अथ द्वितीयोऽध्यायः।
शौनक उवाच।
विश्वास-प्रस्तुतिः
श्रूयतां कुरुशार्दूल संवादोऽयमनुत्तमः।
अम्बरीषस्य राजर्षेः सह देवेन चक्रिणा ॥१॥
मूलम्
श्रूयतां कुरुशार्दूल संवादोऽयमनुत्तमः।
अम्बरीषस्य राजर्षेः सह देवेन चक्रिणा ॥१॥
विश्वास-प्रस्तुतिः
अम्बरीषो महीपालः पालयन्नेव मेदिनीम्।
उद्विग्न एव द्वन्द्वान्तमभीप्सुः पुरुषर्षभः ॥२॥
मूलम्
अम्बरीषो महीपालः पालयन्नेव मेदिनीम्।
उद्विग्न एव द्वन्द्वान्तमभीप्सुः पुरुषर्षभः ॥२॥
विश्वास-प्रस्तुतिः
देवदेवात्स गोविन्दादभीप्सुर्द्वन्द्वसङ्क्षयम्।
तपस्तेपे निराहारो गृणन्ब्रह्म सनातनम् ॥३॥
मूलम्
देवदेवात्स गोविन्दादभीप्सुर्द्वन्द्वसङ्क्षयम्।
तपस्तेपे निराहारो गृणन्ब्रह्म सनातनम् ॥३॥
विश्वास-प्रस्तुतिः
तस्य कालेन महता भक्तिमुद्वहतः पराम्।
तुतोष भगवान्विष्णुः सर्वलोकपतिः प्रभुः ॥४॥
मूलम्
तस्य कालेन महता भक्तिमुद्वहतः पराम्।
तुतोष भगवान्विष्णुः सर्वलोकपतिः प्रभुः ॥४॥
विश्वास-प्रस्तुतिः
स रूपमैन्द्रमास्थाय तमुवाच महीपतिम्।
मेघगम्भीरनिर्घोषो वारणेन्द्रगतिस्तदा ॥५॥
मूलम्
स रूपमैन्द्रमास्थाय तमुवाच महीपतिम्।
मेघगम्भीरनिर्घोषो वारणेन्द्रगतिस्तदा ॥५॥
देवदेव उवाच।
विश्वास-प्रस्तुतिः
राजर्षे वद यत्कार्यं तव चेतस्यवस्थितम्।
वरदोऽहमनुप्राप्तो वरय सुव्रत ॥६॥
मूलम्
राजर्षे वद यत्कार्यं तव चेतस्यवस्थितम्।
वरदोऽहमनुप्राप्तो वरय सुव्रत ॥६॥
विश्वास-प्रस्तुतिः
एवमुक्तस्ततो राजा विलोक्य च पुरन्दरं।
प्रत्युवाचार्घ्यमुद्यम्य स्वागतं तेऽस्त्विति प्रभो ॥७॥
मूलम्
एवमुक्तस्ततो राजा विलोक्य च पुरन्दरं।
प्रत्युवाचार्घ्यमुद्यम्य स्वागतं तेऽस्त्विति प्रभो ॥७॥
विश्वास-प्रस्तुतिः
नाहमाराधयामि त्वां तव बद्धोऽयमञ्जलिः।
वरार्थिनां त्वं वरदः प्रयच्छाभिमतान्वरान् ॥८॥
मूलम्
नाहमाराधयामि त्वां तव बद्धोऽयमञ्जलिः।
वरार्थिनां त्वं वरदः प्रयच्छाभिमतान्वरान् ॥८॥
देवदेव उवाच।
विश्वास-प्रस्तुतिः
वरार्थाय त्वयान्यैश्च क्रियते नृपते तपः।
स किमर्थं त्वमस्मत्तो न गृह्णास्यभिवाञ्छितम् ॥९॥
मूलम्
वरार्थाय त्वयान्यैश्च क्रियते नृपते तपः।
स किमर्थं त्वमस्मत्तो न गृह्णास्यभिवाञ्छितम् ॥९॥
राजोवाच।
विश्वास-प्रस्तुतिः
न वरार्थमयं यत्नस्त्वत्तो देवपते मम।
विष्णोराराधनार्थाय विद्धि मां त्वं कृतोद्यमम् ॥१०॥
मूलम्
न वरार्थमयं यत्नस्त्वत्तो देवपते मम।
विष्णोराराधनार्थाय विद्धि मां त्वं कृतोद्यमम् ॥१०॥
देवदेव उवाच।
विश्वास-प्रस्तुतिः
अहं हि सर्वदेवानां त्रैलोक्यस्य तथेश्वरः।
पालयन्ति ममैवाज्ञामादित्याद्याः सदा सुराः ॥११॥
मूलम्
अहं हि सर्वदेवानां त्रैलोक्यस्य तथेश्वरः।
