विष्णुधर्माः

विष्णुधर्माः।

ॐ नमो भगवते वासुदेवाय।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् १

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं।
पुण्यं पवित्रमथ पापहरं शुभं च।
यो भारतं समधिगच्छति वाच्यमानं।
किं तस्य पुष्करजलैरभिषेचनेन २

अथ प्रथमोऽध्यायः।
कृताभिषेकन्तनयं राज्ञः पारीक्षितस्य ह।
द्रष्टुमभ्याययुः प्रीत्या शौनकाद्या महर्षयः १

तानागतान्स राजर्षिः पाद्यार्घ्यादिभिरर्चितान्।
सुखोपविष्टान्विश्रान्तान्कृतसम्प्रश्नसत्कथान् २

तत्कथाभिः कृताह्लादः प्रणिपत्य कृताञ्जलिः।
शतानीकोऽथ पप्रच्छ नारायणकथां पराम् ३

राजोवाच।
यमाश्रित्य जगन्नाथं मम पूर्वपितामहाः।
विपक्षापहृतं राज्यमवापुः पुरुषोत्तमाः ४

द्रौणिब्रह्मास्त्रनिर्दग्धो मम येन पितामहः।
परीक्षित्प्राणसंयोगं देवदेवेन लम्भितः ५

तस्य देवस्य माहात्म्यं देवर्षिसिद्धमनुजैः।
श्रुतं सुबहुशो मया स्तुतस्याशेषजन्मनः ६

कः स्तोतुमीशस्तमजं यस्यैतत्सचराचरम्।
अव्ययस्याप्रमेयस्य ब्रह्माण्डमुदरे शयम् ७

रुद्रः! क्रोधोद्भवो यस्य प्रसादाच्च पितामहः।
तस्य देवस्य कः शक्तः प्रवक्तुं वा विभूतयः ८

सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभोः।
श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् ९

केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया।
दानैर्व्रतोपवासैर्वा जप्यैर्होमैरथापि वा १०

आराधितः समस्तानां क्लेशानां हानिदो हरिः।
शक्यः समाराधयितुं तन्नः शंसत सत्तमाः ११

विद्यानामपि सा विद्या श्रुतानामपि तच्छ्रुतम्।
रहस्यानां रहस्यं तद्येन विष्णुः प्रसीदति १२

मन्त्राणां परमो मन्त्रो व्रतानां तन्महाव्रतम्।
उपोषितं हि तच्छ्रेष्ठं येन तुष्यति केशवः १३

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम्।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ १४

सुजन्म देहमत्यन्तं तदेवाशेषजन्मसु।
यदेव पुलकोद्भासि विष्णोर्नामाभिकीर्तनात् १५

सा हानिस्तन्महच्छिद्रंसा चान्धजडमूकता।
यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते १६

नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका।
रोगो वान्यो न सा जिह्वा या न वक्ति हरेर्गुणान् १७

सन्त्यनेका बिलास्तद्वच्छ्रोत्रमप्यल्पमेधसाम्।
दत्त्वावधानं यच्छब्दे विनैव हरिसंस्तुतिम् १८

धर्मार्थकामसम्प्राप्तौ पुरुषाणां विचेष्टितम्।
जन्मन्यविफला सैका या गोविन्दाश्रया क्रिया १९

दुर्गसंसारकान्तारमपारमभिधावताम्।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः २०

सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं नभः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः २१

एवमादिगुणो भोगः कृष्णस्याद्भुतकर्मणः।
श्रुतो मे बहुशो सिद्धैः गीयमानस्तथापरैः २२

सोऽहमिच्छामि तं देवं सर्वलोकपरायणम्।
नारायणमशेषस्य जगतो हृद्यवस्थितम् २३

आराधयितुमीशानमनन्तममितौजसम्।
शङ्करं जगतः प्राणं स्मृतमात्राघहारिणम् २४

तन्ममाद्य मुनिश्रेष्ठाः प्रसादयितुमिच्छतः।
उपदेशप्रदानेन प्रसादं कर्तुमर्हत २५

तस्यैतद्वचनं श्रुत्वा भक्तिमुद्वहतो हरेः।
परितोषं परं जग्मुर्मुनयः सर्व एव ते २६

सर्वे च ते मुनिश्रेष्ठा भृगुश्रेष्ठं च शौनकम्।
यथार्थं भगवंस्तस्मै कथ्यतामित्यचोदयन् २७

सर्वज्ञाननिधिः स्फीतस्त्वमत्र भृगुनन्दन।
त्रैलोक्यसर्वसन्देहतमोदीपस्तपोधन २८

एवमुक्तो मुनिवरैः प्रीत्या तस्य च भूपतेः।
भक्त्या च देवदेवस्य प्रवणीकृतमानसः २९

कृत्वोत्तरीयपर्यङ्कं शिथिलं भगवानथ।
प्रत्युवाच महाभागः शौनकस्तं महीपतिम् ३०

शौनक उवाच।
यत्पृच्छसि महीपाल कृष्णस्याराधनं प्रति।
व्रतोपवासजप्यादि तदिहैकमनाः शृणु ३१

अनादिमत्परं ब्रह्म सर्वहेयविवर्जितम्।
व्यापि यत्सर्वभूतेषु स्थितं सदसतः परम् ३२

प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते।
नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः ३३

तत्क्षोभकत्वाद्ब्रह्माण्डसृष्टिहेतुर्निरञ्जनः।
अहेतुरपि सर्वात्मनः जायते परमेश्वरः ३४

प्रधानपुरुषत्वं च तथैवेश्वरलीलया।
समुपैति ततश्चैव ब्रह्मत्वं छन्दतः प्रभुः ३५

ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये।
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुतेऽव्ययः ३६

तदेकमक्षरं धाम परं सदसतोर्महत्।
भेदाभेदस्वरूपस्थं प्रणिपत्य परं पदम् ३७

प्रवक्ष्यामि यथा पूर्वं मत्पित्रा कथितं मम।
तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ३८

तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः।
सकाशाद्ब्रह्मणः प्राप्तं भृगुणापि महात्मना ३९

मरीचिमिश्रैश्च पुरा परमेतन्महर्षिभिः।
प्राप्तं सकाशाद्देवस्य ब्रह्मणो व्यक्तजन्मनः ४०

योगं ब्रह्मा परं प्राह महर्षीणां यदा प्रभुः।
समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् ४१

तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः।
सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् ४२

यो योगो भवतारोक्तो मनोवृत्तिनिरोधजः।
प्राप्तुं शक्यः स त्वनेकैः जन्मभिर्जगतः पते ४३

विषया दुर्जया नॄणामिन्द्रियाकर्षणाः प्रभो।
वृत्तयश्चेतसश्चापि चपला चातिदुर्धराः ४४

रागादयः कथं जेतुं शक्या वर्षशतैरपि।
न योगयोग्यं हि मनो भवत्येभिरनिर्जितैः ४५

अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेऽप्यमी।
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ४६

भगवंस्त्वमुपायज्ञः प्रसन्नो वक्तुमर्हसि।
अनायासेन येनेममुत्तरेम भवार्णवम् ४७

दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महाप्लवम्।
उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय ४८

एवमुक्तस्तदा ब्रह्मा क्रियायोगं महात्मनाम्।
तेषामृषीणामाचष्ट नराणां हितकाम्यया ४९

ब्रह्मोवाच।
आराधयत विश्वेशं नारायणमतन्द्रिताः।
बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् ५०

इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम्।
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः ५१

तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः।
अपरिच्छेद्यमाहात्म्यमाराधयत केशवम् ५२

तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः।
तद्दृष्टयस्तन्मनसः सर्वस्मिन्स इति स्थितः ५३

समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि।
सन्न्यस्यध्वं स वः कर्ता समस्तावरणक्षयम् ५४

एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ।
यतो यस्मिन्यथा चोभौ सर्वव्यापिन्यवस्थितौ ५५

परः पराणां परमः स एकः पुरुषोत्तमः।
यस्याभिन्नमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ५६

तमाराध्य जगन्नाथं मोक्षकारणमव्यक्तम्।
अचिन्त्यमपरिग्रहं क्रियायोगेन मुच्यते ५७

इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः।
नराणामुपकाराय योगशास्त्राणि चक्रिरे।
क्रियायोगपराणीह मुक्तिकार्याण्यनेकशः ५८

आराध्यते जगन्नाथो यदनुष्ठानतत्परैः।
परमात्मा हृषीकेशः सर्वेशः सर्वभावनः ५९

तानि ते नृपशार्दूल सर्वपापहराण्यहम्।
वक्ष्यामि श्रूयतामन्यद्रहस्यमिदमुत्तमम् ६०

संसारार्णवमग्नानां विषयाक्रान्तचेतसाम्।
उत्तारमिच्छतां तस्माद्भृशं यन्नान्तरैरपि।
विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम् ६१

उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम्।
भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ६२

एवमेकाग्रचित्तस्त्वं संश्रितो मधुसूदनम्।
जन्ममृत्युजराग्राहं संसाराम्भस्तरिष्यसि ६३

अनन्तमीड्यं पुरुषं पुराणं जगद्विधातारमजं जनित्र्! यम्।
समाश्रिता ये हरिमीशितारं तेषां भवो नास्ति हि मुक्तिभाजाम् ६४

इति विष्णुधर्मेषु क्रियायोगप्रवृत्तिः।

अथ द्वितीयोऽध्यायः।
शौनक उवाच।
श्रूयतां कुरुशार्दूल संवादोऽयमनुत्तमः।
अम्बरीषस्य राजर्षेः सह देवेन चक्रिणा १

अम्बरीषो महीपालः पालयन्नेव मेदिनीम्।
उद्विग्न एव द्वन्द्वान्तमभीप्सुः पुरुषर्षभः २

देवदेवात्स गोविन्दादभीप्सुर्द्वन्द्वसङ्क्षयम्।
तपस्तेपे निराहारो गृणन्ब्रह्म सनातनम् ३

तस्य कालेन महता भक्तिमुद्वहतः पराम्।
तुतोष भगवान्विष्णुः सर्वलोकपतिः प्रभुः ४

स रूपमैन्द्रमास्थाय तमुवाच महीपतिम्।
मेघगम्भीरनिर्घोषो वारणेन्द्रगतिस्तदा ५

देवदेव उवाच।
राजर्षे वद यत्कार्यं तव चेतस्यवस्थितम्।
वरदोऽहमनुप्राप्तो वरय सुव्रत ६

एवमुक्तस्ततो राजा विलोक्य च पुरन्दरं।
प्रत्युवाचार्घ्यमुद्यम्य स्वागतं तेऽस्त्विति प्रभो ७

नाहमाराधयामि त्वां तव बद्धोऽयमञ्जलिः।
वरार्थिनां त्वं वरदः प्रयच्छाभिमतान्वरान् ८

देवदेव उवाच।
वरार्थाय त्वयान्यैश्च क्रियते नृपते तपः।
स किमर्थं त्वमस्मत्तो न गृह्णास्यभिवाञ्छितम् ९

राजोवाच।
न वरार्थमयं यत्नस्त्वत्तो देवपते मम।
विष्णोराराधनार्थाय विद्धि मां त्वं कृतोद्यमम् १०

देवदेव उवाच।
अहं हि सर्वदेवानां त्रैलोक्यस्य तथेश्वरः।
पालयन्ति ममैवाज्ञामादित्याद्याः सदा सुराः ११

आदित्या वसवो रुद्रानासत्यौ मरुतां गणाः।
प्रजानां पतयः साध्या विश्वेदेवा महर्षयः १२

कुर्वन्त्येते ममैवाज्ञां सिद्धगन्धर्वपन्नगाः।
मत्तो हि कोऽन्यो वरदः प्रतिगृह्णीष्व वाञ्छितम् १३

राजोवाच।
त्वमिन्द्रः! सत्यमेवैतद्देवस्त्रिभुवनेश्वरः।
त्वयापि प्राप्तमैश्वर्यं यतस्तं तोषयाम्यहम् १४

त्रैलोक्यं तव देवेश वशे यस्य महात्मनः।
सप्तोदरे शया लोकास्तमीशं तोषयाम्यहम् १५

यस्य त्वममरैः सर्वैः समवेताः सुरेश्वर।
देहप्राप्तोऽन्तरस्थो वै तं नमामि जनार्दनम् १६

निमेषो ब्रह्मणो रात्रिरुन्मेषो यस्य वासरः।
तमीड्यमीशमजरं प्रणतोऽस्मि जनार्दनम् १७

यो हर्ता जगतो देवः कर्ता पालायिता च यः।
त्रयस्यास्य च यो योनिस्तं विष्णुं तोषयाम्यहम् १८

हिरण्यकशिपुः पूर्वं हिरण्याक्षश्च ते रिपुः।
तवानुकम्पया येन हतौ दैत्यौ नतोऽस्मि तम् १९

बलिनापहृतं शक्र दत्तं येन पुरा तव।
त्रैलोक्यराज्यं तं बद्ध्वा तं नमामि जनार्दनम् २०

प्रसीद शक्र गच्छ त्वमहमप्यत्र संस्थितः।
तपस्तप्स्ये जगन्नाथं द्रष्टुं नारायणं हरिम् २१

शौनक उवाच।
एवमुक्तस्ततस्तेन शक्ररूपी जनादनः।
पुनरप्याह तं कोपात्पार्थिवं तपसि स्थितम् २२

यदि मद्वचनादद्य न भवांस्त्यक्ष्यते तपः।
वज्रं ते प्रहरिष्यामि बुध्यस्वैतद्यदीच्छसि २३

राजोवाच।
नाप्यल्पमपराधं ते करोमि त्रिदशेश्वर।
तथापि वधयोग्यं मां मन्यसे चेत्क्षिपायुधम् २४

श्रूयते किल गोविन्दे भक्तिमुद्वहतां नृणाम्।
संसारार्णावभीतानां त्रिदशाः परिपन्थिनः २५

तापसोऽहं क्व निःसङ्गः क्व च कोपस्तवेदृशः।
विज्ञातमेतद्गोविन्दभक्तिविघ्नोपपादितम् २६

भवन्ति बहवो विघ्ना नरे श्रेयःपरायणे।
गोविन्दभक्त्यभ्यधिकं श्रेयश्चान्यन्न विद्यते २७

स त्वं प्रहर वा मा वा मयि वज्रं पुरन्दर।
नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः २८

न चापि वज्रं वज्री वा त्वं च नान्ये सुरासुराः।
शक्ता निहन्तुमीशाने हृदयस्थे जनार्दने २९

किं च नो बहुनोक्तेन नाहं वक्ष्याम्यतः परं।
यथेप्सितं कुरुष्व त्वं करिष्येऽहमभीप्सितम् ३०

शौनक उवाच।
एवमुक्त्वा सुरपतिं पार्थिवः स पुनस्तपः।
चचार मौनमास्थाय तेनातुष्यत केशवः ३१

सन्दर्शयामास ततः स्वं वपुः कैटभार्दनः।
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् ३२

किरीटस्रग्धरं स्पष्टं नीलोत्पलदलच्छविम्।
ऐरावतश्च गरुडस्तत्क्षणात्समदृश्यत ३३

स च राजवरो देवं पीतवाससमच्युतम्।
विलोक्य भक्तिशिरसा सहसैव महीं ययौ ३४

प्रत्युवाच च भूपालः प्रणिपत्य कृताञ्जलिः।
रोमाञ्चिततनुः स्तोत्रं पद्मनाभं ततोऽस्तुवत् ३५

राजोवाच।
आदिदेव जयाजेय जय सर्गादिकारक।
जयास्पष्टप्रकाशाण्ड बृहन्मूर्ते जयाक्षर ३६

जय सर्वगताचिन्त्य जय जन्मजरापह।
जय व्यापिञ्जयाभेद सर्वभूतेष्ववस्थित ३७

जय यज्ञपते नाथ हव्यकव्याशनाव्यय।
जय विज्ञातसिद्धान्त मायामोहक केशव ३८

लोकस्थित्यर्थमनघ वराह जय भूधर।
नृसिंह जय देवारिवक्षःस्थलविदारण ३९

देवानामरिभीतानामार्तिनाशन वामन।
जय क्रान्तसमस्तोर्वीनभःस्वर्लोकभावन ४०

जितं ते जगतामीश जितं ते सर्व सर्वद।
जितं ते सर्वभूतेश योगिध्येय नमोऽस्तु ते ४१

नमोऽस्त्वव्यपदेश्याय नमः सूक्ष्मस्वरूपिणे।
नमस्त्रिमूर्तये तुभ्यं विश्वमूर्ते नमोऽस्तु ते ४२

ब्रह्माद्यैश्चिन्त्यते रूपं यत्तत्सदसतः परं।
विशेषैरविशेष्याय तस्मै तुभ्यं नमो नमः ४३

पुरुषाख्यं ततो रूपं निर्गुणं गुणभोक्तृ च।
प्रकृतेः परतः सूक्ष्मं तन्नमस्यामि ते हरे ४४

अव्यक्तादिविशेषान्तमतिसूक्ष्मतमं महत्।
प्राकृतं तव तद्रूपं तस्मै देव नमाम्यहम् ४५

रूपैर्नानाविधैर्यश्च तद्रूपान्तरगोचरम्।
लीलया व्यवहारस्ते तस्मै देवात्मने नमः ४६

प्रसीद विष्णो गोविन्द शङ्खचक्रगदाधर।
धराधरारविन्दाक्ष वासुदेव महेश्वर ४७

शौनक उवाच।
इत्थं स्तुतो जगन्नाथः प्रोक्तवानिति केशवः।
अम्बरीषं पृथिवीशं जगत्सन्नादयन्गिरा ४८

देवदेव उवाच।
अम्बरीष प्रसन्नोऽस्मि भक्त्या स्तोत्रेण चानघ।
वरं वृणीष्व धर्मज्ञ यत्ते मनसि वर्तते ४९

राजोवाच।
एष एव वरः श्लाघ्यो यद्दृष्टोऽसि जगत्पते।
त्वद्दर्शनमपुण्यानां स्वप्नेष्वपि हि दुर्लभम् ५०

बाल्यात्प्रभृति या देव त्वयि भक्तिर्ममाच्युत।
वेत्ति तां भगवानेव हृदिस्थः सर्वदेहिनाम् ५१

त्वत्प्रसादान्ममेशान राज्यमव्याहतं भुवि।
कोशदण्डौ तथातीव शरीरारोग्यमुत्तमम् ५२

स्त्रियोऽन्नपानसामर्थ्या हानिः स्वल्पापि नास्ति मे।
बलं नागसहस्रस्य धारयाम्यरिसूदन ५३

सन्ततिर्निभृता भृत्या सानुरागाश्च मे जनाः।
धर्महानिश्च देवेश न हि मे पालने भुवः ५४

यद्यदिच्छाम्यहं तत्तत्सर्वमस्ति जगत्पते।
एतेनैवानुमानेन प्रसन्नो भगवानिति ५५

ज्ञातं मया हि गोविन्दे नाप्रसन्ने विभूतयः।
एवं सर्वसुखाह्लादमध्यस्थोऽपि च केशव ५६

पुनरावृत्तिदुःखानां त्रासादुद्विग्नमानसः।
मयि प्रसादाभिमुखं मनस्ते यदि केशव।
तन्मामगाधे संसारे मग्नमुद्धर्तुमर्हसि ५७

सुखानि तानि नैवान्ते येषां दुःखं न तत्सुखम्।
यदन्ते दुःखमागामि किम्पाकस्यैव भक्षणम् ५८

स प्रसादं कुरु गुरो जगतां त्वं जनार्दन।
ज्ञानदानेन येनेमां वागुरान्निस्तरेमहि ५९

शौनक उवाच।
इत्युक्तस्तस्य गोविन्दः कथयामास योगवित्।
योगं निर्बीजमत्यन्तदुःखसंयोगभेषजम् ६०

उपदिष्टे ततो योगे प्रणिपत्याच्युतं नृपः।
पुनः प्राह महाबाहुर्विनयावनतः स्थितः ६१

राजोवाच।
देवदेव त्वया योगो यः प्रोक्तो मधुसूदन।
नैष प्राप्यो मया नान्यैर्मानवैरजितेन्द्रियैः ६२

विषया दुर्जयाः पुम्भिरिन्द्रियाकर्षिणः सदा।
इन्द्रियाणां जयं तेषु कः शक्तानां करिष्यति ६३

अहं ममेति चाख्याति दुर्जयं चञ्चलं मनः।
रागादयः कथं जेतुं शक्या जन्मान्तरैरपि ६४

सोऽहमिच्छामि देवेश त्वत्प्रसादादनिर्जितैः।
रागादिभिरमर्त्यत्वं प्राप्तुं प्रक्षीणकल्मषः ६५

देवदेव उवाच।
यद्येवं मुक्तिकामस्त्वं नरनाथ शृणुष्व तत्।
क्रियायोगं समस्तानां क्लेशानां हानिकारकम् ६६

मन्मना भव मद्भक्तो मद्याजीमां नमस्कुरु।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ६७

मद्भावना मद्यजना मद्भक्ता मत्परायणाः।
मम पूजापराश्चैव मयि यान्ति लयं नराः ६८

सर्वभूतेषु मां पश्य समवस्थितमीश्वरम्।
कर्तासि केन वैरत्वं एवं दोषान्प्रहास्यसि ६९

जङ्गमाजङ्गमे ज्ञाते मय्यात्मनि तथा तव।
रागलोभादिनाशेन भवित्री कृतकृत्यता ७०

भक्त्यातिप्रवणस्यापि चञ्चलत्वान्मनो यदि।
मय्यनासादवद्भूप कुरु मद्रूपिणीं तनुम् ७१

सुवर्णरजताद्यैस्त्वं शैलमृद्दारुलेखजाम्।
पूजामहर्हैर्विविधैः सम्पूजय च पार्थिव ७२

तस्यां चित्तं समावेश्य त्याजयान्यान्व्यपाश्रयान्।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ७३

गच्छंस्तिष्ठन्स्वपन्भुञ्जंस्तामेवाग्रे च पृष्ठतः।
उपर्यधस्तथा पार्श्वे चिन्तयान्तस्तथात्मनः ७४

स्नानैस्तीर्थोदकैर्हृद्यैः पुष्पगन्धानुलेपनैः।
वासोभिर्भूषणैर्भक्ष्यैर्गीतवाद्यैर्मनोहरैः ७५

यच्च यच्च नृपेष्टं ते किञ्चिद्भोज्यादि तेन ताम्।
भक्तिनम्रो नरश्रेष्ठ प्रीणयार्चां कृतां मम ७६

रागेणाकृष्यते चेतो गन्धर्वाभिमुखं यदि।
मयि बुद्धिं समावेश्य गायेथा मम तां कथाम् ७७

कथायां रमते चेतो यदि तद्भावना मम।
श्रोतव्या प्रीतियुक्तेन अवतारेषु या कथा ७८

एवं मय्यर्पितमनाश्चेतसो ये व्यपाश्रयाः।
हेयास्तानखिलान्भूप परित्यक्ष्यस्यभीर्भव ७९

अक्षीणरागदोषोऽपि मत्क्रिया परमः परम्।
पदमाप्स्यसि मा भैस्त्वं मय्यर्पितमना भव ८०

मयि सन्न्यस्य सर्वं त्वमात्मानं यत्तवास्ति च।
मदर्थं कुरु कर्माणि मा च धर्मव्यतिक्रमम् ८१

राज्यं कुरु नरश्रेष्ठ निवेद्य पृथिवीं मम।
तद्व्याघातपरा ये च जहि तानवनीपते ८२

एतेनैवोपदेशेन व्याख्यातमखिलं तव।
क्रियायोगं समास्थाय मय्यर्पितमना भव ८३

राजोवाच।
मद्धिताय जगन्नाथ क्रियायोगाश्रितं मम।
विस्तरेणेदमाख्याहि प्रसन्नस्त्वं हि दुःखहा ८४

त्वामृतेन हि नो वक्तुं समर्थोऽन्यो जगद्गुरो।
गुह्यमेतत्पवित्रं च तदाचक्ष्य प्रसीद मे ८५

देवदेव उवाच।
आख्यास्यत्येतदखिलं वसिष्ठस्ते पुरोहितः।
मत्प्रसादादविकलं स च वेत्स्यत्यशेषतः ८६

इत्युक्त्वान्तर्दधे देवः सर्वलोकेश्वरो हरिः।
स च राजा वनाद्भूयो निजमभ्यागमत्पुरम् ८७

इति विष्णुधर्मेष्वच्युताम्बरीषसंवादः।

अथ तृतीयोऽध्यायः।
शौनक उवाच।
राज्यस्थस्तु महीपालः प्रणिपत्य पुरोहितम्।
वसिष्ठं परिपप्रच्छ विष्णोराराधनं प्रति १

देवदेवेन भगवन्नादिष्टोऽसि महात्मना।
क्रियायोगाश्रितं सर्वं व्याख्यास्यति भवान्किल २

स त्वां पृच्छाम्यहं सर्वं क्रियायोगेन केशवम्।
सन्तोषयितुमीशानं यथा शक्ष्यामि तद्वद ३

वसिष्ठ उवाच।
देवप्रसादादखिला ममापि स्मृतिरागता।
ज्ञानमेतदशेषं ते कथयामि निबोध तत् ४

भक्तिमानभवद्दैत्यो हिरण्यकशिपोः सुतः।
नारायणे महाप्रज्ञः सर्वलोकपरायणे।
स पप्रच्छ भृगुश्रेष्ठं शुक्रमात्मपुरोहितम् ५

प्रह्लाद उवाच।
भगवन्नृसिंहरूपस्य विष्णोस्तातं जिघांसतः।
दृष्टं देहे मया सर्वं त्रैलोक्यं भूर्भुवादिकम् ६

ब्रह्मा प्रजापतिश्चेन्द्रोरुद्रैः! पशुपतिः सह।
वसवोऽष्टौ तथादित्या द्वादशाहःक्षपा मही ७

दिशो नभस्तारकौघं नक्षत्रग्रहसङ्कुलम्।
अश्विनौ मरुतः साध्या विश्वेदेवास्तथ र्षयः ८

वर्षाचलास्तथा नद्यः सप्त सप्त कुलाचलाः।
समुद्राः! सप्त ऋतवः कान्ताराणि वनानि च।
नगरग्रामतरुभिः समावेतं च भूतलम् ९

एतच्चान्यच्च यत्किञ्चिद्देवर्षिपितृमानवम्।
सतिर्यगूर्ध्वपातालं तस्य दृष्टं तनौ मया १०

सोऽहं तमजरं देवं दुष्टदैत्यनिवर्हणम्।
आराधयितुमिच्छामि भगवंस्त्वदनुज्ञया ११

अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति।
तन्ममोपदिशाद्य त्वं महदाराधनं हरेः १२

शुक्र उवाच।
अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः।
आराधनाय दैत्येन्द्रयत्ते तत्प्रवणं मनः १३

यदि देवपतिं विष्णुमाराधयितुमिच्छसि।
भगवन्तमनाद्यन्तं भव भागवतोऽसुर १४

न ह्यभागवतैर्विष्णुर्ज्ञातुं स्तोतुं च तत्त्वतः।
द्रष्टुं वा शक्यते मर्त्यैः प्रवेष्टुं कुत एव हि १५

जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः।
भवन्ति वै भागवतास्ते विष्णुं प्रविशन्ति च १६

अनेकजन्मसंसारचिते पापसमुच्चये।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः १७

प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति।
यो नरस्तं विजानीयादसुरांशसमुद्भवम् १८

पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता।
जायते विष्णुमायाम्भःपतितानां दुरात्मनाम् १९

यदा पापक्षयः पुंसां तदा वेदद्विजातिषु।
विष्णौ च यज्ञपुरुषे श्रद्धा भवति ते यथा २०

यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः।
भवन्ति ते भागवतास्तदा दैत्यपते नराः २१

भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे।
हस्तावलम्बदो ह्येको भक्तिप्रीतो जनार्दनः २२

स त्वं भागवतो भूत्वा सर्वपापहरं हरिम्।
आराधय परं भक्त्या प्रीतिमेष्यति केशवः २३

प्रह्लाद उवाच।
किंलक्षणा भागवता भवन्ति पुरुषा गुरो।
यच्च भागवतैः कार्यं तन्मे कथय भार्गव २४

शुक्र उवाच।
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः।
भावभक्तश्च गोविन्दे दैत्य भागवतो हि सः २५

यो ब्राह्मणांश्च वेदांश्च नित्यमेन्वानुमंस्यति।
न च द्रोग्धा परं वादे दैत्य भागवतो हि सः २६

सर्वान्देवान्हरिं वेत्ति सर्वलोकांश्च केशवम्।
तेभ्यश्च नान्यमात्मानं दैत्य भागवतो हि सः २७

देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान्।
तरुपाषाणकष्ठादि भूम्यम्भोगगनं दिशः २८

आत्मानं वापि देवेशान्नातिरिक्तं जनार्दनात्।
यो भजेत विजानीष्व तं वै भागवतं नरम् २९

सर्वं भगवतो भावो यद्भूतं भवसंस्थितम्।
इति यो वै विजानाति स तु भागवतो नरः ३०

भवभीतिं हरत्येष भक्तिभावेन भावितः।
भगवानिति भावो यः स तु भागवतो नरः ३१

भावं न कुरुते यस्तु सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा स तु भागवतो नरः ३२

बाह्यार्थनिरपेक्षो यो भक्तो भगवतः क्रियाम्।
भावेन निष्पादयति ज्ञेयो भागवतस्तु सः ३३

नारयो यस्य न स्निग्धा न चोदासी न वृत्तयः।
पश्यतः सर्वमेवेदं विष्णुं भागवतो हि सः ३४

सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः।
तां गतिं न नरा यान्ति यां वै भागवता गताः ३५

योगच्युतैर्भागवतैर्देवराजः शतक्रतुः।
अर्वाङ्निरीक्ष्यते यज्ञी किमु ये योगपारगाः ३६

यज्ञनिष्पत्तये वेदा यज्ञो यज्ञपतेः कृते।
तत्तोषणाय भावेन तस्माद्भागवतो भव ३७

येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः।
दैत्येश्वर कृतार्थत्वाच्छ्लाघ्यो भागवतो हि सः ३८

अपि नः स कुले धन्यो जायते कुलपावनः।
भगवान्भक्तिभावेन येन विष्णुरुपासितः ३९

यः कारयति देवार्चां हृदयालम्बनं हरेः।
स नरो विष्णुसालोक्यमुपैति धूतकल्मषः ४०

यश्च देवालयं भक्त्या विष्णोः कारयति स्वयम्।
स सप्तपुरुषांल्लोकान्विष्णोर्नयति मानवः ४१

यावन्त्यब्दानि देवार्चा हरेस्तिष्ठति मन्दिरे।
तावद्वर्षसहस्राणि विष्णुलोके स मोदते ४२

देवार्चा लक्षणोपेता तद्गृहं सततं दिवि।
निष्कामं च मनो यस्य स यात्यक्षरसात्म्यताम् ४३

पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान्।
प्रयच्छति हृषीकेशे तद्भावगतमानसः ४४

धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम्।
दीपावल्युपहारांश्च यच्चाभीष्टमथात्मनः ४५

नरः सोऽनुदिनं यज्ञं करोत्याराधनं हरेः।
यज्ञेशो भगवान्विष्णुर्मखैरपि हि तोष्यते ४६

बहूपकरणा यज्ञा नानासम्भारविस्तराः।
प्राप्यन्ते ते धनयुतैर्मनुष्यैर्नाल्पसञ्चयैः ४७

भक्त्या च पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि।
हरेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ४८

यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम्।
दयितं भूषणं यच्च ये च कौशेयवाससी ४९

यानि चाभ्यवहाराणि भक्ष्याणि च फलानि च।
प्रयच्छ तानि गोविन्दे भवेथाश्चैव तन्मनाः ५०

आद्यन्तं यज्ञपुरुषं यथाशक्त्या प्रसादय।
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् ५१

पुण्यैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा।
क्षीरेण स्नापयेदीशमच्युतं जगतः पतिम् ५२

दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः।
प्रयास्यस्यसुरश्रेष्ठ निर्वृतिं चापि शाश्वतीम् ५३

स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः।
मनसश्चैकतायोगादाराधय जनार्दनम् ५४

आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः।
हैहयाः पञ्चपञ्चाशदमृतत्वमुपागताः ५५

स त्वमेभिः प्रकारैस्तमुपवासैश्च केशवम्।
तोषयाद्यो हि तुष्टोऽसौ विष्णुर्द्वन्द्वप्रशान्तिदः ५६

इति विष्णुधर्मेषु शुक्रप्रह्लादसंवादः।

अथ चतुर्थोऽध्यायः।
प्रह्लाद उवाच।
उपवासैर्हृषीकेशः कथं तुष्यति भार्गव।
परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिनाम् १

यद्यत्कार्यं यथा चैव केशवाराधने नरैः।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि २

शुक्र उवाच।
स्मृतः सम्पूजितो धूपपुष्पाद्यैर्दयितैर्हरिः।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् ३

उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ४

एकरात्रं द्विरात्रं वा त्रिरात्रमथवापरम्।
उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः ५

तन्नामजापी तत्कर्मरतिस्तद्गतमानसः।
निष्कामो दैत्य स ब्रह्म परमाप्नोत्यसंशयम् ६

यं च काममभिध्यायन्केशवार्पितमानसः।
उपोष्यति तमाप्नोति प्रसन्ने गरुडध्वजे ७

कथ्यते च पुरा विप्रः पुलस्त्यो ब्रह्मवादिना।
दाल्भ्येन पृष्टोऽकथयद्यथैतदरिसूदन ८

दाल्भ्य उवाच।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः! स्त्रीभिस्तथा मुने।
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् ९

पुलस्त्य उवाच।
अनाराध्य जगन्नाथं सर्वधातारमच्युतम्।
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् १०

विषयग्राहि वै यस्य न चित्तं केशवार्पितम्।
स कथं पापपङ्काङ्की नरो यास्यति सद्गतिम् ११

यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि।
तदाराधय सर्वेशं जगद्धातारमच्युतम् १२

पुष्पैः सुगन्धैर्हृद्यैश्च धूपैः सागरुचन्दनैः।
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः १३

यदि संसारनिर्वेदादभिवाञ्छसि सद्गतिम्।
तदाराधय गोविन्दं यच्चेष्टं तव चेतसि १४

पुष्पाणि यदि ते न स्युः शस्तं पादपपल्लवैः।
दूर्वाङ्कुरैरपि ब्रह्मंस्तदभावेऽर्चयाच्युतम् १५

सुगन्धिपुष्पदीपाद्यैर्यः कुर्यात्केशवालये।
सर्वतीर्थफलं तस्य सम्भवेत्केशवार्चया।
सबाह्याभ्यन्तरं यस्तु मार्जयेदच्युतालयम्।
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत्।
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमच्युतः।
पूजितस्तुष्टिमतुलां भक्त्यायात्येकचेतसाम् १६

यः सदायतने विष्णोः कुरुते मार्जनक्रियाम्।
स पांसुभूमेर्देहाच्च सर्वपापं व्यपोहति १७

यावन्त्यः पांसुकणिका मार्ज्यन्ते केशवालये।
दिनानि दिवि तावन्ति तिष्ठत्यस्तमलो नरः १८

अहन्यहनि यत्पापं कुरुते द्विजसत्तम।
गोचर्ममात्रं सम्मार्ज्य हन्ति तत्केशवालये १९

यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः।
सोऽपि लोकं समासाद्य मोदते च शतक्रतोः २०

मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा।
उपलेपनकृद्याति विमानं मणिचित्रितम् २१

उदकाभ्युक्षणं विष्णोर्यः करोति तथा गृहे।
सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः २२

पुष्पप्रकरमत्यर्थं सुगन्धं केशवालये।
उपलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् २३

विमानमतिविद्योति सर्वरत्नमयं दिवि।
समाप्नोति नरो दत्त्वा दीपकं केशवालये २४

यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः।
ध्वजं तु विष्णवे दद्यात्सममेतत्फलं द्विज २५

विधुन्वन्हन्ति वातेन दातुरज्ञानतः कृतम्।
पापं केतुर्गृहे विष्णोर्दिवारात्रमसंशयम् २६

गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम्।
गान्धर्वैर्गीतनृत्यैः स विमानस्थो निषेव्यते २७

जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम्।
प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः २८

उपोषितः पूजितो वा दृष्टो वा नमितोऽपि वा।
प्रदम्भ हरते पापं को न सेवेद्धरिं ततः।
वेदवादक्रियायज्ञस्नानतीर्थफलं परम्।
अष्टाङ्गप्रणिपातेन प्रणिपत्य हरिं लभेत्।
प्रगम्य हृदा शिरसा पादपद्मे महीतले।
निष्कल्मषो भवेत्सद्यो न नाटी पादपांसुना।
एकस्य कृष्णस्य क्राजतः प्रणामो दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधैः पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय।
एवं देवेश्वरो भक्त्या येन विष्णुरुपासितः।
स प्राप्नोति गतिं श्लाघ्यां यां यामिच्छति चेतसा २९

देवत्वं मनुजैःकैश्चिद्गन्धर्वत्वं तथापरैः।
विद्याधरत्वमपरैराराध्याप्तं जनार्दनम् ३०

शक्रः क्रतुशतेनेशमाराध्य गरुडध्वजम्।
देवेन्द्रत्वं गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ३१

देवेभ्योऽपि हि पूज्यस्तु स्वगुरुर्ब्रह्मचारिणः।
तस्यापि यज्ञपुरुषो विष्णुः पूज्यो द्विजोत्तम ३२

स्त्रियश्च भर्तारमृते पूज्यमन्यन्न दैवतम्।
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ३३

वैखानसानामाराध्यस्तपोभिर्मधुसूदनः।
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ३४

एवं सर्वाश्रमाणां हि वासुदेवः परायणम्।
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् ३५

शृणुष्व गदतः काम्यामुपवासांस्तथापरान्।
तत्तमाश्रित्य यान्कामान्कुर्वीतेप्सितमात्मनः ३६

-———————-एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः।
जपेत्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ३७

देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः।
प्रातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ३८

पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः।
नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः।
इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः ३९

कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव।
संसारान्तर्निमग्नानां प्रसीद मधुसूदन ४०

एवं प्रसाद्योपावासं कृत्वा नियतमानसः।
पूर्वाह्न एव चान्येद्युर्गव्यं सम्प्रास्य वै सकृत्।
स्नातोऽर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ४१

वारिधारात्रयं चैव विक्षिपेद्देवपादयोः।
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयेत् ४२

मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः।
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुते ४३

आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
तथैवाश्वयुजे देवमनेन विधिना नरः ४४

उपोष्य सम्पूज्य तथा केशवेति च कीर्तयेत्।
गोमूत्रप्राशनात्पूर्वं स्वर्गलोकगतिं व्रजेत् ४५

आराधितस्य जगतामीश्वरस्याव्यायात्मनः।
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ४६

क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम्।
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ४७

तेनैव विधिना ब्रह्मन्विष्णोर्नाम प्रकीर्तयेत्।
स याति विष्णुसालोक्यं विष्णुं स्मरति च क्षये ४८

प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेच्छया।
चातुर्मास्ये च सम्पूर्णे पुण्यं श्रवणकीर्तनम् ४९

कथां वा वासुदेवस्य तद्गीतीर्वापि कारयेत्।
एवमेतां गतिं श्रेष्ठां देवनामानुकीर्तनात् ५०

कथितं पारणं यत्ते कार्ष्णं मासचतुष्टयम्।
आधिपत्यं तथा भोगांस्तेन प्राप्नोति मानुषान् ५१

द्वितीयेन तथा भोगानैन्द्रान्प्राप्नोति मानवः।
विष्णोर्लोकं तृतीयेन पारणेन तथाप्नुयात् ५२

एवमेतत्समाख्यातं गतिप्रापकमुत्तमम्।
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ५३

सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः।
उपोष्य च तथा नारी प्राप्नोति त्रिविधां गतिम् ५४

एषा धन्या पापहरा तिथिर्नित्यमुपासिता।
आराधनाय शिष्टैषा देवदेवस्य चक्रिणः ५५

इति विष्णुधर्मेषु सुगतिद्वादशी।

अथ पञ्चमोऽध्यायः।
पुलस्त्य उवाच।
पञ्चदश्यां च शुक्लस्य फाल्गुनस्यैव सत्तम।
पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः १

नास्तिकान्भिन्नवृत्तींश्च पापिनश्चाप्यनालपन्।
नारायणे गतमनाः पुरुषो नियतेन्द्रियः २

तिष्ठन्व्रजन्प्रस्खलिते क्षुते वापि जनार्दनम्।
कीर्तयेत्तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् ३

लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम्।
सन्ध्याव्युपरमे चेन्दुस्वरूपं हरिमीश्वरम् ४

रात्रिं च लक्ष्मीं सञ्चिन्त्य सम्यगर्घ्येन पूजयेत्।
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् ५

तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम।
अर्चयीत यथाप्रोक्तं प्राप्ते प्राप्ते तु तद्दिने ६

निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः।
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ७

आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा।
तथैवाश्वयुजेऽभ्यर्च्य श्रीधरं च श्रिया सह ८

सम्यक् चन्द्रमसे दत्त्वा भुञ्जीतार्घ्यं यथाविधि।
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ९

कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम्।
भूत्या समन्वितं दद्याच्छशाङ्कायार्हनं निशि १०

भुञ्जीत च तथा प्रोक्तं तृतीयमिति पारणम्।
प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ११

प्रतिमासं च वक्ष्यामि प्राशनं कायशोधनम्।
चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम् १२

कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम्।
सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् १३

गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथान्।
कारियीत च देवस्य पारणे पारणे गते १४

एवं सम्पूज्य विधिवत्सपत्नीकं जनार्दनम्।
नाप्नोतीष्टवियोगादीन्पुमान्योषिदथापि वा १५

जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः।
सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ १६

यावन्त्येतद्विधानेन पारणेनार्चति प्रभुम्।
तावन्ति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् १७

देवस्य च प्रसादेन मरणे प्राप्य तत्स्मृतिम्।
कुले सतां स्फीतधने जायते नरः १८

-———–नारिं प्राप्नोति न व्याधिं नरकं च न पश्यति।
दुर्गमं यममार्गं च नेक्षते द्विजसत्तम।
दाल्भ्य उवाच।
श्रोतुमिच्छाम्यहं तात यममार्गं सुदुर्गमम्।
यथा सुखेन संयान्ति मानवास्तद्वदस्व मे १९

पुलस्त्य उवाच।
प्रतिमासं तु नामानि कृष्णस्यैतानि द्वादश।
कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम्।
उच्चारयन्नरोऽभ्येति सुसुखेनैव तत्पथम् २०

ततो विप्राय वै दद्यादुदकुम्भं सदक्षिणं।
उपानद्वस्त्रयुग्मं च छत्त्रं कनकमेव च २१

यद्वै मासगतं नाम तत्प्रीतिश्चापि संवदेत्।
संवत्सरान्तेऽप्यथवा प्रतिमासं द्विजान्बुधः।
वाचयेदुदकुम्भाद्यैर्दानैः सर्वाननुक्रमात् २२

केशवं मार्गशीर्षे तु पौषे नारायणं तथा।
माधवं माघमासे तु गोविन्दं फाल्गुने तथा २३

विष्णुं चैत्रेऽथ वैशाखे तथैव मधुसूदनम्।
ज्येष्ठे त्रिविक्रमं देवमाषाढे वामनं तथा २४

श्रावणे श्रीधरं चैव हृषीकेशेति चापरम्।
नाम भाद्रपदे मासि गीयते पुण्यकाङ्क्षिभिः २५

पद्मनाभं चाश्वयुजे दामोदरमतः परम्।
कार्त्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् २६

इह वै स्वस्थतां प्राप्य मरणे स्मरणं ततः।
याम्यक्लेशमसम्प्राप्य स्वर्गलोके महीयते २७

ततो मानुष्यमासाद्य निरातङ्को गतज्वरः।
धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति २८

इति विष्णुधर्मेषु याम्यक्लेशमुक्तिः।

अथ षष्ठोऽध्यायः।
दाल्भ्य उवाच।
उपवासव्रतानीह केशवाराधनं प्रति।
ममाचक्ष्व महाभाग परं कौतूहलं हि मे १

पुलस्त्य उवाच।
कामान्यान्यान्नरो भक्तो मनसेच्छति केशवात्।
व्रतोपवासनात्प्रीतस्तांस्तान्विष्णुः प्रयच्छति २

रत्नपर्वतमारुह्य यथा रत्नं महामुने।
सत्त्वानुरूपमदत्ते तथा कृत्स्नान्मनोरथान् ३

मार्गशीर्षं तु यो मासमेकभक्तेन यः क्षपेत्।
कुर्वन्वै विष्णुशुश्रूषां स देशे जायते शुभे ४

पौषमासं तथा दाल्भ्य एकभक्तेन यः क्षपेत्।
शुश्रूषणपरः शौरेर्न रोगी स च जायते ५

माघमासं द्विजश्रेष्ठ एकभक्तेन यः क्षपेत्।
विष्णुशुश्रूषणपरः स कुले जायते सताम् ६

क्षपयेदेकभक्तेन शुश्रूषुर्यश्च फाल्गुनम्।
सौभाग्यं स्वजनानां स सर्वेषामेति सोन्नतिम् ७

चैत्रं विष्णुपरो मासमेकभक्तेन यः क्षपेत्।
सुवर्णमणिमुक्ताढ्यं स गार्हस्थ्यमवाप्नुयात् ८

यः क्षपेदेकभक्तेन वैशाखं पूजयन्हरिम्।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ९

कृष्णार्पितमना ज्येष्ठमेकभक्तेन यः क्षपेत्।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते १०

आषाढमेकभक्तेन यो नयेद्विष्णुतन्मनाः।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ११

क्षपयेदेकभक्तेन श्रावणं विष्णुतत्परः।
धनधान्यहिरण्याढ्ये कुले स ज्ञातिवर्धनः १२

एकाहारो भाद्रपदं यश्च कृष्णपरायणः।
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते १३

नयंश्चाश्वयुजं विष्णुं पूजयेदेकभोजनः।
धनवान्वाहनाढ्यश्च बहुपुत्रश्च जायते १४

कार्त्तिके चैकदा भुङ्क्ते यश्च विष्णुपरो नरः।
शूरश्च कृतविद्यश्च बहुपुत्रश्च जायते १५

यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः।
अहिंसः सर्वभूतेषु वासुदेवपरायणः १६

नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्।
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् १७

दश वर्षसहस्राणि स्वर्गलोके महीयते।
तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते १८

ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रोवा यथोदितान्।
उपवासानिमान्कुर्वन्फलान्येतान्यवाप्नुयात् १९

जगत्पतिं जगद्योनिं जगन्निष्ठं जगद्गुरुम्।
जयं शरणमभ्येत्य न जनैः शोच्यते जनः २०

यस्य नाम्नि स्मृते मर्त्यः समुत्क्रान्तेरनन्तरम्।
प्राप्नोति शाश्वतं स्थानं ततः पूज्यतरो हि सः २१

नादिर्न मध्यं नैवान्तो यस्य देवस्य विद्यते।
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः २२

परापरं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवन्निधानमव्ययं।
सनातनं यदमृतमच्युतं ध्रुवं प्रविश्य तं हरिममरत्वमश्नुते २३

इति विष्णुधर्मेष्वेकभक्तविधिः।

अथ सप्तमोऽध्यायः।
पुलस्त्यो उवाच।
शृणु दाल्भ्य परं काम्यं व्रतं सन्ततिदं नृणाम्।
यमुपोष्य न विच्छेदः पितृपिण्डस्य जायते १

कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः।
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते तु यः २

निराहारो जपन्नाम कृष्णस्य जगतः पतेः।
उपविष्टो जपस्नानक्षुतप्रस्खलितादिषु ३

पूजायां चापि कृष्णस्य सप्त वारान्प्रकीर्तयेत्।
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान् ४

प्रभाते तु पुनः स्नातो दत्त्वा विप्राय दक्षिणाम्।
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः ५

वैशाखज्येष्ठयोश्चैव पारणं हि त्रिमासिकम्।
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् ६

आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
उपोषिते द्वितीयं वै पारणं पूर्ववत्तु तत् ७

तथैवाश्वयुजं चादिं कृत्वा मासत्रयं बुधः।
उपोष्य स्नापयेद्देवं हविषा पारणे गते ८

पौषे माघे फाल्गुने च नरस्तद्वदुपोषितः।
चतुर्थे पारणे पूर्णे घृतेन स्नापयेद्धरिम् ९

एवं कृतोपवासस्य पुरुषस्य तथा स्त्रियः।
न सन्ततेः परिच्छेदः कदाचिदभिजायते १०

कृष्णाष्टमीमिमां यस्तु नरो योषिदथापि वा।
उपोष्यतीह साह्लादं नृलोके प्राप्य निर्वृत्तिम् ११

पुत्रपौत्रसमृद्धिं च मृतः स्वर्गे महीयते।
इत्येतत्कथितं दाल्भ्य मया कृष्णाष्टंईव्रतम् १२

प्रावृट्काले तु नियमाञ्शृणु काम्यानिमान्मम १३

प्रावृट्काले यदा शेते वासुदेवः पयोनिधौ।
भोगिभोगे निजां मायां योगनिद्रां! च मानयन् १४

विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः।
देवानां सा भवेद्रात्रिर्दक्षिणायनसञ्ज्ञिता १५

यदा स्वपिति गोविन्दो यस्तु मासं चतुष्टयम्।
अधःशायी ब्रह्मचारी केशवार्पितमानसः १६

नमो नमोऽस्तु कृष्णाय केशवाय नमो नमः।
नमोऽस्तु नरसिंहाय विष्णवे च नमो नमः १७

इति प्रातस्तथा सायं जपेद्देवक्रियापरः।
शमयत्यतिदुष्पारं दुरितं जन्मसञ्चितम् १८

मधु मांसं च यो मासाञ्चतुरस्तान्निरस्यति।
देवक्रियारतिर्विष्णोरनुस्मरणतत्परः १९

सोऽपि स्वर्गं समभ्येति च्युतस्तस्मात्तु जायते।
अरोगी धनधान्याढ्यः कुलसन्ततिमान्नरः २०

समस्तमन्दिराणां च यः सुप्ते मधुसूदने।
निर्वृत्तिं कुरुते सोऽपि देवो वैमानिको भवेत् २१

अनेनैव विधानेन नरो विष्णुक्रियापरः।
एकाहारो भवेद्यस्तु सर्वपापैः प्रमुच्यते २२

सुप्ते च सर्वलोकेशे नक्तभोजी भवेत्तु यः।
सर्वपापविनिर्मुक्तः स्वर्गलोकेऽमरो भवेत् २३

शस्तं त्वनन्तरं पुंसां ततश्चैवेकभोजनम्।
नक्तभोजनतुल्यं तु नोपवासफलं क्वचित् २४

तैलाभङ्गं च यो मासांश्चतुरस्तान्निरस्यति।
सोऽप्यङ्गलावण्यगुणमारोग्यं च नरो लभेत् २५

यस्त्वेतानि समस्तानि मासानेतान्नरश्चरेत्।
स विष्णुलोकमासाद्य विष्णोरनुचरो भवेत् २६

चतुर्भिः पारणं मासैर्निष्पाद्यं हरितत्परैः।
ब्राह्मणान्भोजयेद्दद्यात्ततस्तेभ्यश्च दक्षिणाम् २७

पूजयेच्च जगन्नाथं सर्वपापहरं हरिम्।
प्रीयस्व देव गोविन्देत्येवं चैव प्रसादयेत् २८

इति दाल्भ्य समाख्यातं चातुर्मास्ये हि यद्व्रतम्।
देवदेवस्य सुप्तस्य द्वादशीं शृणु चापराम्।
यस्यामनन्तस्मरणादनन्तफलभाग्भवेत् २९

इति विष्णुधर्मेषु वर्षामासव्रतम्।

अथाष्टमोऽध्यायः।
पुलस्त्य उवाच।
मासि प्रोष्ठपदे शुक्ले द्वादश्यां जलशायिनम्।
प्रणम्यानन्तमभ्यर्च्य पुष्पधूपादिभिः शुचिः १

पाषण्डादिभिरालापमकुर्वन्नियतात्मवान्।
विप्राय दक्षिणां दत्त्वा नक्तं भुङ्क्ते तु यो नरः २

तिष्टन्व्रजन्स्वपंश्चैव क्षुतप्रस्खलितादिषु।
अनन्तनामस्मरणं कुर्वन्नुच्चारणं तथा ३

अनेनैव विधानेन मासान्द्वादश वै क्रमात्।
उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम्।
गीतवाद्येन हृद्येन प्रीणयन्व्युष्टिमश्नुते ४

अनन्तं गीतवाद्येन यतः फलमुदाहृतम्।
तेनानन्तं समभ्यर्च्य तदेव लभते फलम् ५

एवं यः पुरुषः कुर्यादनन्ताराधनं शुचिः।
नारी वा स्वर्गमभ्येत्य सोऽअनन्तफलमश्नुते ६

एवं दाल्भ्य हृषीकेशो नरैर्भक्त्या यथाविधि।
फलं ददात्यसुलभं सलिलेनापि पूजितः ७

न विष्णुर्वित्तदानेन पुष्पैर्वा न फलैस्तथा।
आराध्यते सुशुद्धेन हृदयेनैव केवलम् ८

रागाद्यपेतं हृदयं वाग्दुष्टा नानृतादिना।
हिंसादिरहितः कायः केशवाराधनत्रयम् ९

रागादिदूषिते चित्ते नास्पदी मधुसूदनः।
करोति न रतिं हंसः कदाचित्कर्दमाम्भसि १०

न योग्या केशवस्तुत्यै वाग्दुष्टा चानृतादिना।
तमसो नाशनायालं नेन्दोर्लेखा घनावृता ११

हिंसादिदूषितः कायः केशवाराधने कुतः।
जनचित्तप्रसादाय न नभस्तिमिरावृतम् १२

तस्माच्छ्रद्धस्व भावेन सत्यभावेन च द्विज।
अहिंसकेन गोविन्दो निसर्गादेव तोषितः १३

सर्वस्वमपि कृष्णाय यो दद्यात्कुटिलाशयः।
स नैवाराधयत्येनं सद्भावेनार्चयाच्युतम् १४

रागाद्यपेतं हृदयं कुरु त्वं केशवार्पितम्।
ततः प्राप्स्यसि दुःप्राप्यमयत्नेनैव केशवम् १५

-———-दाल्भ्य उवाच।
भगवन्कथितः सम्यक् काम्योऽयं केशवं प्रति।
आराधनविधिः सर्वो भूयः पृच्छामि तद्वद १६

कुले जन्म तथारोग्यं धनर्द्धिश्चेह दुर्लभा।
त्रितयं प्राप्यते येन तन्मे वद महामुने १७

पुलस्त्य उवाच।
मातामहं काण्वमुदारवीर्यं महर्षिमभ्यर्च्य कुलप्रसूतिम्।
पप्रच्छ पुंसामथ योषितां च दुष्वन्तपुत्रो भरतः प्रणम्य १८

यथावदाचष्ट ततो महात्मा स राजवर्याय यथा कुलेषु।
प्रयान्ति सूतिं पुरुषाः स्त्रियश्च यथा च सम्यक् सुखिनो भवन्ति १९

पौषे सिते द्वादशमेऽह्नि सार्के तथार्क्षयोगे जगतः प्रसूतिम्।
सम्पूज्य विष्णुं विधिनोपवासी स्रग्गन्धधूपान्नवरोपहारैः २०

गृह्णीत मासं प्रतिमासपूजां दानादियुक्तं व्रतमब्दमेकम्।
दद्याच्च दानं द्विजपुङ्गवेभ्यस्तदुच्यमानं विनिबोध भूप २१

घृतं तिलान्व्रीहियवं हिरण्यं यवान्नमम्भःकरकान्नपानम्।
छत्त्रं पयोऽन्नं गुडफाणिताढ्यं स्रक्चन्दनं वस्त्रमनुक्रमेण २२

मासे च मासे विधिनोदितेन तस्यां तिथौ लोकगुरुं प्रपूज्य।
अश्नीत यान्यात्मविशुद्धिहेतोः सम्प्राशनानीह निबोध तानि २३

गोमूत्रमम्भो घृतमामशाकं दूर्वा दधि व्रीहियवांस्तिलांश्च।
सूर्यांशुतप्तं जलमम्बु दार्भं क्षीरं च मासक्रमशोपयुञ्ज्यात् २४

कुले प्रधाने धनधान्यपूर्णे विवेकवत्यस्तसमस्तदुःखे।
प्राप्नोति जन्माविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च २५

तस्मात्त्वमप्येतदमोघविद्यो नारायणाराधनमप्रमत्तः।
कुरुष्व विष्णुं भगवन्तमीशमाराध्य कामानखिलानुपैति २६

इति विष्णुधर्मेषु कुलावाप्तिद्वादशी।

अथ नवमोऽध्यायः।
पुलस्त्य उवाच।
यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत्।
तदा सा तु महापुण्या द्वादशी विजया स्मृता १

तस्यां स्नातः सर्वतीर्थैः स्नातो भवति मानवः।
सम्पूज्य वर्षपूजायाः सकलं फलमश्नुते २

एकं जप्त्वा सहस्रस्य जप्तस्याप्नोति यत्फलम्।
दानं सहस्रगुणितं तथा वै विप्र भोजनम् ३

यत्क्षेममपि वै तस्यां सहस्रं श्रावणे तु तत्।
अन्यस्यामेव तिथ्यां शुभायां श्रावणं यदा।
होमस्तथोपवासश्च सहस्राख्यफलप्रदः ३

इति विष्णुधर्मेषु विजयद्वादशी।

अथ दशमोऽध्यायः।
पुलस्त्य उवाच।
रोहिण्याश्च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम।
जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः १

यद्बाल्ये यच्च कौमारे यौवने वार्द्धिके च यत्।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु २

तत्क्षालयति गोविन्दं तस्यामभ्यर्च्य भक्तितः।
होमजप्यादिदानानां फलं च शतसम्मितम् ३

सम्प्राप्नोति न सन्देहो यच्चान्यन्मनसेच्छति।
उपवासश्च तत्रोक्तो महापातकनाशनः ४

इति विष्णुधर्मेषु जयन्त्यष्टमी।

अथैकादशोऽध्यायः।
पुलस्त्य उवाच।
एकदश्यां शुक्लपक्षे यदा र्क्षं वै पुनर्वसुः।
नाम्ना सातिजयाख्याता तिथीनामुत्तमा तिथिः १

यो ददाति तिलप्रस्थं तृष्कालं वत्सरं नरः।
उपवासं च तस्यां यः करोत्येतत्समं स्मृतम् २

तस्यां जगत्पतिर्देवः सर्वः सर्वेश्वरो हरिः।
प्रत्यक्षतां प्रयात्यल्पं तदानन्तफलं स्मृतम् ३

सगरेण ककुत्स्थेन दुन्धुमारेण गाधिना।
तस्यामाराधितः कृष्णो दत्तवान्निखिलां भुवम् ४

इति विष्णुधर्मेष्वतिविजयैकादशी।

अथ द्वादशोऽध्यायः।
पुलस्त्य उवाच।
अयने चोत्तरे प्राप्ते यः स्नापयति केशवम्।
घृतप्रस्थेन पापं सः सकलं वै व्यपोहति १

कपिलां विप्रमुख्याय ददात्यनुदिनं हि यः।
घृतस्नानं च देवस्य तस्मिन्काले समं हि तत् २

स्नाप्यमानं च पश्यति ये घृतेनोत्तरायणे।
ते यान्ति विष्णुसालोक्यं सर्वपापविवर्जिताः ३

इति विष्णुधर्मेषूत्तरायणव्रतं नाम द्वादशोऽध्यायः।

अथ त्रयोदशोऽध्यायः।
पुलस्त्य उवाच।
मैत्रेयी ब्राह्मणी पूर्वं याज्ञवल्क्यमपृच्छत।
प्रणिपत्य महाभागं योगेश्वरमकल्मषम् १

पापप्रशमनायालं यत्पुण्यस्योपवृंहकम्।
मनोरथप्रदं यच्च तद्व्रतं कथ्यतां मम २

कानि दानानि शस्तानि स्नानानि च यतव्रत।
प्रशस्तास्तिथयः काश्च प्राशनानि च शंस मे ३

याज्ञवल्क्य उवाच।
सर्वदानानि शस्तानि यान्युद्दिश्य जनार्दनम्।
दीयन्ते विप्रमुख्येभ्यः श्रद्धापूतेन चेतसा ४

ता एव तिथयः शस्ता यास्वभ्यर्च्य जनार्दनम्।
क्रियन्ते श्रधया सम्यगुपवासव्रताः सदा ५

प्राप्यते विविधैर्यज्ञैर्यत्फलं साध्वसाधुभिः।
उपवासैस्तदाप्नोति समभ्यर्च्य जनार्दनम् ६

मनोरथानां सम्प्राप्तिकारकं पापनाशनम्।
श्रूयतां मम धर्मज्ञे व्रतानामुत्तमं व्रतम् ७

यत्कृत्वा न जडो नान्धो बधिरो न च दुःखितः।
न चैवेष्टवियोगार्तिं कश्चित्प्राप्नोति मानवः ८

न चाप्रियोऽस्य लोकस्य न दरिद्रोन दुर्गतिः।
सप्त जन्मानि भवति सर्वपापैः प्रमुच्यते ९

विष्णुव्रतमिदं ख्यातं भाषितं विष्णुना स्वयम्।
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयम् १०

षण्मासपारणप्रायं गृह्णीयात्परमं व्रतम् ११

पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः स्मृतम्।
वचया च तृतीयेऽह्नि सर्वौषध्या ततः परम् १२

नाम्ना कृष्णाच्युताख्येन तथानन्तेन पूजयेत्।
तथैव च चतुर्थेऽह्नि हृषीकेशेन केशवम्।
देवमभ्यर्च्य पुष्पैश्च पत्त्रैर्धूपानुलेपनैः १३

उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः।
पुष्पैः पत्त्रैः फलैश्चैव सर्वधान्यैश्च भक्तितः १४

दिनक्रमेण चैतानि चन्द्रनामानि कीर्तयेत्।
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञानि ब्रह्मवादिनि १५

नक्तं भुञ्जीत मतिमान्यावत्तिष्ठति चन्द्रमाः।
अस्तङ्गते न भुञ्जीत व्रतभङ्गभयाच्छुभे १६

एवं सर्वेषु मासेषु ज्येष्ठान्तेषु यशस्विनि।
कर्तव्यं वै व्रतश्रेष्ठं द्वितीयादिचतुर्दिनम् १७

विप्राय दक्षिणां दद्यात्पञ्चम्यां च स्वशक्तितः।
एवं समापयेन्मासैः षड्भिः प्रथमपारणम् १८

पारणन्ते च देवस्य प्रीणनं भक्तितः शुभे।
यथाशक्त्या तु कर्तव्यं वित्तशाठ्यं विवर्जयेत् १९

आषाढादिद्वितीयं तु षण्मासेन तपोधने।
पारणं वै समाख्यातं व्रतस्यास्य शुभप्रदम् २०

व्रतमेतद्दिलीपेन दुष्वन्तेन ययातिना।
तथान्यैः पृथिवीपालैरुपवासविधानतः २१

चरितं मुनिमुख्यैश्च ऋचीकच्यवनादिभिः।
सुरम्भया सुकैकेय्या शाण्डिल्या धूम्रपिङ्गया।
सुदेष्णयाथवा रिण्या मतिमत्या कृताशया २२

सावित्र्! या पौर्णमास्या च वैरिण्या च सुभद्रया।
ब्राह्मणक्षत्रियविशामिति स्त्रीभिरनुष्ठितम् २३

उर्वश्या रम्भया चैव सौरभेय्या तथा व्रतम्।
वराप्सरोभिर्धर्मज्ञे चरितं धर्मवाञ्छया २४

प्रथमे पादपूजा स्याद्द्वितीये नाभिपूजनम्।
तृतीये वक्षसः पूजा चतुर्थे शिरसो हरेः २५

एतच्चीर्त्वा समस्तेभ्यः पापेभ्यः श्रद्धयान्वितः।
मुच्यते सकलांश्चैव सम्प्राप्नोति मनोरथान् २६

व्रतानामुत्तमं ह्येतत्स्वयं देवेन भाषितम्।
पापप्रशमनं शस्तं मनोरथफलप्रदम् २७

यं च काममभिध्यायन्क्रियते नियतव्रतैः।
व्रतमेतन्महाभागे तं तु पूरयते नृणाम् २८

मनोरथान्पूरयति सर्वपापं व्यपोहति।
अव्याहतेन्द्रियत्वं च सप्त जन्मानि यच्छति २९

माघे स्नातस्य यत्पुण्यं प्रयागे पापनाशनम्।
सकलं तदवाप्नोति श्रुत्वा विष्णुव्रतं त्विदम् ३०

इति विष्णुधर्मे विष्णुव्रतविधिर्नाम त्रयोदशोऽध्यायः।

अथ चतुर्दशोऽध्यायः।
याज्ञवल्क्य उवाच।
साक्षाद्भगवता प्रोक्तं परमं पापनाशनम्।
शुक्लपक्षे तु पौषस्य सम्प्राप्तिद्वादशीं शृणु।
यामुपोष्य समाप्नोति सर्वानेव मनोरथान् १

पाषण्डादिभिरालापमकुर्वन्विष्णुतत्परः।
पूजयेत्प्रणतो देवमेकाग्रमतिरच्युतम् २

पौषादिपारणं मासैः षड्भिर्ज्येष्ठान्तकं स्मृतम्।
प्रथमे पुण्डरीकाक्षं नाम देवस्य गीयते ३

द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने।
पुरुषोत्तमाख्यं च ततः पञ्चमे चाच्युतेति च ४

षष्ठे जयेति देवस्य गुह्यं नाम प्रकीर्त्यते।
पूर्वेषु षट्सु मासेषु स्नानप्राशनयोस्तिलाः ५

आषाढादिषु मासेषु पञ्चगव्यमुदाहृतम्।
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् ६

प्रतिमासं च देवस्य कृत्वा पूजां यथाविधि।
विप्राय दक्षिणां दद्याच्छ्रद्दधानः स्वशक्तितः ७

पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम्।
क्रुवीत शक्त्या गोविन्दे सद्भावाभ्यर्चनो यतः ८

नक्तं भुञ्जीत च ततस्तैलक्षारविवर्जितं।
एकादश्यामुषित्वैवं द्वादश्यामथवा दिने ९

एतामुषित्वा धर्मज्ञे प्रीणनं देवतत्परः।
सर्वकामानवाप्नोति सर्वपापैः प्रमुच्यते १०

यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा।
ततो लोकेषु विख्याता सम्प्राप्तिद्वादशीति वै ११

कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः।
पूरयत्यखिलान्कामान्संश्रुता च दिने दिने १२

इति विष्णुधर्मेषु सम्प्राप्तिद्वादशी।

अथ पञ्चदशोऽध्यायः।
याज्ञवल्क्य उवाच।
तस्मिन्नेव दिने पुण्ये गोविन्दद्वादशीं शृणु।
यस्यां सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् १

पौषमासे सिते पक्षे द्वादश्यां समुपोषितः।
संयक् सम्पूज्य गोविन्दं नाम्ना देवमधोक्षजम्।
पुष्पधूपोपहाराद्यैरुपवासैः समाहितः २

गोविन्देति जपन्नाम पुनस्तद्गतमानसः।
विप्राय दक्षिणां दद्याद्यथाशक्ति तपोधने ३

स्वपन्विबुद्धः स्खलितो गोविन्देति च कीर्तयेत्।
पाषण्डादिविकर्मस्थैरालापं च विवर्जयेत् ४

गोमूत्रं गोमयं वापि दधि क्षीरमथापि वा।
गोदेहतः समुत्पन्नं सम्प्राश्नीतात्मशुद्धये ५

द्वितीयेऽह्नि पुनः स्नातस्तथैवाभ्यर्च्य तं प्रभुम्।
तेनैव नाम्ना संस्तूय दत्त्वा विप्राय दक्षिणाम्।
ततो भुञ्जीत गोदेहसम्भूतेन समन्वितम् ६

एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः।
दद्याद्गवाह्निकं भक्त्या प्रतिमासं स्वशक्तितः ७

पारिते च पुनर्वर्षे यथाशक्ति गवाह्निकम्।
दत्त्वा परगवे भूयः शृणु यत्फलमश्नुते ८

सुवर्णशृङ्गाः पञ्च गाः षष्ठं च वृषभं नरः।
प्रतिमासं द्विजाग्रेभ्यो यद्दत्त्वा फलमश्नुते ९

तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः।
तं च लोकमवाप्नोति गोविन्दो यत्र तिष्ठति १०

गोविन्दद्वादशीमेतामुपोष्य दिवि तारकाः।
विद्योतमाना दृश्यन्ते लोकैरद्यापि शोभने ११

इति विष्णुधर्मेषु गोविन्दद्वादशी।

अथ षोडशोऽध्यायः।
मैत्रेय्युवाच।
उपवासव्रतानां तु वैकल्यं यन्महामुने।
दानकर्मकृतं तस्य विपाको वद यादृशः १

याज्ञवल्क्य उवाच।
यज्ञानामुपवासानां व्रतानां च यतव्रते।
वैकल्यात्फलवैकल्यं यादृशं तच्छृणुष्व मे २

उपवासादिना राज्यं सम्प्राप्यं ते तथा वसु।
भ्रष्टैश्वर्या निर्धनाश्च भवन्ति पुरुषाः पुनः ३

रूपं तथोत्तमं प्राप्य व्रतवैकल्यदोषतः।
काणाः कुण्ठाश्च भूयस्ते भवन्त्यन्धाश्च मानवाः ४

उपवासान्नरः पत्नीं नारी प्राप्य तथा पतिम्।
वियोगं व्रतवैकल्यादुभयं तदवाप्नुते ५

ये द्रव्ये सत्यदातारस्तथान्येनाहिताग्नयः।
कुले च सति दुःशीला दौष्कुलाः शीलिनश्च ये ६

वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः।
विरूपरूपाश्च तथा प्रसाधनगुणान्विताः ७

ते सर्वे व्रतवैकल्यात्फलवैकल्यमागताः।
गुणिनोऽपि हि दोषेण संयुक्ताः सम्भवन्ति ते ८

तस्मान्न व्रतवैकल्यं यज्ञवैकल्यमेव वा।
उपवासे च कर्तव्यं वैकल्याद्विकलं फलम् ९

मैत्रेय्युवाच।
कथञ्चिद्यदि वैकल्यमुपवासादिके भवेत्।
किं तत्र वद कर्तव्यमच्छिद्रंयेन जायते १०

याज्ञवल्क्य उवाच।
अखण्डद्वादशीमेतामशेषेष्वेव कर्मसु।
वैकल्यप्रशमायालं शृणुष्व गदतो मम ११

मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः।
कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् १२

पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः।
यवव्रीहिभृतं पात्रं दद्याद्विप्राय भक्तितः।
इदं चोच्चारयेद्भक्त्या देवस्य पुरतो हरेः १३

सप्त जन्मानि यत्किञ्चिद्मया खण्डव्रतं कृतम्।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे १४

यथाखण्डं जगत्सर्वम् त्वमेव पुरुषोत्तम।
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै १५

एवमेवानुमासं वै चातुर्मास्यविधिः स्मृतः १६

चतुर्भिरेव मासैस्तु पारणं प्रथमं स्मृतम्।
प्रीणनं च हरेः कुर्यात्पारिते पारणे ततः १७

चैत्रादिषु च मासेषु चतुर्ष्वन्यं तु पारणम्।
तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः १८

श्रावणादिषु मासेषु कार्त्तिकान्तेषु पारणम्।
यत्नात्तु घृतपात्राणि दद्याद्विप्राय भक्तितः १९

एवं सम्यग्यथान्यायमखण्डद्वादशीं नरः।
यदुपोष्यत्यखण्डं स व्रतस्य फलमश्नुते २०

सप्त जन्मसु वैकल्यम् यद्व्रतस्य क्वचित्कृतम्।
करोत्यविकलं सर्वमखण्डद्वादशीव्रतम् २१

तस्मादेषातियत्नेन नरैः स्त्रीभिश्च सुव्रते।
अखण्डद्वादशी सम्यगुपोष्या फलकाङ्क्षिभिः २२

इति विष्णुधर्मेषु अखण्डद्वादशीव्रतं नाम षोडशोऽध्यायः।

अथ सप्तदशोऽध्यायः।
पुलस्त्य उवाच।
एवं पुरा याज्ञवल्क्यः पृष्टः पत्न्या महामुनिः।
आचष्ट पुण्यफलदमुपवासविधिं परम् १

तथा त्वमपि विप्रर्षे केशवाराधने रतः।
व्रतोपवासपरमो भवेथा नान्यमानसः २

पुनश्चैतन्महाभाग श्रूयतां गदतो मम।
प्रोक्तं नरेण देवानां तिथिमाहात्म्यमुत्तमम् ३

विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं शस्तं सर्वदा केशवार्चने ४

यदन्यकाले वर्षेण केशवाल्लभ्यते फलम्।
सकृदेवार्चिते कृष्णे तदेतास्वपि लभ्यते ५

दाल्भ्य उवाच।
विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं चैव यच्छस्तं केशवार्चने ६

तत्सर्वं कथयेहाद्य तिथिमाहात्म्यमुत्तमम्।
यत्र सम्पूजितः कृष्णः सर्वपापं व्यपोहति ७

पुलस्त्य उवाच।
एकादश्यां सिते पक्षे पुष्यर्क्षं यत्र सत्तम।
तिथौ भवति सा प्रोक्ता विष्णुना पापनाशनी ८

तस्यां सम्पूज्य गोविन्दं जगतामीश्वरेश्वरम्।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ९

यश्चोपवासं कुरुते तस्यां स्नातो द्विजोत्तम।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते १०

दानं यद्दीयते किञ्चित्समुद्दिश्य जनार्दनम्।
होमो वा क्रियते तस्यामक्षयं लभते फलम् ११

एका ऋग्देवपुरतो जप्ता श्रद्धावता तथा।
ऋग्वेदस्य समस्तस्य जपता यच्छते फलम् १२

सामवेदफलं साम यजुर्वेदफलं यजुः।
जप्तमेकं मुनिश्रेष्ठ ददात्यत्र न संशयः १३

तारका दिवि राजन्ते द्योतमाना द्विजोत्तम।
समभ्यर्च्य तिथावस्यां देवदेवं जनार्दनम् १४

यतः पापमशेषं वै नाशयत्यत्र केशवः।
पुष्यर्क्षैकादशी ब्रह्मंस्तेनोक्ता पापनाशनी १५

इति विष्णुधर्मेषु पुष्यर्क्षैकादशी।

अथ अष्टादशोऽध्यायः।
पुलस्त्य उवाच।
तथान्यदपि धर्मज्ञ श्रूयतां गदतो मम।
पदद्वयं जगद्धातुर्देवदेवस्य शार्ङ्गिणः १

संवत्सरः पादपीठं तत्र न्यस्तं पदद्वयम्।
वासुदेवेन विप्रेन्द्रभूतानां हितकाम्यया २

वाममस्य पदं ब्रह्मनुत्तरायणसञ्ज्ञितम्।
देवाद्यैः सकलैर्वन्द्यं दक्षिणं दक्षिणायनम् ३

तस्मिन्यः प्रयतः सम्यग्देवदेवस्य मानवः।
करोत्याराधनं तस्य तोषमायाति केशवः ४

दाल्भ्य उवाच।
कथमाराधनं तस्य देवदेवस्य शार्ङ्गिणः।
क्रियते मुनिशार्दूल तन्ममाख्यातुमर्हसि ५

पुलस्त्य उवाच।
उत्तरे त्वयने दाल्भ्य स्नातो नियतमानसः।
घृतक्षीरादिना देवं स्नापयेद्धरणीधरम् ६

चारुवस्त्रोपहारैश्च पुष्पधूपानुलेपनैः।
समभ्यर्च्य ततः सम्यग्ब्राह्मणानां च तर्पणैः।
पदद्वयव्रतं सम्यग्गृह्णीयाद्विष्णुतत्परः ७

स्नातो नारायणं वक्ष्ये भुञ्जन्नारायणं तथा।
भुङ्क्त्वा नारायणं चाहं गच्छन्नारायणं ततः ८

स्वपन्विबुद्धः प्रणमन्होमं कुर्वंस्तथार्चनम्।
नारायणस्यानुदिनं करिष्ये नामकीर्तनम् ९

यावदद्यदिनात्प्राप्तं क्रमशो दक्षिणायनम्।
स्खलितेऽहं क्षुते चैव वेदनार्तोऽथवा सदा।
तावन्नारायणं वक्ष्ये सर्वमेवोत्तरायणम् १०

यावज्जीववधं किञ्चिद्ज्ञानतोऽज्ञानतोऽपि वा।
करिष्येऽहं तथा चैव कीर्तयिष्यामि तं प्रभुम् ११

यदा तदानृतं किञ्चिदथ वक्ष्यामि दुर्वचः।
अज्ञानादथवा ज्ञानात्कीर्तयिष्यामि तं प्रभुम् १२

षण्मासमेष मे जापो नारायणमयः परः।
तं स्मरन्मरणे याति यां गतिं सास्तु मे गतिः १३

षण्मासाभ्यन्तरे मृत्युर्यद्यकस्माद्भवेन्मम।
तन्मया वासुदेवाय स्वयमात्मा निवेदितः १४

परमार्थमयं ब्रह्म वासुदेवमयं परम्।
यमन्ते संस्मरन्याति स मे विष्णुः परा गतिः १५

यदा प्रातस्तदा सायं मध्याह्ने वा म्रिये ह्यहम्।
षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो मया १६

तथा कुरु जगन्नाथ सर्वलोकपरायण।
नारायण यथा नान्यं त्वत्तो यामि मृते गतिम् १७

एवमुच्चार्य षण्मासपारणं प्रवरं व्रतम्।
तावन्निष्पादयेद्यावत्सम्प्राप्तं दक्षिणायनम् १८

ततश्च प्रीणनं कुर्याद्यथाशक्त्या जगद्गुरोः।
भोजयेद्ब्राह्मणान्सम्यग्दद्यात्तेभ्यश्च दक्षिणाम् १९

एवं व्रतमिदं दाल्भ्य यः पारयति मानवः।
नारी वा सर्वपापेभ्यः षण्मासाद्विप्र मुच्यते २०

षण्मासाभ्यन्तरे चास्य मरणं यदि जायते।
प्राप्नोत्यनशनस्योक्तं यत्फलं तदसंशयम् २१

पदद्वयं च कृष्णस्य सम्यक् तेन तथार्चितम्।
हरेर्नाम जपन्भक्त्या स पुरा न जनेश्वर।
भगवानुज्जगौ विष्णुः पुरा गार्ग्याय पृच्छते २२

इति विष्णुधर्मेषु पदद्वयव्रतम्।

अथैकोनविंशोऽध्यायः।
पुलस्त्य उवाच।
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
नरो वा यदि वा नारी समभ्यर्च्य जगद्गुरुम् १

हरेर्नाम जपेद्भक्त्या सप्त वारान्नरेश्वर।
उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् २

ततोऽन्यदिवसे प्राप्ते द्वादश्यां प्रयतो हरिम्।
स्नात्वा सम्यक् तमभ्यर्च्य दद्याद्विप्राय दक्षिणाम् ३

हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ४

पातालसंस्था वसुधा यं प्रसाद्य मनोरथान्।
अवाप वासुदेवोऽसौ प्रददातु मनोरथान् ५

यमभ्यर्च्यादितिः प्राप्ता सकलांश्च मनोरथान्।
पुत्रांश्चैवेप्सितान्देवः प्रददातु मनोरथान् ६

भ्रष्टराज्यश्च देवेन्द्रोयमभ्यर्च्य जगत्पतिम्।
मनोरथानवापाग्र्यान्स ददातु मनोरथान् ७

एवमभ्यर्च्य पूजां च निष्पाद्य हरये ततः।
भुञ्जीत प्रयतः सम्यघविष्यं मनुजर्षभ ८

फाल्गुनं चैत्रवैशाखौ ज्येष्ठमासं च पार्थिव।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ९

रक्तपुष्पैस्तु चतुरो मासान्कुर्वीत चार्चनम्।
दहेच्च गुग्गुलं प्राश्य गोशृङ्गक्षालनं जलम् १०

हविष्यान्नं च नैवेद्यमात्मनश्चैव भोजनम्।
ततश्च श्रूयतामन्यदाषाढादौ तु या क्रिया ११

जातीपुष्पाणि धूपश्च शस्तः सर्जरसो नृप।
प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदनम् १२

स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत्।
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् १३

सुगन्धं चेच्छया धूपं पूजाभृङ्गारकेण च।
कासारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् १४

प्रतिमासं च विप्राय दातव्या दक्षिणा तथा।
प्रीणनं चेच्छया विष्णोः पारणे पारणे गते १५

यथाशक्ति यथाप्रीति वित्तशाठ्यं विवर्जयेत्।
सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः १६

पारणान्ते यथाशक्त्या स्नापितः पूजितो हरिः।
प्रीणितश्चेप्सितान्कामान्ददात्यव्याहतान्नृप १७

एषा धन्या पापहरा द्वादशी फलमिच्छताम्।
यथाभिलषितान्कामान्ददाति मनुजेश्वर १८

पूरयत्यखिलान्भक्त्या यतश्चैषा मनोरथान्।
मनोरथद्वादशीयं ततो लोकेषु विश्रुता १९

उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा।
अदित्या चेप्सिताः पुत्रा धनं चोशनसा नृप २०

धौम्येन चाप्यध्ययनमन्यैश्चाभिमतं फलम्।
राजर्षिभिस्तथा विप्रैः स्त्रीभिः शूद्रैश्च भूपते २१

यं यं काममभिध्यायेद्व्रतमेतदुपोषितः।
तं तमाप्नोत्यसन्दिग्धं विष्णोराराधनोद्यतः २२

अपुत्रो लभते पुत्रमधनो लभते धनम्।
रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् २३

समागमं प्रवसितैरुपोष्यैतामवाप्नुते।
सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते २४

नापुत्रो नाधनो नेष्टवियोगी न च निर्गुणः।
उपोष्यैतद्व्रतं मर्त्यः स्त्री जनो वापि जायते २५

य एव व्रतसञ्चीर्णो विष्णुलोके महीयते।
स्वर्गलोके सहस्राणि वर्षाणां मनुजाधिप।
भोगानभिमतान्भुक्त्वा स्वर्गलोकेऽभिकाङ्क्षितान् २६

इह पुण्यवतां नॄणां धनिनां साधुशीलिनाम्।
गृहेषु जायते राजन्सर्वव्याधिविवर्जितः २७

इति विष्णुधर्मेषु मनोरथद्वादशीकल्पः।

अथ विंशोऽध्यायः।
पुलस्त्य उवाच।
अशोकपूर्णिमां चान्यां शृणुश्व वदतो मम।
यामुपोष्य नरः शोकं नाप्नोति स्त्री तथापि वा १

फाल्गुनामलपक्षस्य पूर्णिमास्यां नरेश्वर।
मृज्जलेन नरः स्नात्वा दत्त्वा शिरसि वै मृदम् २

मृत्प्राशनं तथा कृत्वा कृत्वा च स्थण्डिलं मृदा।
पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नान्यमानसः।
धरणीं च तथा देवीमशोकेत्यभिधीयते ३

यथा विशोकां धरणीं कृतवांस्त्वं जनार्दनः।
तथा मां सर्वपापेभ्यो मोचयाशेषधारिणि ४

यथा समस्तभूतानां धारणं त्वय्यवस्थितम्।
तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः ५

ध्यातमात्रे यथा विष्णौ स्वास्थ्यं यातासि मेदिनि।
तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि ६

एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च।
उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् ७

अनेनैव प्रकारेण चत्वारः फाल्गुनादयः।
उपोष्या नृपते मासाः प्रथमं तत्तु पारणम् ८

आषाढादिषु मासेषु तद्वत्स्नानं मृदम्बुना।
तदेव प्राशनं पूजा तथैवेन्दोस्तथार्हणम् ९

चतुर्ष्वन्येषु चैवोक्तं तथा वै कार्त्तिकादिषु।
पारणं त्रितयं चैव चातुर्मासिकमुच्यते १०

प्रथमं धरणी नाम स्तुत्यै मासचतुष्टयम्।
द्वितीये मेदिनी वाच्या तृतीये च वसुन्धरा ११

पारणे पारणे वस्त्रपूजया पूजयेन्नृप।
धरणीं देवदेवं च घृतस्नानेन केशवम् १२

वस्त्राभावे तु सूत्रेण पूजयेद्धरणीं तथा।
घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः १३

पातालमूलगतया चीर्णमेतन्महाव्रतम्।
धरण्या केशवप्रीत्यै ततः प्राप्ता समुन्नतिः १४

देवेन चोक्ता धरणी वराहवपुषा तदा।
उपवासप्रसन्नेन समुद्धृत्य रसातलात् १५

व्रतेनानेन कल्याणि प्रणतो यः करिष्यति।
तस्य प्रसादमप्यहम् करोमि तव मेदिनि।
तथैव कुरुते पूजां भक्त्या मम शुभो जनः।
तथैव तव कल्याणि प्रणतो यः करिष्यति।
व्रतमेतदुपाश्रित्य पारणं च यथाविधि १६

सर्वपापविनिर्मुक्तः सप्त जन्मान्तराण्यसौ।
विशोकः सर्वकल्याणभाजनो मतिमाञ्जनः १७

सर्वत्र पूज्यः सततं सर्वेषामपराजितः।
यथाहमेवं वसुधे भविता निर्वृतेः पदम् १८

तथा त्वमपि कल्याणि भविष्यसि न संशयः।
पुलस्त्य उवाच।
एवमेतन्महापुण्यं सर्वपापोपशान्तिदम्।
विशोकाख्यं व्रतं धन्यं तत्कुरुष्व महीपते १९

इति विष्णुधर्मेषु अशोकपूर्णमासीव्रतम्।

अथ एकद्विंशोऽध्यायः।
दाल्भ्य उवाच।
स्त्रीणां धर्मं द्विजश्रेष्ठ उपवासं भवन्मम।
कथयेह यथातत्त्वमुपवासविधिश्च यः १

कौमारके गृहस्थाया विधवायाश्च सत्तम।
धर्मं प्रब्रूह्यशेषेण भगवन्प्रीतिकारकम् २

पुलस्त्य उवाच।
श्रूयतामखिलं ब्रह्मन्यद्येतदनुपृच्छसि।
उपकाआय च स्त्रीणां त्रिषु लोकेष्वनुत्तमम् ३

प्रश्नमेतत्पुरा देवी शैलराजसुता पतिम्।
पप्रच्छ शङ्करं ब्रह्मन्कैलासशिखरे स्थितम् ४

देव्युवाच।
कुमारिकाभिर्देवेश गृहस्थाभिश्च केशवः।
विधवाभिस्तथा स्त्रीभिः कथमाराध्यते वद ५

ईश्वर उवाच।
साधु साध्वि त्वया पृष्टमेतन्नारायणाश्रितम्।
उपवासादि यत्तत्त्वं श्रूयतामस्य यो विधिः ६

योग्यं पतिं समासाद्य नारी धर्ममवाप्नुते।
दुःशीलेऽपि हि कामार्ते नारी प्राप्नोति भर्तरि ७

अनाराध्य जगन्नाथं सर्वलोकेश्वरं हरिम्।
कथमाप्नोति वै नारी पतिं शीलगुणान्वितम् ८

सुकलत्रप्रदं तस्माद्व्रतमच्युततुष्टिदम्।
कर्तव्यं लक्षणं तस्य श्रूयतां वरवर्णिनि ९

यच्चीर्त्वा सर्वनारीणां श्रेष्ठमाप्नोत्यसंशयम्।
ऐहिकं च सुखं प्राप्य स्वर्गे भुङ्क्ते सुखान्यपि १०

अनुज्ञां प्राप्य पितृतो मातृतश्च कुमारिका।
पूजयेच्च जगन्नाथं भक्त्या पापहरं हरिम् ११

त्रिषूत्तरेषु स्वृक्षेषु पतिकामा कुमारिका।
माधवाख्यं तु वै नाम जपेन्नित्यमतन्द्रिता १२

प्रियङ्गुणा रक्तपुष्पैर्बन्धूककुसुमैस्तथा।
समभ्यर्च्य ततो दद्याद्रक्तमेवानुलेपनम् १३

सर्वौषध्या स्वयं स्नात्वा समभ्यर्च्य जगत्पतिम्।
नमोऽस्तु माधवायेति होमयेन्मधुसर्पिषी १४

