Visnudharmottara-Purana, Adhy. 3,343-353

Intro

Visnudharmottara-Purana, Adhy. 3,343-353

Visnudharmottara-Purana, Adhy. 3,343-353
Based on the ed. Bombay 1912

Input by Reinhold Grünendahl

PLAIN TEXT VERSION

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:

पाठः

वज्र उवाच
अतीव सुमुखाराध्यो देवो विष्णुर् उरुक्रमः ।
स्तुतेन दर्शयाम् आस विश्वरूपं द्विजन्मनाम् ॥ व्ध_३,३४३।१ ॥
प्रसादं परमं तस्य ब्रूहि भक्तजने मम ।
तृप्तिं ब्रह्मन् न गच्छामि शृण्वन्न् एतत् कथामृतम् ॥ व्ध_३,३४३।२ ॥

मार्कण्डेय उवाच
स विधिज्ञो महाराज मातलिः शक्रसारथिः ।
तस्यास्ति सदृशी कन्या गुणकाशीति विश्रुता ॥ व्ध_३,३४३।३ ॥
मातलिर् नारदश् चैव अन्वेष्टुं तद् वनं (?) पुरा ।
चङ्क्रम्यमाणौ सकलम् आर्घकस्यात्मजात्मजम् ॥ व्ध_३,३४३।४ ॥
सुमुखाख्यं ददृशतुस् तौ गृहीत्वा गताव् उभौ ।
नागे शक्रं ततः शक्राद् अयाचेतां तु ताव् उभौ ॥ व्ध_३,३४३।५ ॥
सुमुखस्याभयं तार्क्ष्यात् तयोः शक्रो ददौ वरम् ।
वीर्यज्ञस् तार्क्ष्यवीर्यस्य स ययौ केशवान्तिकम् ॥ व्ध_३,३४३।६ ॥
सुमुखस्याभयं प्रादात् तार्क्ष्यम् मधुनिषूदनः ।
आजगाम ततस् तार्क्ष्यः सरोषः केशवान्तिकम् ॥ व्ध_३,३४३।७ ॥

गरुड उवाच
किम् अवज्ञाय मां कृष्ण सुमुखे दीयते वरः ।
मम पृष्ठगतः शत्रुंस् त्वं निहंसि च बुद्ध्यसे ।
कुटुम्बाभरणं शत्रुं पन्नगं मम रक्षसि ॥ व्ध_३,३४३।८ ॥

मार्कण्डेय उवाच
एवम् उक्तस् तदा तेन विष्णुर् गरुडम् अब्रवीत् ॥ व्ध_३,३४३।९ ॥

[विष्णु:]
न मे शक्तो जगद् वोढुं सकलं विहगेश्वर ।
अहम् एवात्मनात्मानं धारयामि रणेरणे ॥ व्ध_३,३४३।१० ॥
शक्तिश् चेद् अस्ति वोढुं ते भुजम् एकं वहस्व मे ।

एवम् उक्त्वा ददौ पृष्ठे तस्य सव्यं भुजं हरिः ॥ व्ध_३,३४३।११ ॥
ततो विषण्णवदनः पक्षत्यागात् खगोत्तमः ।
क्लान्तो दीनश् च तुष्टाव देवेशं मधुसूदनम् ॥ व्ध_३,३४३।१२ ॥

गरुड उवाच
नमस् ते देवदेवेश सुरासुरनमस्कृत ।
अजेय पुण्डरीकाक्ष शरणागतवत्सल ॥ व्ध_३,३४३।१३ ॥
न मया त्वद्बलं ज्ञातम् आत्मसम्भावितात्मना ।
त्वम् एव देव त्रैलोक्यं सदा धारयसे ऽनघ ॥ व्ध_३,३४३।१४ ॥
आत्मानम् आत्मना देव त्वम् एव वहसे सदा ।
यस्य ते देव सकलं देहे त्रिभुवनं स्थितम् ॥ व्ध_३,३४३।१५ ॥
तस्य वोढुं कथं शक्ता मद्विधा हि सहस्रशः ।
तस्मात् प्रसीद भगवन् मम ध्वजनिवासिनः ॥ व्ध_३,३४३।१६ ॥
नास्त्य् अन्तस् तव देवेश कर्मणां भुवनत्रये ।
कस् ते कीर्तयितुं शक्तः कर्माण्य् अनवशेषतः ॥ व्ध_३,३४३।१७ ॥
कर्मणां कीर्तनं वा ते का स्तुतिः परमेश्वर ।
सर्वत्र सर्वशक्तिस् त्वं प्रसीद मम शत्रुहन् ॥ व्ध_३,३४३।१८ ॥
सर्वभूतकृतावास वासुदेव जगत्पते ।
कल्पान्ताम्भोधिशयन नारायण महाद्युते ॥ व्ध_३,३४३।१९ ॥
नाभीकमलकिञ्जल्क- पिञ्जरीकृतविग्रह ।
प्रसीद मे नमस् ते ऽस्तु पक्षिणो ध्वजवासिनः ॥ व्ध_३,३४३।२० ॥

श्रीभगवान् उवाच
आत्मसम्भावना तार्क्ष्य न कार्या ते कदाचन ।
अहम् एवात्मनात्मानं वहामि त्वां च धारये ॥ व्ध_३,३४३।२१ ॥
प्रीता न च त्वया भार्या यद् अपक्षः कृतो ह्य् असि ।
मया त्रिभुवनं न्यस्तं त्वदर्थम् अखिलं भुजे ॥ व्ध_३,३४३।२२ ॥
त्वया तुल्यो हि बलवांल् लोके ऽन्यो नास्ति कश्चन ।
यस्य दोर्दण्डसंस्पर्शाज् जीवितं न च निर्गतम् ॥ व्ध_३,३४३।२३ ॥
यद्वश्(?)शरीरजो भूत्वा बलवान् खगसत्तम ।
विशेषवन्तः पक्षान्ते भविष्यन्ति न संशयः ॥ व्ध_३,३४३।२४ ॥

मार्कण्डेय उवाच
एवम् उक्तः सुपर्णस् तु सुपर्णान् प्राप्तवान् पुनः ।
तेजोबलाधिकत्वं वा लेभे देवप्रसादतः ॥ व्ध_३,३४३।२५ ॥
एवं पुरुषवत् तार्क्ष्यः स्तूयमानश् च शार्ङ्गिणम् ।
भूय एव सुपर्ण(त्)त्वं गमितो ऽतिबलः कृतः ॥ व्ध_३,३४३।२६ ॥
शक्रयाचितमात्रेण सुमुखो ऽप्य् अमरः कृतः ।
तस्माद् राजन् विजानीहि तस्य दानवविद्विषः ॥ व्ध_३,३४३।२७ ॥
नास्त्य् अदेयं हि भक्तेषु देवराज्यम् अपि ध्रुवम् ।
मृत्युपाशगृहीतानां पतनान्(?) नरके तथा ।
स्मृतमात्रः स देवेशस् तद्भयाद् विनिवर्तकः ॥ व्ध_३,३४३।२८ ॥
निहतसकलदुःखो भक्तिभाजां नराणां द्विजविबुधवराणां पूजनीयो ऽरिहन्ता ।
खगपनृपतियायी वीरसञ्जातवर्णो भवतु मधुरिपुस् ते भक्तिनम्रस्य तुष्टः ॥ व्ध_३,३४३।२९ ॥

॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुमुखोपाख्यानवर्णनो नाम
त्रिचत्वारिंशदुत्तरत्रिशततमो ऽध्यायः ॥ ३।३४३ ॥

वज्र उवाच
श्रोतुम् इच्छाम्य् अहं त्वत्तः प्रसादं परमं हि यत् ।
कृतं भक्तजने तेन विष्णुना प्रभविष्णुना ॥ व्ध_३,३४४।१ ॥

मार्कण्डेय उवाच
हते त्रिभुवने राजञ् शक्रस्य बलिना पुरा ।
जगाम शक्रः शरणं कश्यपं पितरं ततः ॥ व्ध_३,३४४।२ ॥
कश्यपः शक्रम् आदाय जगामाथ पितामहम् ।
तम् आह वरदो ब्रह्मा गच्छ कश्यप केशवम् ॥ व्ध_३,३४४।३ ॥
क्षीरोदशायिनं देवं शरणं मधुसूदनम् ।
तं च प्रार्थय पुत्रत्वे स ते पुत्रो भविष्यति ॥ व्ध_३,३४४।४ ॥
ततः स सर्वं त्रैलोक्यं देवराजस्य दास्यति ।
एवं चोक्तः कश्यपस् तु सार्धं त्रिदशपुङ्गवैः ॥ व्ध_३,३४४।५ ॥
क्षीराब्धिं स ततो गत्वा ददर्श तपसा हरिम् ।
दृष्ट्वा स्तवेन तुष्टाव ततस् तस्य तदा हरिः ॥ व्ध_३,३४४।६ ॥
प्रसन्नः पुत्रताम् एत्य देवो वामनरूपधृक् ।
त्रिभिर् नतैस् त्रिभुवनं सर्वम् आक्रम्य विश्वधृक् ॥ व्ध_३,३४४।७ ॥
प्रादाच् छक्राय राजेन्द्र बद्ध्वा दैत्येश्वरं बलिम् ।
कश्यपेन स्तुतस् त्व् एवं तस्य पुत्रत्वम् आगतः ॥ व्ध_३,३४४।८ ॥

वज्र उवाच
स्तवेन येन तुष्टाव कश्यपो मधुसूदनम् ।
तं स्तवं त्वं समाचक्ष्व सर्वपापहरं शिवम् ॥ व्ध_३,३४४।९ ॥

मार्कण्डेय उवाच
शृणु राजन् स्तवं पुण्यं कश्यपेन प्रकीर्तितम् ।
क्षीरोदशयनाद् दृष्ट्वा देवदेवं समुत्थितम् ॥ व्ध_३,३४४।१० ॥

कश्यप उवाच
ॐ नमो ऽस्तु ते देवदेव
एकशृङ्ग
वृषार्चित
सिन्धुवृक्ष
वृषाकपे
सुरप
अनिन्दित
भद्र
कपिल
विष्वक्सेन
ध्रुव
धर्म
धर्मध्वज
वैकुण्ठ
वृषावर्त
अनादिमध्यनिधन
जनप्रिय
वृष्णिज
अमृतेशय
सनातन
त्रिधामन्
त्रिधाम
तुषित
दुन्दुभे
महतांलोक
लोकनाभे
पद्मनाभ
विरिञ्च
बहुरूप
अक्षणादक्षय (?)
हव्यभुक्
खण्डपरशो
चक्र
मुण्डकेश
हम्स
महादक्षिण
हृषीकेश
सूक्ष्म
महामुनिस्तोम (?)
विरजस्तम
सर्वलोकप्रतिष्ठ
शिपिविष्ट
अतपा
अग्रज
धर्मज
धर्मनाभ
गभस्तिनाभ
चन्द्ररथ
अपाप्मन्
त्वम् एव
समुद्रवास
अज
एकपात्
सहस्ररम्भित
महाशीर्ष
सहस्रदृक्
सहस्रपाद
अयोमुख
महापुरुष
सहस्रबाहो
सहस्रमूर्ते
सहस्राक्ष
सहस्रप्रभव
सहस्रशस् त्वाम् आहुर् वेदविदो वेदविदम्
सर्वेषाम् एव विश्वत्वम् आहुः
पुष्पहास
परमचरत्वम् एव वौषट्
वषट्कार
स्वाहा मखेषु भागप्राशिनं शतधारं सहस्रधारं च
भूर् वा भुवर् वा त्वम् एव
ब्रह्ममय
ब्राह्मणेय
ब्रह्मा
दिशस् त्वम् एव
द्यौर् असि
पृथिव्य् असि
मातरिश्वासि
होता
पोता
मन्ता
नेता
होम्यहेतुस् त्वम् एवाग्र्य
विश्वधाम्ना त्वम् एव
दिग्भिः स्रग्भाण्ड ईज्यो ऽसि
समाधासि (?)
सेमिन्धिस् (??) त्वम् एव
गतिर् मतिमताम् असि
योगो ऽसि
मोक्षो ऽसि
परम् असि
स्रुग् असि
धातासि
यज्ञो ऽसि
सोमो ऽसि
धूमो ऽसि
दीक्षासि
दक्षिणासि
विश्वम् असि
स्थविर
तुराषाड्
हिरण्यगर्भ
नारायण
अनन्त
वृणसमे
आदित्यवर्ण
आदित्यतेजाः
महापुरुष
पुरुषोत्तम
आदिदेव
पद्मनाभ
पद्महास
पद्मशय
पद्माक्ष
हिरण्याग्रकेश
शुक्ल
विश्वात्मन्
विश्वदेव
विश्वतोमुख
विश्वाख्य
विश्वसम्भव
विश्वभुक् त्वम् एव भुविक्रम अतिभूः प्रभाकर शम्भुः भ्[उ]वःस्वयम्भू
भूतादिः
महाभूत
विश्वग
विश्वं त्वम् एव
विश्वगोप्तासि
पवित्रम् असि
हविः
विश्वधात
ऊर्ध्वकर्म
अमृतत्त्वाग्र (??)
भुवःपात
घृताक्त (??)
अग्ने
द्रुहिण
अनन्तकर्मन्
वशं प्राग्यं
विश्वपार्श्व
पार्श्व
त्वम् एव विश्व वरार्थिनस् त्राहीति