पालयन्ति ममैवाज्ञामादित्याद्याः सदा सुराः ॥११॥
विश्वास-प्रस्तुतिः
आदित्या वसवो रुद्रानासत्यौ मरुतां गणाः।
प्रजानां पतयः साध्या विश्वेदेवा महर्षयः ॥१२॥
मूलम्
आदित्या वसवो रुद्रानासत्यौ मरुतां गणाः।
प्रजानां पतयः साध्या विश्वेदेवा महर्षयः ॥१२॥
विश्वास-प्रस्तुतिः
कुर्वन्त्येते ममैवाज्ञां सिद्धगन्धर्वपन्नगाः।
मत्तो हि कोऽन्यो वरदः प्रतिगृह्णीष्व वाञ्छितम् ॥१३॥
मूलम्
कुर्वन्त्येते ममैवाज्ञां सिद्धगन्धर्वपन्नगाः।
मत्तो हि कोऽन्यो वरदः प्रतिगृह्णीष्व वाञ्छितम् ॥१३॥
राजोवाच।
विश्वास-प्रस्तुतिः
त्वमिन्द्रः सत्यमेवैतद्देवस्त्रिभुवनेश्वरः।
त्वयापि प्राप्तमैश्वर्यं यतस्तं तोषयाम्यहम् ॥१४॥
मूलम्
त्वमिन्द्रः सत्यमेवैतद्देवस्त्रिभुवनेश्वरः।
त्वयापि प्राप्तमैश्वर्यं यतस्तं तोषयाम्यहम् ॥१४॥
विश्वास-प्रस्तुतिः
त्रैलोक्यं तव देवेश वशे यस्य महात्मनः।
सप्तोदरे शया लोकास्तमीशं तोषयाम्यहम् ॥१५॥
मूलम्
त्रैलोक्यं तव देवेश वशे यस्य महात्मनः।
सप्तोदरे शया लोकास्तमीशं तोषयाम्यहम् ॥१५॥
विश्वास-प्रस्तुतिः
यस्य त्वममरैः सर्वैः समवेताः सुरेश्वर।
देहप्राप्तोऽन्तरस्थो वै तं नमामि जनार्दनम् ॥१६॥
मूलम्
यस्य त्वममरैः सर्वैः समवेताः सुरेश्वर।
देहप्राप्तोऽन्तरस्थो वै तं नमामि जनार्दनम् ॥१६॥
विश्वास-प्रस्तुतिः
निमेषो ब्रह्मणो रात्रिरुन्मेषो यस्य वासरः।
तमीड्यमीशमजरं प्रणतोऽस्मि जनार्दनम् ॥१७॥
मूलम्
निमेषो ब्रह्मणो रात्रिरुन्मेषो यस्य वासरः।
तमीड्यमीशमजरं प्रणतोऽस्मि जनार्दनम् ॥१७॥
विश्वास-प्रस्तुतिः
यो हर्ता जगतो देवः कर्ता पालायिता च यः।
त्रयस्यास्य च यो योनिस्तं विष्णुं तोषयाम्यहम् ॥१८॥
मूलम्
यो हर्ता जगतो देवः कर्ता पालायिता च यः।
त्रयस्यास्य च यो योनिस्तं विष्णुं तोषयाम्यहम् ॥१८॥
विश्वास-प्रस्तुतिः
हिरण्यकशिपुः पूर्वं हिरण्याक्षश्च ते रिपुः।
तवानुकम्पया येन हतौ दैत्यौ नतोऽस्मि तम् ॥१९॥
मूलम्
हिरण्यकशिपुः पूर्वं हिरण्याक्षश्च ते रिपुः।
तवानुकम्पया येन हतौ दैत्यौ नतोऽस्मि तम् ॥१९॥
विश्वास-प्रस्तुतिः
बलिनापहृतं शक्र दत्तं येन पुरा तव।
त्रैलोक्यराज्यं तं बद्ध्वा तं नमामि जनार्दनम् ॥२०॥
मूलम्
बलिनापहृतं शक्र दत्तं येन पुरा तव।
त्रैलोक्यराज्यं तं बद्ध्वा तं नमामि जनार्दनम् ॥२०॥
विश्वास-प्रस्तुतिः
प्रसीद शक्र गच्छ त्वमहमप्यत्र संस्थितः।
तपस्तप्स्ये जगन्नाथं द्रष्टुं नारायणं हरिम् ॥२१॥
मूलम्
प्रसीद शक्र गच्छ त्वमहमप्यत्र संस्थितः।
तपस्तप्स्ये जगन्नाथं द्रष्टुं नारायणं हरिम् ॥२१॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवमुक्तस्ततस्तेन शक्ररूपी जनादनः।
पुनरप्याह तं कोपात्पार्थिवं तपसि स्थितम् ॥२२॥