स देवमुत्तरायोगे समभ्यर्च्य जनार्दनम्।
शोभनं पतिमाप्नोति प्रेत्य स्वर्गं च गच्छति १५

अतिबाल्ये च यत्किञ्चित्तया पापमनुष्ठितम्।
तस्माच्च मुच्यते देवि सुखिनी चैव जायते १६

अब्देनैकेन तन्वङ्गि धूतपापा यदिच्छति।
तदेव प्राप्नुयाद्भद्रेनारायणपरायणा १७

षण्मासं प्रीणनं कार्यं भक्त्या शक्त्या च वै हरेः।
पारणान्ते महाभगे तथा ब्राह्मणतर्पणम् १८

इति विष्णुधर्मेषु सुकलत्रप्राप्तिव्रतं नाम एकद्विंशोऽध्यायः।

अथ द्वाविंशोऽध्यायः।
देवदेव उवाच।
गार्हस्थ्येऽवस्थिता नारी भक्त्या सम्पूजयेत्पतिम्।
स एव देवता तस्याः पूज्यः पूज्यतरश्च सः १

तस्मिंस्तुष्टे परो धर्मस्तस्यैव परिचर्यया।
तोषमायाति सर्वात्मा परमात्मा जनार्दनः २

नैव तस्याः पृथग्यज्ञो न श्राद्धं नाप्युपोषितम्।
भर्तृशुश्रूषणेनैव प्राप्नोति स्त्री यथेप्सितम् ३

तेनैव साप्यनुज्ञाता तस्य शुश्रूषणादनु।
तोषयेज्जगतामीशमनन्तमपराजितम् ४

व्रतैर्नानाविधैर्देवि ऐहिकामुष्मिकाप्तये।
विष्णुव्रतादिभिर्दिव्यैस्तथा दानैर्मनोऽनुगैः ५

घृतक्षीराभिषेकैश्च ब्राह्मणानां च तर्पणैः।
मनोज्ञैर्विविधैर्धूपैः पुष्पवस्त्रानुलेपनैः ६

गीतवाद्यैस्तथा हृद्यैरुपवासैश्च भामिनि।
एवमाराध्य गोविन्दमनुज्ञाता यथाविधि।
पतिना सकलान्कामानवाप्नोति न संशयः ७

पतिना त्वननुज्ञाता किञ्चित्पुण्यं करोति या।
विफलं तदशेषं वै तस्याः शैलवरात्मजे ८

न च प्रसादं कुरुते भगवान्मधुसूदनः।
नानुज्ञाता तु या नारी पतिनार्चति केशवम् ९

या तु भर्तृपरा नारी नारायणमतन्द्रिता।
भक्त्या सम्पूजयेद्देवं तोषमायाति केशवः १०

देव्युवाच।
या तु भर्त्रा परित्यक्ता तथा या मृतभर्तृका।
पाषण्डानुगतो वापि यस्या भर्ता महेश्वर ११

प्रायो ददाति नानुज्ञां विष्णोराराधने तदा।
कथमाराधनं कार्यं विष्णोस्तद्वद शङ्कर १२

देवदेव उवाच।
या तु भर्त्रा परित्यक्ता सा सम्पूज्य निजं पतिम्।
मनसा तन्मनस्का च तस्यैव हितकारिणी १३

न निन्दाकरणी तस्य श्रेयोऽभिध्यायिनी तथा।
तस्यैव सर्वकालेषु सर्वकल्याणमिच्छति १४

आराधयेज्जगन्नाथं सर्वधातारमच्युतम्।
कृतोपवासा पुष्पादि निवेद्य सकलं ततः १५

भर्तुर्मनोरथावाप्तिं प्रार्थयेत्प्रथमं वरम्।
स्वयं यथाभिलषितं प्रार्थयेत्तं वरं ततः १६

एवं भर्तृपरित्यक्ता योषिदाराधनं हरेः।
कुर्वाणा सकलान्कामानवाप्नोति न संशयः १७

भर्ता करोति यच्चस्याः किञ्चित्पुण्यमहर्निशम्।
तस्य पुण्यस्य सम्पूर्णमर्धं प्राप्नोति सा शुभे १८

यत्तु सा कुरुते पुण्यं विना दोषेण योज्झिता।
तत्तस्याः सकलं देवि तस्यार्धं न लभेत्पतिः १९

भर्तर्येवं प्रवसिते त्यक्ता च पतिना शुभे।
कुर्वीताराधनं नारी उपवासादिना हरेः २०

एतत्तवोक्तं यत्पृष्टं त्वयाहं गिरिनन्दिनि।
विधवानामतो धर्मं श्रूयतां विष्णुतुष्टिदम् २१

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रतोदिता।
स्नाता प्रतिदिनं दद्यात्स्वभर्तृसलिलाञ्जलिम् २२

कुर्याद्यानुदिनं भक्त्या देवानामपि पूजनम्।
अतिथेस्तर्पणं तद्वदग्निहोत्रममन्त्रकम् २३

पूर्तधर्माश्रितं चान्यत्कुर्यान्नित्यमतन्द्रिता।
नित्यकर्म ऋते चास्या नेष्टं कर्म विधीयते २४

विष्णोराराधनं चैव कुर्यान्नित्यमुपोषिता।
दानादि विप्रमुख्येभ्यो दद्यात्पुण्यविवृद्धये।
उपवासांश्च विविधान्कुर्याच्छास्त्रोदितान्शुभे २५

लोकान्तरस्थं भर्तारमात्मानं च वरानने।
तारयत्युभयं नारी येत्थं धर्मपरायणा २६

पुत्रैश्वर्यस्थिता नारी उपवासादिना हरिम्।
या तोषयति सिद्धिं सा पुत्रेभ्योऽपि प्रयच्छति २७

शुभांल्लोकांस्तथा भर्तुरात्मनश्च यथेप्सितान्।
सकलं पूरयत्यस्तं पापं नयति चाखिलम् २८

आत्मनश्चैव भर्तुश्च नारी परमिकां गतिम्।
ददात्याराध्य गोविन्दं सपुत्रा विधवा च या २९

तस्मादेभिर्विधानैस्तु सर्वकालं तु योषितः।
केशवाराधनं कार्यं लोकद्वयफलप्रदम् ३०

ये नरा मृतपत्निकास्तैरप्येतदशेषतः।
पूर्तधर्माश्रितं कार्यं नित्यकर्म च केवलम् ३१

पुत्रैश्वर्यस्थितैः सम्यग्ब्रह्मचर्यगुणान्वितैः।
विष्णोराराधनं कार्यं तीर्थस्थैरथवा गृहे ३२

ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रश्च वरानने।
अनाराध्य हृषीकेशं नाप्नोति परमां गतिम् ३३

ऐश्वर्यं सन्ततिं श्रेष्ठामारोग्यं द्रव्यसम्पदम्।
ददाति भगवान्विष्णुर्गतिमग्र्यां सुतोषितः ३४

पुलस्त्य उवाच।
एवं शैलसुता प्रोक्ता स्वयं देवेन शम्भुना।
पृष्टेन सम्यक् कथितं भवतोऽपि महामुने ३५

सर्ववर्णैस्तथा स्त्रीभिरन्यैरपि जनैर्हरिः।
आराधनीयो नातुष्टे विष्णौ सम्प्राप्यते गतिः ३६

न दुर्गतिं रौरवादीन्नरकांश्च न गच्छति।
यमाराध्येश्वरं वन्द्यं कस्तं विष्णुं न पूजयेत् ३७

तस्मादमुष्मिकान्क्लेशान्नरके याश्च यातनाः।
सदैवोद्विजता दाल्भ्य समाराध्यो जनार्दनः ३८

इति विष्णुधर्मेषु स्त्रीधर्मः।

अथ त्रयोविंशोऽध्यायः।
दाल्भ्य उवाच।
भगवन्यातना घोराः श्रूयन्ते नरकेषु याः।
तासां स्वरूपमत्युग्रं यथावद्वक्तुमर्हसि १

पुलस्त्य उवाच।
शृणु दाल्भ्यातिघोराणां यातनानां मयोदितम्।
स्वरूपं नारकैर्यत्तु नरकेष्वनुभूयते २

योजनानां सहस्राणि रौरवो नरको द्विज।
अङ्गारपूर्णमध्योऽसौ ज्वालामालापरिष्कृतः ३

तन्मध्ये पतितो याति योजनानि सहस्रशः।
सत्यहान्यानृती याति तत्र पापरतिर्नरः ४

रौरवाद्द्विगुणश्चैव महारौवरसञ्ज्ञितः।
तप्तताम्रपुटाङ्गारज्वलत्पावकसंवृतः ५

परोपतापिनस्तत्र पतन्ति नरके नराः।
नाश्चर्यं द्विजशार्दूल वर्षलक्षयुतानि च ६

कालसूत्रेण च्छिद्यन्ते चक्रारूढाश्च मानवाः।
कालाङ्गुलिस्थेन सदा आपादतलमस्तकात् ७

कालसूत्र इति ख्यातो घोरः स नरकोत्तमः।
तत्रापि वञ्चका यान्ति ये चैवोत्कोचजीविनः ८

तप्तकुम्भस्तथैवान्यो नरको भृशदारुणः।
तैलकुम्भेषु पच्यन्ते तत्राप्यग्निभृतेषु ते ९

देववेदद्विजातीनां ये निन्दां कुर्वते सदा।
संशृण्वन्ति च ये मूढा ये च मत्सरिणोऽधमाः १०

करम्भवालुकाकुम्भसञ्ज्ञं च नरकं शृणु।
परदाररता ये तु पतन्ति नरकेऽधमाः ११

हृतं यैश्च जलं तेऽपि तस्मिन्यान्ति नराधमाः।
गोनिपानेषु विघ्नानि मूढा ये चापि कुर्वते।
करम्भवालुकाकुम्भनरके ते पतन्ति वै १२

अन्धे तमसि दुष्पारे शीतार्तिपरिकम्पिताः।
भ्राम्यन्ते मानवा गात्रैः समस्तैः स्फुटितास्थिभिः १३

गोवधः स्त्रीवधः पापैः कृतं यैश्च गवानृतम्।
ते तत्रातिमहाभीमे पतन्ति नरके नराः १४

उत्पाट्यते तथा जिह्वा सन्दंशैर्भृशदारुणैः।
आक्रिशकानां दुष्टानां सदैवाबद्धभाषिणाम् १५

करपत्रैश्च पाट्यन्ते यमस्य पुरुषैस्तथा।
परदारपरद्रव्यहिंसकाः पुरुषाधमाः १६

आयसीं च शिलां तप्तामशेषाङ्गैस्तथा नराः।
परदाररता एवं समालिङ्गन्ति पापिनः १७

सर्वाङ्गैर्विकृतैर्रक्तमुद्गिरन्तोऽतिपीडिताः।
यन्त्रेष्वन्येषु पीड्यन्ते जन्तुपीडाकरा नराः १८

वृकैः सम्भक्ष्यते पृष्ठं नराणां पापकारिणाम्।
जनस्य पृष्ठमांसं यैर्भक्षितं पापकारिभिः १९

असिपत्रवनैर्घोरैश्छिद्यन्ते पापकर्मिणः।
सद्भावप्रवणा यैस्तु भग्ना विश्रम्भिनो जनाः २०

अयोमुखैः खगैर्भग्नाः खण्डखण्डं तथापरैः।
व्रजन्ति पापकर्माणः श्वशृगालैस्तथापरैः २१

सूषायामपि धास्यन्ते ज्वलदग्निचयावृताः।
पाषाणपेष्यं पिष्यन्ते तथान्ये पापकर्मिणः २२

देवतातिथिभृत्याणामदत्त्वा भुञ्जते तु ये।
मृषागतास्तथाइवैक्यं त्रपुषा सीसकेन च।
प्रयान्ति पुरुषास्तैलैः क्वाथ्यन्तेऽन्ये पुनः पुनः २३

वर्णधर्मपरित्यागे नैक्यं ये पुरुषा गताः।
तेऽपि पापसमाचारा वर्णसङ्करकारिणः २४

स्वरूपं नारकस्याग्नेः शृणुष्व कथयामि ते।
मुक्तस्ततोऽन्यवह्निस्ह्तः शेते सम्प्राप्य निर्वृतिम् २५

शस्त्रधारास्तथैवैता मृणालप्रस्तरं नरः।
मन्यते नारकैः शस्त्रैर्विक्षतो द्विजसत्तम २६

हिमखण्डचयाछन्नो निवातं मन्यते नरः।
विमुक्तो नारकाच्छीतात्प्रकाशं तमसस्तमः २७

प्रोता गुदेषु भिन्नाङ्गा आर्ता रावविराविणः।
शूलेषु लोहेष्वपरे त्रिशूलेषु तथापरे २८

याज्योपाध्यायदाम्पत्यसुहृन्मित्रसुतादिषु।
कृतो भेदो दुराचारैर्यैरलीकोक्तिभाषिभिः २९

आयसाः कण्टकास्तीक्ष्णा नरके कूटशाल्मलौ।
तेषु प्रोता दुरात्मानः परदारभुजो नराः ३०

कृमिकीटजलौकादितीक्ष्णदंष्ट्रास्यविक्षताः।
भ्राम्यन्ते चान्धतामिस्रे वृथामांसाशिनो हि ये ३१

एतांश्चान्यांश्च नरकाञ्शतशोऽथ सहस्रशः।
कर्मान्तरं जनो भुङ्क्ते परिणामांश्च चेतसः ३२

यादृक् कर्म मनुष्याणां तादृग्विषयरूपवत्।
परिणामं मनो याति शुभाशुभमयं द्विज ३३

इति विष्णुधर्मेषु नरकाध्यायः।

अथ चतुर्विंशोऽध्यायः।
दाल्भ्य उवाच।
अतीवभीषणानित्थं शस्त्राग्निभयदान्नरः।
कथं न गच्छेन्नरकानेतन्मे वक्तुमर्हसि १

अहोऽतिकष्टपापानां विपाको नरकस्थितैः।
पुरुषैर्भुज्यते ब्रह्मंस्तन्मोक्षं वद सत्तम २

पुलस्त्य उवाच।
पुण्यस्य कर्मणः पाकः पुण्य एव द्विजोत्तम।
चेतसः परिणामोत्तः स्वर्गस्थैर्भुज्यते नरैः ३

तथैव पाकः पापानां पुरुषैर्नरकस्थितैः।
भुज्यते तावदखिलं यावत्पापं क्षयं गतम् ४

यदा तु पापस्य जयः क्षीयते सुकृतं तदा।
शुभस्य कर्मणो वृद्धौ क्षयमायात्यशोभनम् ५

जये यतेत पुरुषस्तस्मात्सुकृतकर्मणः।
पापं कर्म विना नैव नरकप्राप्तिरिष्यते ६

जयाय द्वादशी शस्ता नॄणां सुकृतकर्मणाम्।
यामुपोष्य द्विजश्रेष्ठ न याति नरकं नरः ७

फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ८

एकादश्यां समुद्दिष्टं विष्णोर्नामानुकीर्तनम्।
पूजायां वासुदेवस्य कुर्वीत सुसमाहितः ९

नमो नारायणायेति वाच्यं च स्वपता निशि।
क्रोधः प्रपञ्च ईर्ष्या च दम्भो लोभश्च वर्जितः १०

कामो द्रोहो मदश्चापि मानमात्सर्यमेव च।
सर्वमेतत्परित्यज्य विष्णुभक्तेन चेतसा ११

असारतां च लोकेऽस्मिन्संसारे भावयेन्मतिम्।
कामं क्रोधं च लोभं च दम्भमीर्ष्यां च वर्जयेत्।
मानद्रोहादिदोषांश्च सर्वान्धनमदोद्भूतान्।
भावयेद्विष्णुभक्तांश्च संसारासारतां तथा।
एवं भावितचित्तेन प्राणिनां हितमिच्छता।
तथैव कुर्याद्द्वादश्यां नाम्नामुच्चारणं द्विज १२

यवपात्राणि पूर्वं तु दद्यान्मासचतुष्टयम्।
आषाढादिद्वितीयं तु पारणं यन्महामते।
तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः १३

कार्त्तिकादिषु मासेषु माघन्तेषु तथा तिलान्।
विप्राय दद्यात्पात्रस्ह्तान्प्रतिमासमुपोषितः १४

नामत्रयमशेषेषु मासि मासि दिनद्वयम्।
तथैवोच्चारयेद्दद्याद्द्वादश्यां च यवादिकम्।
प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् १५

विष्णो नमस्ते जगतः प्रसूते ॐ वासुदेवाय नमो नमस्ते।
नारायण त्वां प्रणतोऽस्म्यचिन्त्य जयोऽस्तु मे शाश्वतपुण्यराशेः १६

प्रसीद पुण्यं जयमेतु विष्णो ॐ वासुदेव र्द्धिमुपैतु पुण्यम्।
नारायणॐ भूतिमुपैतु पुण्यम् प्रयातु चाशेषमघं विनाशम् १७

विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम्।
नारायणास्तु धर्मो मे जहि पापमशेषतः १८

अनेकजन्मजनितं बाल्ययौवनवार्द्धिके।
पुण्यं विवृद्धिमायातु यातु पापं तु सङ्क्षयम् १९

आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु।
प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः।
यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः २०

तेन सत्येन मे पापं नरकार्तिप्रदं क्षयम्।
प्रयातु सुकृतस्यास्तु ममानुदिवसं जयः।
पापस्य हानिः पुण्यं च वृद्धिमभ्येत्यनुत्तमाम् २१

एवमुच्चार्य विप्राय दत्त्वा यत्कथितं तव।
भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते २२

पारणान्ते च देवस्य प्रीणनं शक्तितो द्विज।
कुर्वीताखिलपाषण्डैरालापं च विवर्जयेत् २३

इत्येतत्कथितं दाल्भ्य सुकृतस्य जयावहा।
द्वादशी नरकं मृत्यो यामुपोष्य न पश्यति २४

नाग्नयो न च शस्त्राणि न च लोहमूखाः खगाः।
नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने २५

नामोच्चारणमात्रेण विष्णोः क्षीणोऽघसञ्चयः।
भवत्यपास्तपापस्य नरके गमनं कुतः २६

नमो नारायण हरे वासुदेवेति कीर्तयेत्।
न याति नरकं मर्त्यः सङ्क्षीणाशेषपातकः २७

तस्मात्पाषण्डिसंसर्गमकुर्वन्द्वादशीमिमाम्।
उपोष्य पुण्योपचयी न याति नरकं नरः २८

इति विष्णुधर्मेषु नरकद्वादशी नाम चतुर्दशोऽध्यायः।

अथ पञ्चदशोऽध्यायः।
दाल्भ्य उवाच।
पाषण्डिभिरसंस्पर्शमसम्भाषणमेव च।
विष्णोराराधनपरैर्नरैः कार्यमुपोषितैः १

किं ब्रूहि लक्षणं तेषां यादृशान्वर्जयेद्व्रती।
कथञ्चिद्यदि संलापदर्शनस्पर्शनादिकम् २

उपोषितानां पाषण्डैर्नराणां विप्र जायते।
किं तत्र वद कर्तव्यं येनाखण्डंव्रतं भवेत् ३

पुलस्त्य उवाच।
श्रुतिस्मृत्युदितं धर्मं वर्णाश्रमविभागजम्।
उल्लङ्घ्य ये प्रवर्तन्ते स्वेच्छया कूटयुक्तिभिः ४

विकर्माभिरता मूढा युक्तिप्रागल्भ्यदुर्मदाः।
पाषण्डिनस्ते दुःशीला नरकार्हा नराधमाः ५

तांस्तु पाषण्डिनः पापान्विकर्मस्थांश्च मानवान्।
वैडालव्रतिकांश्चैव नित्यमेव तु नालपेत् ६

सम्भाष्यैताञ्शुचिषदं चिन्तयेदच्युतं बुधः।
इदं चोदाहरेत्सम्यक् कृत्वा तत्प्रवणं मनः ७

शारीरमन्तःकरणोपघातं वाचश्च विष्णुर्भगवानशेषम्।
शमं नयत्वस्तु ममेह शर्म पापादनन्ते हृदि सन्निविष्टे ८

अन्तःशुद्धिं बहिःशुद्धिं शुद्धोऽन्तर्मम योऽच्युतः।
स करोत्वमले तस्मिञ्शुचिरेवास्मि सर्वदा ९

बाह्योपघातादनघो बोद्धा च भगवानजः।
शुद्धिं नयत्वनन्तात्मा विष्णुश्चेतसि संस्थितः १०

एतत्सम्भाष्य जप्तव्यं पाषण्डिभिरुपोषितैः।
नमः शुचिषदेत्युक्त्वा सूर्यं पश्येत वीक्षितैः ११

श्रूयते च पुरा मर्त्याः स्वेच्छया स्वर्गगामिनः।
बभूवुरनघाः सर्वे स्वधर्मपरिपालनात् १२

देवाश्च बलिनो मर्त्यैर्वर्णकर्मण्यनुव्रतैः।
यज्ञाध्ययनदानेषु वर्तमानैश्च मानवैः १३

दैतेयाश्च पराभावमतुष्टावसुरा ययुः।
ततश्च षण्डो मर्कश्च दैत्येन्द्राणां पुरोहितौ।
चक्रतुः कर्म देवानां विनाशायातिभीषणम् १४

तत्रोत्पन्नोऽतिकृष्णाङ्गस्तमःप्रायोऽतिदारुणः।
दम्भाधारः शाठ्यसारो निद्राप्रकृतिरुल्वणः १५

महामोह इति ख्यातः कृत्यरूपो विभीषणः।
चतुर्धा स विभक्तश्च ताभामत्र महीयते १६

वेददेवद्विजातीनामेकांशेन स निन्दनम्।
करोत्यन्येन न रतिं योगकर्मसु विन्दति १७

विकर्मण्यपरेणापि संयोजयति मानवान्।
ज्ञानापहारमन्येन करोति द्विजसत्तम १८

ज्ञानबुद्ध्या तथाज्ञानं गृह्णात्यज्ञानमोहितः।
वेदवादविरोधेन या कथा सास्य रोचते १९

एवं स तु महामोहः षण्डमर्कोपपादितः।
दम्भादिदूषितोऽधर्मस्वरूपोऽतिभयङ्कर २०

स लोकान्विविधोपायैर्लोकेष्वेव व्यवस्थितः।
मोहाभिभवनिःसाराण्करोति द्विजसत्तम २१

तन्मोहितानामचिराद्विवेको याति सङ्क्षयम्।
क्षीणज्ञाना विकर्माणि कुर्वन्त्यहरहो द्विज २२

निजवर्णात्मकं धर्मं परित्यज्य विमोहिताः।
धर्मबुद्ध्या ततः पापं कुर्वन्त्यज्ञानदुर्मदाः २३

ज्ञानावलेपस्तत्रैव ततस्तेषां प्रजायते।
सुहृद्भिर्वार्यमाणास्ते पण्डितैश्च दयालुभिः।
प्रयच्छन्त्युत्तरं ऊढाः कूटयुक्तिसमन्वितम् २४

ततस्ते स्वयमात्मानमन्यं चाल्पमतिं नरम्।
विकर्मणा योजयन्तश्च्यवयन्ति स्वधर्मतः २५

पाषण्डिनो दुराचाराः परान्नगुणवादिनः।
असंस्कृतान्नभोक्तारो व्रात्याः संस्कारवर्जिताः २६

पाषण्डाः पापसङ्कल्पा दाम्भिकाः शठबुद्धयः।
वर्णसङ्करकर्तारो मायाव्याजोपजीविनः।
निःशौचा वक्रमतयो नान्यदस्तीतिवादिनः २७

एवंविधास्ते सन्मार्गाद्वेदप्रोक्ताद्बहिःस्थिताः।
क्रियाकलापं निन्दन्त ऋग्यजुःसामसञ्ज्ञितम्।
आत्मानं च परांश्चैव कुर्वन्ति नरकस्थितान् २८

तेषां दर्शनसम्भाषस्पर्शनानि नरैः सदा।
परित्याज्यानि दृष्टे च प्रोक्तः सम्भाषणे च यः।
संस्पर्शे च बुधः स्नात्वा शुचिः शुचिषदं स्मरेत् २९

भवत्यतः सदैवैषामालापस्पर्१शनं त्यजेत्।
पुण्यकामो महाभागः किं पुनर्यदुपोषितः ३०

यतो हि निन्दिते कर्मण्यभ्यासो रतिरेव च।
पाषण्डिनामशेषाणामप्रीतिर्वेदकर्मणि।
ते ह्यधोगामिनः प्रोक्ता आसुरं भावमाश्रिताः ३१

इति विष्णुधर्मेषु पाषण्डालापप्रायश्चित्तम्।

अथ षड्विंशोऽध्यायः।
दाल्भ्य उवाच।
अप्राप्तिर्न तथा दुःखमैश्वर्यादेर्द्विजोत्तम।
यथा मनोरथैर्लब्धैर्विच्युतिर्धर्महानिजा १

ऐश्वर्याद्वित्ततो वापि सन्ततेर्देवलोकतः।
अभीष्टादन्यतो वापि पदाद्येन न विच्युतिम् २

प्राप्नोति पुरुषो ब्रह्मन्नारी वापुण्यसङ्क्षयात्।
तन्ममाचक्ष्व विप्रर्षे दुःखमेभ्यो हि विच्युतिः ३

पुलस्त्य उवाच।
सत्यमेतन्महाभाग दुःखं प्राप्तस्य सङ्क्षयः।
ऐश्वर्यादथ वित्तस्य बन्धुवर्गसुखस्य वा ४

तदेतच्छ्रूयतां दाल्भ्य यथा नेष्टात्परिच्युतिः।
सर्गादेर्जायते सम्यगुपवासवतां सताम् ५

द्वादशर्क्षाणि विप्रर्षे प्रतिमासं तु यानि वै।
तन्नामान्यच्युतं तेषु सम्यक् सम्पूजयेद्बुधः ६

पुष्पैर्धूपैस्तथाम्भोभिरभीष्टैरपरैस्तथा।
आदितः कृत्तिकां कृत्वा कार्त्तिके मुनिपुङ्गव ७

नैवेद्यं कृसरं पूर्वमन्नं मासचतुष्टयम्।
निवेदयेत्कार्त्तिकादि संयावं च ततः परम् ८

आषाढादौ च देवाय पायसं वै निवेदयेत्।
तेनैवान्नेन विप्रर्षे ब्राह्मणान्भोजयेद्बुधः ९

पञ्चगव्यजलस्नातस्तस्यैव प्राशनाच्छुचिः।
नैवेद्यं स्वयमश्नीयान्नक्तं सम्पूजितेऽच्युते १०

एवं संवत्सरस्यान्ते ततः सुप्तोत्थितेऽच्युते।
संयक् सम्पूज्य विप्रर्षे तमेव पुरुषोत्तमम्।
प्रणम्य प्रार्थयेद्विद्वाञ्शुचिः स्नातो यथाविधि ११

नमो नमस्तेऽच्युत सङ्क्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम्।
ऐश्वर्यवित्तादि सदाक्षयं मेऽक्षया च मे सन्ततिरच्युतास्तु १२

यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतात्परतः परात्मन्।
तथाच्युतं मे कुरु वाञ्छितं यन्मया पदं पापहराप्रमेय १३

अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम्।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम १४

एवमन्ते समभ्यर्च्य प्रार्थयित्वा तथाशिषः।
यथावन्मुनिशार्दूल च्युतिं नाप्नोति मानवः १५

सन्ततेः स्वर्गवित्तादेरैश्वर्यस्य तथा मुने।
यद्वाभिमतमत्यन्तं ततो न च्यवते नरः १६

तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजने।
यतेताक्षयकामस्तु सदैव मुनिपुङ्गव १७

इति विष्णुधर्मेषु मासर्क्षपूजा।

अथ सप्तविंशोऽध्यायः।
पुलस्त्य उवाच।
अत्रापि श्रूयते सिद्धा काचित्स्वर्गे महाव्रता।
नारी तपोधना भूत्वा प्रख्याता शाम्भरायणी।
समस्तसन्देहहरा सदा स्वर्गौकसां हि सा १

कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः।
पूर्वेन्द्रचरितं ब्रह्मन्पप्रच्छेदं बृहस्पतिम् २

पूर्वेन्द्रापरतः पूर्वे ये बभूवुः सुरेश्वराः।
तेषां चरितमिच्छामि श्रोतुमाङ्गिरसां वर ३

पुलस्त्य उवाच।
एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः।
प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ४

नाहं चिरन्तनान्वेद्मि देवराज सुरेश्वरान्।
आत्मनः समकालीनं मामवैहि सुरेश्वर ५

ततः पप्रच्छ देवेन्द्रः! कोऽस्माभिर्मुनिपुङ्गव।
प्रष्टव्योऽत्र महाभाग कृतादिवसतिर्दिवि ६

पुलस्त्य उवाच।
बृहस्पतिश्चिरं ध्यात्वा पुनराह शचीपतिम्।
तपस्विनीं महाभागां स्मृत्वासौ शाम्भरायणीम् ७

न देवा न च गन्धर्वा न चान्ये चिरसंस्थिताः।
चिरन्तनानां चरितेष्वभिज्ञा त्रिदशेश्वर ८

एकैव चिरकालज्ञा धर्मज्ञा शक्र केवलम्।
जानात्यखिलदेवेन्द्रचरितं शाम्भरायणी ९

इत्युक्तस्तेन देवेन्द्रः! कौतूहलसमन्वितः।
ययौ यत्र महाभागा तापसी शाम्भरायणी १०

सा तौ दृष्ट्वा समायातौ देवराजबृहस्पती।
सम्यगर्घ्येन सम्पूज्य प्रणिपत्य शुभव्रता ११

शाम्भरायण्युवाच।
नमोऽस्तु देवराजाय तथैवाङ्गिरसे नमः।
यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम् १२

बृहस्पतिरुवाच।
आवामभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम्।
यच्च कार्यं महाभागे तत्पृष्टा कथयेह नौ १३

यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि नौ।
तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलात् १४

शाम्भरायण्युवाच।
यदि शक्यं मया कर्तुं तत्करिष्ये विमृष्यतु।
यो वै पूर्वः सुरेन्द्रस्य ततश्च प्रथमो हि यः।
तस्मात्पूर्वतरो यश्च तस्यापि प्रथमाश्च ये १५

तेषां पूर्वतरा ये च वेद्मि तानखिलानहम्।
तेषां च चरितं कृत्स्नं जानाम्याङ्गिरसां वर १६

मन्वन्तराण्यनेकानि सृष्टिं च त्रिदिवौकसाम्।
सप्तर्षीन्सुबहून्देव मनूनां च सुतान्नृप।
तत्पृच्छ त्वं वदाम्येषा पूर्वेन्द्रचरितं मुने १७

पुलस्त्य उवाच।
एवमुक्ते ततस्ताभ्यां पृष्टा सा शाम्भरायणी।
यथावदाचष्ट तयोः पूर्वेन्द्रचरितं द्विज १८

स्वायम्भुवे यस्तु मनौ मनौ स्वारोचिषे तु यः।
उत्तमे तामसे चैव रैवते चाक्षुषे तथा १९

यो यो बभूव देवेन्द्रस्तस्य तस्य तपस्विनी।
तयोर्जगाद चरितं यथावच्छाम्भरायणी २०

ततः कौतूहलपरो देवराट्तां तपस्विनीम्।
उवाच जानासि कथं त्वमेतच्छाम्भरायणि २१

शाम्भरायण्युवाच।
सर्व एव हि देवेन्द्राः! स्वर्गस्था ये मनीषिणः।
बभूवुरेतच्चरितमेतेषां वेद्मि तेन वै २२

इन्द्रउवाच।
किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया।
स्वर्लोके वसतिः प्राप्ता यथा नान्येन केनचित् २३

अहो सर्वव्रतानां तदुपोषितं महद्व्रतम्।
प्रधानतरमत्यर्थं स्वर्गसंवासदं मतम् २४

पुलस्त्य उवाच।
चरितं च मया तेषां श्रुतं दृष्टं तथैव च।
एवमुक्ता ततस्तेन देवेन्द्रेण यशस्विनी।
प्रत्युवाच महाभागा यथावच्छाम्भरायणी २५

शाम्भरायण्युवाच।
मासर्क्षेष्वच्युतो देवः प्रतिमासं सुरेश्वर।
यथोक्तव्रतया सम्यक् सप्त वर्षाणि पूजितः २६

तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे।
देवलोकादभिमता देवराज यदच्युतिः २७

स्वर्गं द्रव्यमयैश्वर्यं सन्ततिं वापि योऽच्युताम्।
नरो वाञ्छति तेनेत्थं तोषणीयोऽच्युतः प्रभुः २८

एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया।
स्वर्गवासाक्षयत्वं च मासर्क्षाच्युतपूजनात् २९

यथावत्कथितं देव पृच्छतस्त्रिदशेश्वर।
धर्मार्थकाममोक्षांस्तु वाञ्छतां विबुधाधिप।
विष्णोराराधनान्नान्यत्परमं सिद्धिकारणम् ३०

पुलस्त्य उवाच।
तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती।
तां तथेत्यूचतुः साध्वीं चेरतुश्चापि तद्व्रतम् ३१

तस्माद्दाल्भ्य प्रयत्नेन प्रतिमासं समाहितः।
मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ३२

इति विष्णुधर्मेषु मासर्क्षपूजाप्रशंसा।

अथ अष्टादशोऽध्यायः।
दाल्भ्य उवाच।
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः।
दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः १

आभिचारुककृत्याभिः स्पर्षरोगैश्च दारुणैः।
सदा सम्पीड्यमानास्ते तिष्ठन्ति मुनिसत्तम २

येन कर्मविपाकेन विषरोगाद्युपद्रवाः।
न भवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि ३

पुलस्त्य उवाच।
व्रतोपवासैर्यैर्विष्णुर्नान्यजन्मनि पूजितः।
ते नरा मुनिशार्दूल ग्रहरोगादिभागिनः ४

यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम्।
विषग्रहज्वराणां ते मनुष्या दाल्भ्य भाजनाः ५

आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति।
तत्तदाप्नोत्यसन्दिग्धं परत्राच्युततोषकृत् ६

नाधीन्प्राप्नोति न व्याधीन्न विषग्रहबन्धनम्।
कृत्यास्पर्शभयं वापि तोषिते मधुसूदने ७

सर्वदुष्टशमस्तस्य सौम्यास्तस्य सदा ग्रहाः।
देवानामप्रधृष्योऽसौ तुष्टो यस्य जनार्दनः ८

यः समः सर्वभूतेषु यथात्मनि तथापरे।
उपवादादिना तेन तोष्यते मधुसूदनः ९

तोषिते तत्र जायन्ते नराः पूऋणमनोरथाः।
अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम १०

न तेषां शत्रवो नैव स्पर्शरोगाभिचारुकाः।
ग्रहरोगादिकं वापि पापकार्यं न जायते ११

अव्याहतानि कृष्णस्य चक्रादीन्यात्मयुधानि तम्।
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः १२

दाल्भ्य उवाच।
अनाराधितगोविन्दा ये नरा दुःखभागिनः।
तेषां दुःखाभिभूतानां कर्तव्यं यद्दयालुभिः १३

पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने।
समदृष्टिभिरीशेशं तन्मम ब्रूह्यशेषतः १४

पुलस्त्य उवाच।
कुशमूलस्थितो ब्रह्मा कुशमध्ये जनार्दनः २

कुशाग्रे शङ्करं विद्यात्त्रयो देवा व्यवस्थिताः ३

गृहीत्वा च स मूलाग्रान्कुशाञ्शुद्धानुपस्पृशेत् ४

मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्य शान्तिकृत् ५

शरीरे यस्य तिष्ठन्ति कुशस्थजलबिन्दवः ६

नश्यन्ति तस्य पापानि गरुडेनैव पन्नगाः ७

विष्णुभक्ता विशेषेण ॥॥॥॥चिद्गतमानसः ८

रोगग्रहविषार्तानां कुर्याच्छान्तिमिमां शुभाम् ९

नारसिंहं समभ्यर्च्य शुचौ देशे कुशासने १०

मन्त्रैरेतैर्यथा लिङ्गं कुर्याद्दिग्बन्धमात्मनः ११

वाराहं नारसिंहं च वामनं विष्णुमेव च १२

ध्यात्वा समाहितो भूत्वा दिक्षु नामानि विन्यासेत् १३

पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे १४

प्रद्युम्नः पश्चिमस्यां तु वासुदेवस्तथोत्तरे १५

ईशान्यामवताद्विष्णुराग्नेय्यां च जनार्दनः १६

नैरृत्यां पद्मनाभश्च वायव्यां चैव माधवः १७

ऊर्ध्वं गोवर्धनधरो अधरायां त्रिविक्रमः १८

एताभ्यो दशदिग्भ्यस्तु सर्वतः पातु केशवः १९

अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यांस्तु महीधरम् २०

मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् २१

कणिष्ठायां न्यसेद्विष्णुं करमध्ये तु माधवम् २२

एवं न्यासं पुरा कृत्वा पश्चादङ्गेषु विन्यसेत् २३

शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् २४

चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम् २५

त्रिविक्रमं कपालस्थं वामनं कर्णमूलयोः २६

दामोदरं दन्तवक्त्रौ वाराहं चिबुके न्यसेत् २७

उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाधरे २८

जिह्वायां वासुदेवं च ताल्वके गरुडध्वजम् २९

वैकुण्ठं कण्ठमध्यस्थमनन्तं नासिकोपरि ३०

दक्षिणे तु भुजे विप्र विन्यसेत्पुरुषोत्तमम् ३१

वामभुजे महाभागं राघवं हृदि विन्यसेत् ३२

पीताम्बरं सर्वतनौ हरिं नाभौ तु विन्यसेत् ३३

करे तु दक्षिणे विप्र ततः सङ्कर्षणं न्यसेत् ३४

वामे विप्र हरिं विद्यात्कटिमध्येऽपराजितम् ३५

पृष्ठे क्षितिधरं विद्यादच्युतं स्कन्धयोरपि ३६

माधवं बाहु कुक्षौ तु दक्षिणे योगशायिनम् ३७

स्वयम्भुवं मेढ्रमध्ये ऊरुभ्यां तु गदाधरम् ३८

चक्रिणं जानुमध्ये तु जङ्घयोरच्युतं न्यसेत् ३९

गुल्पयोर्नरसिंहं च पादपृष्ठेऽमितौजसम् ४०

श्रीधरं चाङ्गुलीषु स्यात्पद्माक्षं सर्वसन्धिषु ४१

रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जासु ४२

मनोबुद्ध्योरहङ्कारेष्वेवं चित्ते जनार्दनम् ४३

नखेषु माधवं चैव न्यसेत्पादतलेऽच्युतम् ४४

एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् ४५

तनुर्विष्णुमयी तस्य यावत्किञ्चिन्न भाषते ४६

एवं न्यासं ततः कृत्वा यत्कार्यं शृणु तद्द्विज ४७

पादमूले तु देवस्य शङ्खं तत्रैव विन्यसेत् ४८

वनमालां तु विन्यस्य सर्वदेवाभिपूजिताम् ४९

गदां वक्षःस्थले चैव चक्रं चैव तु पृष्ठतः ५०

श्रीवत्साङ्गं शिरो न्यस्य पञ्चाङ्गकवचं न्यसेत् ५१

आपादामस्तके चैव विन्यसेत्पुरुषोत्तमम् ५२

ॐ अपामार्जनको न्यासः सर्वव्याधिविनाशनः ५३

विष्णुरूर्ध्वमधो रक्षेद्वैकुण्ठो विदिशो दिशः ५४

पातु मां सर्वतो रामो धन्वी चक्री च केशवः ५५

इति विष्णुधर्मे विष्णोरपामार्जनन्यासकवचम्।
पूजाकाले तु देवस्य जपकाले तथैव च ५९

होमारम्भेषु सर्वेषु त्रिसन्ध्यासु च नित्यशः ६०

आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं भवेत् ६१

यद्यत्सुखकरं प्रोक्तं तत्सर्वं प्राप्नुयान्नरः ६२

अभयं सर्वभूतेभ्यो विष्णुलोकं च गच्छति ६३

अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ७७

वाराहरूपिणं देवं संस्मरत्यपराजितम् ७८

बृहत्तनुं बृहद्गात्रं बृहद्दंष्ट्रसुशोभनम् ७९

समस्तवेदवेदाङ्गं युक्ताङ्गं भूषणैर्युतम् ८०

उद्धृत्य भूमिं पातालाधस्ताभ्यामुपगृह्णताम् ८१

आलिङ्ग्य भूमिं शिरसि मूर्ध्नि जिघ्रन्तमास्थितम् ८२

रत्नवैडूर्यमुख्याभिर्मुक्ताभिरुपशोभितम् ८३

पीताम्बरधरं देवं शुक्लमाल्यानुलेपनम् ८४

त्रयस्त्रिंशकोटिदेवैः स्तूयमानं मुदानिशम् ८५

नृत्यद्भिरप्सरोभिश्च गीयमानं च किन्नरैः ८६

इत्थं ध्यात्वा महात्मानं जपेन्नित्यं महात्मनः ८७

सुवर्णमण्डपान्तस्थं पद्मं ध्यायेत्सकेसरम् ८८

सकर्णिकदलैरिष्टैरष्टभिः परिशोभितम् ८९

करं करहितं देवं पूर्णचन्द्राप्तसुप्रभम् ९०

तडित्समशटाशोभि कण्ठनालोपशोभितम् ९१

श्रीवत्साङ्कितवक्षःस्थं तीक्ष्णदंष्ट्रं त्रिलोचनम् ९२

जवाकुसुमसङ्काशं रक्तहस्ततलान्वितम् ९३

पीतवस्त्रपरीधानं शुक्लयस्त्रोत्तरीयकम् ९४

करं करहितं देवं पूर्णचन्द्राप्तसुप्रभम् ९५

कटिसूत्रेण हैमेन नूपुरेण विराजितम् ९६

वनमालादिशोभाढ्यं मुक्ताहारोपशोभितम् ९७

अनेकसूर्यसङ्काशं मुकुटाटोपमस्तकम् ९८

शङ्खचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितम् ९९

पङ्कजाभं चतुर्हस्तं तत्पत्राभसुलोचनम् १००

प्रातः सूर्यसमप्रख्यकुण्डलाभ्यां विराजितम् १०१

केयूरकान्तिसस्यर्द्धिमुक्तिकारत्नशोभितम् १०२

जानूपरिन्यस्तहस्तं वररत्ननखाङ्कुरम् १०३

जङ्घाभरणसस्यर्द्धिविस्फुर्यत्कङ्कनत्विषम् १०४

मुक्ताफलाब्दसमहद्दन्तपङ्क्तिविराजितम् १०५

चम्पकामुकुलप्रख्यसुनासामुखपङ्कजम् १०६

अतिरक्तौष्ठवदनं व्यात्तास्यमतिभीषणम् १०७

वामाङ्कस्थं शिवभक्तशान्तिदां सुनितम्बिनीम् १०८

अर्हणीयां सुजातोरुं सुनासां शुभलक्षणाम् १०९

सुभ्रूं सुकेशीं सुश्रोणीं सुशुभां सुद्विजाननाम् ११०

सुप्रतिष्ठां सुवदनां चतुर्हस्तां विचिन्तयेत् १११

दुकूले चैव चार्वङ्गीं हारिणीं सर्वकामदाम् ११२

तप्तकञ्चनसङ्काशां सर्वाभरणभूषिताम् ११३

सुवर्णकलशप्रख्यपीनोन्नतपयोधराम् ११४

गृहीतपद्मयुगलं उद्बाहुभ्यां तथान्ययोः ११५

गृहीतमातुलङ्गाख्यं जाम्बुनदकरान्तथा ११६

एवं देवीं नृसिंहस्य वामाङ्कोपरि संस्मरेत् ११७

अतिविमलसुगात्रं रौप्यपात्रस्थमन्नं ११८

सुललितदधिखण्डं पाणिना दक्षिणेन ११९

कलशममृतपूर्णं सव्यहस्ते दधानं १२०

तदतिसकलदुःखं वामनं भावयेद्यः १२१

अन्या भास्करसप्रभाभिरखिलैर्भाभिर्दिशो भासयन् १२२

भीमाक्षस्फुरदट्टहासविलसाद्दंष्ट्राग्रदीप्ताननः १२३

दोर्भिश्चक्रधरौ गदाब्जमुकुलौ त्रासांश्च पाशाङ्कुशौ १२४

बिभ्रत्पि गशिरोऽरुहोद्धतसटश्चक्रविधानो हरिः १२५

मनोभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः १३९

त्रैलोक्यस्येश्वरं सर्वमहङ्कारे प्रतिष्ठिताः १४०

मनोबुद्धिरहङ्कारेऽर्पितस्तदनन्तेन तञ्जीवं प्रतिष्ठाप्य सर्वेषां देवानां।
मूर्तिं ध्यात्वा प्रत्यक्षं दर्शयति ॥ मम सर्वारिष्ट आपदो।
परिहारार्थे अपामार्जनस्तोत्रमन्त्रजपे विनियोगः ॥।
पुलस्त्य उवाच।
ॐ नमः परमार्थाय पुरुषाय महात्मने।
अरूपबहुरूपाय व्यापिने परमात्मने।
नमस्ते देवदेवाय सुरशूर नमोऽस्तु ते।
लोकाध्यक्ष जगत्पूज्य परमात्मन्नमस्ते।
निष्कल्मषाय शुद्धाय सर्वपापहराय च १५

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः १६

वराहनरसिंहाय वामनाय महात्मने।
गोविन्दपद्मनाभाय वामदेवाय भूपते १

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नारायणाय देवाय अनन्ताय महात्मने ३

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
गरुडध्वजाय कृष्णाय पीताम्बरधराय च ५

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
योगीश्वराय सिद्धाय गुह्याय परमात्मने ७

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
जनार्दनाय कृष्णाय उपेन्द्रश्रीधराय च ९

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
भक्तप्रियाय विधये विष्वक्सेनाय शार्ङ्गिने ११

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
हिरण्यगर्भपतये हिरण्यकशिपुच्छिदे १३

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
चक्रहस्ताय शूलाय तर्जन्यपत्राय धीमते १५

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
आदित्याय उपेन्द्राय भूतानां जीवनाय च १७

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
वासुदेवाय वन्द्याय वरदाय महात्मने १९

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
विषूवृच्छ्रवसे तस्मै क्षीराम्बुनिछिशायिने २१

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
अधोक्षजाय भद्राय श्रीधरायादिमूर्तये २३

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
विश्वेशद्वारमूर्तिश्च मृत्युरायोहितोऽस्ति सः २५

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नानारागांश्च दक्षांश्च विकटाय महाभीती २७

जातुपतिं व्यग्रहस्तं वररत्ननखाकरम् २८

जङ्घाभरेण –न्सने।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नारायणाय विश्वाय विश्वेशायाम्बराय च ३२

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
दामोदराय देवाय अनन्ताय महात्मने ३४

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च १७

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः १८

वराहनरसिंहेश वामनेश त्रिविक्रम।
हयग्रीवेश सर्वेश हृषीकेश हराशुभम् १९

अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः।
अखण्डितप्रभावैस्त्वं सर्वदुष्टहरो भव २०

हरामुकस्य दुरितं दुष्कृतं दुरुपोषितम्।
मृत्युबन्धार्तिभयदं दुरिष्टस्य च यत्फलम् २१

परापध्यानसहितं प्रयुक्तं चाभिचारुक।
गरस्पर्शमहायोगप्रयोगजरयाजर २२

ॐ नमो वासुदेवाय नमः क्षृणाय शार्ङ्गिणे।
नमः पुष्करनेत्राय केशवायादिचक्रिणे २३

नमः कमलकिञ्जल्कपीतनिर्मलवाससे।
महाहवरिपुस्कन्धघृष्टचक्राय चक्रिणे २४

दंष्ट्रोद्धृतक्षितिधृते त्रयीमूर्तिमते नमः।
महायज्ञवराहाय शेषभोगोरुशायिने २५

तप्तहाटककेशान्त ज्वलत्पावकलोचन।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते २६

कपिल हेमाश्वशीर्ष अतिरिक्तविलोचन।
विद्युत्स्फुरितदंष्ट्राग्र दिव्यसिंह नमोऽस्तु ते।
काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित।
तुभ्यं वामनरूपाय सृजते गां नमो नमः २७

वराहाशेषदुष्टानि सर्वपापहराणि वै।
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् २८

नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल।
भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन २९

ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक्।
प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः ३०

एकाहिकं द्व्याहिकं च तथा त्रिदिवसं ज्वरम्।
चातुर्थकं तथात्युग्रं तथैव सततज्वरम् ३१

दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम्।
शमं नयाशु गोविन्द छित्त्वा च्छित्त्वा तु वेदनाम् ३२

नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम्।
अनुच्छ्वासमतिश्वासं परितापं सवेपथुं ३३

गुदघ्राणांह्रिरोगांश्च कुष्ठरोगं तथा क्षयम्।
कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ३४

भगन्दरातिसारांश्च मुखरोगं सवल्गुलिम्।
अश्मरीमूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ३५

ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः।
कफोद्भवाश्च ये केचिद्ये चान्ये सान्निपातिकाः ३६

आगन्तवश्च ये रोगा लूआविस्फोटकादयः।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ३७

विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च।
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः ३८

अच्युतानन्तगोविन्दनामोच्चारणभीषिताः।
नश्यन्तु सकला रोगाः सत्यं सत्यं वदाम्यहम् ३९

स्थावरं जङ्गमं वापि कृत्रिमं वापि यद्विषम्।
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ४०

लूतादिप्रभवं यच्च विषमत्यन्तदुःखदम्।
शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः ४१

ग्रहान्प्रेतग्रहांश्चैव तथा वै डाकिनीग्रहान्।
वेतालांश्च पिशाचांश्च गन्धर्वान्यक्षराक्षसान् ४२

शकुनीपूतनाद्यांश्च तथा वैनायकग्रहान्।
मुखमण्डिनिकां क्रूरां रेवतीं वृद्धरेवतीम् ४३

वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि।
बालस्य विष्णोः चरितं हन्तु बालग्रहानिमान् ४४

वृद्धानां ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित्।
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ४५

सटाकरालवदनो नरसिंहो महारवः।
ग्रहानशेषान्निःशेषान्करोतु जगतो हितम् ४६

नरसिंह महासिंह ज्वालामालोज्ज्वलानन।
ग्रहानशेषान्सर्वेश खाद खादाग्निलोचन ४७

ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः।
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः।
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ४८

यानि चार्याणि भूतानि प्राणिपीडाकराणि वै।
तानि सर्वाणि सर्वात्मन्परमात्मञ्जनार्दन।
किञ्चिद्रूपं समास्थाय वासुदेव विनाशय ४९

क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम्।
सर्वदुष्टोपशमनं कुरु देववराच्युत ५०

सुदर्शन महाचक्र गोविन्दस्य करायुध ४१

ज्वलत्पावकसङ्काश सूर्यकोटिसमप्रभ ४२

त्रैलोक्यरक्षकर्तृ त्वं त्वं दुष्टदानवदारण ४३

तीक्ष्णधार महावेग छिन्धि च्छिन्धि महाज्वरम् ४४

छिन्धि च्छिन्धि महाव्याधिं छिन्धि च्छिन्धि महाग्रहान् ४५

छिन्धि वातं च धूतं च छिन्धि घोरं महाविषम् ४६

रुजदाघं च शूलं च निमिषज्वालगर्दभम् ४७

सुदर्शन महाज्वाल छिन्धि च्छिन्धि ममारयः।
सर्वदुष्टानि रक्षांसि क्षपयातिविभीषण ५१

हां हां हूं हूं फट्कारेण ठद्वयेन हतद्विषः ५१

सुदर्शनस्य मन्त्रेण ग्रहा यान्ति दिशो दिशः ५२

त्रैलोक्यस्याभयं कर्तुमाज्ञापय जनार्दन ५९

सर्वदुष्टानि रक्षांसि क्षयं यान्ति विभीषया ५१०

प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा।
रक्षां करोतु सर्वात्मा नरसिंहः स्वगर्जितैः ५२

भूम्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः।
व्याघ्रसिंहवराहेषु अन्दिचोरभयेषु च।
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ५३

यथा विष्णुऋ जगत्सर्वं सदेवासुरमानवम्।
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै ५४

यथा विष्णौ स्मृते सम्यक् सङ्क्षयं याति पातकम्।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ५५

परमात्मा यथा विष्णुर्वेदान्तेष्वभिधीयते।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ५६

यथा यज्ञेष्वरो विष्णुर्वेदेष्वपि तु गीयते।
तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत् ५७

यथा यज्ञेश्वरो विष्णुर्यज्ञान्ते अपि गीयते।
तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत्।
शान्तिरस्तु शिवं चास्तु प्रशाम्यत्वसुखं च यत्।
वासुदेवशरीरोत्थैः कुशैर्निर्मार्जितं मया ५८

अपामार्जति गोविन्दो नरो नारायणस्तथा।
तवास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः ५९

इदं शास्त्रं पठेद्यस्तु सप्ताहन्नियतः शुचिः।
शान्तिं समस्तरोगास्ते ग्रहाः सर्वे विषानि च।
भूतानि च प्रयान्त्वीशे संस्मृते मधुसूदने ६०

एतत्समस्तरोगेषु भूतग्रहभयेषु च।
अपमार्जनकं शस्तं विष्णुनामाभिमन्त्रितम् ६१

एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयं एव चागतः।
हतं मया दुष्टमशेषमस्य स्वस्थो भवत्येष वचो यथा हरेः ६२

शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु।
यदस्य दुरितं किञ्चित्तत्क्षिप्तं लवणार्णवे ६३

स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात्।
यत एवागतं पापं तत्रैव प्रतिगच्छतु ६४

एतद्रोगादिपीडासु जन्तूनां हितमिच्छता।
विष्णुभक्तेन कर्तव्यमपमार्जनकं परम् ६५

अनेन सर्वदुष्टानि प्रशमं यान्त्यसंशयम्।
सर्वभूतहितार्थाय कुर्यात्तस्मात्सदैव हि ६६

सर्वापराधशमनमपामार्जनकं परम् ९१

एतत्स्तोत्रमिदं पुण्यं पठेदायुष्यवर्धनम् ९२

विनाशाय च रोगाणामवमृत्युक्षयाय च ९३

व्याघ्रापस्मारकुष्ठादि पिशाचोरगराक्षसाः ९४

तस्य पार्श्वं न गच्छन्ति स्तोत्रमेतद्यथा पठेत् ९५

स्मरञ्जपन्निदं स्तोत्रं सर्वव्याधिविनाशनम् ९६

पठतां शृण्वतां नित्यं विष्णुलोकं स गच्छति ९७

इति विष्णुधर्मेषु सर्वबाधाप्रशमनं नाम अष्टाविंशोऽध्यायः।

अथैकोनत्रिंशोऽध्यायः।
दाल्भ्य उवाच।
सुरूपता मनुष्याणां स्त्रीणां च द्विजसत्तम।
कर्मणा जायते येन तन्ममाख्यातुमर्हसि १

सुरूपाणां सुगात्राणां सुवेषाणां तथा मुने।
न्यूनं तथाधिकं वापि किञ्चिदङ्गं प्रजायते २

समस्तैः शोभनैरङ्गैर्नराः केचित्तथा द्विज।
काणाः कुब्जाश्च जायन्ते त्रुटितश्रवणास्तथा ३

नराणां योषितां चैव समस्ताङ्ग्सुरूपता।
कर्मणा येन भवति तत्सर्वं कथयाअल ४

लावण्यगतिवाक्यानि सति रूपे महामते।
प्रयान्ति चारुतां रूपं तेनोक्तः परमो गुणः ५

वाक्यलावण्यसंस्कारविलासललिता गतिः।
विडम्बना कुरूपाणां स्त्रीपुंसामभिजायते ६

रूपकारणभूताय यतेत मतिमांस्ततः।
कर्मणा तन्ममाचक्ष्व कर्म यच्चारुरूपदम् ७

पुलस्त्य उवाच।
सम्यक् पृष्टं त्वया हीदमुपवासाश्रितं द्विज।
कथयामि यथा प्रोक्तं वसिष्ठेन महात्मना ८

वसिष्ठमृषिमासीनं सप्तर्षिप्रवरं पतिम्।
पप्रच्छारुन्धती प्रश्नं यदेतद्भवता वयम् ९

तस्याः स परिपृच्छन्त्या जगाद मुनिसत्तमः।
यत्तच्छृणुष्व धर्मज्ञ ममेह वदतोऽखिलम् १०

वसिष्ठ उवाच।
श्रूयतां मम यत्पृष्टस्त्वयाहं ब्रह्मवादिनि।
सुरूपता नृणां येन योषितां चोपजायते ११

अनभ्यर्च्य यथान्यायमनाराध्य च केशवम्।
रूपादिका गुणाः केन प्राप्यन्तेऽन्येन कर्मणा १२

तस्मादाराधनीयो वै विष्णुरेव यशस्विनि।
परत्र प्राप्तुकामेन रूपसम्पत्सुतादिकम् १३

यस्तु वाञ्छति धर्मज्ञे रूपं सर्वाङ्गशोभनम्।
नक्षत्रपुरुषस्तेन सम्पूज्यः पुरुषोत्तमः १४

नक्षत्राङ्गं यथाहारः समुपोष्यति यो हरिम्।
सुरूपैरखिलाङ्गैश्च रूपवानभिजायते १५

योषिता च परं रूपमिच्छन्त्या जगतः पतिः।
स एवाराधनीयोऽत्र नक्षत्राङ्गो जनार्दनः १६

अरुन्धत्युवाच।
नक्षत्ररूपी भगवान्पूज्यते पुरुषोत्तमः।
मुने येन विधानेन तन्ममाख्यातुमर्हसि १७

वसिष्ठ उवाच।
चैत्रमासं समारभ्य विष्णोः पादादिपूजनम्।
यथा कुर्वीत रूपार्थी तन्निशामय तत्त्वतः १८

नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः।
नक्षत्रपुरुषस्याङ्गं पूजयेत्साध्वी चक्रिणः १९

मूले पादौ तथा जङ्घे रोहिणीष्वर्चयेच्छुभे।
जानुनी चाश्विनीयोग आषाढे चोरुसञ्ज्ञिते २०

फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम्।
पार्श्वे भद्रपदायुग्मे द्वे कुक्षी रेवतीषु च २१

अनुराध उरः पृष्ठं श्रविष्ठास्वभिपूजयेत्।
भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् २२

पुनर्वसावङ्गुलींश्च आश्लेषासु तथा नखान्।
ज्येष्ठायां पूजयेद्ग्रीवं श्रवणे श्रवणे तथा २३

पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत्।
हन्वौ शतभिषायोगे मघायोगे च नासिकाम् २४

मृगोत्तमाङ्गे नयने पूजयेद्भक्तितः शुभे।
चित्रायोगे ललाटं च भरण्यां च तथा शिरः।
सम्पूजनीया विद्वद्भिश्चाद्रासु च शिरोरुहाः २५

नक्षत्रयोगेष्वेतेषु पूजितो जगतः पतिः।
नक्षत्रपुरुषाख्योऽयं यथावत्पुरुषोत्तमः २६

पापापहारं कुरुते सम्यच्छ्रद्धावतां सताम्।
अङ्गोपाङ्गानि चैवास्य पापादीनि यशस्विनि २७

सुरूपान्यभिजायन्ते सप्त जन्मान्तराणि वै।
सर्वाणि चैव भद्राणि शरीरारोग्यमुत्तमम् २८

सन्ततिं मनसः प्रीतिं रूपं चातीवशोभनम्।
वाङ्माधूर्यं तथा कान्तिं यच्चान्यदभिवाञ्छितम् २९

ददाति नक्षत्रपुमान्पूजितश्च जनार्दनः।
उपोष्य सम्यगेतेषु क्रमेण र्क्षेषु शोभने ३०

सम्पूजनीयो भगवान्नक्षत्राङ्गो जनार्दनः।
गन्धपुष्पादिसंयुक्तं पूजयित्वा यदाविधि।
जानुभ्यां धरणीं गत्वा इदं चोदाहरेत्ततः।
स्वरूपमारोग्यमतीव वर्चसं सुसन्ततिं त्वस्थितभक्तिमच्युताम्।
अपि सर्वमेतं प्रोतं सूत्रे मणिगणा इव।
एकपुरुष महापुरुष ऋक्षपुरुष नमोऽस्तु ते।
प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः ३१

नक्षत्रज्ञाय विप्राय दद्याद्दानं च शक्तितः।
पारिते च पुनर्दद्यात्स्त्रीपूंसां चारुहासिनि ३२

छत्त्रोपानद्युगं चैव सप्तधान्यं सकाञ्चनम्।
घृतपात्रं च धर्मज्ञे यच्चान्यदतिवल्लभम् ३३

स्त्री वा साध्वी सदा विष्णोराराधनपरायणा।
अनेनैव विधानेन सम्पूज्यैतदवाप्नुयात् ३४

इति विष्णुधर्मेषु नक्षत्रपुरुषव्रतं नामैकोनत्रिंशोऽध्यायः।

अथ त्रिंशोऽध्यायः।
दाल्भ्य उवाच।
सर्वकामानवाप्नोति समाराध्य जनार्दनम्।
प्रकारैर्बहुभिर्ब्रह्मन्यान्यानिच्छति चेतसा १

नॄणां स्त्रीणां च विप्रर्षे नान्यच्छोकस्य कारणम्।
अपत्यादधिकं किञ्चिद्विद्यते ह्यत्र जन्मनि २

अपुत्रता महद्दुःखमतिदुःखं कुपुत्रता।
अपुत्रः सर्वदुःखानां हेतुभूतो मतो मम ३

धन्यास्ते ये सुतं प्राप्य सर्वदुःखविवर्जितम्।
शस्तं प्रशान्तं बलिनं परां निर्वृतिमागताः ४

स्वकर्मनिरतं नित्यं देवद्विजपरायणम्।
शास्त्रज्ञं धर्मतत्त्वज्ञं दीनानाथजनाश्रयम् ५

विनिर्जितारिं सर्वस्य मनोहृदयनन्दनम्।
देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ६

मित्रस्वजनसम्मानलब्धनिर्वाणमुत्तमम्।
यः प्राप्नोति सुतं तस्मान्नान्यो धन्यतरो भुवि ७

सोऽहमिच्छामि तच्छ्रोतुं त्वत्तः कर्म महामुने।
येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः ८

पुलस्त्य उवाच।
एवमेतन्महाभाग पित्रोः पुत्रसमुद्भवम्।
दुःखं प्रयात्युपशमं तेन येनेह केनचित् ९

अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने।
उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः १०

कृतवीर्यो महीपालो हैहयानामभूत्पुरा।
तस्य शीलधना नाम बभूव वरवर्णिनी।
पत्नी सहस्रप्रवरा महिषी शीलमण्डना ११

सा त्वपुत्रा महाभागा मैत्रेयीं पर्यपृच्छत।
गुणवत्पुत्रलाभाय कृतासनपरिग्रहाम् १२

तया च पृष्टा वै सम्यग्मैत्रेयी ब्रह्मवादिनी।
कथयामास परमं नाम्नानन्तव्रतं व्रतम् १३

सर्वकामफलावाप्तिकारकं पापनाशनम्।
तस्याः सा पुत्रलाभाय राजपुत्रास्तपस्विनी १४

मैत्रेय्युवाच।
योऽयमिच्छेन्नरः कामं नारी वा वरवर्णिनि।
स तं समाराध्य विभुं समाप्नोति जनार्दनम् १५

मार्गशीर्षे मृगशिरो भीरु यस्मिन्दिने भवेत्।
तस्मिन्सम्प्राश्य गोमूत्रं स्नातो नियतमानसः १६

पुष्पैर्धूपैस्तथा गन्धैरुपहारैः स्वशक्तितः।
वामपादमनन्तस्य पूजयेद्वरवर्णिनि १७

अनन्तः सर्वकामानामनन्तं भगवान्फलम्।
ददात्वनन्तं च पुनस्तदेवास्त्वन्यजन्मनि १८

अनन्तपुण्योपचयं करोत्येतन्महाव्रतम्।
यथाभिलषितावाप्तिं कुर्वन्मा क्षयमेतु च १९

इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः।
समाहितमना भूत्वा प्रणिपातपुरःसरम् २०

विप्राय दक्षिणां दद्यादनन्तः प्रीयतामिति।
समुच्चार्य ततो नक्तं भुञ्जीयात्तैलवर्जितम् २१

ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम्।
वामामभ्यर्चयेत्कृत्वा गोमूत्रप्राशनं बुधः २२

अनन्तः सर्वकामानामिति चोच्चारयेद्बुधः।
भुञ्जीत च तथा विप्रं वाचयित्वा यथाविधि २३

माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत्।
स्कन्धं च फल्गुनीयोगे फाल्गुने मासि भामिनि २४

चतुर्ष्वेतेषु गोमूत्रप्राशनं नृपनन्दिनि।
ब्राह्मणाय तथा दद्यात्तिलान्कनकमेव च।
देवस्य दक्षिणस्कन्धं चैत्रे चित्रासु पूजयेत्।
तथैव प्राशनं चात्र पञ्चगव्यमुदाहृतम् २६

विप्रे वाचनके दद्याद्यावन्मासचतुष्टयम्।
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम् २७

तथैवोक्तयवान्दद्यात्तद्वन्नक्तं भुजिक्रिया।
कटिपूजां च ज्येष्ठासु ज्येष्ठमूले शुभव्रते २८

आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे।
पदद्वयं च श्रवणे श्रावणे सुभ्रु पूजयेत् २९

घृतं विप्राय दातव्यं प्राशनीयं तथा दधि।
कार्त्तिकान्तेषु मासेषु प्राशनं दानमेव च ३०

एतदेव समाख्यातं देवं तद्वच्च पूजयेत्।
गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत्।
तद्वदाश्वयुजे पूज्यं हृदयं चाश्विनीषु वै ३१

कुर्यात्समाहितमनाः स्नानप्राशनशौचवान्।
अनन्तशिरसः पूजां कार्त्तिके कृत्तिकासु च ३२

यस्मिन्यस्मिन्दिने पूजा तत्र तत्र तदा दिने।
नामानन्तस्य जप्तव्यं क्षुतप्रस्खलितादिषु ३३

घृतेनानन्तमुद्दिश्य पूर्वमासचतुष्टयम्।
कुर्वीत होमं चैत्रादौ शालिना कुलनन्दिनि ३४

क्षीरेण श्रावणादौ तु होमं मासचतुष्टयम्।
शस्तं तु सर्वमासेषु हविष्यान्नं च भोजनम् ३५

एवं द्वादशभिर्मासैः पारणं त्रितयं शुभे।
पारिते समवाप्नोति सर्वानेव मनोरथान् ३६

पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः।
प्रार्थयद्भिश्च कर्तव्यमारोग्यबलसम्पदम् ३७

एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम्।
अनन्तव्रतसञ्ज्ञं वै सर्वपापप्रणाशनम् ३८

तत्कुरुष्वैव देवि त्वं व्रतं शीलधने वरम्।
विशिष्टं सर्वलोकस्य यदि पुत्रमभीप्ससि ३९

पुलस्त्य उवाच।
इति शीलधना श्रुत्वा मैत्रेयीवचनं शुभम्।
चचारैतद्व्रतवरं सुसमाहितमानसा ४०

पुत्रार्थिन्यास्ततस्तस्या व्रतेनानेन सुव्रत।
विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् ४१

तस्य वै जातमात्रस्य प्रववावनिलः शिवः।
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत् ४२

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च।
प्रजगुर्दिवि गन्धर्वा ननृतुश्चाप्सरोगणाः।
धर्मे मनः समस्तस्य दाल्भ्य लोकस्य चाभवत् ४३

तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै।
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः ४४

तेनापि भगवान्विष्णुर्दत्तात्रेयस्वरूपवान्।
आराधितोऽतिमहता तपसा दाल्भ्य भूभृता ४५

तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम्।
ददौ शौर्यबले चातिसकलान्यायुधानि च ४६

स च वव्रे वरं देव वधस्त्वत्तो भवेदिति।
पुरानुस्मरणं ज्ञानं भीतानां चार्तिनाशनम्।
स्मरणादुपकारित्वं जगतोऽस्य जगत्पते ४७

तमाह देवदेवेशः पुण्डरीकनिभेक्षणः।
सर्वमेतन्महाभाग तव भूप भविष्यति ४८

यश्च प्रभाते रात्रौ च त्वां नरः कीर्तयिष्यति।
नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः।
तिलप्रस्थप्रदानस्य स नरः पुण्यमाप्स्यति ४९

अनष्टद्रव्यता चैव तव नामाभिकीर्तनैः।
भविष्यति महीपालेत्युक्त्वा तं प्रययौ हरिः ५०

स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात्।
पालयामास भूपालः सप्तद्वीपां वसुन्धराम् ५१

तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः।
जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः ५२

अनन्तव्रतमाहात्म्यादासाद्य तनयं च तम्।
पित्रोः पुत्रोद्भवं दुःखं नासीत्स्वल्पमपि द्विज ५३

एवमेतत्समाख्यातमनन्ताख्यं व्रतं तव।
यच्चीर्त्वा राजपत्नी सा कार्तवीर्यमसूयत ५४

यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः।
स्त्री वा दुःखमपत्योत्थं सप्त जन्मानि नाश्नुते ५५

इति विष्णुधर्मेषु अनन्तव्रतं नाम त्रिंशोऽध्यायः।

अथैकत्रिंशोऽध्यायः।
दाल्भ्य उवाच।
रूपसम्पत्समाख्याता स्त्रीपुंसां जायते शुभा।
समुपोष्य जगन्नाथं नक्षत्रपुरुषं हरिम् १

वासोऽतिशोभनं चारुवस्त्राद्याभरणोज्ज्वलम्।
गृहं सर्वगुणोपेतमशेषोपस्करान्वितम् २

कर्मणा येन विप्रर्षे तोषितो मधुसूदनः।
ददाति भगवान्कर्म तन्नो विस्तरतो वद ३

पुलस्त्य उवाच।
यन्मां पृच्छसि दाल्भ्य त्वं गृहोपस्करभूषणम्।
नराणां जायते येन तत्सर्वं कथयामि ते ४

नन्दा भद्राजया रिक्ता पूर्णा च द्विजसत्तम।
तिथयो वै समाख्याताः प्रतिपत्क्रमसञ्ज्ञया ५

पञ्चमी दशमी चैव तथा पञ्चदशी तिथिः।
पूर्णा एताः समाख्यातास्तिथयो मुनिसत्तम ६

मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा।
ष्णोरायतने तासु यः करोत्युपलेपनम् ७

प्रवातावातगुणवद्वर्षास्वतिमनोरमम्।
अनुलिप्तं शुभाकारं सुगृहं लभते मुने ८

पूर्णं धान्यहिरण्याद्यैर्मणिमुक्ताफलोज्ज्वलम्।
प्रत्यासन्नजलाभोगं गृहमाप्नोति शोभनम् ९

साम्नतस्वजनानां यत्सर्वेषामुत्तमोत्तमम्।
तदाप्नोति गृहं ब्रह्मन्ननुलेपनकृन्नरः १०

येनानुलिप्ते तिष्ठन्ति विष्ण्वायतनभूतले।
ब्राह्मणक्षत्रियविशः शूद्राः! साध्व्यस्तथा स्त्रियः।
तस्य पूण्यफलं दाल्भ्य श्रूयतां यत्प्रजायते ११

अप्सरोगणसङ्कीर्णं मुक्ताहारगणोज्ज्वलम्।
श्रेष्ठं सर्वविमानानां स्वर्गे धिष्ण्यमवाप्नुते १२

यावत्यस्तिथयो लिप्तं दिव्याब्दांस्तावतो द्विज।
तस्मिन्विमाने स नरः स्त्री वा तिष्ठति सत्तम १३

सुगन्धगन्धसद्वस्त्रसर्वभूषणभूषितः।
गन्धर्वाप्सरसां सम्भैः पूज्यमानः स तिष्ठति १४

लिप्तं च यावतो हस्तान्विष्णोरायतनं द्विज।
तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो हि सः १५

पूज्यमानः सुरगणैः शीतोष्णादिविवर्जितः।
मनोज्ञगात्रो विप्रेन्द्रस्तिष्ठत्यस्ताघसंहतिः १६

च्युतस्तस्मादिहागम्य विशिष्टे जायते कुले।
ततोऽस्य सद्गृहवरं मर्त्यलोकेऽभिजायते १७

न तत्र तावद्दारिद्रयं! नोपसर्गा न वा कलिः।
न चापि मृतनिष्क्रान्तिर्यावज्जीवत्यसौ द्विज १८

विष्णुः समस्तभूतानि ससर्जैतानि यानि वै।
तेषां मध्ये जगद्धातुरतीवेष्टा वसुन्धरा १९

कृते सम्मार्जने तस्यास्तथैवोपरिलेपने।
प्रयाति परमं तोषं वैष्णवीयं मही यतः २०

दाल्भ्य उवाच।
ब्रह्मन्येन विधानेन देवागारोपलेपलम्।
कर्तव्यं पुरुषैः सम्यक् स्त्रीभिर्वा तदुदीरय २१

पुलस्त्य उवाच।
रिक्तायास्तु तिथेर्मध्ये कुर्यात्सङ्कल्पमात्मनः।
उपलेपनकृद्विप्रो विष्णोरायतने भुवि २२

द्वितीयेऽह्नि ततो देवं प्रणम्य यतमानसः।
धरणीपितरं विष्णुमिदं वाक्यमुदीरयेत् २३

त्वं सर्वभूतप्रभवो जगत्पते त्वय्येतदीशेश जगत्प्रतिष्ठितम्।
त्वमेव भूतानि यतस्ततोऽहं त्वां पूजयाम्यद्य महीस्वरूपम् २४

त्वं मही जगतां नाथ सर्वनाथ नमोऽस्तु ते।
शुश्रूषितः प्रसीदेश भुवो लेपनकर्मणा २५

इत्युच्चार्य क्षितौ क्षिप्त्वा प्रथमं धारनीतले।
पुष्पाणि वा द्विजश्रेष्ठ यः करोत्यनुलेपनम्।
न तस्य जायते भङ्गो गार्हस्थ्यस्य कदाचन २६

या च नारी करोत्येवं यथावदनुलेपनम्।
नाप्नोति सा च वैधव्यं गृहभङ्गं कदाचन २७

कृत्वोपलेपनं भूयः प्रणिपत्य जनार्दनम्।
स्नातो विष्णुं समभ्यर्च्य इदं वाक्यमुदीरयेत् २८

प्रसीद भूधरानन्त मया यदुपलेपनम्।
कृतं तेन समस्तं मे नाशमभ्येतु पातकम् २९

एवं सम्पूज्य भुईयादपराह्ने द्विजोत्तम।
स्वनुलिप्ते महाभागे भुक्त्वा लिम्पेच्च तत्पुनः ३०

पक्षे पक्षे त्रिरात्रं तु यः करोत्युपलेपनम्।
सर्वपापविनिर्मुक्तः स्वर्गं गच्छत्यसंशयम् ३१

तत्क्षयात्स्वर्गेलोके तु जातो गृहवरं यथा।
समाप्नोति यथाख्यातं तत्सर्वं तव सत्तम ३२

सर्वाभरणसम्पूर्णं सर्वोपस्करधान्यवत्।
गोमहिष्यादिसम्भोगं गृहमाप्नोति मानवः ३३

तस्मादभीप्सता सम्यग्गार्हस्थ्यमविखण्डितम्।
विष्णोरायतने कार्यं सर्वदैवोपलेपनम् ३४

सप्तद्वीपवतीं कृत्स्नां यथेन्द्रस्त्रिदिवं तथा।
अल्पोपलेपनाद्यस्य मान्धाता सकलां महीम्।
अवाप विष्ण्वायतनं नोपलिम्पेत को हि तत् ३५

इति विष्णुधर्मेषु देवगृहलेपनविधिः।

अथ द्वात्रिंशोऽध्यायः।
पुलस्त्य उवाच।
दीपं प्रयच्छति नरो विष्णोरायतने हि यः।
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् १

कार्त्तिके तु विशेषेण कौमुदे मासि दीपकम्।
दत्त्वा यत्फलमाप्नोति दाल्भ्य तत्केन लभ्यते २

दाल्भ्यान्यदपि वक्ष्यामि पुरावृत्तमिदं शृणु।
विदर्भराजतनया ललिता यदुवाच ह ३

विदर्भराट्चित्ररथो बभूवास्त्रविशारदः।
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ४

एकैव कन्या दाल्भ्यासील्ललिता नामनामतः।
सर्वलक्षणसम्पूर्णा भ्रातॄणां पितुरेव च ५

समस्तभृत्यवर्गस्य मातॄणां स्वजनस्य च।
तथैव पौरवर्गस्य यश्चान्यो ददृशे शुभाम्।
तस्य तस्यातिचार्वङ्गी बभूवेष्टा द्विजोत्तम ६

तां ददौ काशिराजाय स पिता चारुवर्मने।
उपयेमे च तां सुभ्रूं चारुवर्मा महीपतिः ७

शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुवर्मणः।
तासां मध्येऽग्रमहिषी ललिता तस्य चाभवत् ८

सा च नित्यं जगद्धातुर्देवदेवस्य चक्रिणः।
दीपवर्तिपरा तद्वत्तैलस्याहरणोद्यता ९

विष्णोरायतने तस्याः सहस्रं द्विजसत्तम।
दीपानां वै प्रजज्वाल दिवारात्रमतन्द्रितम् १०

तस्या द्युतिपराभूतास्तस्या लावण्यनिर्जिताः।
सर्वाः सपत्न्यो ललितां पप्रच्छुरिदमादितः ११

सपत्न्य ऊचुः।
ललिते वद भद्रंते भद्रंते ललिते वद।
कौतूहलपराः सर्वा यत्पृच्छामस्तदुच्यताम् १२

ललितोवाच।
विषये सति वक्तव्यं यन्मया तदिहोच्यताम्।
नाहं मत्सरिणी भद्रान च रागादिदूषिता १३

भवत्यो मम सर्वासां भवतीनामहं तथा।
अपृथग्भर्तृसामन्या देवलोकाभिकामुकाः १४

सपत्न्य ऊचुः।
पूर्वं यूयमहं चैव भवतीनां सधर्मिणी।
न तथा पुष्पधूपेषु न तथा द्विजपूजने।
प्रयत्नं तव पश्यामो विष्णोरायतने शुभे १५

यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि।
तव दीपप्रदानाय यथा सुभ्रु सदोद्यमः १६

तदेतत्कथयास्माकं ललिते कौतुकं परम्।
मन्यामो दीपदानस्य भवत्या विदितं फलम् १७

पुलस्त्य उवाच।
एवमुक्ता ततस्ताभिर्ललिता ललितं वचः।
व्याजहार सपत्नीस्ता न किञ्चिदपि भामिनी १८

पुनः पुनश्च सा ताभिर्बहुषो दाल्भ्य चोदिता।
दाक्षिण्यसारा ललिता कथायामास भामिनी १९

कौतुकं भवतीनां चेदतीवाल्पेऽपि वस्तुनि।
तदेषा कथयाम्येतद्यद्वृत्तं मम शोभनाः २०

सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः।
तेन चायतनं विष्णोः कारितं देविकातटे २१

अहन्यहनि शुश्रूषां पुष्पधूपोपलेपनैः।
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः २२

कार्त्तिके दीपको ब्रह्मन्प्रदत्तस्तेन वै तदा।
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि २३

देवतायतने चासं तत्राहमपि मूषिका।
प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः २४

गृहीता च मया वर्तिर्वृषदंशो ननाद च।
नष्टा चाहं तदा तस्य मार्जारस्य भयातुरा २५

वर्तिप्रान्तेन नश्यन्त्या स दीपः प्रेरितो मया।
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः २६

मृताहं च ततो जाता वैदर्भी राजकन्यका।
जातिस्मरा कान्तिमती भवतीनां समा गुणैः २७

एष प्रभावो दीपस्य कार्त्तिके मासि शोभनाः।
दत्तस्य विष्ण्वायतने यस्येयं व्युष्टिरुत्तमा २८

असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया।
विष्ण्वायतनदीपस्य यस्येदं भुज्यते फलम् २९

लोभाभिभूता हर्तुं तं प्रदीपमहमागता।
अवशेनैव तद्वर्त्या प्रेरणं तत्र मे कृतम् ३०

ततो जातिस्मृतिर्जन्म मानुष्यं शोभनं वपुः।
वश्यः पतिः पृथिवीशः किं पुनर्दीपदायिनाम् ३१

एतस्मात्कारणाद्दीपानहमेतानहर्निशम्।
प्रयच्छामि हरेर्धाम्नि ज्ञातमस्य हि यत्फलम् ३२

भवतीनामिदं सत्यं मयोक्तं केशवालये।
मूषिकत्वादहं येन कर्मणा सिद्धिमागता ३३

पुलस्त्य उवाच।
एष प्रभावो दीपस्य कार्त्तिके मासि सत्तम।
विष्ण्वायतनदत्तस्य जगाद ललिता यथा ३४

दिने दिने जगन्नाथ केशवेति समाहितः।
ददाति कार्त्तिके यस्तु विष्ण्वायतनदीपकम् ३५

जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववस्तुषु।
अव्याहतेन्द्रियत्वं च सम्प्राप्नोति न संशयः ३६

शेषकाले च चक्षुष्मान्मेधावी दीपदो नरः।
जायते नरकं वापि तमःसञ्ज्ञं न पश्यति ३७

एकादशीं द्वादशीं वा प्रतिपक्षं च यो नरः।
दीपं ददाति कृष्णाय तस्यापि शृणु यत्फलम् ३८

सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम्।
दीपमालाकुलं दिव्यं विमानं सोऽधिरोहति ३९

तस्मादायतने विष्णोर्दद्याद्दीपं द्विजोत्तम।
तांश्च दत्तान्न हिंसेत न च तैलवियोजितान्।
कुर्वीत दीपहर्ता तु मूकोऽन्धो जायते यतः ४०

जायते नरकं चापि तपःसञ्ज्ञं स पश्यति।
अन्धे तामसि दुष्पारे नरके पतितान्किल।
विक्रोशमानान्क्षुत्क्षामाञ्जगाद यमकिङ्करः ४१

विलापैरलमत्रापि किं वो विलपिते फलम्।
यदा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ४२

पूर्वमालोचितं नैतत्किमप्यन्ते भविष्यति।
इदानीं यातनाभोगः किं विलापः करिष्यति ४३

देहो दिनानि स्वल्पानि विषयाश्चातिदुर्धराः।
एतत्को न विजानाति येन यूयं प्रमादिनः ४४

जन्तुजन्मसहस्रेभ्य एतस्मिन्मानुष्यो यदि।
तत्राप्यतिविमूढत्वात्किं भोगानभिधावति ४५

विरुद्धविषयास्वादमुदितैर्हसितं च यत्।
भवद्भिरागतं दुःखं विलापपरिणामिकम् ४६

अद्यकालिकया बुद्ध्या यदागामि न चिन्तितम्।
परितापाय तज्जातं दुःखं कर्मविपाकजम् ४७

स्वल्पमायुर्मनुष्याणां तदन्ते परतन्त्रता।
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितम् ४८

यदभूत्परदारेषु प्रीतयेऽङ्गकुचादिकम्।
यातनादुःखरूपाय नरके च तदागतम् ४९

परदारमनोहारि यद्भवद्भिरगीयत।
हा मात इत्यादि रुतं तदिदानीं विलप्यते ५०

सन्दिग्धपरलोकानामैहिके निहतात्मनाम्।
मृतानां स्वकृतं कर्म पश्चात्तापाय केवलम् ५१

मुहूर्तार्धसुखास्वादलुब्धानामकृतात्मनाम्।
अनेकवर्षकोटिषु दुःखदं कर्म जायते ५२

हा मातस्तात तातेति भवद्भिः किं विलप्यते।
शुभाशुभं निजं कर्म तदद्य ह्यत्र भुज्यते ५३

पुत्रदारगृहक्षेत्रहिताय सततोद्यताः।
न कुर्वत्नि कथं मूढाः स्वल्पमप्यात्मनो हितम् ५४

वञ्चितोऽसौ मया लब्धमिदमस्मादुपायतः।
न वेत्ति कश्चिदात्मार्थं वेत्ति प्रक्रमतो नरः ५६

न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च।
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च ५७

जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम्।
तदर्थं यत्कृतं कर्म तस्य जन्मशतानि तत् ५८

अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि।
क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् ५९

एवमाकृष्टचित्तानां विषयास्वादतर्षुलैः।
नॄणां न जायते बुद्धिः परमार्थावलोकिनी।
तथा च विषयासक्तिं करोत्यविरतं मनः ६०

कोऽतिभारो हरेर्नाम्नि जिह्वायाः परिकीर्तने।
वर्तितैलेऽल्पमौल्येऽपि यदग्निर्लभ्यते मुधा।
अतोऽधिकतरो लोभः को वश्चित्तेऽभवत्तदा ६२

येनेयं तेषु हस्तेषु स्वातन्त्र्! ये सति दीपकः।
महाफलो विष्णुगृहे न दत्तो नरकापहः ६३

न वो विलपिते किञ्चिदिदानीं दृश्यते फलम्।
अस्वातन्त्र्! ये विलपतां स्वातन्त्र्! येऽतिप्रमादिनाम् ६४

अवश्यम्पातिनः प्राणा भोक्ता जीवो ह्यहर्निशम्।
दत्तं च लभते भोक्ता समये विषयानिति ६५

एतत्स्वातन्त्र्! यवद्भिर्वो युक्तमासीत्परीक्षितुम्।
इदानीं किं विलापेन सहध्वं यदुपागतम् ६६

यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम्।
तद्भूयोऽपि मतिः पापे न कर्तव्या कथञ्चन ६७

कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम्।
कर्तव्यमव्यवस्थितं स्मरद्भिर्मधुसूदनम् ६८

पुलस्त्य उवाच।
नारकास्तद्वचः श्रुत्वा तामूचुरतिदुःखिताः।
क्षुत्क्षामकण्ठास्तृषया परिस्फुटिततालुकाः ६९

भो भो साधो कृतं कर्म यदस्माभिस्तदुच्यताम्।
नरकस्थैर्विपाकोऽयं भुज्यते यस्य दारुणः ७०

किङ्कर उवाअ।
युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः।
द्यूतोद्योताय गोविन्दगृहाद्दीपः पुरा हृतः ७१

तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः।
भवन्तः पतितास्तीव्रशीतवातविदारिताः ७२

पुलस्त्य उवाच।
एतत्ते दीपदानस्य प्रदीपहरणस्य च।
पुण्यं पापं च कथितं केशवायतने द्विज ७३

सर्वत्रैव हि दीपस्य प्रदानं द्विज शस्यते।
विशेषेण जगद्धातुः केशवस्य निवेशने ७४

येऽन्धा मूका निःश्रुता निर्विवेका हीनास्तैस्तैः साधनैर्विप्रवर्य।
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतो विप्रणीताः ७५

इति विष्णुधर्मेषु दीपदानविधिर्नाम द्वात्रिंशोऽध्यायः।

अथ त्रयस्त्रिंशोऽध्यायः।
दाल्भ्य उवाच।
आह्लादं चक्षुषः प्रीतिं करोति मनसस्तथा।
केषाञ्चिद्दर्शनं ब्रह्मन्मनुष्याणामहर्निशम् १

उद्वेजनीया भूतानामनिमित्तं तथापरे।
वदन्ते विप्रियं नैव प्रीतिं कुर्वन्ति मानवाः २

एतद्यस्य फलं ब्रह्मन्दानस्य तपसोऽथवा।
उपवासस्य वा तन्मे यथावद्वक्तुमर्हसि ३

अप्रीतिदस्य विप्रर्षे विपाको यस्य कर्मणः।
मनुष्याणामशेषं वै तन्ममाचक्ष्व सत्तम ४

पुलस्त्य उवाच।
देवब्राह्मणवेदेषु यज्ञेषु च नराधमैः।
यैर्जुगुप्सा कृता दाल्भ्य मनसाप्यतिमानिभिः ५

तेषां सन्दर्शनात्सर्वो न सुखं विन्दते द्विज।
वदन्त्यप्यनुकूलानि न तेषु प्रीयते जनः ६

स्पर्शादुद्विजते लोकः कटु तेषां च दर्शनम्।
सम्भाषणं च निन्दा वै कृता वेदद्विजातिके ७

तस्मान्न निन्दां वेदादौ न जुगुप्सां च पण्डितः।
यज्ञादौ च नरः कुर्याद्य इच्छेच्छ्रेय आत्मनः ८