स्तोत्रेण यः काश्यपनिर्मितेन स्तोत्रं सदा देववरस्य कर्ता ।
काल्यं शुचिस् तद्गतमानसेन गन्ता स लोकान् पुरुषोत्तमस्य ॥ व्ध_३,३४४।११ ॥

॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कश्यपस्तोत्रवर्णनो नाम चतुश्
चत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥ ३४४ ॥

वज्र उवाच
प्रसादं परमं तस्य केशवस्य महात्मनः ।
ब्रूहि भक्तजने मह्यं देवदेवस्य चक्रिणः ॥ व्ध_३,३४५।१ ॥
न हि तृप्याम्य् अहं तस्य शृण्वानः श्रवणामृतम् ।
हस्तत्राणप्रदो लोके य एकः पततां नृणाम् ॥ व्ध_३,३४५।२ ॥

मार्कण्डेय उवाच
देवाश् च ऋषयश् चैव विवदन्तः पुरानघ ।
बीजैर् यष्टव्यम् इत्य् एतत् त्रिवर्षपरमोषितैः ॥ व्ध_३,३४५।३ ॥
अजसञ्ज्ञानि बीजानि छागं घ्नन्तुम् अथार्हसि ।
पक्षो ऽयम् आसीद् धर्मज्ञ ऋषीणां भावितात्मनाम् ॥ व्ध_३,३४५।४ ॥
देवानां तु पशुः पक्षस् ततो मार्गागतो [ऽ]भवत् ।
राजोपरिचरो नाम वसुर् वसुमतां वरः ॥ व्ध_३,३४५।५ ॥
देवाश् च ऋषयश् चैव पपृच्छन्तस् तदा वसुम् ।
यथोपनीतैर् यष्टव्यम् इत्य् उक्तं वसुना पुरा ॥ व्ध_३,३४५।६ ॥
गतेनानृतवाक्येन राजा हिंसाप्रवर्तिना ।
नित्यमाकाशगो भूत्वा भूमेर् विवरगो [ऽ]भवत् ॥ व्ध_३,३४५।७ ॥
भूमेर् विवरगस्याथ देवपक्षार्थवादिनः ।
निधनार्थं मतिं चक्रुर् देवभक्तस्य दानवाः ॥ व्ध_३,३४५।८ ॥
तेषां चिकीर्षितं श्रुत्वा देवाः शीघ्रपराक्रमाः ।
न्यवेदयंस् तथा चक्रं देवाचार्ये बृहस्पतौ ॥ व्ध_३,३४५।९ ॥
बृहस्पतिस् ततो गत्वा भूमेर् विवरगं नृपम् ।
रक्षाम् अध्यापयाम् आस वैष्णवीम् अपराजिताम् ॥ व्ध_३,३४५।१० ॥
भूतभव्यभविष्याणां कर्मणाम् अनुकीर्तनैः ।
निर्मिता ब्रह्मणा विद्या सर्वबाधाक्षयङ्करी ।
अध्याप्य तं च राजानम् इदम् आह बृहस्पतिः ॥ व्ध_३,३४५।११ ॥

बृहस्पतिर् उवाच
इहस्थो भोक्ष्यसे राजन् वसोर् धारां हुतां द्विजैः ।
देवतानां प्रसादेन तया चाप्यायितः सदा ॥ व्ध_३,३४५।१२ ॥
विद्यया चानया राजन्न् अवध्यस् त्वं भविष्यसि ।
भूमेर् विवरसंस्थो ऽपि दैत्यदानवराक्षसान् ।
एवम् उक्त्वा स राजानं तत्रैवान्तरधीयत ॥ व्ध_३,३४५।१३ ॥

वज्र उवाच
रक्षां तु तां मे कथय द्विजेन्द्र कृता तु या देवपुरोहितेन ।
राज्ञो वसोर् भूमिबिलस्थितस्य रक्षा हि साग्र्या परमा मता मे ॥ व्ध_३,३४५।१४ ॥

॥ इति श्रीविष्णुधर्मोत्तरे तृ[तीये] ख[ण्डे] मार्कण्डेयवज्रसंवादे भूविवरस्थितराज्ञो रक्षावर्णनो नाम पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥ ३।३४५ ॥

मार्कण्डेय उवाच
ॐ नमो भगवते वासुदेवाय । व्ध_३,३४६।०।[१] ।
नमो
[अ]नन्ताय । व्ध_३,३४६।०।[२] ।
सहस्रशीर्षाय । व्ध_३,३४६।०।[३] ।
क्षीरोदार्णवशायिने । व्ध_३,३४६।०।[४] ।
शेषभोगपर्यङ्काय । व्ध_३,३४६।०।[५] ।
गरुडवाहनाय । व्ध_३,३४६।०।[६] ।
अजाय । व्ध_३,३४६।०।[७] ।
अजिताय । व्ध_३,३४६।०।[८] ।
पीतवाससे । व्ध_३,३४६।०।[९] ।

वासुदेव । व्ध_३,३४६।०।[१०] ।
सङ्कर्षण । व्ध_३,३४६।०।[११] ।
प्रद्युम्न । व्ध_३,३४६।०।[१२] ।
अनिरुद्ध । व्ध_३,३४६।०।[१३] ।

हयशिरो । व्ध_३,३४६।०।[१४] ।
वराह । व्ध_३,३४६।०।[१५] ।
नरसिम्ह । व्ध_३,३४६।०।[१६] ।
वामन । व्ध_३,३४६।०।[१७] ।
त्रिविक्रम । व्ध_३,३४६।०।[१८] ।
राम । व्ध_३,३४६।०।[१९] ।
राम । व्ध_३,३४६।०।[२०] ।
राम । व्ध_३,३४६।०।[२१] ।

नमो ऽस्तु ते नमो ऽस्तु ते नमो ऽस्तु ते । व्ध_३,३४६।०।[२२] ।

असुरवरदैत्यदानवयक्षराक्षसभूतप्रेतपिशाचकुम्भाण्डसिद्धयोगिनीडाकिनीस्कन्दपुरोगान् ग्रहान् नक्षत्रगहांश् चान्यान्
हन हन
पच पच
मथ मथ
विध्वंसय विध्वंसय
विद्रावय विद्रावय
शङ्खेन
चक्रेण
वज्रेण
गदया
मुसलेन
हलेन
भस्मीकुरु । व्ध_३,३४६।०।[२३] ।

सहस्रबाहो । व्ध_३,३४६।०।[२४] ।
सहस्रप्रहरणायुध । व्ध_३,३४६।०।[२५] ।
जय जय । व्ध_३,३४६।०।[२६] ।
विजय विजय । व्ध_३,३४६।०।[२७] ।
अपराजित । व्ध_३,३४६।०।[२८] ।
अप्रतिहतनेत्र । व्ध_३,३४६।०।[२९] ।

ज्वल ज्वल
प्रज्वल प्रज्वल । व्ध_३,३४६।०।[३०] ।

विश्वरूप । व्ध_३,३४६।०।[३१] ।
बहुरूप । व्ध_३,३४६।०।[३२] ।
मधुसूदन । व्ध_३,३४६।०।[३३] ।
महावराह । व्ध_३,३४६।०।[३४] ।
महापुरुष । व्ध_३,३४६।०।[३५] ।
वैकुण्ठ । व्ध_३,३४६।०।[३६] ।
नारायण । व्ध_३,३४६।०।[३७] ।
पद्मनाभ । व्ध_३,३४६।०।[३८] ।
गोविन्द । व्ध_३,३४६।०।[३९] ।
दामोदर । व्ध_३,३४६।०।[४०] ।
हृषीकेश । व्ध_३,३४६।०।[४१] ।
केशव । व्ध_३,३४६।०।[४२] ।

सर्वासुरोत्सादन । व्ध_३,३४६।०।[४३] ।
सर्वभूवशङ्कर । व्ध_३,३४६।०।[४४] ।
सर्वदुःस्वप्नप्रभेदन । व्ध_३,३४६।०।[४५] ।
सर्वयन्त्रप्रभञ्जन । व्ध_३,३४६।०।[४६] ।
सर्वनागमर्दन । व्ध_३,३४६।०।[४७] ।
सर्वदेवमहेश्वर । व्ध_३,३४६।०।[४८] ।
सर्वबन्धविमोक्षण । व्ध_३,३४६।०।[४९] ।
सर्वाहितमर्दन । व्ध_३,३४६।०।[५०] ।
सर्वज्वरप्रणाशन । व्ध_३,३४६।०।[५१] ।
सर्वग्रहनिवारण । व्ध_३,३४६।०।[५२] ।
सर्वपापप्रशमन । व्ध_३,३४६।०।[५३] ।

जनार्दन । व्ध_३,३४६।०।[५४] ।
नमो ऽस्तु ते स्वाहा । व्ध_३,३४६।०।[५५] ।

य इमाम् अपराजितां परमवैष्णवीं सिद्धां महाविद्यां जपति पटति शृणोति स्मरति धारयति
कीर्तयति वा न तस्याग्निवायुवज्रोपलाशनि॥(?)[भ्]अयम्
न समुद्रभयम्
न ग्रहभयम्
न चौरभयम्
श्वापदभयं वा न भवेत् । व्ध_३,३४६।०।[५६] ।

क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषविषोपविषगरगदवशीकरणं विद्वेषणं
विद्वेषणोच्चाटनवधबन्धमभयं वा न भवेत् । व्ध_३,३४६।०।[५७] ।

एतैर् मन्त्रैर् उदाहृतैः सिद्धैः संसिद्धपूजितैः । तद् यथा
ॐ नमो ऽस्तु ते
अनघे । व्ध_३,३४६।०।[५८] ।
अजिते । व्ध_३,३४६।०।[५९] ।
अमिते । व्ध_३,३४६।०।[६०] ।
अमृते । व्ध_३,३४६।०।[६१] ।
अपराजिते । व्ध_३,३४६।०।[६२] ।
पठितसिद्धे । व्ध_३,३४६।०।[६३] ।
स्मरातिसिद्धे । व्ध_३,३४६।०।[६४] ।
एकानंशे । व्ध_३,३४६।०।[६५] ।
उमे । व्ध_३,३४६।०।[६६] ।
ध्रुवे । व्ध_३,३४६।०।[६७] ।
अरुन्धति । व्ध_३,३४६।०।[६८] ।
सावित्रि । व्ध_३,३४६।०।[६९] ।
गायत्रि । व्ध_३,३४६।०।[७०] ।
जातवेदसि । व्ध_३,३४६।०।[७१] ।
मानस्तोके । व्ध_३,३४६।०।[७२] ।
सरस्वति । व्ध_३,३४६।०।[७३] ।
धरणि । व्ध_३,३४६।०।[७४] ।
धारणि । व्ध_३,३४६।०।[७५] ।
सौदामनि । व्ध_३,३४६।०।[७६] ।
अदिति । व्ध_३,३४६।०।[७७] ।
दिति । व्ध_३,३४६।०।[७८] ।
विनते । व्ध_३,३४६।०।[७९] ।
गौरि । व्ध_३,३४६।०।[८०] ।
गान्धारि । व्ध_३,३४६।०।[८१] ।
मातङ्गि । व्ध_३,३४६।०।[८२] ।
कृष्णयशोधे । व्ध_३,३४६।०।[८३] ।
सत्यवादिनि । व्ध_३,३४६।०।[८४] ।
ब्रह्मवादिनि । व्ध_३,३४६।०।[८५] ।
कालि । व्ध_३,३४६।०।[८६] ।
कापालि । व्ध_३,३४६।०।[८७] ।
निद्रे । व्ध_३,३४६।०।[८८] ।
सत्योपयानकरि । व्ध_३,३४६।०।[८९] ।
स्थलगतं जलगतम् अन्तरिक्षगतं वा रक्ष रक्ष सर्वभूतेभ्यः सर्वोपद्रवेभ्यः स्वाहा । व्ध_३,३४६।०।[९०] ।

यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।
म्रियन्ते बालका यस्याः काकवन्ध्या च या भवेत् ॥ व्ध_३,३४६।१ ॥
शस्त्रं धारयते ह्य् एषां समरे काण्डदारुणि ।
गुल्मशूलाक्षिरोगाणां क्षिप्रं नाशयति व्यथाम् ।
शिरोरोगज्वराणां च नाशनी सर्वदेहिनाम् ॥ व्ध_३,३४६।२ ॥

तद् यथा
हन हन
कालं सर सर
गौरि गौरि
धम धम
विद्ये
अलिताले (?)
माले
गन्धे
बन्धे
पच पच
विद्ये
नाशय वा संहर दुःस्वप्नं विनाशय । व्ध_३,३४६।२।[१] ।

नाशनि । व्ध_३,३४६।२।[२] ।
रजनि । व्ध_३,३४६।२।[३] ।
सन्ध्ये । व्ध_३,३४६।२।[४] ।
दुन्दुभिनादे । व्ध_३,३४६।२।[५] ।
मानसवेगे । व्ध_३,३४६।२।[६] ।
शङ्खिनि । व्ध_३,३४६।२।[७] ।
वज्रिणि । व्ध_३,३४६।२।[८] ।
चक्रिणि । व्ध_३,३४६।२।[९] ।
शूलिनि । व्ध_३,३४६।२।[१०] ।
अपमृत्युविनाशिनि । व्ध_३,३४६।२।[११] ।
विश्वेश्वरि । व्ध_३,३४६।२।[१२] ।
द्रावडि द्रावडि (?) । व्ध_३,३४६।२।[१३] ।
केशवदयिते । व्ध_३,३४६।२।[१४] ।
पशुपतिसहिते । व्ध_३,३४६।२।[१५] ।
दुन्दुभिदमनि । व्ध_३,३४६।२।[१६] ।
शबरि । व्ध_३,३४६।२।[१७] ।
किराति । व्ध_३,३४६।२।[१८] ।
मातङ्गि । व्ध_३,३४६।२।[१९] ।

ॐ द्रौन्द्रौं ज्रोञ्ज्रों क्रोङ्क्रों
तुरु तुरु
येषां द्विषन्ति प्रत्यक्षं परो[ऽ]क्षं वा सर्वान्
दम दम
मर्द मर्द
तापय तापय
गोपय गोपय
उत्सादय उत्सादय । व्ध_३,३४६।२।[२०] ।

ब्रह्माणि । व्ध_३,३४६।२।[२१] ।
महेश्वरि । व्ध_३,३४६।२।[२२] ।
वराहि । व्ध_३,३४६।२।[२३] ।
वैनायिकि । व्ध_३,३४६।२।[२४] ।
उपेन्द्रि । व्ध_३,३४६।२।[२५] ।
आग्नेयि । व्ध_३,३४६।२।[२६] ।
चामुण्डे । व्ध_३,३४६।२।[२७] ।
वारुणि । व्ध_३,३४६।२।[२८] ।
वायव्ये । व्ध_३,३४६।२।[२९] ।

रक्ष रक्ष

प्रचण्डविद्ये । व्ध_३,३४६।२।[३०] ।


इन्द्रोपेन्द्रभगिनि । व्ध_३,३४६।२।[३१] ।
विजये । व्ध_३,३४६।२।[३२] ।
शान्तिस्वस्तिपुष्टिविवर्धिनि । व्ध_३,३४६।२।[३३] ।
कामाङ्कुशे । व्ध_३,३४६।२।[३४] ।
कामदुधे । व्ध_३,३४६।२।[३५] ।
सर्वकामवरप्रदे । व्ध_३,३४६।२।[३६] ।
सर्वभूतेषु मां प्रियं कुरु कुरु । व्ध_३,३४६।२।[३७] ।

आकर्षणि । व्ध_३,३४६।२।[३८] ।
आवेशनि । व्ध_३,३४६।२।[३९] ।
ज्वालामालिनि । व्ध_३,३४६।२।[४०] ।
शोषणि । व्ध_३,३४६।२।[४१] ।
सम्मोहनि । व्ध_३,३४६।२।[४२] ।
नीलपताके । व्ध_३,३४६।२।[४३] ।

महानीले । व्ध_३,३४६।२।[४४] ।
महागौरि । व्ध_३,३४६।२।[४५] ।
महाश्री । व्ध_३,३४६।२।[४६] ।
महाचान्द्रि । व्ध_३,३४६।२।[४७] ।
महासौरि । व्ध_३,३४६।२।[४८] ।
महामायुरि । व्ध_३,३४६।२।[४९] ।

आदित्यरश्मि । व्ध_३,३४६।२।[५०] ।
जाह्नवि । व्ध_३,३४६।२।[५१] ।
यमघण्टे । व्ध_३,३४६।२।[५२] ।
किणिकिणि । व्ध_३,३४६।२।[५३] ।
चिन्तामणि । व्ध_३,३४६।२।[५४] ।
सुरभि । व्ध_३,३४६।२।[५५] ।
सर्वासुरोत्पन्ने । व्ध_३,३४६।२।[५६] ।
सर्वकामदुघे । व्ध_३,३४६।२।[५७] ।
यथामनीषितं कार्यं तन् मम सिध्यतु स्वाहा । व्ध_३,३४६।२।[५८] ।

ॐ स्वाहा । व्ध_३,३४६।२।[५९] ।
ॐ भूःस्वाहा । व्ध_३,३४६।२।[६०] ।
ॐ भुवःस्वाहा । व्ध_३,३४६।२।[६१] ।
ॐ स्वःस्वाहा । व्ध_३,३४६।२।[६२] ।
ॐ भुर्भुवःस्वःस्वाहा । व्ध_३,३४६।२।[६३] ।
यत्रैवागतं पापं तत्रैव प्रतिगच्छतु स्वाहा । व्ध_३,३४६।२।[६४] ।


बले । व्ध_३,३४६।२।[६५] ।
महाबले । व्ध_३,३४६।२।[६६] ।
असिद्धसाधनि । व्ध_३,३४६।२।[६७] ।
स्वाहात्य् ॐ । व्ध_३,३४६।२।[६८] ।

अमोघां पठितसिद्धां वैष्णवीम् अपराजितां ध्यायेत् । व्ध_३,३४६।२।[६९] ।

मार्कण्डेय उवाच
एवं हि कृतरक्षस्य वसुधाराम् उपाश्नतः ।
वसोर् वसुमतीगर्ते तिष्ठतो दनुनन्दनाः ॥ व्ध_३,३४६।१ ॥
अजग्मुर् विविधाकाराश् चतुरङ्गबलान्विताः ।
नानाप्रहरणा दग्धा भीमवाचः सदारुणाः ॥ व्ध_३,३४६।२ ॥
आगम्य वाग्भिर् उग्राभिस् तर्जयन्तश् च ते वसुम् ।
निर्जघ्नुर् आयुधैर् भीमैर् देवपक्षपरं सदा ॥ व्ध_३,३४६।३ ॥
न च ते ऽस्य रुजं चक्रुर् न च तान् अप्य् उदीक्षिता ।
चिन्तयाम् आस देवेशं मनसा मधुसूदनम् ॥ व्ध_३,३४६।४ ॥
ततो निष्फलयत्नास् ते दृष्ट्वा तन् महद् अद्भुतम् ।
जग्मुः सर्वे गृहान् एव विलक्षा दैत्यदानवाः ॥ व्ध_३,३४६।५ ॥
तेषु निष्फलयत्नेषु देवो गरुडम् अब्रवीत् ।

[देव]
गत्वा गरुड राजानम् वसुं शीघ्रम् इहानय ॥ व्ध_३,३४६।६ ॥

एवम् उक्तः स गरुडो देवदेवेन चक्रिणा ।
पक्षवातार्णवक्षोभ(?)- क्षुब्धयादोगणो ययौ ॥ व्ध_३,३४६।७ ॥
ददर्श च भुवो गर्ते ध्यानसम्मीलितेक्षणम् ।
वसुराजो ऽपि गरुडं ददर्श हरिवाहनम् ॥ व्ध_३,३४६।८ ॥
स दृष्ट्वा गरुडं प्राप्तं कृष्णभक्तिसमन्वितम् ।
तुष्टाव गरुडं वाग्भिर् अर्थ्याभिर् अमितक्रियः ॥ व्ध_३,३४६।९ ॥