मूलम्
एवमुक्तस्ततस्तेन शक्ररूपी जनादनः।
पुनरप्याह तं कोपात्पार्थिवं तपसि स्थितम् ॥२२॥
विश्वास-प्रस्तुतिः
यदि मद्वचनादद्य न भवांस्त्यक्ष्यते तपः।
वज्रं ते प्रहरिष्यामि बुध्यस्वैतद्यदीच्छसि ॥२३॥
मूलम्
यदि मद्वचनादद्य न भवांस्त्यक्ष्यते तपः।
वज्रं ते प्रहरिष्यामि बुध्यस्वैतद्यदीच्छसि ॥२३॥
राजोवाच।
विश्वास-प्रस्तुतिः
नाप्यल्पमपराधं ते करोमि त्रिदशेश्वर।
तथापि वधयोग्यं मां मन्यसे चेत्क्षिपायुधम् ॥२४॥
मूलम्
नाप्यल्पमपराधं ते करोमि त्रिदशेश्वर।
तथापि वधयोग्यं मां मन्यसे चेत्क्षिपायुधम् ॥२४॥
विश्वास-प्रस्तुतिः
श्रूयते किल गोविन्दे भक्तिमुद्वहतां नृणाम्।
संसारार्णावभीतानां त्रिदशाः परिपन्थिनः ॥२५॥
मूलम्
श्रूयते किल गोविन्दे भक्तिमुद्वहतां नृणाम्।
संसारार्णावभीतानां त्रिदशाः परिपन्थिनः ॥२५॥
विश्वास-प्रस्तुतिः
तापसोऽहं क्व निःसङ्गः क्व च कोपस्तवेदृशः।
विज्ञातमेतद्गोविन्दभक्तिविघ्नोपपादितम् ॥२६॥
मूलम्
तापसोऽहं क्व निःसङ्गः क्व च कोपस्तवेदृशः।
विज्ञातमेतद्गोविन्दभक्तिविघ्नोपपादितम् ॥२६॥
विश्वास-प्रस्तुतिः
भवन्ति बहवो विघ्ना नरे श्रेयःपरायणे।
गोविन्दभक्त्यभ्यधिकं श्रेयश्चान्यन्न विद्यते ॥२७॥
मूलम्
भवन्ति बहवो विघ्ना नरे श्रेयःपरायणे।
गोविन्दभक्त्यभ्यधिकं श्रेयश्चान्यन्न विद्यते ॥२७॥
विश्वास-प्रस्तुतिः
स त्वं प्रहर वा मा वा मयि वज्रं पुरन्दर।
नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः ॥२८॥
मूलम्
स त्वं प्रहर वा मा वा मयि वज्रं पुरन्दर।
नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः ॥२८॥
विश्वास-प्रस्तुतिः
न चापि वज्रं वज्री वा त्वं च नान्ये सुरासुराः।
शक्ता निहन्तुमीशाने हृदयस्थे जनार्दने ॥२९॥
मूलम्
न चापि वज्रं वज्री वा त्वं च नान्ये सुरासुराः।
शक्ता निहन्तुमीशाने हृदयस्थे जनार्दने ॥२९॥
विश्वास-प्रस्तुतिः
किं च नो बहुनोक्तेन नाहं वक्ष्याम्यतः परं।
यथेप्सितं कुरुष्व त्वं करिष्येऽहमभीप्सितम् ॥३०॥
मूलम्
किं च नो बहुनोक्तेन नाहं वक्ष्याम्यतः परं।
यथेप्सितं कुरुष्व त्वं करिष्येऽहमभीप्सितम् ॥३०॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवमुक्त्वा सुरपतिं पार्थिवः स पुनस्तपः।
चचार मौनमास्थाय तेनातुष्यत केशवः ॥३१॥
मूलम्
एवमुक्त्वा सुरपतिं पार्थिवः स पुनस्तपः।
चचार मौनमास्थाय तेनातुष्यत केशवः ॥३१॥
विश्वास-प्रस्तुतिः
सन्दर्शयामास ततः स्वं वपुः कैटभार्दनः।
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् ॥३२॥
मूलम्
सन्दर्शयामास ततः स्वं वपुः कैटभार्दनः।
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् ॥३२॥
विश्वास-प्रस्तुतिः