यैस्तु प्रीतिः समस्तेषु वेददेवद्विजातिषु।
यज्ञादिके चैव कृता दाल्भ्य तद्दर्शनं नृणाम् ९

आह्लादश्चक्षुषः प्रीतिर्मनसो निर्वृतिः परा।
सम्भाषणे तथाह्लादः सर्वलोकस्य जायते १०

स्तुताः प्रशस्ताः सम्प्रीत्या पूजिता बहुमानतः।
श्रेयः परं प्रयच्छन्ति देवा वेदा मखा द्विजाः ११

लोकद्वयेऽपि चाप्रीतिं पशुपुत्रधनक्षयम्।
कुर्वन्ति द्विजशार्दूल एत एव विनिन्दिताः १२

एत एव समाख्याताः स्तवादिग्रहणे गुणाः।
निन्दायाः श्रवणे दोष एतेषामेवमेव हि १३

तस्मात्स्तव्याः प्रशंस्याश्च देवा वेदा द्विजातयः।
यज्ञाश्च मनसाप्येषां न निन्दामाचरेद्बुधः १४

इति विष्णुधर्मेषु देवद्विजादिप्रशंसा।

अथ चतुर्त्रिंशोऽध्यायः।
दाल्भ्य उवाच।
अनायासेन भगवन्दानेनान्येन केनचित्।
पापं प्रशममायाति येन तद्वक्तुमर्हसि १

पुलस्त्य उवाच।
शृणु दाल्भ्य महापुण्यां द्वादशीं पापनाशनीम्।
यामुपोष्य परं पुण्यं प्राप्नुते श्रद्धयान्वितः २

माघमासे तु सम्प्राप्त आषाढार्क्षं भवेद्यदि।
मूलं वा कृष्णपक्षस्य द्वादश्यां नियतस्तदा ३

गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु।
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ४

कृष्णनाम्ना च संस्तूय एकादश्यां महामते।
उपोषितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम् ५

संस्तूय नाम्ना च ततः कृष्णाख्येन पुनः पुनः।
दद्यात्तिलांस्तु विप्राय कृष्णो मे प्रीयतामिति।
स्नानप्राशनयोः शस्तास्तथा कृष्णतिला मुने ६

तिलप्ररोहे जायन्ते यावत्सङ्ख्यास्तिला द्विज।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ७

जातश्चेहाप्यरोगोऽसौ नरो जन्मनि जन्मनि।
नान्धो न बधिरश्चेह न कुष्ठी न जुगुप्सितः।
भवत्येतामुषित्वा तु तिलाख्यां द्वादशीं नरः ८

विष्णोः प्रीणनमत्रोक्तं समाप्ते वर्षपारणे।
पूजां च कुर्याद्विप्राय भूयो दद्यात्तथा तिलान् ९

दाल्भ्य विधिना तिलदानादसंशयम्।
मुच्यते पातकैः सर्वैर्निरायासेन मानवः १०

उद्भृतपुलकः सर्वान्निरायासेन मानवः।
दानविधिस्तथा श्रद्धा सर्वपातकशान्तये।
नार्थः प्रभूतो नायासः शारीरो मुनिसत्तम ११

इति विष्णुधर्मेषु तिलद्वादशी।

अथ पञ्चत्रिंशोऽध्यायः।
दाल्भ्य उवाच।
अनन्तस्याप्रमेयस्य व्यापिनः परमात्मनः।
नाम्नां नक्षत्रभेदेन तिथिभेदेन वा द्विज १

दानभेदेन चाख्यातो विभिन्नफलदस्त्वया।
विशेषः क्षेत्रभेदेन कथ्यतां यदि विद्यते २

यथ र्क्षतिथिभेदेन तेषामेव पुनः पुनः।
विशेषः कथितो नाम्नां विशेषफलदायकः।
तथा क्षेत्रविशेषेण भेदं नामकृतं वद ३

पुलस्त्य उवाच।
शृणु दाल्भ्य यथाख्यातमर्जुनाय महात्मने।
प्रणिपातप्रसन्नेन विष्णुना प्रभविष्णुना ४

कृते भारावतरणे निवृत्ते भारते रणे।
आगम्य शिबिरं विष्णू रथस्थः प्राह फाल्गुनम् ५

इषुधीगाण्डिवं चैव समादाय त्वरान्वितः।
अवतीर्य रथाद्वीर दूरे तिष्टः धनञ्जय ६

अवरोक्ष्याम्यहं पश्चादवतीर्णे ततस्त्वयि।
एतत्कुरु महाबाहो मा विलम्बस्व फाल्गुन ७

पुलस्त्य उवाच।
एवमुक्तस्तथा चक्रे वाक्यं पार्थो गदाधृतः।
अवारोहत्ततः पश्चात्स्वयमेव जनार्दनः ८

अवतीर्णे जगन्नाथे स्वसमुत्थेन वह्निना।
जज्वाल स रथः सद्यो भस्मीभूतश्च तत्क्षणात्।
सोपस्करपताकोऽथ सध्वजः सह वाजिभिः ९

सच्छत्त्रो वह्निना सद्यो रथो भस्मलवीकृतः।
वह्निना च यथा काष्ठं सद्यो भस्मलवीकृतम् १०

तदद्भुतं महद्दृष्ट्वा पार्थः पप्रच्छ केशवम्।
हृष्टरोमा द्विजश्रेष्ठ भयविस्मयगद्गदः ११

अर्जुन उवाच।
आश्चर्यं पुरुषव्याघ्र किमेतन्मधुसूदन।
विनाग्निना रथोऽयं मे दग्धस्तृणचयो यथा १२

भगवानुवाच।
भीष्मद्रोणकृपादीनां कर्णादीनां च फाल्गुन।
दग्धोऽस्त्रैर्विविधैरेष पूर्वमेव रथस्तव १३

मदधिष्ठितत्वात्कौन्तेय न शीर्णोऽयं तदाभवत्।
प्रत्यहन्निशि चक्रेण मया न्यस्तेन रक्षितः १४

सोऽयं दग्धो महाबाहो त्वय्यद्य कृतकर्मणि।
मयावतारिते चक्रे मा पार्थ कुरु विस्मयम् १५

अर्जुन उवाच।
कं भवन्तमहं विद्यामतिमानुषचेष्टितम्।
कर्मणात्यद्भुतेनाग्निर्धूमेनैवेह सूचितः १६

भगवानुवाच।
पूर्वमेव यथाख्यातं रणारम्भे तवार्जुन।
कालोऽस्मि लोकनाशाय प्रवृत्तोऽहं यथाधुना १७

तन्मया साधितं कार्यं त्रिदशानां तथा भुवः।
भारावतरणार्थाय मम जन्म महीतले १८

पुलस्त्य उवाच।
एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम्।
तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः १९

अर्जुन उवाच।
नमोऽस्तु ते चक्रधरोग्ररूप।
नमोऽस्तु ते शार्ङ्गधरारुणाक्ष।
नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र। नमोऽस्तु विभ्रान्तगदान्तकारिन् २०

भयेन सन्नोऽस्मि सवेपथेन नाङानि मे देव वशं प्रयान्ति।
वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति २१

कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन्।
क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय २२

प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय।
स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् २३

न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः।
पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप २४

स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव।
यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् २५

सा मे स्मृतिर्दर्शनभाषनादिप्रकुर्वतो नाथ गता प्रणाशम्।
कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त २६

कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप।
आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् २७

ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ।
विष्णुः स्थितौ पालनबद्धकक्षो रुद्रोभवान्संहरणे प्रजानाम् २८

एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि।
वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव २९

यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम्।
परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ३०

यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः।
तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ३१

मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु।
दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ३२

हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः।
काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ३३

त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम।
ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ३४

यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूअः।
नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ३५

बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम्।
तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषो मनुष्यतायाः ३६

तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्यजातः।
पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ३७

अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम्।
त्वया यथा स्तन्यमतीवबाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ३८

विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मनुषोऽन्यः।
ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ३९

सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम्।
दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ४०

प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः।
तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ४१

बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः।
सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ४२

कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः।
स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ४३

हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः।
जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ४४

स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः।
मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ४५

हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः।
येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ४६

इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः।
स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः! ४७

एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम्।
मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ४८

त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश।
एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ४९

प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो।
मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ५०

न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य।
यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ५१

देवदेव जगन्नाथ सर्वपापहरो भव।
हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ५२

प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च।
त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ५३

वयमन्ये च गोविन्द नराः क्रीडनकास्तव।
मद्विधैः करणैर्देव करोषि स्थितिपालनम् ५४

यदत्र सदसद्वापि किञ्चिदुच्चारितं मया।
भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ५५

इति विष्णुधर्मेष्वर्जुनस्तवो नाम पञ्चत्रिंशोऽध्यायः।

अथ षट्त्रिंशोऽध्यायः।
पुलस्त्य उवाच।
एवं स्तुतस्ततः प्राह प्रीतिमांस्तं जनार्दनः।
परिष्वज्य महाबाहुं समाश्वास्य च फाल्गुनम् १

प्रोवाच भगवान्देवः प्रहृष्टेनान्तरात्मना।
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु।
अभेदेनात्मना वेद्मी त्वामहं पाण्डुनन्दन २

ममांशत्वं महाबाहो जगतः पालनेच्छया।
भुवो भारावतारार्थं पृथक् पार्थ मया कृतम् ३

देवदैत्योरगा यक्षा गन्धर्वाः किन्नराप्सराः।
राक्षसाश्च पिशाचाश्च पशुपक्षिसरीसृपाः ४

वृक्षगुल्मादयः शैलाः सर्वभूतानि चार्जुन।
ममैवांशानि भूतानि विद्धि सर्वाण्यरिन्दम ५

अर्जुन उवाच।
भगवन्सर्वभूतात्मन्सर्वभूतेषु वै भवान्।
परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ६

क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ७

यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ८

भगवानुवाच।
सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना।
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ९

तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन।
स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते १०

पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम्।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ११

क्ष्वामाच्ये कुमारं नेपाले लोकभावनम्।
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम्।
वृन्दावने च गोविन्दं मा स्तुवन्पुण्यभाग्भवेत् १२

मन्दोदपाने वैकुण्ठं माहन्त्रे चाच्युतं विभुम्।
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे।
वाराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् १३

जनार्दनं च कुब्जाम्रे मथुरायां च केशवम्।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् १४

शालग्रामे महायोगिं हरिं गोवर्धनाचले।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् १५

वामनं च कुरुक्षेत्रे यमुनायां त्रिविक्रमम्।
वनमालं च किष्किन्धाआं देवं रैवतके द्विज।
काशीजले महायोगं देवं चामिततेजसम्।
वैशाखयूपे अजितं विरजायां विप्रक्षयम्।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे १६

श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे।
भूधरं देविकानद्यां प्रयागे चैव माधवम् १७

नरनारायणाख्यं च तथा बदरिकाश्रमे।
समुद्रेदक्षिणे स्तव्यं पद्मनाभेति फाल्गुन १८

द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम्।
रामं नाम महेन्द्राद्रौहृषीकेशं तथार्बुदे १९

अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले।
नृसिंहं कृतसौचे च विपाशायां द्विजप्रियम् २०

नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम्।
अनन्तं सैन्धवारण्ये दण्डके शाङ्गधारिणम् २१

उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम्।
दामोदरं रैवतके नन्दायां जलशायिनम् २२

सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे।
सह्याद्रौदेवदेवेशं वैकुण्ठं मागधे वने २३

सर्वपापहरं विन्ध्ये उड्रेषु पुरुषोत्तमम्।
हृदये चापि कौन्तेय परमात्मानमात्मनः २४

वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम्।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् २५

नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम्।
वासुदेवं च सर्वत्र संस्मरञ्ज्योतिषां पतिम् २६

अर्चयन्प्रणमंस्तु त्वं संस्मरंश्च धनञ्जय।
एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते २७

स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः।
द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते २८

नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान्।
जयं वै पञ्चपञ्चाशत्त्रिसन्ध्यं मत्परायणः २९

त्रीणि जन्मानि यत्पापमवस्थात्रितये कृतम्।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ३०

द्विष्कालं वा जपन्नेव दिवारात्रौ च यत्कृतम्।
तस्माद्विमुच्यते पापात्सद्भावपरमो नरः ३१

जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम्।
मोचयन्ते नरं पापाद्यत्तत्रैव दिने कृतम् ३२

धन्यं यशस्यमायुष्यं जयं कुरु कुलोद्वह।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ३३

उपोषितो मत्परमः स्थानेष्वेतेषु मानवः।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ३४

उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ३५

यस्तु मत्परमः कालं करोत्येतेषु मानवः।
देवानामपि पूज्योऽसौ मम लोके महीयते ३६

इति विष्णुधर्मेषु पञ्चपञ्चाशन्नामानि।

अथ सप्तत्रिंशोऽध्यायः।
दाल्भ्य उवाच।
यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम्।
तापाय यच्च भवति तदाचक्ष्व महामुने १

उपवासप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयेह मम ब्रह्मन्न च तृप्यामि कथ्यते २

पुलस्त्य उवाच।
श्रूयतां दाल्भ्य यत्पृष्टाः कौतुकाद्भवता वयम्।
आमुष्मिकं न तापाय यच्च तापाय जायते ३

उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयामि यथावृत्तं पूर्वमेव महामते ४

वैदिशं नाम नगरं प्रख्यातमिह सत्तम।
तत्र वैश्योऽभवत्पूर्वं वीरभद्रइति श्रुतः ५

भार्याजामाऋदुहितृपुत्रपौत्रस्नुषान्वितः।
प्रभूतभृत्यवर्गश्च बहुव्यापारकारकः ६

पुत्रपौत्रादिभरणव्यासक्तमतिरेव च।
परलोकं प्रति मतिस्तस्य चात्यन्तदुर्मुखा ७

चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जनम्।
सर्वत्रान्यत्र निःस्नेहः परस्वे चातितर्षुलः ८

न जुहोत्युदिते काले न ददात्यतितृष्णया।
बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ९

नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणाम्।
तृष्णाभिभूतो विप्रर्षे स्ववर्गभरणाधृतः १०

कालेन गच्छता सोऽथ मृतो विन्ध्याटवीतटे।
यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्मुने ११

तं ददर्श महाभागो दिव्यज्ञानसमन्वितः।
वेदवेदान्तविद्विद्वान्पिपीतो नाम वै द्विजः १२

भास्करस्यांशुभिर्दीप्तैर्दह्यन्तमनिवारणैः।
प्रतप्तवालुकामध्ये तृषा चात्यन्तपीडितम् १३

क्षुत्क्षामकण्ठं शुष्कास्यं स्तब्धोद्वृत्तविलोचनम्।
निष्क्रान्तजिह्वमङ्गेषु विस्फोटैः सर्वतश्चितम् १४

निश्वासायासखेदेन विरलास्यमनादरम्।
श्रान्तं मक्षिकयाकीर्णं दुर्दग्धं चातिदारुणम्।
निजेन कर्मणा बद्धमसमर्थं पलायने १५

तं तादृशमथो दृष्ट्वा गार्दभेयो महामुनिः।
पिपीतः प्राह विप्रर्षिः कारुण्यस्तिमितं वचः १६

जानन्नपि तथा प्राप्तं तदनुष्ठानजं फलम्।
जन्तोस्तस्योपकाराय सर्वतो ह्लादयन्निव १७

पिपीत उवाच।
अधः सूर्यांशुभिस्तप्तैर्बहुभिर्यानपांसुभिः।
उपर्यर्ककरैरुग्रैस्तृषा चार्तस्तथा क्षुधा १८

अन्यैस्तथाधिभिर्घोरैरविषह्यैरवारणैः।
कथयेह यथातत्त्वमेकाकी दह्यसे कथम् १९

पुलस्त्य उवाच।
तस्यैतद्वचनं श्रुत्वा पिपीतस्य सवेदनम्।
यातनास्थ उवाचेदं कृच्छ्रादुच्छ्वास्य मस्तकम् २०

वीरभद्रउवाच।
ब्रह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति।
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः २१

धनापणगृहक्षेत्रपुत्रदारहिते रतः।
नात्मनोऽहं हितारम्भी तेन दह्यामि दुर्मतिः २२

इदं करिष्ये कृत्वेदं करिष्याम्यपरं त्विदम्।
इतीच्छाशतसरोऽहं तेन दह्यामि दुर्मतिः २३

जुहोमि यदि तन्नास्ति ददामि यदि सीदति।
कुटुम्बमिति मूढोऽहं तेन दह्यामि दुर्मतिः २४

शीतोष्णवर्षाभिभवं लोभात्सोडः मयाशुभम्।
तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः २५

पितृदेवमनुष्याणामदत्त्वापोषिता हि ये।
तेऽन्यत्र क्वापि वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः २६

पुत्रभृत्यकलत्रेषु मम त्वादृतमानसः।
कृत्वा कर्माण्यसाधूनि दह्याम्येकोऽत्र दुर्मतिः २७

मृते मयि धने तस्मिन्नन्यायोपार्जिते मया।
नूनं ममेति वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः २८

न हि नः पूजिता गेहान्निर्गता द्विजसत्तमाः।
स्ववर्गहितकामस्य तेन दह्याम्यहर्निशम् २९

यन्मे न पूजिता देवाः कुटुम्बं पोषीतं परम्।
एकाकी तेन दह्यामि ये पुष्टास्तेऽन्यतो गताः ३०

नित्यनैमित्तिकं कर्म कृते येषां न म कृतम्।
एकाकी तेन दह्यामि तैर्मन्ये क्वापि रम्यते ३१

यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम्।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ३२

दाराः पुत्राश्च भृत्याश्च पापव्याप्त्या मयैधिताः।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ३३

पुत्रदारादिभृत्यार्थे मयान्यायार्थसञ्चयाः।
कृतास्तेनात्र दह्यामि भुञ्जतेऽप्यन्यतो गताः ३४

कृतं पापं मया भुक्तमन्यैस्तत्कर्मसञ्चितम्।
दह्याम्येकोऽहमत्यन्तं त्यक्तस्तैः फलभोगिभिः ३५

यन्ममत्वाभिभूतेन मया धनमुपार्जितम्।
अन्यस्य तेऽद्य कस्यापि केवलं मम दुष्कृतम् ३६

अन्तर्दुःखेन दग्धोऽन्तर्बहिर्दह्यामि भानुना।
नान्तर्दुःखं न वा भानुः पापमेव द्विधा स्थितम् ३७

कञ्चित्कर्मसमुद्धारं पश्यस्यसुखसागरात्।
मम येनाहमाह्लादमाप्नुयां मुनिसत्तम ३८

पिपीत उवाच।
अल्पकालिकमुद्धारं तव पश्याम्यसंशयम्।
प्रक्षीणप्रायमेतत्ते सुकृतं चास्ति ते परम् ३९

अतीते दशमे जन्मन्यच्युताराधनेच्छया।
सुकर्मजयदां भद्रद्वादशीं त्वमुपोषितः ४०

तव तस्याः प्रभावेण पापमत्यन्तदुर्जयम्।
अल्पैरहोभिः सङ्क्षीणं नवपात्रे यथा जलम् ४१

यदन्यः क्षपयेद्वर्षैस्तद्दिनैर्भवतः क्षयम्।
गतं पापमयं तस्याः प्रभावोऽत्यन्तदुर्लभः ४२

शमं पापस्य कुरुते जयं सुकृतकर्मणः।
सत्कर्मजयदा ह्येषा ततो वै द्वादशी स्मृता ४३

यच्चैतद्वेदनार्तेन भवता परिदेवितम्।
तत्तथा नात्र सन्देहो ममता पापहेतुकी ४४

पापमत्र कृतं प्रेत्य भद्रतापाय जायते।
आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ४५

पुलस्त्य उवाच।
वीरभद्रंसमाश्वास्य ययावित्थं महामुनिः।
सोऽप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ४६

एवं दाल्भ्य परे लोके यदत्रासुकृतं कृतम्।
तत्तापाय सुखायोक्तं यदत्रैव शुभं कृतम् ४७

उपवासप्रभावश्च कथितस्ते महामुने।
येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ४८

तस्मान्नरेण पुण्याय पतितव्यं न पातके।
उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ४९

इति विष्णुधर्मेषु वीरभद्रगीता सुकृतद्वादशीप्रभावः।

अथाष्टात्रिंशोऽध्यायः।
दाल्भ्य उवाच।
संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
कर्तव्यं यन्महाभाग पुरुषेण तदुच्यताम् १

पुलस्त्य उवाच।
संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
गृद्धिस्तेष्वेव सन्त्याज्या तत्त्यागो गुणवान्नृणाम् २

येषामब्दसहस्राणां सहस्रैरपि नो नरः।
भोगात्तृप्तिं समाप्नोति कस्तैर्भोगैर्विरज्यते ३

यावतो वाञ्छते भोगानहन्यहनि मानवः।
तेषां सहस्रभागेऽपि दाल्भ्य प्राप्तिं न विन्दति ४

अथ चेत्तनवाप्नोति सहस्रगुणितान्नरः।
तथाप्यतृप्त एवान्तमन्तकाले गमिष्यति ५

तृप्तये ये न सम्प्राप्ताः प्राप्यन्ते ये न वाञ्छिताः।
बुद्धिमानिन्द्रियार्थेषु तेष्वसङ्गी सदा भवेत् ६

येषां तृप्तिर्न भोगेन त्यागश्चैवोपकारकः।
उपोषितविधानेन भोगान्त्यागस्ततो वरः ७

कृच्छ्रचान्द्रायणादीनि नरैस्तस्मान्मुमुक्षुभिः।
निष्कामैर्दाल्भ्य कार्याणि फलाय च फलेप्सुभिः ८

अत्राप्युदाहरन्तीमं मुनयो मुनिसत्तम।
दस्राभ्यां सह संवादमैलस्य च महात्मनः ९

ऐलः पुरूरवाः पूर्वं बभूव मनुजेश्वरः।
चकमे यं महाभागमुर्वशी सुरसुन्दरी १०

सन्त्यज्य त्रिदशावासं रूपौदार्यगुणान्वितम्।
भेजे तमुर्वशी दाल्भ्य बुधस्य तनयं नृपम् ११

नासत्यदस्रौ रूपेण देवानामधिकौ ततः।
उर्वशीलोभनं तस्य रूपं द्रष्टुं समुत्सुकौ १२

प्रतिष्ठानं पुरं तस्य बुधपुत्रस्य धीमतः।
जग्मतुः सुमहाभागौ तस्य द्वास्थमथोचतुः १३

अश्विनावूचतुः।
क्षत्तोऽस्मद्वचनादैलं ब्रूहि त्वं वसुधाधिपम्।
द्रष्टुं तवाश्विनौ प्राप्तौ रूपसम्पद्गुणं नृप।
तदेह्यत्र महाभाग इहास्मान्सम्प्रवेशय १४

आश्चर्यभूतं लोकेषु उर्वशीलोभनं वपुः।
तत्कौतुकं न कुरुते कस्य पार्थिवपुङ्गव १५

पुलस्त्य उवाच।
आवां समागतौ तस्मात्त्वां द्रष्टुं मनुजोत्तम।
द्वास्थस्तथेति तावाह प्रविवेश च सत्वरम्।
आचचक्षे च तद्राज्ञे नासत्यवचनं द्विज १६

तच्छ्रुत्वा वचनं राजा द्वास्थमाह मुहूर्तकम्।
विलम्ब्यतां महाभागौ तौ ब्रूहि वचनान्मम १७

व्यायामतैलसंसर्गमलिनो न विभूषितः।
प्रसाधनं च कृत्वाहं निष्क्रमामि त्वरान्वितः १८

पुलस्त्य उवाच।
निष्क्रम्य स ततो द्वास्थो यथोक्तं भूभृतखिलम्।
समाचष्ट ततो दाल्भ्य तौ च भूयस्तमूचतुः १९

अश्विनावूचतुः।
अप्रसाधितमेवाशु भवन्तं वसुधाधिप।
पश्यावस्तव भूयोऽपि त्वां द्रक्ष्यावः प्रसाधितम् २०

पुलस्त्य उवाच।
इत्युक्तो निर्गतस्तूर्णं भवनादवनीपतिः।
तैलाभ्यक्ततनुर्दाल्भ्य व्यायामपरिधानधृक् २१

स प्रणामं तयोः कृत्वा किञ्चिन्नतशिरा नृपः।
प्रोवाच यन्मया कार्यं भवतोस्तदिहोच्यताम् २२

सप्तद्वीपवती पृथ्वी पुत्रदारबलं धनम्।
यच्चान्यदपि तत्सर्वं युवयोर्मे निवेदितम् २३

पुलस्त्य उवाच।
इत्युदाहृतमाकर्ण्य नृपतेरश्विनावपि।
अङ्गोपाङ्गादिकं सर्वं शनकैस्तावपश्यताम् २४

शिरोललाटबाहुं सनयनादिविलोकनम्।
कृत्वा च तं महीपालमूचतुस्ताविदं सुरौ २५

प्रविश्य स्नाहि भूपाल यथार्थैश्च विभूषणैः।
विभूषितं तु भूयस्त्वां द्रक्ष्यावोऽवां नरेश्वर २६

पुलस्त्य उवाच।
तथेति चोक्त्वा स नृपः प्रविवेश महामुने।
चक्रे च सकलं सम्यक् स्नात्वा देहप्रसाधनम् २७

स्नातोऽनुलिप्तः स्रग्धारी सुवस्त्रः सुविभूषितः।
नासत्यदस्रयोः पार्श्वमियाय वसुधाधिपः २८

भूयोऽपि तौ यथा पूर्वमङ्गोपाङ्गविलोकनम्।
चक्रतुर्नृपतेस्तस्य स्मितभिन्नौष्ठसम्पुटौ २९

तौ सहासौ समालक्ष्य स तदा वसुधाधिपः।
हासस्य कारणं देवभिषजौ तावपृच्छत ३०

पृच्छन्तं न ततो दाल्भ्य नृपतिं हास्यकारणम्।
यदूचतुर्महाभागौ तच्छृणुष्व वदामि ते ३१

अश्विनावूचतुः।
शृणु भूपाल सकलं हासकारणमावयोः।
युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् ३२

अस्नातस्याभवद्भूप यादृशी ते सुरूपता।
साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ३३

स्नातः स्रग्दामधारी त्वं स्वनुलिप्तः सुभूषितः।
तथाप्यस्नात एव प्राच्छोभनोऽभून्न साम्प्रतम् ३४

राजोवाच।
किन्तु तत्कारणं येन व्यायाममलिनाम्बरः।
शोभनोऽहमभूत्पूर्वमिदानीं न विभूषितः ३५

अश्विनावूचतुः।
दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च।
वयःपरिणतिं सूक्ष्मां पश्यावोऽपचयप्रदाम् ३६

यथा हि नाडिका पूर्णा गलत्यविरतं नृप।
नॄणां परिणतस्तद्वच्छरीरग्रहणादनु ३७

जन्मतोऽनन्तरं बाल्यं पौगण्डत्वं ततः परम्।
यौवनं मध्यदेहित्वं वार्द्धकं च जरा नृणाम्।
स्थूलदृष्ट्या तु पश्यन्ति न तु ते सूक्ष्मदर्शिनः ३८

निमेषशतभागस्य सहस्रांशः क्षणो नृप।
तस्याप्ययुतभागांशो भवत्यपचयो नृणाम् ३९

सूक्ष्मातिसूक्ष्मापचयी भवत्येष पुमान्नृप।
परिणामं क्रमाद्याति तृप्तिं वारि पिबन्निव ४०

तदहर्जातबाल्यस्य बालस्यापचयो हि सः।
प्रतिक्षणांशया वृद्धिर्बालत्वं हीयते तया ४१

पौगण्डे यौवने चैव वार्द्धके च महामते।
हानिक्रमः स एवोक्तो यो बाल्ये कथितस्तव ४२

कान्तिर्या नृप बालस्य पोगण्डस्य हि सा कुतः।
तत्कान्तिसौकुमार्याद्यैः शून्यमेव हि यौवनम् ४३

कान्त्यादिसम्पदो हानिः परमा नृप वार्द्धके।
तत्राप्यनुक्षणं हानिर्हानिरा मृत्युतो नृप ४४

एवं प्रतिक्षणांशांशो नॄणामपचयप्रदः।
कुर्वतः किमु कालस्ते महास्नानप्रसाधनम् ४५

अस्मद्दृष्टो भवान्यावत्प्रविष्टो निजमन्दिरम्।
तावद्धानिमनुप्राप्तः किमु यामार्धसंस्थितः ४६

यादृशोऽद्य भवांस्तादृक् त्वं न रूपी नरेश्वर।
परश्वः शस्तनं नैव चतुर्थेऽह्नि च तन्मयः ४७

एवं समस्तभूतानि स्थावराणि चराणि च।
प्रतिक्षणांशापचयं प्राप्नुवन्ति महीतले ४८

तस्मान्न कौतुकं कार्यं भवता तु नरेश्वर।
यत्ते रूपमभूत्पूर्वमप्रसाधितशोभनम् ४९

पुलस्त्य उवाच।
राजा पुरूरवा भूयः श्रुत्वा वाक्यमिदं तयोः।
चिन्तयित्वा वचः प्राह संवेगोत्कम्पिमानसः ५०

राजोवाच।
अहो भवद्भ्यां कथितमनवस्थितसंस्थितम्।
स्वरूपं जगतो देवौ येन त्रस्तोऽस्मि साम्प्रतम् ५१

अज्ञानतिमिरान्धानां मद्विधानां भवद्विधाः।
प्रदीपभूताः सन्देहो विद्यते नात्र कश्चन ५२

सदापचयदोषेण दुष्टकायैः सुरोत्तमौ।
यत्कार्यं पुरुषैस्तच्च कथ्यतां हितकाम्यया ५३

अश्विनावूचतुः।
अतिमूढोऽध्रुवे काये सदापचयधर्मिणि।
नरस्तदुपभोग्यानि ध्रुवाणि परिमार्गति ५४

आसनं शयनं यानं परिधानं गृहादिकम्।
वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ५५

मूढोऽध्रुवं ध्रुवमतिः किमात्मानं न बुध्यते।
बाल्यात्पौगण्डतां गत्वा यः पुनर्यौवनं गतः ५६

भुवः शैलं समारूढः समारूढस्ततो द्रुमम्।
आरोहणं स किमन्यदृक्षभीतः करिष्यति ५७

बाल्यात्पौगण्डतां यातो यौवनाद्वृद्धतां गतः।
वयोऽवस्था ततः कान्या यद्भोगाय स्थिरेच्छकः ५८

तस्मादेतन्मनुष्येण विचार्यात्महितैषिणा।
श्रेयस्यामुष्मिके यत्नः कर्तव्योऽहर्निशं नृप ५९

भोगेष्वसक्तिः सततं तथैवात्मावलोकनम्।
श्रेयः परं मनुष्याणां कपिलः प्राह पार्थिवः ६०

सर्वत्र समदर्शित्वं निर्ममत्वमसङ्गिता।
श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुनिः ६१

आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम्।
श्रेयः परं मनुष्याणामङ्गारिष्ठोऽब्रवीन्नृपः ६२

अध्यात्मिकादिदुःखानामत्यन्तादिप्रतिक्रिया।
श्रेयः परं मनुष्याणां जनको ह्याह मोक्षवित् ६३

अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनोः।
हिरण्यगर्भस्तच्छान्तिं श्रेयः परममब्रवीत् ६४

कर्तव्यमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितम्।
क्रियते तत्परं श्रेयो जैगीषव्योऽब्रवीन्मुनिः ६५

हानिं सर्वविधित्सानामात्मनः सुखहेतुकीम्।
श्रेयः परं मनुष्याणां देवलोऽप्याह तत्त्ववित् ६६

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते।
एतदेव परं श्रेयो विज्ञानं हितकामिनाम् ६७

कामानुसारी पुरुषः कामाननु विनश्यति।
अश्रेयसं परं चैतद्यद्भूपालातिकामिता ६८

एवं विज्ञाततत्त्वार्थः सनको योगिनां वरः।
नरेन्द्रप्राह विप्राणां परमार्थपरम्परम् ६९

क्रियाकलापफलदमृग्यजुःसामसञ्ज्ञितम्।
अमुष्मिन्मध्यमं श्रेयः प्राहुः सप्त र्षयो नृप ७०

इहैव फलदं काम्यं कर्म यत्क्रियते नरैः।
तदाहुरपरं श्रेयो ऋचीकच्यवनादयः ७१

द्वे कर्मणी नरश्रेष्ठ ब्रह्मणा समुदाहृते।
प्रवृत्ताख्यं निवृत्तं च स्वर्गमुक्तिफले हि ते ७२

प्रवृत्तमपि मोक्षाय कर्म पार्थिव जायते।
कर्म स्वरूपतो भ्रष्टमनाकाङ्क्ष्य फलं कृतम् ७३

सामान्यं चापरं श्रेयः सर्ववर्णाश्रमेषु यत्।
तच्छृणुष्व महीपाल वदतो मम तत्त्वतः ७४

सत्यं वक्तव्यं नित्यं मैत्रेण भाव्यं।
कार्यं च त्याज्यं नित्यमायासकारि।
लोकेऽमुष्मिन्यद्धितं च तथास्मिंस्।
तस्मिन्नात्मा योजनीयोऽनुधीरैः ७५

तीर्थस्नानैः सोपवासैरजस्रं पात्रे दानैर्होमजापैश्च नित्यम्।
शुद्धिर्नेयो देवताभ्यर्चनैश्च शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः ७६

शुद्धं वस्त्रं सङ्गदोषादशुद्धं।
भूयः शुद्धिं शोध्यमानं पर्याति।
एतज्ज्ञात्वा न प्रमादो मनुष्यैः।
शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः ७७

पुलस्त्य उवाच।
इत्युक्त्वा तौ नरेन्द्रंतौ तेन चार्घ्यादिना पृथक्।
सम्यक् सम्पूजितौ यातौ नाक पृष्ठमथाश्विनौ ७८

स चाप्यनित्यतामेवमवगम्य नरेश्वरः।
निष्कामोऽनुदिनमेव अवगम्य नरेश्वरः।
निष्कामोऽनुदिनं यज्ञैरियाज पुरुषोत्तमम् ७९

भोगासङ्गि मनो दाल्भ्य यदासीत्तस्य भूपतेः।
तदेव भगवद्ध्यानपरं चक्रे महामुने ८०

तत्याजार्थेषु ममतामहङ्कारं तथात्मनि।
समतां सर्वभूतेषु सम्प्राप पृथिवीपतिः ८१

यस्यात्मन्यपि विप्रर्षे नाहम्मानोऽस्ति कुत्रचित्।
मदावलेपो पूपादौ तस्य स्यादिति का कथा ८२

एवं दाल्भ्य मनुष्येण समतामनुतिष्ठता।
सर्वभोगेषु सन्त्याज्यो ध्येयश्च पुरुषोत्तमः ८३

कुत्र तिष्ठति गोविन्दो बाह्यनिवृतचेतसि।
तस्मान्निःसङ्गचित्तेन शक्यश्चिन्तयितुं हरिः ८४

प्रीतिद्वेषादयस्त्यक्त्वा महर्षे यस्य चेतसा।
प्रियातिथिस्तद्धृदये विष्णुर्मोक्षफलप्रदः ८५

इति विष्णुधर्मेष्वश्विनपुरूरवसंवादः।

अथैकोनचत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।
कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम।
अमङ्गल्येषु सर्वेषु यज्जप्तव्यं तदुच्यताम् १

येनारम्भाश्च सिद्ध्यन्ति दुःस्वप्नं चोपशाम्यति।
अमङ्गलानां सर्वेषां प्रतिघातश्च जायते २

पुलस्त्य उवाच।
जनार्दनं भूतपतिं जगद्गुरुं।
स्मरन्मनुष्यः सततं महामुने।
दुष्टान्यशेषाण्यपहन्ति साधयत्य्।
अशेषकार्याणि तथा यदीच्छति ३

शृणुष्व चान्यद्वदतो ममाखिलं वदामि यत्ते द्विजवर्य मङ्गलम्।
सर्वार्थसिद्धिं प्रददाति यः सदा निहन्त्यशेषाणि च पातकानि ४

प्रतिष्ठितं यत्र जगच्चराचरं जगच्च यो यो जगतश्च हेतुः।
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु मङ्गल्यविवृद्दये हरिः ५

व्योमाम्बुवाय्वग्निमहीस्वरूपैर्विस्तारवान्योऽणुतरोऽणुभागात्।
स स्थूलसूक्ष्मः सततं सुरेश्वरोममास्तु मङ्गल्यविवृद्धये हरिः ६

यस्मात्परस्तात्पुरुषादनन्ताद्।
अनादिमध्यादखिलं न किञ्चित्।
स हेतुहेतुः परमेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ७

हिरण्यगर्भाच्युतरुद्ररूपी।
सृजत्यशेषं परिपाति हन्ति।
गुणाश्रयी यो भगवान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ८

परः सुराणां परमोऽसुराणां।
परो मुनीनां परमो यतीनाम्।
परः समस्तस्य च यः स देवो।
ममास्तु मङ्गल्यविवृद्धये हरिः ९

ध्यातो यतीनामपकल्मषैर्यो।
ददाति मुक्तिं परमेश्वरेश्वरः।
मनोभिराद्यः पुरुषः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः १०

सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत्।
स शुद्धसत्त्वः परमेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ११

यन्नामकीर्तनतो विमुच्यते।
अनेकजन्मार्जितपापसञ्चयैः।
पापेन्धनाग्निः स सदैव निर्मलो।
ममास्तु मङ्गल्यविवृद्धये हरिः १२

येनोद्धृतेयं धरणी रसातलाद्।
अशेषसत्त्वस्थितिकारणादिदम्।
बिभर्ति विश्वं जगतः स मूलवान्।
ममास्तु मङ्गल्यविवृद्धये हरिः १३

पादेषु वेदा जठरे चराचरं।
रोमस्वशेषा मुनयो मुखे मखाः।
यस्येश्वरेशस्य स सर्वदा प्रभुर्।
ममास्तु मङ्गल्यविवृद्धये हरिः १४

समस्तयज्ञाङ्गमयं वपुर्विभोर्।
यस्याङ्गमीशेश्वरसंस्तुतस्य।
वराहरूपो भगवान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः १५

विक्षोभ्य सर्वोदधितोयसम्पदं।
दधार धात्रीं जगतश्च योद्भवः।
यज्ञेश्वरो यज्ञपुमान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः १६

पातालमूलेश्वरभोगिसंहतौ।
विन्यस्य पादौ पृथिवीं च बिभ्रतः।
यस्योपमानं न बभूव सोऽच्युतो।
ममास्तु मङ्गल्यविवृद्धये हरिः १७

विघर्घरं यस्य च बृंहतो मुहुः।
सनन्दनाद्यैर्जनलोकसंस्थितैः।
श्रुतं जयेत्युक्तिपरैः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः १८

एकार्णवाद्यस्य महीयसो महीम्।
आदाय वेगेन समुत्पतिष्यतः।
नुतं वपुर्योगिवरैः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः १९

हतो हिरण्याक्षमहासुरः पुरा।
पुराणपुंसा परमेण येन।
वराहरूपः स पतिः प्रजापतेर्।
ममास्तु मङ्गल्यविवृद्धये हरिः २०

दंष्ट्राकरालं सुरभीतिनाशनं।
कृत्वा वपुर्दिव्यनृसिंहरूपिणं।
त्रातं जगद्येन स सर्वदा प्रभुर्।
ममास्तु मङ्गल्यविवृद्धये हरिः २१

दैत्येन्द्रवक्षःस्थलदारदारुणैः।
करोरुहैः शत्रुरुजानुकारिभिः।
चिच्छेद लोकस्य भयानि चाव्ययो।
ममास्तु मङ्गल्यविवृद्धये हरिः २२

दन्तान्तदीप्तिद्युतिनिर्मलाणि।
चकार सर्वाणि दिशं मुखानि।
निनादवित्रासितदानवो ह्यसौ।
ममास्तु मङ्गल्यविवृद्धये हरिः २३

यन्नामसङ्कीर्तनतो महाभयाद्।
विमोक्षमाप्नोति न संशयं नरः।
समस्तलोकार्तिहरो नृकेसरी।
ममास्तु मङ्गल्यविवृद्धये हरिः २४

सटाकलापभ्रमणानिलहताः।
स्फुटन्ति यस्याम्बुधराः समन्ततः।
स दिव्यसिंहः स्फुरिताकुलेक्षणो।
ममास्तु मङ्गल्यविवृद्धये हरिः २५

यदीक्षणज्योतिषि रश्मिमण्डलं।
प्रलीनमेव न रराज भास्वतः।
कुतः शशाङ्कस्य स सिंहरूपधृ।
ममास्तु मङ्गल्यविवृद्धये हरिः २६

द्रवन्ति दैत्याः प्रणमन्ति देवता।
नश्यन्ति रक्षांस्यपयान्ति चारयः।
यत्कीर्तनात्सोऽद्भुतरूपकेसरी।
ममास्तु मङ्गल्यविवृद्धये हरिः २७

अशेषदेवेशनरेश्वरेश्वरैः।
सदा स्तुतं यच्चरितं महाद्भुतम्।
स सर्वलोकार्तिहरो महाहरिर्।
ममास्तु मङ्गल्यविवृद्धये हरिः २८

ऋक्कारितं यो यजुषातिशान्तिमत्।
सामध्वनिध्वस्तसमस्तपातकम्।
चक्रे जगद्वामनकः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः २९

यत्पादविन्यासपवित्रतां मही।
ययौ वियदृग्यजुषामुदीरणात्।
स वामनो दिव्यशरीरधृक् सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ३०

यस्मिन्प्रयाते सुरभूभृतोऽध्वरं।
ननाम खेदादवनिः ससागरा।
स वामनः सर्वजगन्मयः सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ३१

महाद्युतौ दैत्यपतेर्महाध्वरं।
यस्मिन्प्रविष्टे क्षुभितं महासुरैः।
स वामनोऽन्तस्थितसप्तलोकधृङ्।
ममास्तु मङ्गल्यविवृद्धये हरिः ३२

समस्तदेवेष्टिमयं महाद्युतिर्।
दधार यो रूपमतीन्द्रियं प्रभुः।
त्रिविक्रमाक्रान्तजगत्त्रयः सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ३३

सङ्घैः सुराणां दिवि भूतले स्थितैस्।
तथा मनुष्यैर्गगने स सर्वदा।
स्तुतः क्रमाद्यः प्रददे स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ३४

क्रान्त्वा धरित्रीं गगनं तथा दिवं।
मरुत्पतेर्यः प्रददौ त्रिविष्टपम्।
स देवदेवो भुवनेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ३५

अनुग्रहं चापि बलेरनुत्तमं।
चकार यश्चेन्द्रपदोपलक्षणं।
सुरांश्च यज्ञस्य भुजः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ३६

रसातलाद्येन पुरा समाहृताः।
समस्तवेदा वरवाजिरूपिणा।
स कैटभारिर्मधुसूदनो महान्।
ममास्तु मङ्गल्यविवृद्धये हरिः ३७

निःक्षत्रियां यश्च चकार मेदिनीम्।
अनेकशो बाहुवनं तथाछिनत्।
यः कार्तवीर्यस्य स भार्गवोत्तमो।
ममास्तु मङ्गल्यविवृद्धये हरिः ३८

निहत्य वालिं च कपीश्वरं हि यो।
निबध्य सेतुं जलधौ दशाननम्।
जघान चान्यान्रजनीचरानसौ।
ममास्तु मङ्गल्यविवृद्धये हरिः ३९

चिक्षेप बालः शकटं बभञ्ज यो।
यमलार्जुनौ कंसमरिं जघान।
ममर्द चाणूरमुखं स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ४०

प्रातः सहस्रांशुमरीचिनिर्मलं।
करेण बिभ्रद्भगवान्सुदर्शनम्।
कौमोदकीं चापि गदामनुत्तमां।
ममास्तु मङ्गल्यविवृद्धये हरिः ४१

हिमेन्दुकुन्दस्फटिकाभ्रकोमलं।
मुखानिलापूरितमीश्वरेश्वरः।
मध्याह्नकाले च स शङ्खमुत्तमम्।
ममास्तु मङ्गल्यविवृद्धये हरिः ४२

तथापराह्ने प्रविकासिपङ्कजं।
वक्षःस्थलेन श्रियमुद्वहद्विभुः।
विस्तारिपद्मोत्पलपत्रलोचनो।
ममास्तु मङ्गल्यविवृद्धये हरिः ४३

सर्वेषु कालेषु समस्तदेशेष्व्।
अशेषकार्येषु तथेश्वरेश्वरः।
सर्वैः स्वरूपैर्भगवाननादिमान्।
ममास्तु मङ्गल्यविवृद्धये हरिः ४४

एतत्पठन्दाल्भ्य समस्तपापैर्।
विमुच्यते विष्णुपरो मनुष्यः।
सिध्यन्ति कार्याणि तथास्य सर्वाण्य्।
अर्थानवाप्नोति तथा यथेष्टम् ४५

दुःस्वप्नं प्रशममुपैति पठ्यमाने।
स्तोत्रेऽस्मिञ्श्रवणविधौ सदोत्थितस्य।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः।
पापानि क्षपयति चास्य वासुदेवः ४६

मङ्गल्यं परममिदं सदार्थसिद्धिं।
निर्विघ्न त्वधिकफलं सदा ददाति।
किं लोके तदिह परत्र चास्ति पुंसाम्।
यद्विष्णुप्रवणधिया न दाल्भ्य साध्यम् ४७

देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः।
सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः।
वैदेहः परमपदं प्रसाद्य विष्णुं।
सम्प्राप्तः सकलफलप्रदो हि विष्णुः ४८

सर्वारम्भेषु दाल्भ्यैतद्दुःस्वप्नेषु च पण्डितः।
जपेदेकमतिर्विष्णौ तथामङ्गल्यदर्शने ४९

शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः।
कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम् ५०

हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः।
करोत्यखिलरूपैश्च रक्षामक्षतशक्तिधृक् ५१

इति विष्णुधर्मेषु मङ्गल्यस्तवः।

अथ चत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।
कुर्वीत किं पुमान्स्थानं कः पुमान्ब्रह्मणो बलम्।
ब्रह्मणश्च कथं भेदो ज्ञेयोऽभिन्नफलप्रदः १

पुलस्त्य उवाच।
स्वकर्मणा धनं लब्ध्वा नित्यनैमित्तिकाः क्रियाः।
कुर्वीत शुद्धिमास्थाय स्वेच्छया च तथा परः २

त्यक्त्वा रागादिकान्दोषान्समः सर्वत्र वै भवेत्।
सर्वत्र मैत्रीं कुर्वीत दद्यादिष्टानि चार्थिनाम् ३

कुर्याद्दीनेषु करुणां दुःशीलान्परिवर्जयेत्।
मुदितां धर्मशीलेषु भावनां मुनिसत्तम ४

एकत्र वा जगन्नाथे भावनां पुरुषोत्तमे।
निःशेषार्थमलापेतां शुद्धां कुर्वीत पण्डितः ५

शरीरबाह्यतां शश्वद्धिंसां कुर्वीत न क्वचित्।
निन्दावमानमन्येषां यच्चान्यदुपघातकम् ६

शरीरवाङ्मनःशुद्धिं कुर्वीत च सदात्मनः।
भूतानामुपकारश्च तपोभिश्चात्मकर्षणम् ७

एष धर्मः समासेन दाल्भ्याख्यातो मया तव।
अधर्मश्चायमेवोक्तो विपरीतो मनीषिभिः ८

एते यत्र गुणाः पूर्वं कथिता ज्ञानसंयुताः।
ब्रह्मणः साश्रयः शुद्ध उपचारात्तदेव सः ९

एकस्यैव सतस्तस्य ब्रह्मणो द्विजसत्तम।
नाम्नां बहुत्वं लोकानामुपकारकरं शृणु १०

निमित्तशक्तयो नाम्नो भेदतस्तदुदीरणात्।
विभिन्नान्येव साध्यन्ते फलानि कुरुनन्दन ११

यच्छक्ति नाम तत्तस्य तत्तस्मिन्नेव वस्तुनि।
साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु १२

वासुदेवाच्युतानन्तसत्याज्यपुरुषोत्तमैः।
परमात्मेश्वराद्यैश्च स्तुतो नामभिरव्ययः १३

निमित्तभावं भगवान्विमुक्तेर्यात्यधोक्षजः।
तथान्यकार्यसंसिद्धौ यद्यत्तत्तन्निशामय १४

धनकृद्धर्मकृद्धर्मी धर्मात्मा विश्वकृच्छुचिः।
शुचिषद्विष्णुरब्जाक्षः पुष्कराक्षो ह्यधोक्षयः।
शुचिश्रवाः शिपिविष्टो यज्ञेशो यज्ञभावनः १५

नाम्नामित्येवमादीनां समुच्चारणतो नरः।
धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा १६

तथार्थप्राप्तये ब्रह्मन्देवनामानि मे शृणु।
येषां समुच्चारणतो वित्तमाप्नोति भक्तिमान् १७

श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः।
श्रियः पतिः श्रीपरमः श्रीमाञ्श्रीवत्सलाञ्छनः १८

नृसिंहो दुष्टदामनो जयो विष्णुस्त्रिविक्रमः।
स्तुतः प्रयच्छते चार्थमेवमादिभिरच्युतः १९

काम्यः कामप्रदः कान्तः कामपालस्तथा हरिः।
आनन्दो माधवश्चैव कामसंसिद्धये नृप २०

रामः परशुरामश्च नृसिंहो विष्णुरेव च।
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः २१

विद्यामभ्यसता नित्यं जप्तव्यः पुरुषोत्तमः।
दामोदरं बन्धगतो नित्यमेव जपन्नरः २२

केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत्।
नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च २३

अच्युतं चामृतं चैव जपेदौषधकर्मणि।
भ्राजिष्णुमग्निहानौ च जपेदालम्बने स्थितम् २४

सङ्ग्रामाभिमुखं गच्छन्संस्मरेदपराजितम्।
पातालनरसिंहं च जलप्रतरणे स्मरेत् २५

चक्रिणं गदिनं चैव शार्ङ्गिनं खड्गिनं तथा।
क्षेमार्थे प्रसवन्राजन्दिक्षु प्राच्यादिषु स्मरेत् २६

अजितं चाधिकं चैव सर्वं सर्वश्वरं तथा।
संस्मरेत्पुरुषो भक्त्या व्यवहारेषु सर्वदा २७

नारायणं सर्वकालं क्षुतप्रस्खलितादिषु।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च २८

अस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे।
अन्धकारे च तीव्रे च नरसिंहमनुस्मरेत्।
तरत्यखिलदुर्गाणि तापार्तो जलशायिनम् २९

गरुडध्वजानुस्मरणादापद्भ्यो मुच्यते नरः।
ज्वरदुष्टशिरोरोगविषवीर्यं प्रशाम्यति ३०

स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे।
कीर्तयेद्भगवन्नाम वासुदेवेति तत्परः ३१

स्थगने वित्तधान्यादेरपध्याने च दुष्टजे।
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ३२

नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम्।
वामनं खड्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ३३

एकार्णवाहिपर्यङ्कशायिनं च नरः स्मरेत्।
वाय्वग्नीगृहदाहाय प्रवृद्धावुपलक्ष्य च ३४

विद्यार्थी मोहविभ्रान्तिवेगाघूर्णितमानसः।
मनुष्यो मुनिशार्दूल सदाश्वशिरसं स्मरेत् ३५

बलभद्रंसमृद्ध्यर्थी सीरकर्मणि कीर्तयेत्।
जगत्सूतिमपत्यार्थी स्तुवन्भक्त्या न सीदति ३६

जप्तव्यं सुप्रजाख्यं तु देवदेवस्य सत्तम।
दम्पत्योरात्मसम्बन्धे विवाहाख्ये पुनः पुनः ३७

श्रीशं सर्वाभ्युदयिके कर्मणि सम्प्रकीर्तयेत्।
अरिष्टान्तेष्वशेषेषु विशोकं च सदा जपेत् ३८

मरुत्प्रतापाग्निजलबन्धनादिषु मृत्युषु।
स्वातन्त्र्! यपरतन्त्रेषु वासुदेवं जपेद्बुधः ३९

सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः।
यद्वाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ४०

सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः।
सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ ४१

एवमेतानि नामानि देवदेवस्य कीर्तयेत्।
यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम्।
सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम् ४२

तन्मयत्वेन गोविन्दमित्येतद्दाल्भ्य नान्यथा।
तन्मयो वाञ्छितान्कामान्यदवाप्नोति मानवः ४३

निमित्तशक्तिः सा तस्य न भेदो दाल्भ्य मानसः।
वाङ्मनःकायिकं द्वेषं यच्च कुर्वन्प्रयात्यधः ४४

स्वरूपशक्तिः सा तस्य मतिभेदकृतं न तद्।
स शाक्तो निर्गुणः शुद्धो ब्रह्मभूतो जगद्गुरुः ४५

कर्मभिर्नामभिर्जीवो दृश्यते दाल्भ्य नैकधा।
यथा च गङ्गासलिलं सितमत्यन्तनिर्मलम् ४६

एकस्वरूपमध्यात्मं पुण्यापुण्यविभेदिभिः।
भ्रान्तिज्ञानान्वितैर्मिश्रं सितासितविचेष्टितैः।
दृश्यते नैकधा दाल्भ्य प्राणिभिर्भिन्नबुद्धिभिः ४७

तापार्तास्तापशमनमतिप्रीत्यतिशीतलम्।
कफदोषान्वितैर्नातिप्रीतियुक्तैर्निरंशुभिः ४८

स्त्रीयोग्यमेतन्नेतीति प्रीत्यप्रीतिसमन्वितैः।
मध्यस्थबुद्ध्या चैवान्ये नातिशीतातितापिभिः ४९

पवित्रमित्येतदिति पुण्यबुद्ध्या तथापरैः।
मृष्टमेतदितीत्यन्यैर्मत्स्याढ्यमिति चापरैः ५०

तुल्यबुद्ध्यापि चैवान्यैर्हेयबुद्ध्या तथापरैः।
नातिवेगातिवेगं च हृष्टोद्विग्नैस्तथापरैः ५१

किमेतेनेति चैवान्यैः परदाराभिलाषिभिः।
दाल्भ्य सन्दृश्यते चान्यैर्जन्तुभिर्भायकातरैः।
तदेव पूयं पश्यन्ति प्रेताद्या हृतिपापिनः ५२

एतैश्चान्यैश्च बहुभिर्विशेषैर्बहुजन्तुभिः।
विशेषवत्कर्मभेदादेकमेव हि दृश्यते ५३

नैते गङ्गाम्भसो भेदाः प्रीत्यप्रीतिप्रदायिनः।
प्राणिनां चेतसो भेदाद्दाल्भ्यैते कर्मयोनयः ५४

समस्तकर्मणा दाल्भ्य सङ्क्षये भयमेत्यसौ।
विशेषकारणाभावाद्विशेषाभाव एव हि ५५

विष्ण्वाख्यमेवं तद्ब्रह्म शुद्धमत्यन्तनिर्मलम्।
अभेदं बहुधा भिन्नं दृश्यते कर्मभेदिभिः ५६

योगिभिर्दृश्यते शुद्धं रागाद्युपशमामलैः।
रागिभिर्विषयाकारं तदेव ब्रह्म दृश्यते ५७

कर्ममार्गाश्रितैः कर्मभोक्तृत्वे च तथेष्यते।
किमप्यस्तीति चैवान्यैरविवेकिभिरुच्यते ५८

सर्वमेतत्तदेवेति वदन्त्यद्वैतवादिनः।
प्रत्यक्षं दृश्यमेवेति वदन्त्यन्ये दुरुक्तिभिः ५९

वदन्त्यन्ये तदेवाहं नास्तीत्यन्ये वदन्ति तत्।
तिर्यङ्मनुष्यदेवाख्यं तदन्यैरभिधीयते ६०

वन्द्यबुद्ध्या तु तत्कैश्चिद्ध्येयबुद्ध्या तथापरैः।
गम्यबुद्ध्या तथान्यैश्च लभ्यबुद्ध्या च जन्तुभिः ६१

गृह्यते तत्परं ब्रह्म रिपुबुद्ध्या तथापरैः।
आत्मपुत्रसुहृद्भर्तृपरबुद्ध्या च नैकधा ६२

प्राणिभिः कर्मवैषम्यभिन्नबुद्धिभिरव्ययम्।
तद्ब्रह्म गृह्यते दाल्भ्य परमार्थं निबोध मे ६३

भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
अपरं ब्रह्मणो रूपं परं दाल्भ्य निशामय ६४

अहेयमक्षरं शुद्धमसम्भूतिनिरञ्जनम्।
विष्ण्वाख्यं परमं ब्रह्म यद्वै पश्यन्ति सूरयः ६५

इति विष्णुधर्मेषु ब्रह्माख्यानकम्।

अथैकचत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।
यथैतद्भवता प्रोक्तं धर्मार्थादेस्तु साधनम्।
पत्नी नॄणां मुनिश्रेष्ठ योषितश्च तथा नरः १

तच्छ्रोतुमिच्छे विप्रर्षे विधवा स्त्री न जायते।
उपोषीतेन येनाग्र्या पत्न्या च रहितो नरः २

पुलस्त्य उवाच।
अशून्यशयना नाम द्वितीयां शृणु तां मम।
यामुपोष्य न वैधव्यं प्रयाति स्त्री द्विजोत्तम ३

पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते।
शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा द्विज ४

अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः।
कृष्णपक्षद्वितीयायां श्रावणे द्विजसत्तम ५

इदमुच्चारयेन्नाम प्रणम्य जगतः पतिम्।
श्रीवत्सधारिणं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ६

श्रीवत्सधारिञ्श्रीकान्त श्रीधाम श्रीपतेऽच्युत।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ७

अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः।
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ८

लक्ष्म्या प्रयुज्यते देव न कदाचिद्यथा भवान्।
तथा कलत्रसम्बन्धो देव मा मे विभिद्यताम् ९

लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन १०

एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः।
फलानि दद्याच्छय्यायामभीष्टानि जगत्पतेः ११

नक्तं प्रणम्यायतने हविर्भुञ्जीत वाग्यतः।
ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् १२

एवं करोति यः सम्यग्नरो मासचतुष्टयम्।
तस्य जन्मत्रयं दाल्भ्य गृहभङ्गो न जायते १३

अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः १४

नारी च दाल्भ्य धर्मज्ञा व्रतमेतद्यथाविधि।
या करोति न सा शोच्या बन्धुवर्गस्य जायते १५

वैधव्यं दुर्भगत्वं वा भर्तृत्यागं च सत्तम।
नाप्नोति जन्मत्रितयमेतच्चीर्त्वा पतिव्रता १६

इति विष्णुधर्मेष्वशून्यशयनद्वितीया नाम एकचत्वारिंशोऽध्यायः।

अथ द्विचत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।
उपवासाश्रितं सम्यग्लोकद्वयफलप्रदम्।
कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज १

अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रब्रवीतु मे।
संसारहेतुं मुक्तिं च संसारान्मुनिसत्तम २

पुलस्त्य उवाच।
अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम।
संसारस्यास्य तन्मुक्तिः सङ्क्षेपाच्छ्रूयतां मम ३

स्वजातिविहितं कर्म लोभद्वेषविवर्जितम्।
कुर्वतः क्षीयते पूर्वं मन्युबन्धश्च नेष्यते ४

अपूर्वसम्भवाभवात्क्षयं यात्यादिकर्मणि।
दाल्भ्य संसारविच्छेदः कारणाभावसम्भवः ५

भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम्।
संसारान्मुच्यते दाल्भ्य समासाद्वदतो मम ६

गृहीतकर्मणा येन पुंसां जातिर्द्विजोत्तम।
तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ७

ब्राह्मणक्षत्रियविशां शूद्रान्त्यानां च सत्तम।
स्वजातिविहितं कर्म रागद्वेषादिवर्जितम् ८

जातिप्रदस्य क्षयदं तदेवाद्यस्य कर्मणः।
ज्ञानकारणभावं च तदेव प्रतिपद्यते ९

पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम।
ब्रह्मणा विष्णुसञ्ज्ञेन परमेणाव्ययात्मना १०

एतत्ते कथितं दाल्भ्य संसारस्य समासतः।
कारणं भवमुक्तिश्च जायते योगिनो यथा ११

इति विष्णुधर्मेषु संसारहेतुमुक्त्याख्यानकम्।

अथ त्रिचत्वारिंशोऽध्यायः।
शुक्र उवाच।
इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः।
आराधयामास हरिं लेभे कामांश्च वाञ्छितान् १

तथा त्वमपि दैत्येन्द्रकेशवाराधनं कुरु।
आराध्य तं जगन्नाथं न कश्चिदवसीदति २

वसिष्ठ उवाच।
इति शुक्रवचः श्रुत्वा प्रह्लादो मधुसूदनम्।
आराध्य प्राप्तवान्कृत्स्नं त्रैलोकैश्वर्यमूर्जितम् ३

एतन्मयोक्तं सकलं तव भूमिप पृच्छतः।
अनाराध्याच्युतं देवं कः कामान्प्राप्नुते नरः ४

शौनक उवाच।
अम्बरीसो नरपतिर्विष्णोर्माहात्म्यमुत्तमम्।
श्रुत्वा बभूव सततं केशवार्पितमानसः ५

एवं त्वमपि कौरव्य यदि मुक्तिमभीष्यसि।
भोगान्वा विलुपान्देवात्तस्मादाराधयाच्युतम् ६

ददाति वाञ्छितान्कामान्सकामैरर्चितो हरिः।
मुक्तिं ददाति गोविन्दो निष्कामैरभिपूजितः ७

शतानीक उवाच।
भगवानवतीर्णोऽभून्मर्त्यलोकं जनार्दनः।
भारावतरणार्थाय भुवो भूतपतिर्हरिः ८

मानुषत्वे च गोविन्दो मम पूर्वपितामहैः।
चकार प्रीतिमतुलां सामान्यपुरुषो यथा ९

सारथ्यं कृतवांश्चैव तेषां सर्वेश्वरो हरिः।
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः १०

उपकारी महाभागः स तेषां सर्ववस्तुषु।
केशवः पाण्डुपुत्राणां सुतानां जनको यथा ११

धन्यास्ते कृतपुण्याश्च मम पाण्डुसुता मताः।
विविशुर्ये परिष्वङ्गे गोविन्दभुजपञ्जरम् १२

राज्यहेतोररीञ्जघ्नुरकस्मात्पाण्डुनन्दनाः।
सप्तलोकैकनाथेन येऽभवन्नेकशायिनः १३

आत्मानमवगच्छामि भगवन्धूतकल्मषम्।
जातं निर्धूतपापेऽस्मिन्कुले विष्णुपरिग्रहे १४

एवं देववरस्तेषां प्रसादसुमुखो हरिः।
पृच्छतां कच्चिदाचष्टे किञ्चिद्गुह्यं महात्मनाम् १५

गुह्यं जनार्दनं यांस्तु धर्मपुत्रो युधिष्ठिरः।
पप्रच्छ धर्मानखिलांस्तन्ममाख्यातुमर्हसि १६

धर्मार्थकाममोक्षेषु यद्गुह्यं मधुसूदनः।
तेषामवोचद्भगवाञ्श्रोतुमिच्छामि तत्त्वहम् १७

शौनक उवाच।
बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः।
पुरा प्रोवाच राजेन्द्रप्रसादसुमुखो हरिः १८

शरतल्पगताद्भीष्माद्धर्माञ्श्रुत्वा युधिष्ठिरः।
पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु १९

इति विष्णुधर्मेषु पुलस्त्यदाल्भ्यसंवादः।

अथ चतुश्चत्वारिंशोऽध्यायः।
शौनक उवाच।
पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः।
तदा नारायणं देवं प्रश्नमेतमपृच्छत १

युधिष्ठिर उवाच।
भगवन्वैष्णवा धर्माः किम्फलाः किम्परायणाः।
किं कृत्यमधिकृत्यैते भवतोत्पादिताः पुरा २

यदि ते पाण्डुषु स्नेहो विद्यते मधुसूदन।
श्रोतव्याश्चेन्मया धर्मास्ततस्तान्कथयाखिलान् ३

पवित्राश्चैव ये धर्माः सर्वपापप्रणाशनाः।
तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः ४

याञ्श्रुत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः।
सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्बिषैः ५

एतन्मे कथितं सर्वं सभामध्येऽरिसूदन।
वसिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः ६

ततोऽहं तव देवेश पादमूलमुपागतः।
धर्मान्कथय तान्देव यद्यहं भवतः प्रियः ७

श्रुता मे मानवा धर्मा वासिष्ठाश्च महामते।
पराशरकृताश्चैव तथात्रेयस्य धीमतः ८

श्रुता गार्ग्यस्य शङ्खस्य लिखितस्य यमस्य च।
जापालेश्च महाबाहो मुनेर्द्वैपायनस्य च ९

उमामहेश्वराश्चैव जातिधर्माश्च पावनाः।
गुणेश्च गुणबाहोश्च काश्यपेयास्तथैव च १०

बह्वायनकृताश्चैव शाकुनेयास्तथैव च।
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः सौरभास्तथा ११

भृगोरङ्गिरसश्चैव कश्यपोद्दालकास्तथा।
सौमन्तूग्रायणाग्राश्च पैलस्य च महात्मनः १२

वैशम्पायनगीताश्च पिशङ्गमकृताश्च ये।
ऐन्द्राश्च वारुणाश्चैव कौबेरा वात्स्यपौणकाः १३

आपस्तम्बाः श्रुता धर्मास्तथा गोपालकस्य च।
भृग्वङ्गिरःकृताश्चैव सौर्या हारीतकास्तथा।
याज्ञवल्क्यकृताश्चैव तथा सप्तर्षयश्च ये १४

एताश्चान्याश्च विविधाः श्रुता मे धर्मसंहिताः।
भगवञ्श्रोतुमिच्छामि तव वक्त्राद्विनिःसृतान् १५

शौनक उवाच।
एवमुक्तः स पार्थेन प्रत्युवाच जनार्दनः।
बहुमानाच्च प्रीत्या च धर्मपुत्रं युधिष्ठिरम् १६

भगवानुवाच।
इष्टस्त्वं हि महाबाहो सदा मम युधिष्ठिर।
परमार्थं तव ब्रूयां किं पुनर्धर्मसंहिताम् १७

परमज्ञानिभिः सिद्धैर्युञ्जद्भिरपि नित्यशः।
प्रशान्तस्येव दीपस्य गतिर्मम दुरत्यया १८

सर्ववेदमयं ब्रह्म पवित्रमृषिभिः स्तुतम्।
कथयिष्यामि ते राजन्धर्मं धर्मभृतां वर १९

एवमुक्ते तु कृष्णेन ऋषयोऽमिततेजसः।
समाजग्मुः सभामध्ये श्रोतुकामा हरेर्गिरम् २०

देवगन्धर्वऋषयो गुह्यकाश्च महायशाः।
वालखिल्या महात्मानो मुनयः सम्मितव्रताः।
पावनान्सर्वधर्मेभ्यो रहस्यान्द्विजसत्तम।
वैष्णवानखिलान्धर्मान्यः पठेत्पापनाशनान्।
भवेयुरक्षयास्तस्य लोकाः सत्पुण्यभागिनः २१

कृष्णदृष्टिहतं चास्य किल्बिषं सम्प्रणश्यति।
वैष्णवस्य च यज्ञस्य फलं प्राप्नोति मानवः २२

इति विष्णुधर्मेषु युधिष्ठिरप्रश्नः।

अथ पञ्चचत्वारिंशोऽध्यायः।
शौनक उवाच।
कौतूहलसमाविष्टः पप्रच्छेदं युधिष्ठिरः।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च १

कीदृशं किम्प्रमाणं वा कथं वान्तं जनार्दन।
तरन्ति पुरुषाः कृष्ण केनोपायेन संशमे २

तस्य तद्वचनं श्रुत्वा विस्मितो मधुसूदनः।
प्रत्युवाच महात्मानं धर्मपुत्रं युधिष्ठिरम् ३

भगवानुवाच।
साधु साधुरयं प्रश्नः श्रूयतां भो युधिष्ठिर।
षडशीतिसहस्राणि योजनानां नराधिप ४

यमलोकस्य चाध्वानमन्तरं मानुषस्य च।
ताम्रपात्रमिवातप्तं शूलव्यामिश्रकण्टकम् ५

द्वादशादित्यसङ्काशं भैरवं दुरतिक्रमम्।
न तत्र वृक्षा न च्छाया पानीयं केतनानि च ६

यत्र विश्रमते श्रान्तः पुरुषोऽध्वानको नृप।
याम्यैर्दूतैर्नीयमानो यमस्याज्ञाकरैर्बलात् ७

अवश्यं च महाराज स गन्तव्यो महापथः।
नरैः स्त्रीभिस्तथा तिर्यैः पृथिव्यां जीवसञ्ज्ञकैः ८

एकविंशच्च नरका यमस्य विषये स्मृताः।
ये तु दुष्कृतकर्माणस्ते पतन्ति पृथक् पृथक् ९

नरको रौरवो नाम महारौरव एव च।
क्षुरधारा महारौद्रः! सूकरस्ताल एव च १०

वज्रकुम्भो महाघोरः शाल्मलोऽथ विमोहनः।
कीटादः कृमिभक्षश्च शाल्मलिश्च महाद्रुमः ११

तथा पूयवहः पापा रुधिरान्धो महत्तमः।
अग्निज्वालो महानादः सन्दांशः शुनभोजनः।
तथा वैतरणी चोष्णा असिपत्त्रवनं तथा १२

विष्णोस्तद्वचनं श्रुत्वा पपात भुवि पाण्डवः।
स सञ्ज्ञश्च मुहूर्तेन भूयः केशवमब्रवीत् १३

युधिष्ठिर उवाच।
भीतश्चास्मि महाबाहो श्रुत्वा मार्गस्य विस्तरम्।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् १४

भगवानुवाच।
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव।
यो दद्याच्छ्रद्धया युक्तः सुखं याति महापथम् १५

उपानहप्रदा यान्ति सुखं छायासु च्छत्त्रदाः।
न तेषामशुभं किञ्चिच्छूलादि न च कण्टकाः १६

उपानहौ यो ददाति पात्रभूते द्विजोत्तमे।
अश्वतर्यः प्रदातारमुपतिष्ठन्ति तं नरम् १७

वितृष्णाश्चाम्बुदातारस्तर्पिताश्चान्नदास्तथा।
औप्रावृता वस्त्रदाश्च नग्ना वै यान्त्यवस्त्रदाः १८

हिरण्यदाः सुखं यान्ति पुरुषाः स्वाभ्यलङ्कृताः।
गोप्रदा यान्ति च सुखं विमुक्ताः सर्वकिल्बिषैः १९

भूमिदाः सुखमधन्ते सर्वकामैः सुतर्पिताः।
यान्ति चैवापरिक्लिष्टा नराः शय्यासनप्रदाः २०

ततः सुखतरं यान्ति विमानेषु गृहप्रदाः।
क्षीरप्रदा हि दिव्याभिः ससर्पिभिस्तथैव च २१

गोप्रदाता लभेत्तृप्तिं तस्मिन्देशे सुदुर्लभाम्।
आरामरोपी च्छायासु शीतलासु सुखं व्रजेत् २२

सुगन्धिगन्धिनो यान्ति गन्धमाल्यप्रदा नरः।
अदत्तदाना गच्छन्ति पद्भ्यां यानेन यानदाः।
दीपप्रदाः सुखं यान्ति दीपयन्तश्च तत्पथम् २३

विमानैर्हंसयुक्तैस्तु यान्ति मासोपवासिनः।
चक्रवाकप्रयुक्तेन पञ्चरात्रोपवासिनः।
ततो बर्हिणयुक्तेन षड्रात्रमुपवासिनः २४

त्रिरात्रमेकभक्तेन क्षपयेद्यस्तु पाण्डव।
अनन्तरं च योऽश्नीयात्तस्य लोका यथा मम २५

पनीयं परलोकेषु पावनं परमं स्मृतम्।
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती।
पानीयस्य गुणा दिव्याः प्रेतलोके सुखावहाः २६

तत्र पुण्योदका नाम नदी तेषां प्रवर्तते।
शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम् २७

ये च दुष्कृतकर्माणः पूयं तेषां प्रवर्तते।
एषा नदी महाराज सर्वकामदुघा शुभा २८

अध्वनि खिन्नगात्रस्तु द्विजो यः क्षुत्तृष्णान्वितः।
पृच्छन्सदान्नदातारमभ्येति गृहमाशया।
तं पूजय प्रयत्नेन सोऽतिथिर्ब्राह्मणः स्मृतः २९

पितरो देवताश्चैव ऋषयश्च तपोधनाः।
पूजिताः पूजिते तस्मिन्निराशे तु निराशकाः।
तमेव गच्छन्तमनुव्रजन्ति देवाश्च सर्वे पितरस्तथैव।
तस्मिन्द्विजे पूजिते पूजितास्ते गते निराशे प्रतियान्ति नाशम् ३०

अहन्यहनि दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ३१

इति विष्णुधर्मेषु याम्याख्यानकम्।

अथ षट्चत्वारिंशोऽध्यायः।
भगवानुवाच।
न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः।
अग्नौ वा सुहुते राजन्यथा ह्यतिथिपूजने १

कपिलायां तु दत्तायां यत्फलं ज्येष्ठपुष्करे।
तत्फलं पाण्डवश्रेष्ठ विप्राणां पादशौचने २

द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी।
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ३

देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम्।
श्रान्तसंवाहनं चैव दीनस्य परिपालनम्।
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते ४

पादशौचं तथाभ्यङ्गं दीपमन्नं प्रतिश्रयम्।
ददन्ति ये महाराज नोपसर्पन्ति ते यमम् ५

स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ६

अभयस्य प्रदानेन भवेत्प्रीतिर्ममातुला।
येषां तडागानि बहूदकानि प्रपाश्च कूपाश्च प्रतिश्रयाश्च।
अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ७

सवृषं गोशतं तेन दत्तं भवति शाश्वतम्।
पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत्।
शोछयेत्कपिलां दत्त्वा एतद्वै नात्र संशयः ९

प्रासादा यत्र सौवर्णा वसोर्धारा च स्यन्दते।
गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः १०

प्रयच्छते यः कपिलां सवत्सां कांस्योपदोहां कनकाग्रशृङ्गीम्।
यान्यान्हि कामानभिवाञ्छतेऽसौ तांस्तानवाप्नोत्यमलांश्च लोकान् ११

यावद्वत्सस्य द्वौ पादौ शिरश्चैव प्रदृश्यते।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति।
तस्मिन्काले प्रदातव्या विधिना या मयोदिता १२

अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते।
आवद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति १३

यावन्ति तस्य रोमाणि तावद्वर्षाणि मानवः।
हंसयुक्तेन यानेन युक्तेनाप्सरसां गणैः।
गन्धर्वाप्सरसोद्गीतैः स्वर्गलोके महीयते १४

तिलधेनुं प्रवक्ष्यामि यश्चास्या विधिरुत्तमः।
सुवर्णनाभिं यः कृत्वा सुखूरं कृष्णमार्गणाम् १५

कुतपप्रस्तरस्थां तु तिलां कृत्वा प्रयत्नतः।
तिलैः प्रस्थादि तां दद्यात्सर्वरत्नैरलङ्कृताम् १६

ससमुद्रद्रुमा चैव सशैलवनकानना।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः १७

कृष्णाजिने तिलां कृत्वा कृष्णां वा यदि वेतराम्।
राजतेषु तु पात्रेषु कोणेषु मधुसर्पिषी।
प्रीयतां धर्मराजेति यद्वा मनसि वर्तते।
यावज्जीवकृतं पापं तेन दानेन पूयते १८

इति विष्णुधर्मेषु गोप्रदानमिश्रदानम्।

अथ सप्तचत्वारिंशोऽध्यायः।
भगवानुवाच।
धनं प्राप्नोति पुण्येन मौनेनाज्ञां प्रयच्छति।
उपभोगं तु दानेन जीवितं ब्रह्मचर्यया १

अहिंसया परं रूपं दीक्षया कुलजन्म च।
फलमूलाशनाद्राज्यं स्वर्गः पर्णाशनो भवेत् २

पयोभक्ष दिवं यान्ति स्नानेन द्रविणाधिकाः।
शाकं साधयतो राज्यं नाकपृष्ठमनाशनात् ३

स्थण्डिले च शयानस्य गृहाणि शयनानि च।
चीरवल्कलधारिणां वस्त्राण्याभरणानि च ४

शयनासनयानानि ये गता हि तपोवनम्।
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ५

रसानां प्रतिसंहारात्सौभाग्यमभिजायते।
आमिषप्रतिषेधात्तु भवत्यायुष्मती प्रजा ६

उदवासं वसेद्यस्तु नागानामधिपो भवेत्।
सत्यवादी नरश्रेष्ठ देवतैः सह मोदते ७

कीर्तिर्भवति दानेन आरोग्यं चाप्यहिंसया।
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम्।
द्विजशुश्रूषया राज्यं दिव्यरूपमवाप्नुते ८

अन्नपानप्रदानेन कामभोगैस्तु तृप्यते।
दीपालोकप्रदानेन चक्षुष्माञ्जायते नरः ९

गन्धमाल्यप्रदानेन तुष्टिर्भवति पुष्कला।
केशश्मश्रून्धारयतो ह्यग्रा भवति सन्ततिः १०

वाक्शौचं मनसः शौचं यच्च शौचं जलाश्रयम्।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ११

ताम्रायसानां भण्डानां दाता रत्नाधिपो भवेत्।
लभते तु परं स्थानं बलवान्पुष्यते सदा १२

इति विष्णुधर्मेषु नियमफलानि।

अथाष्टाचत्वारिंशोऽध्यायः।
भगवानुवाच।
धान्यं क्रमेणार्जितवित्तसञ्चयं विप्रे सुशीले ते प्रयच्छते यः।
वसुन्धरा तस्य भवेत्सुतुष्टा धारा वसूनां प्रतिमुञ्चतीह १

पुष्पोपभोगं च फलोपभोगं यः पाअपं स्पर्शयते द्विजाय।
स श्रीसमृद्धं बहुरत्नपूर्णं लभत्यधिष्ठानवरं समृद्धम् २

इन्धनानि च यो दद्याद्द्विजेभ्यः शिशिरागमे।
कायाग्निदीप्तिं सौभाग्यमैश्वर्यं चाधिगच्छति ३

छत्त्रप्रदानेन गृहं वरिष्ठं रथं तथोपानहसम्प्रदानात्।
धुर्यप्रदानेन गवां तथैव लोकानवाप्नोति पुरन्दरस्य।
स्वर्गीयमप्याह हिरण्यदानं तथा वरिष्ठं कनकप्रदानम् ४

नैवेशिकं सर्वगुणोपपन्नं प्रयच्छते यः पुरुषो द्विजाय।
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः प्रवरा भवन्ति ५

यो ब्रह्मदेयां प्रददाति कन्यां भूमिप्रदानं च करोति विप्रे।
हिरण्यदानं च तथा विशिष्टं स शक्रो लोकं लभते दुरापम् ६

सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय।
रूपान्वितां दक्षवतीं मनोज्ञां भार्यामयत्नोपचितां लभेत्सः ७

लवणस्य तु दातारस्तिलानां सर्पिषस्तथा।
तेजस्विनोऽभिजायन्ते भोगिनश्चिरजीविनः ८

स्वर्गेऽप्सरोभिः सह भुक्तभोगस्ततश्च्युतः शीलवतीं स भार्याम्।
रूपान्वितां दक्षवतीं सुरक्तां सुखेन धर्मेण तथापि काले।
तस्यैव सार्धं सुरलोकमेति तस्यैव चान्यत्पुनरेति जन्म ९

इति विष्णुधर्मेषु दानफलानि।

अथैकोनपञ्चाशोऽध्यायः।
युधिष्ठिर उवाच।
कीदृग्विधास्ववस्थासु दत्तं दानं जनार्दन।
इहलोकेष्वनुभवेत्पुरुषस्तद्ब्रवीहि मे १

गर्भस्थास्याथवा बाल्ये यौवने वार्द्धकेऽपि वा।
अवस्थां कृष्ण कथय परं कौतूहलं हि मे २

भगवानुवाच।
वृथाजन्मानि चत्वारि वृथादानानि षोडश।
अपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः।
परपाकं च येऽश्नन्ति परदाररताश्च ये ३

पर्यस्थानं वृथा दानं सदोषं परिकीर्तितम्।
आरूढपतिते चैव अन्यायोपार्जितं च यत् ४

व्यर्थं चाब्राह्मणे दानं पतिते तस्करे तथा।
गुरोश्चाप्रीतिजनके कृतघ्ने ग्रामयाजके ५

ब्रह्मबन्धौ च यद्दत्तं यद्दत्तं वृषलीपतौ।
वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे ६

स्त्रीनिर्जितेषु यद्दत्तं व्यालग्राहे तथैव च।
परिचारके च यद्दत्तं वृथादानानि षोडश ७

तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च।
वृथा दानं तु तत्सर्वं भुङ्क्ते गर्भस्थ एव तु ८

सेर्ष्यामन्युमनाश्चैव दम्भार्थं चार्थकारणात्।
यो ददाति द्विजातिभ्यः स बालत्वे तदश्नुते ९

यः शुद्धिः प्रयतो भूत्वा प्रसन्नमानसेन्द्रियः।
प्रददाति द्विजातिभ्यो यौवनस्थस्तदश्नुते।
देशे देशे च पात्रे च यो ददाति द्विजातिषु।
मनसा परितुष्टेन यौवनस्थस्तदश्नुते १०

तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव।
दातव्यानि द्विजातिभ्यः स्वर्गमर्गमभीप्सता ११

इति विष्णुधर्मेषु वृथादानानि।

अथ पञ्चाशोऽध्यायः।
युधिष्ठिर उवाच।
त्रैलोक्य कृष्ण भूतानां सर्वलोकात्मको ह्यसि।
नॄणां यदुवरश्रेष्ठ तुष्यसे केन कर्मणा १

भगवानुवाच।
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः।
निर्भर्त्सितैश्च निर्भग्नस्तस्याहं सर्वकर्मसु २

विप्रापरा गतिर्मह्यं यस्तान्पूजयते नृप।
तमहं तेन रूपेण प्रपश्यामि युधिष्ठिर ३

काणाः कुब्जाश्च खञ्जाश्च दरिद्राव्याधिताश्च ये।
नावमन्येद्द्विजान्प्राज्ञो मम रूपं हितं तथा ४

बहवोऽपि न जानन्ते नरा ज्ञानबहिष्कृताः।
यथाहं द्विजरूपेण चरामि पृथिवीतले ५

ये केचित्सागरान्तायां पृथिव्यां कीर्तिता द्विजाः।
तद्रूपं हि परं मह्यं योऽर्चयेदर्चयेत्तु सः ६

तद्रूपान् घ्नन्ति ये विप्रान्विकर्मसु च युञ्जन्ति।
अप्रेषणे प्रेषयन्तो दासत्वं कारयन्ति हि ७

मृतांस्तान्करपत्त्रेन यमदूता महाबलाः।
निकृन्तन्ति यथा काष्ठं सूत्रमार्गेण शिल्पिनः ८

ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः।
वदन्ति क्रोधनिःस्पर्शं पादेनाभिहनन्ति च ९

मृतांस्तान्यमलोकेषु निहत्य धरणीतले।
उरः पादेन चाक्रम्य क्रोधसंरक्तलोचनः।
अग्निवर्णैश्च सन्दंशैर्जिह्वामुद्धरते यमः १०

पापाश्च नारके वह्नौ धास्यन्ते यमकिङ्करैः।
ये तु विप्रान्निरीक्षन्ति पापाः पापेन चक्षुषा।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ११

तेषां घोरा महाकाया वज्रतुण्डा भयानकाः।
उद्धरन्ति मुहूर्तेन चक्षुः काका यमाज्ञया १२

यस्ताडयति विप्रांस्तु क्षतं कुर्यात्सशोणितम्।
अस्थिभङ्गं च यःकुर्यात्प्राणैर्वापि वियोजयेत् १३

ब्रह्मघ्नः सोऽनुपूर्वेण नरके वसुधाधिप।
कीलैर्विनिहतः पापो मीरायां पच्यते भृशम् १४

सुबहूनि सहस्राणि वर्षाणां क्लेशभाग्भवेत्।
रवान्मुञ्चति दुर्बुद्धिर्न तस्मै निष्कृतिः स्मृता १५

तस्माद्विप्रा नरश्रेष्ठ नमस्कार्याश्च नित्यशः।
अन्नपानप्रदानैस्तु पूजार्हाः सततं द्विजाः १६

आमन्त्रयित्वा यो विप्रान्गन्धैर्माल्यैश्च मानवः।
तर्पयेच्छ्रद्धया युक्तः स मामर्चयते सदा।
स मां प्रसादयेच्चैव स च मां परितोषयेत् १७

तपोदमान्वितेष्वेव नित्यं पूजां प्रयोजयेत्।
ये ब्राह्मणाः सोऽहमसंशयं नृप तेष्वर्चितेष्वर्चितोऽहं यथावत्।
तेष्वेव तुष्टेष्वहमेव तुष्टो वैरं च तैर्यस्य ममापि वैरम् १८

सुगन्धिधूपादिभिरभ्यर्च्य विप्रं तमच्युतं नार्चयते सदैव।
यो भक्षतोयादिभिरन्नपानैरनुलेपाचमनप्रदानैः।
यः पूजयेद्भोजयित्वा द्विजाग्र्यान्सम्पूजयित्वा परितोषयेच्च।
अर्घ्यादिना येऽभिपूज्य पूजयन्ति सदाच्युतम्।
तेनैव मामेव सदा पूजयन्ति न संशयः।
विरूपाश्च सुरूपाश्च विजनान्निष्कलानपि।
कृपया भावितात्मानो येऽर्चयन्ति द्विजोत्तमान्।
अनसूया हितात्मानो विप्रानाराधते क्वचित्।
असंशयं सदा भक्त्या मामेवार्चयते हि सः।
ततः पवित्रमतुलं न पुण्यमधिकं ततः।
यश्चन्दनैः सागरुगन्धमाल्यैरभ्यर्चयेद्दारुमयीं ममार्चाम्।
नासौ ममार्चामर्चयतेऽर्चयन्वै विप्रार्चनादर्चित एव चाहम् १९

विप्रप्रसादान्मध एव चाहं विप्रप्रसादादसुराञ्जयामि।
विप्रप्रसादात्पुरुषोत्तमत्वं विप्रप्रसादादजितोऽस्मि नित्यम् २०

इति विष्णुधर्मेषु विप्रबाधाफलम्।

अथैकपञ्चाशोऽध्यायः।
भगवानुवाच।
सायं प्रातश्च यः सन्ध्यामुपास्तेऽस्कन्नमानसः।
जपन्हि पावनीं देवीं गायत्रीं वेदमातरम् १

स तया पावितो देव्या ब्राह्मणः पूतकिल्बिषः।
न सीदेत्प्रतिगृह्णानः पृथिवीं तु ससागराम् २

ये चान्ये दारुणाः केचिद्ग्रहाः सूर्यादयो दिवि।
ते चास्य सौम्या जायन्ते शिवाः शिवतमाः सदा ३

यत्रतत्रगतं चैनं दारुणाः पिशिताशनाः।
घोररूपा महाकाया न कर्षन्ति द्विजोत्तमम् ४

यावन्तश्च पृथिव्यां हि चीर्णवेदव्रता द्विजाः।
अचीर्णव्रतवेदा वा विकर्मपथमाश्रिताः ५

तेषां तु पावनार्थं हि नित्यमेव युधिष्ठिर।
द्वे सन्ध्ये ह्युपतिष्ठेत तदस्कन्नं महाव्रतम् ६

नास्ति किञ्चिन्नरव्याघ्र दुष्कृतं ब्राह्मणस्य तु।
यत्र स्थितः सदाध्यात्मे द्वे सन्ध्ये ह्युपतिष्ठति ७

पूर्णाहुतिं वा प्राप्नोति जुहुते च त्रयोऽघ्नयः।
दहन्ति दुष्कृतं तस्य अग्नयो नात्र संशयः ८

एवं सर्वस्य विप्रस्य किल्बिषं निर्दहाम्यहम्।
उभे सन्ध्ये ह्युपासिनस्तस्मात्सर्वशुचिर्द्विजः ९

दैवे पित्र्! ये च यत्नेन नियोक्तव्योऽजुगुप्सितः।
जुगुप्सितस्तु तच्छ्राद्धं दहत्यग्निरिवेन्धनम् १०