वसुर् उवाच
नमस्यामि महाबाहुं खगेन्द्रं हरिवाहनम् ।
विष्णोर् ध्वजाग्रसंस्थान वित्रासितमहासुर ॥ व्ध_३,३४६।१० ॥
नमस् ते नागदर्पघ्न विनतानन्दवर्धन ।
स्वपक्षवातनिर्धूत- दीनदैत्यनिरीक्षित ॥ व्ध_३,३४६।११ ॥
परस्परस्य शापेन सुप्रतीक विभावसो ।
गजकच्छपतां प्राप्तौ ताव् उभौ वैरसंयुतौ ॥ व्ध_३,३४६।१२ ॥
षड् उच्छ्रितो योजनानि गजस् तद्द्विगुणायतः ।
कूर्मस् त्रियोजनोत्सेधो दशयोजनमण्डलः ॥ व्ध_३,३४६।१३ ॥
नखस्थौ तौ त्वया नीतौ हतौ भुक्तौ च पक्षिप ।
परस्परकृतोच्छ्रायौ द्वारौ च परिमोक्षितौ ॥ व्ध_३,३४६।१४ ॥
निषादविषयं भुक्तं तत्र क्रूरम् अनिन्दितम् ।
निषादीशस्ततो (?) मुक्तस् तत्रापि ब्राह्मणस् त्वया ॥ व्ध_३,३४६।१५ ॥
त्वया रोहिणिवृक्षस्य योजनानां शातायता ।
शाखा भिन्नाः स्थिता यत्र वालखिल्याः सहस्रशः ॥ व्ध_३,३४६।१६ ॥
तांस् तु वक्त्रगतान् कृत्वा नखस्थैर् गजकच्छपैः ।
नभस्य् एव निरालम्बे सर्वतः परिवारितः ॥ व्ध_३,३४६।१७ ॥
त्वया जित्वा रणे सर्वान् देवाञ् शक्रपुरोगमान् ।
आहृतं तु परं सोमं वह्नेर् वाप्य् अथ काश्यप ॥ व्ध_३,३४६।१८ ॥
नागौ दृष्टिविषौ कृत्वा रजसा भुवि चक्षुषोः ।
जिह्वाग्रनित्यगं भुञ्जञ् चक्रे तौ देवनिर्मितौ ॥ व्ध_३,३४६।१९ ॥
आहृत्यापि त्वया सोमं नीतम् एव न भक्षितम् ।
तेन विष्णोर् ध्वजस्थाने वाहनत्वं गतो ह्य् असि ॥ व्ध_३,३४६।२० ॥
त्वया निक्षिप्य दर्भेषु सोमं नागाश् च वञ्चिताः ।
जहार सहसा यत्र तच् छीघ्रं बलसूदनः ॥ व्ध_३,३४६।२१ ॥
यत्र जिह्वा द्विधा भूता पन्नगानां द्विजोत्तमाः ।
विनता मोचिता दास्यात् कट्वा पूर्वं जिता पणे ॥ व्ध_३,३४६।२२ ॥
उच्चैःश्रवास् तु किंवर्णः शुक्ल इत्य् एव भाषती ।
कृष्णवालम् अहं मन्ये पुच्छं दृष्ट्वैव वाक्छलात् ॥ व्ध_३,३४६।२३ ॥
त्वया वज्रप्रहारेण पक्षयुक्तं पुरा स्वयम् ।
दधीचिवज्रशक्राणां माननार्थाय नान्यथा ॥ व्ध_३,३४६।२४ ॥
तस्य पक्षस्य देवेन्द्रो यदा नान्तं हि दृष्टवान् ।
तदा तव सुपर्णेति नाम ख्यातं जगत्त्रये ॥ व्ध_३,३४६।२५ ॥
तेजसा भास्करं देवं जवेन च समीरणम् ।
न ते तुल्यो महाभाग नागपक्षक्षयङ्कर ॥ व्ध_३,३४६।२६ ॥
ध्यानमात्रे त्वयि विभो विश्वं स्थावरजङ्गमम् ।
क्षिप्रं प्रणाशम् आयाति तथा सर्वभयानि च ॥ व्ध_३,३४६।२७ ॥
स्वकया पक्षनाड्या त्वं ब्रह्माण्डं सकलं वहन् ।
नोपयासि प्रभो खेदं यथा देवो जनार्दनः ॥ व्ध_३,३४६।२८ ॥
त्वम् ऋषिस् त्वं महाभागस् त्वं देवः पतगेश्वरः ।
त्वं प्रभुस् तपनप्रख्यस् त्वं नस् त्राणम् अनुत्तमम् ॥ व्ध_३,३४६।२९ ॥
बलोर्मिमान् साध्वरदीनसत्त्वः समृद्धिमान् दुष्प्रसहस् त्वम् एव ।
तपः श्रुतं सर्वम् अहीनकीर्तिर् अनागतादीन् विषयांश् च वेत्सि ॥ व्ध_३,३४६।३० ॥
त्वम् उत्तमः सर्वम् इदं चराचरं गभस्तिभिर् भानुर् इवावभासे ।
समाक्षिपन् भानुसुतप्रभां मुहुस् त्वम् अन्तकः सर्वम् इदं ध्रुवाध्रुव (?) ॥ व्ध_३,३४६।३१ ॥
दिवाकरः परिक्रमति यथा दहन् प्रजास् तथा दहसि हुताशनप्रभ ।
भयङ्करः प्रलय इवाग्निर् उत्थितो विनाशयत्य् उरगपरिवर्तपान्तकृत् (?) ॥ व्ध_३,३४६।३२ ॥
खगेश्वरं शरणम् उपागतो ऽस्म्य् अहं महौजसं वितिमिरभ्रगोचरम् (?) ।
महाबलं गरुडम् उपेत्य खेचरं महौजसं वरदम् अजेयम् अक्लमम् ॥ व्ध_३,३४६।३३ ॥

॥ इति श्रीविष्णुधर्मोत्तरे तृ[तीये] ख[ण्डे] मार्कण्डेयवज्रसंवादे गरुडस्तोत्रं नाम
षाट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥

मार्कण्डेय उवाच
स्तुतस् तु गरुडो राज्ञा पृष्ठमारो ऽप्य् अपार्थिवम् ।
दर्शयाम् आस देवस्य विष्णोर् अमिततेजसः ॥ व्ध_३,३४७।१ ॥
स दृष्ट्वा देवदेवेशम् प्रणतार्तिविनाशनम् ।
तुष्टाव भक्त्या राजेन्द्र देवेशम् अपराजितम् ॥ व्ध_३,३४७।२ ॥

वसुर् उवाच
नमस् ते पुण्डरीकाक्ष शरणागतवत्सल ।
दैत्यदानवदर्पघ्न प्रणतार्तिविनाशन ॥ व्ध_३,३४७।३ ॥
कामकामद कामघ्न विश्वयोने जगत्पते ।
महामूर्तिनिशोत्थस्य तमसः प्रविनाशन ॥ व्ध_३,३४७।४ ॥
न ते विदुः सुरगणाः प्रभवं न महर्षयः ।
आदिस् त्वं सर्वधर्माणाम् ऋषीणां च जगद्गुरो ॥ व्ध_३,३४७।५ ॥
सूक्ष्मस् त्वं सर्वभूतेभ्यो महद्भ्यश् च महत्तरः ।
दूरगस् त्वं महाभाग सर्वेषाम् अपि चागतः ॥ व्ध_३,३४७।६ ॥
सर्वभूतान्तरस्थो ऽपि कर्मभिर् न च लिप्यसे ।
अशरीरः शरीरस्थः सर्वभूतेष्व् अवस्थितः ॥ व्ध_३,३४७।७ ॥
पुरुषस् त्वं त्वम् अव्यक्तस् त्वम् आत्मा बुद्धिर् एव च ।
महाभूतानि भगवस् त्वं तथैवेन्द्रियाणि च ॥ व्ध_३,३४७।८ ॥
योगिभिर् मृष्यसे योग- ज्ञानज्ञेय पुरातन ।
ये त्वां भजन्ति ते यान्ति भगवन् परमां गतिम् ॥ व्ध_३,३४७।९ ॥
जयम् अनघम् अजेयं विश्वगं देवदेवं त्रिदशरिपुविनाशे नित्यम् उद्युक्तशक्तिम् ।
द्विजसुरवरवन्द्यं नाशनं कल्मषाणां शरणम् उपगतो ऽहं वासुदेवं शरण्यम् ॥ व्ध_३,३४७।१० ॥

॥ इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वासुदेवस्तोत्रं नाम सप्तचत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥ ३४७ ॥

मार्कण्डेय उवाच
वसुना वसुवेशेन वाग्मिना विष्णुर् ईडितः ।
उवाच प्राञ्जलिं प्रह्वं पार्थिवं पुरतः स्थितम् ॥ व्ध_३,३४८।१ ॥

वासुदेव उवाच
नानृतं नृप वक्तव्यं प्राणैः कण्ठगैर् अपि ।
धर्मप्रश्नो न वक्तव्यस् तथैकेन विशेषतः ॥ व्ध_३,३४८।२ ॥
बहुज्ञेनापि धर्मज्ञ धर्मकामेन कर्हिचित् ।
दुर्विज्ञेयास् तथा धर्माः सूक्ष्मा राजन् दुरन्वयाः ॥ व्ध_३,३४८।३ ॥
तस्मान् नैकेन वक्तव्याः कदाचिद् अपि जानता ।
उक्त्वानृतं महत् प्राप्तं त्वया कृच्छ्रं नराधिप ॥ व्ध_३,३४८।४ ॥
गतिभ्रंशस् तथैवाप्ता देवज्ञार्थवादिना ।
मम भक्तो ऽसि सततं तेन ते निष्कृतिः कृता ॥ व्ध_३,३४८।५ ॥
कालेनाल्पेन कल्पेन या न शक्या सुरासुरैः ।
गच्छ पालय राज्यं त्वं तथैवाविचलो भव ॥ व्ध_३,३४८।६ ॥
नावमानं त्वया कार्यं ब्राह्मणानां कथञ्चन ।
ब्राह्मणो हि महद् भूतं विज्ञेयं दैवतं परम् ॥ व्ध_३,३४८।७ ॥

मार्कण्डेय उवाच
एवम् उक्त्वा वसुं विष्णुस् तत्रैवादर्शनं गतः ।
तार्क्ष्येण सहितो राजन् विस्मितश् चाभवद् वसुः ॥ व्ध_३,३४८।८ ॥
राज्यं चावाप भूयो ऽपि खेचरत्वं तथैव च ।
ततः सभाजितश् चापि देवैः सर्वैः समागतैः ॥ व्ध_३,३४८।९ ॥
एवं स देवेन हि भक्तियुक्तो रसातलस्थो वसुधाधिपेशः ।
भयात् सुघोरात् प्रविमुच्य युक्तो राज्येन गत्वा नभसस् तथैव ॥ व्ध_३,३४८।१० ॥

॥ इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसूपाख्यानं नामाष्टचत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥ ३४८ ॥

वज्र उवाच
विश्वरूपं समाचक्ष्व देवदेवस्य चक्रिणः ।
कस्य तूद्दर्शितं तेन भृगुवंशविवर्धन ॥ व्ध_३,३४९।१ ॥