किरीटस्रग्धरं स्पष्टं नीलोत्पलदलच्छविम्।
ऐरावतश्च गरुडस्तत्क्षणात्समदृश्यत ॥३३॥
मूलम्
किरीटस्रग्धरं स्पष्टं नीलोत्पलदलच्छविम्।
ऐरावतश्च गरुडस्तत्क्षणात्समदृश्यत ॥३३॥
विश्वास-प्रस्तुतिः
स च राजवरो देवं पीतवाससमच्युतम्।
विलोक्य भक्तिशिरसा सहसैव महीं ययौ ॥३४॥
मूलम्
स च राजवरो देवं पीतवाससमच्युतम्।
विलोक्य भक्तिशिरसा सहसैव महीं ययौ ॥३४॥
विश्वास-प्रस्तुतिः
प्रत्युवाच च भूपालः प्रणिपत्य कृताञ्जलिः।
रोमाञ्चिततनुः स्तोत्रं पद्मनाभं ततोऽस्तुवत् ॥३५॥
मूलम्
प्रत्युवाच च भूपालः प्रणिपत्य कृताञ्जलिः।
रोमाञ्चिततनुः स्तोत्रं पद्मनाभं ततोऽस्तुवत् ॥३५॥
राजोवाच।
विश्वास-प्रस्तुतिः
आदिदेव जयाजेय जय सर्गादिकारक।
जयास्पष्टप्रकाशाण्ड बृहन्मूर्ते जयाक्षर ॥३६॥
मूलम्
आदिदेव जयाजेय जय सर्गादिकारक।
जयास्पष्टप्रकाशाण्ड बृहन्मूर्ते जयाक्षर ॥३६॥
विश्वास-प्रस्तुतिः
जय सर्वगताचिन्त्य जय जन्मजरापह।
जय व्यापिञ्जयाभेद सर्वभूतेष्ववस्थित ॥३७॥
मूलम्
जय सर्वगताचिन्त्य जय जन्मजरापह।
जय व्यापिञ्जयाभेद सर्वभूतेष्ववस्थित ॥३७॥
विश्वास-प्रस्तुतिः
जय यज्ञपते नाथ हव्यकव्याशनाव्यय।
जय विज्ञातसिद्धान्त मायामोहक केशव ॥३८॥
मूलम्
जय यज्ञपते नाथ हव्यकव्याशनाव्यय।
जय विज्ञातसिद्धान्त मायामोहक केशव ॥३८॥
विश्वास-प्रस्तुतिः
लोकस्थित्यर्थमनघ वराह जय भूधर।
नृसिंह जय देवारिवक्षःस्थलविदारण ॥३९॥
मूलम्
लोकस्थित्यर्थमनघ वराह जय भूधर।
नृसिंह जय देवारिवक्षःस्थलविदारण ॥३९॥
विश्वास-प्रस्तुतिः
देवानामरिभीतानामार्तिनाशन वामन।
जय क्रान्तसमस्तोर्वीनभःस्वर्लोकभावन ॥४०॥
मूलम्
देवानामरिभीतानामार्तिनाशन वामन।
जय क्रान्तसमस्तोर्वीनभःस्वर्लोकभावन ॥४०॥
विश्वास-प्रस्तुतिः
जितं ते जगतामीश जितं ते सर्व सर्वद।
जितं ते सर्वभूतेश योगिध्येय नमोऽस्तु ते ॥४१॥
मूलम्
जितं ते जगतामीश जितं ते सर्व सर्वद।
जितं ते सर्वभूतेश योगिध्येय नमोऽस्तु ते ॥४१॥
विश्वास-प्रस्तुतिः
नमोऽस्त्वव्यपदेश्याय नमः सूक्ष्मस्वरूपिणे।
नमस्त्रिमूर्तये तुभ्यं विश्वमूर्ते नमोऽस्तु ते ॥४२॥
मूलम्
नमोऽस्त्वव्यपदेश्याय नमः सूक्ष्मस्वरूपिणे।
नमस्त्रिमूर्तये तुभ्यं विश्वमूर्ते नमोऽस्तु ते ॥४२॥
विश्वास-प्रस्तुतिः
ब्रह्माद्यैश्चिन्त्यते रूपं यत्तत्सदसतः परं।
विशेषैरविशेष्याय तस्मै तुभ्यं नमो नमः ॥४३॥
मूलम्
ब्रह्माद्यैश्चिन्त्यते रूपं यत्तत्सदसतः परं।
विशेषैरविशेष्याय तस्मै तुभ्यं नमो नमः ॥४३॥
विश्वास-प्रस्तुतिः
पुरुषाख्यं ततो रूपं निर्गुणं गुणभोक्तृ च।
प्रकृतेः परतः सूक्ष्मं तन्नमस्यामि ते हरे ॥४४॥
मूलम्
पुरुषाख्यं ततो रूपं निर्गुणं गुणभोक्तृ च।