इति विष्णुधर्मेषु विप्रमाहात्म्यम्।

अथ द्विपञ्चाशोऽध्यायः।
भगवानुवाच।
पुराणं मानवा धर्माः साङ्गो वेदश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः।
हत्वा ह्येतानि सम्मूढः कल्पं तमसि पच्यते १

न ब्राह्मणं परीक्षेत श्राद्धकाले ह्युपस्थिते।
सुमहान्परिवादो हि ब्राह्मणानां परीक्षणे २

काणाः कुण्ठाश्च षण्डाश्च दरिद्राव्याधितास्तथा।
सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः।
अक्षयं तु भवेच्छ्राद्धमेतद्धर्मविदो विदुः ३

ब्राह्मणो हि महद्भूतं जन्मना सह जायते।
लोका लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः ४

ब्राह्मणाः कुपिता हन्युर्भस्म कुर्युश्च तेजसा।
लोकानन्यान्सृजेयुश्च लोकपालांस्तथापरान् ५

ब्राह्मणा हि महात्मानो विरजाः स्वर्गसङ्क्रमाः।
ब्राह्मणानां परीवादादसुराः सलिलेशयाः ६

अपेयः सागरो यैस्तु कृतः कोपान्महात्मभिः।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ७

एते स्वर्गस्य नेतारो भूमिदेवाः सनातनाः।
एभिश्चाधिकृतः पन्था देवयानः स उच्यते ८

ते पूज्यास्ते नमस्कार्यास्तेषु सर्वं प्रतिष्ठितम्।
ते वै लोकानिमान्सर्वान्धारयन्ति परस्परम् ९

प्रमाणं सर्वलोकानां नियता ब्रह्मचारिणः।
तानपाश्रित्य तिष्ठन्ते त्रयो लोकाः सनातनाः १०

गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः।
विद्यास्नाता व्रतस्नाता अनपाश्रित्यजीविनः ११

आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः।
तपसा दीप्यमानास्ते दहेयुः सागरानपि १२

ब्राह्मणेषु च तुष्टेषु तुष्यन्ते सर्वदेवताः।
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते।
ब्राह्मणानां परीवादात्पतेयुरपि देवताः १३

धुरि ये नावसीदन्ति प्रणीते यज्ञवह्नयः।
भोजनाच्छादनैर्दानैस्तारयन्ति तपोधनाः १४

ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः।
आदिमध्यावसानानां ज्ञानानां छिन्नसांशयाः १५

परापरविशेषज्ञा नेतारः परमां गतिम्।
अवध्या ब्राह्मणास्तस्मात्पापेष्वपि रताः सदा १६

यश्च सर्वमिदं हन्याद्ब्राह्मणं वापि तत्समम्।
सोऽग्निः सोऽर्को महातेजा विषं भवति कोपितः।
भूतानां अग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः १८

न स्कन्दते न व्यथते न च नश्यति कर्हिचित्।
वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम् १९

अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम्।
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् २०

एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत्।
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति।
हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति २१

सर्वथा ब्राह्मणाः पूज्याः सर्वथा दैवतं महत्।
तस्मात्सर्वप्रयत्नेन रक्षेदापत्सु ब्राह्मणान्।
शक्रोऽपि हि द्विजेन्द्राणां बिभेति विबुधाधिपः २२

इति विष्णुधर्मेषु विप्रमाहात्म्यम्।

अथ त्रिपञ्चाशोऽध्यायः।
भगवानुवाच।
दानं देवाः प्रशंसन्ति इति धर्मविदो विदुः।
नानादानविधिं तस्माच्छृणुष्व सुसमाहितः १

हिरण्यदानं गोदानं पृथिवीदानमेव च।
एतानि वै पवित्राणि तारयन्ति परत्र च २

यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ३

सुवर्णदानं गोदानं पृथिवीदानमेव च।
एतत्प्रयच्छमानो वै सर्वपाऐः प्रमुच्यते ४

यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ५

तुल्यनामानि शस्तानि त्रीणि तुल्यफलानि च।
नित्यं देयानि राजेन्द्रगावः पृथ्वी सरस्वती ६

तद्वज्जलममित्रघ्न तत्तुल्यफलनामतः।
दत्त्वा तृप्तिमवाप्नोति यत्रतत्राभिजायते ७

सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते।
अर्थिभ्यो ह्यर्थहेतुभ्यो मनस्वी तेन जायते ८

सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति।
अमर्थे सति दुर्बुद्धिर्नरकायोपपद्यते ९

धेनवोऽनडुहश्चैव छत्त्रं वस्त्रमुपानहौ।
देयानि याचमानेभ्यः पानमन्नं तथैव च।
एवं दानं समुद्दिष्टं व्युष्टिमत्तारकं परम् १०

एष ते विहितो यज्ञः श्रद्धापूतः सदक्षिणः।
विशिष्टः स च यज्ञेषु ददतामनसूयया ११

दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः।
यैर्दानैस्तर्पयिष्यन्ति श्रद्धापूतैर्द्विजोत्तमान् १२

यथा हि सुकृते क्षेत्रे फलं विन्दति क्षेत्रिकः।
एवं दत्त्वा ब्राह्मणेभ्यो दाता फलमुपाश्नुते १३

ब्राह्मणाश्चैव विद्यन्ते सत्यवन्तो बहुश्रुताः।
न ददाति च दानानि मोघं तस्य धनार्जनम् १४

उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं मया।
दत्तं वा दापितं वापि वोत्साह्यमपि वा कृतम् १५

उत्थायोत्थाय दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति १६

यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम्।
असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति १७

इति विष्णुधर्मेषु दानप्रशंसा।

अथ चतुष्पञ्चाशोऽध्यायः।
भगवानुवाच।
अध्यायं तपसो वक्ष्ये तन्मे निगदतः शृणु।
तपसो हि परं नास्ति तपसा विन्दते फलम् १

ऋषयस्तप आस्थाय मोदन्ते दैवतैः सह।
तपसा प्राप्यते स्वर्गं तपसा प्राप्यते यशः २

आयुःप्रकर्षं भोगांश्च तपसा विन्दते नरः।
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ३

तपसा लभ्यते सर्वं मनसा यद्यदिच्छति।
नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन ४

यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः।
सर्वं तत्समवाप्नोति परत्रेह च मानवः ५

सुरापः पारदारी च भ्रूणहा गुरुतल्पगः।
तपसा तरते सर्वं सर्वतश्च विमुच्यते ६

अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः।
ब्रह्मा हुताशनः शक्रस्तपस्यन्ति सनातनाः ७

षडशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्।
तपसा दिवि मोदन्ते समेता दैवतैः सह ८

तपसा प्राप्यते राज्यं शक्रः सर्वसुरेश्वरः।
तपसा पालयन्सर्वमहन्यहनि वृत्रहा ९

सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ।
तपसैव प्रकाशेते नक्षत्राणि ग्रहास्तथा १०

न चास्ति तत्सुखं लोके यद्विना तपसा किल।
तपसैव सुखं सर्वमिति धर्मविदो विदुः ११

विश्वामित्रश्च तपसा ब्राह्मणत्वमुपागतः।
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते।
तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः।
ऋचमेकां अपि पठन्स याति परमां गतिम् १२

भगवानुवाच।
तस्मात्तपः समास्थाय प्रार्थयेद्यदभीप्सितम् १३

इति विष्णुधर्मेषु तपःप्रशंसा।

अथ पञ्चपञ्चाशोऽध्यायः।
भगवानुवाच।
सत्यमेव परं ब्रह्म सत्यमेव परं तपः।
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्।
सत्यं देवेषु जागर्ति मुक्तिः सत्यतरोः फलम् १

तपो यशश्च पुण्यं च पितृदेवर्षिपूजनम्।
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् २

सत्यं यज्ञस्तथा वेदा मन्त्रा देवी सरस्वती।
व्रतचर्या तथा सत्यमॐकारः सत्यमेव च ३

सत्येन वायुरभ्येति सत्येन तपते रविः।
सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति।
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले ४

पारणं सर्ववेदानां सर्वतीर्थावगहनः।
सत्यं च वदतो लोके तत्समं स्यान्न संशयः ५

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेतद्विशिष्यते ६

मुनयः सत्यनिरता मुनयः सत्यविक्रमाः।
मुनयः सत्यप्रपथाः परां सिद्धिमितो गताः।
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा।
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ७

मुनयः सत्यनिरतास्तस्मात्सत्यं विशिष्यते।
स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ८

अप्सरोगणसङ्कीर्णैर्विमानैरुपयान्ति ते।
वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ९

एतत्प्रमाणं यः कुर्यात्सर्वयज्ञफलं लभेत्।
अगाधे विमले शुद्धे सत्यतीर्थे ह्रदे शुभे।
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् १०

आत्मार्थे च परार्थे वा पुत्रार्थे वापि पार्थिव।
येऽनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ११

अपि चेदं पुरा गीतं धर्मविद्भिर्युधिष्ठिर।
यः सत्यवादी पुरुषो नानृतं परिभाषते १२

सम्प्राप्य विरजांल्लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे जायते सुमहामतिः १३

विद्यारोग्यसुखैश्वर्यैर्युक्तो योगपरो भवेत्।
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् १४

तस्मान्न वाच्यमनृतं हि सद्भिरेवंविधैर्धर्मविदो वदन्ति।
सत्यं वदंस्तेजसा दीप्यमानो न हीयते धर्मयशोऽर्थकामैः १५

एष वाणीकृतो धर्मो वैदिको धर्मनिश्चये।
एवमेतद्यथान्यायं सत्याध्याये प्रकीर्तितम्।
तत्प्रमाणं बुधः कुर्या न सत्याद्विद्यते परम् १६

इति विष्णुधर्मेषु सत्यप्रशंसा।

अथ षट्पञ्चाशोऽध्यायः।
भगवानुवाच।
सर्वेषामेव वर्णानां प्रवक्ष्यामि युधिष्ठिर।
उपोषितैश्च कौन्तेय यत्प्रयोज्यं यथाविधि १

फलं यदुपवासस्य तन्निबोध च पाण्डव।
अवाप्नोति यथा कामानुपवासपरायणः २

मयैते नृपते काम्या विहिता हितमिच्छता।
उपवासा मनुष्याणां मय्येवार्पितचेतसाम् ३

पञ्चमीं चैव षष्ठीं च पौर्णमासीं च पाण्डव।
उपोष्य रूपवान्धन्यः सुभगश्चैव जायते ४

अष्टमीं चैव कौन्तेय शुक्लपक्षे चतुर्दशीम्।
उपोष्य व्याधिरहितो वीर्यवांश्चैव जायते ५

मार्गशीर्षं तु यो मासं नित्यमेकाशनो भवेत्।
कृषिभागी भवेद्राजन्बहुपुत्रश्च जायते ६

पौषमासे तु राजेन्द्रभक्तेनैकेन यः क्षपेत्।
सुभगो दर्शनीयश्च ज्ञानभागी च जायते ७

पितॄनुद्दिश्य माघं तु यः क्षपेदेकभोजनम्।
मासेन पुरुषव्याघ्र सोऽनन्त्यं फलमश्नुते ८

भगदैवतमासं तु यः क्षपेदेकभोजनम्।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ९

चैत्रं तु पुरुषव्याघ्र यः क्षपेदेकभोजनम्।
मासेन पुरुषव्याघ्र मौनन्तु फलमश्नुते।
भगदैवतमासं तु यः क्षपेदेकभोजनः।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः।
चैत्रं तु पुरुषव्याघ्र यः क्षपेदेकभोजनः।
सुवर्णमणिमुक्ताढ्ये कुले महति जाअते १०

निस्तरेदेकभक्तेन वैशाखं यो नराधिप।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ११

ज्येष्ठमासमपानीयमेकभक्तेन यः क्षपेत्।
ऐश्वर्यं पुरुषव्याघ्र स्त्रीभागी चोपजायते १२

आषाढं भरतश्रेष्ठ एकभक्तेन यः क्षपेत्।
शूरश्च बहुधान्यश्च बहुपुत्रश्च जायते १३

श्रावणं तु नरव्याघ्र भक्तेनैकेन यः क्षपेत्।
यत्र यत्रोपपद्येत तत्र स्याज्ज्ञातिवर्धनः १४

मासं भाद्रपदं राजन्नेकभक्तेन यः क्षपेत्।
धनाढ्यो वीर्यवांश्चैव ऐश्वर्यं प्रतिपद्यते १५

यः क्षपेदेकभक्तेन मासमाश्वयुजं नरः।
धनवान्वाहनाढ्यश्च बहुपुत्रश्च जायते १६

कार्त्तिकं तु नरो मासं नित्यमेकाशनो भवेत्।
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते १७

एते मासा नरश्रेष्ठ एकभक्तेन कीर्तिताः।
तिथीनां नियमांश्चैव ताञ्शृणुष्व नराधिप १८

पक्षे पक्षे चतुर्थं तु भक्तं यः क्षपयेन्नरः।
विपुलं धनमाप्नोति भगवानग्निरब्रवीत् १९

मासे मासे चतुर्थं तु भक्तमेकं तु यः क्षपेत्।
कृषिभागी यशोभागी तेजस्वी चापि जायते २०

पक्षे पक्षे त्रिरात्रं तु यः क्षपेन्नरपुङ्गव।
गणे घोषे पुरे ग्रामे माहात्म्यं प्रतिपद्यते २१

मासे मासे त्रिरात्रं तु भक्तेनैकेन यः क्षपेत्।
गणाधिपत्यं लभते निःसपत्नमकण्टकम् २२

यस्तु सायं तथा कल्यं भुङ्क्ते नैवान्तरा पिबेत्।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् २३

षड्भिरेव तु वर्षैस्तु सिध्यते नात्र संशयः।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः २४

अष्टमेन तु भक्तेन राजन्संवत्सरं नयेत्।
गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः २५

हंससारसयुक्तेन विमानेन स गच्छति।
पूर्णं वर्षसहस्रं तु स्वर्गलोके महीयते २६

आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः।
पदे पदे यज्ञफलं तस्य मन्नामकीर्तनात् २७

दिव्यऋक्षप्रयुक्तेन विमानेन स गच्छति।
शतमप्सरसां चैव रमयन्तीह तं नरम् २८

सहस्रशतसंयुक्ते विमाने सूर्यवर्चसे।
आरूढस्त्रीशताकीर्णे विहरन्सुखमेधते २९

न क्रुद्धो व्याधितो नार्तः प्रसन्नमनसेन्द्रियः।
गच्छेदनशनं यस्तु तस्यापि शृणु यत्फलम् ३०

शतं वर्षसहस्राणां स्वर्गलोके महीयते।
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः।
स्त्रीसहस्रसमाकीर्णे सुप्रभे सुखमेधते ३१

यावन्ति रोमकूपानि तस्य गात्रेषु भारत।
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते ३२

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः।
न धर्मात्परमो लाभस्तपो नानशनात्परम् ३३

ब्राह्मणेभ्यः परं नास्ति दिवि चेह च पावनम्।
उपवासैस्तथा तुल्यं तपो ह्यन्यन्न विद्यते ३४

उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे।
मुनयश्च परां सिद्धिमुपवासैरवाप्नुवन् ३५

दिव्यं वर्षसहस्रं तु विश्वामित्रेण धीमता।
क्षान्तमेकेन भक्तेन येन विप्रत्वमागतः ३६

च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः।
सर्वे ह्येते दिवं प्राप्ताः क्षमावन्तो बहुश्रुताः।
विधिनानेन राजेन्द्रयो मया परिकीर्तितः ३७

पठेत यो वै शृणुयाच्च भक्त्या न विद्यते तस्य नरस्य पापम्।
उपद्रवैर्मुच्यते सर्वाङ्गिकैर्न चापि पापैरभिभूयते नरः ३८

इति विष्णुधर्मेषूपवासप्रशंसा।

अथ सप्तपञ्चाशोऽध्यायः।
भगवानुवाच।
ब्राह्मणत्वं सुदुष्प्रापं निसर्गाद्ब्राह्मणो भवेत्।
क्षत्रियो वाथवा वैश्यो निसर्गादेव जायते १

दुष्कृतेन तु दुष्टात्मा स्थानाद्भ्रश्यति मानवः।
श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः २

यस्तु विप्रत्वमुत्सृज्य क्षत्रियत्वं निषेवते।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोन्यां प्रसूयते ३

वैश्यकर्माणि वा कुर्वन्वैश्ययोनौ प्रजायते।
शूद्रकर्माणि कुर्वाणः शूद्रत्वमुपपद्यते ४

स तत्र दुर्गतिं प्राप्य स्थानाद्भ्रष्टो युधिष्ठिर।
शूद्रयोनिमनुप्राप्तो यदि धर्मं न सेवते ५

मानुष्यात्स परिभ्रष्टस्तिर्यग्योनौ प्रजायते।
अधर्मसेवनान्मूढस्तमोपहतचेतनः ६

जात्यन्तरसहस्राणि तत्रैव परिवर्तते।
तस्मात्प्राप्य शुभं स्थानं प्रमादान्न तु नाशयेत् ७

शूद्रान्नेनावशेषेण यो म्रियेज्जठरे द्विजः।
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ८

क्षत्रान्नेनावशेषेण क्षत्रत्वमुपपद्यते।
वैश्यान्नेनावशेषेण वैश्यत्वमुपपद्यते।
तां योनिं लभते विप्रो भुक्त्वान्नं यस्य वै मृतः ९

ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते।
भोज्याभोज्यं न जानाति स भवेत्क्षत्रियो द्विजः १०

कर्मणा येन मेधावी शूद्रोवैश्योऽभिजायते।
तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ११

शूद्रकर्म यथोद्दिष्टं शूद्रोभूत्वा समाचरेत्।
यथावत्परिचर्यां तु त्रिषु वर्णेषु नित्यदा।
कुरुतेऽविमना यस्तु स शूद्रोवैश्यतां व्रजेत् १२

क्षत्रियत्वं यथा वैश्यस्तद्वक्ष्याम्यनुपूर्वशः।
चौक्षः पापजनद्वेष्टा शेषान्नकृतभोजनः १३

अग्निहोत्रमुपादाय जुह्वानश्च यथाविधि।
स वैश्यः क्षत्रियकुले जायते नात्र संशयः १४

क्षत्रियो ब्रह्मयोन्यां तु जायते शृणु तद्यथा।
ददाति यजते यज्ञैर्विधिवच्चाप्तदक्षिणैः।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा १५

आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्।
ऋतुकाले तु स्वां भार्यामभिगच्छन्विधानतः १६

सर्वातिथ्यं त्रिवर्गस्य दीयतां भुज्यतामिति।
शूद्राणां याचकानां च नित्यं सिद्धिमिति ब्रुवन् १७

गोब्राह्मणस्य चार्थाय रणे चाभिमुखो हतः।
त्रेताग्निमन्त्रपूतात्मा क्षत्रियो ब्राह्मणो भवेत्।
विधिज्ञः क्षत्रियकुले याजकः स तु जायते १८

प्राप्यतेऽविकलः स्वर्गो वर्णैः सत्पथमास्थितैः।
ब्राह्मणत्वं सुदुष्प्रापं कृच्छ्रेणासाद्यते नरैः।
तस्मात्सर्वप्रयत्नेन रक्षेद्ब्राह्मण्यमुत्तमम् १९

इति विष्णुधर्मेषु वर्णान्यत्वप्राप्तिः।

अथाष्टपञ्चाशोऽध्यायः।
भगवानुवाच।
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा।
एतत्पवित्रं परममेतत्स्वस्त्ययनं महत् १

दश पूर्वापरान्वंशानात्मानं च विशाम्यते।
अपि पापशतं कृत्वा दत्त्वा विप्रेषु तारयेत् २

सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ३

अग्निर्हि देवताः सर्वाः सुवर्णं च हुताशनः।
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः ४

अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्।
सर्ववेदप्रमाणज्ञा वेदश्रुतिनिदर्शनात् ५

ये त्वेनं ज्वाअयित्वाग्निमादित्योदयनं प्रति।
दद्युर्वै व्रतमुद्दिश्य सर्वान्कामानवाप्नुयुः ६

सुवर्णदः स्वर्गलोके कामानिष्टानुपाश्नुते।
विरजाम्बरसंवीतः परियाति यतस्ततः ७

विमानेनार्कवर्णेन भास्वरेण विराजता।
अप्सरोगणसङ्कीर्णे भास्वता स्वेन तेजसा ८

हंसबर्हिणयुक्तेन कामगेन नरोत्तमः।
दिव्यगन्धवहः स्वर्गे परिगच्छेदितस्ततः ९

तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि।
न ह्यतः परमं लोके सद्यः पापविमोचनम् १०

सुवर्णस्य तु शुद्धस्य सुवर्णं यः प्रयच्छति।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ११

इति विष्णुधर्मेषु सुवर्णदानम्।

अथैकोनषष्टितमोऽध्यायः।
भगवानुवाच।
लोकांस्तु सृजता पूर्वं गावः सृष्टाः स्वयम्भुवा।
प्रीत्यर्थं सर्वभूतानां तस्मात्ता मातरः स्मृताः १

तास्तु दत्त्वा सौरभेयीः स्वर्गलोके महीयते।
तस्मात्ता वर्णयिष्यामि दानं चासां यथाविधि २

यादृशी विधिना येन दातव्या यादृशाय च।
द्विजाय पोषणार्थं तु होमधेनुकृते न वै ३

प्रथमा गौरकपिला।
द्वितीया गौरपिङ्गला।
तृतीया रक्तकपिला।
चतुर्थी नीलपिङ्गला।
पञ्चमी शुक्लपिङ्गाक्षी।
षष्ठी तु शुक्लपिङ्गला।
सप्तमी चित्रपिङ्गाक्षी।
अष्टमी बभ्रुरोहिणी।
नवमी श्वेतपिङ्गाक्षी।
दशमी श्वेतपिङ्गला।
तादृशा येऽप्यनड्वाहः कपिलास्ते प्रकीर्तिताः।
ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कदाचन।
धेनुं दत्त्वा सुव्रतां सोपधानां कल्याणवत्सां च पयस्विनीं च।
यावन्ति रोमाणि भवन्ति धेन्वा दुह्येत कामान्नृप वर्षाणि तावत् ४

प्रयच्छते यः कपिलां सवत्सां।
कांस्योपदोहां कनकाग्रशृङ्गीम्।
तैस्तैर्गुणैः कामदुघा हि भूत्वा।
नरं प्रदातारमुपैति सा गौः ५

गोसहस्रं तु यो दद्यात्सर्वकामैरलङ्कृतम्।
परां वृद्धिं श्रियं प्राप्य स्वर्गलोके महीयते ६

दश चोभयतः प्रेत्य मातामहपितामहैः।
गच्छेत्सुकृतिनां लोकान्गावो दत्त्वा यथाविधि ७

दायादलब्धैरर्थैर्यो गवाः क्रीत्वा प्रयच्छति।
तस्यापि चाक्षया लोका भवन्तीह परत्र च ८

यो द्यूतेन धनं जित्वा क्रीत्वा गावः प्रयच्छति।
स गच्छेद्विरजांल्लोकान्गोप्रदानफलार्जितान् ९

प्रतिगृह्य तु यो दद्याद्गावः शुद्धेन चेतसा।
स गत्वा दुर्गमं स्थानममरैः सह मोदते १०

यश्चात्मविक्रयं कृत्वा गावो दद्याद्यथाविधि।
स गत्वा विरजांल्लोकान्सुखं वसति देववत् ११

सङ्ग्रामे यस्तनुं त्यक्त्वा गावः क्रीत्वा प्रयच्छति।
देहविक्रयमूल्यस्ताः शाश्वताः कामदोहनाः १२

रूपान्विताः शीलवयोपपन्नाः सर्वाः प्रशस्ता हि सुगन्धवत्यः।
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा १३

अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणांस्त्यक्त्वा सोदकाः सोद्वहाश्च।
कृच्छ्रोत्सृष्टाः पोषणायाभ्युपेता द्वारैरेतैर्गोविशेषा वरिष्ठाः १४

तिस्रो रात्र्! यश्चाप्युपोष्येह दाता तृप्ता गा वै तर्पितेभ्यः।
प्रयच्छेत्।
वत्सैः पीताः सोपधानास्त्र्! यहं च दत्त्वा गा वै गोरसैर्वर्तितव्यम् १५

लोके ज्येष्ठा लोकवृत्तान्तवृत्ता।
वेदैर्गीताः सोमनिष्यन्दभूताः।
सौम्याः पुण्याः कामदाः प्राणदाश्च।
गावो दत्त्वा सर्वदा सन्ति सन्तः १६

न चैवासां दानमात्रं प्रशस्तं।
पात्रं कालो गोविशेषो विधिश्च।
दृष्ट्वा गावः पावकादित्यभूताः।
स्वाध्यायाढ्ये पात्रवर्ये विशिष्टे १७

वैतानस्थं सत्यवाक्यं कृतज्ञं।
गोषु क्षान्तं गोशरण्यं सुवृत्तं।
शस्तं पात्रं गोप्रदानस्य भूमेस्।
तथा सुवर्णस्य च सर्वकालम् १८

भिक्षादानं चाधिकं सम्प्रशस्तं पाथोदानं चान्नदानं तथा च।
भिक्षते बहुभृत्याय श्रोत्रियायाहिताग्नये।
दातव्या गौः प्रयत्नेन एकाप्यतिफला हि सा १९

तां चेद्विक्रीणते राजन्वचसा कलुषीकृताम्।
नासौ प्रशस्यते विप्रो ब्राह्मणो नैव स स्मृतः २०

तस्याधर्मप्रवृत्तस्य लुब्धस्यानृतवादिनः।
हव्यकव्यव्यपेतस्य न देया गौः कथञ्चन २१

जीर्णां चैवोपभुक्तां च जरत्कूपमिवाफलाम्।
तमः प्रविशते दाता द्विजं क्लेशेन योजयन् २२

दुष्टाः कृशाश्चैव पालयतीश्च।
नैतादृशा दानयोग्या भवन्ति।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति।
गच्छेत्स तिर्यग्विफलांश्च लोकान् २३

अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम्।
युगन्धरं बलवन्तं युवानं प्राप्नोति लोकान्दशधेनुदस्य २४

प्रयच्छते यः पुरुषो द्विजाय स्वाध्यायचारित्रगुणान्विताय।
बलेन युक्तं वृषभं तु नीलं षडाङ्गवं प्रीतिकरं सुरूपम् २५

युवानं बलिनं श्यामं शतेन सह यूथपम्।
गवेन्द्रंब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् २६

वृषभं ये प्रयच्छन्ति श्रोत्रियायाहिताग्नये।
ते गत्वा तद्गवां लोकं देवलोकान्महत्तरम्।
तत्र स्थित्वा तु सुचिरं सर्वकामैः सुतर्पिताः।
ऐश्वर्ये तेऽभिजायन्ते जायमानाः पुनः पुनः २७

सदक्षिणां काञ्चनरूप्यशृङ्गीं कांस्योपदोहां कनकोत्तरीयाम्।
धेनुं तिलानां कनकोत्तरीयां लोका वसूनामचला भवन्ति २८

तिलालाभे तु यो दद्याद्घृतधेनुं यतव्रतः।
स दुर्गात्तारितो धेन्वा ब्रह्मलोके महीयते २९

घृतालाभे तु यो दद्याज्जलधेनुं यतव्रतः।
स सर्वं तरते दुर्गं जलं दिव्यं समश्नुते ३०

ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम्।
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ३१

उपगम्य तु यो दद्याद्गावः शुद्धेन चेतसा।
यावन्ति तासां रोमाणि तावत्स्वर्गे महीयते ३२

शृणु त्वं मे गवां लोका यादृशा यत्र वा स्थिताः।
मनोज्ञा रमणीयाश्च सर्वकामदुघाः सदा ३३

पुण्याः पापहराश्चैव गवां लोका न संशयः।
अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ३४

प्रमोदन्ते महास्थाने नरा विगतकल्मषाः।
ते व्रजन्ते विमानेषु ग्रहा दिवि गता इव ३५

एवं यैर्दत्तसत्काराः सुरभ्यश्चार्चिताः सदा।
काअरूपा महात्मानः पूता विगतकिल्बिषाः ३६

तुल्यप्रभावा देवैस्ते मोदन्तेऽप्सरसां गणैः।
गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः ३७

ब्रह्मण्याः साधुवृत्ताश्च दयावन्तोऽनुकम्पिनः।
घृणिनः शुभकर्माणो मोदन्ते तेऽमरैः सह ३८

यथैव सलिले मत्स्यः सलिलेन सहोह्यते।
गोभिः पापकृतं कर्म दृढमेव मयोह्यते ३९

मातरः सर्वभूतानां प्रजासंरक्षणे स्मृताः।
ब्रह्मणा लोकसारेण गावः पापभयापहाः ४०

तासु दत्तासु राजेन्द्रकिं न दत्तं भवेदिह।
कृशाय तु विशेषेण वृत्तिग्लानाय सीदते ४१

इति विष्णुधर्मेषु गोप्रदानम्।
अथ षष्टितमोऽध्यायः।
भगवानुवाच।
भूदानेन समं दानं न भूतं न भविष्यति।
इति धर्मविदः प्राहुस्तन्मे निगदतः शृणु १

षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् २

अतिदानं तु सर्वेषां भूमिदानमिहोच्यते।
अचला ह्यक्षया भूमिः सर्वान्कामान्प्रयच्छति ३

भूमिदः स्वर्गमारुह्य शाश्वतीरेधति समाः।
पुनश्च जन्म सम्प्राप्य भवेद्भूमिपतिर्ध्रुवम् ४

यथा भूमिः सदा देवी दातारं कुरुते पतिम्।
एवं सदक्षिणा दत्ता कुरुते गौर्जनाधिपम् ५

अपि पापकृतं प्राप्य प्रतिगृह्णीत भूमिदम्।
महीं ददन्पवित्री स्यात्पुण्या हि जगती यतः ६

नाम वै प्रियदत्तेति गुह्यमेतत्सनातनम्।
तदस्याः सततं प्रीत्यै कीर्तनीयं प्रयच्छता ७

यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ८

सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च।
सर्वानेतान्महाप्राज्ञ ददाति वसुधां ददन् ९

तपो यज्ञाः श्रुतं शीलमलोभः सत्यवादिता।
गुरुदैवतपूजा च नातिक्रमन्ति भूमिदम् १०

भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः।
ब्रह्मलोकगताः सन्तो नातिक्रामन्ति भूमिदम् ११

फलकृष्टां महीं दत्त्वा सोदकां सफलान्विताम्।
सोदकं वापि शरणं प्राप्नोति मम सम्पदम् १२

रत्नोपकीऋणां वसुधां यो ददाति द्विजातये।
मुक्तः स कलुषैः सर्वैः स्वर्गलोके महीयते १३

इक्षुभिः सन्ततां भूमिं यवगोधूमशाड्बलाम्।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् १४

सर्वकामदुघां धेनुं सर्वसस्यसमुद्भवाम्।
यो ददाति द्विजेन्द्राय ब्रह्मलोकं स गच्छति १५

भूमिदानं नरः कुर्वन्मुच्यते महतो भयात्।
न भूयो भूमिदानाद्धि दानमन्यद्विशिष्यते १६

पुण्यां सर्वरसां भूमिं यो ददाति नरर्षभ।
न तस्य लोकाः क्षीयन्ते भूमिदस्य महात्मनः १७

यथा जनित्री पुष्णाति क्षीरेण स्वसुतं नृप।
एवं सर्वगुणा भूमिर्दातारमनुपुष्यति १८

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलं अवाप्नोति यद्दत्त्वा वसुधां नृप १९

मृत्योर्हि किङ्करा दण्डा ह्यग्नितापाः सुदारुणाः।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् २०

पितरः पितृलोकस्था देवलोके दिवौकसः।
सन्तर्पयन्ति दातारं भूमेः प्रभवतां वर २१

कृशाय कृशभृत्याय वृत्तिक्षीणाय सीदते।
भूमिं वृत्तिकारीं दत्त्वा सत्त्री भवति मानवः २२

सिंहासनं तथा च्छत्त्रं वराश्वा वरवारणाः।
भूमिदानस्य पुष्पाणि फलं स्वर्गं तथैव च २३

आदित्या इव दीप्यन्ते तेजसा दिवि मानवाः।
ये प्रयच्छन्ति वसुधां ब्राह्मणायाहिताग्नये २४

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले।
तथा कामाधिरोहन्ति भूमिदानगुणार्जिताः २५

आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः।
भूमिदो नः कुले जातः स नः सन्तारयिष्यति २६

आदित्या वसवो रुद्राह्यश्विनौ वसुभिः सह।
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् २७

स नः कुलस्य पुरुषः स नो बन्धुः स नो गतिः।
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् २८

दातारमनुगृह्णाति यथा दत्तेन रोचते।
पूर्वदत्तां हरन्भूमिं नरकायोपपद्यते २९

विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः।
कृष्णसर्पा हि जायन्ते ये हरन्ति वसुन्धराम् ३०

पतन्त्यश्रूणि रुदतां दीनानामवसीदताम्।
ब्राह्मणानां हृतं क्षेत्रं हन्यात्त्रिपुरुषं कुलम् ३१

साधुभ्यो भूमिमाक्षिप्य न भूतिं विन्दते क्वचित्।
दत्त्वा हि भूमिं साधुभ्यो विन्दते भूतिमुत्तमाम् ३२

पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर।
महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ३३

यत्रैषः पठ्यते श्राद्धे भूमिदानस्य संस्तवः।
न तत्र रक्षसां भागो नासुराणां कथञ्चन ३४

अक्षयं तु भवेच्छ्राद्धं पितॄणां नात्र संशयः।
तस्माद्विश्रावयेदेनं श्राद्धेषु ब्राह्मणान्सदा ३५

एवमेतद्यथोद्दिष्टं पितॄणां दत्तमक्षयम्।
भूमिदानं महाराज सर्वपापापहं शुभम् ३६

इति विष्णुधर्मेषु भूमिदानमतुलफलम्।

अथैकषष्टितमोऽध्यायः।
भगवानुवाच।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् १

इति यज्ञविदः प्राहुर्यज्ञकर्मविशारदाः।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् २

धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च।
यः शूरो वध्यते युद्धे विमृदन्परवाहिनीम्।
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः ३

परं ह्यभिमुखं हत्वा तद्यानं योऽधिरोहति।
विष्णुक्रान्तं स यजत एवं युध्यन्रणाजिरे।
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ४

यस्तु शस्त्रमनुत्सृज्य वीर्यवान्वाहिनीमुखे।
सम्मुखो वर्तते शूरः स स्वर्गान्न विवर्तते ५

राजानं राजपुत्रं वा सेनापतिमथापि वा।
हन्यात्क्षत्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ६

यावन्ति तस्य शस्त्राणि भिन्दन्ति त्वचमाहवे।
तावतो लभते लोकान्सर्वकामदुघोऽक्षयान् ७

वीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा।
गवार्थे ब्राह्मणार्थे वा स्वाम्यर्थे तु कृतं च यैः।
ते गच्छन्त्यमलं स्थानं यथा सुकृतिनस्तथा ८

अभग्नं यः परं हन्याद्भग्नं च परिरक्षति।
यस्मिन्स्थिते पलायन्ति सोऽपि प्राप्नोति स्वर्गतिम् ९

ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्सन्त्यजते युधि।
हताश्वश्च पतेद्युद्धे स स्वर्गान्न निवर्तते १०

यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः।
देवकन्यास्तु तं वीरं रमयन्ति रमन्ति च ११

वराप्सरःसहस्राणि शूरमायोधने हतम्।
त्वरितान्यभिधावन्ति मम भर्ता ममेति च १२

हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः।
ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् १३

भूयो गतिं प्रवक्ष्यामि रणे येऽभिमुखा हताः।
शक्यं त्विह समृद्धैस्तु यष्टुं क्रतुशतैर्नरैः।
आत्मदेहं तु विप्रार्थे त्यक्तुं युद्धे सुदुष्करम् १५

यां यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणस्तत्र चयैः प्रयान्ति।
क्षणेन तामेव गतिं प्रयान्ति महाहवे स्वां तनुं सन्त्यजन्तः १६

सर्वांश्च वेदान्सह षड्भिरङ्गैः।
साङ्ख्यं च योगं च वने च वासम्।
एतान्गुणानेक एवातिशेते।
सङ्ग्रामधाम्न्यात्मतनुं त्यजेद्यः १७

इमां गिरं चित्रपदां शुभाक्षरां।
सुभाषितां वृतभिदां दिवौकसाम्।
चमूमुखे यः स्मरते दृढस्मृतिर्।
न हन्यते हन्ति च सोऽरणे रिपून् १८

एष पुण्यतमः स्वर्ग्यः सुयज्ञः सर्वतोमुखः।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः १९

भूयश्चैव प्रवक्ष्यामि भीष्मवाक्यमनुत्तमम्।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् २०

आततायिनमायान्तमपि वेदान्तगं रणे।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् २१

हताश्वश्च न हन्तव्यः पानीयं यश्च याचते।
व्याधितो दुर्बलश्चैव रथहीनस्तथैव च २२

भग्नधन्वाच्छिनगुणः प्राणेप्सुः कृपणं ब्रुवन्।
विमुक्तकेशो धावेद्यो यश्चोन्मत्ताकृतिर्भवेत् २३

पर्णशाखातृणग्राही तवास्मीति च यो वदेत्।
ब्राह्मणोऽस्मीति यश्चाह बालो वृद्धो नपुंसकः २४

तस्मादेतान्परिहरेद्यथोद्दिष्टान्रणाजिरे।
हतो न हन्यते सद्भिर्हता एव हि भीरवः २५

इति विष्णुधर्मेषु सङ्ग्रामप्रशंसा।

अथ द्विषष्टितमोऽध्यायः।
भगवानुवाच।
अमांसभक्षणे राजन्यो धर्मः कुरुपुङ्गव।
तन्मे शृणु यथातथ्यं यश्चास्य विधिरुत्तमः १

मासि मास्यश्वमेधेन यो यजेत शतं समाः।
न च खादति यो मांसं सममेतद्युधिष्ठिर २

सदा यजति सत्त्रेण सदा दानं प्रयच्छति।
सदा तपस्वी भवति मधुमांसविवर्जनात् ३

सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि।
यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत् ४

दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम्।
चतुर्व्रतमिदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम् ५

तदा भवति लोकेऽस्मिन्प्राणिनां जीवितैषिणाम्।
विश्वास्यश्चोपगम्यश्च न हि हिंसारुदिर्यदा ६

दुष्टरांस्तरते म॥॥॥।आं मांसस्य परिवर्जनात्।
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः ७

अहिंसा परमो धर्मः सत्यमेव च पाण्डव।
अहिंसा चैव सत्यं च धर्मो हि परमः स्मृतः ८

न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते।
जीवादुत्पद्यते मांसं तस्माद्गर्हन्ति तद्बुधाः।
यदि वै खादको न स्यान्न तदा घातको भवेत् ९

लोभाद्वा बुद्धिमोहाद्वा यो मांसान्यत्ति मानवः।
निर्घृणः स हि मन्तव्यः सद्धर्मपरिवर्जितः १०

स्वमांसं परमांसेन यो वर्धयितुमिच्छति।
उद्विग्नवासे वसति यत्रतत्राभिजायते ११

धनेन क्रायको हन्ति उपभोगेन खादकः।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः १२

भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते।
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते।
वरमेकस्य सत्त्वस्य दद्यादक्षयदक्षिणाम्।
न तु विप्रसहस्रस्य गोसहस्रं सकाञ्चनम्।
यो दद्यात्काञ्चनं मेरुं कृत्स्नां वापि वसुन्धराम्।
अभक्षणं च मांसस्य न तु तुल्यं युधिष्ठिर।
इदमन्यत्प्रवक्ष्यामि पुराणमृषिनिर्मितम् १३

श्रूयते च पुराकल्पे ह्यृषीणां व्रीहयः पशुः।
यजन्ते येन वै यज्ञानृषयः पुण्यकर्मिणः १४

ऋषिभिः संशयं पृष्टो वसू राजा ततः पुरा।
अभक्ष्यं भक्ष्यमिति वै मांसमाह नराधिप १५

आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः।
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् १६

कौमुदं तु विशेषेण शुक्लपक्षे नराधिप।
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते १७

चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत्।
चत्वारि भद्राण्याप्नोति कीर्तिरायुर्यशो बलम् १८

अप्येकमिह यो मासं सर्वमांसानि वर्जयेत्।
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः १९

यो हि वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्।
अप्येकं वर्जयेन्मासं मांसमेतत्समं मतम् २०

यो वर्जयति मांसानि मासं पक्षमथापि वा।
स वै हिंसानिवृत्तस्तु ब्रह्मलोके महीयते २१

सर्वकालं तु मांसानि वर्जितानि महर्षिभिः।
मन्वा क्षुपेण श्वेतेन तथैवेक्ष्वाकुनापि च २२

भृगुणा नलरामाभ्यां दिलीपरघुपौरवैः।
आयुषा चैव गार्ग्येण जनकैश्चक्रवर्तिभिः २३

धुन्धुमाराम्बरीषाभ्यां नहुषेण च धीमता।
गाधिना पुरुकुत्सेन कुरुणा पुरुणा तथा २४

मुचुकुन्देन मान्धात्रा सगरेण महात्मना।
शिबिना चाश्वपतिना वीरसेनादिभिस्तथा २५

सञ्जयेनाथ भीष्मेण पुष्करेणाथ पाण्डुना।
सुवर्णष्ठीविना चैव दुष्वन्तनृगरोहितैः २६

एतैश्चान्यैश्च बहुभिः सर्वैर्मांसं न भक्षितम्।
शरत्कौमुदिकं मासं ततः स्वर्गं गता नृपाः।
सर्वकामसमृद्धास्ते वसन्ति दिवि संस्थिताः २७

ब्रह्मलोके च पूज्यन्ते ज्वलमानाः श्रियावृताः।
उपास्यमाना गान्धर्वैः स्त्रीसहस्रसमन्विताः २८

तदेवमुत्तमं धर्ममहिंसालक्षणं शुभन्।
ये रक्षन्ति महात्मानो नाकपृष्ठे वसन्ति ते २९

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः।
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ३०

आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्।
व्याधितो मुच्यते रोगाद्दुःखान्मुच्येत दुःखितः ३१

यश्चैनं पठते नित्यं प्रयत्नाद्भरतर्षभ।
घोरं सन्तरते दुर्गं स्वर्गवासं च विन्दति।
तिर्यग्योनिं न गच्छेच्च रूपवांश्चैव जायते ३२

एतत्ते कथितं राजन्मांसस्य परिवर्जनम्।
प्रवृत्तौ च निवृत्तौ च प्रमाणमृषिसत्तमैः ३३

इति विष्णुधर्मेष्वमांसभक्षणम्।

अथ त्रिषष्टितमोऽध्यायः।
शौनक उवाच।
गोब्राह्मणहितार्थाय चातुर्वर्ण्यहिताय च।
अशिष्टनिग्रहार्थाय शिष्टानां रक्षणाय च।
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् १

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च २

तान्न हिंसेन्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।
देवा मानुषरूपेण चरन्ति पृथिवीमिमाम् ३

इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं।
क्रौर्यं यमाद्वैश्रवणात्प्रभावम्।
सत्त्वस्थितिं रामजनार्दनाभाम्।
आदाय राज्ञः क्रियते शरीरम् ४

न चापि राजा मन्तव्यो मनुष्योऽयमिति प्रभो।
महती देवता ह्येषा नररूपेण तिष्ठति ५

स्वयमिन्द्रोनरो भूत्वा पृथिवीमनुशासति।
न हि पालयितुं शक्तो मनुष्यः पृथिवीमिमाम् ६

यत्प्रजापालनैः पुण्यं प्राप्नुवन्तीह पार्थिवाः।
न तत्क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ७

अधीतहुततप्तस्य कर्मणः सुकृतस्य च।
षष्ठं लभति भागं तु प्रजा धर्मेण पालयन् ८

ग्रामाधिपत्यं नगराधिपत्यं देशाधिपत्यं पृथिवीपतित्वम्।
न प्राप्नुवन्तीह मनुष्यमात्रा ये देवतानां न भवन्ति भागाः ९

न तदस्ति व्रतं लोके यद्राज्ञश्चरितोपमम्।
न तद्वेदरहस्यं वा यद्राज्ञः फलतोऽधिकम्।
एवंवृत्तास्तु राजानो देवभागा न मानुषाः १०

चतुर्वेद्यं हुतच॥॥न यो हिंसेत नराधिपः।
दण्डस्यैते भयाद्भीता न खादन्ति परस्परम्।
ज॥॥दण्डभयात्के॥॥॥ न दुर्वन्ति हि पातकम्।
यमदण्डभयादन्ये न दुर्वन्ति परस्परम्।
नाभीतो यजते कांश्चन्नाभीतो दण्डमिच्छति।
य एव देवा हन्तारस्तांल्लोकोऽर्चयते भृशम्।
हन्ता शक्रश्च रुद्रश्च हन्ता वैश्रवणो यमः।
वरुणो वायुरादित्यः पर्जन्योऽग्निर्बृहस्पतिः ११

एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः।
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन १२

दण्डग्रस्तं जगत्सर्वं वश्यत्वमनुगच्छति।
नायं क्लीबस्य लोकोऽस्ति न परः पार्थिवोत्तम १३

न हि पश्यामि जीवन्तं राजन्कञ्चिदहिंसया।
उदके जन्तवो नित्यं पृथिव्यां च फलेषु च।
न हत्वा लिप्यते राजा प्रजा धर्मेण पालयन् १४

यदि दण्डो न विद्येत दुर्विनीतास्तथो नराः।
हन्युः पशून्मनुष्यांश्च याज्ञियानि हविंषि च १५

वृकवत्क्षपयेयुश्च यो यस्य बलवत्तरः।
तस्मात्प्राणिहिते दण्डे हिंसादोषो न बाधते।
नैवोस्त्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः।
युक्ता वहेयुर्यानानि दण्डश्चेन्नोद्यतो भवेत् १६

सत्यं किलैतद्यदुवाच शक्रो।
दण्डः प्रजा रक्षति साधुवृत्तः।
यस्याग्नयः प्रतिमासस्य भीताः।
सन्तर्जिता दण्डभयाज्ज्वलन्ति १७

यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति १८

दण्डनीतौ सुनीतायां सर्वे सिध्यन्त्युपक्रमाः।
दण्डश्चेन्न प्रवर्तेत विनश्येयुरिमाः प्रजाः १९

वृकवद्भक्षयेयुश्च यो यस्य बलवत्तरः।
काकाद्याश्च पुरोदाशं श्वा चैवावलिहेद्धविः २०

स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्।
चातुर्वर्ण्यविमोक्षाय दुर्विनीतभयाय च २१

दण्डेन नियतो लोको धर्मस्थानं च रक्षति।
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः २२

दण्डस्य हि भयाद्भीता नरास्तिष्ठन्ति शासने।
तिऽपि भोगाय कल्पन्ते दण्डेनोपरिपीडिताः २३

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनां।
इहप्रच्छन्नपापानां शास्ता वैवस्वतो यमः २४

पापानामथ मूढानां परद्रव्यापहारिणाम्।
परदाररता ये च ये च पातकसञ्ज्ञिताः।
तेषां तु शासनार्थाय मयैतत्समुदाहृतम् २५

ब्राह्मण्यं दुष्करं ज्ञात्वा तस्य दण्डं निपातयेत्।
कर्मानुरूपो दण्डः स्याद्गोहिरण्यादिको भवेत्।
अवध्यो ब्राह्मणो राजन्स्त्री वृद्धो बाल एव च २६

यश्चरेदशुभं कर्म पापं राजविगर्हितम्।
पातकेषु च वर्तेत निग्रहं तस्य कारयेत् २७

शिरसो मुण्डनं कृत्वा गोमयेनानुलेपयेत्।
खरयानेन नगरं डिण्डिमेन तु भ्रामयेत्।
राजनिर्दिष्टदण्डस्य प्रायश्चित्तं न विद्यते २८

एष ते कथितो दण्डो ब्राह्मणस्य युधिष्ठिर।
क्षत्रियस्य तु यो दण्डस्तं वक्ष्याम्यनुपूर्वशः २९

परद्रव्यादिहरणे परदाराभिमर्दने।
पातकेषु च सर्वेषु यो हि वर्तेत क्षत्रियः।
तस्य दण्डं प्रवक्ष्यामि तन्मे निगदतः शृणु ३०

हस्तपादपरिच्छेदं कर्णनासावकर्तनम्।
सर्वस्वहरणं कृत्वा परराष्ट्राय प्रेशयेत् ३१

राज्यं काङ्क्षेत यो मूढो राजपत्नीमथापि वा।
शरैस्तु राजा विध्येत शक्तिचक्रगदादिभिः ३२

क्षत्रियस्य तु दुष्टस्य दण्ड एष विधीयते।
वैश्यस्यापि च यो दण्डस्तं प्रवक्ष्यामि भारत ३३

पातकेष्वेव क्रूरेषु यस्तु वैश्यः प्रवर्तते।
परदारे परद्रव्ये तस्य निग्रहमादिशेत् ३४

शूलायां भेदनं तस्य वृक्षशाखावलम्बनम्।
एतद्वैश्यस्य निर्दिष्टं शूद्रस्याप्यनुपूर्वशः ३५

शूले शूद्रस्य यो दुष्टस्तस्यैकस्य वधः स्मृतः।
कुञ्जरेणाभिमर्देत मीनीयामथ पाचयेत्।
एतच्छूद्रस्य निर्दिष्टं नान्यो दण्डो विधीयते ३६

नैकस्यार्थे कुलं हन्यान्न राष्ट्रं न च ग्रामकम्।
धनलोभान्न मोक्तव्यो रागाद्वा शासनं विना।
एकं सुशिष्टितं कृत्वा शेषं कोशं प्रवेशयेत् ३७

शौनक उवाच।
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत्।
समासेन यथान्यायं दण्डनीतिमनुत्तमाम् ३८

उत्तमाधमकार्येषु समेषु विषमेषु च।
राजधर्मांस्तु पश्येत विष्णुना समुदाहृतान् ३९

इति विष्णुधर्मेषु दण्डनीतिः।

अथ चतुष्षष्टितमोऽध्यायः।
शौनक उवाच।
एतान्धर्माञ्जगन्नाथः पाण्डुपुत्राय पृच्छते।
जगाद पुरुषव्याघ्र किमन्यच्छ्रोतुमिच्छसि १

शतानीक उवाच।
भगवन्वहतां भक्तिं देवदेवे जनार्दने।
यत्फलं कथितं तज्ज्ञैस्तन्मे विस्तरतो वद २

शौनक उवाच।
यत्फलं वहतां भक्तिमच्युते भवति प्रभो।
न तद्वर्णयितुं शक्यं हरिः सर्वेप्सितप्रदः ३

यादृक् सत्त्वं मनुष्याणां तादृगाराध्य केशवम्।
फलमिच्छन्ति तादृच्च लभ्यते तैर्नरेश्वर ४

मुक्तिकामा नरा मुक्तिं स्वर्गं देवत्वमीप्सवः।
गन्धर्वयक्षसिद्धानां वृण्वन्त्यन्ये सलोकताम् ५

वर्षेष्वभीप्सवो विष्णुं पातालेषु तथापरे।
भोगानभीप्सवो विष्णुं तोषयन्ति नराधिप ६

तथापरे नरैश्वर्यमारोग्यं गुणवद्भुवि।
प्रार्थयन्त्यच्युतं देवमाराध्य जगतो गतिम् ७

धर्मोपदेशादचलां वहन्भक्तिं जनार्दने।
सशरीरो गतः स्वर्गं धर्मपुत्रो युधिष्ठिरः ८

तथैव जनकः कृष्णे विनिवेश्य स्वमानसम्।
अवाप परमां सिद्धिं वसुः प्रायात्त्रिपिष्टपम् ९

अन्ये च ये ये मुनयो ये ये च वसुधाधिपाः।
अवापुरतुलान्कामांस्ते ते सन्तोष्य केशवम् १०

अनाराध्य जगन्नाथं सर्वपापहरं हरिम्।
सद्गतिः केन सम्प्राप्ता भोगाश्चापि मनोरमाः ११

द्रौणिब्रह्मास्त्रनिर्दग्धस्तव राजन्पितामहः।
विष्णोः कार्यमनुष्यस्य दर्शनादुत्थितः पुनः १२

नामसङ्कीर्तनाद्यस्य पापमन्यैरुपद्रवैः।
समं विनाशमायाति देवः कोऽभ्यधिकस्ततः १३

राष्ट्रस्य शरणं राजा पितरौ बालकस्य च।
धर्मः समस्तमर्त्यानां सर्वस्य शरणं हरिः १४

मुक्तिहेतुमनाद्यन्तमजमक्षयमच्युतम्।
नमस्यन्सर्वलोकस्य नमस्यो जायते नरः १५

न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि।
वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः १६

शतानीक उवाच।
श्रुतं मया यथा पूर्वमार्यको मे युधिष्ठिरः।
सशरीरो गतः स्वर्गं जितमात्मीयकर्मभिः १७

यत्त्वेतद्भगवानाह स यथा पाण्डुपूर्वजः।
धर्मोपदेशाद्गोविन्दमाराधयत तद्वद १८

शौनक उवाच।
पुरा शासति धर्मज्ञे धर्मपुत्रे युधिष्ठिरे।
तस्यैव वैश्वदेवान्ते चण्डालोऽभ्यागमत्किल १९

समुपेत्य गृहं तस्य धर्मपुत्रस्य विस्मितः।
उवाच श्वपचो द्वाःस्थं प्रश्रयावनतस्थितः २०

चण्डाल उवाच।
कस्यैतद्भवनं दिव्यं मणिरत्नविभूषितम्।
शुद्धस्फटिकसोपानं मणिकाञ्चनतोरणम् २१

प्रतीहार उवाच।
अष्टाशीतिसहस्राणि ब्राह्मणानां दिने दिने।
युधिष्ठिरमृते भूपं भुञ्जते कस्य वेश्मनि २२

कथमेतन्न जानीषे चन्द्रबिम्बमिवापरम्।
युधिष्ठिरस्य भवनं देवराजगृहोपमम् २३

चण्डाल उवाच।
अबलस्य बलं राजा बालस्य रुदितं बलम्।
बलं मूर्खस्य वै मौनं तस्करस्यानृतं बलम् २४

गच्छ जल्प स्वराजानं प्रतीहार वचो मम।
दुःखार्तः कार्यवान्राजंश्चण्डालो द्वारि तिष्ठति २५

केनापि हेतुमात्रेण भवन्तं दुष्टमागतः।
इत्युक्तो धर्मराजस्य प्रतीहारो यथोदितम्।
निवेदयामास तथा धर्मराजोऽब्रवीदिदम् २६

युधिष्ठिर उवाच।
किं रूपं कीदृशं शीलं कोऽस्यार्थः किं प्रयोजनम्।
ब्रूहि द्वाःस्थ यथावन्मे नरस्तिष्ठति कीदृशः २७

प्रतीहार उवाच।
काककोकिलकृष्णाङ्गो भग्ननासारुणेक्षणः।
यवमध्यः कृशग्रीवो वक्रपादो महाहनुः २८

युधिष्ठिर उवाच।
ब्रूहि गच्छ दुराचारं चण्डालं पापकर्मिणम्।
देवकार्यस्य वेलायां दुतस्त्वं प्रत्युपस्थितः २९

चण्डालपतितौ दृष्ट्वा नरः पश्येत भास्करम्।
स्नातस्त्वेतावथालोक्य सचैलस्नानमर्हति ३०

इत्याज्ञप्ते तथोक्तस्तु चण्डालस्तेन वै ततः।
प्रत्युवाच प्रतीहारमीषन्मन्युपरिप्लुतः ३१

चण्डाल उवाच।
किं देवकार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम्।
तद्देवकार्यं स च यज्ञहोमो यदश्रुपाता न पतन्ति राष्ट्रे ३२

इदं वचनमव्यग्रं प्रतीहार त्वरा मम।
निवेदय स्वराजेन्द्रंयथेष्टं स करोतु वै।
इत्युक्तः सत्वरं गत्वा धर्मराजं तथा तथं।
कथयामास तत्सर्वं चाण्डालेन यदीरितम्।
सुशोभनमिदं वाक्यं न भवेदन्त्यजातिषु।
चिन्तयित्वा ततो राजा निर्जगाम युधिष्ठिरः।
इत्येतद्वचनं श्रुत्वा निर्जगाम युधिष्ठिरः।
प्रत्युवाच च चण्डालमीषन्कोपसमन्वितः ३३

युधिष्ठिर उवाच।
कुतस्ते भयमुत्पन्नं येन त्वं गृहमागतः।
आवाधाकारणं सर्वं यथावत्कथयस्व मे ३४

तदहं ते प्रतिज्ञाय चण्डकर्मकरक्षणम्।
अपास्य देवकार्यार्थं प्रविश्याम्यन्तरं पुनः ३५

चण्डाल उवाच।
न भुञ्जते ब्राह्मणा मे सर्वाश्चोद्विजते जनः।
प्राणिहिंसा च नो वृत्तिर्देव पुष्णाति मेऽनृतम् ३६

अनेकजन्मसाहस्रीं प्राप्य संसारपद्धतिम्।
मानुष्ये कुत्सितां जातिमापन्नो मुषितोऽस्मि भोः ३७

कर्मभूमिमिमां राजन्प्रार्थयन्ति दिवौकसः।
तां सम्प्राप्य वृथाजन्मा मुष्टोऽस्मि कुरुसत्तम ३८

दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान्।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ३९

सोऽहमिच्छामि विज्ञातुमतिदुष्कृतकर्मकृत्।
वक्तुमर्हसि धर्मज्ञ कः पापिष्ठतरो मया ४०

युधिष्ठिर उवाच।
आनमुपरि श्रान्तं ब्राह्मणं गृहमागतम्।
अनर्चयित्वा यो भुङ्क्ते स पापिष्ठतरस्त्वया ४१

मातरं पितरं चैव विकलं नेत्रदुर्बलम्।
यो नाभ्युद्धरते पुत्रः स पापिष्ठतरस्त्वया ४२

गोधनस्य तृषार्तस्य जलार्थं परिधावतः।
विघ्नमाचरते यस्तु स पापिष्ठतरस्त्वया ४३

विवाहयित्वा यः कन्यां कुलजां शीलमण्डनाम्।
विना त्यजति दोषेण स पापिष्ठतरस्त्वया ४४

आशाकारस्त्वदाता यो दातुश्च प्रतिषेधकः।
दत्तं च यः कीर्तयति स पापिष्ठतरस्त्वया ४५

बहुभृत्यैर्दरिद्रैश्च धनं सन्तं द्विजोत्तमैः।
याचितो न प्रयच्छेद्यः स पापिष्ठतरस्त्वया ४६

ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नरः।
स्वधर्मं सन्त्यजेद्यस्तु स पापिष्ठतरस्त्वया ४७

चण्डाल उवाच।
कृतार्थोऽहं गमिष्यामि यशोधर्ममवाप्नुहि।
तुष्टोऽस्म्यहं स्वया योन्या मत्तः प्रोक्तास्त्वयाधमाः ४८

युधिष्ठिर उवाच।
देवतानामृषीणां च पितॄणां च कृतं मया।
साम्प्रतं देशकालोऽयं त्वमेवात्र भवातिथिः ४९

चण्डाल उवाच।
चण्डालोऽहं महाराज पतितो लोकवर्जितः।
कथं निहीनो वर्णेभ्यो भोक्ष्यामि भवतो गृहे ५०

युधिष्ठिर उवाच।
चण्डालो भव पापो वा शत्रुर्वा पितृघातकः।
देशकालाभ्युपेतं त्वां भरणीयं हि वेद्म्यहम् ५१

चण्डाल उवाच।
दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ५२

दश सूनासहस्राणि कुरुते यो हि सौनिकः।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ५३

युधिष्ठिर उवाच।
नानागोत्रादिचरणा भुञ्जते ब्राह्मणा मम।
न ते वदन्ति वाग्दुष्टं यथैतत्कीर्तितं त्वया ५४

चण्डाल उवाच।
लोभात्मानो न जानीयुर्ब्राह्मणा राजकिल्बिषम्।
वरं स्वमांसमत्तव्यं न तु राजप्रतिग्रहम् ५५

राजकिल्बिषदग्धानां ब्राह्मणानां युधिष्ठिर।
छिन्नानामिव बीजानां पुनर्जन्म न विद्यते ५६

राजप्रतिग्रहो घोरो मध्वास्वादो विषोपमः।
बुधेन प्रतिहर्तव्यः स्वमांसस्येव भक्षणम् ५७

अधीत्य चतुरो वेदान्सर्वशास्त्रार्थतत्त्ववित्।
नरेन्द्रभवने भुङ्क्त्वा विष्ठायां जायते कृमिः ५८

युधिष्ठिर उवाच।
निन्दसे सर्वराजानो न चात्मानं प्रशंससि।
धैर्यवानात्मनोऽनिन्द्यो नाश्वासार्थं च पृच्छसि।
विमुक्तक्रोधहर्शश्च कोऽप्यत्र प्रतिभासि नः।
अनिन्द्यो निन्द्यरूपेण महात्मा त्वं हि मे मतः।
को भवान्ब्रूहि सत्यं मे किमर्थमिह चागतः।
भवानुपेन्द्रः! शक्रो वा शर्वो वा त्वं पिनाकधृक्।
अथवा निन्द्यरूपेण पिता नस्त्वमिहागतः ५९

धर्म उवाच।
ज्ञातोऽस्मि पृथिवीपाल तुष्टश्च तव दर्शनात्।
नन्दन्तु भूमिभागास्ते येषु त्वं पृथिवीपतिः ६०

निर्जित्य परसैन्यानि क्षितिं धर्मेण पालय।
स्वल्पमप्यस्तु ते वेलां आ गोविन्दोज्झितं मनः ६१

युधिष्ठिर उवाच।
किं मे राज्येन भोस्तात विषयैर्जीवितेन वा।
योऽहं सूनासहस्रैस्तु दशभिः परिवेष्टितः ६२

धर्म उवाच।
मा विषादं नरश्रेष्ठ समुपैहि युधिष्ठिर।
यज्ञेश्वरं यज्ञमूर्तिं त्वं च विष्णुं समाश्रितः ६३

येषां न विषये विप्रा यज्ञैर्यज्ञपतिं हरिम्।
यजन्ति भूभुजस्तेषामेतत्सूनोदितं फलम् ६४

येषां पाषण्डसङ्कीर्णं न राष्ट्रं ब्राह्मणोत्कटम्।
ते तु सूनासहस्राणां दशानां भागिनो नृपाः ६५

येषां न यज्ञपुरुषः कारणं पुरुषोत्तमः।
ते तु पापसमाचाराः सूनापापौघभागिनः ६६

त्वं तु मत्प्रभवस्तात विष्णुभक्तस्तथैव च।
इष्टिर्वैश्वानरी पापमुपहंस्यति तेऽखिलम् ६७

अवश्यं विषये कश्चिद्ब्राह्मणः संश्रितव्रतः।
इष्टिं वैश्वानरीं कप्तां निर्वपेदब्दपर्यये।
तस्य षड्भागमात्रेण त्वं पापं निर्दहिष्यसि ६८

स त्वं वरय भद्रंते वरं यन्मनसेच्छसि।
सम्यक् श्रद्धासमाचारादहमाराधितस्त्वया ६९

अथ पातकभीतस्त्वं सर्वभावेन भारत।
विमुक्तान्यसमारम्भो नारायणपरो भव ७०

परः पराणामाद्योऽसौ ज्ञेयो ध्येयो जनार्दनः।
तदर्थमपि कर्माणि कुर्वन्पापं व्यपोहति ७१

लोभादिव्याप्तहृदयो यत्पापं कुरुते नरः।
विलयं याति तत्सर्वमच्युते हृदये स्थिते ७२

शमायालं जलं वह्नेस्तमसो भास्करादयः।
क्षान्तिः कलेरघौघस्य नामसङ्कीर्तनं हरेः ७३

युधिष्ठिर उवाच।
प्रसन्नो यदि मे तात वरार्हो यदि चाप्यहम्।
वरं तदेकमेवैतं प्राप्तुमिच्छाम्यहं पितः ७४

जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य सदा मम।
या काचिन्मनसो वृत्तिः सा भवत्वच्युताश्रया ७५

या या जायेत मे बुद्धिर्यावज्जीवाम्यहं पितः।
सा सा छिनत्तु सन्देहान्कृष्णाप्तौ परिपन्थिनः ७६

यथा गोविन्दमाराध्य सशरीरः सुरालयम्।
प्राप्नुयामिति मे तात प्रयच्छ प्रवरं वरम् ७७

धर्म उवाच।
एवमेतदशेषं ते मत्प्रसादाद्भविष्यति।
नास्ति गोविन्दभक्तानां वाञ्छितं भुवि दुर्लभम् ७८

शौनक उवाच।
इति धर्मोपदेशेन सर्वदेववरं हरिम्।
आराध्य पाण्डवो यातः सशरीरः सुरालयम् ७९

इति विष्णुधर्मेषु चण्डालयुधिष्ठिरसंवादः।

अथ पञ्चषष्टितमोऽध्यायः।
शौनक उवाच।
भूयश्च शृणु राजेन्द्रजनकेन महात्मना।
यद्गीतं वहता भक्तिं ज्ञानमासाद्य केशवे १

सर्वत्र समदृष्टिं तं जनकं मिथिलेश्वरम्।
पश्यन्तमच्युतमयं सर्वं च सचराचरम् २

द्विजरूपं समास्थाय देवदेवो जनार्दनः।
उपतस्थे महाभागं प्रत्युवाच च पार्थिवम् ३

देव उवाच।
राजञ्जनक भद्रंते यद्ब्रवीमि निबोध तत्।
कुरुष्व च महाबुद्धे यदि साधु मतं तव ४

पृथिवीं पृथिवीपालः पालयित्वा पिता तव।
स्वर्गं गतस्तथा भ्राता सम्यक् सत्यध्वजो नृपः ५

त्वं पुनर्निरभीमानः सर्वत्र समदर्शनः।
रिपुमित्रादिवर्गेषु कथमेतद्भविष्यति ६

मित्रेषु मित्रवन्न त्वं नाहितेष्वरिवद्भवान्।
मध्यस्थभाग्न चैव त्वं तथोदासीनवृत्तिषु ७

शब्दादयो ये विशयास्ते वैराग्यफला नृप।
नीत्या विहीनस्तु भवान्कथं राज्यं करिष्यति ८

सर्वैर्नीतिं समास्थाय यथा ते प्रपितामहैः।
कृतं राज्यं तथा भूप कुरु मातिजडो भव ९

तव प्रज्ञा मता ह्येषा मम मोहो महीपते।
त्रिवर्गसाधनं प्रज्ञा न धर्मादिविरोधिनी १०

जनक उवाच।
सम्यगाह भवान्विप्र वाच्यमेवं भवद्विधैः।
ममापि श्रूयतां वाक्यं भवतो यदि रोचते ११

यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः।
तदा मित्रादिमध्यस्थसञ्ज्ञा केषु निपात्यताम् १२

पिता माता तथा भ्राता यदा नान्यज्जनार्दनात्।
पितृमातृमयीं सञ्ज्ञां तदा कुत्र करोम्यहम् १३

सोऽहं ब्रवीमि यद्वाक्यं तन्निबोध द्विजोत्तम।
अनेकरूपरूपोऽयं विष्णुरेवाखिलं जगत् १४

विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे।
विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः १५

यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः।
दिवं वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः १६

पश्यामि विष्णुं न परं ततोऽन्यच्।
शृणोमि विष्णुं न परं ततोऽन्यत्।
स्पृशामि विष्णुं न परं ततोऽन्यज्।
जिघ्रामि विष्णुं न परं ततोऽन्यत् १७

रसामि विष्णुं न परं ततोऽन्यन्।
मन्ये च विष्णुं न परं ततोऽन्यत्।
जिघ्रामि विष्णुं न परं ततोऽन्यच्।
नमामि विष्णुं न परं ततोऽन्यत्।
बुध्यामि विष्णुं न परं ततोऽन्यत्।
सर्वं हि विष्णुर्न परं ततोऽन्यत् १८

विष्णुः समस्तं न परं ततोऽस्ति।
विष्णुः समस्तं न परं च देवः।
विष्णुः स्थारीयान्न परं ततोऽस्ति।
विष्णुर्लघीयान्न परं ततोऽस्ति।
विष्णुर्गरीयान्न परं ततोऽन्यत् १९

यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि।
सत्येन तेनोपशमं प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये २०

न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः।
त्वं चाहं अन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् २१

मूर्तामूर्तिविशेषं तु पश्यतस्तन्मयं द्विज।
क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् २२

स त्वं प्रसीद मोहोऽयमथ चेन्मम सुव्रत।
तथापि मा रुषं कार्षीरचिकित्स्या हि मोहिताः २३

शौनक उवाच।
बहुरूपस्ततो रूपं शङ्खचक्रगदाधरम्।
दर्शयामास सुप्रीतो जनकाय जनार्दनः २४

ततस्तद्दर्शनाद्भूपं शिरसा प्रणतं प्रभुः।
आद्यः प्रजापतिपतिः प्रत्युवाचाच्युतो हरिः २५

वरं वरय भूपाल परितुष्टोऽस्मि तेऽनघ।
मय्यर्पितमनोबुद्धेः सदैवाहं न दुर्लभः २६

जनक उवाच।
यदि देव प्रसन्नोऽसि सम्यगाराधितो मया।
तद्वृणोमि वरं भक्तिस्त्वय्येवास्तु सदा मम २७

शौनक उवाच।
एवं भविष्यतीत्युक्त्वा गतोऽन्तर्धानमीश्वरः।
सोऽपि लेभे लयं विष्णौ भक्त्या योगिसुदुर्लभम् २८

इति कृष्णे नरव्याघ्र कुर्वन्भक्तिं नरः सदा।
प्राप्नोति पुरुषव्याघ्र मुक्तिं चाप्यतिदुर्लभाम् २९

इति विष्णुधर्मेषु जनकगीता।

अथ षट्षष्टितमोऽध्यायः।
शतानीक उवाच।
जगद्धातुरनन्तस्य वासुदेवस्य भार्गव।
ममावतारानखिलाञ्श्रोतुमिच्छा प्रवर्तते १

यथा यथा हि कृष्णस्य कथेयं कथ्यते त्वया।
जायते मनसः प्रीतिरुद्भूतपुलकस्तथा २

मनःप्रीतिरनायासादपुण्यचयसङ्क्षयः।
प्राप्यते पुरुषैर्ब्रह्मञ्शृण्वद्भिर्भगवत्कथाम् ३

स कुरुष्वामलमते प्रसादप्रवणं मनः।
अवतारान्सुरेशस्य विष्णोरिच्छामि वेदितुम् ४

शौनक उवाच।
जगद्गुरुं जगद्योनिमनन्तमुदकेशयम्।
नारायणं पुराकल्पे पृष्टवान्कमलोद्भवः ५

विनिर्जग्मुर्मुखेभ्यस्तु ब्रह्मणो व्यक्तजन्मनः।
ॐकारप्रवणा वेदा जग्मुस्ते च रसातलम् ६

एकार्णवे जगत्यस्मिन्ब्रह्मण्यमिततेजसि।
कृष्णनाभिह्रदोद्भूतकमलोदरशायिनि ७

भोगिशय्याशयः कृष्णो द्वितीयान्तनुमात्मनः।
कृत्वा मीनमयीं सद्यः प्रविवेश रसातलम् ८

वेदमूर्तिस्ततो वेदानानिन्ये ब्रह्मणोऽन्तिकम्।
मधुकैटभाभ्यां च पुनर्भोगिशय्यागतो हरिः।
हृतान्हयशिरा भूत्वा वेदानाहृतवान्रसात् ९

आहृतेष्वथ वेदेषु देवदेवं पितामहः।
तुष्टाव प्रणतो भक्त्या तस्य चाविर्बभौ हरिः १०

अथामरगुरुं विष्णुमनन्तमजमव्ययम्।
उवाच प्रकटीभूतं प्रणिपत्याब्जसम्भवः ११

ब्रह्मोवाच।
नमः सूक्ष्मातिसूक्ष्माय नमस्तुभ्यं त्रिमूर्तये।
बहुरूपादिमध्यान्त परिणामविवर्जित १२

जगदीशस्य सर्वस्य जगतः सर्वकामद।
अहमात्मभवो देव त्वयाध्यक्षो निरूपितः १३

सोऽहमिच्छामि तं ज्ञातुमात्मानं प्रभवाव्ययम्।
विश्वस्य च विरूपस्य स्थावरस्य चरस्य च १४

यदि तेऽनुग्रहकृता मयि बुद्धिर्जनार्दन।
तन्मां भक्त इति ज्ञात्वा कथयात्मानमच्युत १५

भगवानुवाच।
कथयामि तवात्मानमनाख्यागोदरं परम्।
न वाचां विषये योऽसावविशेषणलक्षणः १६

प्रसादसुमुखः सोऽहमिमं यच्छामि ते वरम्।
अनाख्यातस्वरूपं मां भवाञ्ज्ञास्यति योगतः १७

भक्तो मां तत्त्वतो वेत्ति मयि भक्तिश्च ते परा।
मज्जिज्ञासा परा ब्रह्मंस्तेन जाता मतिस्तव १८

एवमुक्तस्ततो ब्रह्मा विष्णुना प्रभविष्णुना।
विष्णोः स्वरूपं जिज्ञासुर्युयोजात्मानमात्मना १९

स ददर्शातिसूक्ष्मं च सूक्ष्मज्योतिष्यजं विभुम्।
नियुतार्धार्धमात्रेण व्याप्ताशेषचराचरम् २०

आत्मानमिन्द्ररुद्रार्कचन्द्राश्विवसुमारुतान्।
खादीन्यथ च शब्दादीन्ददृशे च स तन्मयान् २१

ये व्यक्ता ये तथाव्यक्ता भावा ये चापि पौरुषाः।
तांश्च तत्रातिसूक्ष्मोऽपि दृष्टवानखिलान्विभुः २२

ततः प्रणम्य देवेशमजमार्तिहरं हरिम्।
पितामहः प्रह्वतनुर्वाक्यमेतदुवाच ह २३

ज्ञातं स्वरूपमज्ञातस्वरूप भगवंस्तव।
मया न यद्वाग्विषये तत्रस्थं चाखिलं जगत् २४

धन्योऽस्म्यनुगृहीतोऽस्मि स्वरूपं यन्मया तव।
भगवञ्ज्ञातमज्ञातमनन्ताज नमोऽस्तु ते २५

यदि प्रसादं देव त्वं प्रकरोषि ममापरम्।
परमं चावतारेषु यद्रूपं तद्वदस्व मे २६

केषु केषु मया ज्ञेयः स्थानेषु त्वमधोक्षज।
सम्भूतयो ममाचक्ष्व या भविष्यन्ति ते भुवि २७

देवलोके नृलोके वा पाताले खेऽन्यतोऽपि वा।
सम्भूतयो यास्तु भवान्करिष्यति वदस्व ताः २८

त्वं कर्ता सर्वभूतानां संहर्ता चेश्वरेश्वरः।
तवापि कर्ता नान्योऽस्ति स्वेच्छया क्रीडते भवान्।
अहं वेद्मि भवन्तं हि न तवान्योऽस्ति वेदिता २९

भगवानुवाच।
यन्मां त्वं पृच्छसि ब्रह्मनवताराश्रितं परम्।
तत्ते सम्यक् प्रवक्ष्यामि निबोध मम सुव्रत ३०

मम प्रकृत्या संयोगः स्वेच्छया सम्प्रवर्तते।
देवेषु नॄषु तिर्यक्षु स्थावरेषु चरेषु च।
ममावताराः कार्यार्थं जगतश्चोपकारिणः ३१

यदा यदा हि धर्मस्य ग्लानिः समुपजायते।
अभ्युत्थानमधर्मस्य तदात्माङ्गं सृजाम्यहम् ३२

परित्राणाय साधूनां विनाशाय च दुष्कृतां।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ३३

पूर्वोत्पन्नेषु भूतेषु नृदेवादिषु चाप्यहम्।
अनुप्रविश्य धर्मस्य करोमि परिपालनम् ३४

प्रविश्य च तथा पूर्वं तनुं धर्मभृतां वर।
जगतोऽस्य जगत्सृष्टिं करोमि स्थितिपालनम् ३५

देवत्वे देविका चेष्टा तिर्यक्त्वे मम तामसी।
इच्छया मानुषत्वे च विचरामि नृचेष्टया ३६

प्रतिक्षणं च भूतेषु सृजामि जगतः स्थितिम्।
करोमि विद्यमानेषु धर्मसंस्थापनेषु च ३७

यद्वै धर्मोपकाराय यच्च दुष्टनिवर्हणम्।
चरितं मानुषादीनां तद्वै जानीहि मत्कृतम् ३८

यच्च पृच्छसि मां ब्रह्मन्काः काः सम्भूतयस्तव।
ताः शृणुष्व समासेन या भविष्यन्ति साम्प्रतम् ३९

मत्स्येन भूत्वा पातालात्तव वेदाः समुद्धृताः।
मधुकैटभाभ्यां च हृता दत्ताश्वशिरसा मया ४०

त्वमप्यत्र महाभाग मदंशः कमलोदरात्।
मन्नाभिसम्भवाज्जातः प्रजासृष्टिकरः परः ४१

एकार्णवं च यदिदं ब्रह्मन्पश्यस्यशेषतः।
अस्मिन्वसुमतीं देवीं मग्नां पातालमागताम् ४२

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ४३

अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः।
आज्यनासः श्रुवस्तुण्डः सामघोषस्वरो महान् ४४

प्राग्वंशकायो द्युतिमान्नानादीक्षाभिराचितः।
दक्षिणाहृदयो योगी महासत्त्रमयो महान् ४५

उपकर्मेष्टिरुचिरः प्रवर्गावर्तभूषणः।
नानाच्छन्दोगतिपथो ब्रह्मोक्तिकर्मविक्रमः ४६

भूत्वा यज्ञवराहोऽहमिति ब्रह्मन्रसातलात्।
पृथिवीमुद्धरिष्यामि स्थापयैष्यामि च स्थितौ ४७

पर्वतानां नदीनां च द्वीपादीनां च या स्थितिः।
तां च तद्वत्करिष्यामि शैलादीनामनुक्रमात् ४८

हिरण्याक्षं च दुर्वृत्तं कश्यपस्यात्मसम्भवम्।
तेनैव घातयिष्यामि रूपेणाहं प्रजापते ४९

उत्पाद्य पृथिवीं सम्यक् स्थापयित्वा यथा पुरा।
सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापतिम्।
जानासि कापिलं रूपं प्रथमं पौरुषं मम।
सर्वविद्याप्रणेतारं त्वया वेदेषु दर्शितम्।
रविमण्डलमध्यस्थमग्नेर्यत्परमं पदम्।
तत उत्सृज्य रूपाणि अमरादिविभेदतः।
व्यापयिष्यामि लोकांस्तु भूलोकादीमशेषतः ५१

सृष्टं जगदिदं देवमानुष्यादिविशेषणम्।
हिरण्यकशिपुर्दैत्यस्तापयिष्यति विक्रमात् ५२

व्यंसयित्वा वरांस्तस्य तैस्तैर्हेतुभिरात्मवान्।
नृसिंहरूपं कृत्वाहं घातयिष्यामि तं रिपुम् ५३

क्षीराब्दौ कूर्मरूपोऽहं देवानां कमलोद्भव।
मन्दरं धारयिष्यामि पृष्ठेनामृतमन्थने ५४

हरिष्यति च देवानां यज्ञभागान्यदा बलिः।
तदाहं वामनो भूत्वा गत्वा तस्य महाध्वरम् ५५

वञ्चयित्वासुरपतिं करिष्यामि त्रिपिष्टपम्।
बलिं चापि करिष्यामि पातालतलवासिनम् ५६

अत्रेर्दत्त्वा वरं चैव तस्य पुत्रत्वमागतः।
दत्तात्रेयो भविष्यामि निहंस्यामि तथासुरान् ५७

सत्त्वानामुपकाराय प्रधानपुरुषान्तरम्।
दर्शयिष्यामि लोकेषु कापिलं रूपमास्थितः ५८

कार्तवीर्यादिभिश्चान्यैश्चतुर्दशभिरन्विताः।
भविष्यन्ति मदंशेन त्रेतायां चक्रवर्तिनः ५९

ततश्च भार्गवो रामो गृहीतपरशुर्द्विजः।
भूत्वा क्षत्रियहीनां च करिष्यामि वसुन्धराम् ६०

पुनश्च राघवो रामो भूत्वा दशरथात्मजः।
बद्ध्वा महोदधिं कर्ता राक्षसानां कुलक्षयम् ६१

उत्तीर्य च परं पारं लकामासाद्य दुर्जयाम्।
निहत्य रावणं वीरं वरदानेन दर्पितम्।
मायाविनां महावीर्यं रक्षसां वनशायिनाम्।
लक्ष्मणानुचरो रामः करिष्यामि कुलक्षयम्।
अष्टाविंशतिमे प्राप्ते द्वापरे कंसमुच्छ्रितम्।
केशिनं धेनुकं चैव शकुनिं पूतनां तथा।
अरिष्टं च हनिष्यामि मुरुं नरकमेव च ६२

निशुम्भं सहयग्रीवं तथान्यांश्चासुरेश्वरान्।
हनिष्यामि सुदुर्वृत्तांल्लोकानां हितकाम्यया ६३

प्रवर्षति स देवेन्द्रेमहोभङ्गविरोधिते।
गोवर्धनं गिरिवरं धारयिष्यामि बाहुना ६४

भाराक्रान्तामिमामुर्वीं धनञ्जयसहायवान्।
घातयित्वाखिलान्भूपांल्लघ्वीं कर्तास्मि सत्तम ६५

प्राप्ते कलियुगे कृत्स्नमुपसंहृत्य वै कुलम्।
द्वारकां प्लावयिष्यामि उत्स्रक्ष्यामि मनुष्यताम् ६६

द्वितीयो यो ममांशस्तु रामोऽनन्तः स लाङ्गली।
सोऽपि सन्त्यज्य वसुधां रसातलमुपेष्यति ६७

ततः कलियुगे घोरे सम्प्राप्तेऽब्जसमुद्भव।
शुद्धोदनसुतो बुद्धो भविष्यामि विमत्सरः ६८

बौद्धं धर्ममुपाश्रित्य करिष्ये धर्मदेशनाम्।
नराणामथ नारीणां दयां भूतेषु दर्शयन् ६९

रक्ताम्बरा ह्याञ्जिताक्षाः प्रशान्तमनसस्ततः।
शूद्राधर्मं प्रवक्ष्यन्ति मयि बुद्धत्वमागते ७०

एडूकचिह्ना पृथिवी न देवगृहभूषिता।
भवित्री प्रायशो ब्रह्मन्मयि बुद्धत्वमागते ७१

स्कन्धदर्शनमात्रं हि पश्यन्तः सकलं जगत्।
शूद्राः! शूद्रेषु दास्यन्ति मयि बुद्धत्वमागते ७२

अल्पायुषस्ततो मर्त्या मोहोपहतचेतसः।
नरकार्हाणि कर्माणि करिष्यन्ति प्रजापते ७३

स्वाध्यायेष्ववसीदन्तो ब्राह्मणाः शौचवर्जिताः।
अन्त्यप्रतिग्रहादानं करिष्यन्त्यल्पमेधसः ७४

न श्रोष्यन्ति पितुः पुत्राः श्वश्रूश्वशुरयोः स्नुषाः।
न भार्या भर्तुरीशस्य न भृत्या विनयस्थिताः ७५

वर्णसङ्करतां प्राप्ते लोकेऽस्मिन्दस्युतां गते।
ब्राह्मणादिषु वर्णेषु भविष्यत्यधरोत्तरम् ७६

धर्मकञ्चुकसंवीता विधर्मरुचयस्तथा।
मानुषान्भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ७७

ततः कलियुगस्यान्ते वेदो वाजसनेयकः।
दश पञ्च च वै शाखाः प्रमाणेन भविष्यति ७८

ततोऽहं सम्भविष्यामि ब्राह्मणो हरिपिङ्गलः।
कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः ७९

म्लेच्छानुत्सादयिष्यामि गृहीतास्त्रः कुशायुधः।
स्थापयिष्यामि मर्यादाश्चातुर्वर्ण्ये यथोदिताः ८०

तथाश्रमेषु सर्वेषु ब्रह्मचारिव्रतादिकाः।
स्थापयित्वा ततः सर्वाः प्रजाः सद्धर्मवर्त्मनि।
कल्किरूपं परित्यज्य दिवमेष्याम्यहं पुनः ८१

ततः कृतयुगं भूयः पूर्ववत्सम्प्रवर्त्स्यते।
वर्णाश्रमाश्च धर्मेषु द्वेषु स्थास्यन्ति सत्तम ८२

एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च।
ममावताराः शतशो ये भवन्ति जगद्धिताः ८३

सङ्कर्षणात्मजश्चैव कल्पान्ते च रसातला।
समुत्पत्स्येत्तदा रुद्रः! कालाग्निरिति यः श्रुतः ८४

ततः क्षयं करिष्यामि जगत्स्थावरजङ्गमम्।
भूयश्चैव हि स्वप्स्यामि जगत्येकार्णवे स्थिते।
त्वद्रूपी च ततो भूत्वा जगत्स्रक्ष्याम्यहं पुनः ८५

एतत्सङ्क्षेपतो ब्रह्मन्मयाख्यातं यथातथम्।
अंशावतरणं सर्वं मत्तः सङ्क्षेपतः शृणु ८६

यद्दृश्यं यच्च वै स्पृश्यं यद्घ्रेयं रस्यते च यत्।
यच्छ्रव्यं यच्च मन्तव्यं बोधव्यं चाहमंशगः ८७

यत्तु बुद्धेः परतरमनाख्येयमनोपमम्।
तदहं ब्रह्म निर्द्वन्द्वं यद्वै पश्यन्ति सूरयः ८८

इदं जन्मरहस्यं मे यो नरः कीर्तयिष्यति।
सुलभोऽहं भविष्यामि तस्य जन्मनि जन्मनि ८९

पठन्नेतद्ब्रह्महा तु सुरापो गुरुतल्पगः।
स्तेयी कृतघ्नो गोघ्नश्च सर्वपापैः प्रमुच्यते ९०

गर्भिणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम्।
लभन्तेऽभिमतान्कामान्नरास्तांस्तान्यथेप्सितान् ९१

शौनक उवाच।
इति देवातिदेवेन ब्रह्मणो व्यक्तजन्मनः।
रहस्यमिदमाख्यातं तवापि कथितं मया ९२

विष्णुः सर्वगतोऽनन्तः सर्वं तत्र प्रतिष्ठितम्।
स च सर्वमिदं राजन्न ततो विद्यते परम् ९३

एतत्पवित्रं पठितं तथा दुःस्वप्ननाशनम्।
जातिस्मरत्वं प्रज्ञां च ददाति पठतां नृणाम् ९४

इति विष्णुधर्मेषु जन्मरहस्यम्।

अथ सप्तषष्टितमोऽध्यायः।
शतानीक उवाच।
मया हि देवदेवस्य विष्णोरमिततेजसः।
श्रुताः सम्भूतयः सर्वा गदतस्तव सुव्रत १

यदि प्रसन्नो भगवाननुग्राह्योऽस्मि वा यदि।
तदहं श्रोतुमिच्छामि नॄणां दुःस्वप्ननाशनम् २

स्वप्ना हि सुमहाभाग दृश्यन्ते ये शुभाशुभाः।
फलानि ते प्रयच्छन्ति तद्गुणान्येव भार्गव ३

यद्यत्पुण्यं पवित्रं च नॄणामतिशुभप्रदम्।
दुःस्वप्नोपशमायालं तन्मे विस्तरतो वद ४

शौनक उवाच।
इदमेव महाराज पृष्टवांस्ते पितामहः।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ५

देवव्रतं महाप्राज्ञं सर्वशास्त्रविशारदम्।
विनयेनोपसङ्गम्य पर्यपृच्छद्युधिष्ठिरः ६

युधिष्ठिर उवाच।
दुःस्वप्नदर्शनं घोरमवेक्ष्य भरतर्षभ।
प्रयतः किं जपेज्जप्यं विबुद्धः किमनुस्मरेत् ७

पितामह महाबुद्धे बुद्धेर्भेदो महानयम्।
तदहं श्रोतुमिच्छामि ब्रूहि मे वदतां वर ८

भीष्म उवाच।
शृणु राजन्महाबाहो वर्तयिष्यामि तेऽखिलम्।
दुःस्वप्नदर्शने जप्यं यद्वै नित्यं समाहितैः ९

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गजेन्द्रमोक्षणं पुण्यं कृष्णस्याक्लिष्टकर्मणः १०

सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ११

क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः १२

अप्सरोभिः समाकीर्णः श्रीमान्प्रस्रवणाकुलः।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः।
विद्याधरैः सपत्निकैः संयतैश्च तपस्विभिः।
मृगैर्द्वीपैर्द्विजैश्चैव वृतः सौवर्णराजतैः।
पुन्नागैः कर्णिकारैश्च पुष्पितैरुपशोभितः १४

चूतनीपकदम्बैश्च चन्दनागरुचम्पकैः।
शालैस्तालैस्तमालैश्च कुटजैश्चार्जुनैस्तथा १५

एवं बहुविधैर्वृक्षैः सर्वतः समलङ्कृतः।
नानाधातूज्ज्वलैः शृङ्गैः प्रस्रवद्भिः समन्ततः १६

मृगैः शाखामृगैः सिंहैर्मातङ्गैश्च सदामदैः।
जीवञ्जीवकसङ्घुष्टं चकोरशिखिनादितम् १७

तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवादरः।
नानापुष्पसमाकीर्णं नानागन्धसमाकुलम् १८

द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः।
पाण्डुराम्बुदसङ्काशं तुषारचयसन्निभम् १९

वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन्नभः।
ऋतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् २०

न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।
नातप्ततपसः शैलं तं वै पश्यन्ति मानवाः २१

तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम्।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् २२

मत्तभ्रमरसङ्घुष्टं फुल्लपङ्कजशोभितम्।
कुमुदोत्पलकल्हारपुण्डरीकोपशोभितम् २३

उत्पलैः शतपत्त्रैश्च काञ्चनैः समलङ्कृतम्।
पत्त्रैर्मणिदलप्रख्यैः पुष्पैः काञ्चनसन्निभैः।
गुल्मैः कीचकवेणूनां समन्तात्परिवारितम् २४

तस्मिन्सरसि दुष्टात्मा विरूपोऽन्तर्जलाशयः।
आसीद्ग्राहो गजेन्द्राणां दुराधर्षो महाबलः २५

अथ दन्तोज्ज्वलमुखः कदाचिद्गजयूथपः।
आजगामासिताभ्राभः करेणुपरिवारितः २६

मदस्रावी महारौद्रः! पादचारीव पर्वतः।
वासयन्मदगन्धेन गिरिमैरावतोपमः २७

स गजोऽञ्जनसङ्काशो मदाच्चलितमानसः।
गन्धहस्तीति विख्यातः सरः समभिगम्य तत्।
तृषितः स जलं प्राप्य कुसुमाकरशीतलम्।
अपिबत्सहसा राजन्करेणुपरिवारितः।
सलीलं पङ्कजवने यूथमध्यगतोऽव्रजत् २८

गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् २९

क्रियते पङ्कजवने ग्राहेणातिबलीयसा।
गजश्चाकर्षते तीरं ग्राहश्चाकर्षते जलम्।
द्वन्द्व महायुद्धं दिव्यवर्षसहस्रिकम्।
वारुणैः संयतः पाशैर्निःप्रयत्नगतिः कृतः।
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ३०

विस्फुर्ज्य च यथाशक्ति विक्रुश्य च महारवान्।
व्यथितः सन्निरुत्साहो गृहीतो घोरकर्मणा ३१

परमापदमापन्नो मनसाचिन्तयद्धरिम्।
स तु नागवरः श्रीमान्नारायणपरायणः ३२

तमेव परमं देवं गतः सर्वात्मना तदा।
एकाग्रं चिन्तयामास विशुद्धेनान्तरात्मना ३३

जन्मजन्मान्तराभ्यासाद्भक्तिमान्गरुडध्वजे।
आद्यं देवं महात्मानं पूजयामास केशवम् ३४

नवमेघप्रतीकाशं शङ्खचक्रगदाधरम्।
सहस्रशुभनामानमादिदेवमजं परम् ३५

दिग्बाहुं सर्वमूर्धानं भूपादं गगनोदरम्।
आदित्यचन्द्रनयनं समग्रं लोकसाक्षिणम्।
भगवन्तं प्रसन्नोऽहं विष्णुमप्रतिमौजसम्।
प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम्।
आपद्विमोक्षमन्विच्छन्गजः स्तोत्रमुदैरयत् ३६

गजेन्द्रउवाच।
ॐ नमो मूलप्रकृतये अजिताय महात्मने १

अनाश्रिताय देवाय निःस्पृहाय नमो नमः २

नम आद्याय बीजाय शिवाय च प्रशान्ताय ३

आर्षेयाय प्रवर्तिने निश्चलाय यशस्विने ४

अनन्तराय चैकाय सनातनाय पूर्वाय ५

अव्यक्ताय नमो नमः पुराणाय नमो नमः ६

नमो गुह्याय गूढाय ७

गुणायागुणवर्तिने ८

अतर्क्यायाप्रमेयाय ९

अनन्ताय नमो नमः १०

नमो देवातिदेवाय ११

अप्रभाय नमो नमः १२

नमो जगत्प्रस्थिताय गोविन्दाय नमो नमः १३

नमोऽस्तु पद्मनाभाय साङ्ख्ययोगोद्भवाय च १४

विश्वेश्वराय देवाय शिवाय हरये नमः १५

नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने १६

नारायणाय विश्वाय देवानां परमात्मने १७

नमो नमः कारणवामनाय नारायणायामितविक्रमाय।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ३७

आद्याय वेदनिलयाय महोदराय।
सिंहाय दैत्यनिधनाय चतुर्भुजाय।
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय।
देवोत्तमाय वरदाय नमोऽच्युताय ३८

नागेन्द्रभोगशयनासनसुप्रियाय।
गोक्षीरहेमशुकनीलघनोपमाय।
पीताम्बराय मधुकैटभनाशनाय।
विश्वाय चारुमुकुटाय नमोऽक्षराय।
भक्तिप्रियाय वरदीप्तसुदर्शनाय ३९

नाभिप्रजातकमलस्थचतुर्मुखाय।
क्षीरोदकार्णवनिकेतयशोधनाय।
नानाविचित्रमुकुटाङ्गदभूषणाय।
सर्वेश्वराय वरदाय नमो वराय ४०

विश्वात्मने परमकारणकारणाय।
फुल्लारविन्दविमलायतलोचनाय।
देवेन्द्रदानवपरीक्षितपौरुषाय।
योगेश्वराय विजयाय नमो वराय ४१

लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय।
धर्मायनायैकजलायनाय महावराहाय सदा नतोऽस्मि ४२

अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम्।
युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ४३

योगेश्वरं चारुविचित्रमौलिमाज्ञेयमौख्यं प्रकृतेः परस्थम्।
क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये।
अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मविदः सुरेशम्।
वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ४४

यदक्षरं ब्रह्म वदन्ति सर्वगं।
निशाम्य यं मृत्युमुखात्प्रमुच्यते।
तमीश्वरं तृप्तमनोपमैर्गुणैः।
परायणं विष्णुमुपैमि शाश्वतम् ४५

कार्यं क्रियाकारणमप्रमेयं हिरण्यनाभं वरपद्मनाभम्।
महाबलं वेदनिधिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ४६

विचित्रकेयूरमहार्हनिष्कं रत्नोत्तमालङ्कृतसर्वगात्रम्।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ४७

भवोद्भवं वेदविदां वरिष्ठं।
योगात्मानं साङ्ख्यविदां वरिष्ठम्।
आदित्यचन्द्राश्विवसुप्रभावं।
प्रभुं प्रपद्येऽच्युतमात्मभूतम् ४८

श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम्।
प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम् ४९

प्रभवं सर्वलोकानां निर्गुणं परमेश्वरम्।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ५०

भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम्।
शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ५१

त्रिविक्रमं त्रिलोकेशमाद्यमेकमनामयम्।
भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ५२

आदिदेवमजं शम्भुं व्यक्ताव्यक्तं जनार्दनम्।
क्षेत्रज्ञं पुरुषं यज्ञं त्रिगुणातीतमव्ययम्।
नारायणमणीयांसं प्रपद्ये परमेश्वरम् ५३

एकाय लोकत्रयाय परतः परमात्मने।
नमः सहस्रशिरसे अनन्ताय महात्मने ५४

वरेण्यमनघं देवमृषयो वेदपारगाः।
कीर्तयन्ति च यं सर्वे तं प्रपद्ये सनातनम् ५५

नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद।
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ५६

भीष्म उवाच।
भक्तिं तस्यानुसञ्चिन्त्य नागस्यामोघसंस्तवम्।
प्रीतिमानभवद्राजञ्शङ्खचक्रगदाधरः।
सान्निध्यं कल्पयामास तस्मिन्सरसि माधवः ५७

ग्राहग्रस्तं गजं तं च सङ्गृह्य सलिलाशयात्।
उज्जहाराप्रमेयात्मा तरसैवारिसूदनः ५८

स्थलस्थं दारयामास ग्राहं चक्रेण माधवः।
मोक्षयामास च गजं पाशेभ्यः शरणागतम् ५९

स हि देवलशापेन हूहू गन्धर्वसत्तमः।
गजत्वमगमत्कृष्णान्मोक्षं प्राप्य दिवं गतः।
शापाद्विमुक्तः सद्यश्च गजो गन्धर्वतां गतः ६०

ग्राहोऽपि यक्षतां यातो यः कृष्णेन निपातितः।
तस्यापि शापमोक्षोऽसौ जैगीषव्यकृतोऽभवत् ६१

प्रीतिमांस्त्राति गोविन्दः सद्यः संसारसागरात्।
क्रुद्धोऽपि निघ्नन्देवत्वमरातीनां प्रयच्छति ६२

तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम्।
गन्धर्वराट्तथा यक्षः परां निर्वृतिमागतौ ६३

इदं चैव महाबाहो देवदेवोऽभ्यभाषत।
दृष्ट्वा मुक्तौ गजग्रहौ भगवान्मधुसूदनः ६४

यो ग्राहं नागराजं च मां चैव प्रणिधानवान्।
स्मरिष्यति सरश्चेदं युवयोर्मोक्षणं तथा ६५

गुल्मं कीचकवेणूनां तं च शैलवरं तथा।
अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ६६

संस्मरिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति वापि ये।
न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ६७

सर्वपापैः प्रमोक्ष्यन्ते कल्याणानां च भागिनः।
भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः।
दुःस्वप्नं च नृणां तेषां सुस्वप्नं च भविष्यति ६८

कौर्मं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च।
नारसिंहं तथा रूपं सृष्टिसंहारकारकम् ६९

एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः।
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ७०

भीष्म उवाच।
एवमुक्त्वा तु राजेन्द्रदेवदेवो जनार्दनः।
अस्पृशद्गजगन्धर्वं ग्राहयक्षं च तं तदा ७१

तेन स्पृष्टावुभौ सद्यो दिव्यमाल्याम्बरान्वितौ।
विमानेऽभिमते प्राप्य जग्मतुस्त्रिदशालयम् ७२

ततो देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम्।
ऋषिभिः स्तूयमानो हि गुह्यैर्वेदपदाक्षरैः।
गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिः प्रभुः ७३

गजेन्द्रमोक्षणं दृष्ट्वा सर्वे चेन्द्रपुरोगमाः।
ब्रह्माणमग्रतः कृत्वा सर्वे प्राञ्जलयोऽभवन्।
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम्।
विस्मयोत्फुल्लनयनाः प्रजापतिपुरःसराः।
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः।
प्राप्नुयात्परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति।
गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रमोचनम्।
श्रावयेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ७५

श्रद्धया हि कुरुश्रेष्ठ स्मृतेन कथितेन च।
गजेन्द्रमोक्षणेनेह दीर्घमायुरवाप्नुयात् ७६

मया ते कथितं दिव्यं पवित्रं पापनाशनम्।
कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम् ७७

शौनक उवाच।
कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम्।
गजेन्द्रमोक्षणं श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः।
भीष्माद्भगीरथीपुत्रात्पूजयामास केशवम् ७८

ये चापि पाण्डुपुत्रस्य समीपस्था द्विजोत्तमाः।
तेऽपि भीष्मस्य पार्श्वस्थं वासुदेवं प्रणेमिरे ७९

वरं वरेण्यं वरपद्मनाभं।
नारायणं ब्रह्मनिधिं सुरेशम्।
तं देवगुह्यं पुरुषं पुराणं।
ववन्दिरे ब्रह्मविदां वरिष्ठम् ८०

एतत्पुण्यं महाराज नराणां पापकर्मणाम्।
दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते।
भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः ८१

तथा त्वमपि राजेन्द्रप्रपद्य शरणं हरिम्।
विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ८२

इति विष्णुधर्मेषु गजेन्द्रमोक्षणस्तवः।

अथाष्टषष्टितमोऽध्यायः।
शतानीक उवाच।
महामते महाप्राज्ञ सर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम १

मरणे यज्जपञ्जप्यं यच्च भावं अनुस्मरन्।
परं पदमवाप्नोति तन्मे वद महामुने २

शौनक उवाच।
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकभावनम्।
पुरा नारायणं देवं नारदः पर्यपृच्छत ३

नारद उवाच।
भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः।
कथं भक्तैर्विचिन्त्योऽसि मरणे प्रत्युपस्थिते ४

किं वा जप्यं जपेन्नित्यं कल्यमुत्थाय मानवः।
स्वपन्विबुध्यन्ध्यायंश्च तन्मे ब्रूहि सनातन ५

श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाक्यविशारदः।
प्रोवाच भगवान्विष्णुर्नारदं जगतो गतिः ६

भगवानुवाच।
हन्त ते कथयिष्यामि मुने दिव्यामनुस्मृतिम्।
मरणे यामनुस्मृत्य प्राप्नोति परमां गतिम् ७

ॐकारमादितः कृत्वा मामनुस्मृत्य मन्मनाः।
एकाग्रप्रयतो भूत्वा इदं मन्त्रमुदीरयेत् ८

अव्यक्तं शाश्वतं देवमनन्तं पुरुषोत्तमम्।
प्रपद्ये प्राञ्जलिर्विष्णुमच्युतं परमेश्वरम् ९

पुराणं परमं विष्णुमद्भुतं लोकभावनम्।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् १०

लोकनाथं प्रपन्नोऽस्मि अक्षरं परमं पदम्।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ११

स्रष्टारं सर्वभूतानामनन्तबलपौरुषम्।
पद्मनाभं हृषीकेशं पपद्ये सत्यमव्ययम् १२

हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम्।
आभास्वरमनाद्यन्तं प्रपद्ये भास्करद्युतिम् १३

सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम्।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् १४

नारायणं नरं हंसं योगात्मानं सनातनम्।
शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम् १५

यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम्।
चराचरगुरुर्देवः स नो विष्णुः प्रसीदतु १६

यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः पितामहः।
प्रसीदतु स नो विष्णुः पिता माता पितामहः १७

यः पुरा प्रलये प्राप्ते नष्टे लोके चराचरे।
एकस्तिष्ठति योगात्मा स नो विष्णुः प्रसीदतु १८

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यांस नो विष्णुः प्रसीदतु।
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम्।
गुणाकरः स नो बभ्रुर्वासुदेवः प्रसीदतु १९

योगावास नमस्तुभ्यं सर्वावास वरप्रद।
यज्ञगर्भ महाभाग पञ्चयज्ञ नमोऽस्तु ते २०

चतुर्मूर्ते जगद्धाम लक्ष्म्यावास वरप्रद।
सर्वावास नमस्तेऽस्तु साक्षिभूत जगत्पते २१

अजेय खण्डपरशो विश्वमूर्ते वृषाकपे।
त्रिगर्ते पञ्चकालज्ञ नमस्ते ज्ञानसागर २२

अव्यक्तादण्डमुत्पन्नमव्यक्ताद्यः परः प्रभुः।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः २३

चिन्तयन्तो हि यं नित्यं ब्रह्मेशाआदयः प्रभुम्।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः २४

जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः २५

एकांशेन जगत्सर्वं योऽवष्टभ्य विभुः स्थितः।
अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः २६

दिवाकरस्य सौम्यं हि मध्ये ज्योतिरवस्थितम्।
क्षेत्रज्ञमिति यं प्राहुः स महात्मा प्रसीदतु २७

अव्यक्तमनवस्थानो दुर्विज्ञेयः सनातनः।
आस्थितः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु २८

क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं बहुभिर्गुणैः।
मनोगुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु २९

साङ्ख्या योगाश्च ये चान्ये सिद्धाश्चैव महर्षयः।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ३०

नमस्ते सर्वतोभद्रसर्वतोऽक्षिशिरोमुख।
निर्विकार नमस्तेऽस्तु साक्षिभूत हृदि स्थित।
अतीन्द्रिय नमस्तुभ्यं लिङ्गेभ्यस्त्वं प्रमीयसे ३१

ये तु त्वां नाभिजानन्ति संसारे संसरन्ति ते।
रागद्वेषविनिर्मुक्तं लोभमोहविवर्जितम्।
अशरीरं शरीरस्थं समं सर्वेषु देहिषु ३२

अव्यक्तं बुद्ध्यहङ्कारौ महाभूतेन्द्रियाणि च।
त्वयि तानि न तेषु त्वं तेषु त्वं तानि न त्वयि ३३

स्रष्टा भोक्तासि कूटस्थो गुणानां प्रभुरीश्वरः।
अकर्ता हेतुरहितः प्रभुः स्वात्मन्यवस्थितः ३४

नमस्ते पुण्डरीकाक्ष पुनरेव नमोऽस्तु ते।
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते।
भक्तानां यद्धितं देव तद्ध्याय त्रिदशेश्वर ३५

मा मे भूतेषु संयोगः पुनर्भवतु जन्मनि।
अहङ्कारेण बुद्ध्या वा तथा सत्त्वादिभिर्गुणैः ३६

मा मे धर्मो ह्यधर्मो वा पुनर्भवतु जन्मनि।
विषयैरिन्द्रियैर्वापि मा मे भूयात्समागमः ३७

पृथिवीं यातु मे घ्राणं यातु मे रसना जलम्।
चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम् ३८

शब्दो ह्याकाशमभ्येतु मनो वैकारिकं तथा।
अहङ्कारश्च मे बुद्धिं त्वयि बुद्धिः समेतु च ३९

वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत्।
सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ४०

निष्केवलं पदं चैव प्रयामि परमं तव।
एकीभावस्त्वयैवास्तु मा मे जन्म भवेत्पुनः ४१

नमो भगवते तस्मै विष्णवे प्रभविष्णवे।
त्वन्मनस्त्वद्गतपृआणस्त्वद्भक्तस्त्वत्परायणः।
त्वामेवानुस्मरे देव मरणे प्रत्युपस्थिते ४२

पूर्वदेहकृता ये मे व्याधयस्ते विशन्तु माम्।
आर्दयन्तु च दुःखानि प्रविमुञ्चामि यदृणम् ४३

उपतिष्ठन्तु मे रोगा ये मया पूवसञ्चिताः।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ४४

अहं भगवतस्तस्य मम चासौ सुरेश्वरः।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ४५

नमो भगवते तस्मै येन सर्वमिदं ततम्।
तमेव च प्रपन्नोऽस्मि मम यो यस्य चाप्यहम् ४६

इमामनुस्मृतिं नित्यं वैष्णवीं पापनाशनीम्।
स्वपञ्जाग्रत्पठेद्यस्तु त्रिसन्ध्यं वापि यः स्मरेत् ४७

मरणे चाप्यनुप्राप्ते यस्त्विमां समनुस्मरेत्।
अपि पापसमाचारः सोऽपि याति परां गतिम् ४८

अर्चयन्नपि यो देवं गृहे वापि बलिं ददेत्।
जुह्वदग्निं स्मरेद्वापि लभते स परां गतिम् ४९

पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः।
श्रावयेच्छ्रद्दधानंस्तु ये चान्ये मामुपाश्रिताः ५०

नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः।
तस्य स्युरक्षया लोकाः श्वपाकस्यापि नारद ५१

किं पुनर्ये यजन्ते मां साधवो विधिपूर्वकम्।
ध्यायन्ति च यथान्यायं ते यान्ति परमां गतिम् ५२

अश्वमेधसहस्राणां यः सहस्रं समाचरेत्।
नासौ तत्पदमाप्नोति मद्भक्तैर्यदवाप्यते ५३

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये।
सर्वमेतद्विनाशान्तं ज्ञाअस्यान्तो न विद्यते ५४

तस्मात्प्रदेयं साधुभ्यो धर्म्यं सत्त्वाभयङ्करम्।
दानादीन्यन्तवन्तीह मद्भक्तो नान्तमश्नुते ५५

यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम्।
कृत्स्नां वा पृथिवीं दद्यान्न तु तुल्यं कथञ्चन ५६

कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु सम्भ्रमे।
दस्युभिः सन्निरुद्धश्च नामभिर्मां प्रकीर्तयेत् ५७

वराहो रक्षतु जले विषमेषु च वामनः।
रामो रामश्च रामश्च त्रायन्तां दस्युदोषतः।
अटव्यां नारसिंहस्तु सर्वतः पातु केशवः ५८

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ५९

जन्मान्तरसहस्राणि तपोज्ञानसमाधिभिः।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते।
गत्वा गत्वा निवर्तने चन्द्रसूर्यादयो ग्रहाः।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः।
न वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमं पवित्रम्।
न वासुदेवात्परमस्ति दैवतं न वासुदेवं प्रणिपत्य सीदति।
तस्मान्मामेव देवर्षे ध्यायस्वातन्द्रितः सदा।
अवाप्स्यसि ततः सिद्धिं पदं द्रक्ष्यसि च ध्रुवम् ६०

शौनक उवाच।
एवं स देवदेवेन नारदः प्रतिबोधितः।
चकार केशवे भक्तिं तस्मात्त्वं कुरु भूपते ६१

यः पठेत्परया भक्त्या स गच्छेद्विष्णुसाम्यताम्।
एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ६२

इति विष्णुधर्मेषु अनुस्मृतिः।

अथैकोनसप्ततितमोऽध्यायः।
शतानीक उवाच।
पापं प्रणश्यते येन पुण्यं येन विवर्धते।
यज्जपन्सुगतिं याति शृण्वंश्च मम तद्वद १

शौनक उवाच।
कश्चिदासीद्द्विजद्रोग्धा पिशुनः क्षत्रियाधमः।
परपीडारुचिर्दुष्टः स्वभावादेव निर्घृणः २

परिभूताः सदा तेन पितृदेवद्विजातयः।
परदारेषु चैवास्य बभूवाभिरतं मनः ३

त्वायुषि परिक्षीणे जज्ञे घोरो निशाचरः।
तेन वै कर्मदोषेण स्वेन पापकृतां वरः ४

क्रूरैरेव ततो वृत्तिं राक्षसत्वे विशेषतः।
चकार कर्मभिः पापः सर्वप्राणिविहिंसकः ५

तस्य पापरतस्यैवं जग्मुर्वर्षशतानि वै।
तेन वै कर्मदोषेण नान्या वृत्तिररोचत ६

यद्यत्पश्यति सत्त्वं स तत्तदादाय राक्षसः।
चखाद पुरुषव्याघ्र बाहुगोचरमागतम् ७

एवं तस्यातिदुष्टस्य कुर्वतः प्राणिनां वधम्।
जगाम सुमहान्कालः परिणामं तथा वयः ८

स ददर्श तपस्यन्तं तापसं संश्रितव्रतम्।
ऊर्ध्वबाहुं महाभागं कृतरक्षं समन्ततः ९

तं दृष्ट्वा स तु दुर्बुद्धिर्ब्राह्मणं राक्षसाधमः।
समभ्यधावद्वेगेन समादातुं चिखादिषुः १०

तेन रक्षा च या दिक्षु ब्राह्मणेनाभवत्कृता।
तया निरस्तं तद्रक्षो निपपाताविदूरतः ११

शतानीक उवाच।
भगवन्कीदृशीं रक्षां स चकार द्विजोत्तमः।
यया निर्धूतवीर्योऽसौ निरस्तो रजनीचरः १२

शौनक उवाच।
एकाग्रचित्तो गोविन्दे तज्जपंस्तत्परायणः।
तपश्चचार विप्रोऽसौ प्रविष्टो विष्णुपञ्जरम् १३

शतानीक उवाच।
विष्णुपञ्जरमिच्छामि श्रोतुं धर्मभृतां वर।
सदा सर्वभयेभ्यस्तु रक्षा या परमाभवत् १४

शौनक उवाच।
त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरः।
शङ्करस्य कुरुश्रेष्ठ रक्षणाय निरूपितः १५

वागीशेन तु शक्रस्य बलं हन्तुं प्रयास्यतः।
तस्य रूपं प्रवक्ष्यामि तन्निबोध महीपते १६

विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे १७

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः।
क्रोडरूपी हरिर्भूमौ नरसिंहोऽम्बरे मम १८

क्षुरान्तममलं चक्रं भ्रमत्येतत्सुदर्शनम्।
अस्यांशुमाला दुःप्रेक्षा हन्तु प्रेतनिशाचरान् १९

गदा चेयं सहस्रार्चिरुद्वमत्पावकोल्वणा।
रक्षोभूतपिशाचानां डाकिणीनां च नाशनी २०

शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य मद्रिपून्।
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन्हन्त्वशेषतः २१

खड्गधाराज्वलज्ज्योत्स्नानिर्धूता ये समाहताः।
ते यान्तु सौम्यतं सद्यो गरुडेनेव पन्नगाः २२

ये कूष्माण्डास्तथा यक्षा ये दैत्या ये निशाचराः।
प्रेता विनायकाः क्रूरा मनुष्या जम्भकाः खगाः २३

सिंहादयो ये पशवो दन्दसूकाश्च पन्नगाः।
सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः २४

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः।
बलौजसां च हर्तारश्छायाविभ्रंशकाश्च ये २५

ये चोपभोगहर्तारो ये च लक्षणनाशकाः।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररयाहताः २६

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् २७

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणगश्चास्तु जनार्दनो हरिः।
तदीड्यमीशानमनन्तमीश्वरं जनार्दनं प्रणिपतितो न सीदति २८

यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरूपश्च स एव केशवः।
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममाशुभम् २९

इति विष्णुधर्मेषु विष्णुपञ्जरस्तवः।

अथ सप्ततितमोऽध्यायः।
शौनक उवाच।
इत्यसावात्मरक्षार्थं न्यस्तवान्विष्णुपञ्जरम्।
तेनासाध्यः स दुष्टानां बभूव नृप रक्षसाम् १

एतयारक्षया रक्षो निर्धूतं भुवि पातितम्।
जप्यावसाने विप्रोऽसौ ददर्श विगतौजसम् २

दृष्ट्वा च कृपयाविष्टः समाश्वास्य निशाचरम्।
पप्रच्छागमने हेतुं तं चाचष्ट यथातथम्।
कथयित्वा च तत्सर्वं राक्षसः पुनरब्रवीत् ३

प्रसीद विप्रवर्य त्वं निर्विण्णस्यातिपापिनः।
पापप्रशमनायालमुपदेशं प्रयच्छ मे ४

बहूनि पापानि मया कृतानि बहवो हताः।
कृताः स्त्रियश्च मे बह्व्यो विधवा हतपुत्रिकाः।
अनागसां च सत्त्वानामनेकानां क्षयः कृतः ५

सोऽहमिच्छामि विप्रर्षे प्रसादात्तव सुव्रत।
पापस्यास्य क्षयं कर्तुं कुरु मे धर्मदेशनाम् ६

ब्राह्मण उवाच।
कथं क्रूरस्वभावस्य सतस्तव निशाचर।
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ७

राक्षस उवाच।
त्वामत्तुमागतः क्षिप्तो रक्षया कृतया त्वया।
तत्संस्पर्शाच्च मे ब्रह्मन्साध्वेतन्मनसि स्थितम् ८

का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम्।
किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितं परम् ९

स कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह।
यथा पापापनोदो मे भवत्यार्य तथा कुरु १०

इत्येवमुक्तः स मुनिः सदयस्तेन रक्षसा।
प्रत्युवाच महाभाग विमृश्य सुचिरं तदा ११

ब्राह्मण उवाच।
यत्त्वमात्थोपदेशार्थं निर्विण्णः स्वेन कर्मणा।
युक्तमेतन्न पापानां निवृत्तेरुपकारकम् १२

करिष्ये यातुधानानां न त्वहं धर्मदेशनाम्।
तांस्त्वं पृच्छ द्विजान्सौम्य ये वै प्रवचने रताः १३

एवमुक्त्वा ययौ विप्रश्चिन्तामाप च राक्षसः।
कथं पापापनोदः स्यादित्यसौ व्याकुलेन्द्रियः १४

न तदा खादते सत्त्वान्क्षुधा सम्पीडितोऽपि सन्।
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् १५

स कदाचित्क्षुधाविष्टः पर्यटन्विपिने वने।
ददर्शाथ फलाहारमग्रतः कौशिकं द्विजम् १६

तं जग्राह च भक्षार्थं षष्ठे काले बुभुक्षितः।
गुरोरर्थे फलाहारमागतं ब्रह्मचारिणम् १७

गृहीतो रक्षसा तेन स तदा मुनिदारकः।
निराशो जीविते प्राह सामपूर्वं निशाचरम् १८

ब्राह्मण उवाच।
भो भद्रमुख यत्कार्यं गृहीतोऽहमिह त्वया।
तद्ब्रवीहि यथातत्त्वमयमस्म्यनुशाधि माम् १९

राक्षस उवाच।
षष्ठे काले ममाहारः क्षुधितस्य त्वमागतः।
निःशूकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः २०

ब्राह्मण उवाच।
यद्यवश्यं त्वयाध्याहं भक्षणीयो निशाचर।
आयास्यामि तदद्यैव निवेद्य गुरवे फलम् २१

गुरुमूले तदागत्य यत्फलग्रहणं कृतम्।
ममात्र निष्ठां प्राप्तस्य तत्पापाय निवेदितम् २२

स त्वं मुहूर्तमात्रं मामत्रैव प्रतिपालय।
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् २३

राक्षस उवाच।
षष्ठे काले न मे ब्रह्मन्कश्चिद्ग्रहणमागतः।
प्रमुच्यते निबोधैतदिति मे पापजीविकाम् २४

एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तम्।
मुञ्चाम्यहमसन्दिग्धं यदि तत्कुरुते भवान् २५

ब्राह्मण उवाच।
गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम्।
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम २६

राक्षस उवाच।
मया निसर्गतो ब्रह्मञ्जातिदोषाद्विशेषतः।
निर्विवेकेन पापेन पापं कर्म सदा कृतम् २७

आ बाल्यान्मम पापेषु न पुण्येषु रतं मनः।
तत्पापसञ्चयान्मोक्षं प्राप्नुयां येन तद्वद २८

यानि पापानि कर्माणि बालत्वाच्चरितानि मे।
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज २९

यद्येतद्द्विजपुत्र त्वं ममाख्यास्यस्यशेषतः।
तत्क्षुधार्तात्समार्तस्त्वं नियतं मोक्षमाप्स्यसि ३०

न चैतत्पापशीलोऽहमद्य त्वां क्षुत्पिपासितः।
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ३१

शौनक उवाच।
एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा।
चिन्तामवाप महतीमशक्तस्तदुदीरितुम् ३२

विमृश्य सुचिरं विप्रः शरणं जातवेदसम्।
जगाम ज्ञानदानाय संशयं परमं गतः ३३

यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषणादनु।
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ३४

न मातरं न पितरं गौरवेण यथा गुरुम्।
यथाहमवगच्छामि तथा मां पातु पावकः ३५

यथा गुरुं न मनसा कर्मणा वचसापि वा।
अवजानाम्यहं तेन पातु सत्येन पावकः ३६

शौनक उवाच।
इत्येवं शपथान्सत्यान्कुर्वतस्तस्य तत्पुनः।
सप्तार्चिषा समादिष्टा प्रादुरासीत्सरस्वती।
सा चोवाच द्विजसुतं राक्षसग्रहणाकुलम् ३७

मा भैर्द्विजसुताहं त्वां मोक्षयाम्यतिसङ्कटात् ३८

यदस्य रक्षसः श्रेयो जिह्वाग्रेऽहं स्थिता तव।
तत्सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ३९

अदृश्या रक्षसा तेन प्रोक्त्वेत्थं तं सरस्वती।
अदर्शनमिता सोऽपि द्विजः प्राह निशाचरम् ४०

श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम्।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ४१

प्राअरुत्थाय सततं मध्याह्नेऽह्नः क्षयेऽपि वा।
अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ४२

हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम्।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ४३

विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम्।
प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ४४

विष्णुमच्युतमीशानमनन्तमपराजितम्।
प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ४५

चराचरगुरुं नाथं गोविन्दं शेषशायिनम्।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ४६

गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम्।
प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ४७

शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम्।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ४८

दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम्।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ४९

नारायणं नरं शौरिं माधवं मधुसूदनम्।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ५०

केशवं केशिहन्तारं कंसारिष्टनिसूदनम्।
प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ५१

श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम्।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ५२

यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम्।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ५३

समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम्।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ५४

सर्वगं सर्वभूतं च सर्वस्याधातमीश्वरम्।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ५५

परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ५६

पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम्।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ५७

ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम्।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ५८

ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः।
सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ५९

ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम्।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ६०

यः पाति सृष्टं च विभुः स्थितावसुरसूदनः।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६१

धृता मही हता दैत्याः परित्रातास्तथामराः।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ६२

यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम्।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६३

वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६४

कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत्।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ६५

पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः।
तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ६६

सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत्।
यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ६७

सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ६८

समस्तदेवाः सकला मानुषाणां च जातयः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ६९

वृक्षगुल्मादयो यस्य तथा पशुमृगादयः।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ७०

यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि।
यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ७१

यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च।
विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ७२

यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम्।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ७३

प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ७४

यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ७५

तिष्ठता व्रजता यच्च शय्यासनगतेन च।
कृतं यदशुभं कर्म कायेन मनसा गिरा ७६

अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात्।
तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ७७

परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत्।
परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ७८

यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु।
तद्यातु विलयं तोये यथा लवणभाजनम् ७९

यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम।
वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ८०

तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात्।
प्रयातु विलयं तोये यथा लवणभाजनम् ८१

विष्णवे वासुदेवाय हरये केशवाय च।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ८२

इदं सारस्वतं स्तोत्रमशेषाघविनाशनम्।
पठतां शृण्वतां चैव सर्वपापविनाशनम् ८३

इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम्।
जपत्येकमनाः पापं समस्तं स व्यपोहति ८४

यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः।
जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ८५

शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा।
कृतं तेन तु यत्पापं सप्त जन्मान्तराणि वै ८६

महापातकमल्पं वा तथा यच्चोपपातकम्।
सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ८७

विप्राय सुविशिष्टाय तिलपात्राणि षोडश।
अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ८८

अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ८९

यथैनं पठति नित्यं स्तवं सारस्वतं पुमान्।
अपि पापसमायुक्तो मोक्षं प्राप्नोत्यसावपि।
यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा।
राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ९०

एवमुच्चारिते मुक्तः स तदा तेन रक्षसा।
अकामेन द्विजो भूयस्तमाह रजनीचरम् ९१

एतद्भद्रमुखाख्यातं तव पातकनाशनम्।
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ९२

हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता।
जगादेमं स्तवं विष्णोः सर्वपापप्रशान्तिदम् ९३

अनेनैव जगन्नाथं त्वमाराधय केशवम्।
ततः पापापनोदं तु स्तुते प्राप्स्यसि केशवे ९४

अहर्निशं हृषीकेशं स्तवेनानेन राक्षस।
स्तौहि भक्तिं परां कृत्वा ततः पापाद्विमोक्ष्यसे ९५

स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम्।
भक्त्या राक्षसशार्दूल सर्वपापहरो हरिः ९६

शौनक उवाच।
ततः प्रणम्य तं विप्रं प्रसाद्य च निशाचरः।
शालग्रामं महाराज तदैव तपसे ययौ ९७

तत्राहर्निशमेवैतज्जपञ्जप्यं नराधिप।
देवक्रियारतिर्भूत्वा तपस्तेपे स राक्षसः ९८

आराध्य च जगन्नाथं स तत्र पुरुषोत्तमम्।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ९९

तथा त्वमपि राजर्षे सर्वपापप्रशान्तिदम्।
आराधय हृषीकेशं जपन्सारस्वतं स्तवम् १००

य एतत्परमं स्तोत्रं वासुदेवस्य मानवः।
पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति १०१

इति विष्णुधर्मेषु सारस्वतस्तवः।

अथैकसप्ततितमोऽध्यायः।
शतानीक उवाच।
ब्रह्मन्नसारे संसारे रोगादिव्याप्तमानसः।
शब्दादिलुब्धः पुरुषः किं कुर्वन्नावसीदति १

शौनक उवाच।
स्वे महिम्नि स्थितं देवमप्रमेयमजं विभुम्।
शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न सीदति २

अप्राणचितिकं ब्रह्म वेदान्तेषु प्रकाशितम्।
आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति ३

अशनाद्यैरसंस्पृष्टं सेवितं योगिभिः सदा।
सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ४

धामत्रयविनिर्मुक्तं सुप्रभातं सुनिर्मलम्।
निष्कलं शाश्वतं देवं विष्णुं ध्यायन्न सीदति ५

क्षराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम्।
अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति ६

अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः।
ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति ७

अतुलं सुखधर्माणं व्योमदेहं सनातनम्।
धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ८

व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः।
अर्चितं भावकुसुमैर्विष्णुं ध्यायन्न सीदति ९

विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम्।
यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसात्म्यताम् १०

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम्।
पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम् ११

इति विष्णुधर्मेषु विष्ण्वष्टकम्।

अथ द्विसप्ततितमोऽध्यायः।
शतानीक उवाच।
कुर्वन्भक्तिं हृषीकेशे मानवो भृगुनन्दन।
निर्वाणं समवाप्नोति यादृशं तद्वदस्व मे १

दृश्यन्ते पुरुषा भक्तिमुद्वहन्तो जनार्दने।
तथाप्यनेकदेहार्तिमनस्तापातुरा मुने २

स्मृतमात्रः सुरेन्द्रस्य योऽर्तिहा मधुसूदनः।
तस्यापि कर्माभिरता दुःखभाजः कथं नराः ३

कैश्च दानैर्जगत्स्वामी स्वामी नारायणो नृणाम्।
उपकाराय भक्तानां जायते स महामुने ४

शौनक उवाच।
त्वद्युक्तोऽयमनुप्रश्नो महाराज शृणुष्व तम्।
यथा पृष्टमिदं सम्यक् कथ्यमानं यथाखिलम् ५

पृथिवीं रत्नसम्पूर्णां यः कृष्णाय प्रयच्छति।
तस्याप्यन्यमनस्कस्य सुलभो न जनार्दनः ६

नाराध्यतेऽच्युतो दानैर्न होमैर्भाववर्जितैः।
ऐकात्म्यं पुरुषैर्याति तन्मयैरेव माधवः ७

श्रूयते च पुराख्यातो राजोपरिचरो वसुः।
इयाज सुबहून्यज्ञाञ्श्रद्धापूतेन चेतसा ८

स विप्रशापाद्राजर्षिः कस्मिंश्चित्कारणान्तरे।
आकाशचारी सहसा प्रविवेश रसातलम् ९

रसातलमनुप्राप्तस्तथापि जगतः प्रभुम्।
तुष्टाव तन्मयो भूत्वा दिव्यैर्मन्त्रैर्जनार्दनम् १०

देवानामेष यज्ञांशैर्यज्वी पक्षविवर्धनः।
चेदिराडिति दैत्यानां मतिरासीद्रसातले ११

अनेन विविधैर्यज्ञैस्तर्पितस्त्रिदशेश्वरः।
जघान दैत्यान्वध्योऽयं प्राप्तोऽस्मद्गोचरं रिपुः १२

इति सम्मन्त्र्! य ते दैत्याश्चेदिराजजिघांसवः।
तत्समीपमनुप्राप्ता गृहीतविविधायुधाः १३

परमामर्षसंयुक्तास्ततस्ते चेदिपुङ्गवम्।
हन्तुं न शेकुः शस्त्रैस्तु यत्नवन्तोऽपि पार्थिवम् १४

स चापि वसुरासीनः केशवार्पितमानसः।
जजाप मन्त्रमॐकारं प्रणवं द्वादशाक्षरम् १५

ददर्श च स विश्वेशं ध्यानावस्थितमानसः।
कृत्वान्यविषयत्यागि चित्तमत्यन्तनिश्चलम् १६

प्रागीशमक्षरं ध्यानं ज्ञानं ज्ञेयं जगद्गुरुम्।
सञ्चिन्त्य वासुदेवाख्यमनिर्देश्यं परायणम् १७

ततोऽन्तर्यामिरुपेण प्राकृतेन च संस्थितम्।
ब्रह्मविष्णुशिवानां च स्वरूपैः संस्थितं त्रिधा १८

पुनश्च देवगन्धर्वसिद्धादिमनुजादिषु।
स्थावरान्तेषु भूतेषु सर्वेष्वेव समास्थितम् १९

दिक्ष्वम्बरधराभूभृत्तोयवाय्वनलादिषु।
दृश्यादृश्येषु चैवेशं चिन्तया आस पार्थिवः २०

सर्वत्र दृष्ट्वा तं देवमात्मन्यपि च सर्वगम्।
सर्वं च तन्मयं दृष्ट्वा विरराम समाधितः २१

इन्द्रियाणीन्द्रियार्थेषु पूर्ववत्स नराधिपः।
विनिवेश्य ततोऽपश्यदसुरानुद्यतायुधान् २२

तान्स दृष्ट्वा गृहीतार्घ्य एकैकस्यैव पार्थिवः।
पाद्यपूर्वेण विधिना पूजयामास भक्तिमान् २३

प्रसादं कुरु भद्रंवो भगवाञ्जगतः पतिः।
वासुदेवो भवान्प्राप्तो ममानुग्रहकाम्यया २४

इत्येवं चेदिराजोऽसावेकैकस्य च दानवान्।
पूजयामास पाद्यादि निवेद्य वचसा तथा २५

तेऽपि तं चेदिराजानं पप्रच्छुरसुरास्तदा।
क्व वासुदेवोऽत्र वयं प्राप्ता दाक्षायणीसुताः २६

इत्येवं वदतो दैत्यान्स जगाद पुनर्वसुः।
प्रणामनम्रो राजेन्द्रसर्वदर्शी महामतिः २७

वासुदेवो जगत्सर्वं यच्चेङ्गं यच्च नेङ्गति।
ब्रह्मादिषु तृणान्तेषु स एवैको जगद्गुरुः २८

अहं भवन्तो देवाद्या मनुष्याः पशवश्च ये।
तेऽपि देवा जगद्धातुर्व्यतिरिक्ता न केशवात् २९

तेनैव माया वितता वैष्णवी भिन्नदर्शनी।
आ स्वाङ्गेषु देवोऽसौ प्रदर्शयति सर्वशः ३०

तद्यूयमहमन्ये च यच्च स्थावरजङ्गमम्।
वासुदेवात्मकं सर्वमिति मत्वा नमोऽस्तु वः ३१

इत्युक्तास्तेन ते दैत्या न शक्ता मनुजेश्वरम्।
यत्नवन्तोऽपि तं हन्तुं प्रययुः स्वानथालयान् ३२

ततः पुरोहितं सर्वे काव्यं नीतिविशारदम्।
समेत्य ते यथावृत्तं सर्वमस्मै न्यवेदयन् ३३

असुरा ऊचुः।
अस्माकमत्यन्तरिपुरयं प्राप्तो रसातलम्।
देवानामुपकृद्ब्रह्मन्यज्वा चेदिपतिर्वसुः ३४

अस्मत्पक्षक्षयायैष देवानां पक्षवर्धनः।
तत्र यत्प्रतिपत्तव्यं तन्नो ब्रूहि महामते ३५

शुक्र उवाच।
स्वगोचरमरिः प्राप्तः शत्रुपक्षोपकारकः।
न हन्तव्य इतीदं को नीतिमान्प्रवदिष्यति ३६

तस्मात्प्रगृह्य दिव्यानि सर्वास्त्राण्यमरार्दनाः।
निपातयत तं गत्वा चेदिराजं स्वगोचरे ३७

असुरा ऊचुः।
सर्वमेतन्महाभाग तस्मिन्नस्माभिरुद्यतैः।
कृतं न शकितो हन्तुं निर्यत्नोऽपि हि पार्थिवः ३८

किं तद्योगफलं तस्य किं वा जपफलं मुने।
तपसो वा मुनिश्रेष्ठ विस्तरात्तद्वदस्व नः ३९

शुक्र उवाच।
नित्यं सञ्चिन्तयत्येष योगयुक्तो जनार्दनम्।
सास्य रक्षा परा मन्ये को हिनस्त्यच्युताश्रयम् ४०

कीर्तितः संस्मृतो ध्यातः पूजितः संस्तुतस्तथा।
ऐहिकामुष्मिकीं रक्षां करोति भगवान्हरिः ४१

यद्दुर्लभं यदप्राप्यं मनसो यन्न गोचरे।
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ४२

शरीरारोग्यमर्थांश्च भोगांश्चैवानुषङ्गिकान्।
ददाति ध्यायतां नित्यमपवर्गप्रदो हरिः ४३

यदिदं चेदिराजानं हन्तुमिच्छथ दानवाः।
तदस्य केशवाच्चित्तमुपायेनापनीयताम् ४४

शौनक उवाच।
ततस्ते तद्वचः श्रुत्वा दानवाः कुरुपुङ्गव।
ब्रह्मरूपप्रतिच्छन्ना जग्मुर्यत्र स्थितो वसुः ४५

ददृशुस्ते महात्मानं प्रणतं चेदिपुङ्गवम्।
कृतपूजं जगद्धातुर्वासुदेवस्य पार्थिवम् ४६

संस्तुतावुद्यतं शान्तं सर्वत्र समदर्शिनम्।
कृष्णार्पितमनोवृत्तिं जानुभ्यामवनिङ्गतम् ४७

ततः संशृण्वतां तेषां तुष्टाव मधुसूदनम्।
तन्नामस्मरणोद्भूतपुलकश्चेदिपुङ्गवः ४८

शतानीक उवाच।
जगाद यं स राजर्षिः स्तवं कृष्णस्य शौनक।
शृण्वतां दानवेन्द्राणां तन्मे पापहरं वद ४९

शौनक उवाच।
शृणु यद्देवदेवस्य विष्णोरद्भुतकर्मणः।
स्तोत्रं जगाद राजासौ रसातलतलं गतः ५०

वसुरुवाच।
स्तौमि देवमजं नित्यं परिणामविवर्जितम्।
अवृद्धिक्षयमीशानमच्युतं परतः परम् ५१

कल्पनाकृतनामानमनिर्देश्यमजं विभुम्।
मूलहेतुमहेतुं त्वां वासुदेवं नमाम्यहम् ५२

परमार्थपरैरीशश्चिन्त्यते यः प्रजाकरैः।
तं वासुदेवमीशेशं नमाम्यद्य गुणं परम् ५३

यस्मादिदं यत्र चेदमिदं यो विश्वमव्ययम्।
तं वासुदेवममलं नमामि परमेश्वरम् ५४

ज्ञेयं ज्ञातारमजरं भोक्तारं प्रकृतेः प्रभुम्।
पुरुषस्वरूपिणं देवं नतोऽस्मि पुरुषं परम् ५५

प्रधानादिविशेषान्तस्वरूपमजमव्ययम्।
स्थूलसूक्ष्ममयं सर्वंव्यापिनं तं नमाम्यहम् ५६

स्रष्टा पालयिता चान्ते यश्च संहारकारकः।
त्रयीमयं तं त्रिगुणं नतोऽस्मि पुरुषोत्तमम् ५७

आब्रह्मस्थावरान्ते च यो जगत्यत्र संस्थितः।
व्यक्तरूपी च तं देवं नतोऽहं विष्णुमव्ययम् ५८

नमो नमोऽस्तु ते देव जगतामीश्वरेश्वर।
परमार्थ पराचिन्त्य विधातः परमेश्वर ५९

त्वमादिरन्तो मध्यं च जगतोऽस्य जगत्पते।
जगत्त्वयि जगच्च त्वं जगत्त्वत्तो जगन्मय ६०

तवाग्निरासं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे।
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ६१

यद्भूगतं यद्गगनान्तराले यद्वा नभस्यखिललोकगं च।
यत्स्थूलं सूक्ष्मं परतस्ततोऽपि यदस्ति यन्नास्ति च तत्त्वमीश ६२

वेदाश्च वेद्यं च भगवाननन्तो वेदान्तवेद्यश्च समस्तहेतो।
वदन्ति तत्त्वा मुनयः परेशं त्वयि प्रसन्ने परमार्थदृश्ये ६३

नमो हृषीकेश तवाप्रमेय नमश्च तुभ्यं परमार्थसार।
विष्णो नमस्तेऽस्तु परापरेश कृष्णाच्युतानन्त जगन्निवास ६४

नमोऽस्तु तुभ्यं परमेश्वराय नमस्तथान्तःकारणस्थिताय।
प्रधानभूताय नमश्च तुभ्यं व्यक्तस्वरूपेण च संस्थिताय ६५

संहृत्य विश्वं जलशायिने नमो नमश्च ते कैटभसूदनाय।
स्वनाभिपद्मोदरशायिने च ब्रह्मस्वरूपोपनताय चैव ६६

स्रष्ट्रे नमः पालयित्रे स्थितौ च सर्वेश तुभ्यं पुरुषोत्तमाय।
रुद्राय चान्ते क्षयहेतवे ते नतोऽस्मि संहारकराय विष्णो ६७

जय प्रपन्नार्तिहराप्रमेय जयाग्निवस्वश्विमय प्रजेश।
रुद्रेन्द्रचन्द्रस्तुत देवदेव जयामराणामरिशातनाय ६८

जितं त्वया सर्वग सर्वसारं सर्वात्मभूताखिल वेदवेद्य।
जितं जिताक्षामलचित्तदृश्य चराचराधार धराधरेड्य ६९

यज्ञाश्रयो यज्ञपुमानशेष देवेश मर्त्यासुरयज्ञभोक्तः।
त्वमीड्यमानोऽभिमतं ददासि धराधरेशाच्युत वासुदेव ७०

नमस्ते देवदेव त्वं यथा पास्यखिलं जगत्।
स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर ७१

कृष्णाच्युत हृषीकेश सर्वभूतेश केशव।
महात्मंस्त्राहि मां भक्तं वासुदेव प्रसीद मे ७२

शौनक उवाच।
इति स्तोत्रावसाने तं चेदिराजं ततोऽसुराः।
जहसुः सतलाक्षेपं प्रोचुश्च द्विजरूपिणः ७३

प्राज्ञः किल प्रजापालश्चेदिराट्संश्रुतो भुवि।
तसस्य ज्ञानमखिलं विपरीतार्थमीदृशम् ७४

क्व वासुदेवः क्व भवानिमामन्त्यां दशां गतः।
यो भवान्विप्रशापेन रसातलतलाश्रयः ७५

भविष्यति स्मृतो देवस्त्राता किल तवाच्युतः।
योऽसावाप्याय्यते विप्रैरध्वरेषु हविःस्रवैः ७६

योऽन्यत्रस्त्राणकामो वा यज्ञभागमभीप्सते।
स त्राता तव गोविन्दो भविष्यत्यतिविस्मयः ७७

यदा त्वं भगवद्भक्तो विप्रशापान्निपातितः।
तदा स वासुदेवस्ते क्व गतोऽल्पश्रुतोऽव्ययः ७८

न वासुदेवो न हरिर्न गोविन्दो न केशवः।
शापं ददत्सु विप्रेषु परित्राणपरो भवेत् ७९

स त्वमार्तप्रलापेभ्यो विरमाद्य यदीच्छसि।
कुबुद्धिमेतां सन्त्यज्य स्वपौरुषपरो भव ८०

न वयं पुण्डरीकाक्षं नानन्तं नाच्युतं हरिम्।
संश्रिता न च सीदामः स्वपौरुषमुपाश्रिताः ८१

यद्यस्मद्वचनं वीर न मोहेन विशङ्कसे।
तदाश्रयस्व स्वं वीर्यं परित्यज्य विमूढताम् ८२

इत्युदीरितमाकर्ण्य स तेषां चेदिपुङ्गवः।
अज्ञानपटलच्छन्नान्हृदयेन शुशोच तान् ८३

उवाच चेदिराजो वै हृदये कृतमत्सरः।
अहो मोहोऽयमेतेषामहङ्कारसमुद्भवः।
येन सर्वेश्वरे विष्णावेतेषामावृता मतिः ८४

प्रकाशं च स तानाह दानवान्प्रीतिपूर्वकम्।
पापतस्तत्परित्राणं चिकीर्षुर्वसुधाधिपः ८५

मैवं भो भगवद्भक्तिं कुरुध्वं द्विजसत्तमाः।
संसाराब्धौ मनुष्याणामेकः पोतो जनार्दनः ८६

यूयं वयं तथैवान्ये तस्य सर्वे विभूतयः।
ब्रह्मादिस्थावरान्तं हि तस्य देवस्य विस्तृतिः ८७

सुखदुःखमयो नॄणां विपाकः कर्मणां च यः।
संशुद्धिहेतुः स्वच्छन्दात्सोऽपि विप्राः प्रवर्तते ८८

परीक्षां च जगन्नाथः करोत्यदृढचेतसाम्।
नराणामर्थविध्वंसनिकाशेषु जनार्दनः ८९

अल्पयत्नेन चायान्ति विमुक्तिं केशवाश्रयात्।
तद्विघाताय शक्राद्या यतन्ते विघ्नहेतुभिः ९०

यदा जनार्दने भक्तिं वहन्सीदति मानवः।
निर्विण्णचेताः शैथिल्यं मनसः कुरुते तदा ९१

देवानां महती शङ्का भक्तियुक्ता जनार्दने।
मुक्तिभाजो भविष्यन्तीत्यतस्ते परिपन्थिनः ९२

प्रायो भवन्ति गोविन्दे भक्तिव्याघातहेतवः।
विघ्नाश्चित्तविघाता हि विमुक्तिपरिपन्थिनः ९३

सत्यं शतेन विघ्नानां सहस्रेण तथा तपः।
विघ्नायुतेन गोविन्दे नॄणां भक्तिर्निवार्यते ९४

स्वं चापि कर्म पुरुषः शुभाशुभमुपागतम्।
भुङ्क्ते किमत्र देवस्य गर्ह्यते येन केशवः ९५

मर्यादां च कृतां तेन यो भिनत्ति स मानवः।
न विष्णुभक्तो मन्तव्यः साधु धर्मार्चनो हरिः ९६

न पुष्पैर्न च धूपेन नोपहारानुलेपनैः।
तोषं प्रयाति गोविन्दः स्वकर्माभ्यर्चितो यथा ९७

ब्राह्मणा देवदेवेन मुखात्सृष्टा महात्मना।
देवानामपि सम्पूज्य भूमिदेवा द्विजोत्तमाः।
अनुवृत्तिः सदा कार्या तेषां वर्णैरनुव्रतैः ९८

ते पूज्यास्ते नमस्कार्यास्तोषणीयाश्च यत्नतः।
तेषु तुष्टेष्वशेषाणां देवानां प्रीतिरुत्तमा ९९

तेषां मया यदज्ञानाज्ज्ञानाद्वा कृतमप्रियम्।
तेनापि तुष्ट एवाहं विष्णोरंशा द्विजोत्तमाः १००

क्रियावान्मम पोतोऽयं भूतलाद्यो रसातले।
पतितस्यातिभीमेऽस्मिन्दुरुत्तारे भवार्णवे १०१

रसातलतलोत्तारं न हि वाञ्छाम्यहं द्विजाः।
संसारगर्तादुत्तारं वृणोम्याराधनाद्धरेः १०२

यथाहं नाभिवाञ्छामि भोगानाराध्य केशवम्।
तेन सत्येन विष्णुर्मे सर्वदोषान्व्यपोहतु १०३

यथा न माता न पिता नात्मा न सुहृदः सुताः।
कृष्णालापात्प्रियतरास्तथा मां पातु केशवः १०४

यथा विष्णुमयं सर्वमेतत्पश्याम्यहं जगत्।
तथा मम मनोदोषानशेषान्स व्यपोहतु १०५

जाता विष्णुविलोमेषु भवत्स्वपि दया मम।
यथा तेनाद्य सत्येन भवन्तः सन्तु तन्मयाः १०६

यथा नाहं भवद्द्वेषान्न संहर्षाद्ब्रवीम्यहम्।
कृपयैव तथा सर्वे भवन्तः सन्तु तन्मयाः १०७

यो यो न भक्तो गोविन्दे तत्र तत्र कृपा यथा।
ममारिवर्गेऽपि तथा भक्तिर्वोऽस्तु जनार्दने १०८

एवमुच्चारिते तेषां दैत्यानां तत्क्षणात्तथा।
तस्मिन्राजन्यभून्मैत्री तथान्येषु च जन्तुषु १०९

देवदेवेऽप्यभूद्भक्तिर्भावो नष्टस्तथासुरः।
स्वरूपधारिणश्चैनं प्रणम्यासुरपुङ्गवाः।
प्रत्यूचुः पार्थिवं विष्णुभक्तं सद्ब्रह्मचारिणम् ११०

चेदिभूपाल भद्रंते भवतोऽतुलविक्रम।
संसारे त्वत्समैः सङ्गः पुण्यभाजां प्रवर्तते १११

वयं स्वजातिदोषेण देवपक्षविरोधिनः।
भवन्तमागता हन्तुं देवप्रीणनतत्परम् ११२

यदा न शक्तितो हन्तुमस्माभिस्त्वं निरायुधः।
विष्णुध्यानमहारक्षाषान्तरगतः प्रभो ११३

त्याजयद्भिस्तथा भक्तिं केशवादिति दर्शितम्।
वैफल्यमतिपुण्येषु विष्णुशुश्रूषणा नृणाम् ११४

स त्वं देवातिदेवस्य विष्णोरमिततेजसः।
अनुग्राह्यो यथा तेयमच्युते निश्चला मतिः ११५

दिष्ट्या क्रोधाभिभूतानामस्माकं त्वन्निवर्हणे।
मतिर्जाता यतः प्राप्ता त्वत्सङ्गाद्दुर्लभा मतिः ११६

कुरुष्व च प्रसादं त्वं प्रणतानां नरेश्वर।
शत्रावपि कृपाशीलं यन्नो दुष्टमभून्मनः ११७

दिशां वैमल्यं विमलं चक्षुषश्चोपपादितम्।
भवता दुष्टतां एतामासुरीमपमार्जता ११८

दुष्टाः स्म वर्षपूगानि यद्यातानि वृथैव नः।
विषयाक्षिप्तचित्तानां कृष्णे भक्तिमकुर्वताम् ११९

कर्मभूमौ मनुष्याणां तदेव विफलं दिनम्।
यदच्युतकथालापध्यानार्चारहितं गतम् १२०

इत्युक्त्वा तेऽसुरा भूयः प्रसाद्य च तथा वसुम्।
विष्णौ भक्तिपरा यातास्तीव्रसंयोगिनोऽलयन् १२१

स चापि चेदिराट्तस्माद्देवदेवेन चक्रिणा।
पातालादुद्धृतः पश्चात्संसारगहनादपि १२२

इत्येतत्सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
यथावसीदन्ति नरा भक्तिमन्तोऽपि केशवे १२३

दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी।
तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुकी १२४

इत्येतदसुरैः सार्धं संवादं यः पुरा वसोः।
पठिष्यत्यखिलं भक्त्या स तल्लोकमुपैष्यति १२५

इति विष्णुधर्मेषु वस्वसुरसंवादः।

अथ त्रिसप्ततितमोऽध्यायः।
शतानीक उवाच।
जगत्प्रभुं देवदेवमशेषेशं जनार्दनम्।
प्रणिपत्याहमेतं त्वां यत्पृच्छामि तदुच्यताम् १

यैरुपायैः प्रदानैर्वा नराणाममरार्चितः।
प्रीतिमान्पुण्डरीकाक्षो भवत्याचक्ष्व तन्मम २

शौनक उवाच।
ये स्वधर्मे स्थिता वर्णा विप्राद्याः कुरुनन्दन।
विधर्मेषु न वर्तन्ते प्रीतिमांस्तेषु केशवः ३

ब्रह्मचारिगृहस्थाद्या न च्यवन्त्याश्रमाच्च ये।
स्वधर्मतो हरिस्तेषां प्रीतिमानेव सर्वदा ४

ये न दम्भेन वर्तन्ते नरा भूतेष्वलोलुपाः।
त्यक्तग्राम्यादिसङ्गाश्च तेषु प्रीतिः परा हरेः ५

दातारो नापहर्तारः परस्वानाममायिनः।
ये नरास्तेषु गोविन्दः पुत्रेष्विव सदा हितः ६

येषां नराणां न मतिर्जिह्वा वासत्यमुज्झति।
ते प्रिया वासुदेवस्य ये च द्विजपरायणाः ७

कर्मणा मनसा वाचा ये न हिंसानुवर्तिनः।
ते नरा वासुदेवस्य आः पाण्डुकुलोद्वह ८

सर्वदेवेषु ये विष्णुं सर्वभूतेष्ववस्थितम्।
मन्यन्ते वासुदेवस्य ते प्रियाः पुत्रवत्सदा ९

ब्रह्माद्यं स्थावरान्तं च भूतग्रामं जनार्दनात्।
ये च पश्यन्त्यभेदेन ते विष्णोः सततं प्रियाः १०

देववेदद्विजातीनां निन्दायां ये न मानवाः।
प्रीतिभाजो भवन्तीष्टास्ते सदा शार्ङ्गधन्विनः ११

प्रियाणामथ सर्वेषां देवदेवस्य स प्रियः।
आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी १२

तस्मात्प्रियत्वं कृष्णस्य वाञ्छता निजधर्मजैः।
गुणैरात्मा सदा योज्यो न दूरे गुणिनो हरिः १३

येषां न गृद्धिः पारक्ये दारे द्रव्ये च चेतसः।
हिंसायां च मनुष्याणां ते कृष्णेनावलोकिताः १४

वेदाः प्रमाणं स्मृतयो येषां सन्मार्गसेविनाम्।
परोपकारसक्तानां ते कृष्णेनावलोकिताः १५

कलिकल्मषदोषेण येषां नोपहता मतिः।
पाषण्डानुगता नैव ते कृष्णेनावलोकिताः १६

येषां क्लेशो गुरोरर्थे देवविप्रोद्भवोऽपि वा।
न विवित्सासमुद्भूतस्ते कृष्णेनावलोकिताः १७

स्वपन्तः संस्थिता यान्तस्तिष्ठन्तश्च जनार्दनम्।
ये चिन्तयन्त्यविरतं ते कृष्णेनावलोकिताः १८

यथात्मनि तथापत्ये येषां अद्रोहिणी मतिः।
समस्तसत्त्वजातेषु ते कृष्णेनावलोकिताः १९

देवपूजामनुदिनं गुरुविप्रार्थसत्क्रियाम्।
ये कुर्वन्ति नरा विद्धि ते कृष्णेनावलोकिताः २०

सुवर्णं रत्नमथवा पारक्यं विजने वने।
विलोक्य नैति यो लोभं तं अवैहि हरेः प्रियम् २१

देवान्पितॄंस्तथापन्नानतिथीञ्जामयोऽध्वगान्।
यो बिभर्ति विजानीहि तं नरं भगवत्प्रियम् २२

न क्रोधमेति क्रुद्धेभ्यः सहते यो निराक्रियाम्।
तं विजानीहि भर्तव्यं देवदेवस्य शार्ङ्गिनः २३

परलोकप्रतीकारकरणाय सदोद्यमम्।
कुर्वन्नालक्ष्यतामेति केशवेनावलोकितः २४

नात्मसंस्तवमन्येषां न निन्दां चार्थलिप्सया।
करोति पुरुषव्याघ्र यस्य नारायणो हृदि २५

सर्वभूतदयां सत्यमक्रोधं धर्मशीलताम्।
भजन्ते पुरुषा देवे गोविन्दे हृदये स्थिते २६

न कलौ न परद्रव्ये परदाराश्रिता मतिः।
नराणां जायते राजन्गोविन्दे हृदयस्थिते २७

क्षमां करोति क्रुद्धेषु दयां मूढेषु मानवः।
मुदं च धर्मशीलेषु गोविन्दे हृदये स्थिते २८

यदा बिभेत्यधर्मादेर्धर्मादींश्च यदेच्छति।
तदा कुरुवरश्रेष्ठ नरः कृष्णेन वीक्षितः २९

पुत्रदारगृहक्षेत्रद्रव्यादेर्ममतां नरः।
नायास्यति जगन्नाथे हृषीकेशे पराङ्मुखे ३०

कलौ कृतयुगं तेषां क्लेशास्तेषां सुखाधिकाः।
येषां शरीरग्रहणे हरिशुश्रूषणे मतिः ३१

यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति।
ज्ञेयस्तदा मनुष्येण हृदयेऽस्य हरिः स्थितः ३२

परमार्थे मतिः पुंसामसारे तु भवार्णवे।
कथं भवति राजेन्द्रविष्वक्सेन पराङ्मुखे ३३

श्रद्दधानो दयाशीलः समलोष्टाश्मकाञ्चनः।
परार्थे मानवः कृष्णे प्रसन्ने नृप जायते ३४

वहतोऽपि सदा कृष्णे भक्तिमव्यभिचारिणीम्।
पाणिष्वसमदृग्बुद्धेः सुलभो नैव केशवः ३५

ये दाम्भिका भिन्नवृत्ता ये च धर्मध्वजोच्छ्रयाः।
दुर्लभो भगवान्देवस्तेषां सुयततामपि ३६

कामलोभाश्रितं येषां चित्तं क्रोधादिदूषितम्।
तेषां जन्मसहस्रेऽपि न मतिः केशवाश्रया ३७

हेयां कृष्णाश्रयां वृत्तिं मन्यन्ते हेतुसंश्रिताः।
अवियोपहतज्ञाना येऽज्ञाने ज्ञानमानिनः ३८

वेदवादविरोधेन कूटयुक्तिमपाश्रिताः।
ये केशवस्तद्धृदये न कदाचित्प्रियातिथिः ३९

मानुषं तं मनुष्यत्वे मन्यमानाः कुबुद्धयः।
कर्माणि येऽस्य निन्दन्ति न तेषां निष्कृतिर्नृणाम् ४०

केचिद्वदन्ति तं देवं मनुष्यं चाल्पमेधसः।
तिर्यक्त्वं चापरे विष्णुं मायया तस्य मोहिताः ४१

देवत्वमपि कृष्णस्य यस्य निन्दा महात्मनः।
स्तुतिं तस्य कथं शक्ताः कर्तुमीशस्य मानवाः ४२

व्यापित्वं शाश्वतत्वं च जन्मभावविवर्जितम्।
यदास्य प्रोच्यते कास्य स्तुतिरर्थे तथा स्थितौ ४३

सर्वेश्वरेश्वरः कृष्णः प्रोच्यते यदि पण्डितः।
तथापि स्वल्पमेवोक्तं भूतार्थे कतमा स्तुतिः ४४

आब्रह्मस्तम्बपर्यन्ते संसारे यस्य संस्थितिः।
निन्दापि तस्य न नृभिः कर्तुमीशस्य शक्यते ४५

यदा काणाश्च कूण्ठाश्च मूढो दुर्बुद्धिरातुरः।
सर्वगत्वात्स एवैकस्तदासौ निन्द्यते कथम् ४६

स्रष्टा पालयिता हर्ता जगतोऽस्य जगच्च सः।
यष्टा याजयिता याज्यः स एव भगवान्हरिः ४७

दाता दानं तथादाता कर्ता कार्यं तथा क्रियाः।
हन्ता घातयिता हिंस्यो हार्यं हर्ता च यः स्वयम् ४८

सर्वकारणभूतस्य तस्येशस्य महात्मनः।
कः करोति स्तुतिं विष्णोर्निन्दां वा पृथिवीपते ४९

तस्मात्सर्वेश्वरो विष्णुर्न स्तोतुं न च निन्दितुम्।
शक्यते सर्वभूतत्वाच्चोक्षाचोक्षस्वरूपिणा ५०

स्तुतेः पादाद्यतो नान्यदुत्कृष्टमुपलभ्यते।
तस्याप्युच्चारणेनेशो न स्तोतुं शक्यते हरिः ५१

भूतार्थवादस्तुतये न निन्दायै विधीयते।
यतोऽतः सर्वभूतस्य का निन्दा तस्य का स्तुतिः ५२

येन सर्वात्मना तत्र हृदयं सन्निवेशितम्।
अपि मौनवतस्तस्य सुलभोऽयं जनार्दनः ५३

तस्मात्त्वं कुरुशार्दूल स्वधर्मपरिपालनम्।
कुरु विष्णुं च हृदये सर्वव्यापिनमीश्वरम् ५४

तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु।
विष्णोरेवं प्रियत्वं त्वमाशु यास्यसि पार्थिव ५५

यं स्तुवन्स्तव्यतामेति वन्द्यमानश्च वन्द्यताम्।
तमीश्वरेश्वरं विष्णुं हृदये सन्निवेशय ५६

सम्पूज्य यं पूज्यतमो भवत्यत्र जगत्त्रये।
तमीश्वरेश्वरं विष्णुं हृदये कुरु पार्थिव ५७

स्ववर्णकर्माभिरतः कुरु चित्ते जनार्दनम्।
एष शास्त्रार्थसद्भावः किमुक्तैर्बहुविस्तरैः ५८

यस्मिन्प्रसन्नचित्तस्त्वं यस्मिन्कोपमुपैषि च।
तावुभावपि तद्भूतौ चिन्तयन्सिद्धिमेष्यसि ५९

यत्र यत्र स्थितं चेतः प्रीत्या स्नेहेन वा तव।
तं तं चिन्तय गोविन्दं मनसः स्थैर्यकारणात् ६०

स्वपन्विबुद्ध्यन्नुत्तिष्ठन्स्थितो भुञ्जन्पिबन्व्रजन्।
सर्वगं सर्वकर्तारं विष्णुं सर्वत्र चिन्तय ६१

यथाग्निसङ्गात्कनकमपदोषं प्रजायते।
संश्लिष्टं वासुदेवेन मनुष्याणां तथा मनः ६२

यज्विनो यं नमस्यन्ति यं नमस्यन्ति देवताः।
योगिनो यं नमस्यन्ति तं नमस्यं नमाम्यहम् ६३

इति विष्णुधर्मेषु भक्तिवर्णनम्।

अथ चतुस्सप्ततितमोऽध्यायः।
शौनक उवाच।
भूयश्च शृणु राजेन्द्रयज्जगाद जनार्दनः।
नागपर्यङ्कशयने पृष्टः क्षीराब्धिकन्यया १

पुरा शयानं गोविन्दं प्रावृट्काले महोदधौ।
शेषभोगिमहाभोगे वीच्यम्बुकणशीतले २

वक्षःस्थलस्थिता देवी जगन्माता जगत्पतिम्।
अनन्यासक्तदृष्टिं च किमप्येकाग्रमानसम्।
श्रीवत्सवक्षसं लक्ष्मीः करसंवाहनादृता ३

योगनिद्रावसानस्थमच्युतं जगतः पतिम्।
पप्रच्छ पुण्डरीकाक्षं पुण्डरीककरा हरिम् ४

श्रीरुवाच।
सृष्टं जगदिदं सर्वं बहुशश्चोपसंहृतम्।
त्वया जगत्पते चात्र किं कश्चिद्दयितस्तव ५

देवान्मनुष्यान्गन्धर्वान्यक्षविद्याधरासुरान्।
सृष्ट्वा सृष्टान्निर्घृणत्वादुपसंहरते भवान् ६

कश्चिदेतेषु भूतेषु देवादिषु तवाच्युत।
द्वेषोऽस्ति प्रीतिरथवा समः सर्वत्र वा भवान् ७

भगवानुवाच।
समोऽस्मि सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।
तथापि गुणगृह्योऽहं प्रत्येकहृदयस्थितः ८

अन्तरात्मनि सर्वस्य लोकस्याहमवस्थितः।
पुण्यापुण्यकृतौ तेषु प्रीतिद्वेषौ शुभे मम ९

पुण्यं प्रीत्यनुभावेन साधु बुद्धिषु वर्तते।
द्वेषानुभावेनापुण्यं फलदं तेषु भामिनि १०

श्रूयतां च महाभागे नरेषु शुभचारिषु।
सततं येषु मे प्रीतिस्तथाप्रीतिर्वरानने ११

प्रलयोत्पत्तितत्त्वज्ञा आत्मज्ञानपराश्च ये।
एते स्वकर्मणा भद्रेमम प्रीतिपथं गताः १२

वाङ्मनःकायिकीं हिंसां ये न कुर्वन्ति कुत्रचित्।
सर्वमैत्रा नरा लक्ष्मि दयितास्ते सदा मम १३

स्वकीयद्रव्यसन्तुष्टा निवृत्ताश्चौर्यकर्मणः।
सत्यशीलदयायुक्ता नरा मम सदा प्रियाः १४

मातृस्वसृसुतातुल्यान्परदारांश्च ये नराः।
मन्यन्ते ते च मे लक्ष्मि दृढं प्रियतमाः सदा १५

न कामान्न च संरम्भान्न द्वेषाद्ये च भामिनि।
सन्त्यजन्ति स्वकं कर्म तेऽतीव दयिता मम १६

विश्वास्याः सर्वभूतानामहिंस्राश्च दयालवः।
त्यक्तानृतकथा देवि मनुष्या दयिता मम १७

धर्मलब्धांस्तु ये भोगान्भुञ्जते नातिकीकटाः।
परलोकाविरोधेन ते ममातिप्रिया नराः १८

न लोभे न च कार्पण्ये न स्तेये न च मत्सरे।
येषां मतिर्मनुष्याणां तेऽतीव दयिता मम १९

धर्मलब्धेषु दारेषु ऋतुकालाभिगामिनः।
गृहस्थकर्माभिरता नरास्ते दयिता मम २०

पररन्ध्रेषु जात्यन्धाः परदारेष्वपुंसकाः।
परापवादे ये मूका दयितास्ते नरा मम २१

परापवादं निन्दां च परमर्मावघट्टनम्।
ये न कुर्वन्ति पुरुषास्ते देवि मम वल्लभाः २२

सत्यां श्लक्ष्णां निराबाधां मधुरां प्रीतिदायिनीम्।
ये वाचमीरयन्ति स्म ते मनुष्या मम प्रियाः २३

ये ब्राह्मणार्थे सन्त्यज्य सद्यः स्वमपि जीवितम्।
यतन्ते परया भक्त्या ते देवि दयिता मम २४

साक्षाद्देवमिवायान्तं या पतिं नित्यमर्चति।
पादशौचादिभिर्नारी तस्या नाहं सुदुर्लभः २५

पूर्णचन्द्रमिवोद्यतं भर्तारं या गृहागतम्।
हृष्टा पश्यति तां विद्धि दयितां योषितं मम २६

ते भक्ता ये सदा विप्रान्पूजयन्त्यब्धिसम्भवे।
यथाविभवतो भक्त्या स्वकर्माभिरता नराः २७

श्रुतिस्मृत्युदितं धर्मं मनसापि न ये नराः।
समुल्लङ्घ्य प्रवर्तन्ते ते भक्ता मम भामिनि २८

ब्रह्मरूपधरस्यास्यान्मम वेदा विनिःसृताः।
मन्वादिरूपिणश्चैव समस्ताः स्मृतयः स्मृताः २९

श्रुतिः स्मृतिर्ममैवाज्ञा तामुल्लङ्घ्य यजेच्छुभे।
सर्वस्वेनापि मां देवि नाप्नोत्याज्ञाविघातकृत् ३०

यः स्वधर्मान्न चलति हिंसाधौ यो न सज्यते।
वहतस्तस्य मद्भक्तिं सदैवाहं न दुर्लभः ३१

एतद्देवि मयाख्यातं यत्पृष्टोऽहमिह त्वया।
प्रियाणां मम सर्वेषां शृणु योऽतितरं प्रियः ३२

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च वरवर्णिनि।
स्वधर्मादचलन्देवि दयावान्सर्वजन्तुषु ३३

सत्यवाच्छौचसम्पन्नो न द्रोही न च मत्सरी।
वाङ्मनःकर्मभिः शान्तो दयितः सततं मम ३४

शौनक उवाच।
एवं श्रीर्देवदेवेन प्रागुक्ता हरिमेधसा।
तवापि हि नरश्रेष्ठ यथावत्कथितं मया ३५

संवादमेतद्देवस्य सह लक्ष्म्या जगत्पतेः।
यः शृणोति स पापेभ्यः समस्तेभ्यः प्रमुच्यते ३६

इति विष्णुधर्मेषु वासुदेवश्रीसंवादः।

अथ पञ्चसप्ततितमोऽध्यायः।
शतानीक उवाच।
भूयोऽखिलं जगद्धातुर्वासुदेवस्य भार्गव।
सम्यगाराधनायालं क्रियायोगं ब्रवीहि मे १

यत्फलं केशवस्यार्चां प्रतिष्ठाप्य लभेन्नरः।
यच्च देवकुलं विष्णोः कारयित्वा फलं लभेत् २

यद्दीपधूपपुष्पाणां गन्धानां च निवेदने।
ध्वजादिदाने यत्पुण्यं यत्पुण्यं गीतवादिते ३

तथा पवित्रपठने जयशब्दाद्युदीरणे।
सम्मार्जनादौ यत्पुण्यं नमस्कारे प्रदक्षिणे ४

शीर्णस्फुटितसंस्कारकरणे चापि यत्फलम्।
तन्मे विस्तरतः सर्वं भगवन्वक्तुमर्हसि ५

यैश्चोपवासैर्भगवान्नरैराराध्यते हरिः।
तेषां फलं च यत्कृत्स्नं तन्ममाचक्ष्व विस्तरात् ६

शौनक उवाच।
सङ्क्षेपात्पूर्वमेवैतद्भवतः कथितं मया।
विस्तरेण महाराज श्रूयतां ब्रुवतो मम ७

अदितिर्नाम देवानां माता परमदुश्चरम्।
तपश्चचार वर्षाणां सहस्रं पृथिवीपते ८

आराधनाय कृष्णस्य वाग्यता वायुभोजना।
दैत्यैर्निराकृतान्दृष्ट्वा तनयान्कुरुनन्दन ९

वृथापुत्राहमस्मीति निर्वेदात्प्रणता हरिम्।
तुष्टाव वाग्भिरिष्टाभिः परमार्थावबोधिनी।
शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम्।
देवदैत्यनृपश्वापव्योमवाय्वादिरूपिणम् १०

अदितिरुवाच।
नमः स्मृतार्तिनाशाय नमः पुष्करमालिने।
नमः परमकल्याणकल्याणायादिवेधसे ११

नमः पङ्कजनेत्राय नमः पङ्कजनाभये।
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये १२

श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे।
नमः शङ्खासिहस्ताय नमः कनकरेतसे १३

तथात्मज्ञानविज्ञानयोगचित्तात्मयोगिने।
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे १४

जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने १५

यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः।
अपश्यद्भिर्जगद्यच्च दृश्यते स्वहृदि स्थितः १६

बहिर्ज्योतिषि लक्ष्यो यो लक्ष्यते ज्योतिषः परः।
यस्मिन्नेतद्यतश्चैतद्यश्चैतदखिलं जगत्।
तस्मै समस्तजगतामाधाराय नमो नमः १७

आद्यः प्रजापतिपतिर्यः पितॄणां परः पतिः।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे १८

यः प्रवृत्तैर्निवृत्तैश्च कर्मभिर्विभुरिज्यते।
स्वर्गापवर्गफलदो नमस्तस्मै गदाधृते १९

यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे २०

यं प्रविश्याखिलाधारमीशानमजमव्ययम्।
न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् २१

यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंस्थितिः।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् २२

गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः।
यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः २३

यतो विश्वं समुद्भूतं यस्मिंश्च लयमेष्यति।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने २४

ब्रह्मादिस्तम्बपर्यन्तं विना येन ततामिमाम्।
मायां नालं समुत्तर्तुं तमुपेन्द्रंनमाम्यहम् २५

यमाराध्य विशुद्धेन मनसा कर्मणा गिरा।
हरत्यविद्यामखिलां तमुपेन्द्रंनमाम्यहम्।
विषादतोषरोषाद्यैर्योऽजस्रं सुखदुःखजैः।
नृत्यत्यखिलभूतस्थस्तमुपेन्द्रंनमाम्यहम्।
योऽन्नतोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् २६

मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः।
रात्रिजं सूर्यरूपी च तमुपेन्द्रंनमाम्यहम् २७

कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः।
हन्ति ज्ञानप्रदानेन तमुपेन्द्रंनमाम्यहम् २८

यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम्।
पश्येते कर्म सततं तमुपेन्द्रंनमाम्यहम् २९

यस्मिन्सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम्।
नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ३०

यथैतत्सत्यमुक्तं मे भूयश्चातो जनार्दनः।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ३१

शौनक उवाच।
एवं स्तुतोऽथ भगवान्वासुदेव उवाच ताम्।
अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ३२

भगवानुवाच।
मनोरथांस्त्वमदिते यानिच्छस्यभिपूरितान्।
तांस्तान्प्राप्स्यसि धर्मज्ञे मत्प्रसादादसंशयम् ३३

शृणुष्व च महाभागे वरं यस्ते हृदि स्थितः।
तं प्रयच्छामि नियतं मात्र कार्या विचारणा।
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ३४

अदितिरुवाच।
यदि देव प्रसन्नस्त्वं भक्ताया भक्तवत्सल।
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ३५

हृतराज्यो हृतश्चास्य यज्ञभागो महासुरैः।
त्वयि प्रसन्ने वरद तं प्राप्नोतु सुतो मम ३६

हृतं राज्यं न दुःखाय मम पुत्रस्य केशव।
सपत्नादायतिभ्रंशो बाधां नः कुरुते हृदि ३७

भगवानुवाच।
कृतः प्रसादो हि मया तव देवि यथेप्सितः।
स्वांशेन चैव ते गर्भे सम्भविष्यामि कश्यपात् ३८

तव गर्भसमुद्भूतः सुतस्ते ये सुरारयः।
तानहं निहनिष्यामि निर्वृता भव नन्दिनि ३९

अदितिरुवाच।
प्रसीद देवदेवेश नमस्ते विश्वभावन।
नाहं त्वामुदरेणेश वोढुं शक्ष्यामि केशव ४०

यस्मिन्प्रतिष्ठितं विश्वं यो विश्वं स्वयमीश्वर।
तदहं नोदरेण त्वां वोढुं शक्ष्यामि दुर्धरम् ४१

भगवानुवाच।
सत्यमात्थ महाभागे मयि सर्वमिदं जगत्।
प्रतिष्ठितं न मां शक्ता वोढुं सेन्द्रादिवौकसः ४२

किन्त्वहं सकलांल्लोकान्सदेवासुरमानुषान्।
जङ्गमाजङ्गमं सर्वं त्वां च देवि सकाश्यपाम्।
धारयिष्यामि भद्रंते तव गर्भशयोऽदिते ४३

न ते ग्लानिर्न ते खेदो गर्भस्थे भविता मयि।
दाक्षायणि प्रसादं ते करोम्यन्यैः सुदुर्लभम् ४४

गर्भस्थे मयि पुत्राणां तव योऽरिर्भविष्यति।
तेजसस्तस्य हानिं च करिष्ये मा व्यथां कृताः ४५

शौनक उवाच।
एवमुक्त्वा ततः सद्यो गतोऽन्तर्धानमीश्वरः।
सापि कालेन तं गर्भमवाप कुरुसत्तम ४६

गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः।
चकम्पिरे महाशैला जग्मुः क्षोभमथाब्धयः ४७

यतो यतोऽदितिर्यान्ती ददाति ललितं पदम्।
ततस्ततः क्षितिः खेदान्ननाम वसुधाधिप ४८

दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने।
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ४९

इति विष्णुधर्मेष्वदितिस्तवः।

अथ षट्सप्ततितमोऽध्यायः।
शौनक उवाच।
निस्तेजसोऽसुरान्दृष्ट्वा समस्तानसुरेश्वरः।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् १

बलिरुवाच।
तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव २

दुरिष्टं किं नु दैत्यानां किं कृत्या वैरिनिर्मिता।
नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ३

शौनक उवाच।
इत्यासुरवरस्तेन पृष्टः पौत्रेण पार्थिव।
चिरं ध्यात्वा जगादेदमसुरेन्द्रंतदा बलिम् ४

प्रह्लाद उवाच।
चलन्ति गिरयो भूमिर्जहाति सहजां धृतिम्।
सद्यः समुद्राः! क्षुभिता दैत्या निस्तेजसः कृताः ५

सूर्यादयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः।
देवानां च परा लक्ष्मीः कारणैरनुमीयते ६

महदेतन्महाबाहो कारणं दानवेश्वर।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन ७

शौनक उवाच।
इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः।
अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ८

स ध्यानपथगं कृत्वा प्रह्लादः स्वं मनोऽसुरः।
विचारयामास ततो यतो देवो जनार्दनः ९

स ददर्शोदरेऽदित्याः प्रह्रादो वामनाकृतिम्।
अन्तःस्थान्बिभ्रतं सप्त लोकानादिप्रजापतिम् १०

तदन्तश्च वसून्रुद्रानश्विनौ मरुतस्तथा।
साध्यान्विश्वे तथादित्यान्गन्धर्वोरगराक्षसान् ११

विरोचनं सतनयं बलिं चासुरनायकम्।
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् १२

आत्मानमुर्वीगगनं वायुमम्भो हुताशनम्।
समुद्राद्रिद्रुमसरित्सरांसि पशवो मृगान् १३

वयोमनुष्यानखिलांस्तथैव च सरीसृपान्।
समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च १४

ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन्।
सम्पश्यन्विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः १५

प्रह्लादः प्राह दैत्येन्द्रंबलिं वैरोचनिं तदा।
वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम्।
तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः १७

देवदेवो जगद्योनिरयोनिर्जगदादिकृत्।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः १८

परापराणां परमः परः परवतामपि।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः १९

स्थितिं कर्तुं जगन्नाथः सोऽदित्या गर्भतां गतः।
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः २०

न यस्य रुद्रोन च पद्मयोनिर्नेन्द्रोन सूर्येन्दुमरीचिमिश्राः।
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः २१

योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः।
यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः २२

यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः।
यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् २३

भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम्।
लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् २४

न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् २५

रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहीत्री रसना रसस्य।
श्रोत्रं च शब्दग्रहणे नराणां घ्राणं च गन्धग्रहणे नियुक्तम् २६न।
घ्राणचक्षुःश्रवणादिभिर्यः।
सर्वेश्वरो वेदितुमव्ययात्मा शक्यस्तमीड्यं मनसैव देवं।
ग्राह्यं नतोऽहं हरिमीशितारम् २७येनैकदंष्ट्राग्रसमुद्धृतेयं।
धराचला धारयतीह सर्वं ग्रस्त्वा स शेते सकलं जगद्यस्।
तमीड्यमीशं प्रणतोऽस्मि विष्णुम् २८शां!वतीर्णेन च येन गर्भे।
हृआनि तेजांसि महासुराणां नमामि तं देवमनन्तमीशम्।
अशेषसंसारतरोः कुठारम् २९देवो जगद्योनिरयं महात्मा।
स षोडशांशेन महासुरेन्द्रसुरेन्द्रमातुर्जठरं प्रविष्टो।
हृतानि वस्तेन बले वपूंषि ३०

बलिरुवाच।
तात कोऽयं हरिर्नाम यतो न भयमागतम्।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ३१

विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च।
अयःशिरा अश्वशिरा भङ्गकारो महाहनुः ३२

प्रतापी प्रघसः शम्भुः कुर्कुराक्षश्च दुर्जयः।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ३३

महाबला महावीर्या भूभारधरणक्षमाः।
येषामेकैकशः कृष्णो न वीर्यार्धेन सम्मितः ३४

शौनक उवाच।
पौत्रस्यैतद्वचः श्रुत्वा प्रह्रादो दैत्यपुङ्गवः।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ३५

विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ३६

देवदेवं महाभागं वासुदेवमजं विभुम्।
त्वामृते पापसङ्कल्पं कोऽन्य एवं वदिष्यति ३७

य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः।
सब्रह्मकास्तथा देवाः स्थावरान्ताश्च भूतयः ३८

त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीनदम्।
समुद्रद्वीपलोकाश्च यच्चेङ्गं यच्च नेङ्गति ३९

यस्यातिवन्द्यवन्द्यस्य व्यापिनः परमात्मनः।
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ४०

ऋते विनाशाभिमुखं त्वामेकमविवेकिनम्।
दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ४१

