[[श्रीविष्णुधर्मोत्तरपुराणम् Source: EB]]
[
प्रथमखण्डम्
(न उपलब्धम्)
विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ००१-००५
2.1
श्रीगणेशाय नमः ॥
वज्र उवाच ॥
आदौ भगवता प्रोक्तो विजयो भरतस्य मे ॥
यच्छ्रुत्वा वेद्मि चात्मानं ब्रह्मन्विगतकल्मषम् ॥१ ॥
सुखश्राव्यश्च हृद्यश्च कथासारस्तु भार्गव ॥
कथाश्च विविधाः प्रोक्तास्तत्प्रसङ्गात्त्वयानघ ॥ २ ॥
रसवत्यश्च धर्मज्ञ सर्वपापक्षयङ्कराः ॥
यास्ता ब्रह्मन्प्रसङ्गेन मयापहृतचेतसा ॥ ३ ॥
प्रस्तुतास्ताः कथास्त्यक्तास्ता एव कथस्व मे ॥
भगवन्सर्वधर्मज्ञ प्रत्यक्षामलदर्थन ॥
कथानां तु प्रसङ्गेन प्रस्तुता याः कथाः पुरा ॥४॥
सुदूरमन्तरीभूत्वा रामस्य विदितात्मनः ॥
ता एव श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ॥५॥
लोकं वारुणमासाद्य रामो भृगुकुलोद्वहः ॥
श्रुतवान्देवदेवेशान्किन्नु भूयः प्रचेतसः ॥६॥
एतन्मे सर्वमाचक्ष्व तत्र मे संशयो महान् ॥
मार्कण्डेय उवाच ॥
कालस्य संख्यां तां श्रुत्वा रामप्रोक्तां प्रचेतसा ॥ ७ ॥
पप्रच्छ वरुणं देवं राजधर्मानतः परम् ॥
पृष्टस्तु जामदग्न्येन रामं प्राह जलेश्वरः॥८॥
राजधर्माञ्छृणुष्वार्य पुष्करात्तनयान्मम ॥
राजधर्माः श्रुतास्तेन देवाद्दशशतेक्षणान् ॥ ९ ॥
स यथावद्विजानाति राजधर्मान्द्विजोत्तम ॥
एवमुक्त्वा तदा राममानाय्य च तथा सुतम् ॥ १० ॥
उवाच भार्गवस्यास्य धर्मान्कथय पुत्रक ॥
यत्रयत्रास्य सन्देहो भविष्यति महात्मनः ॥ ११ ॥
तदुपानुद भद्रन्ते मम वाक्येन पुत्रक ॥
एवमुक्तस्तथेत्युक्त्वा गृहान्निन्ये भृगूत्तमम् ॥
तत्रास्य कथयामास राजधर्मान्महोदयान् ॥ १२ ॥
रामेण पृष्टो वरुणस्य पुत्रो जगाद धर्मान्नृपसत्तमानाम् ॥
द्रव्यान्महार्थान्भुवि पालनाय लोकस्य सर्वस्य नरेन्द्रचन्द्र ॥ १३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामस्य पुष्करगृहगमनं नाम प्रथमोऽध्यायः ॥ १ ॥
2.2
मार्कण्डेय उवाच ॥
सुखासीनो नरश्रेष्ठः पुष्करस्य निवेशने ॥
पप्रच्छ पुष्करं रामो धर्मनित्यो जितेन्द्रियः ॥ १ ॥
राम उवाच ॥
राष्ट्रस्य किं कृत्यतमं तन्माचक्ष्व पृच्छतः ॥
आदावेव महाभाग यादोगणनृपात्मज ॥ २ ॥
पुष्कर उवाच ॥
राष्ट्रस्य कृत्यं धर्मज्ञ राज्ञ एवाभिषेचनम् ॥
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत ॥ ३ ॥
अराजकेषु राष्ट्रेषु धर्मावस्था न विद्यते ॥
वर्णानामाश्रमाणां च व्यवस्थानं च भार्गव ॥ ४ ।
अराजकेषु राष्ट्रेषु नैव कन्या प्रदीयते ॥
विद्यते मम ता नैव तथा वित्तेषु कस्यचित् ॥ ५ ॥
स्वात्म्यो न्यायः प्रवर्तेत विश्वलोपस्तथैव च ॥
लोके न कश्चिद्विद्येत गुरोर्वचनकारकः ॥ ६ …
नाधीयीरँस्त्रयीं विद्यां त्रयो वर्णा द्विजातयः ॥
देवानां यजनं न स्यादनावृष्टिस्ततो भवेत् ॥ ७ ॥
नृलोकसुरलोकौ च स्यातां संशयितावुभौ …
जनमारी भवेद्घोरा यदि राजा न पालयेत् ॥८॥
प्रजानां रक्षणार्थाय विष्णुतेजोपबृंहितः ॥
मानुष्ये जायते राजा देवसत्त्ववपुर्धरः ॥ ९ ॥
यस्मिन्प्रसन्ने देवस्य प्रसादस्तूपजायते ॥
यस्मिन्क्रुद्धे जनस्यास्य क्रोधः समुपजायते ॥ १० ॥
महद्भिः पुण्यसम्भारैः पार्थिवो राम जायते ॥
यस्यैकस्य जगत्सर्वं वचने राम तिष्ठति ॥ ११ ॥
चातुर्वर्ण्यं स्वधर्मस्थं तेषु देशेषु जायते ॥
येषु देशेषु राजेन्द्र राजा भवति धार्मिकः ॥ १२ ॥
(मारकं न च दुर्भिक्षं नाग्निचौरभयं तथा ॥
न च व्यालभयं तेषां येषां धर्मपरो नृपः) ॥ १३ ॥
आदौ विन्देत नृपतिं ततो भार्यां ततो धनम् ॥
कुराजनि जनस्यास्य कुतो भार्या कुतो धनम् ॥ १४ ॥
तस्मात्सर्वप्रयत्नेन राष्ट्रमुख्ये नरेश्वरः ॥
परीक्ष्य पूर्वैः कर्तव्यो धार्मिकः सत्य सङ्गरः ॥ १५ ॥
येषां हि राजा भुवि धर्मनित्यस्तेषां न लोके भयमस्ति किञ्चित् ॥
तस्मात्प्रयत्नेन नरेन्द्र कार्यो राष्ट्रप्रधानैर्नृपतिर्विनीतः ॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये राजप्रशंसा नाम द्वितीयोऽध्यायः ॥ २ ॥
2.3
पुष्कर उवाच ॥
सर्वलक्षणलक्षण्यो विनीतः प्रियदर्शनः ॥
अदीर्घसूत्री धर्मात्मा जितक्रोधो जितेन्द्रियः ॥ १ ॥
स्थूललक्षो महोत्साहः स्मितपूर्वाभिभाषकः ॥
सुरूपः कुलसंपन्नः क्षिप्रकारी महाबलः ॥ २ ॥
ब्रह्मण्यश्चाविसंवादी दृढभक्तिः प्रियंवदः ॥
अलोलुपस्संयतवाग्गंभीरः प्रियदर्शनः ॥ ॥ ३ ॥
नातिदण्डो न निर्दण्डः चारचक्षुरजिह्मगः ॥
व्यवहारे समः प्राप्ते पुत्रस्य रिपुणा सह ॥ ४ ॥
रथे गजेऽश्वे धनुषि व्यायामे च कृतश्रमः ॥
उपवासतपःशीलो यज्ञयाजी गुरुप्रियः ॥ ५ ॥
मन्त्रिसांवत्सराधीनः समरेष्वनिवर्तकः ॥
कालज्ञश्च कृतज्ञश्च नृविशेषज्ञ एव च ॥ ६ ॥
पूज्यं पूजयिता नित्यं दण्ड्यं दण्डयिता तथा ॥
षाड्गुण्यस्य प्रयोक्ता च शक्त्युपेतस्तथैव च ॥ ॥ ७ ॥
उक्तैरनुक्तैस्तु गुणैरनेकैरलङ्कृतो भूमिपतिश्च कार्यः ॥
सम्भूय राष्ट्रप्रवरैर्यथावद्राष्ट्रस्य रक्षार्थमदीनसत्त्वः ॥ ८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये राजलक्षणं नाम तृतीयोऽध्यायः ॥ ३ ॥
2.4
॥ पुष्कर उवाच ॥
एवं गुणगणाकीर्णं वरयेयुर्नराधिपम् ॥
सम्भूय राष्ट्रप्रवराः क्षत्रियं तु कुलोद्गतम् ॥ १ ॥
वृतश्च तैर्व्रतं राजा गृह्णीयाद्विजितेन्द्रियः ॥
पालयिष्यामि वः सर्वान्धर्मस्थान्नात्र संशयः ॥ २ ॥
व्रतं गृहीत्वा राज्यार्थी वृणुयाद्ब्राह्मणोत्तमम् ॥
सांवत्सरं सुखायास्य सर्वस्य जगतो नृपः ॥ ३ ॥
सर्वलक्षणलक्षण्यं विनीतं प्रियदर्शनम् ॥
सुरूपं वेशसंपन्नं नित्यमूर्जितदर्शनम ॥ ४ ॥
अदीनवादिनं धीरं धर्मनित्यं जितेन्द्रियम् ॥
अव्यङ्गं नाधिकाङ्गं च वेदवेदाङ्गपारगम् ॥ ५ ॥
चतुःषष्ट्यङ्गतत्त्वज्ञमूहापोहविशारदम् ॥
भूतभव्यभविष्यज्ञं गणितज्ञं विशेषतः ॥ ६ ॥
विचन्द्रा शर्वरी यद्वन्मुकुटं च च्युतोपलम् ॥
गणितेन तथा हीनं ज्योतिषं नृपसत्तम ॥ ७ ॥
आस्तिकं श्रद्दधानं च अनुकूलं महीपतेः ॥
सांवत्सरं नृपो गत्वा वरयेत्प्रयतः शुचिः ॥ ८ ॥
येनाभिषिक्तो नृपतिर्विनष्टस्तु नराधिप ॥
सांवत्सरं न तं विद्वान्वरयेन्नृपसत्तम॥ ९ ॥
न हीनाङ्गं न वाचालं न च निष्प्रतिभं नृपः ॥
कुवेशमलिनं मुण्डं नास्तिकं पापनिश्चयम् ॥ १० ॥
भिन्नवृत्तिं च वरयेद्वरयेत्सद्गुणं सदा ॥
वरयित्वा तु वक्तव्याः स्वयमेव महीभुजा ॥ ११ ॥
यथैवाग्निमुखा देवास्तथा राजमुखाः प्रजाः ॥
यथैवाग्निमुखा मन्त्रा राज्ञां सांवत्सरास्तथा ॥ १२ ॥
त्वं मे माता पिता चैव देशिकश्च गुरुस्तथा ॥
दैवं पुरुषकारश्च ज्ञातव्यौ सततं त्वया ॥ १३ ॥
समधर्मज्ञ भद्रं ते राज्यं साधारणं हि नौ ॥
समानेयः शुभो देवस्त्वयैव मम सत्तम ॥ १४ ॥
पौरुषेण पदं कार्यं समरं च तथा मया ॥
स चेत्तदभिमन्येत पार्थिवस्य महागुणम् ॥ १५ ॥
अथवा गुणदोषेण प्रज्ञया चाशु यो नृणाम् ॥
दैवोपघातसमरे विज्ञानं पौरुषस्य च ॥ १६ ॥
वाडवं न च प्राज्ञस्तु तस्यैवानुमते तदा ॥
तेनोद्दिष्टौ तु वरयेद्राजा मन्त्रिपुरोहितौ ॥ १७ ॥
तेनोद्दिष्टां च वरयेन्महिषीं नृपसत्तमः ॥
ततोऽभिषेकसम्भाराँस्तस्य कुर्यात्स दैववित् ॥ १८ ॥
कुञ्जरं तुरगं कुर्यात्तस्य राज्ञः परीक्षितौ ॥
भद्रासनं च च्छत्रं च वालव्यजनमेव च ॥ १९ ॥
खड्गरत्नं तथा चापं रत्नानि विविधानि च ॥
राज्ञो मृतस्य ये त्वासन्सर्वाणि तु नराधिप ॥ २० ॥
ते न कार्या नरेन्द्रस्य तेन दैवविदा तथा ॥
कामं संवत्सरं कार्या अलाभेऽन्यस्य भूभुजा ॥ २१ ॥
गुणाधिकस्य नो कार्या येऽन्यत्राभिहिता मया ॥२२॥
न तत्र नागाः सुभृता न योधा राज्ञो न माता न पिता न बन्धुः ॥
यत्रास्य साध्यं भवतीह विद्वान्सांवत्सरो धर्मविदः प्रमत्तः ॥ २३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु सांवत्सरिक लक्षणं नाम चतुर्थोऽध्यायः ॥४॥
2.5
राम उवाच ॥
राज्ञा पुरोहितः कार्यस्तथा मन्त्री च कीदृशः ॥
महिषी च तथा ज्येष्ठा तन्ममाचक्ष्व पृच्छतः ॥ ॥ १ ॥
पुष्कर उवाच ॥
अव्यङ्गं लक्षणोपेतमनुकूलं प्रियंवदम् ॥
अथर्ववेदविद्वांसं यजुर्वेदविशारदम् ॥ २ ॥
द्विवेदं ब्राह्मणं राजा पुरोहितमथर्वणम् ॥
पञ्चकल्पविधानज्ञं वरयेत सुदर्शनम् ॥३॥
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ॥
चतुर्थोङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः ॥४॥
पञ्चकल्पविधानज्ञमाचार्यं प्राप्य भूपतिः ॥
सर्वोत्पातप्रशान्तात्मा भुनक्ति वसुधां चिरम् ॥५॥
स च राज्ञस्तथा कुर्यान्नित्यं कर्म सदैव तु ॥
नैमित्तिकं तथा काम्यं दैवज्ञवचने रतः ॥६॥
न त्याज्यस्तु भवेद्राजा दैवज्ञेन पुरोधसा ॥
पतितस्तु भवेत्त्याज्यो नात्र कार्या विचारणा ॥७॥
तथैव पतितौ राम न त्याज्यौ तौ महीभुजा ॥
तयोस्त्यागेन राजेन्द्र राज्यभ्रंशो विनिर्दिशेत ॥ ८ ॥
दुर्गतिः परलोके च बहुकालमसंशयम् ॥
सांवत्सरविरुद्धस्तु त्याज्यो राज्ञा पुरोहितः ॥
पुरोहितोऽन्यथा राज्ञो यथा माता यथा पिता ॥
अनिष्टमस्य व्यसनं हन्याद्दैवोपघातजम् ॥ १० ॥
ब्राह्मणो निष्कृतिस्तस्य कुत्र शक्या महीभुजा ॥
यावन्न राज्ञा विद्वांसौ सांवत्सरपुरोहितौ ॥ ११ ॥
वृत्तिच्छेदे तयो राज्ञः कुलं त्रिपुरुषं व्रजेत् ॥
नरकं वर्जयेत्तस्माद्वृतच्छेदं तयोः सदा ॥ १२ ॥
स्थावरेण विभागश्च तयोः कार्यो विशेषतः ॥
अनुरूपेण धर्मज्ञ सांवत्सरपुरोहितौ ॥ १३ ॥
भाव्यं सदा भार्गववंशचन्द्र पुरोहितस्यात्मसमस्य राज्ञा ॥
राज्ञो यथापि स्वजनेन भाव्यो विद्वान्प्रभुः स्यान्नृपतेः पुरोधाः ॥ १४ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरोहितलक्षणं नाम पञ्चमोऽध्यायः ॥ ५ ॥
2.6
॥ पुष्कर उवाच ॥ ॥
सर्वलक्षणलक्षण्यो मन्त्री राज्ञस्तथैव च ॥
ब्राह्मणो वेदतत्त्वज्ञो विनीतः प्रियदर्शनः ॥ १ ॥
स्थूललक्षो महोत्साहः स्वामिभक्तः प्रियंवदः ॥
बृहस्पत्युशनः प्रोक्तां नीतिं जानाति सर्वतः ॥ २ ॥
रागद्वेषेण यत्कार्यं न वदन्ति महीक्षितः ॥
लोकापवादाद्राजार्थे भयं यस्य न जायते ॥ ३ ॥
क्लेशक्षमस्तथा यश्च विजितात्मा जितेन्द्रियः ॥
गूढमन्त्रश्च दक्षश्च प्राज्ञो भक्तजनप्रियः ॥ ४ ॥
इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः ॥
शूरश्च कृतविद्यश्च न च मानी विमत्सरः ॥ ५ ॥
चारप्रचारकुशलः प्रणिधिप्रणयात्मवान् ॥
षाड्गुण्यविधितत्त्वज्ञ उपायकुशलस्तथा ॥ ६ ॥
वक्ता विधाता कार्याणां नैव कार्यातिपातिता ॥
समश्च राजभृत्यानां तथैव च गुणप्रियः ॥ ७ ॥
कालज्ञः समयज्ञश्च कृतज्ञश्च जनप्रियः ॥
कृतानामकृतानाञ्च कर्मणां चान्ववेक्षिता॥ ८ ॥
यथानुरूपमर्हाणां पुरुषाणां नियोजिता ॥
राज्ञः परोक्षे कार्याणि सम्पराये भृगूत्तम ॥ ९ ॥
कृत्वा निवेदिता राजन्कर्मणां गुरुलाघवम् ॥
शत्रुमित्रविभागज्ञो विग्रहास्पदतत्त्ववित् ॥ १० ॥
स राज्ञः सर्वकार्याणि कुर्याद्भृगुकुलोद्वह ॥
विदितानि यथा कुर्यान्नाज्ञातानि महीक्षिता ॥ ११ ॥
अज्ञातानि नरेन्द्रस्य कृत्वा कार्याणि भार्गव ॥
अचिरेणापि विद्वेषं स मन्त्री त्वधिगच्छति ॥१२॥
करोति यस्तु कार्याणि विविधानि महीपते ॥
भेदो नो तस्य भवति कदाचिदपि भूभुजा ॥ १३ ॥
एवंगुणो यस्य भवेच्च मन्त्री वाक्ये च तस्याभिरतस्य राज्ञः ॥
