Visnudharmottara-Purana, Adhy. 2,127: Atharvavidhikathana (=Atharvavidhana)

Intro

Visnudharmottara-Purana, Adhy. 2,127: Atharvavidhikathana (=Atharvavidhana)

Visnudharmottara-Purana, Adhy. 2,127: Atharvavidhikathana (=Atharvavidhana)
Based on the edition Bombay 1912, adapted as “āgneya-viṣṇudharmottarapurāṇādibhya āhṛtya pratisaṃskritam [dūrgāmohanabhaṭṭācāryeṇa]”
in D. Bhattacharyya, “Lights on the Paippalāda Recension of the Atharvaveda”.
In: Our Heritage, Vol. III, part I, 1955. pp. 1-14.

Input by Shilpa Sumant (Pune)

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:

पाठः

पुष्कर उवाच-
शान्तातीतं गणं हुत्वा शान्तिम् आप्नोति मानवः ।
भैषज्यं च गणं हुत्वा सर्वान् रोगान् व्यपोहति ॥ व्धो_२,१२७।१ ॥
त्रिषप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ।
क्वचिन् नाअप्नोति च भयं हुत्वा चैवाभयं गणम् ॥ व्धो_२,१२७।२ ॥
न पराजायते राम गणं हुत्वापराजितम् ।
आयुष्यं च गणम् हुत्वा चापमृत्यूं व्यपोहति ॥ व्धो_२,१२७।३ ॥

स्वस्तिम् आप्नोति सर्वत्र हुत्वा स्वस्त्ययनं गणं ।
श्रेयसा योगम् आप्नोति शर्मवर्मगणं तथा ॥ व्धो_२,१२७।४ ॥
वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति ।
तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति ॥
एतैर् दशगणैर् होमो ह्य् अष्टादशसु शान्तिषु ॥ व्धो_२,१२७।५ ॥
वैष्णवी शान्तिर् ऐन्द्री च ब्राह्मी रौद्री तथैव च ।
वायव्या वारुणी चैव कौबेरी भार्गवी तथा ॥ व्धो_२,१२७।६ ॥
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ।
मारुद्गणा च गान्धर्वी शान्तैर् नैरृतकी तथा ॥ व्धो_२,१२७।७ ॥
शान्तिर् आङ्गिरसी याम्या पार्थिवी च भृगूत्तम ।

एतास् तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा ॥ व्धो_२,१२७।८ ॥
यस् त्वा मृत्युर् इति ह्य् एतज् जप्तं मृत्युविनाशनं ।

हुत्वा च मातृनामानि कामान् एवम् अवाप्नुयात् ॥ व्धो_२,१२७।९ ॥
सुपर्णस् त्वेति हुत्वा च भुजगैर् नैव बाध्यते ।
[भत्तछर्य्य एदित्स् भुजगैनव बाध्यते, wहिछ् चन् बे जुस्त् अ त्य्पो!]
यस्येदं भूम्याम् इति च भूमिकामो जपेत् सदा ॥ व्धो_२,१२७।१० ॥

पृथिव्याम् उत्तमो ऽसीति हुतं श्रैष्ठ्यप्रदं सदा ।
औदुम्बरं यो न इति तथा वीर्यविवर्धनम् ॥ व्धो_२,१२७।११ ॥
इन्द्रेण दत्तम् इत्य् एतत् सर्वबाधाविनाशनम् ।
हिरण्यवर्णा इति च स्नानं पापहरं भवेत् ॥ व्धो_२,१२७।१२ ॥
असितस्येति सर्वाणि विषघ्नानि भृगूत्तम ।
सरस्वतीति मन्त्रांश् च विषघ्नान् निर्विशेद् बुधः ॥ व्धो_२,१२७।१३ ॥
शरभादीनि सर्वाणि पिशाचक्षपणानि च ।