शोच्योऽहं यस्य वै गेहे जातस्तव पिताधमः।
यस्य त्वमीदृशः पुत्रो देवदेवावमन्यकः ४२

तिष्ठत्वनेकसंसारसंहृताघविनाशनी।
कृष्णे भक्तिरहं तावदवेक्ष्यो भवतो न किम् ४३

न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः।
इति जानात्ययं लोको भवांश्च दितिजाधमः ४४

जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम।
निन्दां करोषि च कथमकुर्वन्गौरवं मम ४५

विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले।
ममापि सर्वजगतां गुरुर्नारायणो गुरुः ४६

निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ।
यस्मात्तस्मादिहैश्वर्यादचिराद्भ्रशमेष्यसि ४७

मा देवो मा जगन्नाथो बले मासौ जनार्दनः।
भवत्वहमवेक्ष्यस्ते प्रीतिमानत्र मे गुरुः ४८

एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम्।
नापेक्षिता वयं यस्मात्तस्माच्छापं ददामि ते ४९

यथा मे शिरसश्छेदादिदं गुरुतरं बले।
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ५०

यथा न कृष्णादपरं परित्राणं भवार्णवे।
तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ५१

शौनक उवाच।
इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम्।
प्रसादयामास गुरुं प्रणिपत्य पुणः पुनः ५२

बलिरुवाच।
प्रसीद तात मा कोपं कुरु मोहहते मयि।
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ५३

मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम।
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ५४

राज्यभ्रंशं वसुभ्रंशं सम्प्राप्स्यामीति न त्वहम्।
विषण्णोऽस्मि यथा तात तवैवाविनये कृते ५५

त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्।
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ५६

तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप।
त्वत्कोपहेतुदुष्टोऽहं परितप्ये न शापतः ५७

प्रह्लाद उवाच।
वत्स कोपेन मोहो मे जनितस्तेन ते मया।
शापो दत्तो विवेकश्च मोहेनापहृतो मम ५८

यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर।
तत्कथं सर्वगं ज्ञानन्हरिं कञ्चिच्छापाम्यहम् ५९

योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव।
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीदथाः ६०

अद्यप्रभृति देवेशे भगवत्यच्युते हरौ।
भवेथा भक्तिमानीशः स ते त्राता भविष्यति ६१

शापं प्राप्य च मां वीर संस्मरेथाः स्मृतस्त्वया।
तथा तथा यतिष्यामि श्रेयसा योक्ष्यते यथा ६२

एवमुक्त्वा स दैत्येन्द्रोविरराम महामतिः।
अजायत स गोविन्दो भगवान्वामनाकृतिः ६३

अवतीर्णे जगन्नाथे तस्मिन्सर्वमशीशमत्।
यदासुरमभूद्दुःखं देवानामदितेस्तथा ६४

ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः।
धर्मे च सर्वभूतानां तदा मतिरजायत ६५

नोद्वेगश्चाप्यभूद्देहे मनुजानां जनेश्वर।
तथा हि सर्वभूतानां भूम्यम्बरदिवौकसाम् ६६

तं जातमात्रं भगवान्ब्रह्मा लोकपितामहः।
जातकर्मादिकाः कृत्वा क्रियास्तुष्टाव पार्थिव ६७

ब्रह्मोवाच।
जयाद्येश जयाजेय जय सर्वात्मकात्मक।
जय जन्मजरापेत जयानन्त जयाच्युत ६८

जयाजित जयाशेष जयाव्यक्त स्थिते जय।
परमार्थार्थ सर्वज्ञ ज्ञान ज्ञेयात्मनिःसृत ६९

जयाशेषजगत्साक्षिञ्जय कर्तर्जगद्गुरोः।
जगतो जगदन्तेऽन्त स्थितौ पालयिता जय ७०

जयाखिल जयाशेष जयाखिलहृदि स्थित।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ७१

मुमुक्षुभिरनिर्देश्य स्वयन्दृष्ट जयेश्वर।
योगिभिर्मुक्तिफलद दमादिगुणभूषणैः ७२

जयातिसूक्ष्म दुर्ज्ञेय जगत्स्थूल जगन्मय।
जय स्थूलातिसूक्ष्म त्वं जयातीन्द्रिय सेन्द्रिय ७३

जय स्वमायायोगस्थ शेषभोगशयाक्षर।
जयैकदंष्ट्राप्रान्तान्त समुद्धृतवसुन्धर ७४

नृकेसरिञ्जयारातिवक्षःस्थलविदारण।
साम्प्रतं जय विश्वात्मन्मायावामन केशव ७५

निजमायापटच्छन्न जगद्धातर्जनार्दन।
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो ७६

वर्धस्व वर्धितानेकविकारप्रकृते हरे।
त्वय्येषा जगतामीश संस्थिता धर्मपद्धतिः ७७

न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ७८

त्वन्मायापटसंवीते जगत्यत्र जगत्पते।
कस्त्वां वेत्स्यति सर्वेशं त्वत्प्रसादं विना नरः ७९

त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो।
स एव केवलं देव वेत्ति त्वां नेतरो जनः ८०

तदीश्वरेश्वरेशान विभो वर्धस्व भावन।
प्रभावायास्य विश्वस्य विश्वात्मन्पृथुलोचन ८१

शौनक उवाच।
एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः।
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ८२

स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ८३

भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि प्रतिश्रुतम्।
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ८४

सोऽहं तथा करिष्यामि यथेन्द्रोजगतः पतिः।
भविष्यति सहस्राक्षः सत्यमेतद्ब्रवीमि ते ८५

ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्।
यज्ञोपवीतं भगवान्ददौ तस्मै बृहस्पतिः ८६

आषाढमददद्दण्डं मरीचिर्ब्रह्मणः सुतः।
कमण्डलुं वसिष्ठश्च कौश्यं वेदमथाङ्गिराः।
अक्षसूत्रं च पुलहः पुलस्त्यः सितवाससी ८७

उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः।
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः ८८

स वामनो जटी दण्डी छत्त्री धृतकमण्डलुः।
सर्वदेवमयो भूप बलेरध्वरमभ्ययात् ८९

यत्र यत्र पदं भूप भूभागे वामनो ददौ।
ददाति भूमिर्विवरं तत्र तत्रातिपीडिता ९०

स वामनो जडगतिर्मृदु गच्छन्सपर्वताम्।
साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम्।
ततः संशयमापन्नाः सर्वे दैतेयदानवाः ९१

इति विष्णुधर्मेषु वामनस्तवः।

अथ सप्तसप्ततितमोऽध्यायः।
शौनक उवाच।
सपर्वतवनामुर्वीं दृष्ट्वा सङ्क्षुभितां बलिः।
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः १

आचार्य क्षोभमायाति साब्धिभूभृद्धरा मही।
कस्माच्च नासुरान्भागान्प्रतिगृह्णन्ति वह्नयः २

इति पृष्टोऽथ बलिना काव्यो वेदविदां वरः।
उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ३

अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः।
वामनेनेह रूपेण परमात्मा सनातनः ४

स नूनं यज्ञमायाति तव दानवपुङ्गव।
तत्पदन्यासविक्षोभादियं प्रचलिता मही ५

कम्पन्ते गिरयश्चामी क्षुभिता मकरालयाः।
नैनं भूतपतिं भूमिः समर्था वोढुमीश्वरम् ६

सदेवासुरगन्धर्वयक्षराक्षसपन्नगा।
अनेनैव धृता भूमिरापोऽग्निः पवनो नभः।
धारयत्यखिलान्देवमनुष्यादीन्महासुर ७

इयमस्य जगद्धातुर्माया कृष्णस्य गह्वरी।
धार्यधारकभावेन यया सम्पिण्डितं जगत् ८

तत्सन्निधानादसुरा न भागार्हाः सुरद्विषः।
भुञ्जते चासुरान्भागानमी ते न तवाग्नयः ९

बलिरुवाच।
शुक्रस्य वचनं श्रुत्वा हृष्टरोमाब्रवीद्बलिः।
धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम्।
यज्ञमभ्यागतो ब्रह्मन्मत्तः कोऽन्योऽधिकः पुमान् १०

यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम्।
द्रष्टुमिच्छन्ति देवोऽसौ मदध्वरमुपैष्यति ११

होता भागप्रदो यस्य यमुद्गाता च गायति।
तमध्वरेश्वरं विष्णुं मत्तः कोऽन्य उपैष्यति १२

सर्वेश्वरेश्वरे विष्णौ ममाध्वरमुपागते।
यन्मया चार्य कर्तव्यं तन्ममादेष्टुमर्हसि १३

शुक्र उवाच।
यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर।
त्वया तु दानवा दैत्या यज्ञभागभुजः कृताः १४

अयं च देवः सत्त्वस्थः करोति स्थितिपालनम्।
निसृष्टेश्चायमन्ते च स्वयमत्ति प्रजाः प्रभुः १५

त्वयानुबन्धी भविता नूनं विष्णुः स्थितौ स्थितः।
विदित्वैतन्महाभाग कुरु यत्ते मनोगतम् १६

त्वयास्य दैत्याधिपते स्वल्पकेऽपि हि वस्तुनि।
प्रतिज्ञा नैव वोढव्या वाच्यं साम तथाफलम् १७

कृतकृत्यस्य देवस्य देवार्थं चैव कुर्वतः।
नालं दातुं धनं देवेत्येवं वाच्यं तु याचतः।
कृष्णस्य देवभूत्यर्थं प्रवृत्तस्य महासुर १८

बलिरुवाच।
ब्रह्मन्कथमहं ब्रूयामन्येनापि हि याचितः।
नास्तीति किमु देवेन संसाराघौघहारिणा १९

व्रतोपवासैर्विविधैर्यः प्रतिग्राह्यते हरिः।
स चेद्वक्ष्यति देहीति गोविन्दः किमतोऽधिकम् २०

यदर्थमुपहाराढ्या दमशौचगुणान्वितैः।
यज्ञाः क्रियन्ते देवेशः स मां देहीति वक्ष्यति २१

तत्साधु सुकृतं कर्म तपः सुचरितं च नः।
यन्मया दत्तमीशेशः स्वयमादास्यते हरिः २२

नास्तीत्यहं गुरो वक्ष्ये तमप्यागतमीश्वरम्।
यदि तद्वञ्च्यते प्राप्ते नूनमस्मद्विधः फलैः २३

यज्ञेऽस्मिन्यदि यज्ञेशो याचते मां जनार्दनः।
निजमूर्धानमप्यद्य तद्दास्याम्यविचारितम् २४

नास्तीति यन्मया नोक्तमन्येषामपि याचताम्।
वक्ष्यामि कथमायाते तदनभ्यस्तमच्युते २५

श्लाघ्य एव हि धीराणां दानादापत्समागमः।
नाबाधाकारि यद्दानं तदङ्गमलवत्कथम् २६

मद्राज्ये नासुखी कश्चिन्न दरिद्रोन चातुरः।
नातृषितो न चोद्विग्नो न स्रगादिविवर्जितः २७

हृष्टतुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः।
जनः सर्वो महाभाग किमुताहं सदा सुखी २८

एतद्विशिष्टपात्रोत्थं दानबीजफलं मम।
विदितं भृगुशार्दूल मयैतत्त्वत्प्रसादतः २९

एतद्विजानतो दानबीजं पतति चेद्गुरो।
जनार्दने महापात्रे किं न प्राप्तं ततो मया ३०

मत्तो दानमवाप्येशो यदि पुष्णाति देवताः।
उपभोगान्वयगुणं दानं श्लाघ्यतरं ततः ३१

मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः।
तेनाभ्येति न सन्देहो दर्शनादुपकारकृत् ३२

अथ कोपेन वाभ्येति देवभागोपरोधिनम्।
मां निहन्तुमतोऽपि स्याद्वधः श्लाघ्यतरोऽच्युतात् ३३

यन्मयं सर्वमेवेदं नाप्राप्य यस्य विद्यते।
स मां याचितुमभ्येति नानुग्रहमृते हरिः ३४

यः सृजत्यात्मभूः सर्वं चेतसैवापहन्ति च।
स मां हन्तुं हृषीकेशः कथं यत्नं करिष्यति ३५

एतद्विदित्वा तु गुरो दानविघ्नपरेण मे।
नैव भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ३६

शौनक उवाच।
इत्येवं वदतस्तस्य प्राप्तस्तत्र जगपतिः।
सर्वदेवमयोऽचिन्त्यो मायावामनरूपधृक् ३७

तं दृष्ट्वा यज्ञवाटान्तःप्रविष्टमसुराः प्रभुम्।
जग्मुः प्रभावतः क्षोभं तेजसा तस्य निष्प्रभाः ३८

जेपुश्च मुनयस्तत्र ये समेता महाध्वरे।
बलिश्चैवाखिलं जन्म मेने सफलमात्मनः ३९

ततः सङ्क्षोभमापन्नो न कश्चित्किञ्चिदुक्तवान्।
प्रत्येको देवदेवेशं पूजयामास चेतसा ४०

अथासुरपतिं प्रह्वं दृष्ट्वा मुनिवरांश्च तान्।
देवदेवपतिः साक्षाद्विष्णुर्वामनरूपधृक् ४१

तुष्टाव यज्ञं वह्निंश्च यजमानमथ र्त्विजः।
यज्ञकराधिकारस्थान्सदस्यान्द्रव्यसम्पदम् ४२

ततः प्रसन्नमखिलं वामनं प्रति तत्क्षणात्।
यज्ञवाटस्थितं वीरं साधु साध्वित्युदीरयन् ४३

स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा।
पूजयामास गोविन्दं प्राह चेदं वचोऽसुरः ४४

बलिरुवाच।
सुवर्णरत्नसङ्घातं गजाश्वममितं तथा।
स्त्रियो वस्त्राण्यलङ्कारान्गावो ग्रामांश्च पुष्कलान् ४५

सर्वस्वं सकलामुर्वीं भवतो वा यदीप्सितम्।
तद्ददामि वृणुष्व त्वं ममार्थी सततं प्रियः ४६

इत्युक्तो दैत्यपतिना प्रीतिगर्वान्वितं वचः।
प्राह सस्मितगम्भीरं भगवान्वामनाकृतिः ४७

ममाग्निशरणार्थाय देहि राजन्पदत्रयम्।
सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ४८

बलिरुवाच।
त्रिभिः प्रयोजनं किं ते पदैः पदवतां वर।
शतं शतसहस्रं वा पदानां मार्गतां भवान् ४९

वामन उवाच।
एतावता दैत्यपते कृतकृत्योऽस्मि मार्गताम्।
अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ५०

एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः।
वाचयामास तत्तस्मै वामनाय पदत्रयम् ५१

पाणौ तु पतिते तोये वामनो भूतभावनः।
सर्वदेवमयं रूपं दर्शयामास तत्क्षणात् ५२

चन्द्रसूर्यौ च नयने द्यौः शिरश्चरणौ क्षितिः।
पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ५३

विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः।
यक्षा नखेषु सम्भूता रेखास्वप्सरसः स्थिताः ५४

दृष्टिर्धिष्णान्यशेषाणि केशाः सूर्यांशवः प्रभो।
तारका रोमकूपाणि रोमाणि च महर्षयः ५५

बाहवो विदिशस्तस्य दिशः श्रोत्रं महात्मनः।
अश्विनौ श्रवणौ तस्य नासा वायुर्महाबलः ५६

प्रसादश्चन्द्रमा देवो मनो धर्मः समाश्रितः।
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ५७

ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा।
स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ५८

मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः।
हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ५९

पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु।
सर्वसूक्तानि दशना ज्योतींषि विमलप्रभाः ६०

वक्षःस्थले तथा रुद्रोधैर्ये चास्य महार्णवः।
उदरे चास्य गन्धर्वा मरुतश्च महाबलाः।
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ६१

सर्वज्योतींषि यानीह तपश्च परमं महत्।
तस्य देवातिदेवस्य तेजः प्रोद्भूतमुत्तमम् ६२

स्तनौ कुक्षौ च वेदाश्च जानू चास्य महामखाः।
इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ६३

तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महाबलाः।
उपसर्पन्ति दैतेयाः पतङ्गा इव पावकम् ६४

प्रमथ्य सर्वानसुरान्पादहस्ततलैर्विभुः।
कृत्वा रूपं महाकायं स जहाराशु मेदिनीम् ६५

तस्य विक्रमतो भुमिं चन्द्रादित्यौ स्तनान्तरे।
नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ ६६

परं विक्रममाणस्य जानुमूले प्रभाकरौ।
विष्णोरास्तां महीपाल देवपालनकर्मणि ६७

जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान्।
पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ६८

सुतलं नाम पातालमधस्ताद्वसुधातलात्।
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ६९

अथ दैत्येश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः ७०

यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया।
कल्पप्रमाणं तस्मात्ते भविष्यत्यायुरुत्तमम् ७१

वैवस्वते तथातीते बले मन्वन्तरे ततः।
सावर्णके च सम्प्राप्ते भवानिन्द्रोभविष्यति ७२

साम्प्रतं देवराजाय त्रैलोक्यमखिलं मया।
दत्तं चतुर्युगानां वै साधिका ह्येकसप्ततिः ७३

नियन्तव्या मया सर्वे ये तस्य परिपन्थिनः।
तेनाहं परया भक्त्या पूर्वमाराधितो बले ७४

सुतलं नाम पातालं तमासाद्य मनोरमम्।
वसासुर ममादेशं यथावत्परिपालयन् ७५

तत्र दिव्यवनोपेते प्रासादशतसङ्कुले।
प्रोत्फुल्लपद्मसरसि स्रवच्छुद्धसरिद्वरे ७६

सुगन्धिधूपसम्बाधे वराभरणभूषितः।
स्रक्चन्दनादिदिग्धाङ्गो नृत्यगीतमनोरमैः ७७

उपभुञ्जन्महाभोगान्विविधान्दानवेश्वर।
ममाज्ञया कालमिमं तिष्ठ स्त्रीशतसंवृतः ७८

यावत्सुरैश्च विप्रैश्च न विरोधं करिष्यसि।
तावदेतान्महाभोगानवाप्स्यस्यसुरोत्तम ७९

यदा च देवविप्राणां विरुद्धान्याचरिष्यसि।
बन्धिष्यन्ति तथा पाशा वारुणास्त्वामसंशयम् ८०

एतद्विदित्वा भवता मयाज्ञप्तमशेषतः।
न विरोधः सुरैः कार्यो विप्रैर्वा दैत्यसत्तम ८१

इत्येवमुक्तो देवेन विष्णुना प्रभविष्णुना।
बलिः प्राह महाराज प्रणिपत्य कृताञ्जलिः ८२

बलिरुवाच।
तत्रासतो मे पाताले भगवन्भवदाज्ञया।
किं भविष्यत्युपादानमुपभोगोपपादकम् ८३

भगवानुवाच।
आप्यायितो येन देव स्मरेयं त्वामहं सदा।
दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च।
हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ८४

अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः।
फलानि तव दास्यन्ति अधीतान्यव्रतानि च ८५

शौनक उवाच।
बलेर्वरमिदं दत्त्वा शक्राय त्रिविदं तथा।
व्यापिना तेन रूपेण जगामादर्शनं हरिः ८६

शशास च यथा पूर्वमिन्द्रस्त्रैलोक्यमूर्जितम्।
सिषेव च परान्कामान्बलिः पातालमाश्रितः ८७

इत्येतद्देवदेवस्य विष्णोर्माहात्म्यमुत्तमम्।
वामनस्य पठेद्यस्तु सर्वपापैः प्रमुच्यते ८८

बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः।
बलिविष्ण्वोश्च कथितं यः स्मरिष्यति मानवः ८९

नाधयो व्याधयो वास्य न च मोहाकुलं मनः।
भविष्यति कुरुश्रेष्ठ पुंसस्तस्य कदाचन ९०

च्युतराज्यो निजं राज्यमिष्टप्राप्तिं वियोगवान्।
अवाप्नोति महाभाग नरः श्रुत्वा कथामिमाम् ९१

इति विष्णुधर्मेषु बलिवञ्चनम्।

अथ अष्टसप्ततितमोऽध्यायः।
शौनक उवाच।
पाताले निवसन्वीरस्तदा वैरोचनिर्बलिः।
कामोपभोगसम्प्राप्त्या मुदं प्राप परां विभुः १

अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना।
घृताची मेनका रम्भा ननृतुस्तस्य सन्निधौ २

प्रजगुर्देवगन्धर्वा विश्वावसुपुरोगमाः।
तुष्टुवुश्च महाभाग बलिं सिद्धाः सचारणाः ३

तस्मिन्सङ्गीतगीता तु वीणावेणुरवाकुले।
स्रगादिभूषितो दैत्यः पपौ पानमनुत्तमम् ४

शर्कारसवमाध्विकां पुष्पासवफलासवम्।
दिव्याः प्रसन्नाश्च सुरास्तदर्हाणि मधूनि च ५

परावदंशान्मधुरांल्लवणांस्तिक्तकाङ्कटून्।
कषायांश्च महाराज सुमृष्टान्यपराणि च ६

सुहृट्सुजनसम्बन्धिभृत्यवर्गसमन्वितः।
बुभुजे पातालगतस्तदा वैरोचनिर्बलिः ७

प्रासादाः काञ्चनाः सर्वे सुवर्णमणिमण्डिताः।
स्फाटिकामलसोपाना मुक्ताहारशतोज्ज्वलाः ८

तेषु सर्वेषु दैतेया बलेः सम्बन्धिबान्धवाः।
नृत्यवाद्यादिमुदिता बुभुजुर्विषयान्प्रियान् ९

बलिश्च भगवान्दैत्यो दैत्योरगशतैर्वृतः।
उपगीयमानो बुभुजे यथेष्टं विषयान्प्रियान् १०

पत्नी विन्ध्यावली नाम तस्य दैत्यपतेरभूत्।
सर्वलक्षणसम्पूर्णा श्रीरिवाब्जं विनापरा ११

न देवी नापि गन्धर्वी नाप्सरा न च मानुषी।
तस्या रूपेण सदृशी बभूव मनुजेश्वर १२

सा तु पीनायतश्रोणी मृद्वङ्गी मधुरस्वरा।
घनोन्नतकुचा सुभ्रूः सस्मितायतलोचना १३

मृद्वल्पपाणिपादाब्जा सुमध्या गजगामिनी।
सुकेशी सुमुखी श्यामा सर्वैर्योषिद्गुणैर्युता १४

तनया मेरुसावर्णेर्दौहित्री मृगमोकिनः।
वपुषा रूपसम्पदा पौतना मृगलोचना।
पत्नी सहस्रद्वितये प्रधाना तस्य साभवत् १५

तया तु रमतस्तस्य रमणीये रसातले।
शक्तिरासीदनुदिनं विवेकप्रतिलोमिनी १६

कदाचिद्रमतस्तस्य दैत्यराजस्य पार्थिव।
तीक्ष्णांशुर्मध्यमां वीथीं ययौ वैषुवतीं रविः १७

यदा यदा च विषुवं भास्करः प्रतिपद्यते।
तदा तदा हरेश्चक्रं पाताले परिवर्तते १८

स्रवन्ति योषितां गर्भास्तस्य धारांशुतापिताः।
सहसा दैत्यपत्नीनां यासु पुंसां समुद्भवः।
निस्तेजसो दैत्यभटा भवन्ति च महीपते १९

तद्दृष्ट्वा सहसायान्तमादित्यशततेजसम्।
ज्वालामालासुदुःप्रेक्ष्यं विष्णुचक्रं सुदर्शनम्।
हाहाकृतमभूत्सर्वं पातालमरिसूदन २०

जेपुर्ये मुनयस्तत्र सार्घपात्रा महोरगाः।
बभूवुः प्रणताश्चान्ये सिद्धगन्धर्वचारणाः।
वैक्लव्यं चागताः सर्वाः स्त्रियः परपुरञ्जय २१

तद्दृष्ट्वा व्याकुलीभूतं पातालमसुरास्ततः।
ये तस्थुः पौरुषपरास्ते हताः शतनेमिना २२

भ्राम्यता तेन चक्रेण सप्तलोकविचारिणा।
समस्तजगदाधारकरमुक्तेन वेगिना २३

तन्निषूदितदैत्यौघं दैत्यस्त्रीगर्भहानिदम्।
श्रुत्वा चक्रं महाचक्रो निश्चक्राम गृहाद्बलिः २४

आः किमेतदितीत्युक्त्वा स तु मद्यमहोद्धतः।
विमलं खड्गमादाय शतचन्द्रंच भानुमत् २५

निर्यान्तमथ वेगेन तमुदारपराक्रमम्।
विध्यावली नाम शुभा दधार दयितं पतिम् २६

उवाच च परिष्वज्य क्रोधताम्रेक्षणं बलिम्।
कल्याणी गुणदोषज्ञा प्रणयान्मृदुभाषिणी २७

विन्ध्यावल्युवाच।
दैत्यराज न कोपस्य वशमागन्तुमर्हसि।
विमृश्य तज्ज्ञः सामादीन्प्रयुञ्जीत बलाबलम् २८

किमेतत्कस्य वा कुत्र किन्निमित्तमिहागतम्।
चक्रमित्थं विचार्य त्वं क्रोधं याहि प्रशाम्य वा २९

एतत्किल जगद्धातुश्चक्रं विष्णोः सुदर्शनम्।
प्रतिषण्मासमभ्येति दैत्यगर्भविनाशनम् ३०

पुङ्गर्भान्निखिलानेतद्दानवानां महासुर।
विनाशयत्यनन्तरां सर्वदुष्टनिबर्हणम् ३१

करोति दुःखमतुलं घातनात्प्रतिपक्षजम्।
पुरुषाणां न सर्वत्र संस्थिता जगतः पतेः ३२

मयि त्वयि तथान्यत्र यथा विष्णुर्व्यवस्थितः।
तस्यैतच्चक्रमायान्तं पुरुषः को न पूजयेत् ३३

यस्याधिक्षेपजा राजंस्तव त्रैलोक्यविच्युतिः।
तस्य चक्रं जगन्मूर्तेः समुपैषि रुषा कथम् ३४

सदृशे पुरुषे क्रोधं नरः कुर्वीत दैत्यप।
न तु सर्वेश्वरे विष्णौ यत्र सर्वं प्रतिष्ठितम् ३५

तत्प्रसीद महाभाग समुपैहि जगत्पतिम्।
शरण्यं शरणं विष्णुं यं प्रणम्य न सीदति ३६

यस्मिन्प्रसन्ने त्रैलोक्यं त्वत्तः प्राप्तः शचीपतिः।
भ्रष्टश्च यदधिक्षेपात्तं त्वं शरणमाव्रज ३७

यत्र सर्वेश्वरे सर्वं सर्वभूते जगत्स्थितम्।
तस्य चक्रमुपैहि त्वं विनयादसुराधिप ३८

सर्वकारणभूतस्य देवदेवस्य चक्रिणः।
कश्चक्रमतिवर्तेत मर्त्यधर्मा महासुर ३९

चक्रमत्र जगद्धातुः करोति स्थितिपालनम्।
विपक्षासुरसम्भूतिगर्भविस्रंसनात्प्रभो ४०

प्रसाद्य चक्रनामानं गोविन्दं जगतो गुरुम्।
श्रेयसे सर्वधर्मज्ञ शरणं व्रज केशवम् ४१

संस्मरस्व च दैत्येन्द्रप्रह्लादं स्वपितामहम्।
भ्रष्टराज्येन भवता स्मर्तव्योऽहमिति प्रभो ४२

स व्याजहार भगवांस्तवानुग्रहकाम्यया।
संस्मर्यतां महाभाग सर्वधर्मभृतां वरः।
विष्णुभक्तो महाबाहुः स ते श्रेयोऽभिधास्यति ४३

शौनक उवाच।
एतद्वचनमाकर्ण्य तदा वैरोचनिर्बलिः।
ययौ तदार्घमादाय विष्णोश्चक्रस्य पूजकः ४४

स ददर्श समायान्तमनन्तकरसङ्गिनम्।
चक्रमक्षयचक्रस्य विश्वस्य परिपालकम् ४५

सस्मार च बलिः सर्वं प्रह्लादवचनं नृप।
जगाद यच्च गोविन्दः प्रसादसुमुखः प्रभुः ४६

भक्तिनम्रस्ततो भूत्वा भूतभव्यभवत्प्रभोः।
तुष्टाव वासुदेवस्य चक्रमव्यक्तमूर्तिनः ४७

ज्वालामालाकरालान्तमुद्यदिन्दुसमप्रभम्।
मध्याह्नार्कसमाभासं तेजसः पिण्डसंस्थितम् ४८

तं दृष्ट्वा तेजसा राशिमुपसङ्गम्य चा विभुम्।
उवाच दैत्यशार्दूलः प्रणिपत्य कृताञ्जलिः ४९

बलिरुवाच।
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ५०

सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ५१

दुष्टराहुगलच्छेदशोणितारुणतारकम्।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ५२

यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ५३

धारायां द्वादशादित्याः समस्ताश्च हुताशनाः।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ५४

समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ५५

यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम्।
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम्।
भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम्।
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम्।
नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम्।
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम्।
स्वभावतेजसा युक्तं यदर्काग्निमयं महत्।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ५७

दुर्वृत्तदैत्यमथनं जगतः परिपालकम्।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ५८

करोतु मे सदा शर्म धर्मतां च प्रयातु मे।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ५९

स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम्।
प्रसीद संयुगेऽरिणां सुदर्शनसुदर्शनम्।
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ६०

जहि नो विषयग्राहि मनो ग्रहविचेष्टितम्।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ६१

शौनक उवाच।
एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत्।
बभूव प्रकटं चक्रं दैत्यचक्र्पतेस्तदा ६२

ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम्।
अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ६३

भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते।
त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ६४

मेर्वादीनखिलाञ्शैलान्गङ्गाद्याः सरितस्तथा।
क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसञ्ज्ञितान् ६५

वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान्।
नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ६६

रुद्रादित्यांश्च मरुतां साध्यानां च महीपते।
सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ६७

ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः।
नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ६८

यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ।
यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ६९

प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य।
सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ७०

इति विष्णुधर्मेषु चक्रस्तवः।

अथैकोनाशीतितमोऽध्यायः।
शौनक उवाच।
एवं स्तुते ततस्तस्मिन्विष्णुचक्रे सुदर्शने।
पुष्पवृष्टिर्बलेर्मूर्ध्नि निपपातान्तरिक्षतः।
परिहृत्य च दैत्येन्द्रंययौ चक्रं यथेच्छया १

भ्रमदेव च दैत्यानां ययौ तद्भयमावहत्।
ततस्तदद्भुतं दृष्ट्वा चक्रस्यागमनं हरेः।
पूर्ववत्स्मरणं प्राप्य सस्मार स्वपितामहम् २

गच्छता पूर्वमार्येण स्मर्तव्योऽहमितीरितम्।
तं स्मरिष्यामि दैत्येन्द्रंस नः श्रेयोऽभिधास्यति ३

इत्येतदधिसंस्मृत्य बलिरात्मपितामहम्।
सस्मार दैत्याधिपतिं प्रह्लादं भगवत्प्रियम् ४

संस्मृतश्च स पातालमाजगाम महामतिः।
चक्रोद्यतकरः साक्षाद्भगवानिव केशवः ५

तमागतमथोत्थाय यथावत्स महामतिः।
अभिवाद्य बलिर्भक्त्या निवेद्यार्घमभाषत ६

बलिरुवाच।
तातांह्रिदर्शनादद्य पावितोऽस्म्यपकल्मषः।
दिवश्च्युतोऽप्यहं मन्ये शक्रादात्मानमुत्तमम् ७

त्रैलोक्यहरणादुग्रं यद्दुःखं हृदये मम।
तच्छान्तं पादसम्पर्कमुपेत्य भवतो मम ८

शौनक उवाच।
इति संस्तूय दत्त्वा च वरासनमुदारधीः।
पर्युपासत राजेन्द्रोदैत्यानां स्वपितामहम् ९

तमुपासीनमनघः प्रह्रादो दैत्यपुङ्गवः।
प्रत्युवाच महात्मानं बलिं वैरोचनिं नृप १०

प्रह्लाद उवाच।
बले ब्रूहि यदर्थं ते स्मृतोऽहमरिसूदन।
तवोपकारणे विद्धि धर्मे मां सततोद्यतम् ११

बलिरुवाच।
तातेनाहं पुरा ज्ञप्तो भ्रष्टराज्येन ते बले।
संस्मर्तव्योऽस्म्यसन्दिग्धं श्रेयो वक्ष्याम्यहं तदा १२

सोऽहं राज्यपरिभ्रष्टो विषयासक्तिहृषितः।
इन्द्रियैरवशस्तात यत्कार्यं तत्प्रशाधि माम् १३

प्रह्लाद उवाच।
यदि मद्वचनं तात श्रद्धधासि हितं बले।
तं देवदेवमनघं प्रयाहि शरणं हरिम् १४

शब्दादिष्वनुरक्तानि तवाक्षाण्यसुराधिप।
शब्दादयश्च गोविन्दे सन्त्येव व्यवहारतः १५

गीतकैर्गीयतां विष्णुर्मनोहारिभिरात्मनः।
अन्यालम्बनतश्चित्तमाकृष्याधत्स्व केशवे १६

गन्धानुदारान्भक्षांश्च स्रजो वासांसि चासुर।
प्रयच्छ देवदेवाय तच्छेषाण्युपयुञ्ज च १७

यत्र यत्र च ते प्रीतिर्विषये दितिजेश्वर।
तत्तमच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादय १८

सर्वभूतेषु गोविन्दो बहुरूपो व्यवस्थितः।
इति मत्वा महाबाहो सर्वभूतहितो भव १९

आत्मानमच्युतं विद्धि शत्रुं च रिपुमात्मनः।
इतिज्ञानवतः कोपस्तव कुत्र भविष्यति २०

शब्दादयो ये विषया विषयी यश्च पुरुषः।
तदशेषं विजानीहि स्वरूपं परमात्मनः २१

परमात्मा च भगवान्विष्वक्सेनो जनार्दनः।
तद्भक्तिमान्भागवतो नाल्पपुण्यो हि जायते २२

भगवच्छासनालम्बी भगवच्छासनप्रियः।
भगवद्भक्तिमाथाय वत्स भागवतो भव २३

भगवान्भूतकृद्भव्यो भूतानां प्रभवो हि यः।
भावेन तं भजस्वेशं भवभङ्गकरं हरिम् २४

भजस्व भावेन विभुं भगवन्तं महेश्वरम्।
ततो भागवतो भूत्वा भवबन्धाद्विमोक्ष्यसे २५

सर्वभूते मनस्तस्मिन्समाधाय महामते।
प्राप्स्यसे परमाह्लादकारिणीं परमां गतिम् २६

यत्रानन्दपरं ज्ञानं सर्वदुःखविवर्जितम्।
तत्र चित्तं समावेष्टुं न शक्नोति भवान्यदि।
तदभ्यासपरस्तस्मिन्कुरु योगं दिवानिशम् २७

तत्राप्यसामर्थ्यवतः क्रियायोगो महात्मना।
ब्रह्मणा यः समाख्यातस्तन्मनाः सततं भव २८

करोषि यानि कर्माणि तानि देवे जगत्पतौ।
समर्पयस्व भद्रंते ततः कर्म प्रहास्यसि २९

क्षीणकर्मा महाबाहो शुभाशुभविवर्जितः।
लयमभ्येति गोविन्दे तद्ब्रह्म परमं महत् ३०

भोक्तुमिच्छसि दैत्येन्द्रकर्मणामथ चेत्फलम्।
ततस्तमर्चयेशेशं ततः कर्मफलोदयः ३१

योऽर्थमिच्छति दैत्येन्द्रससमाराध्य केशवम्।
निःसंशयमवाप्नोति धुन्धुमारो यथा नृपः ३२

अत्रिगेहसमुद्भूतं दत्तात्रेयस्वरूपिणम्।
राज्यमाराध्य गोविन्दं कार्तवीर्यस्तथाप्तवान् ३३

धर्मं कृष्णप्रसादेन मुद्गलो जाजलिः कुणिः।
प्रापुरन्ये तथा कामान्नरेन्द्रानहुषादयः ३४

जनकः सुध्वजो नाम जनकः समितिध्वजः।
धर्मध्वजस्तथा मुक्तिं केशवाराधनाद्गतः ३५

तथान्ये मुनयो दैत्य राजानश्च सहस्रशः।
प्रापुर्मुक्तिं महाभागाः कृत्वा भक्तिं जनार्दने ३६

यथा हि ज्वलितो वह्निस्तमोहानिं तदर्थिनाम्।
शीतहानिं तथान्येषां स्वेदं स्वेदाभिलाषिणाम् ३७

करोति क्षुधितानां च भोज्यपाकं तथोत्कटम्।
तथैव कामान्भूतेशः स ददाति यथेप्सितान् ३८

तदेतदखिलं ज्ञात्वा यत्तवेष्टं शृणुष्व तत्।
कल्पद्रुमादिव हरेर्यत्ते मनसि वर्तते ३९

-—————–शौनक उवाच।
एतत्प्रह्लादवचनं निशाम्य दितिजेश्वरः।
प्रत्युवाच महाभागं प्रणिपत्य पितामहम् ४०

सम्प्राप्तस्यामृतस्येव तव वाक्यस्य नास्ति मे।
तृप्तिरेतदहं तात श्रोतुमिच्छामि विस्तरात् ४१

अक्षीणकर्मा पुरुषो मरणे समुपस्थिते।
कीदृशं लोकमायाति यः संस्मरति केशवम् ४२

यथा च वासुदेवस्य स्मरणं तात मानवैः।
मुमूर्षुभिः प्रकर्तव्यं तन्ममाचक्ष्व विस्तरात् ४३

किं जप्यं कीदृशं रूपं स्मर्तव्यं च हरेस्तदा।
कथं ध्येयं च विद्वद्भिस्तदाचक्ष्व यथातथम् ४४

प्रह्लाद उवाच।
साधु वत्स त्वया प्रश्नः सुगुह्योऽयमुदाहृतः।
तपसां तात सर्वेषां तपो नानशनात्परम् ४५

कथ्यते च महाबाहो संवादोऽयं पुरातनः।
भगीरथस्य राजर्षेर्ब्रह्मणश्च प्रजापतेः ४६

अतीत्यामरलोकं च गवां लोकं च मानद।
ऋषिलोकं च योऽगच्छद्भगीरथ इति श्रुतः ४७

तं दृष्ट्वा स वचः प्राह ब्रह्मा लोकपितामहः।
कथं भगीरथागास्त्वमिमं देशं दुरासदम् ४८

न हि देवा न गन्धर्वा न मनुषा भगीरथ।
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ४९

भगीरथ उवाच।
निःशङ्कमन्नमददं ब्राह्मणेभ्यः।
शतं सहस्राणि सदैव दायम्।
ब्राह्मणं व्रतं नित्यमास्थाय विद्वन्।
न त्वेवाहं तस्य फलादिहागाम् ५०

दशैकरात्रान्दश पञ्चरात्रानेकादशैकादशकांस्तथैव।
ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि न चागतोऽहम् ५१

यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम्।
प्रदाय तत्राश्वतरीसहस्रं फलेन तस्यापि न चागतोऽहम् ५२

दश धेनुसहस्राणि मणिरत्नविभूषिताः।
दशार्बुदानि चाश्वानामयुतानि च विंशतिः।
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ५३

सुवर्णचन्द्रोत्तमधारिणीनां कन्योत्तमानामददं स्रग्विणीनाम्।
षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन ५४

दशार्बुदान्यददं गोसवे यास्त्वेकैकशो दश गा लोकनाथ।
समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ५५

अहन्यहनि विप्रेषु एकैकं त्रिंशतोऽददम्।
गृष्टीनां क्षीरदात्रीणां रोहिणीनां शतानि च ५६

दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव तु।
प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ५७

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम्।
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ५८

वाजिनां श्यामकर्णानां हरितानां पितामह।
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ५९

ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान्।
पत्नीवतः सहस्राणि प्रायच्छं दश सप्त च ६०

अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः।
रथानां काआङ्गानां सहस्राण्यददं दश।
सप्त चान्यानि युक्तानां वाजिभिः समलङ्कृतैः ६१

दक्षिणावयवाः केचिद्देवैर्ये सम्प्रकीर्तिताः।
वाजपेयेषु दशसु प्रादां तेनापि नागतः ६२

शक्रतुल्यप्रभावानामीज्यया विक्रमेण च।
सहस्रं निष्ककण्ठानां प्रददन्दक्षिणामहम् ६३

विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह।
अष्टाभ्यो राजसूयेभ्यो न च तेनाहमागतः ६४

स्रोतश्च यावद्गङ्गायां छिन्नमासीज्जगत्पते।
दक्षिणाभिः प्रवृत्ताभिर्मम नागं च तत्कृते ६५

वाजिनां च सहस्रे द्वे सुवर्णमणिभूषिते।
वारणानां शतं चाहमेकैकस्य त्रिधाददम्।
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् ६६

तपस्वी नियताहारः शममास्थाय वाग्यतः।
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् ६७

मूर्ध्ना धारां महादेवः शिरसा यामधारयत्।
न तेनाप्यहमागच्छं फलेनेह पितामह ६८

शम्याक्षेपैरयजं देवदेव तथा क्रतूनामयुतैश्चापि यत्तः।
त्रयोदशद्वादशाहैश्च देव सपुण्डरीकैर्न च तेषां फलेन ६९

अष्टौ सहस्राणि ककुद्मिनामहं।
शुक्लर्षभाणामदं ब्राह्मणेभ्यः।
पत्नीश्चैषामददं निष्ककण्ठीस्।
तेषां फलेनेह न चागतोऽस्मि ७०

हिरण्यरत्नरचितानददं रत्नपर्वतान्।
धनधान्यसहस्रांश्च ग्रामाञ्शतसहस्रशः ७१

शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः।
इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो धनेन च ७२

एकादशाहैरयजं सुदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव।
बृहद्भिर्द्वादशाहैश्च अश्वमेधैः पितामह।
अर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतोऽस्मि ७३

निष्क्रामकं चाप्यददं योजनानां द्विर्विस्तीर्णं काञ्चनपादपानाम्।
वनं चूतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन ७४

तुरायणं तु व्रतमप्रधृष्यमक्रोधनोऽकरवं त्रिंशतोऽब्दान्।
शतं गवामष्ट शतानि चाहं दिने दिने प्राददं ब्राह्मणेभ्यः ७५

पयस्विनीनां अथ रोहिणीनां तथैव चाप्यनडुहां लोकनाथ।
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ७६

त्रिंशतं विधिवद्वह्नीनयजं यच्च नित्यशः।
अष्टाभिः सर्वमेधैश्च नृमेधैर्द्विगुणैस्तथा ७७

दशभिर्विश्वजिद्भिश्च स्तोभैरष्टादशोत्तरैः।
न चैव तेषां देवेश फलेनाहमिहागमम् ७८

सरव्यां बाहुदायां च गयायामथ नैमिषे।
गवां शतानामयुतमददं न च तेन वै ७९

उत्क्रान्तिकाले गोविन्दं स्मरन्ननशनस्थितः।
त्यक्तवानस्मि यद्देहं तेनेदृक् प्राप्तवान्फलम् ८०

एवमेतदितीत्याह ब्रह्मा लोकपितामहः।
भगीरथं महीपालं पुण्यलोकनिवासिनम् ८१

तदेतदुक्तं तपसां समस्तानां महामते।
गुणैरनशनं ब्रह्मा प्रधानतरमब्रवीत् ८२

त्यजत्यनशनस्थो हि प्राणान्यः संस्मरन्हरिम्।
स याति विष्णुसालोक्यं यावदिन्द्राश्चतुर्दश ८३

अतीतानागतानीह कुलानि पुरुषर्षभ।
पुनात्यनशनं कुर्वन्सप्त सप्त च सप्त च ८४

श्लोकाश्चात्र महाबाहो श्रूयन्ते यान्भगीरथः।
जगाद ब्रह्मणो लोकमुपेतः पृथिवीपतिः ८५

ब्रह्म ब्रह्ममयं विष्णोर्यः पदं परमात्मनः।
संस्मरंस्त्यजति प्राणान्स विष्णुं प्रविशत्यजम् ८६

यः क्षीणकर्मा भोगेन तपसा वापि संस्मरन्।
करोति कालं कालेन न परिच्छेद्यते हि सः ८७

अक्षीणकर्मा मरणे संस्मरन्देवमच्युतम्।
यथा त्वमेव देवानां लोके भोगानुपाश्नुते ८८

क्षुतितेऽपि कुले कश्चिज्जायेयं कर्मणः क्षये।
मनुष्यो येन सर्वेशं चिन्तयेयं सदा हरिम् ८९

तच्चिन्तयाधुनाशेषपुण्यपापविवर्जितः।
मरणे तन्मनस्तत्र लयमेत्य तमाप्नुयात् ९०

कर्मभूमौ समस्तानां कर्मणामुत्तमोत्तमम्।
यदन्तकाले पुरुषैः स्मर्यते पुरुषोत्तमः ९१

इत्येतानाह राजर्षिः श्लोकानाद्यो भगीरथः।
विष्णुसंस्मरणात्प्राप्य लोकाननशने मृतः ९२

एवमत्यन्तशस्तानां कर्मणामसुरेश्वर।
नान्यदुत्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् ९३

तस्याहं लक्षणं वक्ष्ये यच्च जप्यं मुमूर्षुभिः।
यादृग्रूपश्च भगवांश्चिन्तनीयो जनार्दनः ९४

आसन्नमात्मनः कालं ज्ञात्वा प्राज्ञो महासुर।
निर्धूतमलदोषश्च स्नातो नियतमानसः ९५

समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः।
प्रणिपातैः स्तवैः पुण्यैर्ध्यानयोगैश्च पूजयेत् ९६

दत्त्वा दानं च विप्रेभ्यो विकलादिभ्य एव च।
सभाप्रपाब्राह्मणौकदेवौकाद्युपयोगि च ९७

बन्धुपुत्रकलत्रौकक्षेत्रधान्यधनादिषु।
मित्रवर्गे च दैत्येन्द्रममत्वं विनिवर्तयेत् ९८

मित्रानमित्रान्मध्यस्थान्परान्स्वांश्च पुनः पुनः।
अभ्यर्थनोपचारेण क्षामयेत्कुकृतं स्वकम् ९९

ततश्च प्रयतः कुर्यादुत्सर्गं सर्वकर्मणाम्।
शुभाशुभानां दैत्येन्द्रवाक्यं चेदमुदाहरेत् १००

परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान्।
भोजनादि मयोत्सृष्टमुत्सृष्टमनुलेपनम् १०१

स्रग्भूषणादिकं गेयं दानमादानमेव च।
होमादयः पदार्था ये याश्च नित्यक्रिया मम १०२

नैमित्तिकास्तथा काम्या वर्णधर्मास्तथोज्झिताः।
गुणधर्मादयो धर्मा याश्च काश्चिन्मम क्रियाः १०३

पद्भ्यां कराभ्यां विहरन्कुर्वन्वा कर्म न त्वहम्।
करिष्ये प्राणिनां पीडां प्राणिनः सन्तु निर्भयाः १०४

नभसि प्राणिनो ये तु ये जले ये च भूतले।
क्षितेरन्तरगा ये च ये च पाषाणसम्पुटे १०५

ये धान्यादिषु वस्त्रेषु शयनेष्वासनेषु च।
ते स्वपन्तु विबुध्यन्तु सुखं मत्तो भयं विना १०६

न मेऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम्।
मित्रपक्षे च मे विष्णुरधश्चोर्ध्वं तथाग्रतः १०७

पार्श्वतो मूर्ध्नि पृष्ठे च हृदये वाचि चक्षुषि।
श्रोत्रादिषु च सर्वेषु मम विष्णुः प्रतिष्ठितः १०८

इति सर्वं समुत्सृज्य ध्यात्वा सर्वत्र चाच्युतम्।
वासुदेवेत्यविरतं नाम देवस्य कीर्तयन् १०९

दक्षिणाग्रेषु दर्भेषु शयीत प्राच्छिरास्ततः।
उदच्छिरा वा दैत्येन्द्रचिन्तयञ्जगतः पतिम् ११०

विष्णुं जिष्णुं हृषीकेशं केशवं मधुसूदनम्।
नारायणं नरं कृष्णं वासुदेवं जनार्दनम् १११

वाराहं यज्ञपुरुषं पुण्डरीकाक्षमच्युतम्।
वामनं श्रीधरं श्रीशं नृसिंहमपराजितम् ११२

पद्मनाभमजं शौरिं दामोदरमधोक्षजम्।
सर्वेश्वरेश्वरं शुद्धमनन्तं राममीश्वरम् ११३

चक्रिणं गदिनं शार्ङ्गिं शङ्खिनं गरुडध्वजम्।
किरीटकौस्तुभधरं प्रणमाम्यहमव्ययम् ११४

अहमत्र जगन्नाथे मयि चास्तु जनार्दनः।
आवयोरन्तरं मास्तु समीरनभसोरिव ११५

अयं विष्णुरयं शौरिरयं कृष्णः पुरो मम।
नीलोत्पलदलश्यामः पद्मपत्त्रोपमेक्षणः ११६

एष पश्यतु मामीशः पश्याम्यहमधोक्षजम्।
यतो न व्यतिरिक्तोऽहं यन्मयोऽहं यदाश्रयः ११७

इत्थं जपन्नेकमनाः स्मरन्सर्वेश्वरं हरिम्।
आसीनः सुखदुःखेषु समो मित्राहितेषु च ११८

ॐ नमो वासुदेवायेत्येतद्वा सततं वदन्।
यद्वोदीरयितुं नाम समर्थस्तदुदीरयन्।
ध्यायेत देवदेवस्य रूपं विष्णोर्मनोरमम् ११९

प्रशान्तनेत्रभ्रूवक्त्रं शङ्खचक्रगदाधरम्।
श्रीवत्सवक्षसं चैव चतुर्बाहुं किरीटिनम् १२०

पीताम्बरधरं विष्णुं चारुकेयूरधारिणम्।
चिन्तयेच्च तदा रूपं मनः कृत्वैकनिश्चयम् १२१

यादृशे वा मनः स्थैर्यं रूपे बध्नाति चक्रिणः।
तदेव चिन्तयन्नाम वासुदेवेति कीर्तयेत् १२२

इत्तं जपन्स्मरन्वेत्थं स्वरूपं परमात्मनः।
आ प्राणोपरमाद्वीरस्तच्चित्तस्तत्परायणः १२३

निर्विकल्पेन मनसा यः स्मरेत्पुरुषोत्तमम्।
सर्वपातकयुक्तोऽपि पुरुषः पुरुषर्षभ।
प्रयाति देवदेवेशे लयमीड्यतमेऽच्युते १२४

यथाग्निस्तृणजालानि दहत्यनिलसङ्गतः।
तथानशनसङ्कल्पः पुंसां पापमसंशयम् १२५

विष्णोः संस्मरणे प्राप्य लोकमनशने मृतः।
एवमत्यन्तशस्तानां कर्मणामसुरेश्वर।
नास्ति सत्यात्परो धर्मो नास्त्यधर्म तथानृतात्।
नास्ति विद्यासमं चक्षुस्तपो नानशनात्परम् १२६

नास्ति ज्ञानसमं दानं न सन्तोषसमं सुखम्।
न चैवेर्ष्यासमं दुःखं तपो नानशनात्परम् १२७

नास्त्यरोगसमं धन्यं नास्ति गङ्गासमा सरित्।
नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् १२८

बलिरुवाच।
उत्क्रान्तिकाले भूतानां मुह्यन्ते चित्तवृत्तयः।
जराव्याधिविधीनानां किमु व्याध्यादिदोषतः १२९

अत्यन्तवयसा वृद्ध्या व्याधिना चातिपीडितः।
यदि स्थातुं न शक्नोति क्षितिस्थे दर्भसंस्तरे १३०

तत्किमन्योऽप्युपायोऽस्ति न वानशनकर्मणि।
विफल्यं येन नाप्नोति तन्मे ब्रूहि पितामह १३१

प्रह्लाद उवाच।
नात्र भूमिर्न च कुशाः संस्तरश्च न कारणम्।
चित्तस्यालम्बनीभूतो विष्णुरेवात्र कारणम् १३२

भुञ्जन्नभुञ्जन्गच्छंश्च स्वपंस्तिष्ठन्नथापि वा।
उत्क्रान्तिकाले गोविन्दं संस्मरंस्तन्मयो भवेत् १३३

किं जपैः किं भुवा कृत्यं किं कुशैर्दैत्यसत्तम।
तथापि कुर्वतो यस्य हृदये न जनार्दनः १३४

तस्मात्प्रधानमन्त्रोक्तं वासुदेवस्य कीर्तनम्।
तन्मयत्वेन दैत्येन्द्रतस्योपायश्च विस्तरः १३५

इत्येतत्कथितं सर्वं पृष्टोऽहं यत्त्वया बले।
उत्क्रान्तिकाले स्मरणं किं भूयः कथयामि ते १३६

इति विष्णुधर्मेषूत्क्रान्तिस्मरणम्।

अथाशीतितमोऽध्यायः।
बलिरुवाच।
क्रियायोगस्त्वया पूर्वं ममोक्तो यः पितामह।
तमहं श्रोतुमिच्छामि फलं चास्य यथातथम् १

देवार्चां देवतागारे तन्मयत्वेन पूजयम्।
यथावच्चेतसो भूमिं करोति नियतो हि सः २

तपसा ब्रह्मचर्येण पुण्यस्वाध्यायसंस्तवैः।
क्रियायोगः स विद्वद्भिर्योगिनां समुदाहृतः ३

तत्राहं श्रोतुमिच्छामि क्रियायोगस्थितो नरः।
यत्फलं समवाप्नोति कारयित्वा हरेर्गृहम् ४

देवार्चां कारयित्वा वा यत्पुण्यं पुरुषोऽश्नुते।
सम्पूजयित्वा विधिवदनुलिप्य च यत्फलम् ५

कानि माल्यानि शस्तानि कानि नार्हन्ति केशवे।
के धूपाः कृष्णदयिताः के वर्ज्याश्च जगत्पतेः ६

उपहारे फलं किं स्यात्किं फलं गीतवादिते।
घृतक्षीरादिना यच्च स्नापिते केशवे फलम् ७

यच्चोपलेपने तात फलमभ्युक्षिते च यत्।
वासुदेवगृहे सर्वं तदशेषं वदस्व मे ८

प्रह्लाद उवाच।
साधु वत्स यदेतत्त्वं वासुदेवस्य पृच्छसि।
शुश्रूषणविधौ पुण्यं तदिहैकमनाः शृणु ९

ब्रह्मणा किल देवानामृषीणां च महात्मनाम्।
शुश्रूषणफलं विष्णोः प्रोक्तं दैत्यपते पुरा १०

तेभ्यः सकाशान्मनुना प्राप्तं स्वारोचिषेण तु।
स्वारोचिषः स्वपुत्राय दत्तवानृतचक्षुषे ११

ऋतचक्षुश्च भर्गवे शुक्रस्तस्मादवाप च।
ममाख्यातं च शुक्रेण यथावत्सुमहात्मना १२

शुश्रूषवे महाभाग दैत्याचार्येण धीमता।
तदेतच्छ्रूयतां तात क्रियायोगाश्रितं फलम् १३

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः।
यस्तु बाह्यार्थसापेक्षः स क्रियायोग उच्यते १४

परमं कारणं योगो विमुक्तेर्दितिकेश्वर।
क्रियायोगश्च योगस्य परमं तात साधनम् १५

यत्त्वेतद्भवता पृष्टं फलमन्विच्छता फलम्।
देवालयादिकरणे तदिहैकमनाः शृणु १६

यस्तु देवालयं विष्णोर्दार्वं शैलमयं तथा।
कारयेन्मृन्मयं वापि शृणु तस्य बले फलं १७

अहन्यहनि यज्ञेन यजतो यन्महाफलम्।
प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरम् १८

कुलानां शतमागामि समतीतं तथा शतम्।
कारयन्भगवद्धाम नयत्यच्युतलोकताम् १९

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु।
विष्णोरालयविन्यासप्रारम्भादेव नश्यति २०

सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्।
प्रतिष्ठां समवाप्नोति स नरः सप्तलौकिकीम् २१

प्रशस्तदेशभूभागे यः शस्तं भवनं हरेः।
कारयत्यक्षयांल्लोकान्स नरः प्रतिपद्यते २२

इष्टकाचयविन्यासो यावन्त्यृक्षाणि तिष्ठति।
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः २३

प्रतिमां लक्षणवतीं यः कारयति मानवः।
केशवस्य स तल्लोकमक्षयं प्रतिपद्यते २४

षष्टिं वर्षसहस्राणां सहस्राणि स मोदते।
स्वर्गौकसां निवासेषु प्रत्येकमरिसूदन २५

प्रतिष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने।
पुरुषः कृतकृत्यत्वान्नैनं श्वोमरणं तपेत् २६

ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले।
तांस्तारयति संस्थाप्य देवस्य प्रतिमां हरेः २७

अनुशस्ताः किल पुरा यमेन यमकिङ्कराः।
पाशोद्यतायुधा दैत्य प्रजासंयमने रताः २८

यम उवाच।
विहरध्वं यथान्यायं नियोगो मेऽनुपाल्यताम्।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् २९

केवलं ये जगद्धातुमनन्तं समुपाश्रिताः।
भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ३०

ये तु भागवता लोके तच्चित्तास्तत्परायणाः।
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ३१

यस्तिष्ठन्प्रस्वपन्गच्छंस्तत्तिष्ठन्स्खलिते क्षुते।
सङ्कीर्तयति गोविन्दं ते वस्त्याज्याः सुदूरतः ३२

नित्यनैमित्तिकैर्देवं ये यजन्ति जनार्दनम्।
नावलोक्य भवद्भिस्ते तत्तेजो हन्ति वो गतिम् ३३

ये धूपपुष्पवासोभिर्भूषणैश्चापि वल्लभैः।
अर्चयन्ति न ते ग्राह्या नराः कृष्णाश्रयोद्धताः ३४

उपलेपनकर्तारः सम्मार्जनपराश्च ये।
कृष्णालये परित्याज्यं तेषां त्रिपुरुषं कुलम् ३५

येन चायतनं विष्णोः कारितं तत्कुलोद्भवम्।
पुंसां शतन्नावलोक्यं भवद्भिर्दुष्टचक्षुषा ३६

येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता।
नरायुतं तत्कुलजं भवतां शासनातिगम् ३७

भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया।
विनाज्ञाभङ्गकृन्नैव भविष्यति नरः क्वचित् ३८

प्रह्लाद उवाच।
वत्स वैवस्वतस्यैताः श्रुत्वा गाथा मरीचिना।
पुरुकुत्साय कथिताः पार्थिवेन्द्राय धीमते ३९

एतां महाफलां योऽर्चां विष्णुः कारयते नरः।
तवाख्यातं महाबाहो गृहकारयितुश्च यत् ४०

यज्ञा नराणां पापौघक्षालकाः सर्वकामदाः।
तथैवेज्यो जगद्धातुः सर्वयज्ञमयो हरिः ४१

इति विष्णुधर्मेषु वैवस्वतगाथा।

अथैकाशीतितमोऽध्यायः।
प्रह्लाद उवाच।
स्थापितां प्रतिमां विष्णोः सम्यक् सम्पूज्य मानवः।
यं यं प्रार्थयते कामं तं तमाप्नोत्यसंशयम् १

यः स्नापयति देवस्य घृतेन प्रतिमां हरेः।
प्रस्थे प्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् २

गवां शतस्य विप्राणां यद्दत्तस्य भवेत्फलम्।
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिना ३

भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा।
घृताढकेन गोविन्दप्रतिमास्नापनात्किल ४

प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम्।
स्नापयित्वा समस्तेभ्यः पापेभ्यो विप्रमुच्यते ५

द्वादश्यां पञ्चदश्यां च गव्येन हविषा हरेः।
स्नापनं दैत्यशार्दूल महापातकनाशनम् ६

ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः।
तत्क्षालयति सन्ध्यायां घृतेन स्नापयन्हरिम् ७

सर्वयज्ञमयो विष्णुर्हव्यानां परमं घृतम्।
तयोरशेषपापानां क्षालकः सङ्गमोऽसुर ८

येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः।
तांल्लोकान्पुरुषा यान्ति क्षीरस्नानकरा हरेः ९

आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम्।
सप्त जन्मान्यवाप्नोति क्षीरस्नानकरो हरेः १०

दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ११

यथा च विमलं ज्ञानं यथा निर्वृतिकारकम्।
तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदम् १२

ग्रहानुकूलतां पुष्टिं प्रियत्वं चाखिले जने।
करोति भगवान्विष्णुः क्षीरस्नापनतोषितः १३

सर्वोऽस्य स्निग्धतामेति दृष्टमात्रः प्रसीदति।
घृतक्षीरेण देवेशे स्नापिते मधुसूदने १४

अत्राप्युदाहरन्तीमं संवादं केशवाश्रितम्।
शाण्डिल्या सह कैकेय्याः सुमनायाः सुरालये १५

स्वर्गेऽतिशोभनां दृष्ट्वा कैकेयीं पतिना सह।
ब्राह्मणी शाण्डिली नाम पर्यपृच्छत विस्मिता १६

शाण्डिल्युवाच।
शतशः सन्ति कैकेयि देवाः स्वर्गनिवासिनः।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा १७

न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता।
न वाससां च शोभेयं यथा ते पतिना सह १८

नैवाभरणजातानि तेषां भ्राजन्ति वै तथा।
यथा तव यथा पत्युस्तव स्वर्गनिवासिनः १९

स्वस्थता चेतसश्चेयं युवयोरतिरिच्यते।
शक्राद्यानामपीसानां क्षयातिशयवर्जितः २०

तपःप्रभावो दानं वा कर्म वा होमसञ्ज्ञितम्।
युवयोर्यन्ममाचक्ष्व तत्सर्वं वरवर्णिनि २१

सुमनोवाच।
यज्ञैर्यज्ञेश्वरो विष्णुरावाभ्यां यत्तु तोषितः।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् २२

सुरूपतां मनःप्रीति पश्यतां चारुवेषताम्।
यत्पृच्छसि महाभागे तदप्येषा वदामि ते २३

तीर्थोदकैस्तथा स्नानैः स्नापितोऽयं जनार्दनः।
तेन कान्तिरतीत्यैतान्देवांस्त्रिभुवनेश्वरान् २४

मनःप्रसादः सौम्यत्वं शारीरा या च निर्वृतिः।
यत्प्रियत्वं च सर्वस्य तद्घृतस्नानजं फलम् २५

यान्यभीष्टानि वासांसि यच्चाभीष्टं विभूषणम्।
रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् २६

ये धूपा यानि माल्यानि दयितान्यभवंस्तदा।
मम भर्तुस्तथैवास्य मम राज्यं प्रशासतः २७

तानि सर्वाणि सर्वज्ञे सर्वकर्तरि केशवे।
दत्तानि तत्समुत्थोऽयं गन्धभूषात्मको गुणः २८

आहारा दयिता ये च पवित्राश्च निवेदिताः।
ते लोककर्त्रे क्षृणाय तृप्तिस्तद्गुणसम्भवा २९

स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने।
कृतमेतदतो नाभूदावयोर्भवसङ्क्षयः ३०

ये त्वकामां नराः सम्यगेतत्कुर्वन्ति शोभने।
तेषां ददाति विश्वेशो भगवान्मुक्तिमच्युतः ३१

प्रह्लाद उवाच।
एवमभ्यर्च्य गोविन्दं सर्वभूतेश्वरेश्वरम्।
प्राप्नोत्यभिमतान्कामान्दैत्याह सुमना यथा ३२

चन्दनागरुकर्पूरकुङ्कुमोशीरपद्मकैः।
अनुलिप्तो हरिर्भक्त्या वरान्भोगान्प्रयच्छति ३३

कालेयकं तुङ्गकं च पद्मचन्दनमेव च।
नॄणां भवन्ति रोगाय दत्तानि पुरुषोत्तमे ३४

तस्मादेभिर्न गोविन्दः पूजनीयो महासुर।
यान्यात्मनः सदेष्टानि तानि शस्तान्युपाकुरु ३५

तथैव शुभगन्धा ये धूपास्ते जगतः पतेः।
वासुदेवस्य धर्मज्ञैर्निवेद्या दानवेश्वर ३६

न शल्लकीजं नाक्षौलं न शुक्तासवसम्भृतम्।
दद्यात्कृष्णाय धर्मज्ञो धूपानाराधनोद्यतः ३७

मालती मल्लिका चैव यूथिकाथातिमुक्तका।
पाटला करवीरश्च जवा पारन्तिरेव च ३८

कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः।
चम्पको रोतकः कुन्दो बाणो वर्वरमालिकाः ३९

अशोकतिलका रोध्रास्तथा चैवाटरूषकः।
अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने ४०

बिल्वपत्रं शमीपत्रं पत्रं भृङ्गारकस्य च।
तमालपत्रं च बले सदैव भगवत्प्रियम् ४१

तुलसीकालतुलसीपत्रं भृङ्गरजस्य च।
केतकीपत्रपुष्पं च सद्यस्तुष्टिकरं हरेः ४२

पद्मान्यम्बुसमुत्थानां रक्तनीले तथोत्पले।
सितोत्पलं च कृष्णस्य दयितानि सदासुर ४३

नार्कं नोन्मत्तकं काञ्चित्तथैव गिरिकर्णिकाम्।
न कण्टकारिकापुष्पमच्युताय निवेदयेत् ४४

कौटजं शाल्मलीपुष्पं शैरीषं च जनार्दने।
निवेदिते भयं रोगं निःवतां च प्रयच्छति ४५

येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च।
तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे ४६

सुगन्धैश्च सुरामांसीकर्पूरागरुचन्दनैः।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतः पतिम् ४७

दुकूलपटुकौशेयवार्क्षकर्पासिकादिभिः।
वासोभिः पूजयेद्विष्णुं दैतेयेन्द्रात्मनः प्रियैः ४८

भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च।
फलं च वल्लभं यत्स्यात्तत्तद्देयं जनार्दने ४९

सुवर्णमणिमुक्तादि यच्चान्यदतिवल्लभम्।
तत्तद्देवातिदेवाय केशवाय निवेदयेत् ५०

आत्मानं केशवं मत्वा यद्यत्तस्यैव रोचते।
तत्तदव्यक्तरूपाय केशवाय निवेदयेत् ५१

इति विष्णुधर्मेषु पुष्पादिविभागः।

अथ द्व्यशीतितमोऽध्यायः।
प्रह्लाद उवाच।
चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः।
शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् १

अगायन्त च या गाथा ये पुराणविदो जनाः।
मान्धातरि महाबाहो यौवनाश्वे समाश्रिताः २

यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ३

स यौवनगतः संराट्सप्तद्वीपवतीं महीम्।
शशास धर्मेण पुरा चक्रवर्ती महाबलः ४

नान्यायकृन्न चाशक्तो न दरिद्रोन कीकटः।
तस्याभूत्पुरुषो राज्ये सम्यग्धर्मानुशासिनः ५

चतस्रो गतयस्तस्य यौवनाश्वस्य धीमतः।
बभूवुरप्रतिहता हतारातिबलस्य वै ६

तस्य भक्तिरतीवाभून्निसर्गादेव भूपतेः।
वासुदेवे जगद्धाम्नि सर्वकारणकारणे ७

तस्य र्द्धिं महिमानं च विलोक्य पृथिवीपतेः।
न केवलं जनस्याभूत्तस्याप्यत्यन्तविस्मयः ८

स चिन्तयामास नृपः समृद्ध्या विस्मितस्तया।
कथं स्यात्सम्पदेषा मे पुनरप्यन्यजन्मनि ९

एवं सुबहुशो राजा दैत्येन्द्रसुमहाबलः।
चिन्तयन्नपि तन्मूलं न चासीन्निश्चयान्वितः १०

यदा न निश्चयं राजा स ययौ युवनाश्वजः।
तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ११

वसिष्ठप्रमुखान्वत्स विविक्तान्तःपुरस्थितः।
प्रणिपत्य महाबाहुर्गृहीतासनसत्क्रियान् १२

यदि सानुग्रहा बुद्धिर्भवतां मयि सत्तमाः।
तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ १३

समेत्याखिलविज्ञानं सम्यग्धौतान्तरात्मभिः।
भवद्भिर्यद्यहं न स्यां विमलस्तन्महाद्भुतम् १४

यद्यथा तन्मया पृष्टा भवन्तो मत्प्रसाधिताः।
वक्तुमर्हन्ति विद्वांसः सर्वस्यैवोपकारिणः १५

ब्राह्मणा ऊचुः।
यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते।
गदिष्यामो यथान्यायं यत्ते सांशयिकं हृदि १६

वयं हि नरशार्दूल भवता परितोषिताः।
सम्यक् प्रजाः पालयता सप्तद्वीपे महीतले १७

सुतुष्टो ब्राह्मणोऽश्नीयाच्छिन्द्याद्वा धर्मसंशयम्।
हितं वोपदिशेद्धर्ममहिताद्वा निवर्तयेत् १८

प्रह्लाद उवाच।
विवक्षुमथ भूपालं भार्या तस्यैव धीमतः।
प्रणामपूर्वमाहेदं विनयात्प्रणयान्वितम् १९

न स्त्रीणामवनीपाल वक्तुमीदृगिहेश्यते।
तथापि भूपते वक्ष्ये सम्पदीदृक् सुदुर्लभा २०

भूयोऽपि संशयं प्रष्टुमलमीश भवानृषीन्।
न त्वहं पुरुषव्याघ्र सदान्तःपुरचारिणी २१

स प्रसादं यदि भवान्करोति मम पार्थिव।
तन्मदीयमृषीन्प्रष्टुं संशयं पार्थिवार्हसि २२

मन्धातोवाच।
ब्रूहि सुभ्रु मतं यत्ते प्रष्टव्या यन्मया द्विजाः।
भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतान्द्विजोत्तमान् २३

पत्न्युवाच।
श्रूयन्ते पृथिवीपाल नृप ये च पुरातनाः।
तेषां न सम्पद्भूपाल यथा तव किलाभवत् २४

तदीदृक्सम्पदां धाम त्वमशेषक्षितीश्वरः।
येन कर्मविपाकेन तद्वदन्तु महर्षयः २५

अहं च भवतो भार्या सर्वसीमन्तिनी भुवि।
विधिना केन तपसा नियुक्ता भवतो गृहे।
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् २६

तारतम्यतयेशित्वमन्येष्वपि हि विद्यते।
निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा २७

तदन्यजन्मचरितं नरनाथ निजं भवान्।
मुनीन्पृच्छतु या चाहं यन्मया च पुरा कृतम् २८

प्रह्लाद उवाच।
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः।
मुनीनां पुरतो भार्यां प्रशंसन्वाक्यमब्रवीत् २९

मान्धातोवाच।
साधु देवि मतं यन्मे त्वया तदिदमीरितम्।
सत्यं मुनिवचः पुंसामर्धं वै गृहिणी यथा ३०

ममाप्येतदभिप्रेतमिमान्प्रष्टुं महामुनीन्।
यत्त्वयाभिहितं भद्रेमत्स्वभावानुयातया ३१

सोऽहमेतन्महाभागे प्रक्ष्याम्येतान्महामुनीन्।
नैषामविदितं किञ्चित्त्रिषु लोकेषु विद्यते ३२

प्रह्लाद उवाच।
एवमुक्त्वा प्रियां भार्यां प्रणिपत्य च तानृषीन्।
यथावदेतदखिलं पप्रच्छासुरसत्तम ३३

राजोवाच।
भगवन्तो ममाशेषं प्रसादाहृतचेतसः।
कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ३४

कोऽहमासं पुरा विप्राः किं च कर्म मया कृतम्।
किं वानया सुचार्वङ्ग्या मम पत्न्या कृतं द्विजाः ३५

येनावयोरियं स्फीतिर्मर्त्यलोके सुदुर्लभा।
चत्वारश्चाप्रतिहता गतयो मम गच्छतः ३६

अशेषा भूभृतो वश्याः कोशस्यान्तो न विद्यते।
बलं चैवाप्रतिहतं शरीरारोग्यमुत्तमम् ३७

अतिभाति च मे कान्त्या भार्येयमखिलं जगत्।
ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ३८

सोऽहमिच्छामि विज्ञातुं तथैवेयमनिन्दिता।
निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ३९

प्रह्लाद उवाच।
इति प्रष्टा नरेन्द्रेण समस्तास्ते तपोधनाः।
वसिष्ठं चोदयामासुः कथ्यतामिति भूभृतः ४०

चोदितः सोऽपि धर्मज्ञैर्मैत्रावरुणिरात्मवान्।
योगमास्थाय सुचिरं यथावद्यतमानसः।
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ४१

स तमाह मुनिर्भूपं विदितार्थो महासुर।
मान्धातारं महाबुद्धिं सपत्नीकमिदं वचः ४२

वसिष्ठ उवाच।
शृणु भूपाल सकलं यस्येदं कर्मणः फलम्।
तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ४३

त्वमासीः शूद्रजातीयः परहिंसापरायणः।
वाक्क्रूरो दण्डपारुष्यो निःस्नेहः सर्वजन्तुषु ४४

तथेयं भवतो भार्या पूर्वमप्यायतेक्षणा।
द्वेष्या बभूव तच्चित्ता तव शुश्रूषणे रता ४५

पतिव्रता महाभागा भर्त्स्यमानाप्यनिष्ठुरा।
त्वद्वाक्यादनु सर्वेषु वीरकर्मसु चोद्यता ४६

नैष्ठुर्यादसहायस्य त्यज्यमानस्य बन्धुभिः।
क्षयं जगाम योऽर्थोऽभूत्सञ्चितः प्रपितामहैः ४७

तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते।
सापि कर्मविपाकेन कृषिर्विफलतां गता ४८

ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम्।
तत्याज साध्वी वेयं त्वां त्यज्यमानापि पार्थिव ४९

अनया च समं साध्व्या विष्णोरावसथे त्वया।
कृतं शुश्रूषणं वीर परिव्राड्ब्रह्मचारिणाम् ५०

भग्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः।
अनन्यगतिरेकस्थस्तस्मिन्नायतने हरेः ५१

तद्वृत्तिलिप्सुः शुश्रूषां जनरञ्जनहेतुकः।
कृतवान्योगिनां वीर कृष्णस्य जगतः पतेः ५२

वासुदेवाजिरे नित्यं कृतं सम्मार्जनं त्वया।
तथैवाभ्युक्षणं वीर नित्यं चैवानुलेपनम्।
पत्न्यानया च धर्मज्ञ यष्मच्चित्तानुवृत्तया ५३

अहन्यहनि तत्कर्म युवयोर्नृप कुर्वतोः।
तत्र चैतन्मयत्वेन पापहानिरजायत ५४

विष्णोः कार्यं मया कार्यं योगिशुश्रूषणं तथा।
न प्रभातं प्रभातं तु चिन्तेयमभवन्निशि ५५

एवमायतनं रम्यमित्येवं च सुखावहम्।
स्थैर्यं न चैवमेतत्स्यादित्यासीत्ते मनः सदा ५६

योगिनां सुखदं त्वेवं कर्मैवं नैवमित्यपि।
तव चित्तमभूत्तत्र योगिकर्मण्यहर्निशम् ५७

एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव।
भृत्यावसायिनः सम्यग्यथोक्ताधिककारिणः ५८

स्मरतः पुण्डरीकाक्षं कार्येणातिदृढात्मनः।
निःशेषमुपशान्तं तत्पापं योगिनिषेवणात् ५९

ततोऽधिकं पुरस्तस्मादादरादनुलेपनम्।
सम्मार्जनं च बहुशः सपत्निकेन ते कृतम् ६०

तत्रागतश्च सौवीरः पुरुजिन्नाम भूपतिः।
महासैन्यपरीवारः प्रभूतगजवाहनः ६१

सर्वसम्पदुपेतं तं सर्वाभरणभूषितम्।
वृतं भार्यासहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम्।
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ६२

सर्वकामप्रदं कर्म देवदेवस्य कुर्वता।
तेनैतदखिलं राज्यमशेषद्वीपवत्तव ६३

तेजश्चैवाधिकं यत्ते तथैतच्छृणु पार्थिव।
योगप्रभावोपलब्धं कथयाम्यखिलं तव ६४

तत्रैवावसथे दीपः प्रशान्तः स्नेहसङ्क्षयात्।
निजभोजनतैलेन पुनः प्रज्वालितस्त्वया ६५

अनया चोत्तरीयान्तचीरवर्त्युपवृंहितः।
तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ६६

तवाप्यखिलभूपालमनःक्षोभकरं ततः।
तेजो नरेन्द्रनस्याच्च किमाराध्य जनार्दनम् ६७

एवं नरेन्द्रशूद्रत्वाद्विष्णुकर्मपरायणः।
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ६८

किं पुनर्यो नरो भक्त्या विष्णुशुश्रूषणादृतः।
करोति सततं पूजां निष्कामो नान्यमानसः ६९

स त्वमृद्धिमिमां लब्ध्वा सर्वलोकेश्वरेश्वरम्।
पूजयाच्युतमीशेशं तमाराध्य न सीदति ७०

पुष्पैर्धूपैस्तथा गन्धैर्दीपवस्त्रानुलेपनैः।
आराधयाच्युतं तद्वद्वेश्मसम्मार्जनादिभिः ७१

यद्यदिष्टतमं किञ्चिद्यद्यदत्यन्तदुर्लभम्।
तत्तद्दात्त्वा जगद्धात्रे वैकुण्ठाय न सीदति ७२

सुगन्धागरुकर्पूरचन्दनाक्षोदकुङ्कुमैः।
वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरैर्ध्वजैः ७३

अन्नोपहारैर्विविधैर्घृतक्षीराभिषेचनैः।
गीतवादितनृत्याद्यैस्तोषयस्वाच्युतं नृप ७४

पुण्यरात्रिषु गोविन्दं नृत्यगीतरवोज्ज्वलैः।
भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ७५

एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत्।
भूप भागवतैर्भूतभव्यकृत्केशवो नरैः ७६

येषां न वित्तं तैर्भक्त्या मार्जनाद्युपलेपनैः।
तोषितो भगवान्विष्णुर्ददात्यभिमतं फलम् ७७

देवकर्मासमर्थाणां प्राणिनां स्मृतिसंस्तवैः।
तोषितोऽभिमतान्कामान्प्रयच्छति जनार्दनः ७८

नैष वित्तैर्न रत्नौघैः पुष्पधूपानुलेपनैः।
सद्भावेनैव गोविन्दस्तोषमायाति संस्मृतः ७९

त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम्।
कृत्वाल्पमीदृशं प्राप्तं राज्यमत्यन्तदुर्लभम् ८०

प्राप्तोपकरणो यस्त्वमेकाग्रमतिरच्युतम्।
तोषयिष्यसि नेन्द्रोऽपि भविता तेन ते समः ८१

तस्मात्त्वमनया देव्या सहात्यन्तविनीतया।
केशवाराधने यत्नं कुरु धर्मभृतां वर ८२

ततः प्राप्स्यसि भक्त्यैव यत्तपोभिः सुदुर्लभम् ८३

इति विष्णुधर्मेषु मान्धाताराज्यप्राप्तिहेतुः।

अथ त्र्! यशीतितमोऽध्यायः।
प्रह्लाद उवाच।
एतन्मुनेर्वसिष्ठस्य निशाम्य वचनं नृपः।
भार्यासहायः स तदा सम्प्रहृष्टतनूरुहः १

कृतकार्यमिवात्मानं मन्यमानोऽसुरोत्तम।
उवाच प्रणतो भूत्वा मान्धाता वारुणिं वचः २

मान्धातोवाच।
यथामरत्वं सम्प्राप्य यथा वा ब्रह्म शाश्वतम्।
परं निर्वाणमाप्नोति तथाहं वचसा तव ३

कृतकृत्यः सुखी चास्मि निर्वृतिं परमां गतः।
अज्ञानतमसाछन्ने यत्प्रदीपस्त्वयैधितः ४

अहमेषा च तन्वङ्गी विभूतिभ्रंसभीरुकौ।
आढ्यावापादितौ ब्रह्मन्निहाद्य वचसा तव ५

सम्पदां कथितं बीजमावयोर्भवता मुने।
तदुप्तावुद्यतावावां विजानीहि द्विजोत्तम ६

न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः।
आराध्यते जगन्नाथो भावशून्यैर्जनार्दनः ७

बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः।
निःस्वैराराध्यते देवो विष्णुः सर्वेश्वरेश्वरः ८

सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने।
यत्त्वां पृच्छामि तन्मे त्वं प्रसादसुमुखो वद ९

कानि व्रतानि यैर्देवो नरैः स्त्रीभिश्च केशवः।
तोषमाराधितोऽभ्येति कैश्च दानैर्महामुने १०

रहस्यानि च देवस्य प्रीतये यानि चक्रिणः।
तायशेषाणि मे ब्रूहि कृष्णाराधनकाङ्क्षिणः ११

वसिष्ठ उवाच।
शृणु भूपाल यैर्विष्णुर्नरैराराध्यते व्रतैः।
नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे १२

समभ्यर्च्य जगन्नाथं वासुदेवं समाधिना।
एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणात्मकम्।
करोति केशवप्रीत्यै कार्त्तिकं मासमात्मवान् १३

पूर्वे वयसि यत्तेन ज्ञानतोऽज्ञानतोऽपि वा।
पापमाचरितं तस्मान्मुच्यते नात्र संशयः १४

अनेनैव विधानेन मार्गशीर्षेऽपि माधवम्।
समभ्यर्च्यैकभक्तं वै वर्णिभ्यो यः प्रयच्छति।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे १५

मध्ये वयसि यत्पापं योषिता पुरुषेण वा।
कृतं तस्माच्च तेनोक्तो विमोक्षः परमात्मना १६

तथा चैवैकभक्तं वै वर्णाग्रेभ्यः प्रयच्छति।
पुण्डरीकाक्षमभ्यर्च्य पौषमासे महीपते १७

तत्प्रीणनाय यत्पापं वार्द्धिके तेन वै कृतम्।
स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा १८

त्रैमासिकव्रतमिदं यः करोति नरेश्वर।
स विष्णुप्रीणनात्पापैर्लघुभिर्विप्रमुच्यते १९

द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् २०

व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम्।
त्रिभिः संवत्सरैरेव प्रददाति फलं नृणाम् २१

त्रिभिर्मासैस्त्रिरवस्थास्त्रिविधात्पातकान्नृप।
त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षिकैः २२

यतस्ततो व्रतमिदं त्रिक्रमं समुदाहृतम्।
सर्वपापप्रशमनं केशवाराधनं परम् २३

इति विष्णुधर्मेषु त्रिविक्रमव्रतम्।

अथ चतुरशीतितमोऽध्याहः।
वसिष्ठ उवाच।
शृणुष्व च महीपाल व्रतं विष्णुपदत्रयम्।
सर्वपापप्रशमनं यज्जगाद पुरा हरिः १

प्राचेतसाय दक्षाय दक्षश्चाह विवस्वते।
विवस्वानलसिध्राय अलसिध्रोऽसिताय च २

असितेन समाख्यातमल्पायासं महाफलम्।
तदिदं श्रूयतां सम्यग्व्रतं विष्णुपदत्रयम् ३

दक्षः प्रजापतिः पूर्वं विष्णुमाराध्य पृष्टवान्।
बहुशस्तु विपन्नायां सृष्टावरिनिसूदन ४

दक्ष उवाच।
भगवन्सर्वकऋत्वं ममादिष्टं स्वयम्भुवा।
ब्रह्मणा देवदेवेश तवादेशेन केशव ५

विपन्ना च जगन्नाथ मम सृष्टिः कृता कृता।
पूर्वकर्मविपाकेन व्याकुलश्चास्मि चेतसा ६

यथा च देव मुच्येय अस्मात्संसारसङ्कटात्।
विषयासङ्गविषमात्तन्ममाज्ञापयाच्युत ७

वसिष्ठ उवाच।
इत्येवमुक्तो दक्षेण देवदेवो जनार्दनः।
आचष्ट दुःखक्षयदं व्रतं विष्णुपदत्रयम् ८

सर्वारम्भविनिष्पत्तिकारकं पापनाशनम्।
संसारोच्छेदकं धीरैराचीर्णं स्थिरबुद्धिभिः ९

तदहं तव राजेन्द्रव्रतानामुत्तमोत्तमम्।
कथयामि समाचष्ट यथा पूर्वं ममासितः १०

आषाढे मासि पूर्वासु तथाषाढासु पार्थिव।
समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः ११

पुष्पैर्हृद्यैस्तथा धूपैर्गन्धैः सागरुचन्दनैः।
यथाविभवतश्चान्यैरन्नैर्वासोभिरेव च १२

क्षीरस्नेहस्थितं तद्वत्पैष्टं विष्णुपदद्वयम्।
समभ्यर्च्य यथान्यायं केशवस्याग्रतो न्यसेत् १३

यवांश्च दद्याद्विप्राय भूगतिः प्रीयतामिति।
नक्तं भुञ्जीत राजेन्द्रहविष्यान्नं सुसंस्कृतम् १४

तथोत्तरास्वाषाढासु श्रावणे मासि मानवः।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् १५

विप्राय च यवान्दद्यात्प्रीणयित्वा च भूगतिम्।
नक्तं भूञ्जीत राजेन्द्रनरो योषिदथापि वा १६

प्राप्ते भाद्रपदे मासि पूर्वभद्रपदासु च।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् १७

विप्राय च यवान्दत्त्वा प्रीणयित्वा भुवोगतिम्।
भुञ्जीत गोरसप्रायं नरो योषिदथापि वा १८

तद्वदाश्वयुजे दानं तद्वद्गोविन्दपूजनम्।
पदद्वयस्य पूजां च प्रीणनं च भुवोगतेः १९

नक्तं भुञ्जीत गोरसं मौनमास्थितः।
स्त्री वा राजेन्द्रपूर्वासु तथा भद्रपदासु वै २०

फाल्गुने फल्गुनी पूर्वा भवती ह यदा नृप।
त्रिविक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत् २१

पदद्वयं च देवस्य सम्यगभ्यर्च्य पार्थिव।
हिरण्यं दक्षिणां दत्त्वा स्वर्गतिः प्रीयतामिति २२

नक्तं भुञ्जीत राजेन्द्रवह्निपाकविवर्जितम्।
एष एवोत्तरायोगे चैत्रे मासे विधिः स्मृतः २३

एतज्जगाद गोविन्दः पुरा दक्षाय पृच्छते।
सर्वपापहरं पुण्यं व्रतं विष्णुपदत्रयम् २४

यथोक्तमेतद्यो भक्तो करोति नृपसत्तम।
सर्वकामानवाप्नोति केशवस्य वचो यथा २५

अपुत्रो लभते पुत्रमपतिर्लभते पतिम्।
समागमं प्रोषितैश्च तथा प्राप्नोति बान्धवैः २६

द्रव्यमैश्वर्यमारोग्यं सौभाग्यं चारुरूपताम्।
प्राप्नुवन्त्यखिलानेतान्पूजयित्वा पदत्रयम् २७

यान्यान्कामान्नरः स्त्री वा हृदयेनाभिवाञ्छन्ति।
तांस्तांश्चाप्नोति निष्कामो विष्णुलोकं च गच्छति २८

पूर्वं कृत्वापि पापानि नरः स्त्री वा नराधिप।
पदत्रयव्रतं चीर्त्वा मुच्यते सर्वकिल्बिषैः २९

इति विष्णुधर्मेषु विष्णुपदत्रयम्।

अथ पञ्चाशीतितमोऽध्यायः।
राजोवाच।
विष्णोराराधनार्थाय यानि दानानि सत्तम।
देयानि तान्यशेषाणि ममाचक्ष्व द्विजोत्तम १

येन चैव विधानेन दानं पुंसः सुखावहम्।
प्रीणनाय च कृष्णस्य तन्ममाख्याहि विस्तरात् २

वसिष्ठ उवाच।
कृतोपवासः सम्प्राश्य पञ्चगव्यं नरेश्वर।
घृतक्षीराभिषेकं च कृत्वा विष्णोः समाहितः ३

समभ्यर्च्य च गोविन्दं पुष्पादिभिररिन्दम।
उदङ्मुखीमर्चयित्वा तथा गृष्टिं पयस्विनीम् ४

सपुत्रां वस्त्रसंवीतां सितयज्ञोपवीतिनीम्।
स्वर्णशृङ्गीं शुभाकारां हिरण्योपरिसंस्थिताम् ५

हिरण्यंवाचयित्वाग्रे ब्राह्मणायोपपादयेत्।
इमां त्वं प्रतिगृह्णीष्व गोविन्दः प्रीयतामिति ६

सम्यगुच्चार्य तं विप्रं गोविन्दं नृप कल्पयेत्।
अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप ७

अनेन विधिना धेनुं यो विप्राय प्रयच्छति।
गोविन्दप्रीणनाद्राजन्विष्णुलोकं च गच्छति ८