राज्यं स्थिरं स्याद्विपुला च लक्ष्मीर्वंशश्च दीप्तो भुवनत्रयेऽपि ॥ १४ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे मत्रिलक्षणं नाम षष्ठोऽध्यायः ॥ ६ ॥
2.7
॥ पुष्कर उवाच ॥ ॥
राज्ञाग्र्यमहिषी कार्या सर्वलक्षणपूजिता ॥
विनीता गुरुभक्ता च ईर्षाक्रोधविवर्जिता ॥ १ ॥
राज्ञः प्रियहितासक्ता चारुवेशा प्रियंवदा ॥
भृताभृतजनज्ञा च भृतानामनुवेक्षिणी ॥ २ ॥
अभृतानां जनानां च भृतिकर्मप्रवर्तिनी ॥
रागद्वेषवियुक्ता च सपत्नीनां सदैव या ॥ ३ ॥
भोजनासनपानेन सर्वेषामनुवेक्षिणी ॥
सपत्निपुत्रेष्वपि या पुत्रवत्परिवर्तते ॥ ४ ॥
मन्त्रिसंवत्सरामात्यान्या च पूजयते सदा ॥
ब्रह्मण्या च दयायुक्ता सर्वभूतानुकम्पिनी ॥ ५ ॥
कृताकृतज्ञा राज्ञश्च विदिता मण्डलेष्वपि ॥
परराजकलत्रषु प्रीयमाणा मुदा युता ॥६॥
दूतादिप्रेषणकरी राजद्वारेषु सर्वदा ॥
तद्द्वारेण नरेद्राणां कार्यज्ञा च विशेषतः ॥ ७ ॥
एवंगुणगणोपेता नरेन्द्रेण सहानघा ॥
अभिषेच्या भवेद्राज्ये राज्यस्थेन नृपेण वा ॥ ८ ॥
एवं यदा यस्य भवेच्च पत्नी नरेन्द्रचन्द्रस्य महानुभावा ॥
वृद्धिं व्रजेत्तस्य नृपस्य राष्ट्रं सचारकं नात्र विचारणास्ति॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अग्र्यमहिषीलक्षणं नाम सप्तमोऽध्यायः ॥ ७ ॥ ॥
2.8
राम उवाच ॥ पुरुषाणां तथा स्त्रीणां गजानां तुरगैस्सह ॥
वालव्यजनच्छत्राणां तथा भद्रासनस्य च ॥ १ ॥
रत्नानां धनुषां चैव खड्गस्य च सुरात्मज ॥
लक्षणं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः ॥ २ ॥
पुष्कर उवाच ॥
आदावेव प्रवक्ष्यामि पुरुषाणां तु लक्षणम् ॥
निबोध तन्मे गदतो भृगुवंशाविवर्धन ॥ ३ ॥
एकाधिको द्विशुक्लश्च त्रिभिर्व्याप्नोति यस्तथा ॥
त्रिवलीवाँस्त्रिविनतः त्रिकालज्ञश्च भार्गव ॥ ४ ॥
पुरुषः स्यात्सुलक्षण्यो विपुलश्च तथा त्रिषु ॥
चतुर्लेखस्तथा यश्च तथैव च चतुःसमः ॥ ५ ॥
चतुष्किष्कुश्चतुर्दंष्ट्रश्चतुष्कृष्णस्तथैव च ॥
चतुर्गंधश्चतुर्ह्रस्वः पञ्चसूक्ष्मस्तथैव च ॥ ६ ॥
पञ्चदीर्घो भृगुश्रेष्ठ तथैव च षडुन्नतः ॥
सप्तस्नेहोऽष्टवंशश्च नव स्थानामलस्तथा ॥ ७ ॥
दशपद्मो दशबृहन्न्यग्रोधपरिमण्डलः ॥
चतुर्दशसमद्वन्द्वः षोडशाख्यश्च शस्यते ॥ ८ ॥
राम उवाच ॥
एकाधिकाद्या ये प्रोक्ताः पुरुषस्य त्वया गुणाः ॥
तानहं श्रोतुमिच्छामि यथावद्वरुणत्मज ॥ ९ ॥
पुष्कर उवाच ॥
धर्मे चार्थे च कामे च जनः सर्वोऽभिषज्यते ॥
एकाधिकस्तु विज्ञेयो यस्तु धर्मे विशेषतः ॥ १ ०॥
तारकाभ्यां विना नेत्रे शुक्लाश्च दशनास्तथा ॥
द्वात्रिंशद्राम यस्य स्युर्द्विशुक्लः स तु कीर्तितः ॥ ॥११॥
उरो नाभिस्तथा सक्थिर्गंभीरा यस्य देहिनः ॥
प्रोच्यते स तु धर्मज्ञ त्रिगम्भीरो नरोत्तमः ॥
अनसूया दया क्षान्तिस्त्रिकमेकं प्रकीर्तितम् ॥ ॥१२॥
मङ्गलाचारसंस्पर्शः शौचं चेत्यपरं त्रयम् ॥
अनायासमकार्पण्यमैश्वर्यं च त्रयस्त्रिकाः॥
त्रिप्रलम्बो भुजाभ्यां तु वृषणेन च कीर्त्यते ॥
दिग्देशजातिसर्गैश्च तेजसा यशसा श्रिया ॥ १४ ॥
व्याप्नोति यो भृगुश्रेष्ठ त्रिभिर्व्याप्नोत्यसौ स्मृतः ॥
उदरे वलयस्तिस्रो गम्भीरा यस्य देहिनः ॥ १५ ॥
स उच्यते भृगुश्रेष्ठ त्रिवलीवान्नरोत्तमः ॥
देवतानां द्विजानां च गुरूणां च तथा नतः ॥ १६ ॥
पुरुषो भार्गवश्रेष्ठ प्रोक्तस्त्रिविनतः सदा ॥
धर्मस्यार्थस्य कामस्य संपत्कालविभागवित् ॥ १७ ॥
सेवते यश्च धर्मज्ञः प्रोच्यते स त्रिकालवित् ॥
उरौ ललाटं वक्त्रं च विस्तीर्णं यस्य देहिनः ॥ १८ ॥
कथितः स भृगुश्रेष्ठ विपुलस्त्रिषु मानवः ॥
द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ॥ १९ ॥
लेखाभिर्यस्य निर्दिष्टश्चतुर्लेखः स मानवः ॥
अङ्गुल्यो हृदयं पृष्ठं कटिर्यस्य तथा समाः ॥२० ॥
पुरुषः स भृगुश्रेष्ठ चतुस्सम उदाहृतः ॥
षष्णवत्यङ्गुलोत्सेधश्चतुष्किष्कुः प्रमाणतः ॥ २१ ॥
प्रमाणयोगाद्धर्मज्ञ चतुकिष्कुः स कीर्तितः ॥
दंष्ट्राश्चतस्रश्चन्द्राभा दशनेभ्यः समुन्नताः ॥ २२ ॥
किञ्चिद्यस्य स धर्मज्ञ चतुर्दंष्ट्रः प्रकीर्तितः ॥
नेत्रतारे भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ॥ २३ ॥
यस्येह स चतुष्कृष्णः प्रोच्यते मनुजोत्तमः ॥
नासायां वदने स्वेदे कक्ष्यासु च नरोत्तम ॥ २४ ॥
गन्धस्तु सुरभिर्यस्य चतुर्गन्धः स कीर्तितः ॥
बाहू जानूरुगण्डश्च चत्वार्यस्य समानि तु ॥ ॥ २८९ ॥
पुरुषस्य भृगुश्रेष्ठ चतुस्सम उदाहृतः ॥
आस्यासृङ्मध्यपद्मानां तुल्यो गन्धस्तु यस्य वै ॥ २६ ॥
कथितः स भृगुश्रेष्ठ चतुर्गन्ध इति द्विजैः ॥
ह्रस्वं लिङ्गं तथा ग्रीवा जंघे ह्रस्वे तु देहिनः ॥ २७ ॥
यस्य भार्गवशार्दूल चतुर्ह्रस्वः स कीर्तितः ॥
अङ्गुलीनां तु पर्वाणि नखकेशद्विजत्वचम् ॥
सूक्ष्मणि यस्य तं राम पञ्च सूक्ष्मं प्रचक्षते ॥ २८ ॥
हनू नेत्रे ललाटं च नासा चैव स्तनान्तरम् ॥
दीर्घाणि यस्य तं राम पञ्चदीर्घं विदुर्बुधाः ॥ २९ ॥
वक्षः कक्षौ नखा नासा मुखं चैव कृकाटिका ॥
षडुन्नतानि यस्येह तं वदंति षडुन्नतम ॥ ३० ॥
त्वक्केशलोमदंताश्च दृष्टिर्वाणी नखास्तथा ॥
स्निग्धा यस्येह तं प्राहुः सप्त स्निग्धं बहुश्रुताः ॥ ३१ ॥
जानुवंशावुभौ राम भुजवंशौ तथाप्युभौ ॥
ऊरुवंशद्वयं चैव पृष्ठवंशं च भार्गव ॥ ३२ ॥
नासावंशः समो यस्य सोऽष्टवंशः प्रकीर्तितः ॥
नेत्रे नासापुटौ कर्णौ मेढ्रपायू मुखं तथा ॥ ३३ ॥
छिद्रा नवैते विमला यस्य तं तु नवामलम् ॥
जिह्वोष्ठतालु नेत्रान्तर्हस्तपादनखाः स्तनौ ॥ ३४ ॥
शिश्नाग्रवक्षो यस्यैते पद्माभा दश देहिनाम् ॥
पाणी पादौ मुखं ग्रीवा श्रवणे हृदयं शिरः ॥ ३५ ॥
ललाटमुदरं पृष्ठं बृहन्तः पूजिता दश ॥
प्रसारितभुजस्येह मध्यमाग्रत्वयांतरात् ॥ ३६ ॥
उच्छ्रायेण समो यः स न्यग्रोधपरिमण्डलः ॥
कथितः स नृपश्रेष्ठः सर्वलक्षणपूजितः ॥ ३७ ॥
पादौ गुल्फौ स्फिचौ पार्श्वौ वृषणावक्षिणौ हनू ॥
कर्णोष्ठसक्थिनी जंघे हस्तौ बाहू तथा भ्रुवौ ॥ ३८ ॥
द्वन्द्वान्येतानि यस्य स्युः समानि तु चतुर्दश ॥
चतुर्दशसमद्वन्द्वः कथितः स नृपोत्तमः ॥ ३९ ॥
विद्यास्थानानि यानीह कथितानि चतुर्दश ॥
प्रपश्यति च यो राम नेत्राभ्यां च नरोत्तमः ॥ ४० ॥
सम्यक्स कथितो लोके षोडशाक्षो भृगूत्तम ॥
रूक्षं शिराततं गात्रं तथा मांसविवर्जितम ॥
दुर्गन्धि चाशुभं सर्वं विपरीतं च शस्यते ॥ ४१ ॥
दृष्टिः प्रसन्ना मधुरा च वाणी मत्तेभतुल्या च गतिः प्रशस्ता ॥
एकैककूपप्रभवाश्च रोमा सत्त्वं प्लुतं हासमनुल्बणं च ॥ ४२ ॥
श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषा परिगतस्य परेषु रक्षा ॥
एतानि यस्य पुरुषस्य भवंति काले तं धन्यमाहुरधिभूमि नरं द्विजेन्द्राः ॥ ४३ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरुषलक्षणं नामाष्टमोऽध्यायः ॥८॥
2.9
पुष्कर उवाच ॥
शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ॥
गुरूरुजघना या च मत्तपारावतेक्षणा ॥१ ॥
सुनीलकेशी तन्वङ्गी परपुष्टनिनादिनी ॥
तनुमध्या विलोमाङ्गी स्निग्धवर्णा मनोहरा ॥२॥
समग्रभूस्पृशौ यस्याश्चरणौ कमलोपमौ ॥
नाभिः प्रदक्षिणावर्ता संहतौ च तथा स्तनौ॥३॥
विभक्तमधरोष्ठं च दर्शनं मधुरं तथा ॥
गुह्यं प्रदक्षिणावर्तमश्वत्थदलसन्निभम्॥४॥
गुल्फौ निगूढौ गूढे च तथा यस्याः ककुन्दरे॥
मध्यनाभेश्च यस्याः स्याद्धस्तांगुष्ठप्रमाणतः ॥ ५॥
पिण्डिके च न सन्नद्धे न लम्बा च तथा कटिः ॥
जठरं च प्रलंबं च नयने च न केकरे ॥६॥
कचाश्च कपिशा केशाः केशा रूक्षास्तथैव च ॥
न च वृक्षनदीनाम्नी न देवगिरिनामिका ॥ ७ ॥
न चैवोरगगन्धर्वभूतप्रेतसनामिका ॥
न वाचाला न लुब्धा च न शठा कलहप्रिया ॥८॥
न लोलुपा न दुर्भावा न वा कुण्ठकपालिका ॥
देवद्विजातिसिद्धानां साधूनां पूजने रता ॥ ९ …
शीलोपेता गुणोपेता न शिराला न लोमशा ॥ १० ॥
गण्डैर्मधूकपुष्पाभैः स्निग्धैश्च दशनच्छदैः ॥
न संहतभ्रूः संश्लिष्टचरणांगुलिकुड्मला … ॥ ११ ॥
पतिप्रिया पतिप्राणा या नारी पतिदेवता ॥
अलक्षणापि संज्ञेया सर्वलक्षणसंयुता ॥ १२ ॥
भ्रुवं कनीनिका यस्या न स्पृशेत कथंचन ॥
न तां कुर्वीत भार्यार्थं मृत्युः सा कथिता बुधैः ॥१३॥
सरोममुत्तरोष्ठं च गण्डौ यस्याः सकूपकौ॥
अतिदीर्घा कषाया च चलन्मांसचया तथा ॥ १४ ॥
सा विवर्ज्या विशेषेण नरेण हितमिच्छता ॥ १५ ॥
संक्षेपतस्ते कथितं मयैतत्स्याल्लक्षणं चारु नितम्बिनीनाम् ॥
रहस्यमेतत्कथितं तु तत्र यत्राकृतिस्तत्र गुणा वसन्ति ॥ १६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे स्त्रीलक्षणं नाम नवमोऽध्यायः ॥ ९ ॥
2.10
पुष्कर उवाच ॥
नागाः प्रशस्ता धर्मज्ञ प्रमाणेनाधिकास्तु ये ॥
दीर्घहस्ता महोच्छ्वासा स्वासनाश्च विशेषतः ॥ १ ॥
निगूढवंशा मध्वाक्षा मूढा मूढोष्ठमस्तकाः ॥
विंशत्यष्टाधिकनखाः शीतकालमदाश्च ये॥२॥
येषां चैव कराः पादा दीर्घा लाङ्गूलमेव च॥
दक्षिणं चोन्नतं दीप्तं बृंहितं जलदोपमम् ॥ ३ ॥
अत्यर्थवेदना ये च शूराः शब्दसहिष्णवः ॥
कर्णौ च विपुलौ येषां सूक्ष्मबिन्दुयुतत्वचः। ४॥
ते प्रशस्ता महाभाग ये तथा सप्तसुस्थिताः ॥
दन्तच्छदेषु दृश्यन्ते येषां स्वस्तिकलक्षणाः ॥५॥
शृङ्गारवालव्यजनं वर्द्धमानाङ्कुशास्तथा ॥
ते धार्या न तथा धार्या वामना मत्कुणादयः ॥ ६ ॥
हस्तिन्यो याश्च गर्भिण्यो ये च मूढा मतङ्गजाः ॥
अपाकलाश्च कुब्जाश्च सद्दन्ता ये च भार्गव ॥ ७ ॥
कुदन्ताश्च तथा वर्ज्या वामकूटाश्च यत्नतः ॥
अस्रुस्पृशश्च कूटाश्च शठाश्च विकटाश्च य ॥ ८ ॥
राम उवाच ॥
वामनाद्यश्च ये नागाः प्रोक्ता निन्दितलक्षणाः ॥
तेषां तु श्रोतुमिच्छामि लक्षणं वरुणात्मज ॥ ९ ॥
॥ पुष्कर उवाच ॥
आयामेन न संपूर्णो योतिह्रस्वो भवेद्गजः ॥
वामनस्तु समाख्यातो मत्कुणो दन्तवर्जितः ॥ १० ॥
दशां चतुर्थीं संप्राप्य वर्धते यस्य न द्विजौ ॥
स्थूलावनायतौ स्यातां स मूढाख्यो गजाधमः ॥ ११ ॥
अपाकलो विशालेन दन्तेनैकेन वारणः ॥
संक्षिप्तवक्षोजघनः पृष्ठमध्यसमुन्नतः ॥ १२ ॥
प्रमाणहीनतन्नाभिः स कुब्जो वारणाधमः ॥
अत्युन्नतांसः सद्दन्तः कुदन्तः स्यान्नतो बहिः ॥ १३ ॥
वामदन्तोन्नतो नागो वामकूटश्च कथ्यते ॥
दन्तौ वक्त्रस्पृशौ यस्य सोऽस्रुस्पृक्कथितो गजः ॥ १४ ॥
एकदन्तस्तथा नागः कूट इत्यभिधीयते ॥
पादयोः सन्निकर्षः स्याद्यस्य नागस्य गच्छतः ॥ १५ ॥
स शठोध्वनि युद्धे च लक्षणज्ञैर्न्न पूजितः ॥
अरत्न्यभ्यधिकं यस्य विस्तरेण स्तनान्तरम् ॥ १६ ॥
विकटः स विनिर्दिष्टो दुर्गतिर्निन्दितो गजः ॥
राम उवाच ॥
श्रोतुमिच्छामि धर्मज्ञ कुञ्जरं सप्तसुस्थितम् ॥ १७ ॥
यं प्राप्य किल राजानो जयन्ति वसुधां नृपाः ॥
॥ पुष्कर उवाच ॥
वर्णं सत्त्वं बलं रूपं कान्तिस्संहननं जवम् ॥
सप्तैतानि सदा यस्य स गजः सप्तसुस्थितः ॥ १८ ॥
येषां भवेद्दक्षिणपार्श्वभागे रोम्णां च पुंजः पिटकोऽथवापि ॥
ते नागमुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र ॥ ५९ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे हस्तिलक्षणं नाम दशमोऽध्यायः ॥ १० ॥
2.11
॥ पुष्कर उवाच ॥
अश्वानामृषिभिः प्रोक्ता महादोषा भृगूत्तम ॥
यैरन्विता परित्याज्यास्तन्मे निगदतः शृणु ॥ १ ॥
हीनदन्तो द्विदन्तश्च कराली कृष्णतालुकः ॥
कृष्णजिह्वश्च यमजो जातमुष्कश्च यस्तथा ॥ २॥
