अथ प्रथमोऽध्यायः।
विश्वास-प्रस्तुतिः
कृताभिषेकन्तनयं राज्ञः पारीक्षितस्य ह।
द्रष्टुमभ्याययुः प्रीत्या शौनकाद्या महर्षयः ॥१॥
मूलम्

तानागतान्स राजर्षिः पाद्यार्घ्यादिभिरर्चितान्।
सुखोपविष्टान्विश्रान्तान्कृतसम्प्रश्नसत्कथान् ॥२॥

तत्कथाभिः कृताह्लादः प्रणिपत्य कृताञ्जलिः।
शतानीकोऽथ पप्रच्छ नारायणकथां पराम् ॥३॥

राजोवाच।
विश्वास-प्रस्तुतिः
यमाश्रित्य जगन्नाथं मम पूर्वपितामहाः।
विपक्षापहृतं राज्यमवापुः पुरुषोत्तमाः ॥४॥

द्रौणिब्रह्मास्त्रनिर्दग्धो मम येन पितामहः।
परीक्षित्प्राणसंयोगं देवदेवेन लम्भितः ॥५॥

तस्य देवस्य माहात्म्यं देवर्षिसिद्धमनुजैः।
श्रुतं सुबहुशो मया स्तुतस्याशेषजन्मनः ॥६॥

कः स्तोतुमीशस्तमजं यस्यैतत्सचराचरम्।
अव्ययस्याप्रमेयस्य ब्रह्माण्डमुदरे शयम् ॥७॥

रुद्रः क्रोधोद्भवो यस्य प्रसादाच्च पितामहः।
तस्य देवस्य कः शक्तः प्रवक्तुं वा विभूतयः ॥८॥

सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभोः।
श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् ॥९॥

केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया।
दानैर्व्रतोपवासैर्वा जप्यैर्होमैरथापि वा ॥१०॥

आराधितः समस्तानां क्लेशानां हानिदो हरिः।
शक्यः समाराधयितुं तन्नः शंसत सत्तमाः ॥११॥

विद्यानामपि सा विद्या श्रुतानामपि तच्छ्रुतम्।
रहस्यानां रहस्यं तद्येन विष्णुः प्रसीदति ॥१२॥

मन्त्राणां परमो मन्त्रो व्रतानां तन्महाव्रतम्।
उपोषितं हि तच्छ्रेष्ठं येन तुष्यति केशवः ॥१३॥

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम्।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥१४॥

सुजन्म देहमत्यन्तं तदेवाशेषजन्मसु।
यदेव पुलकोद्भासि विष्णोर्नामाभिकीर्तनात् ॥१५॥

सा हानिस्तन्महच्छिद्रंसा चान्धजडमूकता।
यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥१६॥

नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका।
रोगो वान्यो न सा जिह्वा या न वक्ति हरेर्गुणान् ॥१७॥

सन्त्यनेका बिलास्तद्वच्छ्रोत्रमप्यल्पमेधसाम्।
दत्त्वावधानं यच्छब्दे विनैव हरिसंस्तुतिम् ॥१८॥

धर्मार्थकामसम्प्राप्तौ पुरुषाणां विचेष्टितम्।
जन्मन्यविफला सैका या गोविन्दाश्रया क्रिया ॥१९॥

दुर्गसंसारकान्तारमपारमभिधावताम्।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः ॥२०॥

सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं नभः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥२१॥
मूलम्
सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं नभः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥२१॥
विश्वास-प्रस्तुतिः
एवमादिगुणो भोगः कृष्णस्याद्भुतकर्मणः।
श्रुतो मे बहुशो सिद्धैः गीयमानस्तथापरैः ॥२२॥

सोऽहमिच्छामि तं देवं सर्वलोकपरायणम्।
नारायणमशेषस्य जगतो हृद्यवस्थितम् ॥२३॥
मूलम्
सोऽहमिच्छामि तं देवं सर्वलोकपरायणम्।
नारायणमशेषस्य जगतो हृद्यवस्थितम् ॥२३॥
विश्वास-प्रस्तुतिः
आराधयितुमीशानमनन्तममितौजसम्।
शङ्करं जगतः प्राणं स्मृतमात्राघहारिणम् ॥२४॥

तन्ममाद्य मुनिश्रेष्ठाः प्रसादयितुमिच्छतः।
उपदेशप्रदानेन प्रसादं कर्तुमर्हत ॥२५॥

तस्यैतद्वचनं श्रुत्वा भक्तिमुद्वहतो हरेः।
परितोषं परं जग्मुर्मुनयः सर्व एव ते ॥२६॥

सर्वे च ते मुनिश्रेष्ठा भृगुश्रेष्ठं च शौनकम्।
यथार्थं भगवंस्तस्मै कथ्यतामित्यचोदयन् ॥२७॥

सर्वज्ञाननिधिः स्फीतस्त्वमत्र भृगुनन्दन।
त्रैलोक्यसर्वसन्देहतमोदीपस्तपोधन ॥२८॥

एवमुक्तो मुनिवरैः प्रीत्या तस्य च भूपतेः।
भक्त्या च देवदेवस्य प्रवणीकृतमानसः ॥२९॥