सप्तावरांस्तथा पूर्वान्सप्तात्मानं च मानवः।
सप्तजन्मकृतात्पापान्मोचयत्यवनीपते ९

पदे पदे च यज्ञस्य गोसवस्य स मानवः।
फलमाप्नोति राजेन्द्रदक्षायैवं जगौ हरिः १०

सर्वकामसमृद्धस्य सर्वकालेषु पार्थिव।
भवत्यघौघापहरा यावदिन्द्राश्चतुर्दश ११

सर्वेषामेव पापानां कृतानामविजानता।
प्रायश्चित्तमिदं शस्तमनुतापोपवृंहितम् १२

इक्ष्वाकुनैषा राजेन्द्रपूर्वं दत्ता महात्मना।
ततः स लोकानमलान्प्राप्तवानवनीपतिः १३

तथैवान्यैर्महीपालैर्द्विजवैश्यादिभिस्तथा।
लोकाः कामदुघाः प्राप्ता दत्त्वेदृग्विधिना नृप १४

इति विष्णुधर्मेषु गोप्रदानविधिः।

अथ षडशीतितमोऽध्यायः।
वसिष्ठ उवाच।
तिलधेनुं प्रवक्ष्यामि केशवप्रीणनाय या।
दत्ता भवति यश्चास्या नरेन्द्रविधिरुत्तमः १

फलमाप्नोति राजेन्द्रतद्वद्वा विधिवत्तदा।
यां दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः।
आगारदाही गरदः सर्वपापरतोऽपि वा २

महापातकयुक्तो यो युक्तो यश्चोपपातकैः।
स मुच्यतेऽखिलैः पापैर्विष्णुलोकं स गच्छति ३

स्वनुलिप्ते महीपृष्टे वस्त्राजिनसमावृते।
धेनुं तिलमयीं कृत्वा सर्वरत्नैः समन्विताम् ४

सुवर्णशृङ्गीं रौप्यखुरां गन्धघ्राणवतीं शुभाम्।
मृष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ५

इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम्।
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ६

स्रग्दामपुच्छां कुर्वीत नवनीतस्तनान्विताम्।
फलैर्मनोहरैर्भक्षैर्मणिमुक्ताफलान्विताम्।
तिलद्रोणेन कुर्वीत आढकेन तु वत्सकम् ७

शुभवस्त्रयुगच्छन्नां चारुच्छत्त्रसमन्विताम्।
ईदृक्संस्थानसम्पन्नां कृत्वा श्राद्धसमन्वितः।
कांस्योपदोहनां दद्यात्केशवः प्रीयतामिति ८

सम्यगुच्चार्य विधिना दत्त्वैतेन नराधिप।
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ९

प्रपितामहं तथा पूर्वं पुरुषाणां चतुष्टयम्।
आत्मानं तनयं पौत्रं तदधस्तु चतुष्टयम्।
तारयत्यवनीपाल तिलधेनुप्रदो नरः १०

यश्च गृह्णाति विधिवत्तस्याप्येवंविधान्कुलान्।
चतुर्दश तथा चैव ददतश्चानुमोदकाः ११

दीयमानां प्रपश्यन्ति तिलधेनुं च ये नराः।
तेऽप्यशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् १२

प्रशान्ताय सुशीलाय तथामत्सरिणे बुधः।
तिलधेनुं नरो दद्याद्वेदस्नाताय धर्मिणे १३

त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति।
दत्त्वैकरात्रं च पुनस्तिलानत्ति नरेश्वर १४

दातुर्विशुद्धपापस्य तस्य पुण्यवतो नृप।
चान्द्रायणादभ्यधिकं शस्तं तत्तिलभक्षणम् १५

इति विष्णुधर्मेषु तिलधेनुविधिः।

अथ सप्ताशीतितमोऽध्यायः।
वसिष्ठ उवाच।
तिलाभावे तथा दद्याद्घृतधेनुं यतव्रतः।
कल्पयित्वा यथान्यायं तिलधेन्वा यतव्रतः।
येन भूप विधानेन तदिहैकमनाः शृणु १

वासुदेवं जगन्नाथं पुरुषेशमजं विधुम्।
सर्वपापनिहन्तारं घृतक्षीराभिषेचनात्।
सम्पूज्य पूर्ववत्पुष्पगन्धधूपादिभिर्नरः २

अहोरात्रोषितो भूत्वा तत्परः प्रयतः शुचिः।
परमेशमथो नाम्ना अभिष्टूय घृतार्चिषा ३

गव्यस्य सर्पिषः कुम्भं पुष्पमाल्यादिभूषितम्।
कांस्योपधानसंयुक्तं सितवस्त्रयुगेन च।
हिरण्यगर्भसहितं मणिविद्रुममुक्तिकैः ४

इक्षुयष्टिमयान्पादान्खुरान्रौप्यमयांस्तथा।
सौवर्णे चाक्षिणी कुर्याच्छृङ्गे चागरुकाष्ठजे ५

सप्तधान्यमये पार्श्वे पत्त्रोर्णानि च कम्बलम्।
कुर्यात्तुरुष्ककर्पूरौ घ्राणं फलमयान्स्तनान् ६

मणिरत्नसुवर्णानां सम्यक्कल्पनया कृताम्।
तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम्।
क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः।
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ७

ईदृक्स्वरूपां सङ्कल्प्य घृतधेनुं नराधिप।
तद्वत्कल्पनया धेन्वा घृतवत्सं प्रकल्पयेत् ८

तं च विप्रं महाभाग मनसैव घृतार्चिषम्।
कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ९

एतां ममोपकाराय घृह्णीष्व त्वं द्विजोत्तम।
प्रीयतां मम देवेशो घृताऋचिः पुरुषोत्तमः।
इत्युदाहृत्य विप्राय दद्याद्धेनुं नरोत्तम १०

मणिमुक्तासुवर्णानां सम्यक्कल्पनया कृताम्।
दत्त्वैकरात्रं स्थित्वा च घृताहारो नराधिप।
मुच्यते सर्वपापेभ्यस्तथा दानफलं शृणु ११

घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः।
तेषु लोकेषु लोकेश स पुण्येषूपजायते १२

पितुरूर्ध्वेन ये सप्त पुरुषाः सप्त येऽप्यधः।
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषः १३

सकामानामियं व्युष्टिः कथिता नृपसत्तम।
विष्णुलोकं नरा यान्ति निष्कामा घृतधेनुदाः १४

घृतमग्निर्घृतं सोमस्तन्मयाः सर्वदेवताः।
घृतं प्रयच्छता दत्ता भवन्त्यखिलदेवताः १५

इति विष्णुधर्मेषु घृतधेनुकल्पः।

अथाष्टाशीतितमोऽध्यायः।
वसिष्ठ उवाच।
जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया।
देवदेवो हृषीकेशः सर्वेशः सर्वभावनः १

जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम्।
रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् २

सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम्।
कुष्ठं मांसीमुशीरं च वालकामलकैर्युतम् ३

प्रियङ्गुपात्रसहितं सितयज्ञोपवीतिनम्।
सच्छत्त्रं सौपानत्कं दर्भविस्तरसंस्थितम् ४

चतुर्भिः संवृतं भूप तिलपात्रैश्चतुर्दिशम्।
स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे ५

उपोषितः समभ्यर्च्य वासुदेवं जनेश्वरम्।
पुष्पधूपोपहारैस्तु यथाविभवमादृतः ६

सङ्कल्प्य जलधेनुं च कुम्भं समभिपूज्य च।
पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः ७

एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम्।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ८

दद्याद्विप्राय राजेन्द्रप्रीत्यर्थं जलशायिनः।
जलशायी जगद्योनिः प्रीयतां मम केशवः ९

इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम्।
अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम् १०

अनेन विधिना दत्त्वा जलधेनुं जनाधिप।
सर्वाह्लादानवाप्नोति ये दिव्या ये च मानुषाः ११

शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः।
नृणां भवति दत्तायां जलधेन्वां न संशयः १२

अत्रापि श्रूयते भूप पुद्गलेन महात्मना।
जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल १३

स पुद्गलः पुरा विप्रो यमलोकगतो मुनिः।
ददर्श यातना घोराः पापकर्मकृतां किल १४

दीप्ताग्नितीक्ष्णशस्त्रोत्थाः क्वाथतैलगतास्तथा।
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ १५

व्रणाः क्षारनिपातोग्राः कुम्भीपाकमहाभयाः।
ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् १६

आह्लादं ते तदा जग्मुः पापास्तदनुकम्पिताः।
तं दृष्ट्वा नारकाः केचित्केचित्तदवलोकिनः १७

तदा स्वस्थं विलोक्यैव मुनिर्नारकमण्डलम्।
धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् १८

तस्मै चाचष्ट राजेन्द्रतदा वैवस्वतो यमः।
आह्लादहेतुं विप्राय पृच्छते पृथिवीपते १९

यम उवाच।
तवानुभावादेतेषां नारकाणां द्विजोत्तम्।
सम्प्रवृत्तोऽयमाह्लादः कारणं यच्छृणुष्व तत् २०

त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम्।
जलधेनुः पुरा दत्ता विधिवन्मुनिपुङ्गव २१

अस्मात्तु जन्मनोऽतीते तृतीये द्विज जन्मनि।
तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी २२

येन त्वं तपसा युक्तो मानवानामगोचरम्।
सम्प्राप्तोऽसि महाप्रज्ञ सर्वशास्त्रविशारद २३

ये त्वां पश्यन्ति शृण्वन्ति ये च ध्यायन्ति पापिनः।
शृणोषि यांस्त्वं विप्रेन्द्रयांश्च ध्यायसि पश्यसि २४

निर्वृतिः परमा तेषां सर्वाह्लादप्रदायिनी।
सद्यो भवति मात्र त्वं द्विजेन्द्रकुरु विस्मयम् २५

आह्लादहेतुजननं नास्ति विप्रेन्द्रतादृशम्।
जलधेनुर्यथा नॄणां जन्मान्येकोनसप्ततिः २६

न दाघो न क्लमो नार्तिर्न मोहो विप्र जायते।
अपि जन्मसहस्रेषु जलधेनुप्रदायिनाम् २७

एकजन्मकृतं वाञ्छा त्रिजन्मोत्थं समाहृता।
सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौर्नृणाम् २८

स त्वं गच्छ गृहीत्वार्घमस्मत्तो द्विजसत्तम।
येषां समाश्रयः कृष्णो न नियम्या हि ते मया २९

कृष्णः सम्पूजितो यैस्तु ये कृष्णार्थमुपोषिताः।
यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ३०

नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम्।
यैर्भावभावितैर्विप्र न ते मद्विषयोपगाः ३१

दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति।
श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ३२

उत्तिष्ठद्भिः स्वपद्भिश्च व्रजद्भिश्च जनार्दनः।
यैः संस्मृतो द्विजश्रेष्ठ न ते मद्विषयोपगाः ३३

क्षुतस्खलितभीत्यादावसहद्भिश्च वेदनाम्।
कृष्णेत्युदीरितं यैश्च न ते मद्विषयोपगाः ३४

सर्वाबाधासु ये कृष्णं स्मरन्त्युच्चारयन्ति च।
तद्भावभाविता विप्र न ते मद्विषयोपगाः ३५

स एव धाता सर्वस्य तन्नियोगकरा वयम्।
जनसंयमनोद्युक्ताः सोऽस्मत्संयमनो हरिः ३६

वसिष्ठ उवाच।
इत्थं निशाम्य वचनं यमस्य वदतो मुनिम्।
ऊचुस्ते नारकाः सर्वे वह्निशस्त्रास्त्रभीरवः ३७

नारका ऊचुः।
नमः कृष्णाय हरये विष्णवे जिष्णवे नमः।
हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ३८

नमः पङ्कजनेत्राय नमः पङ्कजनाभये।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे ३९

गोविन्दाय नमो नित्यं नमश्चोदधिशायिने।
नमः करालवक्त्राय नृसिंहायातिनादिने ४०

शार्ङ्गिणे सितखड्गाय शङ्खचक्रगदाधृते।
नमो वामनरूपाय क्रान्तलोकत्रयाय च ४१

वराहरूपाय तथा नमो यज्ञाङ्गधारिणे।
व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ४२

वासुदेव नमस्तुभ्यं नमः कैटभसूदन।
केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ४३

वसिष्ठ उवाच।
नमोऽस्तु वासुदेवायेत्येवमुच्चारिते ततः।
शस्त्राणि कुण्ठतां जग्मुरनलश्चाप्यशीशमत् ४४

अभज्यन्त च यन्त्राणि समुत्पेतुरयोमुखाः।
संशुष्काः क्षारसरितः पतितः कूटशाल्मलिः ४५

प्रकाशतामसीतत्त्वं नरकश्चागतस्तु सः।
विवान्बभञ्ज पवनोऽप्यसिपत्रवनं ततः ४६

निरुत्साहा जडधियो बभूवुर्यमकिङ्कराः।
आसन्गन्धाम्बुवाहिन्यः पूयशोणितनिम्नगाः ४७

ववौ सुगन्धी पवनो मनःप्रीतिकरस्ततः।
वेणुवीणास्वनयुतान्गीतशब्दांश्च शुश्रुवुः ४८

तं तादृशमथालक्ष्य नृप वैवस्वतो यमः।
नरकस्य विपर्यासं सङ्क्षुद्धहृदयस्ततः ४९

ददर्श नारकान्सद्यो दिव्यस्रगनुलेपनान्।
जाज्वल्यमानांस्तेजोभिरमलाम्बरवाससः ५०

नमो नमोऽस्तु कृष्णाय गोविन्दायाव्ययात्मने।
वासुदेवाय देवाय विष्णवे प्रभविष्णवे ५१

इत्येवं वादिनस्तत्र प्रजासंयमनो यमः।
क्षीणपापचयांस्तांस्तु पाद्यार्घ्यादिभिरर्चयन् ५२

पूजयित्वा च तानाह स कृष्णाय कृताञ्जलिः।
समाहितमना भूत्वा धर्मराजो नरेश्वर ५३

विष्णोर्देवातिदेवस्य जगद्धातुः प्रजापतेः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ५४

सर्वस्य सर्वसंस्थस्य सर्वाधारस्य योगिनः।
ये विष्णोः प्रणतास्तेभ्यो नमः सद्यः पुनः पुनः ५५

तस्य यज्ञवराहस्य विष्णोरमिततेजसः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ५६

वसिष्ठ उवाच।
एवं ते संस्तुतास्तेन धर्मराजेन नारकाः।
विमानानि समारूढा नृत्तगान्धर्ववन्ति वै ५७

पुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप।
जातिस्मरोऽभवद्भूप कण्वगोत्रे महामुनिः ५८

संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च।
जलधेन्वाश्च माहात्म्यं संस्मृत्यैतदगायत ५९

अहो दुरुत्तरा विष्णोर्मायेयमतिगह्वरी।
यया मोहितचित्तस्तं न वेत्ति परमेश्वरम् ६०

जीवो वाञ्छति कीटत्वं यूकामत्कुणयोनितः।
तस्माच्च शलभादीनां योनिं तस्माच्च पक्षिणाम् ६१

ततश्च पशुतां प्राप्य नरत्वमभिवाञ्छति।
विमुक्तिहेतुकी धन्या नरयोनिः कृतात्मनाम् ६२

न प्राप्नुवन्ति संसारे विभ्रान्तमनसो गतिम्।
जीवा मानुष्यतामन्ये जन्मनामयुतैरपि ६३

विष्णुमायापरीतास्ते प्राप्यापि न तरन्ति ये।
तदीदृग्दुर्लभं प्राप्य मुक्तिद्वारमचेतसः।
पतन्ति भूयः संसारे विष्णुमायाविमोहिताः ६४

दुस्तरापि तु साध्यासौ माया कृष्णस्य मोहनी।
छिद्यते यामनोन्यस्ते मुधैव हि जनार्दने ६५

असन्त्यज्य च गार्हस्थ्यमतप्त्वैव तथा तपः।
छिन्दन्ति वैष्णवीं मायां केशवार्पितमानसाः ६६

अविरोधेन विषयां भुञ्जन्विष्णुव्यपाश्रयः।
कृत्वा मनस्तरत्येतां विष्णोर्मायां सुदुस्तराम् ६७

ईदृग्बहुफलां भक्तिं सर्वधातरि केशवे।
मायया तस्य देवस्य न कुर्वन्ति विमोहिताः ६८

मुधैवोक्तं मुधायातं मुधा तद्विधिचेष्टितम्।
मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ६९

आराधितो हि यः पुंसामैहिकामुष्मिकं फलम्।
ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ७०

संवत्सरास्तथा मासा विफला दिवसाश्च ते।
नराणां विषयान्धानां येषु नाराधितो हरिः ७१

यो न वित्तर्द्धिविभवैर्न वसोभिर्न भूषणैः।
तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ७२

जलधेन्वाश्च माहात्म्यं निशाम्यापीदृशं नराः।
तां न यच्छन्ति ये तेषां विवेकः कुत्र तिष्ठति ७३

कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि।
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ७४

सम्प्राप्य तन्न यैर्विष्णुस्तोषितो नाम्बुधेनुका।
दत्ता च सम्यक् ते मुष्टा जन्मनि सुबहूनि भोः ७५

ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः।
आराधयत गोविन्दं जलधेनुं प्रयच्छत ७६

दुःसहो नारको वह्निरविषह्याश्च यातनाः।
ज्ञानं ममैतदालम्ब्य कृष्णे भवत सुस्थिराः ७७

अदेशिके देशिकोऽहमत्र मार्गे मयोदितम्।
विमृष्य सत्यमित्येतन्मनः कृष्णे निवेश्यताम् ७८

प्रातः कृष्णेति देवेति गोविन्देति च जल्पताम्।
मध्याह्ने चापराह्ने च योऽवसादः स उच्यताम् ७९

अनेकविषयालम्बि यच्चित्तं तज्जनार्दने।
कुरुध्वमालम्बनवत्संस्मृतः पुण्यदो हि सः ८०

मुधैव जिह्वा कृष्णेति केशवेति च वक्ष्यति।
मुधा च चित्तं तद्गामि यदि स्यात्किमतोऽधिकम् ८१

मयोक्तमेतद्बहुशो विनष्टे तु शरीरके।
मनुष्यत्वं विना विष्णुर्दुर्लभो वो भविष्यति ८२

वसिष्ठ उवाच।
एताः पुद्गलगाथास्ते यमवाक्यं तवोदितम्।
जलधेन्वाश्च माहात्म्यं विष्णुसम्पूजनस्य च ८३

व्रतानि सोपवासानि सर्वकामप्रदानि ते।
व्रतमन्यन्महाभाग सर्वकामप्रदं शृणु ८४

इति विष्णुधर्मेषु पुद्गलगाथाः।

अथैकोननवतितमोऽध्यायः।
वसिष्ठ उवाच।
भविष्यं चापरं भूप ममैतच्छ्रोतुमर्हसि।
यत्प्रक्ष्यति महीपालः परिक्षित्स्वपुरोहितम् १

परीक्षितः पुरोधास्तु द्विजो गौरमुखो नृप।
भविष्यति शमीकस्य शिष्यः परमसम्मतः २

स च राजा जगद्धातुर्देवदेवस्य शार्ङ्गिनः।
सदैवाराधने यत्नं भक्तियुक्तः करिष्यति ३

पुरोधसं गौरमुखं प्रणिपत्य स पार्थिवः।
प्रक्ष्यत्याराधनार्थाय देवदेवस्य चक्रिणः ४

भगवन्भवभीतोऽहमभवाय ततो भवान्।
आराधयितुमिच्छामि सर्वेच्छापूरकं हरिं ५

सङ्कुरुष्व महाभाग प्रसादं मम सुव्रत।
कृष्णाराधनकामस्य मनसो देशिको भव ६

आराधनेन येनेशो जगतामीश्वरेश्वरः।
विष्णुराराध्यते पुम्भिः संसाराब्धिपरिक्षतैः ७

तन्ममोपदिश ब्रह्मन्प्रसादप्रवणं मनः।
कृत्वा सदैवार्तिमतां शरण्यं शरणं गुरुः ८

एवं स तेन भूपाल भूपालेन र्षिपुङ्गवः।
केशवाराधनार्थाय सम्यक् पृष्टः प्रवक्ष्यति ९

नमस्कृत्य जगद्धात्रे देवदेवाय शार्ङ्गिने।
परमेशसुरेशाय हृषीकेशाय वेधसे १०

वरार्थिनाममोघाय परस्मै हरिमेधसे।
सर्वकल्याणभूताय शङ्खचक्रगदाधृते ११

वरासिचर्मावितते क्रूरशान्तात्ममूर्तये।
यद्यद्भूतोपकाराय तत्तद्रूपविकारिणे १२

परमाण्वन्तपर्यन्तसहस्रांशाणुमूर्तये।
जठरान्तायुताशान्तस्थितब्रह्माण्डधारिणे १३

श्वेतादिदीर्घह्रस्वादिकठिनादिविकल्पना।
योगिचिन्त्ये जगद्धाम्नि यत्र नास्त्यखिलात्मनि १४

तमजं शाश्वतं नित्यं परिणामविवर्जितम्।
योगिभिश्चिन्त्यते मूर्तिर्यत्र तत्राखिलात्मनि १५

तत्र तत्रात्मनो नित्यं परिणामविवर्जितम्।
प्रणम्य जगतामीशमनन्तं परतः परम् १६

परं पराणां स्रष्टारं पुराणं पुरुषं प्रभुम्।
वरं वरेण्यं वरदं स्थूलसूक्ष्मस्वरूपिणम् १७

अशेषजगतां मूलमनादिनिधनस्थितिम्।
परापरस्वरूपस्थमविकारस्वरूपिणम् १८

यस्योपचारतः स्वर्गं स्वरूपं व्यतिरिच्यते।
ज्ञानज्ञेयस्य मुनिभिर्ज्ञानविद्भिर्महात्मभिः १९

तस्मै पार्थिवमुख्याय रघुवर्यमहात्मने।
श्रूयतां स मुनिश्रेष्ठो यद्वक्ष्यति परीक्षिते २०

गौरमुख उवाच।
देवकी नाम राजेन्द्रदेवकस्याभवत्सुता।
अनपत्या तपस्तेपे पुत्रार्थं किल भामिनी २१

भार्या सा वसुदेवस्य सत्यधर्मपरायणा।
न चातुष्यत गोविन्दस्ततस्तामाह भार्गवः २२

भार्गव उवाच।
किमर्थं तप्यते भद्रेतपः परमदुश्चरम्।
कोऽर्थस्तवाभिलषितो गन्तुं कुत्र तवेप्सितम् २३

देवक्युवाच।
अपुत्राहं द्विजश्रेष्ठ पत्युर्मे नास्ति सन्ततिः।
साहमाराध्य गोविन्दं पुत्रमिच्छामि शोभनम् २४

तपस्तावत्करिष्यामि परमेण समाधिना।
यावदाराधितो विष्णुर्दास्यत्यभिमतं मम २५

भार्गव उवाच।
गोविन्दाराधने यत्नो यदि ते कुलनन्दिनि।
तदिदं व्रतमास्थाय तोषयाशु जनार्दनम् २६

प्रथमे कार्त्तिकस्याह्नि सम्प्राप्ते देवकात्मजे।
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः २७

बाणपुष्पैः समभ्यर्च्य वासुदेवमजं विभुम्।
दत्त्वा च चन्दनं धूपं परमान्नं निवेदयेत्।
घृतेन वाचयेद्विप्रं गृह्णीयाच्च ततो व्रतम् २८

अद्यप्रभृत्यहं मासं विरतः प्राणिनां वधात्।
असत्यवचनात्स्तैन्यान्मधुमांसादिभक्षणात् २९

स्वपन्विबुध्यन्गच्छंश्च स्मरिष्याम्यहमच्युतम्।
परापवादपैशून्यं परपीडाकरं तथा ३०

सच्छास्त्रदेवतायज्विनिन्दामन्यस्य वा भुवि।
न वक्ष्यामि जगत्यस्मिन्पश्यन्सर्वगत हरिम् ३१

इत्यन्यच्चापि शक्नोति यन्निर्वोढुं यशस्विनि।
कुर्वीत नियमं तस्य त्यागो धर्माय यस्य च ३२

कृत्वैवं पुरतो विष्णोर्निवृत्तिं पापतः शुभे।
नैवेद्यं स्वयमश्नीयान्मौनी नित्यमुदङ्मुखः ३३

मार्गशीर्षे तथा मासि जातिपुष्पैर्जनार्दनम्।
समभ्यर्च्य शुभे धूपं चन्दनं सन्निवेद्य च ३४

परमान्नं च देवाय विप्राय च पुनर्घृतम्।
दत्त्वा तथैव गृह्णीयान्नियमं चास्य रोचते ३५

तथैव नक्तं भुञ्जीत नैवेद्यं कुलनन्दिनि।
सर्वेष्वेव तु मासेषु पञ्चगव्यादिकं समम् ३६

पुष्पधूपोपहारेषु विशेषो दक्षिणासु च।
स्नानप्राशनयोः साम्यं तथा वै नक्तभोजने ३७

अर्चयेत्प्रतिमासं च यैः पुष्पैस्तानि मे शृणु।
ये च धूपाः प्रदातव्या नैवेद्यान्नं च यद्यदा ३८

बाणस्य जातिकुसुमैस्तथैव च कुरुण्ठकैः।
कुन्दातिमुक्तकै रक्तकरवीरैश्च देवकि ३९

श्वेतैस्ततो मालिकया तथा मल्लिकया ततः।
दधिपिण्ड्याथ केतक्या पद्मरक्तोत्पलेन च।
क्रमेणाभ्यर्चितो विष्णुर्ददाति मनसेप्सितम् ४०

कार्त्तिके मार्गशीर्षे च धूपः पौषे च चन्दनम्।
माघफाल्गुनचैत्रेषु दद्याद्विष्णोस्तथागरुम् ४१

वैशाखादिषु मासेषु त्रिषु देवकि भक्तितः।
कर्पूरं देवदेवाय गुग्गुलं श्रावणादिषु ४२

कार्त्तिकादिषु मासेषु परमान्नं शुभे त्रिषु।
कासारं माघपूर्वेषु यवान्नं च ततस्त्रिषु ४३

घृतं तिलाञ्जलघटान्हिरण्यमथवाजिनम्।
प्रतिमासं तथा दद्याद्ब्राह्मणाय शुभव्रते ४४

यथोक्तं नियमानां च ग्रहणं प्रतिमासिकम्।
कुर्वञ्जगत्पतिर्विष्णुः प्रीयतामिति मानवः ४५

योषिदप्यमलप्रज्ञे व्रतमेतद्यथाविधि।
करोति या सा सकलानवाप्नोति मनोरथान् ४६

व्रतेनाराधितो विष्णुरनेन जगतः पतिः।
ददात्यभिमतान्कामानल्पकालेन भामिनि ४७

धन्यं यशस्यमायुष्यं सौभाग्यारोग्यदं तथा।
व्रतमेतत्प्रियतमं व्रतेभ्योऽव्यक्तजन्मनः ४८

व्रतेनानेन शुद्धानामब्देनैकेन केशवः।
सुखदृश्यो न सन्देहो दीपेनैवाग्रतः स्थितः ४९

कायवाङ्मनसो शुद्धिं करोत्येतन्महाव्रतम्।
शुद्धानां चामलो देवो दृश्य एव जनार्दनः ५०

तस्मिन्नेकाग्रचित्तानां प्राणिनां वरवर्णिनि।
विप्रा एव प्रयत्नेन मुक्तिभाजो विभूतयः ५१

यथा कल्पतरुं प्राप्य यद्यदिच्छति चेतसा।
तत्तत्फलमवाप्नोति तथा सम्प्राप्य तं विभुम् ५२

शुद्धिव्रतमिदं तस्मान्महापातकनाशनम्।
आराधनाय कृष्णस्य कुरु देवकि पावनम् ५३

तस्मिंश्चीर्णे हृषीकेशस्तुभ्यं दास्यति दर्शनम्।
दृष्टे चाभिमतं यत्ते तदशेषं भविष्यति ५४

इति विष्णुधर्मेषु शुद्धिव्रतम्।

अथ नवतितमोऽध्यायः।
गौरमुख उवाच।
देवकी भार्गवस्यैतच्छ्रुत्वा वाक्यं नराधिप।
शुद्धिकामा चचाराथ सर्वकामप्रदं व्रतम् १

व्रतेनाराधितस्तेन तदा देव्या जनार्दनः।
ददौ दर्शनमीशेशः शङ्खचक्रगदाधरः २

दृष्टे तस्मिन्नशेषेशे जगद्धातरि केशवे।
कृत्वा प्रणाममाहेदं भक्तिनम्राथ देवकी ३

जगतामीश्वरेशेश ज्ञान ज्ञेय भवाव्यय।
समस्तदेवतादेव वासुदेव नमोऽस्तु ते ४

प्रधानपुंसोरजयोर्यः कारणमकारणम्।
अविशेष्यमजं रूपं तव तस्मै नमोऽस्तु ते ५

त्वं प्रधानं पुमांश्चैव कारणाकारणात्मकः।
सदसच्चाखिलं देव केनोक्तेन तव स्तवः ६

प्रसीद देव देवानामरिशातन वामन।
लोभाभिभूता यदहं वरयामि प्रयच्छ तत् ७

देवदेव उवाच।
अदितिस्त्वं महाभागे भुवं प्राप्ता सुरारणि।
भर्ता च ते कश्यपोऽयं देयस्तव वरो मया ८

देवक्युवाच।
अपुत्रास्मि न मे भर्तुरस्ति केशव सन्ततिः।
प्रसीद देहि मे पुत्रमरिदुर्धारपौरुषम् ९

देवदेव उवाच।
भविष्यत्यचिराद्देवि मदंशेन सुतस्तव।
हन्तव्या दानवास्तेन सद्धर्मपरिपन्थिनः १०

देवक्युवाच।
त्वामहं जगद्धातारमुदारोरुपराक्रमम्।
धारयिष्यामि गर्भेण कथमच्युत शंस मे ११

देवदेव उवाच।
तवोदरेऽवतारं वै पुरापि बलिबन्धने।
कुर्वता विधृताः सप्त लोकास्त्वं चात्ममायया १२

तथा साम्प्रतमप्येतांल्लोकान्सस्थाणुजङ्गमान्।
धारयिष्याम्यथात्मानं त्वां च देवकि लीलया १३

गौरमुख उवाच।
इत्येवमुक्त्वा तां देवीं देवकीं भगवान्प्रभुः।
तिरोबभूव गोविन्दो भूर्भुवःप्रभवो विभुः १४

अवाप च ततो गर्भं देवकी वसुदेवतः।
अजायत च विश्वेशः स्वेनाङ्गेन जनार्दनः १५

नीलोत्पलदलश्यामं ताम्रायतविलोचनम्।
चतुर्बाहुमुदाराङ्गं श्रीवत्साङ्कितवक्षसम् १६

तं जातं देवकी देवं निधानं सर्वतेजसाम्।
प्रणिपत्याभितुष्टाव सम्प्रस्तुतपयोधरा १७

अबालो बालरूपेण येनेश त्वमिहास्थितः।
त्वद्रूपं प्रणिपत्याहं यद्ब्रवीमि निबोध तत् १८

नमस्ते सर्वभूतेश नमस्ते मधुसूदन।
नमस्ते पुण्डरीकाक्ष नमस्तेऽस्तु जनार्दन १९

नमस्ते शार्ङ्गचक्रासिगदापरिघपाणये।
उपेन्द्रायाप्रमेयाय हृषीकेशाय वै नमः २०

नमोऽस्तु तेऽणुरूपाय बृहद्रूपाय वै नमः।
अशेषभूतरूपाय तथारूपाय ते नमः २१

अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः।
सर्वेश्वराय सर्वाय सर्वभूताय ते नमः २२

नमोऽस्तु ते वासुदेव नमोऽस्तु कमलेक्षण।
अशेषभूतरूपाय तथाभूताय ते नमः।
नमोऽस्तु तेऽश्वरूपाय तथारूपाय ते नमः।
अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः।
नमोऽस्तु ते वासुदेव नमस्ते पुष्करेक्षण।
नमोऽस्तु ते सदाचिन्त्य योगिचिन्त्य जगत्पते २३

विष्णो नमोऽस्तु ते कृष्ण नमस्ते पुरुषोत्तम।
नमो नारायण हरे नमस्तेऽस्तु सदाच्युत २४

नमो नमस्ते गोविन्द नमस्ते गरुडध्वज।
श्रीश श्रीवत्स योगीश श्रीकान्तेश नमोऽस्तु ते २५

नीलोत्पलदलश्याम दंष्ट्रोद्धृतवसुन्धर।
हिरण्याक्षरिपो देव नमस्ते यज्ञसूकर २६

नृसिंह जय विश्वात्मन्दैत्योरःस्थलदारक।
नमो नमस्तेऽस्तु सदा विक्षेपध्वस्ततारक २७

मायावामनरूपाय तुभ्यं देव नमो नमः।
त्रिविक्रम नमस्तुभ्यं त्रैलोक्यक्रान्ति दुर्जय २८

ऋग्यजुःसामभूताय वेदाहरणकर्मणे।
प्रणवोद्गीतवचसे महाश्वशिरसे नमः २९

निःक्षत्रियोर्वीकरण विकरालपराक्रम।
जामदग्न्य नमस्तुभ्यं कार्तवीर्यासुतस्कर ३०

पौलस्त्यकुलनाशाय साहुमार्गविचारिणे।
नलसेतुकृते तुभ्यं नमो राघवरूपिणे ३१

साम्प्रतं मत्प्रसन्नाय सम्भूताय ममोदरे।
स्वमायाबालरूपाय नमः कृष्णाय वै हरे ३२

यावन्ति तव रूपाणि यावत्यश्च विभूतयः।
नमामि कृष्ण सर्वेभ्यस्तेभ्यस्ताभ्यश्च सर्वदा ३३

स्वरूपचेष्टितं यत्ते यद्देवत्वे विचेष्टितम्।
यच्च तिर्यङ्मनुष्यत्वे चेष्टितं तन्नमाम्यहम् ३४

परमेश परेशेश तिर्यगीश नरेश्वर।
सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम ३५

गौरमुख उवाच।
एवं स्तुतस्तया देव्या देवक्या मधुसूदनः।
बालरूपी जगादैवं वसुदेवस्य शृण्वतः ३६

सम्यगाराधितेनोक्तं यत्प्रसन्नेन वै शुभे।
तत्कृतं सकलं भूयो यद्वृणोषि ददामि तत् ३७

अवतारे तथैवास्मिन्वर्षाणामधिकं शतम्।
स्थास्यामि नरतां प्राप्तो दुष्टदैत्यनिबर्हणः ३८

तत्त्वं वरय भद्रंते वरं यन्मनसेच्छसि।
दास्याम्यहमसन्दिग्धं यद्यपि स्यात्सुदुर्लभम् ३९

देवक्युवाच।
यदि देव प्रसन्नस्त्वं प्रददासि ममेप्सितम्।
वृणोमि तदहं नित्यं तव केशव दर्शनम् ४०

तवेदृग्रूपमालोक्य हार्दप्रस्रुतलोचना।
नालं वियोगं संसोढुं तवाहं मधुसूदन ४१

देवदेव उवाच।
दाक्षायणी त्वमदितिः सम्भूता वसुधातले।
नित्यमेव जगद्धात्रि प्रसादं ते करोम्यहम् ४२

षष्ठे षष्ठे तदा पक्षे दिनेऽस्मिन्नेव भामिनि।
त्वं मां द्रक्ष्यस्यसन्दिग्धं प्रसादस्ते कृतो मया ४३

अनेनैव महाभागे बालरूपेण संवृतः।
तव दर्शनमेष्यामि यत्र ते स्नेहवन्मनः ४४

तस्मिन्काले च लोकास्त्वां पूजयिष्यन्ति देवकि।
मां च पुष्पादिभिर्देवि तवोत्सङ्गव्यवस्थितम् ४५

सम्पूजितोऽहं लोकानां तस्मिन्काले सुतोषितः।
प्रदास्यामि जगद्धात्रि यथाभिलषितं वरम् ४६

अपुत्राणां वरान्पुत्रानधनानां तथा धनम्।
शुभान्दारानदाराणां सरोगाणामरोगताम् ४७

सुगतिं गतिकामानां विद्यां विद्यार्थिनामपि।
प्रदास्यसि महाभागे मत्प्रसादोपवृंहिता ४८

प्रसादिता हि मर्त्यानां यत्त्वं दास्यसि शोभने।
तत्तेषां मत्प्रसादेन भविष्यति न दुर्लभम् ४९

त्वामभ्यर्च्योपचारेण स्नापयित्वा घृतेन माम्।
सर्वकामानवाप्स्यन्ति काले षट्पक्षसञ्ज्ञिते ५०

त्वदङ्कस्थं च मां बालं संस्मरिष्यन्ति भक्तितः।
प्रतिमासं च ते पूजामष्टम्यां यः करिष्यति।
मम चैवाखिलान्कामान्सम्प्राप्नोत्यपकल्मषः ५१

गौरमुख उवाच।
एवं पूर्वं हृषीकेशो देवक्याः प्रददौ वरम्।
तस्मात्कृष्णाष्टमी पुंसामशेषाघौघहारिणी ५२

तस्यां हि पूजितः कृष्णो देवकी च समाधिना।
पापापनोदं कुरुते ददाति च मनोरथान् ५३

तदेष पुष्टिकामानां नॄणां पुण्यार्थिनामपि।
उपवासो महीपाल शस्तः केशवतोषदः ५४

इति विष्णुधर्मेषु देवकीव्रतम्।

अथैकनवतितमोऽध्यायः।
वसिष्ठ उवाच।
श्रावणे शुक्लपक्षे तु द्वादश्यां प्रीयते नृप।
गोप्रदानेन गोविन्दो यत्पूर्वं कथितं तव १

पौषशुक्ले तु तद्वच्च द्वादश्यां घृतधेनुकाम्।
घृतार्चिः प्रीणनायालं प्रदद्यात्फलदायिनीम् २

तथैव माघद्वादश्यां प्रदत्ता तिलगौर्नृप।
केशवं प्रीणयत्याशु सर्वकामान्प्रयच्छति ३

ज्यैष्ठे मासि सिते पक्षे द्वादश्यां जलधेनुका।
दत्ता यथावद्विधिना प्रीणयत्यम्बुशायिनम् ४

लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः।
प्रयच्छति द्विजाग्र्याय स सर्वरसदायकः ५

सर्वभोगमहाभोगान्भ्राजिष्मन्तो मनोरमान्।
लोकानवाप्नोति नृप प्रसन्ने गरुडध्वजे ६

पौषमासे तु यो दद्याद्घृतं विप्राय पार्थिव।
समभ्यर्च्याच्युतं सोऽपि सर्वकामानवाप्नुयात् ७

माघमासे तु सम्पूज्य माधवं ब्राह्मणाय यः।
प्रयच्छति तिलांल्लोकान्सम्प्राप्नोत्यभिवाञ्छितान् ८

फाल्गुने पुण्डरीकाक्षं यः समभ्यर्च्य यच्छति।
सप्तधान्यं नरश्रेष्ठ स सर्वस्येश्वरो भवेत् ९

चैत्रे चित्राणि वस्त्राणि यः प्रयच्छति केशवम्।
पूजयित्वा स वै भोगान्विचित्रांल्लभते नरः १०

वैशाखे विष्णुमभ्यर्च्य यवगोधूमदो नरः।
लोकानैन्द्रान्समासाद्य मोदते विगतज्वरः ११

दुर्निवर्त्यमहं मन्ये चञ्चलं हि मनो यतः।
ज्यैष्ठेऽभ्यर्च्य हृषीकेशमुदकुम्भप्रदो हि यः।
स परां निर्वृतिं याति सप्त जन्मान्तराणि वै १२

आषाढमासे च हरिं यः समभ्यर्च्य यच्छति।
विप्राय चन्दनं सोऽपि परमाह्लादभाजनम् १३

यो नृसिंहं समभ्यर्च्य ब्राह्मणाय प्रयच्छति।
श्रावणे नवनीतं तु स स्वर्गं सुकृती व्रजेत् १४

छत्त्रं च यो भाद्रपदे वासुदेवाभिपूजकः।
प्रयच्छति द्विजाग्र्याय स च्छत्त्राधिपतिर्भवेत् १५

गुडशर्करया युक्तं मोदकं च प्रयच्छति।
तथैवाश्वयुजेऽभ्यर्च्य योऽनन्तं सोऽमरो भवेत् १६

नारायणं समभ्यर्च्य यः प्रयच्छति कार्त्तिके।
दीपकं विप्रगेहेषु विमानं सोऽधिरोहति १७

काम्यान्येतान्यशेषाणि यः सम्पूज्य जगत्पतिम्।
दानानि यच्छति नरः स सम्पूर्णमनोरथः।
सर्वश्रेष्ठः समस्तानां बन्धूनामाश्रयो भवेत् १८

एवं सर्वाणि दानानि प्रीणनायाच्युतस्य यः।
प्रयच्छति स सर्वेषां फलानां भुवि भाजनम् १९

तस्मान्नरेन्द्रविप्रेभ्यः प्रीणनाय जगद्गुरोः।
प्रयच्छैतानि दानानि यच्चान्यद्दयितं तव २०

यदीच्छसि पुनः प्राप्तुं भूतिमभ्रंशनीं नृप।
तदाराधय गोविन्दं नान्यथा स्युर्विभूतयः २१

प्रह्लाद उवाच।
एवं वसिष्ठेन तदा मान्धाता नृप बोधितः।
सह पत्न्या महीपालः परितोषं परं ययौ २२

जगाद च मुदा युक्तः प्रणिपत्य पुरोहितम्।
सह पत्न्या नरश्रेष्ठः समुत्थाय वरासनात् २३

राजोवाच।
धिग्धिग्वृथैव यातानि ममैतानि दिनान्यहो।
अनासज्य मनः कृष्णे विषयासक्तचेतसः २४

ता निशास्ते च दिवसास्ते र्तवस्ते च वत्सराः।
नराणां सफला येषु चिन्तितो भगवान्हरिः २५

चिन्त्यमानः समस्तानां पापानां हाणिदो हि सः।
समुत्सृज्याखिलं चिन्त्यं सोऽच्युतः किं न चिन्त्यते २६

कष्टं मुष्टोऽस्मि शिष्टेषु विद्यमानेषु मन्त्रिषु।
पराङ्मुखानां गोविन्दे यत्प्राप्तं परमं वयः २७

प्रह्लाद उवाच।
एवं विनिन्द्य सोऽत्मानां मान्धाता पृथिवीपतिः।
चकाराराधने यत्नं देवदेवस्य शार्ङ्गितिणः २८

तमाराध्य च विश्वेशमुपेन्द्रमसुरेश्वर।
प्राप सिद्धिं परां पूर्वं दक्षः प्राचेतसो यथा २९

तथा त्वमपि राजेन्द्रसर्वभावेन केशवम्।
समाराधय गोविन्दं तमाराध्य न सीदति ३०

शौनक उवाच।
एवं स दैत्यराजेन्द्रः! प्रह्रादेनावबोधितः।
बलिराराधने यत्नं चक्रे चक्रभृतस्तदा ३१

पुष्पोपहारैर्धूपैश्च तथा चैवानुलेपनैः।
वासोभिर्भूषणैः सम्यग्ब्राह्मणानां च तर्पणैः ३२

जपैर्होमैर्व्रतैश्चैव यथोक्तं पुरुषर्षभ।
सह पत्न्या तथैव त्वं समाराधय केशवम् ३३

इति विष्णुधर्मेषु प्रह्लादबलिसंवादः।

अथ द्विनवतितमोऽध्यायः।
शतानीक उवाच।
भगवंश्चञ्चलं चित्तं मनुष्याणामहर्निशम्।
विषयासङ्गदुर्दुष्टं पापायैव प्रवर्तते १

मौनेन वाचिकं पापं पुम्भिर्ब्रह्मन्निवर्त्यते।
शारीरमप्यकरणात्सुनिवर्त्यं मतं मम २

यत्त्वेतन्मानसं पापं मनुष्यैस्तन्महामते।
दुर्निवर्त्यमहं मन्ये चञ्चलं हि मनो यतः ३

तदहं श्रोतुमिच्छामि मनुष्यैर्दुर्विचिन्तितैः।
यत्स्मर्तव्यं च जप्यं च मानसाघप्रशान्तये ४

शौनक उवाच।
त्वद्युक्तोऽयमनुप्रश्नः साध्वेतद्भवतोदितम्।
चआद्धि चित्तानां मानसं बहु पातकम् ५

भूमौ तृणमसङ्ख्यातं यथा च दिवि तारकाः।
तथा पापमसङ्ख्येयं चेतसा क्रियते तु यत् ६

परदारपरद्रव्यपरहिंसासु मानसम्।
अहर्निशं मनुष्याणां सातत्येन प्रवर्तते ७

यद्यस्योपशमो राजन्भुवि न क्रियते नृभिः।
तन्नास्ति नरकोत्तारो वर्षकोटीशतैरपि ८

तदस्य प्रशमायालं प्रायश्चित्तं नराधिप।
शृणुष्व येन चित्तोत्थं सद्यः पापं व्यपोहति ९

ॐ नमो वासुदेवाय पुरुषाय महात्मने।
हिरण्यरेतसेऽचिन्त्यस्वरूपायातिवेधसे १०

विष्णवे जिष्णवे नित्यं शान्तायानघरूपिणे।
सर्वस्थित्यन्तकरणव्रतिने पीतवाससे ११

नारायणाय विश्वाय विश्वेशायेश्वराय च।
नमः कमलकिञ्जल्कसुवर्णमुकुटाय च १२

केशवायातिसूक्ष्माय ब्रह्ममूर्तिमते नमः।
नमः परमकल्याणकल्याणायात्मयोनये १३

जनार्दनाय देवाय श्रीधराय सुमेधसे।
महात्मने वरेण्याय नमः पङ्कजनाभये १४

स्मृतमात्राघघाताय कृष्णायाक्लिष्टकर्मणे।
नमो नताय नम्रेशैरशेषैर्वासवादिभिः १५

नमो मायाविने तुभ्यं हरये हरिमेधसे।
हिरण्यगर्भगर्भाय जगतः कारणात्मने १६

गोविन्दायादिभूताय श्रादीनां महात्मने।
नमो भूतात्मभूताय आत्मने परमात्मने १७

अच्युताय नमो नित्यमनन्ताय नमो नमः।
दामोदराय शुचये यज्ञेशाय नमो नमः १८

नमो मायापटच्छन्नजगद्धाम्ने महात्मने।
हृषीकेशाय चेशाय सर्वभूतात्मरूपिणे १९

दयालवे नमो नित्यं कपिलाय सुमेधसे।
संसारसागरोत्तारज्ञानपोतप्रदायिने २०

अकुण्ठमतये धात्रे सर्गस्थित्यन्तकर्मणि।
करालसौम्यरूपाय वैकुण्ठाय नमो नमः २१

यथा हि वासुदेवेति प्रोक्ते नश्यति पातकम्।
तथा विलयमभ्येतु ममैतद्दुर्विचिन्तितम् २२

यथा न विष्णुभक्तेषु पापमाप्नोति संस्थितिम्।
तथा विनाशमभ्येतु ममैतद्दुर्विचिन्तितम् २३

स्मृतमात्रो यथा विष्णुः सर्वं पापं व्यपोहति।
तथा प्रणाशमभ्येतु ममैतद्दुर्विचिन्तितम् २४

यथा सर्वत्रगो विष्णुस्तत्र सर्वं च संस्थितम्।
उपयातु तथा नाशं ममाघं चित्तसम्भवम् २५

पापं प्रणाशं मम सम्प्रयातु यन्मानसं यच्च करोमि वाचा।
शारीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे २६

प्रयान्तु दोषा मम नाशमाशु रागादयः कारणकारणेशे।
विज्ञानदीपामलमार्गदृश्ये स्मृते जगद्धातरि वासुदेवे २७

भवन्तु भद्राणि समस्तदोषाः प्रयान्तु नाशं जगतोऽखिलस्य।
मयाद्य भक्त्या परमेश्वरेशे स्मृते जगद्धातरि वासुदेवे २८

ये भूतले ये दिवि येऽन्तरिक्षे रसातले प्राणिगणाश्च केचित्।
भवन्तु ते सिद्धियुजो मयाद्य स्मृते जगद्धातरि वासुदेवे २९

पुष्यन्तु मैत्रीं विरमन्तु रागादुज्झन्तु लोभं क्षमिणो भवन्तु।
आब्रह्मवृक्षान्तरगा मयाद्य स्मृते जगद्धातरि वासुदेवे ३०

ये प्राणिनः कुत्रचिदत्र सन्ति ब्रह्माण्डमध्ये परतश्च केचित्।
ते यान्तु सिद्धिं परमां मयाद्य स्मृते जगद्धातरि वासुदेवे ३१

अज्ञानिनो ज्ञानविदो भवन्तु प्रशान्तिभाजः सततोग्रचित्ताः।
कुर्वन्तु भक्तिं परमामनन्ते मत्स्तोत्रतुष्टस्य हरेः प्रसादात् ३२

शृण्वन्ति ये मे पठतस्तथान्ये पश्यन्ति ये मामिदमीरयन्तम्।
देवासुराद्या मनुजास्तिरश्चो भवन्तु तेऽप्यच्युतयोगभाजः ३३

ये चापि मूका विकलेन्द्रियत्वाच्छृण्वन्ति नो नैव विलोकयन्ति।
पश्वादयः कीटपिपीलिकाश्च भवन्तु तेऽप्यच्युतयोगभाजः ३४

नामस्वनन्तस्य च कीर्तितेषु यदत्र पुण्यं जगतः प्रसूतेः।
तेनाविवेकोपहतात्मबोधा भवन्तु पुंसां मतयः सुशीलाः ३५

ये दुःखितास्ते सुखिनो भवन्तु द्वेषान्विता मैत्रगुणोपपन्नाः।
सत्यार्जवाद्यास्त्वनृता विमाया मत्संस्तवाराधितकृष्णदृष्टाः ३६

नश्यन्तु दुःखानि जगत्यपैतु लोभादिको दोषगुणः प्रजाभ्यः।
यथात्मनि भ्रातरि चात्मजे च तथा जनस्यास्तु जनेऽपि हार्दम् ३७

संसारवैद्येऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते।
संसारबन्धाः शिथिलीभवन्तु हृदि स्थिते सर्वजनस्य विष्णौ ३८

एतत्पठन्पार्थिव सर्वपापैर्विमुच्यते विष्णुपरः सदैव।
प्राप्नोति सिद्धिं विपुलं महर्द्धिं न चाप्यनर्थेषु मतिं करोति ३९

उद्दिश्य सत्त्वानि च यानि यानि स्तोत्रं पठन्ते कृपया मनुष्याः।
सर्वाणि तान्यप्रतिघा भवन्ति प्रयान्ति सिद्धिं भगवत्प्रसादात् ४०

तस्मात्त्वयैतत्सततं निशासु दिनेषु चैवेश्वर माधवस्य।
सङ्कीर्तनं कार्यमशेषपापविमोक्षहेतोरभवाय चैव ४१

इति सकलजनोपकारकारी हरिचरणाब्जविनिष्टशुद्धबुद्धिः।
पठति खलु महीप यो मनुष्यः स लयमुपैति हरौ हृताखिलाघः ४२

इति विष्णुधर्मेषु पापप्रणाशनस्तवः।

अथ त्रिनवतितमोऽध्यायः।
शौनक उवाच।
इदं च शृणु भूपाल नश्यते दुर्विचिन्तितम्।
येनोपायेन वै पुंसां योषितां वाप्यसंशयम् १

परदारपरद्रव्यजीवहिंसादिके सदा।
प्रवर्तते नृणां चित्तं तदेतदभिसंस्मरेत् २

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः।
जिष्णवे जिष्णवे सर्वं जिष्णवे जिष्णवे नमः ३

नमामि विष्णुं बुद्धिस्थमहङ्कारगतं हरिम्।
चित्तस्थमीशमव्यक्तमनन्तमपराजितम्।
विष्णुमीड्यमशेषेशमनादिनिधनं विभुम् ४

विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत्।
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ५

करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च।
तत्पापं नाशमायातु तस्मिन्नेव विचिन्तिते ६

ध्यातो हरति यः पापं स्वप्ने दृष्टः शुभावहः।
तमुपेन्द्रमहं विष्णुं प्रणतोऽर्तिहरं हरिम् ७

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः।
हस्तावलम्बदं विष्णुं प्रणतोऽस्मि परात्परम् ८

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज।
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ९

नृसिंहानन्त गोविन्द भूतभावन केशव।
दुरुक्तं दुष्कृतं ध्यातं प्रशमाग्र्य नमोऽस्तु ते १०

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना।
नरकावहमत्युग्रं तच्छमं नय केशव ११

ब्रह्मण्यदेव गोविन्द परमार्थ परायण।
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत १२

यच्चापराह्ने पूर्वाह्ने मध्याह्ने च तथा निशि।
कायेन मनसा वाचा कृतं पापमजानता १३

जानता वा हृषीकेश पुण्डरीकाक्ष माधव।
नामत्रयोच्चारणतस्तत्प्रयातु मम क्षयम् १४

शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम्।
पापं प्रशमयाद्य त्वं वाक्कृतं मम माधव १५

यद्व्रजन्यत्स्वपन्भुञ्जन्यदुत्तिष्ठन्यदास्थितः।
कृतवांश्चापि यच्चाहं कायेन मनसा गिरा १६

महत्स्वल्पमतिस्थूलं कुयोनिनरकावहम्।
आतु प्रशमं सर्वं वासुदेवस्य कीर्तनात् १७

परं ब्रह्म परं धाम पवित्रं परमं च यत्।
तस्मिन्सङ्कीर्तिते विष्णोः पदे पापं प्रणश्यतु १८

सूरयो यत्प्रवेक्ष्यन्ति ह्यपुनर्भवकाङ्क्षिणः।
ममाखिलं दह त्वं हि तद्विष्णोः परमं पदम् १९

यत्प्राप्य न निन्वर्तन्ते गन्धस्पर्शादिवर्जितम्।
पापं प्रणाशयत्वद्य तद्विष्णोः परमं पदम् २०

सदसद्यत्तथा व्यक्ताव्यक्तरूपमजाजरम्।
प्रणमामि जगद्धाम तद्विष्णोः परमं पदम् २१

शारीरे मानसे चैव पापे वाग्जे च पार्थिव।
कृते सम्यङ्नरो भक्त्या पठेच्छ्रद्धासमन्वितः।
मुच्यते सर्वपापेभ्यः कृष्णनामप्रकीर्तनात् २२

उच्चार्यमाने चैतस्मिन्देवदेवस्य संस्तवे।
विलयं पापमायाति भाण्डमाममिवाम्भसि २३

तस्मात्सञ्चिन्तिते पापे समनन्तरमेव ते।
जप्तव्यमेतत्पापस्य प्रशमाय महीपते २४

इति विष्णुधर्मेषु द्वितीयः पापप्रशमनस्तवः।

अथ चतुर्नवतितमोऽध्यायः।
शतानीक उवाच।
संसारार्णवमग्नेन पुरुषेण महामुने।
विषयासक्तचित्तेन यत्कार्यं तद्वदस्व मे १

भ्राम्यतां सङ्कटे दुर्गे संसारे विषयैषिणाम्।
स्वकर्मभिर्मनुष्याणामुपकारकमुच्यताम् २

क्षीप्ते मनस्यनायत्ते वृद्धे लोभादिके गणे।
शरणं यन्मनुष्याणां तदाचक्ष्व महामुने ३

शौनक उवाच।
संसाराणवपोताय हरये हरिमेधसे।
नमस्कृत्य प्रवक्ष्यामि नराणामुपकारकम् ४

सम्यगाराधितो भक्त्या वेदभारगुरोर्गुरुः।
कृष्णद्वैपायनः प्राह यच्छिष्याय सुमन्तवे ५

पुरा किल दुराचारो दुर्बुद्धिरजितेन्द्रियः।
क्षत्रबन्धुरभूत्पापः परमर्मावघट्टकः ६

मातापित्रोरशुश्रूषुद्रोर्ग्धा! बन्धुजनस्य च।
गुरुदेवद्विजातीनां निन्दासु सततोद्यतः ७

मोष्टा विश्वसतां नित्यमप्रीतिः प्रीतिमिच्छताम्।
ऋजूनामनृजुः क्षुद्रः! परहिंसापरायणः ८

स बान्धवैः परित्यक्तस्तथान्यैः साधुवृत्तिभिः।
अवृत्तिमानविश्वास्यो मृगयाजीवनोऽभवत् ९

अहन्यहनि चक्राङ्गानेणकादींस्तथा मृगान्।
हत्वात्मपोषणं चक्रे व्याधवृत्तिरतोऽधमः १०

एतया तस्य दुष्टस्य कुवृत्त्या पापचेतसः।
जगाम सुमहान्कालः कुर्वतो दारपोषणम् ११

एकदा तु मुनिस्तेन निदाघे विजने वने।
मृगयामटता दृष्टो वर्त्मनः प्रच्युतः पथि १२

क्षुत्क्षामकण्ठः सुश्रान्तः शुष्कजिह्वास्यतालुकः।
तृट्परीतोऽतिविभ्रान्तः कान्दिग्भूतोऽल्पचेतनः १३

श्वासायासश्लथैरङ्गैः कृच्छ्रादात्मानमुद्वहन्।
सूर्यांशुतापात्प्रगलत्स्वेदार्द्रचरणो नृप १४

तस्मिन्दृष्टे ततस्तस्य क्षत्रबन्धोरजायत।
कारुण्यं दारुणस्यापि व्याधवृत्तिपरिग्रहात् १५

तमुपेत्य च भूपाल क्षत्रबन्धुः स तापसम्।
उवाच विप्रप्रवरं विमार्गे वर्तते भवान् १६

नैष पन्था द्विजश्रेष्ठ विपिनोऽयं महाटविः।
मामन्वेहि त्वरायुक्तो मा विपत्तिं समेष्यसि १७

शौनक उवाच।
निशाम्य तद्वचः श्रान्तः क्षत्रबन्धोर्महानुनिः।
अनुवव्राज राजेन्द्रजलाशाजनितोद्यमः १८

किञ्चिद्भूभागमासाद्य ददर्श च महामुनिः।
हंसकारण्डवाकीर्णं प्रोत्फुल्लनलिनं सरः १९

सारसाभिरुतं रम्यं सूपतीर्थमकर्दमम्।
पद्मोत्पलयुतं चारु पूर्णं स्वच्छेन वारिणा २०

सुशीतवनषण्डैश्च समन्तात्परिवेष्टितम्।
तत्क्षणात्तृट्परीतानां चक्षुषो ह्लादकारिणम् २१

दृष्ट्वैव स मुनिस्तत्र तदामलजलं सरः।
सूर्यांशुतप्तो घर्मार्तो निपपात तदम्भसि २२

तत्राश्वास्य कृताह्लादः पपौ वारि नराधिप।
उज्जीवयन्मुनिवरो जिह्वातालु शनैः शनैः २३

सोऽपि क्षत्रियदायादो मुनित्राणपरायणः।
विहाय सशरं चापमुज्जहार बिसान्यथ २४

ददौ च तस्मै राजेन्द्रक्षुधिताय तपस्विने।
ययौ च तृप्तिं विप्रोऽपि बिसनालाम्बुभक्षणात् २५

तमाश्वस्तं कृताहारमुपविष्टं सुशीतले।
न्यग्रोधशाखासञ्छन्ने निष्पङ्के सरसस्तटे।
संवाहयामास च तं क्षत्रबन्धुः शनैः शनैः २६

पादजङ्घोरुपृष्टेषु तेन संवाहितो मुनिः।
जहौ श्रमममित्रघ्न वाक्यं चेदमुवाच ह २७

ब्राह्मण उवाच।
कस्त्वं भद्रमुखाद्येह मम प्राणपरिक्षये।
हस्तावलम्बदो धात्रा जनितो विपिने वने २८

विभ्रष्टमार्गो मूढोऽहं क्षुत्पिपासाश्रमातुरः।
त्रातस्त्वयामहाभाग कस्त्वमत्र वनेऽजने २९

क्षुत्पिपासाश्रमार्तस्य यस्त्राणं विपिने वने।
करोति पुरुषव्याघ्र तस्य लोका मधुश्च्युतः ३०

स त्वं ब्रूहि महाभाग ममाभ्युद्धारकारकः।
येषां प्रख्यातयशसां समुत्पन्नः कुले भवान् ३१

क्षत्रबन्धुरुवाच।
हर्यश्वस्य कुले जातः पुत्रश्चित्ररथस्य च।
विमतिर्नाम नाम्नाहं हन्तुमभ्यागतो मृगान् ३२

ब्राह्मण उवाच।
पित्रर्थं मृगयेयं ते लक्ष्यार्थं वा महामते।
आहारार्थमुताहोऽत्र मृगया व्यसनं तु ते ३३

क्षत्रबन्धुरुवाच।
वृत्तिरेषा मम ब्रह्मन्परित्यक्तस्य बान्धवैः।
भृत्यैरन्यैश्च नष्टेऽर्थे निर्धनस्यामिषाशिनः ३४

ब्राह्मण उवाच।
किमर्थं त्वं परित्यक्तो भृत्यस्वजनबन्धुभिः।
पातकी कीकटः क्षुद्रैरुपजप्तः परेण वा ३५

शौनक उवाच।
इत्युक्तः सोऽभवन्मौनी पश्यन्दोषं नृपात्मनि।
अदुष्टांश्चात्मनो भृत्यान्विचिन्त्यातीव दुर्मनाः ३६

अवेक्ष्य तं साध्वसिनं क्षत्रबन्धुं महामुनिः।
ध्यात्वा चिरमथापश्यत्क्षत्रबन्धुं स्वदोषिणम् ३७

सन्त्यक्तबन्धुलोके च तस्मिन्दुर्वृत्तचेतसि।
कृपां चकार स मुनिः।
क्षत्रबन्धौ दयापरः ३८

उवाच च मुनिर्भूयः क्षत्रबन्धुं कृपालुकः।
उपकारिणमुग्रेण कर्मणा तं विदूषितम् ३९

अपि शक्नोषि संयन्तुमकार्यप्रसृतं मनः।
प्राणि पीडानिवृत्तिं च कर्तुं क्रोधादिसंयमम् ४०

अपि मैत्रीं जने कर्तुं शक्नोषि त्वं मुधैव या।
ऐहिकामुष्मिकी वीर क्रियमाणा महाफला ४१

क्षत्रबन्धुरुवाच।
न शक्नोमि क्षमां कर्तुं न मैत्रीं मम चेतसि।
प्राणिनामवधाद्ब्रह्मन्नास्ति दारादिपोषणम् ४२

अनायत्तं च मे चित्तं विषयानेव धावति।
तदप्राप्तौ च सर्वेषां क्रोधादीनां समुद्भवः ४३

सोऽहं न मैत्रीं न क्षान्तिं न हिंसादिविवर्जनम्।
कर्तुं शक्नोमि यत्कार्यं तदन्यदुपदिश्यताम् ४४

शौनक उवाच।
तेनैवमुक्तो विप्रोऽसौ तमुपेक्ष्यममन्यत।
तथाप्यतिकृपालुत्वात्क्षत्रबन्धुमभाषत ४५

ब्राह्मण उवाच।
यद्येतदखिलं कर्तुं न शक्नोषि ब्रवीहि मे।
स्वल्पमन्यन्मयोक्तं हि करिष्यति भवान्यदि ४६

क्षत्रबन्धुरुवाच।
अशक्यमुक्तं भवता चञ्चलत्वाद्धि चेतसः।
वाक्शरीरविनिष्पाद्यं यच्छक्यं तदुदीरय ४७

ब्राह्मण उवाच।
उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता।
गोविन्देति सदा वाच्यं क्षुतप्रस्खलितादिषु ४८

कार्यं वर्त्मनि मूढानां क्षेममार्गेऽवतारणम्।
हितं च वाच्यं पृष्टेन शत्रूणामपि जानता ४९

एतत्तवोपकाराय भविष्यत्यनुपालितम्।
यद्यन्यदुपसंहर्तुं न शक्नोषि महीपते ५०

शौनक उवाच।
इत्युक्त्वा प्रययौ विप्रस्तेन वर्त्मनि दर्शिते।
सोऽपि तच्छासनं सर्वं क्षत्रबन्धुश्चकार ह ५१

गोविन्देति क्षुते गच्छन्प्रस्थानस्खलितादिषु।
उदीरयन्नवापाग्र्यां रतिं तत्र शनैः शनैः ५२

ततः कालेन महता क्षत्रबन्धुर्ममार वै।
अजायत च विप्रस्य कुले जातिस्मरो नृप ५३

तस्य संस्मरतो जातीः शतशोऽथ सहस्रशः।
निर्वेदः सुमहाञ्जज्ञे संसारेऽत्रातिदुःखदे।
स चिन्तयामास जगत्सर्वमेतदचेतनम् ५४

अहमेकोऽत्र सञ्ज्ञावान्गोविन्दोदीरितं हि यत्।
यच्चाध्वनि विमूढानां कृतं वर्त्मावतारणम्।
हितमुक्तं च पृष्टेन तस्य जातिस्मृतिः फलम् ५५

सोऽहं जातिस्मरो भूयः करिष्याम्यतिसङ्कटे।
तदा संसारचक्रेऽस्मिन्येन प्राप्स्यामि निर्वृतिम् ५६

यस्योच्चारणमात्रेण जाता जातिस्मृतिर्मम।
तमेवाराधयिष्यामि जगतामीश्वरं हरिम् ५७

यन्मयं परमं ब्रह्म तदव्यक्तं च यन्मयम्।
यन्मयं व्यक्तमप्येतद्भविष्यामि हि तन्मयः ५८

यद्यनाराधिते विष्णौ ममैतज्जन्म यास्यति।
ध्रुवं बन्धवतो मुक्तिर्नैव जातूपपद्यते ५९

अहो दुःखमहो दुःखमहो दुःखमतीव हि।
स्वरूपमतिघोरस्य संसारस्यातिदुर्लभम् ६०

विण्मूत्रपूयकलिले गर्भवासेऽतिपीडनात्।
अशुचावतिबीभत्से दुःखमत्यन्तदुःसहम् ६१

दुःखं च जायमानानां गात्रभङ्गादिपीडनात्।
वातेन प्रेर्यमाणानां मूर्छाकार्यतिभीतिदम् ६२

बालत्वे निर्विवेकानां भूतदेवात्मसम्भवम्।
यौवने वार्द्धके चैव मरणे चातिदारुणम् ६३

शीतोष्णतृष्णाक्षुद्रोगज्वरादिपरिवारितः।
सर्वदैव पुमानास्ते यावज्जन्मान्तसंस्थितिः ६४

दुःखातिशयभूतं हि यदन्ते वासुखं नृणाम्।
तस्यानुमानं नैवास्ति कार्येणैवानुमीयते ६५

कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुःसहम्।
दुःखं तत्संस्मृतिप्राप्तं करोति मम वेपथुम् ६६

कुम्भीपाके तप्तकुम्भे महारौरवरौरवे।
कालसूत्रे महायन्त्रे शूकरे कूटशाल्मलौ ६७

असिपत्रवने दुःखमप्रतिष्ठे च यन्महत्।
विडालवक्त्रे च तथा तमस्युग्रे च दुःसहम् ६८

शस्त्राग्नियन्त्रवेगेषु शीतोष्णादिषु दारुणम्।
ततश्च मुक्तस्य पुनर्योनिसङ्क्रमणेषु यत् ६९

गर्भस्थस्य च यद्दुःखमतिदुःसहमुल्वणम्।
पुनश्च जायमानस्य जन्म यौवनजं च यत् ७०

दुःखान्येतान्यसह्यानि संसारान्तर्विवर्तिभिः।
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः ७१

न वै सुखकला काचित्तत्रास्त्यत्यन्तदुःखदे।
संसारसङ्कटे तीव्रे उपेतानां कदाचन ७२

विषयासक्तचित्तानां मनुष्याणां कदा मतिः।
संसारोत्तारणे वाञ्छां करिष्यति हि चञ्चला ७३

गोविन्दनाम्ना सततं समुच्चारणसम्भवम्।
जातिस्मरत्वमेतन्नः किं वृथैव प्रयास्यति ७४

सोऽहं मुक्तिप्रदानार्थमनन्तमजमव्ययम्।
तच्चित्तस्तन्मयो भूत्वा तोषयिष्यामि केशवम् ७५

शौनक उवाच।
आत्मानमात्मनैवं स प्रोक्त्वा जातिस्मरो द्विजः।
तुष्टाव वाग्भिरिष्टाभिः प्रणतः पुरुषोत्तमम् ७६

ब्राह्मण उवाच।
प्रणिपत्याक्षरं विश्वं विश्वहेतुं निरञ्जनम्।
यत्प्रार्थयाम्यविकलं सकलं तत्प्रयच्छतु ७७

कर्तारमकृतं विष्णुं सर्वकारणकारणम्।
अणोरणीयांसमजं सर्वव्यापिनमीश्वरम् ७८

परात्परतरं यस्मान्नास्ति सर्वेश्वरात्परम्।
तं प्रणम्याच्युतं देवं प्रार्थयामि यदस्तु तत् ७९

सर्वेश्वराच्युतानन्त परमात्मञ्जनार्दन।
संसाराब्धिमहापोत समुद्धर महार्णवात् ८०

व्योमानिलाग्न्यम्बुधरास्वरूप तन्मात्रसर्वेन्द्रियबुद्धिरूप।
अन्तःस्थितात्मन्परमात्मरूप प्रसीद सर्वेश्वर विश्वरूप ८१

तमादिरन्तो जगतोऽस्य मध्यमादेस्त्वमादिः प्रलयस्य चान्तः।
त्वत्तो भवत्येतदशेषमीश त्वय्येव चान्ते लयमभ्युपैति ८२

प्रदीपवर्त्यन्तगतोऽग्निरल्पो यथातिकक्षे विततं प्रयाति।
तद्वद्विसृष्टेरमरादिभिन्नैर्विकाशमायासि विभूतिभेदैः ८३

यथा नदीनां बहवोऽम्बुवेगाः समन्ततोऽब्धिं भगवन्विशन्ति।
त्वय्यन्तकाले जगदच्युतेदं तथा लयं गच्छति सर्वभूते ८४

त्वं सर्वमेतद्बहुधैक एव जगत्पते कार्यमिवाभ्युपेतम्।
यदस्ति यन्नास्ति च तत्त्वमेव हरे त्वदन्यद्भगवन्किमस्ति ८५

किन्त्वीश माया भवतो निजेयमाविष्कृताविष्कृतलोकसृष्टे।
ययाहमेषोऽन्यतमो ममेति मदीयमस्याभिवदन्ति मूढाः ८६

तया विमूढेन मयाभनाभ न यत्कृतं तत्क्वचिदस्ति किञ्चित्।
भूम्यम्बराग्निसलिलेषु देव जाग्रत्सुषुप्तादिषु दुःखितेन ८७

न सन्ति तावन्ति जलान्यपीड्य सर्वेषु नाथाब्धिषु सर्वकालम्।
स्तन्यानि यावन्ति मयातिघोरे पीतानि संसारमहासमुद्रे८८

सम्पच्छिलानां हिमवन्महेन्द्रकैलासमेर्वादिषु नैव तादृक्।
देहान्यनेकान्यनुगृह्णतो मे प्राप्तास्थिसम्पन्महति यथेश ८९

त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्धरोऽपि।
रागो हि वश्यं कुरुते ततोऽनु लोभादयः किं भगवन्करोमि ९०

एकाग्रतामूल्यबलेन लभ्यं भवौषधं त्वं भगवन्किलैकः।
मनः परायत्तमिदं भवेऽस्मिन्संसारदुःखात्किमहं करोमि ९१

न सन्ति ते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः।
अत्ता मया येषु न जन्तवश्च सम्भक्षितो यैश्च न जन्तुसङ्घैः ९२

सिंहेन भूत्वा बहवो मयात्ता व्याघ्रेण भूत्वा बहवो मयात्ताः।
तथान्यरूपैर्बहवो मयात्ताः सम्भक्षितोऽहं बहुभिस्ततश्च ९३

उत्क्रान्तिदुःखान्यतिदुःसहानि सहस्रशो यान्यनुसंस्मरामि।
तैः संस्मृतैस्तत्क्षणमेव देव तडिद्यथा मे हृदयं प्रयाति ९४

ततश्च दुःखान्यनिवारणानि यन्त्राग्निशस्त्रौघसमुद्भवानि।
भवन्ति यान्यच्युत नारकानां तान्येव तेषामुपमानमात्रम् ९५

दुःखान्यसह्यानि च गर्भवासे विण्मूत्रमध्येऽतिनिपीडितस्य।
भवन्ति यानि च्यवतश्च गर्भात्तेषां स्वरूपं गदितुं न शक्यम् ९६

दुःखानि बालेषु महन्ति नाथ कौमारके यौवनिनश्च पुंसः।
ज्वरातिसाराक्षिरुगादिकानि समस्तदुःखालय एव वृद्धः ९७

करोति कर्माच्युत तत्क्षणेन पापं नरः कायमनोवचोभिः।
यस्याब्दलक्षैरपि नान्तमेति शस्त्रादियन्त्राग्निनिपीडनेषु ९८

दुःखानि यानीष्टवियोगजानि भवन्ति संसारविहारभाजाम्।
प्रत्येकशस्तेषु नरा विनाशमिच्छन्त्यसूनां ममताभिभूताः ९९

शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं न जलं पयोदा।
तावत्प्रमाणं न जलं पयोदा मुञ्चन्त्यनेकैरपि वर्षलक्षैः १००

मन्ये धरित्री परमाणुसङ्ख्यामुपैति पित्रोर्गणनामशेषम्।
मित्राण्यमित्राण्यनुजीविबन्धून्सङ्ख्यातमीशोऽस्मि न देवदेव १०१

सोऽहं भृशार्तः करुणां कुरु त्वं संसारगात्रे पतितस्य विष्णो।
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यतिदुर्गतोऽपि १०२

परायणं रोगवतां हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य।
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेकः १०३

प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार।
मामुद्धरास्मादुरुदुःखपङ्कात्संसारगर्तात्स्वपरिग्रहेण १०४

धर्मात्मनामविकलां त्वयि नाथ भक्तिं।
श्रद्धावतां सततमुद्वहतां वरेण्य।
कार्यं कियन्मम विमूढधियोऽधमस्य।
भूत्वा कृपालुरमलामज देहि बुद्धिम् १०५

ज्ञात्वा ययाखिलमसारमसारमेव।
भूतेन्द्रियादिकमपारममुक्तिमूलम्।
मायान्तरेयमचलां तव विश्वरूप।
सम्मोहितं सकलमेव जगद्ययैतत् १०६

ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या।
ज्ञातुं न यं परमगुह्यतमं समर्थाः।
न त्वामलं स्तुतिपथेष्वहमीशितारं।
स्तोष्यामि मोहकलुषाल्पमतिर्मनुष्यः १०७

यस्मादिदं भवति यत्र जगत्तथेदं।
यस्मिंल्लयं व्रजति यश्च जगत्स्वरूपः।
तं सर्गसंस्थितिविनाशनिमित्तभूतं।
स्तोतुं भवन्तमलमीश न कश्चिदस्ति १०८

मूढोऽयमल्पमतिरल्पसुचेष्टितोऽयं।
क्लिष्टं मनोऽस्य विषयैर्न मयि प्रसङ्गि।
इत्थं कृपां कुरु मयि प्रणते किलेश।
त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः १०९

यस्योदरे सकल एव महीध्रचन्द्रदेवेन्द्ररुद्रमरुदश्विदिवाकराग्निभूम्यम्बुवायुगगनं जगतां समुहां।
स्तोष्यामि तं स्तुतिपदैः कतमैर्भवन्तम् ११०

यस्याग्निरुद्रकमलोद्भववासवाद्यैः।
स्वांशावतारकरणेषु सदाङ्घ्रियुग्मम्।
अभ्यर्च्यते वद हरे स कथं मयाद्य।
सम्पूजितः परमुपैष्यसि तोषमीश १११

न स्तोतुमच्युत भवन्तमहं समर्थो।
नैवार्चनैरलमहं तव देव योग्यः।
चित्तं च न त्वयि समाहितमीश दोषैर्।
आक्षिप्यते कथय किं नु करोमि पापः ११२

तत्त्वं प्रसीद भगवन्कुरु मय्यनाथे।
विष्णो कृपां परमकारुणिकः किल त्वम्।
संसारसागरनिमग्नमनन्त दीनम्।
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ११३

शौनक उवाच।
इत्थं तेन नरव्याघ्र स्तुतो भक्तिमता ततः।
संसारबन्धभीतेन कृष्णः प्रत्यक्षतां ययौ ११४

स तं प्रत्यक्षमीशानमनन्तमपराजितम्।
देवदेवमुवाचेदमनादिनिधनं हरिम् ११५

शिरसा धरणीं गत्वा यतवाक्कायमानसः।
परापरेश्वरं विष्णुं जिष्णुमाद्यमनोपमम् ११६

दिव्याक्षरपदानन्त प्रसन्नो भगवान्यदि।
तद्देव देहि दीनाय मह्यमेकमिमं वरम् ११७

देवदेव उवाच।
वरं वरय मत्तस्त्वं यत्ते मनसि वर्तते।
वरार्थिनां द्विजश्रेष्ठ नाफलं मम दर्शनम् ११८

ब्राह्मण उवाच।
जन्मसम्पच्चिता देव पापसम्पन्ममाखिला।
प्रयातु नाशमीशेश त्वत्प्रसादादधोक्षज ११९

देवदेव उवाच।
भक्तिभावपरेणाद्य मन्मयेन द्विजोत्तम।
यः स्तुतोऽस्मि क्षयं पापं तेनैवाखिलमागतम् १२०

अस्मत्तो वरयेहाद्य द्विजवर्यापरं वरम्।
मयि भक्तिमतामत्र लोके किञ्चिन्न दुर्लभम् १२१

ब्राह्मण उवाच।
धन्योऽस्मि सर्वनाथेन यत्कृतो मय्यनुग्रहः।
तदेकमेव त्वत्तोऽहं वरमिच्छामि केशव १२२

निर्धूतसर्वपापेभ्यो नाथ पुण्यक्षयान्मम।
त्वत्परस्यास्तु गोविन्द मा पुनर्देहसम्भवः १२३

यदक्षरं यदचलं व्यापि सूक्ष्मं च यत्परम्।
विशेषाइरविशेषं च गच्छेयं तत्पदं तव १२४

शौनक उवाच।
एवं भविष्यतीत्युक्त्वा प्रसादसुमुखस्ततः।
भूपाल तं द्विजश्रेष्ठं गतोऽन्तर्धानमीश्वरः १२५

तत्प्रसादाद्द्विजः सोऽपि तन्मयस्तद्व्यपाश्रयः।
प्रक्षीणकर्मबन्धस्तु प्रयातः परमं पदम् १२६

एवमक्षीणपापोऽपि जगतामीश्वरेश्वरम्।
व्यपाश्रितो हरिं याति पापमुक्तः परं पदम् १२७

एतत्त्वया नाव्रतिने न चाशुश्रूषवे परम्।
आख्येयं राजशार्दूल यश्च नार्चयते हरिम् १२८

विष्णुभक्ताय दान्ताय व्रतिने पुण्यशीलिने।
कथनीयमिदं भूप रहस्यं परमं हरेः १२९

इति विष्णुधर्मेषु क्षत्रबन्धूपाख्याने कारुण्यस्तवः।

पञ्चनवतितमोऽध्यायः।
शतानीक उवाच।
बहुशो भवता प्रोक्तं साम्प्रतं च यदीरितम्।
श्रोतुमिच्छामि विप्रेन्द्रतद्विष्णोः परमं पदम् १

यत्स्वरूपं यदाधारं यत्प्रमाणं यदात्मकम्।
सर्वधातुः पदं तन्मे श्रोतुमिच्छा प्रवर्तते २

शौनक उवाच।
साध्वेतद्भवता पृष्टं पृष्टमात्मज्ञानसमाश्रितम्।
तत्कथ्यमानमेकाग्रः शृणु विष्णोः परं पदम् ३

यत्तद्ब्रह्म यतः सर्वं यद्सर्वं सर्वसंस्थितिः।
अग्राह्यकमनिर्देश्यं तदेव भगवत्पदम् ४

तत्स्वरूपं च राजेन्द्रशृणुष्वेह समाहितः।
विष्णोः पदस्याव्ययस्य ब्रह्मणो गदतो मम ५

प्रधानादिविशेषान्तं यदेतत्पठ्यते जगत्।
चराचरस्य तस्याद्यं परं ब्रह्म विलक्षणम् ६

जन्मस्वप्नादिरूपादिदुःखादिरहितं च यत्।
नोपचर्यमनिर्देश्यं स्वप्रतिष्ठं च तत्परम् ७

क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः।
योगिनस्तत्प्रपश्यन्ति समर्था नैव चोदितुम् ८

तत्सर्वं सर्वभावस्थं विशेषेण विवर्जितम्।
पश्यतामप्यनिर्देश्यं यतो वाग्विषये न तत् ९

कुर्वन्त्यालम्बनत्वेन यत्प्राप्त्यर्थं च देवताः।
ब्रह्म प्रकाशते तेषां तद्वरेणैव सर्वगम् १०

प्रधानादिविशेषान्तं यत्रैतदखिलं जगत्।
तस्यानन्तस्य कः शक्तः प्रमाणं गदितुं नरः ११

सूक्ष्माणां तत्परं सूक्ष्मं स्थूलानां तन्महत्तरम्।
सर्वव्याप्यपि राजेन्द्रदूरस्थं चान्तिके च तत् १२

पराङ्मुखानां गोविन्दे विषयाक्रान्तचेतसाम्।
तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् १३

न प्राप्नुवन्ति गच्छन्तो यतो जन्मायुतैरपि।
संसाराध्वनि राजेन्द्रततो दूरतरे हि तत् १४

तन्मयत्वेन गोविन्दे य नरा न्यस्तचेतसः।
विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके १५

सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति १६

सर्वेन्द्रियगुनाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्चैनन्निर्गुणं गुणभोक्तृ च १७

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च १८

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्यधिष्ठितम् १९

तच्चाद्यो जगतामीशः परेशः परमेश्वरः।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः २०

यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम्।
केचिद्विष्णुं हरिं केचित्केचित्केशवसञ्ज्ञितम् २१

केचिद्गोविन्दनामानं पुण्डरीकाक्षमच्युतम्।
केचिज्जनार्दनं त्वन्ये वदन्ति पुरुषोत्तमम् २२

केचिद्विरिञ्चिं ब्राह्मणमब्जयोनिं तथापरे।
शर्वमीशमजं रुद्रंशूलिनं चापरे नृप २३

वरुणं केचिदादित्यमिन्द्रमग्निमथापरे।
यमं धनेशमपरे सोममन्ये प्रजापतिम् २४

हिरण्यगर्भं कपिलं क्षेत्रज्ञं कालमीश्वरम्।
स्वभावमन्तरात्मानमात्मानं बुद्धिरूपिणम्।
वदन्ति नामभिश्चान्यैरनामानमरूपिणम् २५

श्रूयतां तु नरव्याघ्र वेदवेदान्तनिश्चयः।
यज्ञेशो यज्ञपुरुषो पुण्डरीकाक्षसञ्ज्ञितः २६

तद्विष्णोः परमं ब्रह्म यतो नावर्तते पुनः।
स एव रुद्रश्चन्द्रोऽग्निः सूर्यो वैश्रवणो यमः २७

ब्रह्मा प्रजापतिः कालः स्वभावो बुद्धिरेव च।
क्षेत्रज्ञाख्यस्तथैवान्याः सञ्ज्ञाभिः प्रोच्यते बुधैः २८

सञ्ज्ञा तु तस्य नैवास्ति न रूपं नापि कल्पना।
स सर्वभूतानुगतः परमात्मा सनातनः २९

इति विष्णुधर्मेषु परमपदाख्यानम्।

अथ षड्नवतितमोध्यायः।
शतानीक उवाच।
आख्यातं भवता ब्रह्मन्नेतद्ब्रह्म सनातनम्।
यस्मादुत्पद्यते कृत्स्नं जगदेतच्चराचरम् १

किन्तु कौतुकमत्रास्ति मम भार्गवनन्दन।
तदहं श्रोतुमिच्छामि त्वत्तः सन्देहमुत्तमम् २

यदेतद्भवताख्यातं ब्रह्म ब्रह्मविदां वर।
परिणामो न तस्यास्ति निर्गुणं सर्वगं यतः ३

सनातनात्सर्वगतात्परिणामविवर्जितात्।
कथं सञ्जायते कृत्स्नं तस्मादपगुणादपि ४

शौनक उवाच।
द्विविधं कारणं भूप निबोध गदतो मम।
निमित्तकारणं पूर्वं द्वितीयं परिणामि च ५

यथा कुम्भस्य करणे कुलालः प्रथमं नृप।
कारणं परिणामाख्यं मृद्द्रव्यमपरं स्मृतम् ६

धर्माधर्मादयस्तद्वज्जगत्सृष्टेर्महीपते।
कारणं परिणामाख्यं निमित्ताख्यं तु तत्परम् ७

कारणं कालगगने यथा सन्निधिमात्रतः।
अविकारितया ब्रह्म तथा सृष्टेर्नरेश्वर ८

अज्ञानपटलाच्छनैरेकदेशात्मवृत्तिभिः।
अनात्मवेदिभिर्जीवैर्निजकर्मनिबन्धनैः ९

कुर्वद्भिर्नृपते कर्म कर्तृत्वमुपचारतः।
क्रियते सर्वभूतस्य सर्वगस्याव्ययात्मनः १०

यतः सम्बन्धवानेभिरशेषैः प्राणिभिः प्रभुः।
कर्तृत्वमुपचारेण ततस्तस्यापि भूपते ११

भेदाभेदस्वरूपेण तत्र ब्रह्म व्यवस्थितम्।
तयोः स्वरूपं नृपते श्रूयतामुभयोरपि १२

अनादिसम्बन्धवत्या क्षेत्रज्ञः क्षेत्रविद्यया।
व्याप्तः पश्यत्यभेदेन ब्रह्म तद्ध्यात्मनि स्थितम् १३

पश्यत्वात्मानमन्यत्र यावद्वै परमात्मनः।
तावत्सम्भ्राम्यते जन्तुर्मोहितो निजकर्मणा १४

सङ्क्षीनाशेषकर्मा तु परं ब्रह्म प्रपश्यति।
अभेदेनात्मनः शुद्धं शुद्धत्वादक्षयोऽक्षयम् १५

भेदश्च कर्मजनितः क्षेत्रज्ञपरमात्मनोः।
सङ्क्षीणकर्मबन्धस्य न भेदो ब्रह्मणा सह १६

उपास्योपास्यकतया भेदो यैरपि कथ्यते।
तौ हि शुद्ध्यर्थमिच्छन्ति मलानां तदुपासनम्।
परोऽसावपरेणात्मा सन्त्यक्तममतेन तु।
उपास्यते तदा सोऽपि तद्भावं प्रतिपद्यते।
कर्मिणां कर्मभेदेन भेदादेवादयो यतः।
कर्मक्षयादशेषाणां भेदानां सङ्क्षयस्ततः १७

अविद्या तु क्रिया सर्वा विद्या ज्ञानं प्रचक्षते।
कर्मणा जायते जन्तुर्विद्यया तु विमुच्यते १८

अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते।
उभयं ब्रह्मणो रूपं द्वैताद्वैतविभेदतः।
तयोः स्वरूपं वदतो निबोध मम पार्थिव १९

देवतिर्यङ्मनुष्याख्यस्तथैव नृप तारकः।
चतुर्विधो हि भेदो यो मिथ्याज्ञाननिबन्धनः २०

अहमन्योऽपरश्चायममी चात्र तथापरे।
विज्ञानमेतत्तद्द्वैतं यदन्यच्छ्रूयतां परम् २१

ममेत्यहमितिप्रज्ञावियुक्तमविकल्पवत्।
अविकारमनाख्येयमद्वैतमपि भूपते २२

अभेदेन तवाख्यातं यदेतद्ब्रह्म शाश्वतम्।
ज्ञानज्ञेयैक्यसद्भावं तदेवाद्वैतसञ्ज्ञितम् २३

यश्च द्वैते प्रपञ्चः स्यान्निवर्त्योभयचेतसः।
मनोवृत्तिमयं द्वैतमद्वैतं परमाथतः २४

मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः।
निरोधव्यास्तन्निरोधाद्द्वैतं नैवोपपद्यते २५

मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम्।
मनसो ह्यमतीभावे द्वैताभावात्तदाप्नुयात् २६