प्रकृतेः परतः सूक्ष्मं तन्नमस्यामि ते हरे ॥४४॥
विश्वास-प्रस्तुतिः
अव्यक्तादिविशेषान्तमतिसूक्ष्मतमं महत्।
प्राकृतं तव तद्रूपं तस्मै देव नमाम्यहम् ॥४५॥
मूलम्
अव्यक्तादिविशेषान्तमतिसूक्ष्मतमं महत्।
प्राकृतं तव तद्रूपं तस्मै देव नमाम्यहम् ॥४५॥
विश्वास-प्रस्तुतिः
रूपैर्नानाविधैर्यश्च तद्रूपान्तरगोचरम्।
लीलया व्यवहारस्ते तस्मै देवात्मने नमः ॥४६॥
मूलम्
रूपैर्नानाविधैर्यश्च तद्रूपान्तरगोचरम्।
लीलया व्यवहारस्ते तस्मै देवात्मने नमः ॥४६॥
विश्वास-प्रस्तुतिः
प्रसीद विष्णो गोविन्द शङ्खचक्रगदाधर।
धराधरारविन्दाक्ष वासुदेव महेश्वर ॥४७॥
मूलम्
प्रसीद विष्णो गोविन्द शङ्खचक्रगदाधर।
धराधरारविन्दाक्ष वासुदेव महेश्वर ॥४७॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इत्थं स्तुतो जगन्नाथः प्रोक्तवानिति केशवः।
अम्बरीषं पृथिवीशं जगत्सन्नादयन्गिरा ॥४८॥
मूलम्
इत्थं स्तुतो जगन्नाथः प्रोक्तवानिति केशवः।
अम्बरीषं पृथिवीशं जगत्सन्नादयन्गिरा ॥४८॥
देवदेव उवाच।
विश्वास-प्रस्तुतिः
अम्बरीष प्रसन्नोऽस्मि भक्त्या स्तोत्रेण चानघ।
वरं वृणीष्व धर्मज्ञ यत्ते मनसि वर्तते ॥४९॥
मूलम्
अम्बरीष प्रसन्नोऽस्मि भक्त्या स्तोत्रेण चानघ।
वरं वृणीष्व धर्मज्ञ यत्ते मनसि वर्तते ॥४९॥
राजोवाच।
विश्वास-प्रस्तुतिः
एष एव वरः श्लाघ्यो यद्दृष्टोऽसि जगत्पते।
त्वद्दर्शनमपुण्यानां स्वप्नेष्वपि हि दुर्लभम् ॥५०॥
मूलम्
एष एव वरः श्लाघ्यो यद्दृष्टोऽसि जगत्पते।
त्वद्दर्शनमपुण्यानां स्वप्नेष्वपि हि दुर्लभम् ॥५०॥
विश्वास-प्रस्तुतिः
बाल्यात्प्रभृति या देव त्वयि भक्तिर्ममाच्युत।
वेत्ति तां भगवानेव हृदिस्थः सर्वदेहिनाम् ॥५१॥
मूलम्
बाल्यात्प्रभृति या देव त्वयि भक्तिर्ममाच्युत।
वेत्ति तां भगवानेव हृदिस्थः सर्वदेहिनाम् ॥५१॥
विश्वास-प्रस्तुतिः
त्वत्प्रसादान्ममेशान राज्यमव्याहतं भुवि।
कोशदण्डौ तथातीव शरीरारोग्यमुत्तमम् ॥५२॥
मूलम्
त्वत्प्रसादान्ममेशान राज्यमव्याहतं भुवि।
कोशदण्डौ तथातीव शरीरारोग्यमुत्तमम् ॥५२॥
विश्वास-प्रस्तुतिः
स्त्रियोऽन्नपानसामर्थ्या हानिः स्वल्पापि नास्ति मे।
बलं नागसहस्रस्य धारयाम्यरिसूदन ॥५३॥
मूलम्
स्त्रियोऽन्नपानसामर्थ्या हानिः स्वल्पापि नास्ति मे।
बलं नागसहस्रस्य धारयाम्यरिसूदन ॥५३॥
विश्वास-प्रस्तुतिः
सन्ततिर्निभृता भृत्या सानुरागाश्च मे जनाः।
धर्महानिश्च देवेश न हि मे पालने भुवः ॥५४॥
मूलम्
सन्ततिर्निभृता भृत्या सानुरागाश्च मे जनाः।
धर्महानिश्च देवेश न हि मे पालने भुवः ॥५४॥
विश्वास-प्रस्तुतिः
यद्यदिच्छाम्यहं तत्तत्सर्वमस्ति जगत्पते।
एतेनैवानुमानेन प्रसन्नो भगवानिति ॥५५॥
मूलम्
यद्यदिच्छाम्यहं तत्तत्सर्वमस्ति जगत्पते।