कृत्वोत्तरीयपर्यङ्कं शिथिलं भगवानथ।
प्रत्युवाच महाभागः शौनकस्तं महीपतिम् ॥३०॥

शौनक उवाच।
विश्वास-प्रस्तुतिः
यत्पृच्छसि महीपाल कृष्णस्याराधनं प्रति।
व्रतोपवासजप्यादि तदिहैकमनाः शृणु ॥३१॥
मूलम्
यत्पृच्छसि महीपाल कृष्णस्याराधनं प्रति।
व्रतोपवासजप्यादि तदिहैकमनाः शृणु ॥३१॥
विश्वास-प्रस्तुतिः
अनादिमत्परं ब्रह्म सर्वहेयविवर्जितम्।
व्यापि यत्सर्वभूतेषु स्थितं सदसतः परम् ॥३२॥

प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते।
नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः ॥३३॥

तत्क्षोभकत्वाद्ब्रह्माण्डसृष्टिहेतुर्निरञ्जनः।
अहेतुरपि सर्वात्मनः जायते परमेश्वरः ॥३४॥

प्रधानपुरुषत्वं च तथैवेश्वरलीलया।
समुपैति ततश्चैव ब्रह्मत्वं छन्दतः प्रभुः ॥३५॥

ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये।
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुतेऽव्ययः ॥३६॥

तदेकमक्षरं धाम परं सदसतोर्महत्।
भेदाभेदस्वरूपस्थं प्रणिपत्य परं पदम् ॥३७॥

प्रवक्ष्यामि यथा पूर्वं मत्पित्रा कथितं मम।
तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ॥३८॥

तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः।
सकाशाद्ब्रह्मणः प्राप्तं भृगुणापि महात्मना ॥३९॥

मरीचिमिश्रैश्च पुरा परमेतन्महर्षिभिः।
प्राप्तं सकाशाद्देवस्य ब्रह्मणो व्यक्तजन्मनः ॥४०॥

योगं ब्रह्मा परं प्राह महर्षीणां यदा प्रभुः।
समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् ॥४१॥

तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः।
सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् ॥४२॥

यो योगो भवतारोक्तो मनोवृत्तिनिरोधजः।
प्राप्तुं शक्यः स त्वनेकैः जन्मभिर्जगतः पते ॥४३॥

विषया दुर्जया नॄणामिन्द्रियाकर्षणाः प्रभो।
वृत्तयश्चेतसश्चापि चपला चातिदुर्धराः ॥४४॥

रागादयः कथं जेतुं शक्या वर्षशतैरपि।
न योगयोग्यं हि मनो भवत्येभिरनिर्जितैः ॥४५॥

अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेऽप्यमी।
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ॥४६॥

भगवंस्त्वमुपायज्ञः प्रसन्नो वक्तुमर्हसि।
अनायासेन येनेममुत्तरेम भवार्णवम् ॥४७॥

दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महाप्लवम्।
उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय ॥४८॥

एवमुक्तस्तदा ब्रह्मा क्रियायोगं महात्मनाम्।
तेषामृषीणामाचष्ट नराणां हितकाम्यया ॥४९॥

ब्रह्मोवाच।
विश्वास-प्रस्तुतिः
आराधयत विश्वेशं नारायणमतन्द्रिताः।
बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् ॥५०॥

इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम्।
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः ॥५१॥

तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः।
अपरिच्छेद्यमाहात्म्यमाराधयत केशवम् ॥५२॥

तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः।
तद्दृष्टयस्तन्मनसः सर्वस्मिन्स इति स्थितः ॥५३॥

समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि।
सन्न्यस्यध्वं स वः कर्ता समस्तावरणक्षयम् ॥५४॥

एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ।
यतो यस्मिन्यथा चोभौ सर्वव्यापिन्यवस्थितौ ॥५५॥

परः पराणां परमः स एकः पुरुषोत्तमः।
यस्याभिन्नमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ॥५६॥

तमाराध्य जगन्नाथं मोक्षकारणमव्यक्तम्।
अचिन्त्यमपरिग्रहं क्रियायोगेन मुच्यते ॥५७॥

इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः।
विश्वास-प्रस्तुतिः
नराणामुपकाराय योगशास्त्राणि चक्रिरे।
क्रियायोगपराणीह मुक्तिकार्याण्यनेकशः ॥५८॥

आराध्यते जगन्नाथो यदनुष्ठानतत्परैः।
परमात्मा हृषीकेशः सर्वेशः सर्वभावनः ॥५९॥

तानि ते नृपशार्दूल सर्वपापहराण्यहम्।
वक्ष्यामि श्रूयतामन्यद्रहस्यमिदमुत्तमम् ॥६०॥

संसारार्णवमग्नानां विषयाक्रान्तचेतसाम्।
विश्वास-प्रस्तुतिः
उत्तारमिच्छतां तस्माद्भृशं यन्नान्तरैरपि।
विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम् ॥६१॥

उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम्।
भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ॥६२॥

एवमेकाग्रचित्तस्त्वं संश्रितो मधुसूदनम्।
जन्ममृत्युजराग्राहं संसाराम्भस्तरिष्यसि ॥६३॥

अनन्तमीड्यं पुरुषं पुराणं जगद्विधातारमजं जनित्र्यम्।
समाश्रिता ये हरिमीशितारं तेषां भवो नास्ति हि मुक्तिभाजाम् ॥६४॥

इति विष्णुधर्मेषु क्रियायोगप्रवृत्तिः।