वर्षसहस्राणि विष्णुलोके स मोदते ॥४२॥
विश्वास-प्रस्तुतिः
देवार्चा लक्षणोपेता तद्गृहं सततं दिवि।
निष्कामं च मनो यस्य स यात्यक्षरसात्म्यताम् ॥४३॥
मूलम्
देवार्चा लक्षणोपेता तद्गृहं सततं दिवि।
निष्कामं च मनो यस्य स यात्यक्षरसात्म्यताम् ॥४३॥
विश्वास-प्रस्तुतिः
पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान्।
प्रयच्छति हृषीकेशे तद्भावगतमानसः ॥४४॥
मूलम्
पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान्।
प्रयच्छति हृषीकेशे तद्भावगतमानसः ॥४४॥
विश्वास-प्रस्तुतिः
धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम्।
दीपावल्युपहारांश्च यच्चाभीष्टमथात्मनः ॥४५॥
मूलम्
धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम्।
दीपावल्युपहारांश्च यच्चाभीष्टमथात्मनः ॥४५॥
विश्वास-प्रस्तुतिः
नरः सोऽनुदिनं यज्ञं करोत्याराधनं हरेः।
यज्ञेशो भगवान्विष्णुर्मखैरपि हि तोष्यते ॥४६॥
मूलम्
नरः सोऽनुदिनं यज्ञं करोत्याराधनं हरेः।
यज्ञेशो भगवान्विष्णुर्मखैरपि हि तोष्यते ॥४६॥
विश्वास-प्रस्तुतिः
बहूपकरणा यज्ञा नानासम्भारविस्तराः।
प्राप्यन्ते ते धनयुतैर्मनुष्यैर्नाल्पसञ्चयैः ॥४७॥
मूलम्
बहूपकरणा यज्ञा नानासम्भारविस्तराः।
प्राप्यन्ते ते धनयुतैर्मनुष्यैर्नाल्पसञ्चयैः ॥४७॥
विश्वास-प्रस्तुतिः
भक्त्या च पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि।
हरेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥४८॥
मूलम्
भक्त्या च पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि।
हरेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥४८॥
विश्वास-प्रस्तुतिः
यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम्।
दयितं भूषणं यच्च ये च कौशेयवाससी ॥४९॥
मूलम्
यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम्।
दयितं भूषणं यच्च ये च कौशेयवाससी ॥४९॥
विश्वास-प्रस्तुतिः
यानि चाभ्यवहाराणि भक्ष्याणि च फलानि च।
प्रयच्छ तानि गोविन्दे भवेथाश्चैव तन्मनाः ॥५०॥
मूलम्
यानि चाभ्यवहाराणि भक्ष्याणि च फलानि च।
प्रयच्छ तानि गोविन्दे भवेथाश्चैव तन्मनाः ॥५०॥
विश्वास-प्रस्तुतिः
आद्यन्तं यज्ञपुरुषं यथाशक्त्या प्रसादय।
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् ॥५१॥
मूलम्
आद्यन्तं यज्ञपुरुषं यथाशक्त्या प्रसादय।
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् ॥५१॥
विश्वास-प्रस्तुतिः
पुण्यैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा।
क्षीरेण स्नापयेदीशमच्युतं जगतः पतिम् ॥५२॥
मूलम्
पुण्यैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा।
क्षीरेण स्नापयेदीशमच्युतं जगतः पतिम् ॥५२॥
विश्वास-प्रस्तुतिः
दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः।
प्रयास्यस्यसुरश्रेष्ठ निर्वृतिं चापि शाश्वतीम् ॥५३॥
मूलम्
दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः।
प्रयास्यस्यसुरश्रेष्ठ निर्वृतिं चापि शाश्वतीम् ॥५३॥
विश्वास-प्रस्तुतिः
स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः।
मनसश्चैकतायोगादाराधय जनार्दनम् ॥५४॥
मूलम्
स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः।
मनसश्चैकतायोगादाराधय जनार्दनम् ॥५४॥
विश्वास-प्रस्तुतिः
आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः।
हैहयाः पञ्चपञ्चाशदमृतत्वमुपागताः ॥५५॥
मूलम्
आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः।
हैहयाः पञ्चपञ्चाशदमृतत्वमुपागताः ॥५५॥
विश्वास-प्रस्तुतिः
स त्वमेभिः प्रकारैस्तमुपवासैश्च केशवम्।
तोषयाद्यो हि तुष्टोऽसौ विष्णुर्द्वन्द्वप्रशान्तिदः ॥५६॥
मूलम्
स त्वमेभिः प्रकारैस्तमुपवासैश्च केशवम्।
तोषयाद्यो हि तुष्टोऽसौ विष्णुर्द्वन्द्वप्रशान्तिदः ॥५६॥
इति विष्णुधर्मेषु शुक्रप्रह्लादसंवादः।