एतेनैवानुमानेन प्रसन्नो भगवानिति ॥५५॥
विश्वास-प्रस्तुतिः
ज्ञातं मया हि गोविन्दे नाप्रसन्ने विभूतयः।
एवं सर्वसुखाह्लादमध्यस्थोऽपि च केशव ॥५६॥
मूलम्
ज्ञातं मया हि गोविन्दे नाप्रसन्ने विभूतयः।
एवं सर्वसुखाह्लादमध्यस्थोऽपि च केशव ॥५६॥
पुनरावृत्तिदुःखानां त्रासादुद्विग्नमानसः।
विश्वास-प्रस्तुतिः
मयि प्रसादाभिमुखं मनस्ते यदि केशव।
तन्मामगाधे संसारे मग्नमुद्धर्तुमर्हसि ॥५७॥
मूलम्
मयि प्रसादाभिमुखं मनस्ते यदि केशव।
तन्मामगाधे संसारे मग्नमुद्धर्तुमर्हसि ॥५७॥
विश्वास-प्रस्तुतिः
सुखानि तानि नैवान्ते येषां दुःखं न तत्सुखम्।
यदन्ते दुःखमागामि किम्पाकस्यैव भक्षणम् ॥५८॥
मूलम्
सुखानि तानि नैवान्ते येषां दुःखं न तत्सुखम्।
यदन्ते दुःखमागामि किम्पाकस्यैव भक्षणम् ॥५८॥
विश्वास-प्रस्तुतिः
स प्रसादं कुरु गुरो जगतां त्वं जनार्दन।
ज्ञानदानेन येनेमां वागुरान्निस्तरेमहि ॥५९॥
मूलम्
स प्रसादं कुरु गुरो जगतां त्वं जनार्दन।
ज्ञानदानेन येनेमां वागुरान्निस्तरेमहि ॥५९॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इत्युक्तस्तस्य गोविन्दः कथयामास योगवित्।
योगं निर्बीजमत्यन्तदुःखसंयोगभेषजम् ॥६०॥
मूलम्
इत्युक्तस्तस्य गोविन्दः कथयामास योगवित्।
योगं निर्बीजमत्यन्तदुःखसंयोगभेषजम् ॥६०॥
विश्वास-प्रस्तुतिः
उपदिष्टे ततो योगे प्रणिपत्याच्युतं नृपः।
पुनः प्राह महाबाहुर्विनयावनतः स्थितः ॥६१॥
मूलम्
उपदिष्टे ततो योगे प्रणिपत्याच्युतं नृपः।
पुनः प्राह महाबाहुर्विनयावनतः स्थितः ॥६१॥
राजोवाच।
विश्वास-प्रस्तुतिः
देवदेव त्वया योगो यः प्रोक्तो मधुसूदन।
नैष प्राप्यो मया नान्यैर्मानवैरजितेन्द्रियैः ॥६२॥
मूलम्
देवदेव त्वया योगो यः प्रोक्तो मधुसूदन।
नैष प्राप्यो मया नान्यैर्मानवैरजितेन्द्रियैः ॥६२॥
विश्वास-प्रस्तुतिः
विषया दुर्जयाः पुम्भिरिन्द्रियाकर्षिणः सदा।
इन्द्रियाणां जयं तेषु कः शक्तानां करिष्यति ॥६३॥
मूलम्
विषया दुर्जयाः पुम्भिरिन्द्रियाकर्षिणः सदा।
इन्द्रियाणां जयं तेषु कः शक्तानां करिष्यति ॥६३॥
विश्वास-प्रस्तुतिः
अहं ममेति चाख्याति दुर्जयं चञ्चलं मनः।
रागादयः कथं जेतुं शक्या जन्मान्तरैरपि ॥६४॥
मूलम्
अहं ममेति चाख्याति दुर्जयं चञ्चलं मनः।
रागादयः कथं जेतुं शक्या जन्मान्तरैरपि ॥६४॥
विश्वास-प्रस्तुतिः
सोऽहमिच्छामि देवेश त्वत्प्रसादादनिर्जितैः।
रागादिभिरमर्त्यत्वं प्राप्तुं प्रक्षीणकल्मषः ॥६५॥
मूलम्
सोऽहमिच्छामि देवेश त्वत्प्रसादादनिर्जितैः।
रागादिभिरमर्त्यत्वं प्राप्तुं प्रक्षीणकल्मषः ॥६५॥
देवदेव उवाच।
विश्वास-प्रस्तुतिः
यद्येवं मुक्तिकामस्त्वं नरनाथ शृणुष्व तत्।