मार्कण्डेय उवाच
एकान्तभावनाभक्तैर् दृष्टानि बहुशः पुरा ।
विश्वरूपाणि देवस्य यान्य् अशक्यानि भाषितुम् ॥ व्ध_३,३४९।२ ॥
वासुदेवप्रसादेन न भवेद् दिव्यदर्शनः ।
विश्वरूपधरं द्रष्टुं तावच् छक्तिर् न विद्यते ॥ व्ध_३,३४९।३ ॥
तत्र यद् दर्शितं चैव नारदस्य पुरानघ ।
तत् ते ऽहं सम्प्रवक्ष्यामि विश्वदेवेन विष्णुना ॥ व्ध_३,३४९।४ ॥
नारदः सुमहद्भूतं नरनारायणाश्रयम् ।
बदर्याश्रमम् इत्य् उक्तं जगामातिमनोहरम् ॥ व्ध_३,३४९।५ ॥
चतुरात्मा हरिर् यत्र धर्मपुत्रत्वम् आगतः ।
हरिः कृष्णो नरश् चैव तथा नारायणः प्रभुः ॥ व्ध_३,३४९।६ ॥
हरिः कृष्णः स्थित्[औ] वृत्ते तदा लोकान्तरे किल ।
नरनारायणौ देवौ तपस्य् उग्रे तथा रतौ ॥ व्ध_३,३४९।७ ॥
अष्टचक्रे स्थितौ याने भूतियुक्ते मनोहरे ।
एकपादौ निरालम्बौ तथैवोर्ध्वभुजाव् उभौ ॥ व्ध_३,३४९।८ ॥
ददर्श नारदस् तत्र ताव् उभौ दीप्ततेजसौ ।
अभिवाद्य गतौ देवौ तयोस् तु पुरतः स्थितः ॥ व्ध_३,३४९।९ ॥
पाद्यार्घाचमनीयाद्यैः पूजितः संस् तदा द्विजः ।
नरनारायणाभ्या[ंस्] तु तत्रोवास तदाश्रमे ॥ व्ध_३,३४९।१० ॥
आश्रमस्थः स विप्रेन्द्रः कदाचिद् देवसत्तमौ ।
ददर्श विघ्नं कुर्वाणौ देवकर्म तथानघौ ॥ व्ध_३,३४९।११ ॥
ततः कृताह्निक्[औ] प्राह नारदस् तौ जगद्गुरू ।
भवन्तौ जगतां नाथौ भवन्तौ परमेश्वरौ ॥ व्ध_३,३४९।१२ ॥
आराधनार्थं कस्येह तपस्य् अभिरताव् उभौ ।
भवद्भ्याम् अर्च्यते कश् च दैवे पित्र्ये च कल्प्यते ॥ व्ध_३,३४९।१३ ॥
प्रकृतिर् या परास्माकं यतः सर्वस्य सम्भवः ।
मर्यादादर्शनार्थाय नवं तम् अपराजितम् ॥ व्ध_३,३४९।१४ ॥
पूजयामः सदा ब्रह्मन् दैवे पित्र्ये च कल्पिते ।
विप्रान् देवगुरून् गाश् च पितॄंश् चैव जगत्त्रये ॥ व्ध_३,३४९।१५ ॥
ये ऽर्चयन्त्य् अर्चयन्त्य् एव तं देवं परमेश्वरम् ।
यो ऽयम् अप्य् अर्चयेद् देवं तेन स्यात् पूजितो हरिः ॥ व्ध_३,३४९।१६ ॥
विधिहीनं महाभाग स हि सर्वगतो यतः ।
देवस्यान्यस्य यच् चार्चां कर्तुकामो ऽर्चयेद् धरिम् ॥ व्ध_३,३४९।१७ ॥
तेन तस्य कृतार्चा स्याद् द्विजश्रेष्ठ विधानतः ।
देवे यस्मात् सुराः सर्वं त्रैलोक्यम् अपि यद् गतम् ॥ व्ध_३,३४९।१८ ॥
कृता त्रैलोक्यपूजा स्याद् विष्णुपूजाविधायिना ।
नास्ति लोकेषु तद् ब्रह्म यत्र नास्ति जनार्दनः ॥ व्ध_३,३४९।१९ ॥
न तद् अप्य् अस्ति लोकेषु यन् न विष्णौ प्रतिष्ठितम् ।
यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश् च यः ॥ व्ध_३,३४९।२० ॥
यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ।
क्षीरोदमध्ये द्वीपो ऽस्ति बहुयोजनविस्तृतः ॥ व्ध_३,३४९।२१ ॥
तत्र ते पुरुषाः श्वेताः शशाङ्कसमतेजसः ।
उपेताश् च तथा सर्वे चक्रव[र्]त्युपलक्षणैः ॥ व्ध_३,३४९।२२ ॥
पञ्चरात्रविधानज्ञाः पूजयन्ति सदा हरिम् ।
मायादेहम् अथास्थाय देवो ऽपि मधुसूदनः ॥ व्ध_३,३४९।२३ ॥
तत्पूजां प्रतिगृह्णाति शिरसा सततं हरिः ।
तैः सार्धं रमते नित्यं तैश् च सम्पूज्यते सदा ॥ व्ध_३,३४९।२४ ॥
एकान्तभावोपगता ये भवन्तीह मानवाः ।
अकामाश् च जगन्नाथम् अर्चयन्ति सदा च ये ॥ व्ध_३,३४९।२५ ॥
ते यान्ति देहम् उत्सृज्य तद् द्वीपं श्वेतसञ्ज्ञितम् ।
अनिष्यन्दा निराहाराः सर्वज्ञाः सर्वदर्शिनः ॥ व्ध_३,३४९।२६ ॥
सर्वेश्वरा नित्यतृप्ताः परं सुखम् उपागताः ।
पूजयन्ति हरिं तत्र दिव्यं वर्षशतं पुनः ॥ व्ध_३,३४९।२७ ॥
ततो ऽर्कमण्डलं भित्त्वा अनिरुद्धं वशन्ति ते ।
ब्रह्मंस् तपोभिः प्रद्युम्नं ततः सङ्कर्षणं प्रभुम् ॥ व्ध_३,३४९।२८ ॥
वासुदेवं ततः प्राप्य तेनैव सदृशास् ततः ।
भवन्ति सर्वे सर्वत्र सर्वदा सर्वशक्तयः ॥ व्ध_३,३४९।२९ ॥
मुक्ताश् च सर्वदुःखेभ्यः परं सुखम् उपागताः ।
स त्वं शीघ्रम् इतो गत्वा श्वेतद्वीपनिवासिनः ॥ व्ध_३,३४९।३० ॥
पश्य त्वं पुरुषान् ब्रह्मन् प्रसन्नः स विभुस् तव ।
दर्शयिष्यति रूपं तु त्रैलोक्याद्भुतम् अद्भुतम् ॥ व्ध_३,३४९।३१ ॥
विश्वं ब्राह्मणशार्दूल प्रीतं मधुनिषूदनम् ।
एकतश् च द्वितश् चैव त्रितश् चैव महातपाः ॥ व्ध_३,३४९।३२ ॥
तं तु देशं गता ब्रह्मन् न तैर् दृष्टो जनार्दनः ।
एकान्तभावोपगतास् तेन यस्माज् जगद्गुरोः ॥ व्ध_३,३४९।३३ ॥
केवलं तैः श्रितः श्लोकः श्वेतद्वीपनिवासिभिः ।
उदीरितो महाभागैः सर्वकल्मषवर्जितैः ॥ व्ध_३,३४९।३४ ॥

जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन ।
नमस् ते ऽस्तु हृषीकेश महापुरुष पूर्वज ॥ व्ध_३,३४९।३५ ॥

श्लोकम् एतं तु ते श्रुत्वा श्रुतवन्तस् तथा गिरम् ।
अशरीरां महाभाग सर्वभूतावहां हरेः ॥ व्ध_३,३४९।३६ ॥
श्वेतद्वीपम् अथासाद्य मृत्युम् आप्नोति कर्हिचित् ।
श्वेतद्वीपे गतिर् नास्ति विना चैकान्तिभिर् द्विजाः ॥ व्ध_३,३४९।३७ ॥
सामान्यभावना भक्ता भवन्तश् च तपोधनाः ।
तपसोग्रेण संयुक्तास् तेन मे देशम् आगताः ॥ व्ध_३,३४९।३८ ॥
सामान्यभक्तिसत्त्वाश् च पुनर् व्रजत मा चिरम् ।
भवद्भिः पुरुषा दृष्टाः श्वेतद्वीपनिवासिनः ॥ व्ध_३,३४९।३९ ॥
एभिः श्लोकैस् तथा दृष्टो भवतीति जनार्दनः ।
एकान्तभावनासक्तैः श्लोकैस् तु पुरुषैर् इमम् ॥ व्ध_३,३४९।४० ॥
जप्तव्यं सततं विप्रास् ततः पुनर् इह्[ऐ]ष्यथ ।
श्लोको ऽयं पावनः पुण्यः सर्वाघविनिषूदनः ॥ व्ध_३,३४९।४१ ॥
श्लोकैर् भावेन कर्तव्यौ जपहोमौ विजानता ।
धूपदीपान्नपुष्पाणां तथैव च निवेदनम् ॥ व्ध_३,३४९।४२ ॥
श्लोकम् एतं पठेद् विप्रा नमस्कारे प्रदक्षिणे ।
स्नानम् एतेन कर्तव्यं तथा चान्ते जलं द्विजाः ॥ व्ध_३,३४९।४३ ॥
सर्वपापहरं पुण्यं मोक्षदं सर्वकामदम् ।
श्लोक एष विनिर्दिष्टः सर्वकामप्रदः शिवः ॥ व्ध_३,३४९।४४ ॥
आपत्प्राप्तेन जप्तव्यं तन् मोक्षार्थं तथैव च ।
एतस्य जापः कर्तव्यो नित्यम् एव विजानता ॥ व्ध_३,३४९।४५ ॥
एतस्य जापात् पुरुषः सर्वान् कामान् उपाश्नुते ।

एतां श्रुत्वा तु ते वाणीं चागता मगधाः पुनः ॥ व्ध_३,३४९।४६ ॥
दृष्टवन्तो वसुं तत्र यजमानं महीपतिं ।
याजको यस्य धर्मात्मा देवाचार्यो बृहस्पतिः ॥ व्ध_३,३४९।४७ ॥
अदृश्येन हृतो भागस् तत्र देवेन विष्णुना ।
जगृहुर् देवताः सर्वा दृश्यभागात् पुरोधसः ॥ व्ध_३,३४९।४८ ॥
विष्णुं प्रति गतक्रोधं देवाचार्यं बृहस्पतिम् ।
एकतश् च द्वितश् चैव त्रितश् चैवम् अवोचतम् ॥ व्ध_३,३४९।४९ ॥

अदृश्यः सर्वदेवानां तं कथं द्रष्टुम् इच्छसि ।
इत्य् एवम् अनुनीतस् तु देवाच्र्यो बृहस्पतिः ॥ व्ध_३,३४९।५० ॥
समापयाम् आस तदा तं यज्ञं पार्थिवस्य च ।
एकान्तभावोपगता ऋषयो ऽपि जनार्दनम् ॥ व्ध_३,३४९।५१ ॥
आगता देवकार्यार्थं श्वेतद्वीपात् पुरा द्विज ।
श्वेतद्वीपं पुनः प्राप्तं पुनरावृत्तिदुर्लभम् ॥ व्ध_३,३४९।५२ ॥
तस्मात् तं देवदेवेशं तत्रस्थं पश्य नारद ।
त्वयापि देवकार्याणि कर्तव्यानि बहून्य् अथ ॥ व्ध_३,३४९।५३ ॥
श्वेतद्वीपगतस्यापि तेन ते द्विज साम्प्रतम् ।
न भविष्यति लोकेषु गतिर् निर्वाणकारिणी ।
कल्पावसाने तु गतिं तां त्वं विप्र गमिष्यसि ॥ व्ध_३,३४९।५४ ॥

मार्कण्डेय उवाच
एवम् उक्तस् ततः शीघ्रं मनोमारुतरंहसा ।
अभिवाद्याथ तौ देवौ तं द्वीपं नारदो गतः ॥ व्ध_३,३४९।५५ ॥
स तत्र गत्वा ददृशे श्वेतद्वीपनिवासिनः ।
पूजयाम् आस शिरसा तांश् च भक्त्या स नारदः ॥ व्ध_३,३४९।५६ ॥
प्राप्य श्वेतं महाद्वीपं नारदो हृष्टमानसः ।
ददर्श तान् एव नराञ् श्वेता[ंश्] चन्द्रप्रभाञ् शुभान् ॥ व्ध_३,३४९।५७ ॥
पूजयाम् आस शिरसा मनसा तैस् तु पूजितः ।
दिदृक्षुर् जाप्यपरमः सर्वकृच्छ्रधरः स्मृतः ॥ व्ध_३,३४९।५८ ॥
भूत्वैकामना विप्रश् चोर्ध्वबाहुर् महाभुजः ।
स्तोत्रं जगौ स विश्वाय निर्गुणाय गुणात्मने ॥ व्ध_३,३४९।५९ ॥
वासुदेवाय शान्ताय तथा विश्वसृजे द्विज ।
अनन्तायाप्रमेयाय सर्वगायातिरंहसे ॥ व्ध_३,३४९।६० ॥
अमितबलपराक्रमाय तस्मै त्रिदशमुनिप्रतिपूजिताय नित्यम् ।
भवभवभरनाशनाय विष्णोः प्रणतजनप्रतिपापनाशनाय ॥ व्ध_३,३४९।६१ ॥

॥ इति श्रीविष्णुधर्मोत्तरे तृतीये खण्डे मार्कण्डेयवज्रसंवादे श्रीनारदस्य श्वेतद्वीपगमनवर्णनो (!) नामैकोनपञ्चाशदधित्रिशततमो ऽध्यायः ॥ ३।३४९ ॥

नारद उवाच
नमो ऽस्तु ते
देवदेव । व्ध_३,३५०।[१] ।
निष्क्रिय । व्ध_३,३५०।[२] ।
निर्गुण । व्ध_३,३५०।[३] ।
लोकसाक्षिन् । व्ध_३,३५०।[४] ।
क्षेत्रज्ञ । व्ध_३,३५०।[५] ।
अनन्तपुरुष । व्ध_३,३५०।[६] ।
महापुरुष । व्ध_३,३५०।[७] ।
त्रिगुणप्रधान । व्ध_३,३५०।[८] ।
अमृत । व्ध_३,३५०।[९] ।
व्योम । व्ध_३,३५०।[१०] ।
सनातन । व्ध_३,३५०।[११] ।
सदसद्व्यक्ताव्यक्त । व्ध_३,३५०।[१२] ।
ऋतधाम । व्ध_३,३५०।[१३] ।
पूर्व । व्ध_३,३५०।[१४] ।
आदिदेव । व्ध_३,३५०।[१५] ।

सुप्रजापते । व्ध_३,३५०।[१६] ।
महाप्रजापते । व्ध_३,३५०।[१७] ।
ऊर्जस्पते । व्ध_३,३५०।[१८] ।
वाचस्पते । व्ध_३,३५०।[१९] ।
वनस्पते । व्ध_३,३५०।[२०] ।
मनःपते । व्ध_३,३५०।[२१] ।
मरुत्पते । व्ध_३,३५०।[२२] ।
जगत्पते । व्ध_३,३५०।[२३] ।
पृथिवीपते । व्ध_३,३५०।[२४] ।
दिक्पते । व्ध_३,३५०।[२५] ।
सलिलपते । व्ध_३,३५०।[२६] ।