द्विशफश्च तथा शृङ्गी नृवर्णो व्याघ्रवर्णकः ॥
खरवर्णो भस्मवर्णो जातवर्णश्च काकुदी ॥ ३ ॥
श्वित्री च काकसादी च खरशारस्तथैव च ॥
वानराख्यः कृष्णसटः कृष्णमुष्कस्तथैव च ॥ ४ ॥
कृष्णप्रोथश्च मूकश्च यश्च तित्तिरसन्निभः ॥
विषमश्वेतपादश्च ध्रुवावर्तविवर्जितः ॥ ५ ॥
अशुभावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः ॥
॥ राम उवाच ॥
वाजिनः के ध्रुवावर्ताः केषु स्थानेषु शोभनाः ॥
वाजिनः के तदा शस्तास्तन्ममाचक्ष्व पृच्छतः ॥ ६ ॥
पुष्कर उवाच ॥
रन्ध्रोपरन्ध्रयोर्द्वौद्वौ द्वौद्वौ मस्तकवक्षसोः ॥
प्रमाणे च ललाटे च ध्रुवावर्ता दश स्मृतः ॥ ७ ॥
एकोपि न भवेद्यस्य धुवावर्तस्तु वाजिनः ॥
न तं शंसन्ति धर्मज्ञ तस्मात्तं परिवर्जयेत ॥८॥
उत्तरोष्ठे भृगुश्रेष्ठ प्रमाणस्य तथोपरि ॥
नासापुटे तथा प्रोथे गण्डप्रोथाक्षिमध्यगः ॥९ ॥
कथयोरश्रुपातेन भ्रुवोः कण्ठाग्रयोस्तथा ॥
नाभ्यां हनुबला कक्षास्कन्धोपस्कन्धसन्धिषु ॥ १० ॥
विदो बाहुप्रदेशे च गलमध्ये तथैव च ॥
आसने ककुदे प्रोथे जानुजंघासु भार्गव ॥ ११ ॥
कुष्टिकानाभिकक्षासु मुष्कयोर्मूत्रदेशजः ॥
त्रिके च मूलपुच्छे च उपरि स्थूणयोस्तथा ॥ १२ ॥
पिण्डयोर्जठरे चैव सीवनीयोपकुक्षिषु ॥
आवर्त्तैर्वर्जनीयाः स्युः प्रयत्नेन तुरङ्गमाः ॥ १३ ॥
ककुदे कर्णयोश्चैव यस्यावर्तः कुवाजिनः ॥
अत्यन्तमप्रशस्तं तं राजा राष्ट्राद्विवासयेत् ॥ १४ ॥
हस्तिदेवमणिः सर्वं पूर्वकायेषु लक्षणः ॥
सुव्यक्तो रोचमानो वा न तु काकुदिनं क्वचित॥१५॥
मेखला वाप्यधःकायाद्धन्यादावर्तसम्भवम् ॥
दोषान्सर्वांस्तुरङ्गस्य न हन्यात्काकसादिनम् ॥ १६ ॥
अतः परं प्रवक्ष्यामि शुभमावर्तलक्षणम् ॥
सृक्किण्योश्च ललाटे च तथा श्रवणमूलयोः ॥ १७ ॥
निगाले च तथा कण्ठे स्तुतकेशान्तयोस्तथा ॥
बाहुमूले तथा शस्ता रोमजातास्तुरङ्गमाः ॥ १८ ॥
आवर्तस्तु निगालस्थो ज्ञेयो देवमणिः शुभः ॥
कण्ठजो रोचमानश्च सर्वावर्त्तो जनाधिपः ॥ १९ ॥
अर्केन्द्रगोपचन्द्राभा ये च वायस सन्निभाः ॥
सुवर्णवर्णाः स्निग्धाश्च प्रशस्यन्ते सदैव ते ॥ २० ॥
दीर्घग्रीवाक्षकूटाश्च ह्रस्ववर्णाश्च ये तथा ॥
ह्रस्वप्रोथाश्च शस्यन्ते मेघौघसदृश स्वनाः ॥
पृथूरुपादजवना मुखपुण्ड्राश्च वै हयाः ॥२१ ॥
चन्द्रांशुशुक्लास्तुरगाः प्रशस्ताः कर्णान्तकेशैर्गवलालिवर्णैः ॥
ये रक्तवर्णाश्च समग्रपादैः शुक्लाश्च वर्णैश्च महानुभावाः ॥ २२ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अश्वलक्षणं नामेकादशोऽध्यायः ॥ ११ ॥
2.12
पुष्कर उवाच ॥
चमरीबालसम्भूताः शशाङ्कांशुसमप्रभाः ॥
संहताः स्निग्धदीर्घाश्च तथा स्थालिनिबन्धनाः ॥ १ ॥
दण्डश्च चामरे कार्यो रुक्मरूप्यमयस्तथा ॥
प्रवालवैडूर्यमयस्तथैव कनकान्वितः ॥२॥
क्षीरवृक्षस्य वा कार्यो रुक्मरूप्यनिबन्धनः ॥
रत्नैः प्रशस्तैश्चित्रो वा काञ्चनस्य प्रशस्यते ॥ ३ ॥
चन्दनस्याथ दन्तस्य शार्ङ्गः कार्यो यथा भवेत ॥
अर्धहस्तान्न चाप्यूनो मध्यर्धान्न तथाधिकः ॥ ४ ॥
कर्तव्यं चामरं राज्ञा न च भार्गव रञ्जितम ॥५॥
आपीतवर्णं तु भवेत्प्रशस्तं सांवत्सरामात्यपुरोहितानाम् ॥
नरेन्द्रपत्नीयुवराजसैन्यस्यालस्य शेषस्य जनस्य कृष्णः ॥ ६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चामरलक्षणं नाम द्वादशोऽध्यायः ॥१२ ॥
2.13
पुष्कर उवाच ॥
हंसपक्षैर्विरचितं मयूरस्य शुकस्य च ॥
पक्षैरथ बलच्छाया च्छत्रं राज्ञः प्रशस्यते ॥ १ ॥
मित्रपक्षं न कर्तव्यं हीनं परिमितं तथा ॥
चतुरस्रं तु कर्तव्यं ब्राह्मणस्य भृगूत्तम॥ २ ॥
वृत्तं राज्ञां प्रशस्तं स्याच्छुक्लवस्त्रविभूषितम् ॥
सितं दूकूलसंछन्नं पताकाभिर्विभूषितम् ॥ ३ ॥
एतस्मिन्दिग्विभागे तु कार्याश्चन्द्रांशुनिर्मलाः ॥
चतस्रस्तस्य धर्मज्ञ पताका रुक्मभूषिताः ॥४॥
दण्डं चामरवत्कार्यं वैणवं च प्रशस्यते॥
त्रिचतुःपञ्चषड्सप्तचाष्टपर्वः प्रशस्यते ॥ ५ ॥
दशद्वादशभिर्वापि शेषैस्तु परिवर्जयेत् ॥
छत्रं दण्डोग्रपर्वाणं दण्डः सर्वत्र शस्यते ॥ ६ ॥
धारयन्ति च दण्डं वै वैणवं गृहमेधिनः ॥
राज्ञां प्रशस्तं षड्ढस्तं छत्रदण्डं भृगूत्तम ॥ ७॥
अथ पञ्चोनहस्तं तु महिषीयुवराजयोः ॥
सेनापतिसुराध्यक्षसांवत्सरपुरोहितैः ॥८॥
पञ्चहस्तस्तु कर्तव्यश्छत्रदण्डो भृगूत्तम ॥
चतुर्हस्तस्तु कर्तव्यो मया येऽत्र न कीर्तिताः ॥ ९ ॥
व्यासो दण्डार्धमानेन सदा छत्रस्य शस्यते ॥
छत्रं विभूषयेद्राज्ञां त्वर्धचन्द्रदिवाकरैः ॥१०॥
वज्रेन्द्रनीलैः स्फटिकैश्च राम वैदूर्यमुक्ताफलसत्प्रवालैः ॥
विभूषितं रश्मियुतं प्रशस्तं सदातपत्रं तु महीपतीनाम् ॥ ११ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे छत्रलक्षणं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
2.14
पुष्कर उवाच ॥
भद्रासनं नरेन्द्रस्य क्षीरवृक्षेण कारयेत् ॥
उच्छ्रायश्च तथा तस्य अध्यर्धं तु समं भवेत् ॥ १ ॥
हस्तत्रयं तथा विष्टं विस्तरेण तु कारयेत् ॥
आयामश्चास्य कर्तव्यो विस्तरेणार्धसम्मितः ॥ २ ॥
चतुरस्रं तु कर्तव्यं राज्ञो भद्रासनं शुभम्॥
नाष्टास्रं न तथा वृत्तं न च दीर्घं भृगूत्तम ॥३॥
सुवर्णरूप्यताम्रैश्च चित्रं कार्यं विशेषतः ॥
रत्नैः प्रशस्तैर्न तथा न रत्नप्रतिरूपकैः ॥ ४ ॥
चत्वारः पुरुषास्तत्र विन्यस्ता भृगुनन्दन ॥
द्विगुणाश्च तथा सिंहास्तेभ्यस्तु द्विगुणास्तथा ॥ ५ ॥
भद्रासनं तत्र भवेन्नृपस्य तलेन पूर्णं ससुखं परार्ध्यम् ॥
वैयाघ्रचर्मास्तरणं सुखार्थं वरासनं तस्य समामनन्ति ॥ ६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे भद्रासनलक्षणं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
2.15
पुष्कर उवाच ॥
वज्रं मरकतं चैव पद्मरागं च मौक्तिकम् ॥
इन्द्रनीलं महानीलं वैडूर्यमथ सस्यकम् ॥ १ ॥
इन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ॥
कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज॥ २ ॥
स्फटिकं राजवर्तं च तथा राजमयं शुभम् ॥
सौगंधिकं तथा सख्यं शङ्खब्रह्ममयं तथा ॥ ३ ॥
गोमेधं रुधिराक्षं च तथा बल्लातकं द्विज ॥
धूलीमरकतं चैव तुत्तूकं शेषमेव च ॥ ४ ॥
पलुं प्रवालकं चैव गिरिवज्रं च भार्गव ॥
भुजगेशमणिं चैव तथा वज्रमणिं शुभम् ॥ ५ ॥
टीटिभं च तु तापिच्छं भ्रामरं च तथोत्पलम् ॥
रत्नान्येतानि धार्याणि सर्वाण्येव महीक्षिता ॥ ६ ॥
सुवर्ण प्रतिबद्धानि जयारोग्यसमृद्धये ॥
तेषां गुरुत्वं रागश्च स्वच्छत्वं रश्मिमालिता ॥ ७ ॥
सुजातता मसृणता सुसंस्थानत्वमेव च ॥
गुणवन्तो विनिर्दिष्टा धार्यास्ते गुणसंयुताः ॥ ८ ॥
खंडास्सशर्करा ये च निष्प्रभा मलिनास्तथा ॥
न ते धार्या नरेन्द्राणां जयश्रीजीवितैषिणाम् ॥ ९ ॥
समस्तरत्नवर्गेऽपि वज्रधारणमिष्यते ॥
अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् ॥ १० ॥
तथा च शुद्धं षट्कोणं लघु भार्गवनन्दन ॥
प्रभा च शक्रवापाभा यस्यार्काभिमुखी भवेत् ॥ ११ ॥
तं वज्रं धारयन्राजा सर्वाञ्जयति शात्रवान् ॥
शुक्लपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा ॥ १२ ॥
सुवर्णचूर्णसंकाशैः सूक्ष्मैर्बिन्दुभिरन्वितः ॥
शस्तो मरकतो राम गम्भीरश्चोन्नतस्तथा ॥ १३ ॥
धार्यश्च पृथिवीशानां सर्वोपद्रवनाशनः ॥
कुरुविन्दाद्भवेज्जन्म तथा सौगन्धिकाद्द्विज ॥१४॥
स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम् ॥
जहरङ्गा भवन्तीह कुरुविन्दभवाश्च ये ॥१५॥
कषायरङ्गा निर्दिष्टा ये च सौगन्धिकोद्भवाः ॥
स्वच्छाश्च रागवन्तश्च विज्ञेयाः स्फटिकोद्भवाः ॥ १६ ॥
मुक्ताफलाः शुक्तिभव बहवो मत्स्यजास्तथा ॥
उत्कृष्टा न तथा तेभ्यो ये तु शङ्खोद्भवा द्विज ॥१७॥
तेभ्यः प्रशस्ता विज्ञेया नागकुम्भसमुद्भवाः ॥
निष्प्रभास्ते समुद्दिष्टाः श्रेष्ठाः क्रोडिभवा द्विज ॥१८॥
तेभ्यो वेणुदलाः श्रेष्ठास्तेभ्यो भुजङ्गसम्भवाः ॥
तेभ्योऽपि भुविदुष्प्राप्यं मौक्तिकं मेघसम्भवम् ॥ १९ ॥
धारणात्तस्य नृपतेः सर्वसिद्धिः प्रकीर्तिता ॥
मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते ॥ २० ॥
सुष्ठुता च सुशुक्लत्वं महत्त्वं च भृगूत्तम ॥
इन्द्रनीलस्तु यः क्षीरं राजते भाजने स्थितम्॥ २१ ॥
रञ्जयेत्स्वप्रभावेन तममूल्यं विनिर्दिशेत् ॥
नीलरक्तं तु वैडूर्यं सर्वतः श्रेष्ठमुच्यते ॥ २२ ॥
सर्वेषामेव रत्नानां धार्यं कर्केतनं स्मृतम् ॥
पुष्परागास्तथा राम ये चान्ये कीर्तिता मया ॥ २३ ॥
प्रशस्तरत्नैर्भूपानां मुकुटान्यङ्गदानि च ॥
हाराणि राम कार्याणि केयूराभरणानि च ॥ २४ ॥
अप्रशस्तानि रत्नानि वर्जनीयानि दूरतः ॥
सर्वरत्नोत्तमं राजा विवर्णं मलिनं तथा ॥ २५ ॥
न धारयेत धर्मज्ञः सुशुद्धं धारयेत्सदा ॥
धृतिः प्रशस्ता भृगुवंशचन्द्र रत्नोत्तमानां सततं नृपाणाम् ॥
रत्नांशुदग्धं तु नरस्य देहादनर्थमाशु प्रशमं प्रयाति ॥ २६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रत्नलक्षणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
2.16
॥ पुष्कर उवाच ॥ ॥
धनुर्द्रव्यत्रयं लोहं शृङ्गं चारु च भार्गव ॥
ज्याद्रव्यत्रितयं चर्म वंशभंगं त्वचस्तथा ॥ १ ॥
वंशत्वग्वंशचापं तु कर्तव्यं भृगुनन्दन ॥
अन्येषु राम चापेषु शेषद्रव्यमिदं भवेत ॥ २ ॥
प्रमाणं नात्र निर्दिष्टं चापयोः शार्ङ्गलोहयोः ॥
दारुचापप्रमाणं तु श्रेष्ठं हस्तचतुष्टयम् ॥ ३ ॥
तदर्धसमहीने तु प्रोक्ते मध्यकनीयसी ॥
मुष्टिग्राह्याणि वृत्तानि मध्ये सर्वाणि कारयेत् ॥ ४ ॥
स्वल्पा कोटिस्तु वार्क्षाणां शार्ङ्गलौहमयी द्विज ॥
कामिनीभ्रूलताकारा कोटिः कार्या सुसंस्कृता ॥५॥
पृथग्वा दारुमिश्रो वा लोहशार्ङ्गे तु कारयेत् ॥
शार्ङ्गं स्नायुचितं कार्यं रुक्मबिन्दुविभूषितम् ॥ ६ ॥
कुटिलस्फुटितं चापं सच्छिद्रं च न शस्यते ॥
हस्तिभग्ना द्रुमा ये च विद्युद्दग्धास्तथा च ये ॥ ७ ॥
आरामदेवतावेश्मतापसाश्रमसंभवाः ॥
श्मशानसंभवा ये च न ते कार्याः कथंचन ॥ ८ ॥
प्राणिनां यः सजात्येन शृङ्गी युधि निपातितः ॥
तच्छृङ्गं वर्जयेच्चापं नित्यं शार्ङ्गे विचक्षणः ॥ ९ ॥
लोहानि राम चत्वारि शस्यन्ते चापकर्मणि ॥
सुवर्णं रजतं ताम्रं तथा कृष्णायसं द्विज ॥ १० ॥
काञ्चनं चापरत्नं तु सरत्नमपि कारयेत् ॥
माहिषं शारभं शार्ङ्गं रौहीजं चापि कारयेत् ॥ ११ ॥
वार्क्षं चन्दनजं श्रेष्ठं वैतसं धान्वतं तथा ॥
सालशाल्मलिकाशानां ककुभस्याञ्जनस्य च ॥ १२ ॥
वंशस्य च महाभाग सर्वश्रेष्ठतमं विदुः ॥
शरद्गृहीतैः काष्ठैस्तु चापं कार्यं प्रयत्नतः ॥ १३ ॥
वंशानामपि तच्छ्रेष्ठं यत्र गङ्गा महानदी ॥
सालानामपि तच्छ्रेष्ठं गोमती यत्र भार्गव ॥ १४ ॥
वितस्ताकूलजं श्रेष्ठं वेतसीनां तथैव व ॥
एवं द्रव्यमयं कार्यं चापं लक्षणसंयुतम् ॥१५॥
ग्रहण लक्षणं चास्य भविष्यति च खड्गवत् ॥
सुखग्राहं दृष्टिकान्तं शरमोक्षमुखं तथा ॥ १६ ॥
श्लक्ष्णं श्लिष्टं सुसंस्थानं सारवन्तं सुसंहतम् ॥
अवनामसुखं नित्यं पुंनामनवलोत्कटम् ॥१७॥
एतदीदृशकं श्रेष्ठं चापरत्नं विदुर्बुधाः ॥
राज्ञा चापस्य कर्तव्या पूजा बाणवरस्य च ॥ १८ ॥
नित्यं देवकुले राम खड्गस्य च विशेषतः ॥
अयसश्चाथ वंशस्य शरस्याथ शरो भवेत् ॥ १९ ॥