क्रियायोगं समस्तानां क्लेशानां हानिकारकम् ॥६६॥
मूलम्
यद्येवं मुक्तिकामस्त्वं नरनाथ शृणुष्व तत्।
क्रियायोगं समस्तानां क्लेशानां हानिकारकम् ॥६६॥
विश्वास-प्रस्तुतिः
मन्मना भव मद्भक्तो मद्याजीमां नमस्कुरु।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥६७॥
मूलम्
मन्मना भव मद्भक्तो मद्याजीमां नमस्कुरु।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥६७॥
विश्वास-प्रस्तुतिः
मद्भावना मद्यजना मद्भक्ता मत्परायणाः।
मम पूजापराश्चैव मयि यान्ति लयं नराः ॥६८॥
मूलम्
मद्भावना मद्यजना मद्भक्ता मत्परायणाः।
मम पूजापराश्चैव मयि यान्ति लयं नराः ॥६८॥
विश्वास-प्रस्तुतिः
सर्वभूतेषु मां पश्य समवस्थितमीश्वरम्।
कर्तासि केन वैरत्वं एवं दोषान्प्रहास्यसि ॥६९॥
मूलम्
सर्वभूतेषु मां पश्य समवस्थितमीश्वरम्।
कर्तासि केन वैरत्वं एवं दोषान्प्रहास्यसि ॥६९॥
विश्वास-प्रस्तुतिः
जङ्गमाजङ्गमे ज्ञाते मय्यात्मनि तथा तव।
रागलोभादिनाशेन भवित्री कृतकृत्यता ॥७०॥
मूलम्
जङ्गमाजङ्गमे ज्ञाते मय्यात्मनि तथा तव।
रागलोभादिनाशेन भवित्री कृतकृत्यता ॥७०॥
विश्वास-प्रस्तुतिः
भक्त्यातिप्रवणस्यापि चञ्चलत्वान्मनो यदि।
मय्यनासादवद्भूप कुरु मद्रूपिणीं तनुम् ॥७१॥
मूलम्
भक्त्यातिप्रवणस्यापि चञ्चलत्वान्मनो यदि।
मय्यनासादवद्भूप कुरु मद्रूपिणीं तनुम् ॥७१॥
विश्वास-प्रस्तुतिः
सुवर्णरजताद्यैस्त्वं शैलमृद्दारुलेखजाम्।
पूजामहर्हैर्विविधैः सम्पूजय च पार्थिव ॥७२॥
मूलम्
सुवर्णरजताद्यैस्त्वं शैलमृद्दारुलेखजाम्।
पूजामहर्हैर्विविधैः सम्पूजय च पार्थिव ॥७२॥
विश्वास-प्रस्तुतिः
तस्यां चित्तं समावेश्य त्याजयान्यान्व्यपाश्रयान्।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ॥७३॥
मूलम्
तस्यां चित्तं समावेश्य त्याजयान्यान्व्यपाश्रयान्।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ॥७३॥
विश्वास-प्रस्तुतिः
गच्छंस्तिष्ठन्स्वपन्भुञ्जंस्तामेवाग्रे च पृष्ठतः।
उपर्यधस्तथा पार्श्वे चिन्तयान्तस्तथात्मनः ॥७४॥
मूलम्
गच्छंस्तिष्ठन्स्वपन्भुञ्जंस्तामेवाग्रे च पृष्ठतः।
उपर्यधस्तथा पार्श्वे चिन्तयान्तस्तथात्मनः ॥७४॥
विश्वास-प्रस्तुतिः
स्नानैस्तीर्थोदकैर्हृद्यैः पुष्पगन्धानुलेपनैः।
वासोभिर्भूषणैर्भक्ष्यैर्गीतवाद्यैर्मनोहरैः ॥७५॥
मूलम्
स्नानैस्तीर्थोदकैर्हृद्यैः पुष्पगन्धानुलेपनैः।
वासोभिर्भूषणैर्भक्ष्यैर्गीतवाद्यैर्मनोहरैः ॥७५॥
विश्वास-प्रस्तुतिः
यच्च यच्च नृपेष्टं ते किञ्चिद्भोज्यादि तेन ताम्।
भक्तिनम्रो नरश्रेष्ठ प्रीणयार्चां कृतां मम ॥७६॥
मूलम्
यच्च यच्च नृपेष्टं ते किञ्चिद्भोज्यादि तेन ताम्।
भक्तिनम्रो नरश्रेष्ठ प्रीणयार्चां कृतां मम ॥७६॥