पूर्वनिवास । व्ध_३,३५०।[२७] ।
ब्रह्मपुरोहित । व्ध_३,३५०।[२८] ।
ब्रह्मकायिक । व्ध_३,३५०।[२९] ।
राजिक । व्ध_३,३५०।[३०] ।
महाराजिक । व्ध_३,३५०।[३१] ।
चतुर्महाराजिक । व्ध_३,३५०।[३२] ।
आभास्वर । व्ध_३,३५०।[३३] ।
महाभास्वर । व्ध_३,३५०।[३४] ।
सप्तमहाभास्वर । व्ध_३,३५०।[३५] ।
याम्य । व्ध_३,३५०।[३६] ।
महायाम्य । व्ध_३,३५०।[३७] ।
सञ्ज्ञासञ्ज्ञ । व्ध_३,३५०।[३८] ।
तुषित । व्ध_३,३५०।[३९] ।
महातुषित । व्ध_३,३५०।[४०] ।
प्रतर्दन । व्ध_३,३५०।[४१] ।
परिनिर्मितवशवर्तिन् । व्ध_३,३५०।[४२] ।
अपरिनिर्मितवशवर्तिन् । व्ध_३,३५०।[४३] ।

यज्ञ । व्ध_३,३५०।[४४] ।
महायज्ञ । व्ध_३,३५०।[४५] ।
यज्ञसम्भव । व्ध_३,३५०।[४६] ।
यज्ञयोने । व्ध_३,३५०।[४७] ।
यज्ञवाह । व्ध_३,३५०।[४८] ।
यज्ञमुख । व्ध_३,३५०।[४९] ।
यज्ञहृदय । व्ध_३,३५०।[५०] ।
यज्ञभागहर । व्ध_३,३५०।[५१=१३६] ।
यज्ञस्तुत । व्ध_३,३५०।[५२] ।
पञ्चयज्ञ । व्ध_३,३५०।[५३] ।
चर । व्ध_३,३५०।[५४] ।
पञ्चकाल । व्ध_३,३५०।[५५] ।
त्रिगते । व्ध_३,३५०।[५६] ।
पाञ्चरात्रिक । व्ध_३,३५०।[५७] ।
वैकुण्ठ । व्ध_३,३५०।[५८] ।
अपराजित । व्ध_३,३५०।[५९] ।
नावमिक । व्ध_३,३५०।[६०] ।
परमस्वामिन् । व्ध_३,३५०।[६१] ।
सुस्नात । व्ध_३,३५०।[६२] ।
हम्स । व्ध_३,३५०।[६३] ।
महाहम्स । व्ध_३,३५०।[६४] ।
परमयाज्ञिक । व्ध_३,३५०।[६५] ।
साङ्ख्ययौगिक । व्ध_३,३५०।[६६] ।

अमृतेशय । व्ध_३,३५०।[६७] ।
हिरण्येशय । व्ध_३,३५०।[६८] ।
वेदशय । व्ध_३,३५०।[६९] ।
कुशेशय । व्ध_३,३५०।[७०] ।
ब्रह्मशय । व्ध_३,३५०।[७१] ।
पद्मेशय । व्ध_३,३५०।[७२] ।
विश्वेश्वर । व्ध_३,३५०।[७३] ।

त्वं जगन्मयः । व्ध_३,३५०।[७४] ।
त्वं जगत्प्रकृतिः । व्ध_३,३५०।[७५] ।
त्वं चाग्नेर् आस्यम् । व्ध_३,३५०।[७६] ।
त्वं बडवामुखो ऽग्निः । व्ध_३,३५०।[७७] ।
त्वम् आहुतिः । व्ध_३,३५०।[७८] ।
त्वम् आहुतिः । व्ध_३,३५०।[७९] ।
त्वं सारथिः । व्ध_३,३५०।[८०] ।
त्वं वषत्कारः । व्ध_३,३५०।[८१] ।
त्वम् ओङ्कारः । व्ध_३,३५०।[८२] ।
त्वम् अन्नः । व्ध_३,३५०।[८३] ।
त्वम् अन्नादः । व्ध_३,३५०।[८४] ।
त्वं चन्द्रमाः । व्ध_३,३५०।[८५] ।
त्वं सूर्यश् चक्षुर् आद्य[म्] । व्ध_३,३५०।[८६] ।
त्वं दिग्गजः । व्ध_३,३५०।[८७] ।
दिग्भानो । व्ध_३,३५०।[८८] ।
विदिग्भानो । व्ध_३,३५०।[८९] ।
हयशिराः । व्ध_३,३५०।[९०] ।
प्रथमन् । व्ध_३,३५०।[९१] ।
त्रिसौपर्णधर । व्ध_३,३५०।[९२] ।
पञ्चाग्ने । व्ध_३,३५०।[९३] ।
त्रिणाचिकेत । व्ध_३,३५०।[९४] ।
षडङ्गविधान । व्ध_३,३५०।[९५] ।
प्राग्ज्योतिष्क । व्ध_३,३५०।[९६] ।
ज्येष्ठसामग । व्ध_३,३५०।[९७] ।
व्रतधर । व्ध_३,३५०।[९८] ।
अथर्वशिराः । व्ध_३,३५०।[९९] ।
पञ्चमहाकल्प । व्ध_३,३५०।[१००] ।
अर्हनाचार्य । व्ध_३,३५०।[१०१] ।
[व्]आलखिल्य । व्ध_३,३५०।[१०२] ।
वैखानस । व्ध_३,३५०।[१०३] ।
अग्नियोग । व्ध_३,३५०।[१०४] ।
अभग्नपरिसङ्ख्यान । व्ध_३,३५०।[१०५] ।
युगादि । व्ध_३,३५०।[१०६] ।
युगमध्य । व्ध_३,३५०।[१०७] ।
युगनिधन । व्ध_३,३५०।[१०८] ।
अखण्डल%! । व्ध_३,३५०।[१०९] ।
प्राचीनगर्भ । व्ध_३,३५०।[११०] ।
कौशिक । व्ध_३,३५०।[१११] ।
पुरुष्टुत । व्ध_३,३५०।[११२] ।
पुरुहूत । व्ध_३,३५०।[११३] ।
विश्वहूत । व्ध_३,३५०।[११४] ।
विश्वहुत । व्ध_३,३५०।[११५] ।
विश्वरूप । व्ध_३,३५०।[११६] ।

अनन्तगते । व्ध_३,३५०।[११७] ।
अनन्तभोग । व्ध_३,३५०।[११८] ।
अनन्त । व्ध_३,३५०।[११९] ।
अनादिमध्य । व्ध_३,३५०।[१२०] ।
अव्यक्तनिधन । व्ध_३,३५०।[१२१] ।
व्रतवास । व्ध_३,३५०।[१२२] ।
समुद्राधिवास । व्ध_३,३५०।[१२३] ।
समवास । व्ध_३,३५०।[१२४] ।
यशोवास । व्ध_३,३५०।[१२५] ।
लक्ष्म्यावास । व्ध_३,३५०।[१२६] ।
कीर्त्यावास । व्ध_३,३५०।[१२७] ।
कव्यावास । व्ध_३,३५०।[१२८] ।
श्रीवास । व्ध_३,३५०।[१२९] ।
श्रीनिवास । व्ध_३,३५०।[१३०] ।
सर्ववास । व्ध_३,३५०।[१३१] ।
वासुदेव । व्ध_३,३५०।[१३२] ।
सर्वच्छन्दोग । व्ध_३,३५०।[१३३] ।
हरिहय । व्ध_३,३५०।[१३४] ।
हरिमेध । व्ध_३,३५०।[१३५] ।
यज्ञभागहर । व्ध_३,३५०।[१३६=५१] ।
वरप्रद । व्ध_३,३५०।[१३७] ।
यम । व्ध_३,३५०।[१३८] ।
नियम । व्ध_३,३५०।[१३९] ।
महानियम । व्ध_३,३५०।[१४०] ।
कृच्छ्रातिकृच्छ्र । व्ध_३,३५०।[१४१] ।
महाकृच्छ्र । व्ध_३,३५०।[१४२] ।
सर्वकृच्छ्र । व्ध_३,३५०।[१४३] ।
नियमधर । व्ध_३,३५०।[१४४] ।
निवृत्[त्]इधर्म । व्ध_३,३५०।[१४५] ।
प्रवचनगते । व्ध_३,३५०।[१४६] ।
प्रवृत्तवेदक्रिय । व्ध_३,३५०।[१४७] ।
अज । व्ध_३,३५०।[१४८] ।
सर्वगत । व्ध_३,३५०।[१४९] ।
सर्वदर्शिन् । व्ध_३,३५०।[१५०] ।
अग्राह्य । व्ध_३,३५०।[१५१] ।
अचर । व्ध_३,३५०।[१५२] ।
महाविभूते । व्ध_३,३५०।[१५३] ।
माहात्म्यशरीर । व्ध_३,३५०।[१५४] ।
पवित्र । व्ध_३,३५०।[१५५] ।
महापवित्र । व्ध_३,३५०।[१५६] ।
हिरन्मय । व्ध_३,३५०।[१५७] ।
बृहत् । व्ध_३,३५०।[१५८] ।
अप्रतर्क्य । व्ध_३,३५०।[१५९] ।
अविज्ञेय । व्ध_३,३५०।[१६०] ।
ब्रह्माग्नि । व्ध_३,३५०।[१६१] ।
प्रजासर्गकर । व्ध_३,३५०।[१६२] ।
[प्र्]अजानिछनकर । व्ध_३,३५०।[१६३] ।
महामायाधर । व्ध_३,३५०।[१६४] ।
चित्रशिखण्ड । व्ध_३,३५०।[१६५] ।
वरप्रद । व्ध_३,३५०।[१६६] ।
पुरोडाश्भागहर । व्ध_३,३५०।[१६७] ।
गताध्वग । व्ध_३,३५०।[१६८] ।
छिन्नतृष्ण । व्ध_३,३५०।[१६९] ।
सर्वतो निवृत्[त्]अ । व्ध_३,३५०।[१७०] ।
ब्रह्मरूप । व्ध_३,३५०।[१७१] ।
ब्रह्मधर । व्ध_३,३५०।[१७२] ।
ब्राह्मणप्रिय । व्ध_३,३५०।[१७३] ।
विश्वमूर्ते । व्ध_३,३५०।[१७४] ।
महामूर्ते । व्ध_३,३५०।[१७५] ।
बान्धव । व्ध_३,३५०।[१७६] ।
भक्तवत्सल । व्ध_३,३५०।[१७७] ।
ब्रह्मण्यदेव । व्ध_३,३५०।[१७८] ।
भक्तो ऽहं त्वां दिदृक्षुर् एकान्तदर्शनायेत्य् ॐ नमः । व्ध_३,३५०।[१७९] ।

॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्वेतद्वीपे श्रीनारदस्तोत्रवर्णनो नाम पञ्चाशदधिकत्रिशततमो ऽध्यायः ॥