शरवंशौ ग्रहीतव्यौ शरत्काले भृगूत्तम ॥
शराः किरातजाः श्रेष्ठाः काञ्चीपुरसमीपतः ॥ २० ॥
तेभ्योऽपि ते श्रेष्ठतमाः स्कन्दजन्ममहीभवाः ॥
स्निग्धा निमग्नपर्वाणः सारवन्तः समाहिताः ॥ २१ ॥
ऋजवो मधुवर्णाभाः सुजाताः शारदा दृढाः ॥
स्नायुश्लिष्टाः सुनेत्राश्च सुपुङ्खाः कलवाससः ॥ २२ ॥
तैलधौताश्च कर्तव्या रुक्मपुङ्खविभूषणाः ॥
तथा विषमपर्वाणः फलैश्च व्रणवर्जितैः ॥ २३ ॥
एक त्रिपुङ्खं कर्तव्यं राजहंसच्छदोत्तरम् ॥
रुक्मपुङ्खसुवर्णाग्रमयःफलमनुत्तमम् ॥२४॥
स्नायुबद्धं बलं तस्य रुक्मबन्धं तु कारयेत् ॥
वज्रैश्च लक्षणोपेतैश्चित्रितं तं तु कारयेत्॥२५॥
ग्रहणं तस्य कर्तव्यं सांवत्सरकरान्नृपैः ॥
तस्य पूजा सदा कार्या साभिषेकसमा भवेत् ॥ २६ ॥
यात्रायामभिषेके च मङ्गलेषु च कर्मसु ॥
सपताके तु तं चापं सपताकं तु कारयेत् ॥
मङ्गल्यं तन्नरेन्द्राणां कथितं भृगुनन्दन ॥ २७ ॥
ये चापरत्नं विनतं तु भूपाः सुवर्णरत्नोपचितं सदैव ॥
बाणेन साकं परिपूजयन्ति भवन्ति ते राम विपन्नदुःखाः ॥ २८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चापशरलक्षणं नाम षोडशोऽध्यायः ॥ १६ ॥
2.17
॥ पुष्कर उवाच ॥
पुरा सुमेरुशिखरे काञ्चने रत्नपर्वते ॥
स्वर्गङ्गायास्तटे ब्रह्मा यज्ञं यजति भार्गव ॥ १ ॥
तस्मिन्यज्ञे स ददृशे विघ्नं खे लोहदानवम् ॥
विघ्नस्य शमनं तस्य चिन्तयामास तत्त्ववित् ॥ २ ॥
तदा चिन्तयतस्तस्य पुरुषः पावकाद्बभौ ॥
नीलोत्पलदलश्यामः स्वरुचा वञ्चितेक्षणः ॥ ३॥
प्रांशुः सुवदनः श्रीमान्बलेनाप्रतिमो भुवि ॥
स ववन्दे तदा गत्वा देवं कमलसम्भवम् ॥ ४ ॥
अभ्यनन्दन्त जातेन तेन देवास्सवासवाः ॥
तस्मात्स नन्दको नाम खङ्गरत्नमभूत्तदा ॥ ५ ॥
तं दृष्ट्वा भगवान्ब्रह्मा केशवं वाक्यमब्रवीत् ॥
खड्गं गृह्णीष्व गोप्तारं धर्मस्य जगतां पते ॥ ६ ॥
यज्ञविघ्नकरं हत्वा खड्गेनानेन केशव ॥
निपातय महाबाहो बलिनं लोहदानवम् ॥ ७ ॥
इत्येवमुक्तो जग्राह ग्रीवया तं जनार्दनः ॥
गृहीतमात्रे देवेन विकोशः समपद्यत ॥ ८ ॥
खड्गः कमलपत्राक्षो नीलोत्पलसमद्युतिः ॥
रत्नमुष्टिर्महान्राम निर्मलाकाशसन्निभः ॥ ९ ॥
एतस्मिन्नन्तरे तत्र व्यदृश्यत तदा महान् ॥
करालः कृष्णवदनः शतबाहुर्महोदरः॥ १०॥
प्रांशुः सुवृत्तदंष्ट्राग्रो बलवाँल्लौहदानवः ॥
यज्ञविघ्नार्थिनं प्राप्तं स दृष्ट्वा लोहदानवम् ॥ ११ ॥
खड्गमादाय वेगेन ययौ तं प्रति केशवः ॥
स केशवमनादृत्य देवाञ्छक्रपुरोगमान् ॥ १२ ॥
विद्रावयामास तदा गदया भीमवेगया ॥
तदा भग्नेषु देवेषु युद्धं कृत्वा हरिश्चिरम् ॥ १३ ॥
खड्गेन तस्य गात्राणि चिच्छेद मधुहा रणे ॥
खड्गच्छिन्नानि गात्राणि नानादेशेषु भूतले ॥ १४ ॥
निपेतुस्तस्य धर्मज्ञ शतशोऽथ सहस्रशः ॥
नन्दकस्य तु संस्पर्शात्तानि गात्राणि भार्गव ॥ १५ ॥
लोहीभूतानि सर्वाणि प्रसादात्केशवस्य तु ॥
हतायास्मै वरं प्रादाद्भगवान्मधुसूदनः ॥ १६ ॥
त्वदङ्गानि पवित्राणि भविष्यन्ति महीतले ॥
आयुधानि च तैर्लोके करिष्यन्तीह मानवाः॥१७॥
एवमुक्त्वा हरिर्देवो ब्राह्मणं वाक्यमब्रवीत् ॥
विना विघ्नं मखमिदं कुरु शीघ्रं जगद्गुरो॥१८॥
एवमुक्तस्तदा ब्रह्मा यज्ञेन मधुसूदनम् ॥
आत्मना पूजयामास सुसमिद्धमनोरथः॥१९॥
उत्पत्तिरुक्ता खड्गस्य लोहस्य च मया तव ॥
अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् ॥ २० ॥
प्रधानदेहसंभूतैर्दैत्यास्थिभिररिन्दम ॥
लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः ॥ २१ ॥
कटीकदूरऋषिकं वङ्गे शूर्पाकरेषु च ॥
विदेहेषु तथाङ्गेषु मध्यमं ग्रामचेदिषु ॥ २२ ॥
सहग्रामेषु नीपेषु तथा कालञ्जरेपि च ॥
लौहं प्रधानं तज्जानां खड्गानां शृणु लक्षणम् ॥२३॥
कटीकदूरजाता ये दर्शनीयास्तु ते स्मृताः ॥
कायच्छिन्नास्तु ऋषिका मर्मघ्ना गुरवस्तथा ॥२४॥
तीक्ष्णाश्छेदसहा वाङ्गा दृढा शूर्पारिकोद्भवाः ॥
सुहस्ताश्चैव विज्ञेया प्रभावन्तो विदेहजाः ॥२५ ॥
अंगदेशोद्भवास्तीक्ष्णाश्चेदि देशसमुद्भवाः ॥
कालिञ्जरा भारसहास्तथा वक्ष्यामि लक्षणम् ॥ २६ ॥
सुप्रमाणांगुलास्ते तु श्रेष्ठा खड्गाः प्रमाणतः ॥
प्रमाणं तत्र विज्ञाय ततो हीनं न धारयेत् ॥ २७ ॥
प्रमाणाभ्यधिकं चैव च्छिन्नवंशं तथैव च ॥
शीघ्रः सुमधुरः शब्दो यस्य खड्गस्य भार्गव ॥ २८ ॥
किङ्किणी सदृशस्तस्य धारणं श्रेष्ठमुच्यते ॥
खड्गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते ॥२९॥
करवीरपलाशाग्रसदृशस्य विशेषतः ॥
महीघृतसुगन्धश्च पद्मोत्पलसुगन्धिकः ॥ ३० ॥
वर्णतश्चोत्पलाकारः सवर्णो णगनस्य च ॥
समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव ॥ ३१ ॥
श्रीवृक्षपर्वता कारवंशपद्मनिभाश्च ये ॥
मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव ॥ ३२ ॥
काकोलूककबन्धाभा विषमाङ्गुलसंस्थिताः ॥
वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन ॥ ३३ ॥
न खड्गे वदनं पश्येद्वृथा विवृणुयान्न च ।
उच्छिष्टो न स्पृशेत्खड्गं निशि कुर्याच्च शीर्षके ॥
दिवा च पूजयेदेनं गन्धमाल्यानुसंपदा ॥३४॥
खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दनचूर्णयुक्ते ॥
संस्थापयेद्भूमिपतिः प्रयत्नाद्रक्षेत्तथैनं स्वशरीरवच्च ॥ ३५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे खड्गलक्षणं नाम सप्तदशोऽध्यायः ॥ १७ ॥
2.18
पुष्कर उवाच ॥
इति सम्भृतसम्भारो राज्ञस्सांवत्सरस्तथा ॥
कालेऽभिषेचनं कुर्यात्तं कालं कथयामि ते ॥ १ ॥
मृते राज्ञि न कालस्य नियमोऽत्र विधीयते ॥
तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः ॥ २ ॥
घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ ॥
अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः ॥ ३ ॥
स सान्त्वयित्वा स्वजनं भुक्त्वा बन्धनगांस्तथा ॥
अभयं घोषयित्वा च कालाकांक्षी तथा भवेत् ॥ ४ ॥
नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव ॥
न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि द्विज ॥ ५ ॥
न च भौमदिने राम चतुर्थ्यां न तथैव च ॥
नवम्यां नाभिषेक्तव्यः चतुर्दश्यां च भार्गव ॥ ६ ॥
ध्रुवाणि वैष्णवं शाक्रं हस्तपुष्ये तथैव च ॥
नक्षत्राणि प्रशस्यन्ते भूमिपालाभिषेचने ॥ ७ ॥
नागश्चतुष्पदं विष्टिः किंस्तुघ्नः शकुनिस्तथा ॥
करणानि न शस्यन्ते व्यतीपातदिनं तधा ॥ ८ ॥
नक्षत्रमुल्काभिहतमुत्पाताभिहतं तथा ॥
सौरसूर्यकुजाक्रान्तं परिविष्टिञ्च भार्गव ॥ ९ ॥
मुहूर्ताश्चोक्तनक्षत्राः सतां मानहितप्रदाः ॥
कुजहोरा तथा नेष्टा सर्वत्र कुलिकस्तथा ॥ १० ॥
वृषोऽथ कीटसिंहौ च कुम्भो लग्ने च शस्यते ॥
एतेषां जन्मलग्नाभ्यां यः स्यादुपचयस्थितः ॥ ११ ॥
तारा द्वितीया षष्ठी च चतुर्थी चाष्टमी च या ॥
नवमी च तथा शस्ता अनुकूलश्च चन्द्रमाः ॥ १२ ॥
सौम्याः केन्द्रगता लग्ना शुभाश्चैव त्रिकोणयोः ॥
पापाश्चोपचय स्थाने शस्तो लग्ने दिवाकरः ॥ १३ ॥
लग्ने नवांशः क्षितिजस्य वर्ज्यो वर्गस्तथा तस्य महानुभाव ॥
सूर्यस्य वर्गः सकलः प्रशस्तो राज्ञोऽभिषेके सग्रहो नृपाणाम् ॥ १४ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादेऽअभिषेककालनिर्णयं नामाष्टादशो ऽध्यायः ॥ १८ ॥
2.19
पुष्कर उवाच ॥
कार्या पौरन्दरी शांतिः प्रागेवास्य पुरोधसा ॥
प्राप्तेभिषेकदिवसे सोपवासः पुरोहितः ॥ १ ॥
सोष्णीषः श्वेतवसनः सितचन्दनभूषितः ॥
सितमाल्योपवीतश्च सर्वाभरणभूषितः ॥२॥
वेदिमुल्लिख्य यत्नेन कृत्वा च विधिवत्ततः ॥
जुहुयाद्वैष्णवान्मन्त्रांस्तथा शाक्रान्विचक्षणः ॥ ३ ॥
सावित्रान्वैश्वदेवांश्च सौम्यां च विधिवत्ततः ॥
शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम् ॥ ४ ॥
आयुष्यमभयं चैव तथा चैवापराजितम् ॥
सपातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ॥ ५ ॥
वह्नेर्दक्षिणपार्श्वस्थः श्वेतचन्दनभूषितः ॥
श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ॥ ६ ॥
आसनस्थमुखं पश्येन्निमित्तानि हुताशने ॥ ७ ॥
पश्येयुरन्ये च तथा नृसिंह दैवज्ञवाक्यान्निपुणं स्वरूपम् ॥
सांवत्सरस्याथ सदस्यमुख्याः सदस्यमुख्याश्च पुरोहितस्य ॥ ८ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरंदरशांतिर्नामैकोनविंशतितमोऽध्यायः ॥१९॥
2.20
पुष्कर उवाच ॥
प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ॥
रथौघमेवनिर्घोषो विधूमश्च हुताशनः ॥१ ॥
अनुलोमसुगन्धश्च स्वस्तिकाकारसन्निभः ॥
वर्धमानाकृतिश्चैव नन्द्यावर्तनिभस्तथा ॥ २ ॥
प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ॥
स्वाहावमाने ज्वलनः स्वयं देवमुखं हविः ॥ ३ ॥
यदा भुङ्क्ते महाभाग तदा राज्ञो हितं भवेत् ॥
हविषस्तु यदा वह्नेर्नस्यात्सिमिसिमायितम् ॥ ४ ॥
न वर्जेयुश्च मध्येन मार्जारमृगपक्षिणः ॥
पिपीलकाश्च धर्मज्ञ तदा भूयाज्जयी नृपः ॥ ५ ॥
मुक्ताहारमृणालाभे वह्नौ राज्ञां जयो भवेत् ॥
तथैव च जयं ब्रूयात्प्रस्तरस्य प्रदायिनि ॥ ६ ॥
संक्षेपतस्तेऽभिहितं मयाद्य यल्लक्षणं चारु हुताशनस्य ॥
सर्वाग्निकर्मस्वथ तेन विद्वान्भूयात्त्रिलोके तु जयी द्विजेन्द्र ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वह्निलक्षणं नाम विंशतितमोऽध्यायः ॥ २० ॥
2.21
॥ पुष्कर उवाच ॥ ॥
स्नानं समाचरेद्राज्ञो होमकाले पुरोहितः ॥
आदौ तु स्वेच्छया स्नातः पुनर्मृद्भिः समाचरेत् ॥ १ ॥
पर्वताग्रमृदा तावन्मूर्धानं शोधयेन्नृपः ॥
वल्मीकाग्रमृदा कर्णौ चन्दनैः केशबालकान् ॥ २ ॥
चन्द्रालयमृदा ग्रीवां हृदयं तु नृपाजिरात् ॥
करिदन्तोद्धृतमृदा दक्षिणं तु तथा भुजम् ॥ ३ ॥
वृषशृङ्गोद्धृतमृदा वामं चैव तदा भुजम् ॥ ४ ॥
सरोमृदा तथा पृष्ठं चोदरं साङ्गमे मृदा ॥
नदीकूलद्वयमृदा पार्श्वे संशोधयेत्तथा ॥ ५ ॥
अश्वस्थानात्तथा जंघे राजा संशोधयेद्बुधः ॥
रथचक्रोद्धृतमृदा तथैव च करद्वयम् ॥ ६ ॥
मृत्स्नातः स्नपनीयः स्यात्पञ्चगव्यजलेन तु ॥
ततो भद्रासनगतं मुख्यामात्यचतुष्टयम् ॥ ७ ॥
वर्णप्रधानं भूपालमभिषिञ्चेद्यथाविधि ॥
पूर्वतो हेभकुम्भेन घृतपूर्णेन ब्राह्मणः ॥ ८ ॥
रूप्यकुम्भेन याम्येन क्षीरपूर्णेन क्षत्रियः ॥
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतो द्विज ॥ ९ ॥
माहेयेन जलेनो दक्शूद्रामात्योऽभिषेचयेत् ॥
ततोऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः ॥ १० ॥
कुर्वीत मधुना राम च्छन्दोगश्च कुशोदकैः ॥
सम्पातवन्तं कलशं तथा नुत्वा पुरोहितः ॥ ११ ॥
विधाय वह्निरक्षां तु सदस्येषु यथाविधि ॥
राजसूयाभिषेके तु ये मन्त्राः परिकीर्तिताः ॥ १२ ॥
तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनेन तु ॥
ततः पुरोहितो गच्छेद्वेदिमूलं तदैव तु ॥ १३ ॥
विभूषितं तु राजानं सर्वतोभद्र आसने ॥
शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि ॥१४॥
अभिषिञ्चति धर्मज्ञ यजुर्वेदविशारदः ॥
या ओषधीरौषधीभिः सर्वाभिः सुसमाहितः ॥१५॥
रथे अक्षेति गन्धैश्च आब्रह्मन्ब्रह्मणेति च ॥
बीजैः पुष्पैस्तथा चैनं राम पुष्पवतीति च ॥१६॥
तेनैव चाभिमन्त्रेण फलैस्तमभिषेचयेत् ॥
आशुः शिशान इत्येव सर्वरत्नैश्च भार्गव ॥१७॥