विश्वास-प्रस्तुतिः
रागेणाकृष्यते चेतो गन्धर्वाभिमुखं यदि।
मयि बुद्धिं समावेश्य गायेथा मम तां कथाम् ॥७७॥
मूलम्
रागेणाकृष्यते चेतो गन्धर्वाभिमुखं यदि।
मयि बुद्धिं समावेश्य गायेथा मम तां कथाम् ॥७७॥
विश्वास-प्रस्तुतिः
कथायां रमते चेतो यदि तद्भावना मम।
श्रोतव्या प्रीतियुक्तेन अवतारेषु या कथा ॥७८॥
मूलम्
कथायां रमते चेतो यदि तद्भावना मम।
श्रोतव्या प्रीतियुक्तेन अवतारेषु या कथा ॥७८॥
विश्वास-प्रस्तुतिः
एवं मय्यर्पितमनाश्चेतसो ये व्यपाश्रयाः।
हेयास्तानखिलान्भूप परित्यक्ष्यस्यभीर्भव ॥७९॥
मूलम्
एवं मय्यर्पितमनाश्चेतसो ये व्यपाश्रयाः।
हेयास्तानखिलान्भूप परित्यक्ष्यस्यभीर्भव ॥७९॥
विश्वास-प्रस्तुतिः
अक्षीणरागदोषोऽपि मत्क्रिया परमः परम्।
पदमाप्स्यसि मा भैस्त्वं मय्यर्पितमना भव ॥८०॥
मूलम्
अक्षीणरागदोषोऽपि मत्क्रिया परमः परम्।
पदमाप्स्यसि मा भैस्त्वं मय्यर्पितमना भव ॥८०॥
विश्वास-प्रस्तुतिः
मयि सन्न्यस्य सर्वं त्वमात्मानं यत्तवास्ति च।
मदर्थं कुरु कर्माणि मा च धर्मव्यतिक्रमम् ॥८१॥
मूलम्
मयि सन्न्यस्य सर्वं त्वमात्मानं यत्तवास्ति च।
मदर्थं कुरु कर्माणि मा च धर्मव्यतिक्रमम् ॥८१॥
विश्वास-प्रस्तुतिः
राज्यं कुरु नरश्रेष्ठ निवेद्य पृथिवीं मम।
तद्व्याघातपरा ये च जहि तानवनीपते ॥८२॥
मूलम्
राज्यं कुरु नरश्रेष्ठ निवेद्य पृथिवीं मम।
तद्व्याघातपरा ये च जहि तानवनीपते ॥८२॥
विश्वास-प्रस्तुतिः
एतेनैवोपदेशेन व्याख्यातमखिलं तव।
क्रियायोगं समास्थाय मय्यर्पितमना भव ॥८३॥
मूलम्
एतेनैवोपदेशेन व्याख्यातमखिलं तव।
क्रियायोगं समास्थाय मय्यर्पितमना भव ॥८३॥
राजोवाच।
विश्वास-प्रस्तुतिः
मद्धिताय जगन्नाथ क्रियायोगाश्रितं मम।
विस्तरेणेदमाख्याहि प्रसन्नस्त्वं हि दुःखहा ॥८४॥
मूलम्
मद्धिताय जगन्नाथ क्रियायोगाश्रितं मम।
विस्तरेणेदमाख्याहि प्रसन्नस्त्वं हि दुःखहा ॥८४॥
विश्वास-प्रस्तुतिः
त्वामृतेन हि नो वक्तुं समर्थोऽन्यो जगद्गुरो।
गुह्यमेतत्पवित्रं च तदाचक्ष्य प्रसीद मे ॥८५॥
मूलम्
त्वामृतेन हि नो वक्तुं समर्थोऽन्यो जगद्गुरो।
गुह्यमेतत्पवित्रं च तदाचक्ष्य प्रसीद मे ॥८५॥
देवदेव उवाच।
विश्वास-प्रस्तुतिः
आख्यास्यत्येतदखिलं वसिष्ठस्ते पुरोहितः।
मत्प्रसादादविकलं स च वेत्स्यत्यशेषतः ॥८६॥
मूलम्
आख्यास्यत्येतदखिलं वसिष्ठस्ते पुरोहितः।
मत्प्रसादादविकलं स च वेत्स्यत्यशेषतः ॥८६॥
विश्वास-प्रस्तुतिः
इत्युक्त्वान्तर्दधे देवः सर्वलोकेश्वरो हरिः।
स च राजा वनाद्भूयो निजमभ्यागमत्पुरम् ॥८७॥
मूलम्
इत्युक्त्वान्तर्दधे देवः सर्वलोकेश्वरो हरिः।
स च राजा वनाद्भूयो निजमभ्यागमत्पुरम् ॥८७॥
इति विष्णुधर्मेष्वच्युताम्बरीषसंवादः।