मार्कण्डेय उवाच
स ददर्श तदा विष्णुं विश्वरूपधरं हरिम् ।
युक्तं वर्णैः शुक्रप्रख्यैः पीतरक्तसितासितैः ॥ व्ध_३,३५१।१ ॥
क्वचिन् मेचकसंयुक्तैः क्वचिन् मेचकरञ्जितैः ।
[क्व]चिच् छशाङ्कसङ्काशं क्वचिद् धिङ्गुलसन्निभम् ॥ व्ध_३,३५१।२ ॥
क्वचिन् मरकतप्रख्यं पद्मरागनिभं क्वचित् ।
क्वचित् कनकसङ्काशं क्वचिन् नीलोत्पलप्रभम् ॥ व्ध_३,३५१।३ ॥
क्वचित् पाटलपुष्पाभम् क्वचिद् गगनसन्निभम् ।
कुङ्कुमक्षोदसङ्काशं हरिद्रक्षोदसन्निभम् ॥ व्ध_३,३५१।४ ॥
क्वचिद् रजोपलप्रख्यम् इन्द्रनीलनिभं क्वचित् ।
अनिर्देश्यानि वर्णानि तथा बिभ्रत् क्वचित् क्वचित् ॥ व्ध_३,३५१।५ ॥
नानाविधानां सत्त्वानां वदनानि बहूनि च ।
ब्रह्मशङ्करशक्राणां यमस्य वरुणस्य च ॥ व्ध_३,३५१।६ ॥
धनदस्य हुताशनस्य वायोर् निरृतिनस् तथा ।
ग्रहाणाम् अथ ऋक्षाणां रुद्राणां वसुभिः सह ॥ व्ध_३,३५१।७ ॥
आदित्यानां समरुतां भृगूणां च तथा द्विज ।
तथैवाङ्गिरसो राजन् साध्यानाम् अश्विभिः सह ॥ व्ध_३,३५१।८ ॥
दैत्यानाम् अथ नागानां गन्धर्वोरगरक्षसाम् ।
पितृपन्नगयक्षाणां तथा च पिशिताशिनाम् ॥ व्ध_३,३५१।९ ॥
मनुष्यहयनागानां गजाश्वमृगपक्षिणां ।
द्वीपिशार्दूलसिंहानां सर्वेषां प्राणिनाम् अथ ॥ व्ध_३,३५१।१० ॥
कानिचित् तस्य सौम्यानि कानिचिद् भीषणानि च ।
ददर्श तस्य वक्त्राणि शतशो ऽथ सहस्रशः ॥ व्ध_३,३५१।११ ॥
वक्त्रेषु तस्य रौद्रस्य प्राणिसङ्घान्य् अनेकशः ।
ददर्श सर्वतश् चाग्नीन् ग्रस्यमानांश् च विष्णुना ॥ व्ध_३,३५१।१२ ॥
सौम्येभ्यस् तस्य वक्त्रेभ्यो निर्गच्छन्त्यस् तथा प्रजाः ।
वाहांश् च विविधांस् तस्य स ददर्शाथ नारदः ॥ व्ध_३,३५१।१३ ॥
हस्तांश् च विविधाकारान् नानामुद्रासमन्वितान् ।
युक्तान् नानाविधैर् भाण्डैर् आयुधैश् च सहस्रशः ॥ व्ध_३,३५१।१४ ॥
स्रुक्स्रुवावेदिचमस- कुशकृष्णाजिनाग्निभिः ।
केचिच् च कलशं घण्टां शङ्खपद्मोत्पलादिभिः ॥ व्ध_३,३५१।१५ ॥
केचित् खड्गगदाचक्र- चर्मशूलपरश्वधैः ।
केचित् पाशमहादण्ड- कृपाणशरकार्मुकैः ॥ व्ध_३,३५१।१६ ॥
केचिद् भुशुण्डीलगुड- शक्तिवज्राश्मपट्टिशैः ।
बीजपूर्णाक्षमालाश् च पूर्णपात्रैस् तथा परैः ॥ व्ध_३,३५१।१७ ॥
एवं नानाविधैर् भाण्डैः करांस् तस्य समन्वितान् ।
असङ्ख्येयान् महातेजा ददर्श मुनिसत्तमः ॥ व्ध_३,३५१।१८ ॥
नृत्तशास्त्रविनिर्दिष्टो नृत्तकर्मणि चाप्य् अथ ।
शिरांसि दृष्टयो हस्तांस् तस्य देवस्य दृष्टवान् ॥ व्ध_३,३५१।१९ ॥
त्रैलोक्यं च त् काये सकलं मुनिसत्तमः ।
देवदानवगन्धर्व- सयक्षोरगरक्षसाम् ॥ व्ध_३,३५१।२० ॥
द्वीपाम्भोनिधिलोकैश् च पातालैश् चैव संयुतम् ।
जगत् समग्रं देवस्य देहस्थं दृष्टवान् मुनिः ॥ व्ध_३,३५१।२१ ॥
स दृष्ट्वा परमं रूपं भीतो हृष्टश् च विस्मितः ।
पपात पादयोस् तस्य शिरसा साश्रुलोचनः ॥ व्ध_३,३५१।२२ ॥
स्तोत्रेण चैव तुष्टाव पूर्वोक्तेन जनार्दनम् ।
तम् उवाच ततो देवः प्रहसन्न् ऋषिसत्तमम् ॥ व्ध_३,३५१।२३ ॥

श्रीभगवान् उवाच
उत्तिष्ठ मा भैर् धर्मज्ञ वरं वृणु यथेप्सितम् ।

श्रीनारद उवाच
नित्यम् एकान्तिके देव भक्तिर् भवतु सा त्वयि ।
नान्यं वरं कामयामि नराणाम् इदम् उत्तमम् ॥ व्ध_३,३५१।२४ ॥

मार्कण्डेय उवाच
तम् उवाच ततो देवः प्रणतार्तिहरो हरिः ।
एतन् निसर्गसिद्धं ते येन त्वं दृष्टवान् मम ॥ व्ध_३,३५१।२५ ॥
विश्वरूपम् इदं ब्रह्मन्न् अवज्ञेयं तथा त्वया ।
तपस् तप्तं यतो विप्र ममापि च ततस् तव ॥ व्ध_३,३५१।२६ ॥
रूपम् एतत् समास्थाय रूपं स्वं द्विज दर्शितम् ।
इच्छारूपाण्य् अहं कुर्यां शतशो ऽथ सहस्रशः ॥ व्ध_३,३५१।२७ ॥
त्रैलोक्ये यानि रूपाणि देवादीनां द्विजोत्तम ।
ममैव तानि जानीह मत्तो ऽन्यन् नास्ति किञ्चन ॥ व्ध_३,३५१।२८ ॥
अहं भूतं च भव्यं च वर्तमानम् अहं तथा ।
स्थावरं जङ्गमं चैव सर्वम् एवास्मि नारद ॥ व्ध_३,३५१।२९ ॥
सच् चासच् चाहम् एवात्र तत्त्वम् एतद् ब्रवीमि ते ।
अशब्दम् अरसं स्पर्श- गन्धरूपविवर्जितम् ॥ व्ध_३,३५१।३० ॥
सर्वगं मां विजानीहि परमार्थेन नारद ।
यः करिष्यति मे स्तोत्रं स्तोत्रेण त्वत्कृतेन तु ॥ व्ध_३,३५१।३१ ॥
तस्य कामान् विधास्यामि ये दिव्या ये च मानुषाः ।
श्वेतद्वीपे गतिस् तस्य मृतस्य च भविष्यति ॥ व्ध_३,३५१।३२ ॥
श्वेतद्वीपम् अवाप्यापि नरः स्वस्थो भविष्यसि ।
वराहस्यास्य कल्पस्य यावत् कालो ऽवशिष्यते ॥ व्ध_३,३५१।३३ ॥
वाराहे तु गते कल्पे ततो मात्स्यो भविष्यति ।
देवकार्याणि कार्याणि सुबहूनि यतस् त्वया ॥ व्ध_३,३५१।३४ ॥
प्रादुर्भावगतश् चाहम् अनुशास्यस् तथा त्वया ।
प्रादुर्भावाणि मे ब्रह्मन् व्यतीतानि सहस्रशः ॥ व्ध_३,३५१।३५ ॥
भविष्यन्ति तथान्यानि तत्र मे शृणु कानिचित् ।
अहम् एकार्णवे लोके शेषपर्यङ्कशायिकः ॥ व्ध_३,३५१।३६ ॥
लक्ष्मीसहायस् तिष्ठामि यदा सुप्तः पितामहः ।
अहं मत्स्यस् तथा कूर्मो हंसो ऽहम् अपि नारद ॥ व्ध_३,३५१।३७ ॥
स्त्रीरूपेण मया विप्र वञ्चिता दैत्यदानवाः ।
मयाश्वशिरसा वेदा दानवेभ्यस् तथा हृताः ॥ व्ध_३,३५१।३८ ॥
वाराहेण मया भूत्वा वसुधेयं समुद्धृता ।
वाराहेण मया दैत्याः पातालतलगा हताः ॥ व्ध_३,३५१।३९ ॥
नृवराहेण निहतो हिरण्याक्षो बलोत्कटः ।
दानवाश् च हता युद्धे नरनारायणात्मना ॥ व्ध_३,३५१।४० ॥
लोकोत्तरे तथा मार्गे हरिः कृष्णस् तथाप्य् अहम् ।
नारसिंहेन रूपेण हिरण्यकशिपुर् हतः ॥ व्ध_३,३५१।४१ ॥
वामनेन मया भूत्वा बलेस् त्रिभुवनं हृतम् ।
त्रिभिः क्रमैः पुरा ब्रह्मन् देवानां हितकाम्यया ॥ व्ध_३,३५१।४२ ॥
वाडवो ऽहं समुद्रस्थः पिबामि सलिलं सदा ।
पृथ्वी वसुमती ब्रह्मन् पृथुना च मया कृता ॥ व्ध_३,३५१।४३ ॥
कपिलेन मया दुष्टा दग्धव्याः सगरात्मजाः ।
दत्तात्रेयेण वसुधा देवा द्विज।गणाः पुनः ॥ व्ध_३,३५१।४४ ॥
जामदग्न्येन रामेण लघ्वी वसुमती कृता ।
त्रिःसप्तकृत्वः कर्तव्या क्षत्रभारप्रपीडिता ॥ व्ध_३,३५१।४५ ॥
दत्त्वा चतुर्धा पुत्रांश् च मया दशरथस्य च ।
रामेण रावणवधः कर्तव्यो जनतासुखम् ॥ व्ध_३,३५१।४६ ॥
कार्यं गन्धर्वनिधनं तथैव भरतात्मना ।
मेघनादवधः कार्यो लक्ष्मणेन तथा मया ॥ व्ध_३,३५१।४७ ॥
शत्रुघ्नेन च कर्तव्यो लवणस्य वधस् तथा ।
मया वाल्मीकिना कार्यं काव्यं रामायणं तथा ॥ व्ध_३,३५१।४८ ॥
व्यासेन वेदा वक्तव्या आख्यानं भारतं महत् ।
मया ब्राह्मणशार्दूल तथा द्वैपायनात्मना ॥ व्ध_३,३५१।४९ ॥
पाण्डोः पुत्रत्वम् आसाद्य पञ्चधा च तथा मया ।
द्विधा च वसुदेवस्य लघ्वी कार्या वसुन्धरा ॥ व्ध_३,३५१।५० ॥
नरलोके निहन्तव्या दैत्या मानुषरूपिणः ।
बलभद्रेण च मया हन्तव्या मौष्टिकादयः ॥ व्ध_३,३५१।५१ ॥
मया कृष्णेन हन्तव्याः कंसपूर्वा महाबलाः ।
प्रद्युम्नेन निहन्तव्यः शम्बरश् च महाबलः ॥ व्ध_३,३५१।५२ ॥
हन्तव्याश् चानिरुद्धेन दैत्याः शतसहस्रशः ।
साम्बेन युयुधानेन मया भूत्वा तथैव च ॥ व्ध_३,३५१।५३ ॥
मया बुद्धेन वक्तव्या धर्माः कलियुगे पुनः ।
हन्तव्या म्लेच्छराजानस् तथा विष्णुवशात्मना ॥ व्ध_३,३५१।५४ ॥
ममांशेन विजानीहि पृथिव्यां चक्रवर्तिनः ।
ऋषयश् च तथा ज्ञेया ममैवांशसमुद्भवाः ॥ व्ध_३,३५१।५५ ॥
यद् यद् विभूतिमत् सत्त्वं श्रीमदूर्जितम् एव च ।
तत् तद् एवावगच्छेस् त्वं मम तेजोऽंशसम्भवम् ॥ व्ध_३,३५१।५६ ॥
अथ वा बहुनैतेन किं ज्ञानेन तवानघ ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेनास्थितो जगत् ॥ व्ध_३,३५१।५७ ॥
तद् गच्छ मानसी सिद्धिः सदा ते ऽस्तु द्विजोत्तम ।
कल्पावसानम् आसाद्य मच्छरीरं प्रवेक्ष्यसि ॥ व्ध_३,३५१।५८ ॥
एतावद् उक्त्वा वचनं तत्रैवान्तरधीयत ।
भगवान् नारदश् चक्रे पुजां तद्देशवासिनाम् ॥ व्ध_३,३५१।५९ ॥
तैश् च सम्पूजितो विप्रस् तान् प्रणम्य यतव्रतः ।
आजगाम ततः शीघ्रं नरनारायणाश्रमम् ॥ व्ध_३,३५१।६० ॥
पादयोर् न्यपतत् तत्र स तयोर् मुनिपूज्ययोः ।
ताभ्यां सम्पूजितो विप्रस् तत्रोवास तदाश्रमे ॥ व्ध_३,३५१।६१ ॥
ततः कदाचित् तं विप्रम् ऊचतुस् तौ तपोधनौ ।
आवाभ्यां त्वं तथा दृष्टः श्वेतद्वीपगते ऽच्युतः ॥ व्ध_३,३५१।६२ ॥
समीपं देवदेवस्य तद्देहस्थैर् यथासुखम् ।
लोके ऽस्मिन् मुनिशार्दूल नास्ति धन्यतरस् त्वया ॥ व्ध_३,३५१।६३ ॥
दृष्टवान् असि यद् ब्रह्मन् विश्वरूपधरं हरिम् ।
त्रैलोक्यसारं विश्वेशं प्रणतार्तिविनाशनम् ॥ व्ध_३,३५१।६४ ॥
यतस् ते ऽनुग्रहस् तेन कृतो देवेन विष्णुना ।
ततो गुह्यं निबोधेमं तत्पूजाविधिम् उत्तमम् ॥ व्ध_३,३५१।६५ ॥
सर्वकर्मकरं दिव्यं सकलार्थप्रदं शिवम् ।
नाभक्ताय च तद् देयं त्वया ब्राह्मणसत्तम ॥ व्ध_३,३५१।६६ ॥
एकान्तभावोपगतं जनार्दनं नरस् तु सम्पूज्य तथा विधानतः ।
प्रयाति तद्द्वीपम् अनुत्तमं शिवं न यत्र गत्वा विनिवर्तते पुनः ॥ व्ध_३,३५१।६७ ॥

॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विश्वरूपाख्यानं
नामैकपञ्चाशदुत्तरत्रिशततमो ऽध्यायः ॥ ३५१ ॥

नरनारायणाव् ऊचतुः
आदाव् एव सरःसरित्प्रस्रवणसमीपगृहोपवनपर्वतमस्तकानाम् अन्यतमे हृद्ये देशे सुसमं
मनोहरं हस्तमात्रं मण्डलकम् उपकल्पयेत् ॥ [व्ध_३,३५२।०।१] ॥
तत्र मध्ये ऽष्टपत्रं पद्मम् आलिखेत् । ततस् तूदाहृतचतुरस्रया चतुर्द्वारलेखया विभजेत् ॥ [व्ध_३,३५२।०।२] ॥
ततः पद्मकर्णिकामध्ये श्वेतं शतपत्रं पद्मं ध्यायेत् ॥ [व्ध_३,३५२।०।३] ॥
तत्कर्णिकोपर्य् अर्कमण्डल[म्] । तदुपरि चन्द्रमण्डल[म्] । तदुपर्[य्] अग्निमण्डल[म्] । तन्मध्ये परं पुरुषम् अशरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शम् अशब्दं सर्वगं प्लुतान्तं ओङ्कारं विन्यसेत् ॥ [व्ध_३,३५२।०।४] ॥
कमलपूर्वदले अकारं वासुदेवं न्यसेत् । श्वेतवर्णं ध्यायेत् ॥ [व्ध_३,३५२।०।५] ॥
दक्षिणे आकारं सङ्कर्षणं विन्यसेत् । पद्मपत्राभं तं च ध्यायेत् ॥ [व्ध_३,३५२।०।६] ॥
पश्चिमे दले ओङ्कार्[अम्] प्रद्युम्नं विन्यसेत् । पीतवर्णं च ध्यायेत् ॥ [व्ध_३,३५२।०।७] ॥
उत्तरदले अःकारम् अनिरुद्धं विन्यसेत् । कृष्णवर्णं च ध्यायेत् ॥ [व्ध_३,३५२।०।८] ॥
ऐशाने दले तद् इति ब्रह्माणं विन्यसेत् । पद्मपत्राभं ध्यायेत् ॥ [व्ध_३,३५२।०।९] ॥
{॥॥॥।?} । सूर्यकोटिसमं ध्यायेत् ॥ [व्ध_३,३५२।०।१०] ॥
वायव्यदले वराहं विन्यसेत् । भिन्नाञ्जनसमं ध्यायेत् ॥ [व्ध_३,३५२।०।११] ॥
प्रपूर्वद्वारे ॐ कें टें यें एतान्य् अक्षराणि वैनतेयं विन्यसेत् ।
हेमवर्णं च ध्यायेत् ॥ [व्ध_३,३५२।०।१२] ॥
दक्षिणे द्वारे तेजोरथरतृ(?)चक्रं सुदर्शनं विन्यसेत् । वज्रनाभं सहस्रारं सूर्यकोटिसमप्रभं ध्यायेत् ॥ [व्ध_३,३५२।०।१३] ॥
पश्चिमद्वारे शार्ङ्गं विन्यसेत् । इन्द्रचापनिभं ध्यायेत् ॥ [व्ध_३,३५२।०।१४] ॥
स्वें ठें हें थें उत्तरे द्वारे अनिरुद्धं न्यस्येत् । सर्ववर्णं ध्यायेत् ॥ [व्ध_३,३५२।०।१५] ॥
वें णें क्षें क्षें विदिक्षु पाञ्चजन्यं शङ्खं न्यसेत् । शशाङ्कवर्णं ध्यायेत् ॥ [व्ध_३,३५२।०।१६] ॥
धें हें भें हें श्रियं पद्मं दक्षिणतो न्यसेत् । शुक्लां ध्यायेत् ॥ [व्ध_३,३५२।०।१७] ॥
गें डें वें शें पद्मान्तरतः पुष्टिं न्यसेत् । श्वेतां ध्यायेत् ॥ [व्ध_३,३५२।०।१८] ॥
हें सें पुरतो वनमालां न्यसेत् । हें सें बहुवर्णां ध्यायेत् ॥ [व्ध_३,३५२।०।१९] ॥
चित्यैशान्यां नन्दकं न्यसेत् । आकाशवर्णं धायेत् ॥ [व्ध_३,३५२।०।२०] ॥
ॐ इत्य् आग्नेय्यां वर्म न्यसेत् । बहुवर्णं ध्यायेत् ॥ [व्ध_३,३५२।०।२१] ॥
ॐ झें लें श्रीवत्सं न्यसेत् । शुक्ल्[अ]ं ध्यायेत् ॥ [व्ध_३,३५२।०।२२] ॥
ॐ छें ठें वायव्ये कौस्तुभं न्यसेत् । आदित्यं दीप्तं ध्यायेत् ॥ [व्ध_३,३५२।०।२३] ॥
ततो मण्डले बाह्यस्थां यथास्वदिशम् ओकारौकारौ (?) दिक्पती शक्राग्नी यमनैरृतवारुणपवनकुबेरान् ऐशान्यां न्यसेत् । यथोक्तरूपं ध्यायेत् ॥ [व्ध_३,३५२।०।२४] ॥
ॐ नमो भगवते वासुदेवायेत्य् अन्तेन द्वादशाक्षरेण कर्णिकामध्ये पुरुषायार्घ्यपाद्याचमनीयानुलेपनपुष्पदीपधूपमधुपर्कनैवेद्यफलभक्ष्याणि निवेदयेत् ॥ [व्ध_३,३५२।०।२५] ॥
ॐ नमो नारायणायेत्य् अथवाष्टाक्षरेण मन्त्रेण । ॐ जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन । मनस् ते ऽस्तु हृषीकेश महापुरुष पूर्वज ॥ [व्ध_३,३५२।०।२६] ॥
इत्य् अनेन मन्त्रेण पुरुषसूक्तेन वा । अथान्यान् दलनिविष्टान् देवान् यथाभिहितैर् मन्त्रैः पृथक्पृथग् अर्चये[त्] ॥ [व्ध_३,३५२।०।२७] ॥

अनेन विधिना यस् तु विष्णुम् अभ्यर्चयेन् नरः ।
सर्वान् संसाधयेद् अर्थान् कृतकृत्यो हि जायते ॥ व्ध_३,३५२।१ ॥

कृत्वा व्याधिं व्या[ध्]इतं भक्षयति न करोति न तद् आप्नोति इदं त्व् अन्यत् । धन्यं यशस्यं पुण्यं
च पवित्रं पापनाशनं ॥ [व्ध_३,३५२।२।१] ॥
आरोग्यं धनधान्यवर्धनं शत्रुघ्नं वशीकरणं यः पुरुषो ऽनेन विधिना सततं देवम्
अभ्यर्चयति सम्पत्तिं जनयति अथवा तस्य न रोचते तदा श्वेतद्वीपम् अव्प्याप्य अर्कमण्डलं भित्त्वा
निरुणद्धि प्रद्युम्नसङ्कर्षणान् प्राप्नोति सुदेवत्वम् अवाप्य निष्कलत्वम् आप्नोति ॥ [व्ध_३,३५२।२।२] ॥

॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नारायणपूजनप्रकारवर्णनो
नाम द्विपञ्चाशदुत्तरत्रिशततमो ऽध्यायः ॥ ३५२ ॥

मार्कण्डेय उवाच
एतद् धि नारदः श्रुत्वा नरनारायणेरितम् ।
अनेनैव विधानेन सततं मधुसूदनम् ॥ व्ध_३,३५३।१ ॥
पूजयाम् आस धर्मात्मा तद्गतेनान्तरात्मना ।
ततः पुंसवनो भगवान् नारदस्य महात्मनः ॥ व्ध_३,३५३।२ ॥
प्रत्यक्षतः पुनर् भूतं नारदं वाक्यम् अब्रवीत् ।
गच्छ नारद भद्र त्वं लोकांश् चर यथेप्सितान् ॥ व्ध_३,३५३।३ ॥
दर्शनं तव दास्यामि कालेकाले यथेप्सिते ।
अनुग्रहम् इदं प्राप्य देवेशात् पुरुषोत्तमात् ॥ व्ध_३,३५३।४ ॥
चचार नारदो लोकान् नित्यं सम्पूजयन् हरिम् ।
विश्वरूपम् इदं दृष्टं नारदेन महात्मना ॥ व्ध_३,३५३।५ ॥
प्रह्लादेन पुनस् तेन नरकेसरिरूपिणः ।
तथा चामृतकादेहे तेनैव च महात्मना ॥ व्ध_३,३५३।६ ॥
ब्रह्मणा च पुरा दृष्टं त्[र्]ऐलोक्याक्रमणे पुनः ।
पश्चिमे सागरे दृष्टं दशग्रीवेण रक्षसा ॥ व्ध_३,३५३।७ ॥
कृष्णावतारे दूत्येन गतस्य मधुविद्विषः ।
धार्तराष्ट्रसभामध्ये ऋषिभिश् च परीक्षितः ॥ व्ध_३,३५३।८ ॥
महाभारतसङ्ग्रामे दृष्टवान् अर्जुनस् तथा ।
बन्धुनाशभयोद्विग्नो यत्र तेन प्रबोधितः ॥ व्ध_३,३५३।९ ॥
निवृत्ते भारते युद्धे गच्छन्तो द्वारकां पुनः ।
मार्गागतेन तद् दृष्टम् उत्तङ्केन महात्मना ॥ व्ध_३,३५३।१० ॥
त्रैलोक्यनाथो गोविन्दः सततं भक्तवत्सलः ।
तस्य कर्ंआणि यो नित्यं पुरुषः परिकीर्तयेत् ॥ व्ध_३,३५३।११ ॥
शृणुयाद् वा महीपाल शुचिस् तद्गतमानसः ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ व्ध_३,३५३।१२ ॥
एवं स राजन् द्विजवर्यमुख्यः सम्प्राप्तवान् देववरात् प्रसादम् ।
भक्तिक्रमक्रैयनृपप्रसादात् तस्माद् धि कामान् पुरुषा लभन्ते ॥ व्ध_३,३५३।१३ ॥

॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नारदप्रसादो नाम
त्रिपञ्चाशदुत्तरत्रिशततमो ऽध्यायः ॥ ३५३ ॥