ये देवाः पुरस्सदेति कुशाभिः परिमार्जयेत् ॥
ऋग्वेदक्रतुतो राज्ञे रोचनाया यथाविधि ॥ १८ ॥
मूर्धानं च तथा कण्ठे गन्धद्वारेति संस्पृशेत् ॥
ततो ब्राह्मणमुख्याश्च क्षत्त्रियाश्च विशस्तथा ॥ १९ ॥
शूद्राश्च वारमुख्याश्च नानातीर्थसमुद्भवैः ॥
नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ॥ २० ॥
चतुस्सागरजैर्लाभादलाभाद्द्विजकल्पितैः ॥
गङ्गायमुनयोश्चैव निर्झरैश्च तथोद्भिजैः ॥२१ ॥
छत्रपाणिर्भवेत्कश्चित्केचिश्चामरपाणयः ॥
अमात्यमुख्यास्तं कालं केचिद्वेत्रकरास्तथा ॥ २२॥
शंखभेरीनिनादेन बन्दीनां निस्वनेन च ॥
गीतवादित्रघोषेण द्विजकोलाहलेन च ॥ ॥ २३ ॥
राजानमभिषिञ्चेयुस्समेत्य सहिता जनाः ॥
सर्वैः स्तुतोऽभिषिक्तश्च संमिश्रजलमिश्रितम् ॥ २४ ॥
सर्वौषधियुतं पुण्यं सर्वगन्धयुतं तथा ॥
रत्नबीजसमायुक्तं फलबीजयुतं तथा ॥ २५ ॥
ऊर्जितं सितसूत्रेण वेष्टितग्रीवमेव च ॥
श्वेतवस्त्राम्रपत्रैश्च संवीतं सुविभूषितम् ॥ ॥ २६ ॥
क्षीरवृक्षलताछत्रं सुदृढं कांचनं नवम् ॥
आदाय कलशं राज्ञा स्वयं सांवत्सरस्तथा ॥ २७ ॥
मन्त्रावसाने कलशं दद्याद्भृगुकुलोद्वह ॥
ततः पश्येन्मुखं राजा दर्पणे चाथ सर्पिषि ॥ २८ ॥
सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः ॥
कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा ॥ २९ ॥
लोकपालान्ग्रहांश्चैव नक्षत्राणि च भार्गव ॥
ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत् ॥ ॥ ३० ॥
व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम् ॥
पुरोधा मधुपर्केण तत्रस्थं तं समर्चयेत् ॥ ३१ ॥
राजा चैवार्चयेत्तत्र सांवत्सरपुरोहितौ ॥
मधुपर्केण धर्मज्ञस्ततस्तस्य सदैव हि ॥ ३२ ॥
पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम् ॥
ततः स बद्धमुकुटः काले पूर्वं मयेरितम् ॥ ३३ ॥
परार्ध्यास्तरणोपेते पञ्चचर्मोत्तरच्छदे ॥
ध्रुवा द्यौ इति मन्त्रेण सोपवेश्य पुरोधसा ॥ ३४ ॥
वृकस्य वृषदंशस्य द्वीपिनश्च भृगूत्तम ॥
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥ ३५ ॥
तत्रोपविष्टस्य ततः प्रतीहारः प्रदर्शयेत् ॥
अमात्यांश्च तथा पौरान्नैगमांश्च वणिग्वरान् ॥ ३६ ॥
ततः प्रकृतयश्चान्या यथावदनुपूर्वशः ॥
ततो ग्रहावरास्त्रेभतुरङ्गकनकोत्तमैः ॥ ३७ ॥
गोजाविग्रहदानैश्च सांवत्सरपुरोहितौ ॥
पूजयित्वा ततः पश्चात्पूजयेद्ब्राह्मणत्रयम् ॥ ३८ ॥
अनेनैव विधानेन येन राजाभिषेचितः ॥
ततस्त्वमात्यान्संपूज्य सांवत्सरपुरोधसः ॥ ३९ ॥
ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् ॥
गोवस्त्रतिलरूप्यान्नफलकाञ्चनगोरसैः ॥ ॥ ४० ॥
मोदकाक्षतपुष्पैश्च महीदानैश्च पार्थिवः ॥
मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः ॥ ४१ ॥
वह्निं प्रदक्षिणीकृत्य प्रणिपत्य तथा गुरुम् ॥
पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव ॥ ४२ ॥
पूजयित्वा च तुरगं मन्त्रितं चाभिषेचितम् ॥
मन्त्रितं दक्षिणे कर्णे स्वयं वेदविदा ततः ॥ ४३ ॥
आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत् ॥
मुख्यामात्यैश्च सामन्तैः सांवत्सरपुरोहितैः ॥ ४४ ॥
सहितः कुञ्जरारूढैरभिगच्छेच्च देवताः ॥
तासां संपूजनं कृत्वा नगरे या निवेशिताः ॥ ४५ ॥
प्रविशेत गृहं राजा प्रहृष्टनरवाहनः ॥
दानमानानि सत्कारैर्गृह्णीयात्प्रकृतीस्ततः ॥ ४६ ॥
संपूजितास्तास्तु विसर्जयित्वा गृहे स्वके स्यान्मुदितो महात्मा ॥
विधानमेतत्समवाप्य राजा कृत्स्नां स पृथ्वीं वशगां हि कुर्यात्॥४७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे राज्याभिषेकविधिर्नामैकविंशतितमोऽध्यायः ॥ २१॥
2.22
राम उवाच ॥
मंत्रेण येन धर्मज्ञ कुर्याद्राज्ञोऽभिषेचनम् ॥
तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन ॥ १ ॥
॥ पुष्कर उवाच ॥
शृणुष्वाव हितो मन्त्रं राम कल्मषनाशनम् ॥
येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति ॥ २ ॥
राज्ञोऽभिषेकशब्दान्ते दैववित्कुशवारिणा ॥
कुम्भादभ्युक्षणं कुर्यान्मन्त्रान्ते सकलं न्यसेत् ॥ ३ ॥
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ ४ ॥
प्रद्युम्नश्चानिरुद्धस्तु भवन्तु विजयाय ते ॥
आखण्डलोग्निर्भगवान्यमो वै नैर्ऋतिस्तथा ॥ ५ ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ ६ ॥
भद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च पार्थिव ॥
भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ॥ ७ ॥
सनत्कुमारश्च तथा भगवानपि चाङ्गिरा ॥
पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥ ८ ॥
एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः ॥
प्रभासुरा बर्हिषदो ह्यग्निष्वात्तास्तथैव च ॥ ९ ॥
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ॥
एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥ १० ॥
लक्ष्मीर्देवी सती ख्यातिरनसूया तथा स्मृतिः ॥
संभूतिस्सन्नतिश्चैव क्षमा प्रीतिस्तथैव च ॥ ११ ॥
स्वाहा स्वधा च त्वा राजन्नभिषिञ्चन्तु मातरः ॥
कीर्तिलक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥ १२ ॥
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिश्च पार्थिव ॥
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ॥ १३ ॥
अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती ॥
संकल्पा च मुहूर्ता च साध्या विश्वास्तथैव च ॥ १४ ॥
धर्मपत्न्यस्तथान्यास्त्वामभिषिञ्चन्तु पार्थिव ॥
अदितिश्च दितिस्ताम्रा ह्यरिष्टा सुरसा मुनिः ॥ ॥ १५ ॥
कद्रूः क्रोधवशा प्राधा विनता सुरभिस्त्रिभिः ॥
एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥ १६ ॥
पत्नी ते बहुपुत्रस्य सुप्रभा या च भामिनी ॥
समायात्वभिषेकाय विजयाय च पार्थिव ॥ १७ ॥
कृशाश्वपत्नी च तथा सुप्रभा च जया तथा ॥
अस्त्रग्रामस्तयोः पुत्रो विजयं विदधातु ते ॥ १८ ॥
मनोरमा भानुमती विशाला या च बाहुदा ॥
अरिष्टनेमी पत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ १९ ॥
कृत्तिका रोहिणी दैवी इल्वला बाहुरेव च ॥
पुनर्वसुश्च तिष्यश्च तथाश्लेषा च पार्थिव ॥ २० ॥
मघा च फाल्गुनी पूर्वा तथैवोत्तरफाल्गुनी ॥
हस्तश्चित्रा तथा स्वातिर्विशाखा च नराधिप ॥ २१ ॥
अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप ॥
आषाढा च तथा पूर्वा तथैव नृप चोत्तरा ॥ २२ ॥
अभिजिच्च तथाश्वत्थो धनिष्ठा च नराधिप ॥
तथा शतभिषक्चैव पूर्वाभाद्रपदा च या ॥ २३ ॥
उत्तरा रेवती राजन्नश्विनी भरणी तथा ॥
एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥ २४ ॥
मृगी च मृगमन्दा च श्वेता भद्रासना हरिः ॥
भूता च कपिशा दंष्ट्री सुरसा सरमा तथा ॥ २५ ॥
एताः पुलहपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ॥ २६ ॥
पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः ॥
आयतिर्नियतिश्चैव रात्रिर्निद्रा तथैव च ॥ २७ ॥
एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः ॥
उमा मेना शची चैव घ्रूम्रोर्णा निवृतिस्तथा ॥ २८ ॥
गौरी शिवा च सिद्धिश्च वेला चैवाथ नड्वला ॥
असिक्नी च तथा ज्योत्स्ना या च देवी वनस्पतेः॥२९॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ॥
महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च ॥३०॥
संवत्सराणि सर्वाणि तथा चैवायनद्वयम् ॥
ऋतवश्च तथा मासाः पक्षौ रात्र्यहनी तथा॥३१॥
संध्याश्च तिथयश्चैव मुहूर्ताः करणानि च ॥
एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥ ३२ ॥
आदित्यश्चन्द्रमा भौमो बुधो जीवः सितार्कजौ ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥ ३३ ॥
स्वायम्भुवो मनुः पूर्वमनुः स्वारोचिषस्तथा ॥
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ३४ ॥
वैवस्वतो यथाकर्णो दक्षो ब्रह्मसुतावुभौ ॥
धर्मपुत्रो रुद्रपुत्रो रोच्यो भौत्यश्च यो मनुः ॥ ३५ ॥
एते त्वामभिषिञ्चन्तु मनवश्च चतुर्दश ॥
विश्वभुक्च विपश्चिच्च सुशान्तिश्च शिखी विभुः ॥ ३६ ॥
मनोजवस्तथोजस्वी बहिरद्भुतशान्तिकौ ॥
वृषश्च ऋतधामा च दिवस्पाच्छुचिरेव च॥३७॥
एते त्वामभिषिञ्चन्तु देवनाथाश्चतुर्दश ॥
रैवतश्च कुमारश्च तथा वर्चाविनायकः ॥ ॥ ३८ ॥
वीरभद्रश्च नन्दी च विश्वकर्मा मनोजवः ॥
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ॥३९॥
आत्मा चायुर्मनोदक्षो ह्यापः प्राणस्तथैव च॥
हविष्मांश्च गविष्ठश्च ऋतः सत्यश्च पार्थिव॥४०॥
अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसा दश ॥
क्रतुर्दक्षो वसुस्सत्यः कालः कामो मुनिस्तथा॥ ॥४१॥
कुरवोन्मनुजश्चैव रोचमानस्तथैव च ॥
एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश॥४२॥
अङ्गारकस्तथा सर्पो निर्ऋतिश्च तथा घसः ॥
अजैकपादहिर्बुध्न्यो धूमकेतुस्तथा द्विजः ॥४३॥
भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ॥
एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥४४॥
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा ॥
क्रतुः सर्वश्च मूर्धा च त्याज्यश्चैव स्तुतस्तथा ॥ ४५ ॥
प्रसवश्चाव्ययश्चैव दक्षश्च मनुजाधिप ॥
एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः ॥ ४६ ॥
मनो मन्ता च प्राणश्च नरोऽपानश्च वीर्यवान् ॥
विनिर्भयो नयश्चैव हंसो नारायणस्तथा ॥ ४७ ॥
विभुश्चापि प्रभुश्चापि देवश्रेष्ठा जगद्धिताः ॥
एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥ ४८ ॥
धाता मित्रोऽर्यमा पूषा शक्रेशौ वरुणो भगः ॥
त्वष्टा विवस्वान्सविता विष्णुर्द्वादशमस्तथा ॥ ४९ ॥
एते त्वामभिषिञ्चन्तु कश्यपादितिसम्भवाः ॥
एकज्योतिश्च द्विज्योतिस्त्रिचतुर्ज्योतिरेव च॥ ॥ ५० ॥
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥
इन्द्राश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तया ॥ ५१ ॥
मितश्च सम्मितश्चैव अमितश्च महाबलः ॥
ऋतजित्सत्यजिच्चैव सुषेणः सत्यजित्तथा ॥ ५२ ॥
अतिमित्रो नमित्रश्च पुरुमित्रः पुरानितः ॥
ऋतश्च ऋतधाता च विधाता धारणो ध्रुवः ॥ ५३ ॥
विधारणो महातेजा वासवस्य परः सखा ॥
ईदृक्षश्चाप्यदृक्षश्च एतादृगमिताशनः ॥ ५४ ॥
क्रीतिनः प्रसदृक्षश्च सरभश्च महा यशाः ॥
धातुरुग्रोध्वनिर्भीमो ह्यतियुक्तः क्षिपः सहः ॥ ५५ ॥
द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥
एते त्वामभिषिञ्चन्तु मरुतस्ते समा गताः ॥ ५६ ॥
देवा एकोनपञ्चाशन्महाबलपराक्रमाः ॥
चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् ॥ ५७ ॥
ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥
धृतराष्ट्रश्च गोपश्च सूर्यावर्तस्तथैव च ॥ ५८ ॥
युगपस्त्रणयः कार्ष्णिर्नंदश्चित्रस्तथैव च ॥
कलिः शालिः शिरा राजन्पर्जन्यो नारदस्तथा ॥ ५९ ॥
वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥
विश्वावसुस्तुम्बुरुश्च तथा च सुरुचिश्च यः ॥ ६० ॥
एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥
आहुत्यस्ता भवत्यश्च वर्गवत्यस्तथैव च ॥ ६१ ॥
आयुर्वत्यस्तथोर्जाश्च तथा वै कुरवाः स्तवाः ॥
बह्वायुश्चामृतायुश्च भुवश्चैव रुचस्तथा ॥ ६२ ॥
भीरवः शोभयंत्यश्च दिव्या याश्चाप्सरोगणाः ॥
एते त्वामभिषिञ्चन्तु समागत्य महीपते ॥ ६३ ॥
अनवद्या सत्यकामा चानूना वरुणा प्रिया ॥
अनूपा सुभगा चैव सुकेशा च मनोवती ॥ ६४ ॥
मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ॥
कृतस्थला घृताची च विश्वाची पूर्वचित्यपि ॥ ६५ ॥
प्रम्लोचा चाप्यनुम्लोचा रंभा चैवोर्वशी तथा ॥
पञ्चचूडा सानुमती चित्रलेखा च पार्थिव ॥ ६६ ॥
मिश्रकेशी मरीचिश्च विद्युत्पर्णा तिलोत्तमा ॥
अद्रिका लक्ष्मणा क्षेपा असिता रुचिका तथा ॥६७॥
सुहेमा चाथ हेमा च शाड्वली च वपुस्तथा ॥
सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा॥६८॥
पुण्डरीका सुदाना चासुदाना सुरसा तथा ॥
हेमा शारद्वती चैव सूनृता कमलालया॥६९॥
सुमुखी हंसपादी च वारुणी रतिलालसा ॥
एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः ॥ ७०॥
प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ॥
बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः…
अभिषिञ्चन्तु दैत्यास्त्वां दिव्येनाप्यम्भसा स्वयम् ॥
विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः ॥ ७२ ॥
अभिषिञ्चन्तु राजेन्द्र राजराज्येन सत्वराः ॥
हेतिश्चैव प्रहेतिश्च माली शङ्कुस्तथैव च ॥ ७३ ॥
सुकेशी पौरुषेयश्च यज्ञहा पुरुषाधमः ॥
विद्युत्स्फूर्जस्तथा व्याघ्रो वधश्च रसनस्तथा ॥ ७४ ॥
एते त्वामभिषिञ्चन्तु समागम्याद्य राक्षसाः ॥
सिद्धार्थो मणिभद्रश्च सुमनो नन्दनस्तथा ॥ ७५॥
काण्डभिः पञ्चमश्चैव मणिमानुयमाँस्तथा ॥
सर्वानुभूतः शंखश्च पिङ्गाक्षश्चस्तरस्तथा ॥ ७६ ॥
यशो मन्दरशोभी च पद्मचन्द्रप्रभङ्कराः ॥
मेघवर्णः सुभद्रश्च प्रद्योतश्च महाघसः ॥७७॥
द्युतिमान्केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥
श्वेतश्च विपुलश्चैव पुष्पदन्तो जयावहः ॥ ७८ ॥
पद्मवर्णो बलाकश्च कुमुदश्च बलाहकः ॥
पद्मनाभः सुगन्धश्च प्रवीरो विजयः कृतिः ॥ ७९ ॥
पूर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥
एते त्वामभिषिञ्चन्तु राजन्यक्षेन्द्र सत्तमाः ॥ ८० ॥
शंखपद्मस्तु राजेन्द्र मकरः कच्छपस्तथा ॥
एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥ ८१ ॥
पलगाश्चैव वक्राश्च ये च सूचीमुखा नृप ॥
दुःपूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ॥ ८२ ॥
कुम्भपाताः प्रतुण्डाश्च तपवीरा उलूखलाः ॥
अकर्णाश्च कुषण्डाश्च तथा ये पात्र पाणयः ॥ ८३ ॥
पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ॥
एते त्वामभिषिञ्चन्तु पिशाचानाञ्च जातयः ॥ ८४ ॥
ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शिनः ॥
नानाप्रकारवदना नानाबाहुशिरोधराः ॥८५॥
चतुष्पथपुराट्टालशून्यालयनिकेतनाः ॥
मधुरत्वे भवेदेवं ये गता मनुजेश्वराः ॥ ८६॥
ते त्वामद्याभिषिञ्चन्तु भूता भूतपतेः स्वयम् ॥
महाकालं पुरस्कृत्य नरसिंहं च मातरः ॥ ८७ ॥
सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥
गुहः स्कन्दो विशाखश्च नैगमेयस्तथैव च ॥ ८८ ॥
अभिषिञ्चन्तु राजँस्त्वां सर्वे स्कन्दग्रहाः शुभाः ॥
डाकिन्यो याश्च योगिन्यः खेचरीभूचरीश्च याः ॥ ८९ ॥
सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥
गरुडश्चारुणश्चैव आरुणिश्च महाखगः ॥ ९० ॥
संपाती विनतश्चैव विष्णुगन्धः कुमारकः ॥
एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ॥ ९१ ॥
अनन्तश्च महानागः शेषो वासुकितक्षकौ ॥
सपर्णीरश्च कुम्भश्च वामनश्चाञ्जनस्तथा ॥ ९२ ॥
ऐरावतो महानागः कम्बलाश्वतरावुभौ ॥
ऐलमन्त्रश्च शंखश्च कर्कोटकधनञ्जयौ ॥ ९३ ॥
महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ ॥
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥ ९४ ॥
सूचीमुखो दधिमुखः कालियः शालिपिण्डकः ॥
बिल्वपादः पाण्डुरको नागश्चापूरणस्तथा ॥ ९५॥
कपिलश्चाम्बरीषश्च कुमारश्चाथ कश्यपः ॥
प्रह्रादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः॥ ९६ ॥
नहुषः खररोमा च शंखपालस्तथैव च ॥
पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः ॥ ९७ ॥
नागास्त्वामभिषिञ्चन्तु राजराज्येन पार्थिव ॥
कुमुदैरावणौ पद्मः पुष्प दन्तोऽथ वामनः ॥ ९८ ॥
सुप्रतीकोञ्जनो नीलः पान्तु त्वां सर्वतः सदा ॥
चक्रं त्रिशूलं वज्रश्च नन्दकोस्त्राणि चाप्यथ ॥ ९९ ॥
पैतामहास्तथा हंसा वृषभः शङ्करस्य च ॥
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ॥१००॥
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ॥
कौस्तुभः शंखराजश्च पान्तु त्वां सर्वतः सदा ॥१०१॥
सर्वेऽभिषेकं दत्त्वा ते दिशन्तु विजयं धुवम् ॥
धर्मश्च व्यवसायश्च सत्यो दानं तपस्तथा ॥ १०२ ॥
यमो यज्ञस्तथा वायुर्ब्रह्मचर्य दमः शमः ॥
एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव ॥ १०३ ॥
दण्डश्च पिङ्गलश्चैव मृत्युकालावुभौ तथा ॥
वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते ॥१०४॥
दिग्धेनवश्चतस्रस्त्वां सुराभिश्च तथा नृप ॥
अभिषिञ्चन्तु सर्वाभिर्गोभिः सार्धं नरेश्वर ॥१०५ ॥
वेदव्यासश्च वाल्मीकिः कमठोऽथ पराशरः ॥
देवलः पर्वतश्चैव दुर्वासाश्च तथा मुनिः ॥ १०६ ॥
याज्ञवल्क्यश्च जाबालिः जमदग्निः शुचिश्रवाः ॥
विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः ॥ १०७ ॥
एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥
शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः ॥ १०८॥
बृहदश्वः कुटिशठो जटाजानुर्घटोदरः ॥
यवक्रीतोऽर्थरैत्यश्च आत्मवानथ जैमिनिः ॥१०९॥
ऋषिः शार्ङ्गरवश्चैव तथागस्त्यो महातपाः ॥
उन्मुवुर्मुमुवुश्चैव इध्मबाहुर्महोदयः ॥ ११० ॥
कात्यायनश्च कण्वश्च वल्वकाम्बोरुनन्दनः ॥
एते त्वामभिषिञ्चन्तु ऋषयः पार्थिवोत्तम ॥ १११ ॥
पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्बली ॥
मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ॥ ११२ ॥
मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥
आयुश्च नहुषश्चैव ययातिरपराजितः ॥ ११३ ॥
इक्ष्वाकुश्च यदुश्चैव पुनर्भूरिश्रवास्तथा ॥
अम्बरीषश्च नाभागो बृहदश्वो महाहनुः ॥ ११४ ॥
प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः ॥
एते चान्ये च राजानस्तव राजन्दिवङ्गताः ॥११५ ॥
समायान्त्वभिषेकाय विजयाय तथा श्रिये ॥
पर्जन्याद्यास्तथा सर्वे वास्तुदेवास्समासतः ॥ ११६ ॥
द्रुमाश्चौषधयो रत्नबीजानि विविधानि च ॥
सर्वे त्वामभिषिञ्चन्तु राजन्राज्येन सत्वराः ॥ ११७ ॥
पुरुषश्चाप्रमेयात्मा महाभूतानि यानि च ॥
पृथिवीवायुराकाशमापो ज्योतिस्तथैव च ॥ ११८ ॥
मनोबुद्धिस्तथैवात्मा अव्यक्तश्च महीपते ॥
एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥ ११९ ॥
रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः ॥
पीतो रक्तक्षितिश्चैव श्वेतभौमस्तथैव च ॥ १२० ॥
एते त्वामभिषिञ्चन्तु विजयाय महीपते ॥
भूलोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महज्जनः ॥ १२१ ॥
तपः सत्यश्च राजेन्द्र विजयाय भवन्तु ते ॥
जम्बूशाककुशक्रौञ्चाः शाल्मलिद्वीप एव च ॥ १२२ ॥
गोमेधः पुष्करश्चैव स्वसाम्यं प्रदिशन्तु ते ॥
उत्तराः कुरवः पुण्या रम्या हैरण्वतस्तथा ॥ १२३ ॥
भद्राश्वः केतुमालश्च वर्षश्चैव इलावृतः ॥
हरिवर्षः किंपुरुषो वर्षो भारतसंज्ञिकः ॥ १२४॥
एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥
इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥ १२५ ॥
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥
अयं चरुवसस्तेषां स्वसाम्यं प्रदिशन्तु ते ॥ १२६ ॥
हिमवान्हेमकूटश्च निषधो नीलपर्वतः ॥
श्वेतश्च शृङ्गवान्मेरुर्माल्यवान्गन्धमादनः ॥१२७ ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥
विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः ॥ १२८ ॥
समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप! ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च ॥ १२९ ॥
अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव ॥
इतिहासो धनुर्वेदो गन्धर्वश्चायुस्संज्ञितः ॥ १३० ॥
वेदोपवेदाश्च तथा विजयाय भवन्तु ते ॥
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ॥ १३१ ॥
छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥ १३२ ॥
धर्मशास्त्रं पुराणञ्च विद्या एताश्चतुर्दश ॥
सांख्ययोगः पञ्चरात्रं वेदाः पाशुपतं तथा ॥ १३३ ॥
कृतान्नपञ्चकं ह्येतच्छास्त्राणि विविधानि च ॥
गायत्री पापशमनी दुर्गा देवी महाशिवा ॥ १३४ ॥
गन्धारी च तथा विद्या विजयं प्रदिशन्तु ते ॥
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ १३५ ॥
ऋषयो मनवो गावो देवमातर एव च ॥
देवपत्न्यो द्रुमा नागाः दैत्याश्चाप्सरसाङ्गणाः ॥ १३६ ॥
शस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च ॥
औषधानि च रत्नानि कालस्यावयवास्तथा ॥१३७॥
स्थानानि च समस्तानि पुण्यान्यायतनानि च ॥
जीमूतानि च सर्वाणि तद्विकाराश्च ये तथा ॥ १३८ ॥
उक्तानि चाप्यऽनुक्तानि विजयाय भवन्तु ते ॥
लवणः क्षारतोयश्च घृतमण्डोदकस्तथा ॥ १३९ ॥
दधिमण्डोदकश्चैव सुरोदश्च नराधिप ॥
तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥ १४० ॥
गर्भोदश्च स्वतोयैस्त्वामभिषिञ्चन्तु पार्थिव ॥
चत्वारस्सागराश्चैव स्वेन तोयेन पार्थिव ॥ १४१ ॥
समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते ॥
पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥ १४२ ॥
तथा ब्रह्मसरः पुण्यं गयाशीर्षं च पार्थिव ॥
कालोदको नन्दिकुण्डः तथैवोत्तरमानसः ॥ १४३ ॥
स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः ॥
भृगुतीर्थं चौजसश्च तथैवामरकण्टकः॥१४४॥
आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः॥
गोपतीर्थं चापतीर्थं विमलः स्वर्ग एव च॥१४५॥
जम्बूमार्गश्च राजेन्द्र पुण्यस्तण्डुलिकाश्रमः ॥
कपिलस्य तथा तीर्थं तीर्थे वाटिकषण्डिके ॥ १४६ ॥
महासरस्तथागस्त्यः कुमारी तीर्थ एव च ॥
गङ्गातीरः कुशावर्तो बिल्वको नीलपर्वतः ॥ १४७ ॥
वराहपर्वतश्चैव तीर्थः कनखलस्तथा ॥
स्वर्गन्धा वशकुम्भा च तथा शाकम्भरी च या ॥ १४८ ॥
भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमम् ॥ १४९ ॥
चमसोद्भेदनः पुण्यस्तथा विनशनः शुभः ॥
अजतुङ्गश्च सोमश्च अजोगन्धश्च पार्थिव ॥
कालिञ्जरश्च केदारो रुद्रकोटिस्तथैव च ॥ १५० ॥
महालग्नश्च राजेन्द्र वदनाश्रम एव च ॥
नन्दा च सूर्यतीर्थं च सोमतीर्थं शतक्रतोः ॥ १५१ ॥
अश्विनोर्वरुणस्यापि वायोवैर्श्रवणस्य च ॥
ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य च ॥१५२ ॥
विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप ॥
ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥ १५३ ॥
आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप ॥
विश्वेदेवभृगूणां च गन्धर्वाणां च मानद ॥ १५४ ॥
प्लक्षप्रस्रवणश्चैव सुषेणश्च नराधिप ॥
शालिग्रामसरश्चैव वाराहो वामनस्तथा ॥ १५५ ॥
कामश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च ॥
सप्तर्चः क्रतुसारश्च तथा विष्णुपदं सरः ॥ १५६ ॥
कपिलस्य तथा तीर्थं वासुकेस्तीर्थमेव च ॥
सिन्धूत्तमं तपो दानं तथा शूर्पाकरः शुभः ॥ १५७ ॥
पौण्डीरकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥
सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः ॥ १५८ ॥
तथा कुन्दावसुन्धश्च मानसं च महत्सरः ॥
तथा बिन्दुसरः पुण्यं सरश्चाच्छोदकं तथा ॥ १५९ ॥
धर्मारण्यं फल्गुतीर्थं सविमुक्तं तथैव च ॥
लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः ॥ १६० ॥
तीर्थं सप्तऋषीणां च वह्नितीर्थं च पार्थिव ॥
वस्त्रापथस्ततो मेषश्छागलेशश्च पार्थिव ॥ ॥१६१॥
पुष्पन्यासस्सकामेशस्तीर्थो हंसपदस्तथा ॥
अश्वशीर्षः स कृष्णाख्यो मणिभद्रस्तथैव च ॥ १६२ ॥
देविका सिन्धुमार्गश्च स्वर्णबिन्दुस्तथैव च ॥
आहल्यकस्तथा तीर्थस्तीर्थश्चैरावतस्तथा॥१६३॥
ऐरावतिसमुद्भेदे तीर्थं भोगयशस्तथा ॥
करवीराश्रमश्चैव नागमोदानिकस्तथा॥१६४॥
पापमोचनिकश्चैव ऋणमोचनिकस्तथा ॥
उद्वेजनस्तथा पुण्यः पुण्यश्च हरिशेश्वरः ॥ १६५ ॥
देवब्रह्मसरः पुण्यं सर्पिर्दर्वी च पार्थिव ॥
एते चान्ये च बहवः पुण्यसङ्कीर्तनाः शुभाः ॥ १६६ ॥
तोयैस्त्वामभिषिञ्चन्तु सर्वपातकनाशनैः ॥
गङ्गा महानदी पुण्या ह्रादिनी ह्लादिनी तथा ॥ ॥ १६७ ॥
पावनी च तथा सीता चक्षुः सिन्धुश्च नर्मदा ॥
सुप्रभा कातराक्षी च शिथिला मानसी ह्रदा ॥ १६८ ॥
सरस्वत्योघनादा च सुवेणुर्विमलोदका ॥
सिप्रा शोणः शतद्रुश्च सरयूर्गण्डकी तथा ॥ १६९ ॥
अच्छोदा च विपाशा च चन्द्रभागा इरावती ॥
वितस्ता देविका रम्भा पीता देवह्रदा शिवा ॥ १७० ॥
तथैवेक्षुमती पुण्या कौशिकी यमुना तथा ॥
गोमती धूतपापा च बाहुदा च दृषद्वती ॥ १७१ ॥
निःशीरा च तृतीया च लौहित्यश्च महानदः ॥
वेदस्मृतिर्वेदसिनी वेत्रघ्नी वरदा तथा ॥ १७२ ॥
वर्णा मा चन्दना चैव बहुनीरा कुमुद्वती ॥
पारा चर्मण्वती रूपा विदिशा वेणुवत्यपि ॥ १७३ ॥
अवन्ती च तथा कुन्ती सुरसा च पलाशिनी ॥
मन्दाकिनी दशार्णा च चित्रकूटा दृषद्वती ॥ ॥ १७४ ॥
तमसा पिप्पला सेनी करमोदा पिशाचिका ॥
चित्रोपला चित्त्रवर्णा मंजुला वालुकावती ॥ १७५ ॥
शुक्तीमती सिली रन्ध्रा सङ्कुणात्ययकाप्ततः ॥
तापी पयोष्णी निर्विन्ध्या सिता च निषधावती ॥ १७६ ॥
वेणा वैतरणी भीमा चर्मा रामा तथा कुहुः ॥
तोया चैव महागौरी दुर्गा मतुशिला तथा ॥ १७७ ॥
गोदावरी भीमरथी कृष्णा वेणा च वंजुला ॥
तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च ॥ १७८ ॥
कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती ॥
त्रिसमा ऋषिकुल्या च पृथुका त्रिदिवालया ॥ १७९ ॥
लाङ्गूलिनी वंशधरा सुकुमारा कुलावती ॥
ऋषिका करिवेगा च मन्दगा मन्दवाहिनी ॥ १८० ॥
कृपी दर्वी दया व्योमा परोष्णी कोलवाहिनी ॥
कम्पना च विशल्या च करतोयांशुवाहिनी ॥ १८१ ॥
ताम्रारुणा वेत्रवती गोमती चाथ नद्यपि ॥
अद्रिणी त्रिकसा चैव सुप्रकारा हिरण्वती ॥ १८२ ॥
आपगा चालका भासी सन्ध्या च मडवा नदी ॥
नन्दा चालकनन्दा च शुद्धा च वसुवाहिनी ॥ १८३ ॥
एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विमलोदकाः ॥
सर्वपापप्रशमनास्सर्वलोकस्य मातरः ॥
स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥ १८४ ॥
एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् ॥
ससागरां भुंक्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु॥१८५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भार्गवरामं प्रति पुष्करव्याख्यानेऽभिषेकमन्त्रो नाम द्वाविंशतितमोऽध्यायः॥२२॥
2.23
पुष्कर उवाच ॥
मन्त्रा ये कीर्तिता राम मयास्मिंस्तव भार्गव ॥
तेषां संकीर्तनं धन्यं सर्वपापप्रणाशनम् ॥१॥
ऐतेषां कल्यमुत्थाय यः कुर्यात्कीर्तनं नरः ॥
सर्वपापविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्॥२॥
तिर्यग्योनिं न गच्छेत्तु नरकं संकराणि च ॥
न च दुःखं न च भयं मरणं न स च मुह्यति ॥ ३ ॥
एतेषां च नमस्कारं यः कुर्यात्प्रयतो नरः …
न तस्य तिष्ठते पापमब्बिन्दुरिव पुष्करे ॥ ४ ॥
एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः ॥
महापातकयुक्तोऽपि त्वचेवाहिर्विमुच्यते ॥ ५ ॥
एतेषां पुष्पदानेन महतीं श्रियमश्नुते ॥
एतेषां चार्घ्यदानेन पूज्यो भवति मानवः ॥ ६ ॥
एतेषां दीपदानेन भ्राजन्ते चन्द्रवद्दिवि ॥
एतेषामाहुतिं दत्त्वा कामानाप्नोति पुष्कलान् ॥ ७ ॥
नैवेद्यं च बलिं दत्त्वा भोगान्प्राप्नोत्यनुत्तमान ॥
एतानुद्दिश्य विप्रेषु दत्त्वा भार्गव भोजनम् ॥ ८ ॥
संतर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् ॥
अभिषेकदिने राज्ञां पुष्पस्नाने तथैव च ॥ ९ ॥
तथा संवत्सरग्रन्थौ सर्वे पूज्या हितैषिणा ॥
यानि तीर्थानि चोक्तानि सरितश्च समासतः ॥ १० ॥
तेषां गमेन पूज्यन्ते येऽपि पातकिनो जनाः ॥
स्नानं महाफलं तेषां तपः श्राद्ध क्रियास्तथा ॥ ११ ॥
दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् ॥
कीर्तनं भार्गवश्रेष्ठ न मे चास्ति विचारणा ॥ १२ ॥
तीर्थेष्वथैतेषु भृगुप्रधान स्नाता नरा यान्ति नरेन्द्र सद्यः॥
तीर्थानि गम्यानि ततः प्रयत्नात्पुण्याश्च सर्वास्सरितश्च राम॥ १३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे तीर्थफलवर्णनो नाम त्रयोविंशतितमोध्यायः ॥ २३ ॥
2.24
॥ राम उवाच ॥ ॥
राज्ञोऽभिषिक्तमात्रस्य किन्नु कृत्यतमं भवेत् ॥
एतन्मे सर्वमाचक्ष्व सर्वं वेत्ति यतो भवान् ॥ १ ॥
॥ पुष्कर उवाच ॥ -
अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन ॥
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ २ ॥
यदप्यल्पतरं कर्म तदथैकेन दुष्करम् ॥
पुरुषेणासहायेन किन्नु राज्यं महत्पदम् ॥ ३॥
तस्मात्सहायान्वरयेत्कुलीनान्नृपतिः स्वयम् ॥
शूरानुत्तमजातीयान्बलयुक्ताञ्छ्रुतान्वितान् ॥ ४ ॥
रूपसत्वगुणौदार्यसंयुक्तान्क्षमया युतान्॥
क्लेशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान् ॥ ५ ॥
हितोपदेशिकान्प्राज्ञान्स्वामिभक्तान्यशोर्थिनः ॥
एवं विधान्सहायांस्तु शुभ कर्मणि योजयेत् ॥ ६ ॥
गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ॥
कर्मस्वेव नियुञ्जीत यथायोग्येषु भार्गव ॥ ७ ॥
कुलीनाः शीलसंपन्ना धनुर्वेदविशारदाः ॥
हस्तिशिक्षाश्वशिक्षासु कुशलाश्श्लक्ष्णभाषितैः ॥ ८ ॥
निमित्ते शकुनज्ञाने वित्तवैद्यचिकित्सके ॥
पुरुषान्तरविज्ञाने षाड्गुण्येन विनिश्चिताः ॥ ९ ॥
कृतज्ञाः कर्मणां शूरास्तथा क्लेशसहा ऋजुः ॥
व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् ॥ १० ॥
राज्ञां सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथवा ॥
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ॥ ११ ॥
चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते ॥
यथोक्तवादी धूर्त्तः स्याद्देशभाषाविशारदः ॥ १२ ॥
शाब्दः क्लेशसहो वाग्मी देशकालविभाषिता ॥
विज्ञाय देशं कालं वा हितं यत्स्यान्महीक्षितः ॥ १३ ॥
वक्तापि तस्यः यः काले स दूतो नृपतिर्भवेत् ॥
प्रांशवो व्यायताः शूरा दृढभक्ता निराकुलाः ॥ १४ ॥
राज्ञा तु रक्षिणः कार्यास्तदा क्लेशसहा हिताः ॥
अहार्याश्चानृशंसाश्च दृढभक्ताश्च पार्थिवे ॥ १५ ॥
ताम्बूलधारी भवति नारी चाप्यथ तद्गुणा ॥
षाड्गुण्यविधि तत्त्वज्ञो देशभाषाविशारदः ॥ १६ ॥
सन्धिविग्रहकः कार्यो राज्ञा नयविशारदः ॥
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ॥ १७ ॥
कृताकृतज्ञो भृत्यानां ज्ञेयः स्याद्दक्षरक्षिता ॥
सुरूपस्तरुणः शूरो दृढभक्तः कुलोचितः ॥ १८ ॥
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥
शूरश्च बहुयुक्तश्च गजाश्वरथकोविदः ॥ १९ ॥
कोशधारी भवेद्राज्ञः सदा क्लेशसहश्च यः ॥
निमित्तशकुनज्ञानहयशिक्षाविशारदः ॥२० ॥
हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥
बलाबलज्ञो रथिनां स्थिरदृष्टिर्विशारदः ॥ २३ ॥
शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ॥
अनाहार्यः शुचिर्दक्षः चिकित्सकवचोरतः ॥ २२ ॥
सूदशास्त्रविधानाज्ञः सूदाध्यक्षः प्रशस्यते ॥
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ॥ २३ ॥
सर्वे महानसे कार्या नीचकेशनखा जनाः ॥
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः ॥ २४ ॥
विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥
कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः॥२५॥
सर्वदेशाक्षराभिज्ञाः सर्वशास्त्रविशारदाः ॥
लेखकाः कथिता राम सर्वाधिकरणेषु वै॥२६॥
शीर्षोपेतान्सुसंपूर्णान्समद्रोणीगतान्समान् ॥
अक्षरान्विलिखेद्यस्तु लेखकः स वरः स्मृतः ॥ २७ ॥
उपायवाक्यकुशलः सर्वशास्त्रविशारदः ॥
बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ॥ २८ ॥
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ॥
धर्माधिकरणे कार्या जनाह्वानकरा नराः ॥ २९॥
एवंविधास्तथा कार्या राज्ञो दौवारिका जनाः ॥
लोहवस्त्रादिधातूनां रत्नानां च विभागवित् ॥३०॥
विज्ञाता फल्गुसाराणां त्वनाहार्यः शुचिस्सदा ॥
निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ॥ ३१ ॥
आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः ॥
व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ॥ ३२ ॥
परं पारं गतो यः स्यादष्टाङ्गेषु चिकित्सिते ॥
अनाहार्यस्स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः ॥ ३३ ॥
प्राणाचार्यस्स विज्ञेयो वचनं तस्य भूभुजा ॥
राम स्नेहात्सदा कार्यं यथा कार्यं पृथग्जनैः ॥ ३४ ॥
हस्तिशिक्षाविधानज्ञो वनजातिविशारदः ॥
क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥ ३५ ॥
एतैरेव गुणैर्युक्तो स्वाधीनश्च विशेषतः ॥
गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ॥ ३६ ॥
हयशिक्षाविधानज्ञ स्तच्चिकित्सितपारगः ॥
अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते ॥ ३७ ॥
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ॥
दुर्गाध्यक्षः स्मृतो राम उद्युक्तः सर्वकर्मसु ॥ ३८ ॥
वास्तुविद्याविधानज्ञो लग्नहस्तो जितश्रमः ॥
दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ ३९ ॥
यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ॥
अस्त्राचार्यो नियुद्धे च कुशलश्च तथेष्यते ॥ ४० ॥
पञ्चाशदधिका नार्यः पुरुषाः सप्ततिस्तथा ॥
अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु ॥ ४१ ॥
स्थविरा जातितत्त्वज्ञाः सततं प्रतिजाग्रतः ॥
राज्ञः स्यादायुधागारे दक्षः कर्मसु चोद्यतः ॥ ४२ ॥
कर्माण्यपरिमेयानि राज्ञां भृगुकुलोद्वह ॥
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिव ॥ ४३ ॥
उत्तमाधममध्याँस्तु पुरुषान्विनियोजयेत ॥