मनो हि विषयं यद्वदादत्ते तद्वदेव तत्।
भवत्यपास्तविषयं ग्राहिधर्मे च जायते २७

अग्राहि तच्च विधृतं योगिनां विषयं प्रति।
निरोधे योगसामर्थ्याद्ब्रह्मग्राह्येव जायते २८

ग्राह्यं च परमं ब्रह्म योगिचित्तस्य पार्थिव।
समुज्झितग्राह्यवृत्तिरमलस्य मलं महत् २९

क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः।
येऽपि कर्माणि कुर्वन्ति भगवन्तमपाश्रिताः।
क्रियायोगपरा राजन्कामाकाङ्क्षाविवर्जिताः।
ब्रह्मनिष्ठा ध्यानपरा ब्रह्मण्येव व्यवस्थिताः।
तेऽपि तद्भावमायान्ति विमुक्तिपथमाश्रिताः।
योगिनस्तं प्रपश्यन्ति समर्था नैव चोदितुम् ३०

कर्मणो भावना येयं सा ब्रह्मपरिपन्थिनी।
कर्मभावनया तुल्यं विज्ञानमुपपद्यते ३१

तादृग्भवतो विज्ञप्तिर्यादृशी कर्मभावना।
क्षये तस्याः परं ब्रह्म स्वयमेव प्रकाशते ३२

एवमेतन्मया भूप यथावत्कथितं तव।
द्वैताद्वैतस्वरूपेण यथा ब्रह्म व्यवस्थितम् ३३

यथावत्कर्मनिष्ठानां तत्प्राप्तिः कथितं तथा।
स्वरूपं ब्रह्मणश्चोक्तमुभयत्रापि ते पृथक्।
वासुदेवमयस्यान्यत्किं भूयः कथयामि ते ३४

इति विष्णुधर्मेषु ब्रह्माभिव्यञ्जकः।

अथ सप्तनवतितमोऽध्यायः।
शतानीक उवाच।
आख्यातं भगवन्सम्यक् परं ब्रह्म त्वया मम।
विष्णुरेव जगद्धाता योगिनां वर्तते यतः १

उपायस्तस्य यः प्राप्तो विष्णोरीशस्य भार्गव।
अद्वैतद्वैतरूपस्य तन्मे विस्तरतो वद २

येन जन्मजरामृत्युमहाग्राहभवार्णवम्।
त्वद्वाक्यनावमारुह्य मुक्तितीरमवाप्नुयाम् ३

शौनक उवाच।
तन्मम ब्रूहि तत्त्वेन प्राप्नुयां येन तत्पदम्।
बन्धः कर्ममयो ह्यत्र यथामुक्तिविघातकृत्।
तस्यापगमने यत्नः कार्यः संसारभीरुणा ४

सुवर्णादिमहादानपुण्यतीर्थावगाहनैः।
शारीरैश्च तथा क्लेशैः शास्त्रोक्तैस्तच्छमो भवेत् ५

देवतास्तुतिसच्छास्त्रश्रवणैः पुण्यदर्शनैः।
गुरुशुश्रूषणाच्चैव पापबन्धः प्रणश्यति ६

प्रपाकूपतडागानि देवतायतनानि च।
कारयन्पुरुषव्याघ्र पापबन्धात्प्रमुच्यते ७

योगिनामथ शुश्रूषां तथैवावसथान्नृप।
कुर्वन्पूर्ताश्रितं चान्यत्पाअबन्धात्प्रमुच्यते ८

विष्णुः कृष्णो वासुदेवो गोविन्दः पुष्करेक्षणः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ९

विश्वो विश्वेश्वरो विश्वविधाता धाम शाश्वतम्।
विष्णुरित्यादि च जपन्पापबन्धात्प्रमुच्यते १०

पद्मनाभो हृषीकेशः केशवो मधुसूदनः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते ११

नारायणश्चक्रधरो विश्वरूपस्त्रिविक्रमः।
इत्यादि व्याहरन्नित्यं पापबन्धात्प्रमुच्यते १२

विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः।
विष्णुर्विश्वेश्वरो विश्वमिति भावात्प्रमुच्यते १३

एवं संशान्तपापस्य पुण्यवृद्धिमतो नृप।
इच्छा प्रवर्तते पूंसो मुक्तिदायिषु कर्मसु १४

मुक्तिदायीनि कर्माणि निष्कामेन कृतानि तु।
भवन्ति दोषक्षयकाः पुण्यबन्धात्प्रमुच्यते।
नित्यनैमित्तिकानीह कर्माण्युक्तानि यानि वै।
तेषां निष्कामकारणात्पुण्यबन्धः प्रशाम्यति १५

अनेकजन्मसंसारचितस्यापि दृढात्मनः।
कर्मबन्धस्य शैथिल्यकारणं चापरं शृणु १६

अहिंसा नातिमानित्वमदम्भित्वममत्सरम्।
तितिक्षा समदर्शित्वं मैत्र्! यादौ दण्डसंयमः १७

ऋजुत्वमिन्द्रियजयः शौचमाचार्यपूजनम्।
पुण्यस्तवादिपठनमपैशुन्यमकत्थनम् १८

विषयान्प्रति वैराग्यमनहङ्कारमेव च।
अकामित्वं मनःस्थैर्यमद्रोहः सर्वजन्तुषु १९

अविवादस्तथा मूढैरमूढैः प्रश्नसत्कथा।
विविक्तदेशेऽभिरतिर्महाजनविवर्जनम् २०

सद्भिः सहास्य सततं योगाभ्यासो मितोक्तिता।
स्त्रीभर्त्सोत्सवसंलापविवर्जनमवेक्षणम् २१

परयोषिद्विलासानां काव्यालापविवर्जनम्।
गीतवादितनृत्तेषु मृदङ्गेष्वपरेषु च २२

असक्तिर्मनसो मौनमात्मतत्त्वावलोकनम्।
तपः सन्तोषः सत्येषु स्थितिर्लोभविवर्जनम् २३

तथा परिग्रहो राजन्मायाव्याजविवर्जनम्।
असृङ्मांसादिभूतत्वान्निजदेहजुगुप्सनम् २४

सर्वाण्येतानि भूतानि विष्णुरित्यचला मतिः।
तत्रैवाशेषभूतेशे भक्तिरव्यभिचारिणी २५

एते गुणा मयाख्याता मनोनिर्वृतिकारकाः।
शैथिल्यहेतवश्चैते कर्मबन्धस्य पूर्थिव २६

एभिः शान्तिं गते चित्ते ध्यानाकृष्टः स्थितो हरिः।
शमं नयति कर्माणि सितमिश्रासितानि वै २७

भूयश्च शृणु शास्त्रार्थं सङ्क्षेपाद्वदतो मम।
यथा सम्प्राप्यते मुक्तिर्मनुजेन्द्रमुमुक्षुभिः २८

नित्यनैमित्तिकानां तु निष्कामस्य हि या क्रिया।
निसिद्धानां सकामानां तथैवाकरणं नृप २९

सर्वेश्वरे च गोविन्दे भक्तिरव्यभिचारिणी।
प्रयच्छति नृणां मुक्तिं मा ते भूदत्र संशयः ३०

इति विष्णुधर्मेषु पापक्षयः।

अथाष्टनवतितमोऽध्यायः।
शतानीक उवाच।
आख्यातमेतदखिलं यत्पृष्टोऽसि मया द्विज।
जायते शमकामानां प्रशमः कर्मणां यथा १

किन्त्वत्र भवता प्रोक्ता प्रशान्तिः सर्वकर्मणाम्।
नात्यन्तनाशः शान्तानामुद्भवो भविता पुनः।
निजकारणमासाद्य स्तोकस्याग्नेर्यथा तृणम् २

तदाचक्ष्व महाभाग प्रसादसुमुखो मम।
सङ्क्षयो येन भवति मूलोद्वर्तेन कर्मणाम् ३

शौनक उवाच।
न कर्मणां क्षयो भूप जन्मनामयुतैरपि।
कर्मक्षयमृते योगाद्योगाग्निः क्षपयेत्परम् ४

शतानीक उवाच।
तं योगं मम विप्रर्षे प्रणतस्याभियाचतः।
त्वमाचक्ष्व क्षयो येन जायतेऽखिलकर्मणाम् ५

शौनक उवाच।
हिरण्यगर्भो भगवाननादिर्मुनिभिः पुरा।
पृष्टः प्रोवाच यं योगं तं समासेन मे शृणु ६

अनादिकालप्रसृता यथा विद्या महीपते।
तथा तत्क्षयहेतुत्वाद्योगो विद्यामयोऽव्ययः ७

तं परम्परया श्रुत्वा मुनयोऽत्र दयालवः।
प्रकाशयन्ति भूतानामुपकारचिकीर्षवः ८

देवा महर्षयो राजंस्तथा राजर्षयोऽखिलाः।
श्रेयोऽर्थिनः पुरा जग्मुः शरणं कपिलं किल ९

ते तमूचुर्भवान्नित्यं दयालुः सर्वजन्तुषु।
सोऽस्मानुद्धर सम्मग्नानितः संसारकर्दमात् १०

यच्छ्रेयः सर्ववर्णानां स्त्रीणामप्युपकारकम्।
यस्मात्परतरं नान्यच्छ्रेयस्तद्ब्रूहि नः प्रभो ११

आदावन्ते च मध्ये च नॄणां यदुपकारकम्।
अपि कीटपतङ्गानां तन्नः श्रेयः परं वद १२

इत्युक्तः कपिलः सर्वैर्देवैर्देवर्षिभिस्तथा।
नास्ति योगात्परं श्रेयः किञ्चिदित्युक्तवान्पुरा १३

यथा जन्मायुतैः क्लेशाः स्थैर्यं चेतस्युपागताः।
तच्छान्तये तथा योगो बहुजन्मार्जितो भवेत् १४

स एवाभ्यसतां नॄणां तीव्रसंवेगिचेतसाम्।
आसन्नतां प्रयात्याशु विष्णुः सन्न्यस्तकर्मणाम् १५

ब्राह्मणक्षत्रियविशां स्त्रीशूद्रस्य च पावनम्।
शान्तये कर्मणां नान्यद्योगादस्ति हि मुक्तये १६

अभ्यस्तं जन्मभिर्नैकैः शुभजातिभवेषु यत्।
योगस्वरूपं तत्तेषां स्त्रीशूद्रत्वे व्यवस्थितम् १७

योगाभ्यासो नृणां येषां नास्ति जन्मान्तराहृतः।
योगस्य प्राप्तये तेषां शूद्रवैश्यादिकः क्रमः १८

स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात्।
ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् १९

अनूचानस्तथा यज्वी कर्मन्यासी ततः परम्।
ततो ज्ञानित्वमभ्येत्य योगी मुक्तिं क्रमाल्लभेत् २०

येषां तु जातिमात्रेण योगाभ्यासस्तिरोहितः।
आस्ते तत्रैव मुच्यन्ते जातिहेतौ क्षयङ्गते २१

असत्कर्म कृतं पूर्वमसज्जातिप्रदायि यत्।
तस्मिन्योगाग्निना दग्धे तस्य जातेर्बलं कुतः २२

यथा वातेरितः कक्षं दहत्यूर्ध्वशिखोऽनलः।
सर्वकर्माणि योगाग्निर्भस्मसात्कुरुते तथा २३

यथा दग्धतुषं बीजमबीजत्वान्न जायते।
योगदग्धैस्तथा क्लेशैर्नात्मा सञ्जायते पुनः २४

अदृष्टा दृष्टतत्त्वानां योगिनां योगविच्युतिः।
येषां भवति योगित्वं प्राप्नुवन्तीह ते पुनः २५

सज्जातिप्रापकं कर्म कृतं तेन तदात्मना।
जातिं प्रयान्ति विप्राद्या योगकर्मानुरञ्जिताः २६

तत्राप्यनेकजन्मोत्थयोगाभ्यासानुरञ्जिताः।
तेनैवाभ्यासयोगेन ह्रियन्ते तत्त्वविद्यया २७

जैगीषव्यो यथा विप्रो यथा चैवासितादयः।
हिरण्यनाभो राजन्यस्तथा वै जनकादयः २८

पूर्वाभ्यस्तेन योगेन तुलाधारादयो विशः।
सम्प्राप्ताः परमां सिद्धिं शूद्राः! पैलवकादयः २९

मैत्रेयी सुलभा गार्गी शाण्डिली च तपस्विनी।
स्त्रीत्वे प्राप्ताः परां सिद्धिमन्यजन्मसमाधितः ३०

धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते।
वर्णावरत्वे सम्प्राप्ताः संसिद्धिं श्रवणी तथा ३१

पूर्वाभ्यस्तं च तत्तेषां योगज्ञानं महात्मनाम्।
सुप्तोत्थितप्रत्ययवदुपदेशादिना विना ३२

तस्माद्योगः परं श्रेयो विमुक्तिफलदो हि यः।
विमुक्तौ सुखमत्यन्तं सम्मोहस्त्वितरत्सुखम् ३३

शौनक उवाच।
एतत्ते सर्वमाख्यातं मया मनुजकुञ्जर।
श्रेयः परतरं योगात्किञ्चिदन्यन्न विद्यते ३४

इति विष्णुधर्मेषु योगप्रशंसा।

अथैकोनशततमोऽध्यायः।
शतानीक उवाच।
कथितं योगमाहात्म्यं भवता मुनिसत्तम।
स्वरूपं तु न मे प्रोक्तं श्रोतुमिच्छामि तद्ध्यहम् १

शौनक उवाच।
द्वैविध्यं नृप योगस्य परं चापरमेव च।
तच्छृणुष्व वदाम्येष वाच्यं शुश्रूषतां सताम् २

यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम्।
कृत्स्नां वा पृथिवीं दद्यान्न तत्तुल्यं कथञ्चन ३

क्षयिष्णून्यपराणीह दानानि मनुजाधिप।
एकमेवाक्षयं शस्तं ज्ञानदानमनुत्तमम् ४

दानान्येकफलानीह त्रैलोक्ये ददता सताम्।
ज्ञानं प्रयच्छता सम्यक् किं न दत्तं भवेन्नृप ५

ज्ञानान्यन्यान्यसाराणि शिल्पिनीव नरेश्वर।
एकमेव परं ज्ञानं यद्योगप्राप्तिकारकम् ६

अहं वक्ता भवाञ्श्रोता वाच्यो योगो विमुक्तिदः।
प्राणिनामुपकाराय सम्पदेषा गुणाधिका ७

परेण ब्रह्मणा सार्धमेकत्वं यन्नृपात्मनः।
स एव योगो विख्यातः किमन्यद्योगलक्षणम् ८

अपरं च परं चैव द्वौ योगौ पृथिवीपते।
तयोः स्वरूपं वक्ष्यामि तदिहैकमनाः शृणु ९

सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम्।
दुर्विचिन्त्यं यतः पूर्वं तत्प्राप्त्यर्थमथोच्यते १०

वातालीचञ्चलं चित्तमनालम्बनमस्थिति।
सूक्ष्मत्वाद्ब्रह्मणो राजन्नग्राह्यग्राह्यधर्मिणः ११

सम्यगभ्यस्यतोऽजस्रमुपवृंहितशक्तिमत्।
जन्मान्तरशतैर्वापि ब्रह्मग्राह्यभिजायते १२

यद्यन्तराय दोषेण नापकर्षो नराधिप।
योगिनो योगरूढस्य तालाग्रात्पतनं यथा १३

ज्ञानं प्रयच्छतां सम्यक् किं वदतु भवेन्नृप।
तदाप्नोति परं ब्रह्म क्लेशेन महता नृप।
जन्माभ्यासान्तरोत्थेन विज्ञानेन समेधितः १४

विष्ण्वाख्यं ब्रह्म दुष्प्रापं विषयाकृष्टचेतसा।
मनुष्येणेति तत्प्राप्तावुपायमपरं शृणु १५

सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम्।
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः १६

तस्याश्च लक्षणं भूप शृणुष्व गदतो मम।
यद्द्रव्या यत्स्वरूपा च कर्तव्या ध्यानकर्मणि १७

सुवर्णरूप्यताम्रैस्तु आरकूटमयीं तथा।
शैलदारुमृदा वापि लेख्यजां वापि कारयेत् १८

कार्यस्तु विष्णुर्भगवान्सौम्यरूपश्चतुर्भुजः।
सलिलाध्मातमेघाभः श्रीमाञ्श्रीवत्सभूषितः १९

आबद्धमकुटः स्रग्वी हारभारार्पितोदरः।
स्वक्षेण चारुचिपुकः सुललाटेन सुभ्रुणा २०

स्वोष्ठेन सुकपोलेन वदनेन विराजता।
कण्ठेन शुभलेखेन वराभरणधारिणा २१

नानारत्नानतार्ताभ्यां श्रवणाभ्यामलङ्कृतः।
पुष्टश्लिष्टायतभुजस्तनुताम्रनखाङ्गुलिः २२

मध्येन त्रिवलीभङ्गभूषितेन च चारुणा।
सुपादः सूरुयुगलः सुकटीगुल्फजानुकः २३

वामपार्श्वे गदादेवी चक्रं देवस्य दक्षिणे।
शङ्खो वामकरे देयो दक्षिणे पद्म सुप्रभम् २४

ऊर्ध्वदृष्टिमधोदृष्टिं तिर्यग्दृष्टिं न कारयेत्।
निमीलिताक्षो भगवान्न प्रशस्तो जनार्दनः।
सौम्या तु दृष्टिः कर्तव्या किञ्चित्प्रहसितेव च २५

कार्यश्चरणविन्यासः सर्वतः सुप्रतिष्ठितः।
चरणान्तरसंस्था च बिभ्रती रूपमुत्तमम्।
कार्या वसुन्धरा देवी तत्पादतलधारिणी २६

यादृग्विधा वा मनसः स्थैर्यलम्भोपपादिका।
नृसिंहवामनादीनां तादृशीं कारयेद्बुधः २७

ब्रह्म तस्यां समारोप्य मनसा तन्मयो भवेत्।
तामार्चयेत्तां प्रणमेत्तां स्मरेत्तां विचिन्तयेत् २८

तामर्चयंस्तां प्रणमंस्तां स्मरंस्तां च चिन्तयन्।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् २९

सङ्कल्पनक्रियारूढः स्वरूपेण नृपात्मनः।
कुर्वीत भावनां तत्र तद्भावोत्पत्तिकारणात्।
नान्यत्र मनसानेया बुद्धिरीषदपि क्वचित् ३०

यमैश्च नियमैश्चैव पूतात्मा पृथिवीश्वर।
मूर्तिं भगवतः संयक् पूजयेत्तन्मयः सदा ३१

इति विष्णुधर्मेषु मूर्तिलक्षणम्।

अथ शततमोऽध्यायः।
शतानीक उवाच।
यमांश्च नियमांश्चैव श्रोतुमिच्छामि भार्गव।
यैर्धूतकल्मषो योगी मुक्तिभागुपजायते १

शौनक उवाच।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ।
यमास्तवैते कथिता नियमानपि मे शृणु २

सन्तोषशौचस्वाध्यायास्तपश्चेश्वरभावना।
नियमाः कौरवश्रेष्ठ योगसंसिद्धिहेतवः ३

एभिर्मूलगुणैः सद्भिर्विष्णोर्भक्तिमतस्तथा।
श्रद्दधानस्य चान्यानि योगाङ्गानि निबोध मे ४

मध्यमप्राणमचलं सुखदायि शुभं शुचि।
योगसंसिद्धये भूप योगिनामासनं स्मृतम् ५

प्राणायामस्त्रिधा वायोः प्राणस्य हृदि धारणम्।
कुम्भरेचकपूराख्यास्तस्य भेदास्त्रयो नृप ६

एते निबोध मात्रास्तु नालम्बनगुणान्विताः।
सालम्बनश्चतुर्थोऽन्यो बाह्यान्तर्विषयः स्मृतः ७

इन्द्रियाणां स्वविषयाद्बुद्धिः प्रत्येकशस्तु यत्।
करोत्याहरणं ज्ञेयः प्रत्याहारः स पण्डितैः ८

शुभे ह्येकत्र विषये चेतसो यच्च धारणम्।
निश्चलत्वात्तु सा सद्भिर्धारणेत्यभिधीयते ९

पौनःपुन्येन तत्रैव विषये सैव धारणा।
ध्यानाख्या लभते राजन्समाधिमपि मे शृणु १०

अर्थमात्रं च यद्ग्राह्ये चित्तमादाय पार्थिव।
अर्थस्वरूपवद्भाति समाधिः सोऽभिधीयते ११

कथितानि तवैतानि योगाङ्गानि कृतैस्तु यैः।
उत्कर्षो जायते व्यस्तैः समस्तैर्हेयसङ्क्षयः १२

योगाङ्गान्यङ्गभूतानि ध्यानस्यैतान्यशेषतः।
ध्यानमप्यवनीपाल योगस्याङ्गत्वमर्छति १३

ध्यानमेकव्रतानां तु कुशलाकुशलेषु तत्।
अर्थेष्वाशक्तिमभ्येति सर्वदैव नरेश्वर १४

शुभाव्यावर्तितं ध्यानमविवेकस्य जायते।
संसारदुःखदं राजन्नशुभालम्बि तद्यतः १५

तदेवाकृष्य दुष्टेभ्यो विषयेभ्यः शुभाशुभम्।
सर्वसंसारकान्तारपारमभ्येति मानवः १६

दुःखदाघप्रशमने या चिन्ताहर्निशं नृणाम्।
तद्ध्यानमविशुद्धार्थं सुखदानामपालने १७

कथं संसारबन्धोऽयमस्मान्मुक्तिः कथं त्विति।
मनोवृत्तिर्मनुष्याणां ध्यानमेतच्छुभं द्विधा १८

शुद्धमप्येतदखिलं लोभकार्यतयानया।
सुखाभिलाषो यन्मुक्तौ बन्धुदुःखादिपीडनात् १९

अवाञ्छितफलं लोभमलोभांशविवर्जितम्।
शुभाशुभफलं ध्यानमरक्तं द्विष्टमिष्यते २०

दृष्टानुमानागमिकं ध्यानस्यालम्बनं त्रिधा।
न हि निर्विषयं ध्यानं मूढवृत्तिरिवेष्यते २१

प्राक् स्थूलेषु पदार्थेषु ततः सूक्ष्मेषु पण्डितः।
ध्यानं कुर्वीत तत्पश्चात्परमाणौ महीपते २२

ध्यानाभ्यासपरस्यैवं हेयालम्बनबाधने।
तच्छान्तये तद्विपक्षभावनामेव भावयेत् २३

तच्चित्तस्तन्मयो ज्ञानी भवत्यस्मान्न दोषवत्।
कुर्वीतालम्बनं काले कस्मिंश्चिदपि पार्थिव २४

आब्रह्मस्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः।
प्राणिनः कर्मजनितसंस्कारवशवर्तिनः २५

यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः।
अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः २६

पश्चादुद्भूतबोधाश्च ध्याता नैवोपकारकाः।
नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः २७

तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत्।
ध्येयं ध्यानविदां सम्यग्यद्विष्णोः परमं पदम् २८

न तद्यज्ञैर्न दानेन न तपोभिर्न तद्व्रतैः।
पश्यन्त्येकाग्रमनसो ध्यानेनैव सनातनम् २९

तच्च विष्णोः परं रूपमनिर्देश्यमजं स्थिरम्।
यतः प्रवर्तते सर्वं लयमभ्येति यत्र च ३०

अनिद्रमजमस्वप्नमरूपानाम शाश्वतम्।
योगिनस्तं प्रपश्यन्ति ज्ञानदृश्यं सनातनम् ३१

निर्धूतपुण्यपापा ये ते विशन्त्येवमीश्वरम्।
तच्च सर्वगतं ब्रह्म विष्णुः सर्वेश्वरेश्वरः।
परमात्मा परः प्रोक्तः सर्वकारणकारणम् ३२

अनन्तशक्तिमीशेशं स्वप्रतिष्ठमनोपमम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३३

यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३४

सर्गादिकारणं यस्य स्वभावादेव शक्तयः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३५

निर्धूतपुण्यपापा यं विशन्त्यव्ययमीश्वरम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३६

तत्र योगवतः सम्यक् पुरुषस्य नरेश्वर।
यदुक्तं लक्षणं तन्मे गदतः श्रोतुमर्हसि ३७

ब्रह्मण्येव स्थितं चित्तं सर्वतः सन्निवर्तितम्।
नान्यालम्बनसापेक्षं योगिनः सिद्धिकारकम् ३८

संस्थानमविकारेण चेतसो ब्रह्मसंस्थितौ।
निवात इव दीपस्य योगिनः सिद्धिलक्षणम् ३९

एवमेकाग्रचित्तस्य पुण्यापुण्यमशेषतः।
प्रयाति सङ्क्षयमृते देहारम्भकरे नृप ४०

देहारम्भकरस्यापि कर्मणः सङ्क्षयावहः।
यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् ४१

यत्तद्ब्रह्म परं प्रोक्तं विष्ण्वाख्यमजमव्ययम्।
चेतसः प्रलयस्तत्र योग इत्यभिधीयते ४२

योगसेवानिरोधेन प्रलीने तत्र चेतसि।
पुरुषः कारनाभावाद्भेदं नैवानुपश्यति ४३

परात्मनोर्मनुष्येन्द्रविभागो ज्ञानकल्पितः।
क्षये तस्यात्मपरयोर्विभागाभाग एव हि ४४

परमात्मात्मनोर्योऽयमविभागः परन्तप।
स एव परमो योगः समासात्कथितस्तव ४५

यथा कमण्डलौ भिन्ने तत्तोयं सलिले गतम्।
व्रजत्यैक्यं तथैवैतदुभयं कारणक्षयात् ४६

यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत्।
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ४७

एवं ब्रह्मात्मनोर्योगादकत्वमुपपन्नयोः।
न भेदः कलशाकाशनभसोरिव जायते ४८

प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान्।
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते ४९

घटध्वंसे घटाकाशं न भिन्नं नभसो यथा।
ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन पुमांस्तथा ५०

भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना।
क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ५१

ततः समस्तकल्याणसमस्तसुखसम्पदाम्।
आह्लादमन्यमतुलं कमप्याप्नोति शाश्वतम् ५२

ब्रह्मस्वरूपस्य तदा ह्यात्मनो नित्यदैव सः।
व्युत्तानकाले राजेन्द्रआस्ते हेयतिरोहितः ५३

आदर्शस्य मलाभावाद्वैमल्यं काशते यथा।
ज्ञानाग्निदग्धहेयस्य सोऽह्लादो ह्यात्मनस्तथा ५४

यथा न क्रियते ज्योत्स्ना मलप्रक्षालनादिना।
दोषप्रहाणं न ज्ञानमात्मनः क्रियते तथा ५५

यथोदुपानकरणात्क्रियते न जलाम्बरम्।
सदैव नीयते व्यक्तिमसतः सम्भवः कुतः ५६

यथा हेयगणध्वंसादवबोधादयो गुणाः।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते ५७

ज्ञानवैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर।
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ५८

एतदद्वैतमाख्यातमेष योगस्तवोदितः।
अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ५९

पुनश्च श्रूयतामेष सङ्क्षेपाद्गदतो मम।
नानाद्वैकत्वविज्ञानस्वरूपमवनीपते ६०

आत्मा क्षेत्रज्ञसञ्ज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः।
तैरेव विगतैः शुद्धः परमात्मा निगद्यते ६१

ध्येयं ब्रह्म पुमान्ध्याता उपायो ध्यानसञ्ज्ञितः।
यस्त्वेतत्करणेष्वास्ते तद्वर्गे का विभागता ६२

सङ्क्षेपादपि भूपाल सङ्क्षेपनपरं शृणु।
पुत्राय यत्पिता ब्रूयात्स्वशिष्यायाथवा गुरुः ६३

न वासुदेवात्परमस्ति किञ्चिन्न वासुदेवाद्गदितं परं च।
सत्यं परं वासुदेवोऽमितात्मा नमो नमो वासुदेवाय नित्यम् ६४

तस्मात्तमाराधय चिन्तयेशमभ्यर्चयानन्तमतन्द्रितात्मा।
संसारपारं परमीप्समानैराराधनीयो हरिरेक एव ६५

आराधितोऽर्थान्धनकाङ्क्षकानां धर्मार्थिनां धर्ममशेषधर्मी।
ददाति कामांश्च मनोनिविष्टान्मोक्षार्थिनां मुक्तिद एव विष्णुः ६६

इति विष्णुधर्मेषु योगाध्यायः।

अथैकाधिकशतमोऽध्यायः।
शतानीक उवाच।
ममैतत्कथितं सम्यगात्मविद्याश्रितं मुने।
यत्त्वन्यच्छ्रोतुमिच्छामि तत्प्रसन्नो वदस्व मे १

येयं मुक्तिर्भगवता प्रोक्ता वर्णक्रमान्मम।
तत्रेच्छामि मुने श्रोतुं वर्णाद्वर्णोत्तरोच्छ्रयम् २

शूद्रोवैश्यत्वमभ्येति कथं वैश्यश्च भार्गव।
क्षत्रियत्वं द्विजश्रेष्ठ ब्राह्मणत्वं कथं ततः ३

विप्रत्वान्मुक्तियोग्यत्वं यथा याति महामुने।
तदहं श्रोतुमिच्छामि त्वत्तो भार्गवनन्दन ४

शौनक उवाच।
त्वद्युक्तोऽयमनुप्रश्नः कुरुवर्य शृणुष्व तम्।
मयोच्यमानमखिलं वर्णानामुपकारकम् ५

शूद्रधर्मानशेषेण कुर्वञ्शूद्रोयथाविधि।
वैश्यत्वमेति वैश्यश्च क्षत्रियत्वं स्वकर्मकृत् ६

विप्रत्वं क्षत्रियः सम्यग्द्विजधर्मपरो नृप।
विप्रश्च मुक्तिलाभेन युज्यते सत्क्रियापरः ७

सर्वेषामेव वर्णानां स्वधर्ममनुवर्तताम्।
सदोच्छ्रितिर्न्यूनकृतो हानिश्चोत्कृष्टकर्मणः ८

तेषां च ब्राह्मणादीनां वर्णधर्माननुक्रमात्।
समुच्छ्रितिप्रदान्राजन्गदतो मे निशामय ९

अनसूया दया क्षान्तिः शौचं मङ्गलमस्पृहा।
अकार्पण्यमनायासस्तथान्यः सार्ववर्णिकः १०

अष्टावेते गुणाः पुंसां परत्रेह च भूतये।
भवन्ति कुरुशार्दूल पृथग्धर्मांश्च मे शृणु ११

यज्ञाध्ययनदानानि ब्रह्मक्षत्रविशां नृप।
साधारणानि तेषां तु जीविकाकर्म कथ्यते १२

याजनाध्यापनैर्विप्रस्तथा शस्तप्रतिग्रहैः।
भृत्यादिभरणं कुर्याद्यज्ञांश्च विभवे सति १३

भृत्यादिभरणे नालं स्ववृत्त्या हि यदा द्विजः।
तदा जीवेत्समालम्ब्य वृत्तिं क्षत्रियवैश्ययोः १४

सन्त्यजेत समस्तांस्तान्न कुर्याद्वृत्तिसङ्करम्।
आपत्कालेऽपि विप्रस्य शूद्रकर्म न शस्यते १५

प्रजानां पालनं सम्यग्विधिः प्रथमकल्पितः।
राजन्यस्य महीपाल शस्त्राजीवेन वा भृतिः १६

तदुत्पन्नैर्धनैः कुर्यात्समस्ताः क्षत्रियक्रियाः।
तस्याप्यापदि वैश्यस्य या वृत्तिः सा विधीयते १७

वाणिज्यं वैश्यजातस्य पशूनां पालनं कृषिः।
दद्याद्यजेच्च विधिवत्तदुत्पन्नधनेन सः १८

द्विजातिजनशुश्रूषां क्रयविक्रयजैर्धनैः।
शूद्रोयजेत्पाकयज्ञैर्दद्यादिष्टानि चार्थिनाम् १९

तस्मै शुश्रूषवे देयं जीर्णवस्त्रमुपानहौ।
छत्त्रादिकं तथा कुर्यात्सम्यग्धर्मोपपादनम् २०

चतुर्णामपि वर्णानां धर्मस्ते कथितो मया।
शृणुष्व च महीपाल धर्ममाश्रमिणामतः २१

कृतोपनयनः पूर्वं ब्रह्मचारी गुरोर्गृहे।
गुरुशुश्रूषणं कुर्याद्भैक्षान्नकृतभोजनः २२

निवेद्य गुरवे भैक्षमत्तव्यं तदनुज्ञया।
गुरोर्भुक्तवतः पश्चान्नातिस्वादुमुदावता २३

वह्निशुश्रूषणं क्रुयाद्वेदाहरणमेव च।
गुरोरर्थे सदा तोयं समिदाहरणं तथा २४

पुष्पादीनां च कुर्वीत सुप्ते तस्मिञ्शयीत च।
शयने च समुत्तिष्ठेत्तं व्रजन्तमनुव्रजेत् २५

आहूतश्च पठेत्तेन तन्मना नान्यतोमुखः।
व्रतानि चरता संयग्ग्राह्यो वेदो यतात्मना।
दण्डवत्प्लवनं स्नाने शस्तं नास्याङ्गशोधनम् २६

अधीत्य वेदान्वेदौ वा वेदं वापि यथाक्रमम्।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् २७

यथेष्टां दक्षिणां दत्त्वा गुरवे कुरुनन्दन।
ततोऽनुज्ञां समासाद्य गृहस्थाश्रममावसेत् २८

तेनैवान्तं व्रजेत्प्राज्ञस्।
तच्छुश्रूषणतत्परः वानप्रस्थाश्रमं तस्माच्।
चतुर्थं वापि संश्रयेत्यथाक्रमं वा कुर्वीत दारसङ्ग्रहम् २९

ततस्त्वरोगिकुलजां तुल्यां पत्नीं समुद्वहेत्।
गृहस्थाश्रमवृत्त्यर्थमव्यङ्गां विधिना नृप ३०

आख्यातवर्णधर्मेण धनं लब्ध्वा महीपते।
कुर्वीत श्रद्धया युक्तो नित्यनैमित्तिकीः क्रियाः ३१

अभ्यागतातिथीन्बन्धून्भृत्यादीनातुरांस्तथा।
तोषयेच्छक्तितोऽन्नेन वयांस्यन्त्यपशूनपि ३२

ऋतावुपगमश्चैव गृहस्थस्यापि शब्दितः।
धर्मो धर्मभृतां श्रेष्ठ यज्ञोच्छिष्टं च भोजनम् ३३

हव्येन प्रीणयेद्देवान्पितृन्कव्येन शक्तितः।
मनुष्यानन्नपानेन स्वाध्यायेन र्षितर्पणम् ३४

कुर्याच्च प्रीणनं नित्यं भूतानां बलिकर्मणा।
प्रजापतिं सुतोत्पत्त्या हार्देन सकलं जनम् ३५

शुभेन कर्मणात्मानमुपदेशेन चात्मजान्।
अनुजीविजनं वृत्या गृहस्थस्तोषयेत्सदा ३६

तथैवापरमानेभ्यः प्रदेयं गृहमेधिना।
अन्नं भिक्षार्थिनो ये च परिव्राड्ब्रह्मचारिणः ३७

एवं गृहाश्रमे देवाः पितरो मुनयस्तथा।
सर्वकामान्प्रयच्छन्ति मनुष्याश्च सुपूजिताः ३८

गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः।
अपत्यस्य तथापत्यं तदारण्यं समाश्रयेत् ३९

पितृदेवातिथीनां तु स्मृतं तत्रापि पूजनम्।
तथैवारण्यभोगश्च तपोभिश्चात्मकर्षणम् ४०

ब्रह्मचर्यं महीशय्या होमस्त्रिषवणाप्लुतिः।
मौनादिकरणं शस्तं जटावल्कलधारणम् ४१

ग्रीष्मे पञ्चतपोभिश्च वर्षास्वभ्रावकाशिकैः।
जलशय्या च हेमन्ते भाव्यं वननिकेतनैः ४२

इङ्गुदैरण्डतैलेन गात्राभ्यङ्गानि चेष्यते।
श्यामाकनीवारमयं फलमूलैश्च भोजनम् ४३

अप्रवेशस्तथा ग्रामे वानप्रस्थविधिः स्मृतः।
वानप्रस्थस्य ते प्रोक्तं धर्मलक्षणमादितः ४४

आश्रमणं त्वपरं भिक्षोः शृणुष्व गदतो मम।
ग्रामैकरात्रिर्वसतिर्नगरे पञ्चरात्रिका ४५

सर्वसङ्गपरित्यागः क्षान्तिरिन्द्रियसंयमः।
विकालभैक्षचरणमनारम्भस्तथा नृप ४६

आत्मज्ञानावबोधेच्छा ब्रह्मचर्यं समाधिना।
आत्मावलोकनं चैव भिक्षोः शस्तानि पार्थिव ४७

चतुर्थश्चैष कथितस्तव भिक्षोर्मयाश्रमः।
क्रमाद्विमुक्तिकामानां पुरुषाणामयं विधिः ४८

एवं तु वर्णधर्मेण तथा चाश्रमकर्मना।
निजेन सम्पूज्य हरिं सिद्धिमाप्नोति मानवः ४९

ब्रह्मचारी गृहस्थश्च भिक्षुर्वैखानसस्तथा।
कुर्वन्तो निजकर्माणि विष्णुमेव यजन्ति ते ५०

यतो हि देवताः सर्वा ब्रह्माद्याः कुरुनन्दन।
अंशभूता जगद्धातुर्विष्णोरव्यक्तजन्मनः ५१

विश्वे देवा यतो विष्णुर्विष्णुः पितृगणो यतः।
देवा यज्ञभुजश्चेशो यतः पापहरो हरिः ५२

विशे भूतानि भूतानि यतो विष्णुस्तथर्षयः।
ततः सर्वाश्रमाणां हि पूज्य एको जनार्दनः ५३

सर्वेश्वरं सर्वमयं समस्तसंसारहेतुक्षयकारणेशम्।
वरं वरेण्यं वरदं वरिष्ठं विष्णुं क्रियावान्यजते मनुष्यः ५४

यस्योदरे जगदिदं परमाणुभूतं।
चन्द्रेन्द्ररुद्रमरुदश्विवसुप्रजेशैः।
सर्वैः समेतममितात्मतनोस्तमेकम्।
अभ्यर्च्य विष्णुमभिवाञ्छितमस्त्यलभ्यम् ५५

आराध्य यं भुवनभावनमच्युताख्यम्।
ऐश्वर्यमीप्सितमवाप पतिः सुराणाम्।
त्रैलोक्यसारममरार्चितपादपद्मम्।
एकं तमेव हरिमर्चयतार्चनीयम् ५६

यस्याङ्घ्रिपद्मगलिताम्भसि देव दैत्ययक्षादिभिः सकलपापमपोह्य सिद्धिः।
सम्प्राप्यते मरणजन्मजरापहन्त्री।
विष्णोरजात्कथय कोऽभ्यधिकस्ततोऽस्ति ५७

कमलजहरसूर्यचन्द्रशक्रैः सततमभिष्टुतमाद्यमीशितारम्।
सकलभुवनकार्यकारनेशं पुरुषतनुं प्रणतोऽस्मि वासुदेवम् ५८

इति विष्णुधर्मेषु वर्णाश्रमधर्माः।

अथ द्व्यधिकशततमोऽध्यायः।
शतानीक उवाच।
श्रुतं भगवतो रूपमद्वैते यत्त्वयोदितम्।
विष्णोर्भृगुकुलश्रेष्ठ यच्च द्वैते महात्मनः १

अविद्याभिन्नदृग्बुद्धिः पुरुषो मुनिपुङ्गव।
द्वैतभूते जगत्यस्मिन्नद्वैतं भावयेत्कथम् २

क्रोधलोभादयो दोषा ये मुक्तेः परिपन्थिनः।
विनिवृत्तिरूपा येन तेषां येन वदेर्ह तम् ३

सर्वेश्वरेश्वरेशस्य च रूपं हरेः परम्।
तच्चाहं श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ४

शौनक उवाच।
सम्यक् पृष्टमिदं भूप भवता गुह्यमुत्तमम्।
द्वैताद्वैतकथालापसम्बन्धादुपकारकम् ५

पुरा धर्मगृहे जज्ञे चतुर्मूर्तिर्नरेश्वर।
देवदेवो जगद्धाता परमात्मा जनार्दनः ६

जगतः पालनार्थाय दुर्वृत्तनिधनाय च।
स्वेच्छया भगवान्विष्णुः सम्भवत्येव भूतले ७

स्वर्गे वापि भूलोके वा भुवर्लोकेऽथवा विभुः।
यत्र वा रोचते तत्र चिकीर्षुर्जगतो हितम् ८

तुरीयांशेन धर्मस्य भगवान्भूतभावनः।
यदावतारं कृतवांस्तदा तच्चरितं शृणु ९

नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः १०

तेषां नारायणनरौ गन्धमादनपर्वते।
आत्मन्यात्मानमाधाय तेपते परमं तपः ११

ध्यायमानावनौपम्यं स्वकारणमकारणम्।
वासुदेवमनिर्देश्यमप्रतर्क्यमजं परम्।
योगयुक्तौ महामौनमास्थितौ गुरुतेजसौ १२

तयोस्तपःप्रभावेण न तताप दिवाकरः।
ववौ चाशङ्कितो वायुः सुखस्पर्शो ह्यसर्करः १३

शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः।
सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ १४

तयोर्गौरवभारार्ता पृथिवी पृथिवीपते।
चचाल भूधराश्चेलुश्चुक्षुभुश्च महाब्धयः १५

देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः।
बभूवुरवनीपाल परमं क्षोभमागताः १६

देवराजस्ततः शक्रः सन्त्रस्तस्तपसस्तयोः।
युयोजाप्सरसः शुभ्रास्तयोर्विघ्नचिकीर्षया १७

इन्द्रउवाच।
रम्भे तिलोत्तमे कुण्ठे घृताचि ललितावति।
उम्लोचे सुभ्रुप्रम्लोचे सौरभेऽपि मदोद्धते १८

अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि।
विलोभनीयं बिभ्राणा वपुर्मन्मथबोधनम्।
गन्धमादनमासाद्य कुरुध्वं वचनं मम १९

नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ।
तप्येते धर्मतनयौ तपः परमदुश्चरम् २०

तावस्माकं वरारोहाः कुर्वाणौ परमं तपः।
कर्मातिशयदुःखार्तिप्रदावयतिनाशकौ २१

तद्गच्छत न भीः कार्या भवतीभिरिदं वचः।
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः २२

रूपं च वः समालोक्य मदनोद्दीपनं परम्।
कन्दर्पवशमभ्येति विवशः को न मानवः २३

शौनक उवाच।
इत्युक्ता देवराजेन मदनेन समं तदा।
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते २४

गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम्।
चकार माधवो रम्यं प्रोत्फुल्लवनपादपम् २५

प्रववौ दक्षिणः सद्यो मलयानुगतोऽनिलः।
भृङ्गमालारुतरवैर्रमणीयमभूद्वनम् २६

गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः।
किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः २७

वराङ्गनाश्च ताः सर्वा नरनारायणावृषी।
विलोभयितुमारब्धा वराङ्गललितैः स्मितैः २८

जगुर्मनोहरं काश्चिन्ननृतुश्चात्र चापराः।
अवादयंस्तथैवान्या मनोहरतरं नृप २९

हावैर्भावैः स्मितैस्त्रासैस्तथान्या वल्गुभाषितैः।
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ३०

तथापि न तयोः कश्चिन्मनसः पृथिवीपते।
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ३१

निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः।
वासुदेवार्पणे स्वच्छे तथैव मनसी तयोः ३२

पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः।
यथा न याति न ययौ तथा तन्मानसं क्वचित् ३३

सर्वभूतहितौ ब्रह्म वासुदेवमयं परम्।
मन्यमानौ न रागस्य द्वेषस्य च वशङ्गतौ ३४

स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः।
विद्यामयं दीपयुतमन्धकारमिवालयम् ३५

पुष्पोज्ज्वलांस्तरुवरान्वसन्तं दक्षिणानिलम्।
ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ३६

यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम्।
ददृशातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ३७

दाहाय नानलो वह्नेर्नापःक्लेदाय चाम्भसः।
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ३८

ततो विज्ञानविज्ञातपरब्रह्मस्वरूपयोः।
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ३९

ततो गुरुतरं यत्नं वसन्तमदनौ नृप।
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनः पुनः ४०

अथ नारायणो धैर्यगाम्भीर्योदार्यमानसः।
ऊरोरुत्पादयामास तां वरोरुबलां तदा ४१

त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते।
गुणलाघवमभ्येति यस्याः सन्दर्शनादनु ४२

तां विलोक्य महीपाल चकम्पे माधवानिलम्।
वसन्तो विस्मयं यातः संयातः संस्मरं स्मरः ४३

रम्भातिलोत्तमाद्याश्च विलक्षा देवयोषितः।
न रेजुरवनीपाल तल्लक्षहृदयेक्षणाः ४४

ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः।
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ४५

प्रसीदतु जगद्धाता यस्य देवस्य मायया।
मोहिताः स्म विजानीमो नान्तरं वन्द्यनिन्द्ययोः ४६

प्रसीदतु स नो देवो यस्य रूपमिदं द्विधा।
धाम भूतस्य लोकानामनादेरत्र तिष्ठति ४७

नरनारायणौ देवौ शार्ङ्गचक्रायुधावुभौ।
आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ४८

निधानं सर्वविद्यानां सर्वपापेन्धनानलः।
नारायणो नो भगवान्सर्वपापं व्यपोहतु ४९

शार्ङ्गचक्रायुधः श्रीमानात्मज्ञानमयोऽनघः।
नरः समस्तपापानि हत्वात्मा सर्वदेहिनाम् ५०

जटाकलापबन्धोऽयमनयोरक्षयात्मनोः।
सौम्या च दृष्टिः पापानि हन्तु सर्वाणि नः शुभा ५१

प्रसीदतु नरोऽस्माकं तथा नारायणोऽव्ययः।
अपराधः कृतोऽस्माभिर्ययोरव्यक्तजन्मनोः ५२

क्व मूर्तिरैश्वर्यगुणैर्युक्ता दिव्यैर्महात्मनोः।
क्व नः शरीरकाणीदृग्मिश्रकर्मचितानि वै ५३

तथाप्यविद्यादुष्टेन मनसा यः कृतो हि वाम्।
अस्माभिरपराधोऽयं क्षम्यतां सुमहाद्युती ५४

शरणं च प्रपन्नानां तवास्मीति च वादिनाम्।
प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ५५

एष एव वरोऽस्माकमविवेकाहृतो महान्।
त्रैलोक्यवन्द्यौ यन्नाथौ विलोभयितुमागताः ५६

प्रसीद देव विज्ञानघनमूढदृशामपि।
भवन्ति सन्तः सततं सद्धर्मन्यवतारकाः ५७

दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमीदृशम्।
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ५८

तेन सत्येन सत्यात्मन्परमात्मन्सनातनम्।
नारायण प्रसीदेति सर्वलोकपरायण ५९

प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण।
प्रसीद योगिनामीश नर सर्वगताच्युत ६०

नमस्यामो नरं देवं तथा नारायणं हरिम्।
नमो नराय नम्याय नमो नारायणाय च ६१

प्रसन्नानामनाथानामपराधवतां प्रभुः।
शं करोतु नरोऽस्माकं शं नारायण देहि नः ६२

शौनक उवाच।
एवमभ्यर्थितः स्तुत्या रागद्वेषादिवर्जितः।
प्राहेशः सर्वभूतानां साध्यो नारायणो नृप ६३

स्वागतं मधवे काम भवतोऽप्सरसामपि।
यत्कार्यमागतानां व इहास्माभिस्तदुच्यताम् ६४

यूयं संसिद्धये नूनमस्माकं वलशत्रुणा।
सम्प्रेषितास्ततोऽस्माकं नृत्तगेयादिदर्शितम् ६५

न वयं नृत्तगीतेन नाङ्गचेष्टादिभाषितैः।
लुभ्यामो विषतो मन्ये विषया दारुणात्मकाः ६६

शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः।
तदा नृत्तादयो भावाः कथं लोभप्रदायिनः ६७

ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च।
माधवस्य च शक्रोऽपि स्वास्थ्यं यात्वविशङ्कितः ६८

योऽसौ परस्मात्परमः पुरुषात्परमेश्वरः।
परमात्मा हृषीकेशः स्थावरस्य चरस्य च ६९

उत्पत्तिहेतुरन्ते च यस्मिन्सर्वं प्रलीयते।
स सर्ववासिदेवत्वाद्वासुदेवेत्युदाहृतः ७०

वयमंशांशकास्तस्य चतुर्व्यूहस्य मायिनः।
तदादेशितवर्त्मनो जगद्बोधाय देहिनः ७१

तं सर्वभूतं सर्वेशं सर्वत्र समदर्शिनः।
पश्यन्तः कुत्र रागादीन्करिष्यामो विभेदकान् ७२

वसन्ते मयि चेन्द्रेच भवतीषु तथा स्मरे।
यदा स एव विश्वात्मा तदा द्वेषादयः कथम् ७३

तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ७४

तथेन्द्रियाण्यहङ्कारो बुद्धिश्च न पृथग्यतः।
समदृष्टिर्यतः कुत्र रागद्वेषौ प्रवर्ततः ७५

आत्मा चायमभेदेन यतः सर्वेषु जन्तुषु।
सर्वेश्वरेश्वरो विष्णुः कुत्र रागादयस्ततः ७६

ब्रह्माणमिन्द्रमीशानमादित्यान्मरुतोऽखिलान्।
विश्वेदेवानृषीन्साध्यान्वसून्पितृगणांस्तथा ७७

यक्षराक्षसभूतादीन्नागसर्पसरीसृपान्।
मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ७८

मक्षिकामशकादंशाञ्शलभानलसान्कृमीन्।
गुल्मवृक्षलतावल्लित्वक्सारतृणजातिजान् ७९

यच्च किञ्चिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः।
मन्यध्वं रूपमेकस्य तत्सर्वं परमात्मनः ८०

जानमानः कथं विष्णुमात्मानं परमं च यत्।
रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ८१

सर्वभूतस्थिते विष्णौ सर्वगे सर्वधातरि।
निपात्यतां पृथग्भूते कुत्र रागादिको गणः ८२

एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः।
तन्मयत्वैकभूतेषु रागाद्यवसरः कुतः ८३

सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी।
पृथग्विज्ञानमत्रैव लोकसंव्यवहारवत् ८४

भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
जगद्यदेतदखिलं तदा भेदः किमात्मकः ८५

भवन्ति लयमायान्ति समुद्रेसलिलोर्मयः।
न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ८६

यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः।
भवन्ति नाग्निभेदेन तथैतद्ब्रह्मणो जगत् ८७

भवतीभिश्च यत्क्षोभमस्माकं स पुरन्दरः।
कारयत्यसदेतच्च विवेकाधारचेतसाम् ८८

भवत्यः स च देवेन्द्रोलोकाश्च ससुरासुराः।
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ८९

यथेयं चारुसर्वाङ्गी भवतीनां मयोरुतः।
दर्शिता दर्शयिष्यामि तथात्रैवाखिलं जगत् ९०

प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम्।
यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ९१

किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते।
तारतम्यं सुरूपत्वे सततं भिन्नदर्शिनाम् ९२

भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम्।
मयेयं दर्शिता तन्वी ततस्तच्छममिच्छता ९३

यस्मान्मदूरोरुद्भूता इयमिन्दीवरेक्षणा।
उर्वशी नाम कल्याणी भविष्यति ततोऽप्सराः ९४

तदियं देवराजाय नीयतां वरवर्णिनी।
भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ९५

वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात्।
तपश्चर्या न चाप्राप्यफलं प्राप्तुमभीप्सितम् ९६

सन्मार्गमस्य जगतो दर्शयिष्यन्करोम्यहम्।
तपो नरेण सहितो जगतः पालनोद्यतः ९७

यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर।
तमहं वारयिष्यामि निर्वृतो भव वासव ९८

कर्तासि चेत्त्वमाबाधामदुष्टस्येह कस्यचित्।
तवापि शास्तैतदहं प्रवर्तिष्याम्यसंशयम् ९९

एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति।
उपकाराय जगतामवतीर्णोऽस्मि वासव १००

या चेयमुर्वशी मत्तः समुद्भूता पुरन्दर।
त्रेताग्निहेतुभूतेयमैलं प्राप्य भविष्यति १०१

इति विष्णुधर्मेषूर्वशीशम्भवः।

अथ त्र्! यधिकशततमोऽध्यायः।
शौनक उवाच।
इत्युक्तेऽप्सरसः सर्वाः प्रणिपत्यातिविस्मिताः।
ऊचुर्नारायणं देवं तद्दर्शनकुतूहलाः १

उक्तो भगवता योऽयमुपदेशो हितार्थिनाम्।
प्रोक्तः स सर्वो विज्ञातो माहात्म्यं विदितं च ते २

यत्त्वेतद्भवता प्रोक्तं प्रसन्नेनाव्ययात्मना।
दर्शितेयं विशालाक्षी दर्शयिष्यामि वो जगत् ३

तन्नाथ सर्वभावेन प्रपन्नानां जगत्पते।
दर्शयात्मानमखिलं दर्शितेयं यथोर्वशी ४

यदि देवापराद्धेषु नास्मासु कुपितं तव।
मनस्तज्जगतमीश दर्शयात्मानमात्मना ५

देवदेव उवाच।
पश्यतेहाखिलांल्लोकान्मम देहे सुराङ्गनाः।
मधुं मदनमात्मानं यच्चान्यद्द्रष्टुमिच्छथ ६

शौनक उवाच।
इत्युक्त्वा भगवान्देवस्तदा नारायणो नृप।
उच्चैर्जहास स्वनवत्तत्राभूदखिलं जगत् ७

ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः! पिनाकधृक्।
आदित्या वसवः साध्या विश्वेदेवा महर्षयः ८

नासत्यदस्रावनिलाः सर्वे सर्वे तथाग्नयः।
यक्षगन्धर्वसिद्धाश्च पिशाचाः किन्नरोरगाः ९

समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः।
मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा १०

सरीसृपाश्च ये सूक्ष्मा यच्चान्यज्जीवसञ्ज्ञितम्।
समुद्राः! सकलाः शैलाः सरितः काननानि च ११

द्वीपान्यशेषाणि तथा नदाः सर्वसरांसि च।
नगरग्रामपूर्णा च मेदिनी मेदिनीपते।
देवाङ्गनाभिर्देवस्य देहे दृष्टं महात्मनः १२

नक्षत्रग्रहताराभिः समवेतं नभस्तलम्।
ददृशुस्ताः सुचार्वङ्ग्यस्तस्यान्तर्विश्वरूपिणः १३

नोर्ध्वं न तिर्यङ्नाधश्च यदान्तस्तस्य दृश्यते।
तमनन्तमनादिं च ततस्तास्तुष्टुवुः प्रभुम् १४

मदनेन समं सर्वा मधुना च सुराङ्गनाः।
ससाध्वसा भक्तिमत्यः परं विस्मयमागताः १५

अप्सरस ऊचुः।
पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम्।
परायणं त्वा जगतामनन्तं नताः स्म नारायणमात्मभूतम् १६

मही दिवं वायुजलाग्नयस्त्वं शब्दादिरूपश्च परापरात्मन्।
त्वत्तो भवत्यच्युत सर्वमेतदभेदरूपोऽसि विभो त्वमेभिः १७

द्रष्टासि रूपस्य रसस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः।
स्प्रष्टा भवान्स्प्रशवतोऽखिलस्य घ्रातासि गन्धस्य पृथक्शरीरी १८

सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोके च न सोऽस्ति कश्चित्।
पश्वादिवर्गे च न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव १९

ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्विन्द्राग्निरूपाणि च वीर्यवत्सु।
रुद्रान्तकादीनि च रौद्रवत्सु रूपेषु रूपाणि तवोत्तमानि २०

समुद्ररूपं तव धैर्यवत्सु तेजस्विरूपेषु रविस्तथाग्निः।
क्षमाधनेषु क्षितिरूपमग्र्यं रूपं तवाग्र्यं बलवत्सु वायुः २१

मनुष्यरूपं तव राजसेषु मूढेषु सर्वेश्वर पादपोऽसि।
दर्पान्वितेष्वच्युत दानवस्त्वं सनत्सुजातश्च विवेकवत्सु २२

रसस्वरूपेण जले स्थितोऽसि गन्धस्वरूपो भवतो धरित्र्! यम्।
दृश्यस्वरूपश्च हुताशने त्वं स्पर्शस्वरूपो भगवान्समीरे २३

शब्दात्मकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम्।
बोधव्यरूपश्च विभो त्वमेकः सर्वत्र सर्वेश्वर सर्वभूतः २४

पश्याम ते नाभिसरोजमध्ये ब्रह्माणमेतं च हरं भ्रुकूट्यम्।
तत्राश्विनौ कर्णगतौ समस्ताणवस्थितान्बाहुषु लोकपालान् २५

घ्राणेऽनिलं नेत्रगतौ रवीन्दू जिह्वा च ते नाथ सरस्वतीयम्।
पादौ धरित्रीं जठरं समस्तांल्लोकान्हृषीकेश विलोकयामः २६

जङ्घे वियत्पादकराङ्गुलीषु पिशाचरक्षोरगसिद्धसङ्घान्।
पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः २७

सर्वेष्टयस्ते दशनेषु देव दंष्टृआसु विद्या भवतश्चतस्रः।
रोमस्वशेषास्तव देवसङ्घा विद्याधरा नाथ कराङ्घ्रिरेखाः।
साङ्घाः समस्तास्तव देव वेदाः समास्थिता बहुषु सन्धिभूताः २८

वराहरूपं धरणीधृतस्ते नृसिंहरूपं च सटाकरालम्।
पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यश्च तवाप्रमेयः २९

अमी समुद्रास्तव देव देहे मेर्वादयः शैलवरास्तवामी।
इमाश्च गङ्गाप्रमुखाः स्रवत्यो द्वीपान्यशेषाणि वनानि चैव ३०

स्तुवन्ति चैते मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम्।
त्वामीशितारं जगतामनन्तं यज्ञेशमर्चन्ति च यज्विनोऽमी ३१

त्वत्तो न सौम्यं जगतीह किञ्चित्त्वत्तो न रौद्रंच समस्तमूर्ते।
त्वत्तो न शीतं न च केशवोष्णं सर्वस्वरूपातिशयी त्वमेकः ३२

प्रसीद सर्वेश्वर सर्वभूत सनातनात्मन्परमेश्वरेश।
त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ३३

किं वापराद्धं तव देव मूढैर्यन्मायया नो हृदयं तथापि।
पापावशं किं प्रणतार्तिहारिन्मनो हि नो विङ्कलतामुपैति ३४

न तेऽपराद्धं यदि वापराद्धमस्माभिरुन्मार्गविवर्तनीभिः।
तत्क्षम्यतां सृष्टिकरस्तवैव देवापराधं सृजतो विवेकान् ३५

नमो नमस्ते गोविन्द नारायण जनार्दन।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३६

ततोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु।
नमो नमस्ते वैकुण्ठ श्रीवत्साङ्काब्जलोचन।
वरेण्य यज्ञपुरुष प्रजापालक वामन।
नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हरे।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३७

संसारार्णवपोताय नमस्तुभ्यमधोक्षज।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३८

नमः परस्मै श्रीशाय वासुदेवाय वेधसे।
स्वेच्छया गुणभोक्तृत्वे सर्गान्तस्थितिकारिणे ३९

उपसंहार विश्वात्मन्रूपमेतत्समन्ततः।
वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ४०

प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत।
प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ४१

न विद्मः क्व नु वर्तामो भवान्नैवोपलक्ष्यते।
सर्वं जगदिहैकस्थं पिण्डितं लक्षयामहे ४२

किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे।
माहात्म्यं किन्तु ते देव जिह्वाया यन्न गोचरम् ४३

वक्त्राणामयुतेनापि बुद्धीनामयुतायुतैः।
गुणानां वर्णनं नाथ तव वक्तुं न शक्यते ४४

तदेतद्दर्शितं रूपं प्रसादः परमः कृतः।
छन्दतो जगतामीश तदेतदुपसंहर ४५

शौनक उवाच।
इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः।
दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः।
विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ४६

तं दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम्।
विस्मयं परमं जग्मुः समस्ता देवयोषितः ४७

स च सर्वेश्वरः शैलान्पादपान्सागरान्भुवम्।
जलमग्निं तथा वायुमाकाशं च विवेश ह ४८

काले दिक्ष्वथ सर्वात्मा मनुष्यात्मन्यथापि च।
आत्मरूपः स्थितः स्वेन महिम्ना भावयञ्जगत् ४९

देवदानवरक्षांसि यक्षविद्याधरोरगान्।
मनुष्यपशुकीटादीन्मृगपक्ष्यन्तरिक्षगान् ५०

येऽन्तरिक्षे तथा भूमौ दिवि ये ये जलाश्रयाः।
तान्प्रविश्य स विश्वात्मा पुनस्तद्रूपमास्थितः।
नरेण सार्छं यत्ताभिर्दृष्टपूर्वमरिन्दम ५१

ताः परं विस्मयं गत्वा सर्वास्त्रिदशयोषितः।
प्रणेमुः साध्यसाः पाण्डुवदना नृपसत्तम ५२

नारायणोऽपि भगवानाह तास्त्रिदशाङ्गनाः।
नीयतामुर्वशी भद्रायत्रास्ते त्रिदशेश्वरः ५३

भवतीनां हितार्थाय सर्वभूतेष्वसाविति।
ज्ञानमुत्पादितं भूयो लयं भूतेषु कुर्वता ५४

तद्गच्छत समस्तोऽयं भूतग्रामो मदंशकः।
अहमप्यात्मभूतस्य वासुदेवस्य योगिनः ५५

यस्मात्परतरं नास्ति योऽनन्तः परिपठ्यते।
तमजं सर्वभूतेशं जानीत परमं पदम् ५६

अहं भवत्यो देवाश्च मनुष्याः पशवश्च ये।
एतत्सर्वमनन्तस्य देवदेवस्य विस्तृतिः ५७

एतज्ज्ञात्वा समं सर्गं सदेवासुरमानुषम्।
सपश्वादिगणं चैव द्रष्टव्यं त्रिदशाङ्गनाः ५८

शौनक उवाच।
इत्युक्तस्तेन देवेन समस्तास्ताः सुरस्त्रियः।
प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव ५९

आदाय चोर्वशीं भूयो देवराजमुपागताः।
आचख्युश्च यथावृत्तं देवराजाय तत्तथा ६०

तथा त्वमपि राजेन्द्रसर्वभूतेषु केशवम्।
चिन्तयन्समतां गच्छ समतैव हि मुक्तये ६१

जानन्नेवमशेषेषु भूतेषु परमेश्वरम्।
वासुदेवं कथं दोषांल्लोभादीन्न प्रहास्यसि ६२

सर्वभूतानि गोविन्दाद्यदा नान्यानि भूपते।
तदा वैरादयो भावाः क्रियतां कुत्र पार्थिव ६३

इह पश्यञ्जगत्सर्वं वासुदेवात्मकं नृप।
एतदेव हि कृष्णेन रूपमाविष्कृतं तदा ६४

परमस्मादपि महद्रूपं यत्कथितं तव।
जन्मादिभावरहितं तद्विष्णोः परमं पदम् ६५

सङ्क्षेपेण च भूपाल श्रूयतां यद्वदामि ते।
यन्मतौ पुरुषः कृत्वा परं निर्वाणमृच्छति ६६

सर्वं विष्णुः समस्तौ हि भावाभावौ च तन्मयौ।
सदसत्सर्वमीशेशो वासुदेवः परं पदम् ६७

भवजलधिगतानां द्वन्द्ववाताहतानां।
सुतदुहितृकलत्रत्राणभारार्दितानाम्।
विषमविषयतोये मज्जतामप्लवानां।
भवति शरणमेको विष्णुपोतो नराणाम् ६८

इति विष्णुधर्मेषूर्वशीसम्भवे विश्वरूपप्रदर्शनम्।

अथ चतुरधिकशततमोऽध्यायः।
शौनक उवाच।
इत्युक्तं तव धर्मज्ञ विष्णोर्माहात्म्यमुत्तमम्।
स्वरूपं च जगद्धातुराराधनविनिश्चयः १

आराधितात्फलं यच्च केशवात्प्राप्यते नरैः।
कथितश्च महाभाग दानानां विस्तराद्विधिः २

योगद्वैधं च कथितमद्वैतं द्वैतमेव च।
अद्वैतभावनोपायो विस्तराच्च तवोदितः ३

सङ्क्षेपविस्तराभ्यां च सर्वमेतत्तवोदितम्।
देवदेवस्य माहात्म्यं सर्वगस्याव्ययात्मनः ४

स एष सर्वप्रवरः सर्वभूतश्च माधवः।
सर्वमत्र च सर्वस्मिन्नेष एव प्रतिष्ठितः ५

त्रियुगं पुण्डरीकाक्षमपवर्गमहाह्रदम्।
समुत्पत्य पराह्लादमनन्तं प्रतिपद्यते ६

शतानीक उवाच।
श्रुतमेतन्मया पूर्वं विस्तरेण त्वयोदितम्।
यत्त्वेतत्त्रियुगेत्युक्तं तस्य निर्वचनं वद ७

चतुर्युगेन कालस्य परिसङ्ख्या यदा द्विज।
त्रियुगेन तदा विष्णोः क्रियते किं विशेषणम् ८

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्।
यदा जगति विख्यातं तदा त्रियुगता कुतः ९

शौनक उवाच।
साधु पृष्टोऽस्मि भूपाल भवता त्रियुगाश्रितम्।
विशेषणमनन्तस्य गदतस्तन्निशामय १०

काष्ठा पार्थिव विज्ञेया निमेषा दश पञ्च च।
काष्ठात्रिंशत्कला ज्ञेया मुहूर्तं तावतीः कलाः ११

त्रिंशन्मुहूर्ता भूपाल तथाहोरात्रमुच्यते।
तत्सङ्ख्यातैरहोरात्रैर्मासः पार्थिवसत्तम १२

अयनं दक्षिणं मासाः षण्मासाश्च तथोत्तरम्।
अयनद्वितयाख्यश्च कालः संवत्सरः स्मृतः १३

दक्षिणं त्वयनं रात्रिर्देवानामुत्तरं दिनम्।
संवत्सरेण देवानामहोरारमिहोच्यते १४

शतत्रयेण वर्षाणां षष्ट्या च पृथिवीपते।
मनुष्यसङ्ख्यया वर्षं देवानामपि गण्यते १५

इति दिव्येन मानेन चतुर्युगविकल्पनाम्।
कथ्यमानां मया राजन्यथावच्छ्रोतुमर्हसि १६

चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १७

त्रेता त्रीणि सहस्राणि दिव्याब्दानां नरर्षभ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १८

द्वापरं द्वे सहस्रे तु वर्षाणामभिधीयते।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १९

कलिः सहस्रमेकं तु दिव्याब्दानां नरर्षभ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः २०

कृतं नामयुगं पूर्वं यत्र धर्मः सनातनः।
कृतमेव च कर्तव्यं तस्मिन्काले नृपेप्सितम् २१

न तत्र धर्माः सीदन्ति न च क्षीयन्ति वै प्रजाः।
ततः कृतयुगं नाअ गुणतः प्रोच्यते युगम् २२

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।
नासन्कृतयुगे राजन्न तदा क्रयविक्रयः २३

न सामयजुरृग्वर्णाः क्रिया नासीच्च मानवी।
नाभिसन्धाय च फलं कश्चिद्धर्मे प्रवर्तते २४

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः।
नासूया नापि रुदितं न दर्पो नापि पैशुनम् २५

न विग्रहः कुतस्तन्द्रीन द्वेषो नापि दम्भनम्।
न भयं नापि सन्तापो न चेर्ष्या नापि मत्सरः २६

ततः परमकं ब्रह्म या गतिर्योगिनां परा।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा २७

तस्मिन्नात्मनि लोकानां सर्वलोकमयेऽच्युते।
स्वेच्छया शौक्ल्यमापन्ने सर्वं भवति निर्मलम् २८

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः।
कृते युगे भवन्तीह स्वकर्मनिरताः प्रजाः २९

स्वमाश्रमं स्वमाचारं सम्यग्ज्ञानसमन्वितम्।
जगद्भवति राजेन्द्रसत्यप्रायं तपोरतम् ३०

एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ३१

चतुराश्रमयुक्तेन कर्मणा कालयोगिना।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ३२

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः।
कृते युगे चतुष्पादश्चतुर्वर्ण्यस्य शाश्वतः ३३

एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्।
त्रेतामपि निबोध त्वं यादृग्रूपं प्रवर्तते ३४

पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः।
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ३५

ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः।
त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ३६

प्रचरन्ति ततो वर्णास्तपोदानपरायणाः।
स्वकर्मस्थाः क्रियावन्तः समत्वाद्रजसान्विताः ३७

द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते।
विष्णुः पीतत्वमभ्येति चतुर्धा वेद एव च ३८

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे।
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे ३९

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ४०

अल्पायुषो नरा वेदः सुमहांश्चेति दुस्तरः।
करोति बहुधा वेदान्व्यासरूपी तदा हरिः ४१

सत्त्वस्य चाप्यविज्ञानात्सत्त्वे कश्चिद्व्यवस्थितः।
सत्त्वात्प्रच्यवमानानां व्याधयो बहवोऽभवन् ४२

कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः।
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः ४३

धनकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे।
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ४४

पादेनैकेन राजेन्द्रधर्मः कलियुगेऽपि हि।
तामसं युगमासाद्य कृष्णो भवति केशवः ४५

व्रताचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा।
ईतयो व्याधयस्तन्द्रीदोषाः क्रोधादयस्तथा।
उपद्रवाश्च वर्धन्ते मनस्तापाश्च सङ्गताः ४६

युगेष्वावर्तमानेषु लोको व्यावर्तते पुनः।
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः।
युगद्वयकृतान्धर्मान्प्रार्थना न च कुर्वते ४७

एतत्कलियुगं भूप यत्र जातोऽसि पार्थिव।
नात्रावतारं कुरुते कृष्णांशेन स्वरूपिणा ४८

कृतादिषु जगत्पाति दैत्येभ्यो रूपधृद्धरिः।
कलौ त्वन्यं समाविश्य पूर्वोत्पन्नं बिभर्ति तम् ४९

प्रत्यग्ररूपधृग्देवो दृश्यते न कलौ हरिः।
कृतादिष्वेव तेनैष त्रियुगः परिपठ्यते ५०

कलेरन्ते च सम्प्राप्ते कल्किनं ब्रह्मवादिनम्।
अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् ५१

पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः।
कृत्वा प्रवेशं कुरुते यदभिप्रेतमच्युतः ५२

स्वेच्छाशुक्ले जगच्छुक्लं रक्ते रक्तं च जायते।
पीते च पीततामस्मिन्कृष्णे चात्रासितं नृप ५३

एष एव जगद्देवो जगत्स्रष्टा जगद्गुरुः।
यद्रूप एव देवोऽयं तद्रूपं जायते जगत् ५४

इति विष्णुधर्मेषु चतुर्युगावस्था।

अथ पञ्चाधिकशततमोऽध्यायः।
शतानीक उवाच।
चतुर्युगं नः कथितं सङ्क्षेपाद्भवताखिलम्।
कलिं विस्तरतो ब्रूहि यत्र जातोऽस्मि भार्गव १

भगवत्यमले विष्णौ क्रीडया कृष्णतां गते।
किमाहाराः किमाचारा भविष्यन्ति प्रजास्तदा २

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विज कीदृशाः।
भविष्यन्ति कलौ प्राप्ते तन्ममाचक्ष्व विस्तरात् ३

शौनक उवाच।
तपः परं कृतयुगे त्रेतायां यज्ञ एव हि।
प्रधानं द्वापरे दानं सत्यमेव कलौ युगे ४

कृते युगे मनःशुद्धिरस्त्येवायत्नतस्तपः।
तपो निष्पाद्यते भूप योगसंसाधनं परम् ५

रागादिदोषदुष्टेन मनसा यत्तपो नृप।
क्रियते क्लेशनाशाय तत्तपो न विमुक्तये ६

त्रेतायां तु क्रियायज्ञान्मनोयज्ञांस्ततो नराः।
वितन्वते स्थूलतरः पन्था धर्मस्य स प्रभो ७

द्वापरे नातिविद्वत्ता यथा त्रेतायुगेऽभवत्।
ततः स्थूलतरः पन्था दानात्मा क्रियते नरैः ८

न विद्वत्ता न शुद्धार्थो न शुद्धिर्मनसः कलौ।
यतोऽतः सत्यमेवैकमेकान्तेनोपकारकम् ९

यथा सत्यं तथा क्षान्तिरहिंसा च कलौ युगे।
परोपतापाद्विरतिर्नराणामुपकारिका १०

तस्मिन्घोरे युगे प्राप्ते कृष्णे कृष्णत्वमागते।
यादृग्रूपं जगदिदं भवतीह शृणुष्व तत् ११

राजानो ब्राह्मणा वैश्याः शूद्राश्च मनुजेश्वर।
व्याजधर्मपराश्चैव धर्मवैतंसिका जनाः १२

सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः।
सत्यहान्या ततस्तेषां स्वल्पमायुर्भविष्यति १३

आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्।
विद्याहीनानबुद्धींस्तांल्लोभोऽप्यभिभविष्यति १४

लोभक्रोधपरा मूढाः कामवश्याश्च मानवाः।
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः १५

ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम्।
शूद्रतुल्या भविष्यन्ति तपःसत्यविनाकृताः १६

अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः।
ईदृशो भविता लोकः कृष्णे कृष्णत्वमागते १७

वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकः।
भार्यामित्राश्च पुरुषा भविष्यन्ति कलौ युगे १८

मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजाविकाः।
गोषु नष्टासु पुरुषा भविष्यन्ति तदा नृप १९

सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये २०

अनिष्क्रान्तास्तु सम्बन्धाः स्वगोत्रात्पुरुषर्षभ।
अनिष्क्रान्तानि श्राद्धानि भविष्यन्ति च गेहतः २१

न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः।
न यक्ष्यन्ति न होष्यन्ति हेतुवादविकूलिनः २२

प्रायशः कृपणानां च तथा बन्धिमतामपि।
विधवानां च वित्तानि हरिष्यन्ति बलान्विताः २३

अन्यायोपात्तवित्तेषु करिष्यन्ति नराः स्पृहाम्।
वेश्यालावण्यभावेषु स्पृहां योषित्करिष्यति २४

कन्यां न याचिता कश्चिन्न च कन्याप्रदो नरः।
कन्या वरश्च च्छन्देन गृहीष्यन्ति परस्परम् २५

भार्या न पतिशुश्रूषां तदा काचित्करिष्यति।
नरा देवद्विजांस्त्यक्त्वा भविष्यन्त्यन्यतोमुखाः २६

यज्ञभागभुजो देवा ये वेदपठिता द्विजाः।
ब्रह्माद्यास्तान्परित्यज्य नराः कालबलात्कृताः।
हेतुवादपरा देवान्करिष्यन्त्यपरांस्तदा २७

ये यवान्ना जनपदा गोधूमान्नास्तथैव च।
तान्देशान्संश्रयिष्यन्ति नराः कलियुगे नृप २८

न श्राद्धैश्च पितॄंश्चापि तर्पयिष्यन्ति मानवाः।
बहु मंस्यन्ति ते स्नानं नापि शौचपरा नराः २९

न विष्णुभक्तिप्रवणं नराणां नृप मानसम्।
भविता तु युगे प्राप्ते कृष्णे कार्ष्ण्योपलक्षिते ३०

विनिन्दां प्रथमे पादे करिष्यन्ति हरेर्नराः।
युगान्ते तु हरेर्नाम नैव कश्चिद्गृहीष्यति ३१

धन्यास्ते पुरुषव्याघ्र पापाम्भोधावपापिनः।
ये नामापि कलौ विष्णोर्गृहीष्यन्त्यक्षयात्मनः ३२

ध्यायन्हरिं कृतयुगे त्रेताद्वापरयोर्यजन्।
यदाप्नोति कलौ नाम्ना तदेव परिकीर्तयन् ३३

हरिर्हरति पापानि नाम भक्त्या यदीरितम्।
वासुदेवेति न जनस्तदेवोच्चारयिष्यति ३४

बहुपाषण्डसङ्कीर्णे जगत्यस्मिन्कलौ युगे।
कृष्णायेति नमोऽस्त्वत्र सुकृती यदि वक्ष्यति ३५

हेतुवादबलैर्मोहं कुहकैश्च जने तदा।
पाषण्डिनः करिष्यन्ति चातुराश्रम्यदूषकाः ३६

पाषण्डभूतमत्यर्थं जगदेतदसत्कृतम्।
भविष्यति तदा भूप वृथाप्रव्रजितोत्कटम् ३७

न तु द्विजातिशुश्रूषां न स्वधर्मानुपालनम्।
करिष्यन्ति तदा शूद्राः! प्रव्रज्यालिङ्गिनो वृथा ३८

उत्कोचाः सौगताश्चैव महायानरतास्तथा।
भविष्यन्त्यथ पाषण्डाः कापिला भिक्षवस्तथा ३९

वृद्धाः श्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथापरे।
भविष्यन्ति दुरात्मानः शूद्राः! कलियुगे नृप ४०

निःशौचा वक्रमतयः परपाकान्नभोजनाः।
भविष्यन्ति दुरात्मानः शूद्राः! प्रव्रजितास्तदा ४१

एते चान्ये च बहवः पाषण्डाः पुरुषर्षभ।
ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति तथा परे ४२

राजशुल्कहराः क्षुद्रागृहस्थपरिमोषकाः।
मुनिवेषाकृतिच्छन्ना वाणिज्यमुपजीविकाः ४३

न द्विजान्न कलौ देवान्पूजयिष्यन्ति मानवाः।
म्लेच्छभाषानिबन्धैस्तु हेतुवादैर्विकूलिताः ४४

एवं तेष्वतिदुष्टेषु विमार्गपथिवर्तिनः।
भविष्यन्त्यपरे दुष्टास्तेषां मार्गानुयायिनः ४५

असंस्कृतोक्तिवक्तारो वेदशास्त्रविनिन्दकाः।
जगदुन्मार्गकर्तारो भविष्यन्ति तदा नराः ४६

तच्छीलवर्तिभिर्भूप मनुष्यैः परिपूरिते।
जगत्यत्र तदा नॄणां स्वल्पमायुर्भविष्यति ४७

परमायुश्च भविता तदा वर्षाणि षोडश।
ततः प्राणान्प्रहास्यन्ति कृष्णे कृष्णत्वमागते ४८

पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते।
सप्तवर्षाष्टवर्षा वा प्रजास्यन्ति नरास्तदा ४९

अल्पद्रव्या वृथालिङ्गा हिंसारतिपरायणाः।
हर्तारो न तु दातारो भविष्यन्ति कलौ नराः ५०

शुक्लादानपराः क्षुद्राः! परपाकाशिनो द्विजाः।
वैश्यास्तथा तु राजानो न तु क्षत्रियवंशजाः ५१

शूद्राभिक्षवता विप्राः शुश्रूषाविपणाश्रिताः।
भविष्यन्ति नृपश्रेष्ठ कृष्णे कृष्णत्वमागते ५२

न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा।
न भार्या न पतिर्भूप भविता तत्र सङ्कुले ५३

एतत्कालस्वरूपं ते शतानीक मयोदितम्।
विष्णुभक्तान्नरश्रेष्ठ न नरान्बाधते कलिः ५४

येऽहर्निशं जगद्धातुर्वासुदेवस्य कीर्तनम्।
कुर्वन्ति तान्नरव्याघ्र न कलिर्बाधते नरान् ५५

ये तन्मनस्कास्तिष्ठन्ति प्रयान्तः संस्थितास्तथा।
स्वपन्तश्च नरव्याघ्र तान्कलिर्न प्रबाधते ५६

सर्वत्र भगवान्विष्णुर्गोविन्दः केशवो हरिः।
यस्य भावो न तं भूप कदाचिद्बाधते कलिः ५७

न कलौ कलिचेष्टोऽसौ मूढेषु न स मुह्यते।
भगवत्यच्युते नित्यं येन भावः समर्पितः ५८

कलिप्रभावो दुष्टोक्तिः पाषण्डानां तथोक्तयः।
न क्रामन्ते मनस्तस्य यस्य चेतसि केशवः ५९

कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः ६०

अनिष्ट्वापि महायज्ञैरकृत्वापि पितृस्वधाम्।
कृष्णमभ्यर्च्य यद्भक्त्या नैनं श्वोमरणं तपेत् ६१

यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा।
गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ६२

एतद्विदित्वा भूपाल सर्वे सर्वेश्वरे हरौ।
तन्मना भव तच्चित्तस्तन्मना नावसीदति ६३

परमार्थमशेषस्य जगतः प्रभवाव्ययम्।
शरण्यं शरणं गच्छन्गोविन्दं नावसीदति ६४

कलिकल्मषकक्षाग्निं निर्वाणं पदमव्ययम्।
सर्वकारणमव्यक्तं विष्णुं ध्यायन्न सीदति ६५

यत्र सर्वमये ध्याते ध्येयमन्यन्न विद्यते।
यत्रार्चितेऽर्चनीयश्च जायते तं नमाम्यहम् ६६

जगत्स्रष्टारमिशेशमनादिं परतः परम्।
सर्वास्पदं सर्वभूतं गच्छन्सर्वात्मना हरिम् ६७

हरत्यघमशेषं यो हरिरित्यभिसंस्तुतः।
अशेषाघहरं विष्णुं हरिवर्णं हरिं नमः ६८

यत्कीर्तनादघः शुद्धः स्मृते यत्राशुचिः सुचिः।
तमात्मनि स्थितं भूप पुण्डरीकेक्षणं नमः ६९

अपवित्रः पवित्रो वा सर्वावस्थगतोऽपि वा।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ७०

यद्यप्युपहतः पापैर्यदि वात्यन्तदुष्कृतैः।
तथापि संस्मरन्विष्णुं स बाह्याभ्यन्तरः शुचिः ७१

कलावत्रातिदोषाढ्ये विषयासक्तमानसः।
कृत्वापि पापं गोविन्दं ध्यायन्पापैर्विमुच्यते ७२

तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः।
तत्कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ७३

नैतत्पिता तनूजाय न शिष्याय गुरुर्नृप।
परमार्थपदं ब्रूयाद्यदेतत्ते मयोदितम् ७४

संसारे भ्रमता लभ्यं पुत्रदारधनं वसु।
सुहृदश्च तथिवान्ये नोपदेशो नृपेदृशः ७५

किं पुत्रदारैर्वित्तैर्वा न मित्रे क्षेत्रबान्धवैः।
उपदेष्टा परो बन्धुरीदृशो यो विमुक्तये ७६

यो नैकाग्रमना विष्णाविति ज्ञात्वापि पार्थिव।
स नूनमच्युतस्यैव नानुग्राह्योऽत्र पापकृत् ७७

द्विविधो भूतसर्गोऽयं दैव आसुर एव च।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ७८

उपदेशप्रदानेन सम्भूतित्रय आसुरः।
नैव विष्णुपरो भूप भवत्यक्षीणकल्मषः ७९

उपदेशेषु सोऽत्यन्तं संरम्भी युक्तियोजितम्।
हेतुवादाश्रितो मूढो ददात्युत्तरमक्षयम् ८०

स्नातस्य देवकार्येषु तथापत्सु कथासु च।
आसुरस्यापि तन्मात्रा जायते नृपते मतिः ८१

इति मत्वातिसद्भावं रहस्यं परमीरितम्।
त्वयाच्युतान्मतिर्भूप नापनेया कथञ्चन ८२

अप्राप्य वाञ्छति रतिं सर्वदैव नृणां मनः।
इहैवाच्युतसंसर्गि यदि तत्किं प्रहीयते ८३

तदलं तव राज्येन बलकोशादिभिस्तथा।
चिन्तितैरच्युतश्चिन्त्यो यद्भावि न तदन्यथा ८४

एतत्पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनम्।
सुखप्रीतिकरं नॄणां पततां निर्वृतिप्रदम् ८५

येषां गृहेषु लिखितमेतत्स्थास्यति नित्यदा।
न तद्गृहाणि दैवोत्था बाधिष्यन्ते ह्युपद्रवाः ८६

किं तीर्थैः किं प्रदानैर्वा किं यज्ञैः किमुपोषितैः।
अहन्यहन्येतदेव तन्मयत्वेन शृण्वतः ८७

यओ ददाति तिलप्रस्थं सुवर्णस्य च मासकम्।
शृणोति श्लोकमेकं च धर्मस्यास्य समं हि तत् ८८

अध्यायपारणं चास्य गोप्रदानाः विशिष्यते।
शृण्वंश्चास्य दशाध्यायान्सद्यः पापैः प्रमुच्यते ८९

रात्र्! या यदेनः कुरुते दिवसेन च मानवः।
श्रोतुं वाञ्छा समस्तं तत्पार्थिवस्य व्यपोहति ९०

कपिलानां शते दत्ते यद्भवेज्ज्येष्टपुष्करे।
नरेन्द्रविष्णुधर्माणां तदावाप्नोति पारणे ९१

प्रवृत्तौ च निवृत्तौ च धर्मं धर्मभृतां वर।
नास्त्यन्यद्विष्णुधमाणां सदृशं शास्त्रमुत्तमम् ९२

मैत्रीं करोति भूतेषु भक्तिमत्यन्तमच्युते।
श्रुत्वा धर्मानिमान्वेत्ति अभेदेनात्मनो जगत् ९३

पठन्ननुदिनं धर्मानेताञ्शृण्वंस्तथापि वा।
भक्त्या मतिमतां श्रेष्ठ सर्वपापैः प्रमुच्यते ९४

नोपसर्गो न चानर्थो न चौराग्निभयं गृहे।
तस्मिन्भवति भूपाल यत्रैतत्पुस्तकं स्थितम् ९५

न गर्भहारिणी भीतिर्न च बालग्रहा गृहे।
यत्रैतद्भूपते तत्र न पिशाचादिकाद्भयम् ९६

शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः।
ऋद्धिं प्रयाति वैश्यश्च शूद्रश्चारोग्यमृच्छति ९७

यश्चैतान्नियतान्धर्मान्पठेच्छ्रद्धासमन्वितः।
विष्णौ मनः समावेश्य सर्वत्र समदर्शनः ९८

तस्य पापं तथा रोगान्दुःस्वप्नाद्याभिचारुकान्।
यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः ९९

हेमन्ते य इमान्धर्माञ्शृणोति वसुधाधिप।
श्रद्धासमन्वितः सम्यक् सोऽग्निष्टोमफलं लभेत् १००

शिशिरे च नरव्याघ्र यः शृणोति यथाविधि।
पुण्डरीकस्य यज्ञस्य स प्राप्नोति फलं नरः १०१

मधुमाधवसञ्ज्ञे तु यः शृणोति नरस्त्विमान्।
सोऽश्वमेधक्रतोर्भूप प्राप्नोत्यविकलं फलम् १०२

शृण्वन्नेतान्निदाघे च धर्मान्धर्मभृतां वर।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् १०३

वर्षासु चेमान्यो धर्मान्संशृण्वन्वसुधाधिप।
राजसूयक्रतोः पुण्यमखिलं समवाप्नुयात् १०४

शरत्काले च संशृण्वन्धर्मानेतान्नरर्षभ।
प्राप्नोति गोसवफलं सम्यक् श्रद्धासमन्वितः १०५

ऋतुष्वेतेष्वेतदेव पठतामपि पार्थिव।
फलं भवति दुष्टेषु ग्रहेष्वेते शुभप्रदाः १०६

कपिलानां शतस्योक्तं यत्फलं ज्येष्ठपुष्करे।
भूयो भूयस्तदाप्नोति पारणे पारणे गते १०७

भक्त्या पठति यश्चैतान्देवस्य पुरतो हरेः।
सोऽर्चयत्यवनीपाल ज्ञानयज्ञेन केशवम् १०८

सर्वाबाधास्तथा पापमखिलं मनुजेश्वर।
विष्णुधर्मा व्यपोहन्ति संस्मृताः पठिताः श्रुताः १०९

एतत्ते सर्वमाख्यातं रहस्यं परमं हरेः।
नातः परतरं किञ्चिच्छ्राव्यं शुतिसुखावहम् ११०

अत्रोक्तविधियुक्तस्य पुरुषस्य विपश्चितः।
न दुर्लभं नरव्याघ्र परमं ब्रह्म शाश्वतम् १११

इति विष्णुधर्मेषु शास्त्रमाहात्म्यं परामृतं धर्मोत्तमं परिसमाप्तमिति।