इमा देवीति मन्त्रश् च सर्वशान्तिकरः परः ॥ व्धो_२,१२७।१४ ॥
देवा मरुत इत्य् एतत् सर्वकामकरं भवेत् ।
यमस्य लोकाद् इत्य् एतद् दुःस्वप्नशमनं परं ॥ व्धो_२,१२७।१५ ॥
अग्नेर् व इति चाप्य् एतत् कथितं मन्युनाशनम् ।
ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः ॥ व्धो_२,१२७।१६ ॥
इन्द्रं वयं वणिजम् इति पण्यलाभकरं परम् ।
[भत्तछर्य्य: बणिजम्]
कामो मे राज्ञ इत्य् एतत् स्त्रीणां सौभाग्यवर्धनम् ॥ व्धो_२,१२७।१७ ॥
भद्राय कर्णम् इत्य् एतत् कर्णप्रस्यन्दने जपेत् ।
भद्रास्य् अक्षिरोधे जाता कर्णप्रस्यन्दने तथा ॥ व्धो_२,१२७।१८ ॥
तुब्यम् एव जरिमन्न् आयुष्यं तु हुतं भवेत् ।
आयातु मित्र इत्य् एतन् मित्रलब्धिकरं हुतम् ॥ व्धो_२,१२७।१९ ॥
आशासानम् इदं जना मिश्रधान्येन होमयेत् ।
आधिपत्यम् अवाप्नोति सर्वत्र मनुजोत्तम ॥ व्धो_२,१२७।२० ॥
अग्ने गोभिर् न इत्य् एतद् गवां वृद्धिकरं परम् ।
द्वादशाहं तु जुहुयात् पराकेण विशेषतः ॥ व्धो_२,१२७।२१ ॥

शान्तो अग्निर् इतीत्य् एतद् ग्रामस्वास्थ्यकरं भवेत् ।
तस्माद् ग्रामान् मृदा कृत्वा वेदिसाम्यं समश्नुते ॥ व्धो_२,१२७।२२ ॥
विद्मास्य सर्वा चित्तानि राष्ट्रस्वीकरणानि तु ।
त्रिभ्यो रुद्रेभ्य इत्य् एतद् वास्तोष्पतम् उदाहृतम् ॥ व्धो_२,१२७।२३ ॥
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ।
अच्युता द्यौस् तथा राम कथितं स्थानलाभदम् ॥ व्धो_२,१२७।२४ ॥
पयो देवेष्व् इति हुतं रायस्पोषकरं परम् ।
युनक्रसीरेति शुना कृषिलाभकरं भवेत् ॥ व्धो_२,१२७।२५ ॥

अयं ते योनिर् इत्य् एतत् पुत्रलाभकरं भवेत् ।
शुनं वत्सान् तथा ह्य् एतद् गवां वृद्धिकरं हुतम् ॥ व्धो_२,१२७।२६ ॥
॥। मेति कथितं सर्वत्श्रैष्ठ्यकारकम् ।

अहं ते भग इत्य् एतद् भवेत् सौभाग्यवर्धनं ॥ व्धो_२,१२७।२७ ॥
ये ते पाशास् तथाप्य् एतद् बन्धनान् मोक्षकारकम् ।
यो न स्व इति चाप्य् एतच् छत्रुनाशकरं परम् ॥ व्धो_२,१२७।२८ ॥
सपत्नहनम् इति तथा नात्र कार्या विचारणा ।
त्वम् उत्तमम् इतीत्य् एतद् यशसो वर्धनं परम् ॥ व्धो_२,१२७।२९ ॥
यथा मृगो गोपयसि स्त्रीणां सौभाग्यवर्धनम् ।
आ नो अग्न इत्य् एतच् च कथितं पतिलाभदम् ॥ व्धो_२,१२७।३० ॥
येन वेहद् इषं चैव गर्भलाभकरं भवेत् ।
इमं तपस्विन्न् इति तथा भवेत् सौभाग्यवर्धनम् ॥ व्धो_२,१२७।३१ ॥
यत् पृथिव्या अनावृत्तं हुतम् एतद् यथाविधि ।
[भत्तछर्य्य त्य्पो: पृविव्या]
कृत्वा तु शंसनं ज्ञेयं नात्र कार्या विचारणा ॥ व्धो_२,१२७।३२ ॥
॥॥॥ ।
शिवः शिवाभिर् इत्य् एतद् भवेच् छ्रेयस्^करं परम् ॥ व्धो_२,१२७।३३ ॥
कृत्यादूषण इत्य् एतत् कृत्यादूषणम् उच्यते ।
बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत् ॥ व्धो_२,१२७।३४ ॥
मनो न्व् एदम् अभयदं पथि स्वस्त्ययनं भवेत् ।
अयं नो अग्निर् अध्यक्षो भवेद् अग्निप्रसादतः ॥ व्धो_२,१२७।३५ ॥
संवत्सरं तु शिरसा धारयेद् यो हुताशनम् ॥
[भत्तछर्य्य: हूताशनम्]
मन्त्रम् एतज् जपेन् नित्यम् आग्नेयाशामुखः स्थितः ॥
अनग्निज्वलनं कुर्याद् राम संवत्सरे गते ॥ व्धो_२,१२७।३६ ॥
दूष्या दूषीत्त्य् एतज् जपेन् मन्त्रम् अनुत्तमम् ।
कुर्यात् प्रतिसराबन्धं सर्वदोषनिबर्हणम् ॥ व्धो_२,१२७।३७ ॥
प्राणसूक्तञ् च कथितं तथा प्राणविवर्धनम् ।
मुञ्चामि त्वेति कथितम् अपमृत्युविमोक्षणम् ॥ व्धो_२,१२७।३८ ॥
अथर्वशिरसो ऽध्येता सर्वपापैः प्रमुच्यते ।
परमं पावनं तद् धि सर्वकल्मषनाशनम् ॥ व्धो_२,१२७।३९ ॥
एवम् एते शुभा मन्त्राः प्रतिवेदं मया तव ।
समासात् कथिता राम समुद्धृत्य प्रधानतः ॥ व्धो_२,१२७।४० ॥
एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः ।
[भत्तछर्य्य: विनियोगः]
कथिता भृगुशार्दूल पुराणैः सुमहात्मभिः ॥ व्धो_२,१२७।४१ ॥
न ते शक्या महाभाग वक्तुं वर्षशतैर् अपि ।
प्राधान्येन तु मन्त्राणां किञ्चित् कर्म तवेरितम् ॥ व्धो_२,१२७।४२ ॥
होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव ।
हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु ॥ व्धो_२,१२७।४३ ॥
वृक्षाणां यज्ञियानान् तु समिधः प्रथमं हविः ।
आज्यञ् च व्रीहयश् चैव तथा वै गौरसर्षपाः ॥ व्धो_२,१२७।४४ ॥
अक्षतानि तिलाश् चैव दधि क्षीरञ् च भार्गव ।

दर्भास् तथैव दूर्वाश् च बिल्वानि कमलानि च ॥ व्धो_२,१२७।४५ ॥
शान्तिपुष्टिकराण्य् आहुर् द्रव्याण्य् एतानि भार्गव ।
तैलेन्धनानि धर्मज्ञ राजिकां रुधिरं विषम् ।
समिधः कण्टकोपेता अभिचारेषु योजयेत् ॥ व्धो_२,१२७।४६ ॥
आर्षं वै दैवतं छन्दस् त्व् अविज्ञाय भृगूत्तम ।
मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत् ॥ व्धो_२,१२७।४७ ॥

छन्दसि ब्राह्मणे सूक्ते यद् अव्यक्तं प्रदृश्यते ।
विद्वद्भिः सह निश्चित्य तद् यज्ञम् अवतारयेत् ॥ व्धो_२,१२७।४८ ॥
सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः ।
शाखां प्रति तथा तत्र तत् प्रमाणम् इति स्थितिः ॥ व्धो_२,१२७।४९ ॥
यः स्वसूत्रम् अतिक्रम्य परसूत्रेण वर्तते ।
अप्रमाणम् ऋषिं कृत्वा सो ऽप्य् अधर्मेण युज्यते ॥ व्धो_२,१२७।५० ॥
तस्मात् सर्वप्रयत्नेन स्वसूत्रं न विलङ्घयेत् ।
प्राक्तन्त्रोत्तरतन्त्रे द्वे स्वशाखाप्रत्यये द्विज ।
सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते ॥ व्धो_२,१२७।५१ ॥
आथर्वणो ऽयं कथितो विधिस् ते सङ्क्षेपतो भार्गवांशमुख्य ।
अतः परं किं कथयामि तुभ्यं तन् मे वदस्वायतलोहिताक्ष ॥ व्धो_२,१२७।५२ ॥

॥ इति श्रिविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने ऽथर्वविधिकथनं नाम सप्तविंशत्युत्तरशततमो ऽध्यायः ॥