न कर्मणि विपर्यासाद्राजा नाशमवाप्नुयात् ॥ ४४ ॥
नियुक्तपुरुषे भक्तिं श्रुतं शौर्यं बलं कुलम् ॥
ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता ॥ ४५ ॥
पुरुषान्तरविज्ञाने तत्त्वमात्रनिबन्धनाः ॥
नरेन्द्रलक्ष्या धर्मज्ञास्तत्रायत्तो भवेन्नृपः ॥४६॥
स्वभृत्याश्च तथा पुष्टास्सततं प्रतिमानिताः ॥
राज्ञा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता ॥४७॥
यथार्हं चाथ सुभृतान्राजा कर्मसु योजयेत ॥
धर्मिष्ठान्धर्मकार्येषु शूरान्संग्रामकर्मणि ॥ ४८ ॥
निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन् ॥
स्त्रीषु षण्ढान्नियुञ्जीत तीक्ष्णान्दारुणकर्मसु ॥४९॥
धर्मे चार्थे च कामे च भये च भृगुनन्दन ॥
राजा यथार्हं कुर्यात्तान्ह्युपधाभिः परीक्षितान् ॥ ५० ॥
समतीतो यथार्हायां कुर्याद्धस्तिवने चरान् ॥
उत्पादान्वेषणं यत्तानध्यक्षाँस्तत्र कारयेत् ॥ ५१ ॥
एवमादीनि कर्माणि यत्नैः कार्याणि भार्गव ॥
सर्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणक्षयः ॥ ५२ ॥
पापसाध्यानि कर्माणि यानि राज्ञां भृगूत्तम ॥
सन्तस्तानि न कुर्वन्ति तस्मात्तान्बिभृयान्नृपः ॥ ५३ ॥
नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्षयः ॥
यस्मिन्कर्मणि यस्य स्याद्विशेषेण च कौशलम् ॥ ५४ ॥
तस्मिन्कर्मणि तं राजा परीक्ष्य विनियोजयेत् ॥
पितृपैतामहान्भृत्यान्सर्वकर्मसु योजयेत् ॥ ५५ ॥
विना दायादकृत्येषु तत्र ते हि समासतः ॥
राजा दायादकृत्येषु परीक्ष्य स्वकृतान्नरान् ॥ ५६ ॥
नियुञ्जीत महाभागः तस्य ते हितकारिणः ॥
परराजगृहान्प्राप्ताञ्जनसंग्रहकाम्यया ॥ ५७ ॥
उष्टान्वाप्यथ वा दुष्टान्संश्रयेत प्रयत्नतः ॥
दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः ॥ ६८ ॥
वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ॥
राजा देशान्तरप्राप्तं पुरुषं पूजयेद्भृशम् ॥ ५९ ॥
सहायं देशसंप्राप्तं बहुमानेन चिन्तयेत ॥
कामं भृत्यार्जनं राजा नैव कुर्याद्भृगूत्तम ॥ ६० ॥
न वै वासं विभक्तं तु भृत्यं कुर्यात्कथञ्चन ॥
शस्त्रमग्निं विषं सर्पान्निस्त्रिंशमपि चैकतः ॥ ६१ ॥
भृत्या मनुजशार्दूल कुभृत्याश्च तथैकतः ॥
तेषां चारेण विज्ञानं राज्ञा विज्ञाय नित्यशः ॥ ६२ ॥
गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम् ॥
कथिताः सततं राम राजानश्चारचक्षुषः ॥ ॥ ६३ ॥
स्वदेशे परदेशे च जातिशीलान्विचक्षणान् ॥
अनाहार्यान्क्लेशसहान्नियुञ्जीत सदा चरान् ॥ ६४ ॥
जनस्याविततान्सौम्यांस्तथा ज्ञातान्परस्परम् ॥
वणिजो मन्त्रकुशलान्सांवत्सरचिकित्सितान् ॥ ६५ ॥
तथा प्रव्रजिताकारान्राजा चारान्नियोजयेत ॥
नैकस्य राजा श्रद्दध्याच्चारस्यापि च भाषितम् ॥ ६६ ॥
द्वयोस्संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः ॥
परस्परस्याविदितौ यदि स्यातां न तावुभौ ॥ ६७ ॥
तस्माद्राजा प्रयत्नेन गूढांश्चारान्प्रयोजयेत ॥
राज्यस्य मूलमेतावद्यद्राज्ञश्चारदृष्टिता ॥ ६८ ॥
चाराणामपि यत्नेन राज्ञा कार्यं परीक्षणम् ॥
रागापरागौ भृत्यानां जनस्य च गुणागुणान् ॥ ६९ ॥
शुभानामशुभानां च विज्ञानं राम कर्मणाम् ॥
सर्वं राज्ञां चरायत्तं तेष्वायत्तस्सदा भवेत् ॥ ७० ॥
कर्मणा केन मे लोके जनस्सर्वोऽनुरज्यते ॥
विरज्यते तथा केन विज्ञेयं तन्महीक्षिता ॥
विरागजननं सर्वं वर्जनीयं प्रयत्नतः ॥ ७१ ॥
जनानुरागप्रभवो हि लक्ष्यो राज्ञां यतो भार्गववंशचन्द्र ॥
तस्मात्प्रयत्नेन नरेन्द्रमुख्यैः कार्योऽनुरागो भुवि मानवेषु ॥ ७२ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सहायसम्पत्तिर्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
2.25
॥ पुष्कर उवाच॥
यथानुवर्तितव्यं स्याद्राम राजोपजीविभिः ॥
तथा ते कथयिष्यामि निबोध गदतो मम ॥ १ ॥
आज्ञा सर्वात्मना कार्या स्वशक्त्या भृगुनन्दन ॥
आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ॥ २ ॥
अनुकूलं प्रियं तस्य वक्तव्यं जनसन्निधौ ॥
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥ ३ ॥
परार्थमथ वक्तव्यं स्वस्थे चेतसि भार्गव ॥
स्वास्थ्यं सुहृद्भिर्वक्तव्यं न स्वयं तु कथंचन ॥ ४ ॥
कार्यातिपातकं कार्यै रक्षितव्यं प्रयत्नतः ॥
न च हिंस्यधनं किञ्चिन्नियुक्तेन च कर्मणि ॥ ५ ॥
नोपेक्ष्यं तस्य मानं च तथा राज्ञा प्रियो भवेत् ॥
राज्ञश्च न तथा कार्यं वेशभाषितचेष्टितम् ॥६॥
राजलीला न कर्तव्या तद्दिष्टं च विवर्जयेत् ॥
राज्ञस्समाधिकौ वेशौ न तु कार्यौ विजानता ॥ ७ ॥
द्यूतादिषु तथैवास्य कौशलं तु प्रदर्शयेत् ॥
प्रदर्श्य कौशलं चास्य राजानं न विशेषयेत् ॥ ८ ॥
अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः ॥
संसर्गं न व्रजेद्राम विना पार्थिवशासनम् ॥ ९ ॥
निम्नेहतां चावमानं तत्प्रयुक्तं च गोपयेत् ॥
यच्च गुह्यं भवेद्राज्ञस्तन्न लोके प्रकाशयेत् ॥ १० ॥
नृपेण श्रावितं यत्स्याद्गुह्याद्गुह्यं भृगूत्तम ॥
न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् ॥ ११ ॥
आज्ञप्यमाने चान्यस्मिन्समुत्थाय त्वरान्वितः ॥
अहं किङ्करवाणीति वाच्यो राजा विजानता ॥ १२ ॥
कार्यावस्थां च विज्ञाय कार्यमेतत्तथा भवेत् ॥
सततं क्रियमाणेस्मिँल्लाघवं तु व्रजेद्बुधः ॥ १३ ॥
राज्ञः प्रियाणि वाक्यानि न चात्यर्थं पुनःपुनः ॥
न हास्यशीलश्च भवेन्न चापि भृकुटीमुखः॥ ॥ १४ ॥
नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा ॥
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ॥ १५ ॥
दुष्कृतानि नरेन्द्रस्य न च संकीर्तयेत्क्वचित् ॥
वस्त्रं पत्रमलङ्कारं राज्ञा दत्तं तु धारयेत् ॥ १६ ॥
औदार्येण न तद्देयमन्यस्मिन्भूतिमिच्छता ॥
न चैवाध्यशनं राज्ञः स्वपनं चापि कारयेत् ॥ १७ ॥
नानिर्दिष्टे तथा द्वारे प्रविशेत कथञ्चन ॥
न च पश्येत राजानमयोग्यासु च भूमिषु ॥ १८ ॥
राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तदा ॥
पुरस्तात्तु यथा पश्चादासनं तु विगर्हितम्॥१९॥
जृम्भा निष्ठीवनं कामं कोपं पर्यंकिकाश्रयम्॥
मुकुटं वातमुद्गारं तत्समीपे विवर्जयेत्॥
स्वयं तथा न कुर्वीत स्वगुणाख्यापनं बुधः॥
स्वगुणाख्यापने कुर्यात्परानेव प्रयोजकान्॥२१॥
हृदयं निर्मलं कृत्वा परं भक्तिमुपाश्रितैः ॥
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥ २२ ॥
शाठ्यं लौल्यमपैशुन्यं नास्तिक्यं क्षुद्रतां तथा ॥
चापल्यं च परित्याज्यं नित्यं राजानुजीविना ॥ २३ ॥
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ॥
राजसेवां ततः कुर्याद्भूतये भीतिवर्धनः ॥ २४ ॥
नमस्कार्यास्सदा चास्य पुत्रवल्लभमन्त्रिणः ॥
सचिवैश्चास्य विश्वासं न तु कार्यं कथञ्चन ॥ २५ ॥
अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथापदि ॥
हितं पथ्यं च वचनं हितैस्सह सुनिश्चितम् ॥ २६ ॥
चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना ॥
भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् ॥ २७ ॥ ।
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ॥
त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिं तु कामयेत् ॥ २८ ॥
कर्मोपकारयोर्नाशं विपक्षाभ्युदयं तथा ॥
आशासंवर्धनं कृत्वा फलनाशं करोति च ॥ २९ ॥
अकोपोपि प्रकोपाभः प्रसन्नोपि च निष्फलः ॥
वाक्यं समन्दं वदति वृत्तिच्छेदं करोति च ॥ । ॥ ३० ॥
प्रवेशवाक्यानुदितौ न संभावयतीत्यथ ॥
आराधनासु सर्वासु सुप्तवच्च विचेष्टते ॥ ३१ ॥
कथासु दोषैः क्षिपति वाक्यच्छेदं करोति च ॥
लक्ष्यते विमुखश्चैव गुणसङ्कीर्तने कृते ॥ ०५२ ॥
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि ॥
विरक्तलक्षणं श्रुत्वा शृणु रक्तस्य लक्षणम् ॥ ३३ ॥
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ॥
कुशलादिपरिप्रश्ने संप्रयच्छति चासनम् ॥ ३४ ॥
विविक्तदर्शने चास्य रहस्ये न च शङ्कते ॥
जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ॥ ३५ ॥
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति ॥
उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ॥ ३६ ॥
कथान्तरेषु सरति प्रहष्टवदनस्तथा ॥
इति रक्तस्य कर्तव्या सेवा भृगुकुलोद्वह ॥
आपत्सु न त्यजेत्पूर्वं विरक्तमपि सेवितम्॥३७॥
मित्रं न चापत्सु तथा न भृत्यं व्रजन्ति ये निर्गुणमप्रमेयम् ॥
प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामासुरवृन्द जुष्टम् ॥ ३८ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अनुजीविवृत्तं नाम पञ्चविंशोध्यायः ॥ २५ ॥
2.26
॥ पुष्कर उवाच ॥ ॥
राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ॥
रम्यमानतसामन्तः पशव्यं देशमावसेत् ॥ १ ॥
वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ॥
किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥ २ ॥
अदेवमातृकं कर्मस्वनुरक्तजनाचितम् ॥
करैरपीडितं चापि बहुपुष्पं फलं तथा ॥ ३ ॥
अगम्यं परचक्राणां तद्वादसहमापदि ॥
समदुःखसुखं राज्ञः सततं च प्रिये स्थितम् ॥ ४ ॥
सरीसृपविहीनं च व्याधितस्करवर्जितम् ॥
एवंविधं यथालाभं राजा विषयमावसेत ॥ ५ ॥
तत्र दुर्गं नृपः कुर्यात्षण्णामेकतमं बुधः ॥
धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ॥ ६ ॥
वार्क्षं चेवांबुदुर्गं च गिरिदुर्गं च भार्गव ॥
सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥ ७ ॥
दुर्गं च परिखोपेतं नृपाट्टालकसंयुतम् ॥
शतघ्नीयन्त्रमुख्यैश्च शतशश्च तथा युतम् ॥ ८ ॥
गोपुरं सङ्कपाटं च तत्र स्यात्सुमनोहरम् ॥
सपताकगजारूढो येन राजा विशेत्पुरम् ॥ ९ ॥
चतस्रश्च तथा तत्र कार्याश्चापणवीथयः ॥
एकस्मिँस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥ १० ॥
वीथ्यग्रे च द्वितीये वै राजवेश्माभिधीयते ॥
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥ ११ ॥
चतुर्थे चैव वीथ्यग्रे गोपुरं च विधीयते ॥
आयतं चतुरस्रं वा वृत्तं चाकारयेत्पुरम् ॥ १२ ॥
मुक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ॥
अर्धचन्द्रप्रकारं च वज्राकारं च वर्जयेत् ॥ १३ ॥
अर्धचन्द्रं प्रशंसन्ति नदीतीरं तु तद्वशात् ॥
अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥ १४ ॥
राज्ञः कोशगृहं कार्यं दक्षिणे राजवेश्मनः ॥
तस्यापि दक्षिणे भागे गजस्थानं विधीयते॥१५॥
गजानां प्राङ्मुखी शाला कर्तव्या चाप्युदङ्मुखी ॥
आग्नेये च तथा भागे आयुधागार इष्यते ॥ १६॥
महानसं च धर्मज्ञः कर्मशालास्तथापराः ॥
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥ १७ ॥
मन्त्रिदैवविदां चैव चिकित्साकर्तुरेव च ॥
तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥ १८ ॥
गवां स्थानं तु कर्त्तव्यं तुरगाणां तथैव च ॥
उत्तराभिमुखी श्रेणी तुरगाणां विधीयते ॥ १९ ॥
प्राङ्मुखी चापि धर्मज्ञ परिशेषा विगर्हिता ॥
तुरगाश्च तथा धार्या प्रशस्तैः सार्वरात्रिकैः ॥ ॥ २० ॥
कुक्कुटान्वानरांश्चैव मर्कटांश्च नराधिप ॥
धारयेदथ शालासु सवत्सां धेनुमेव च ॥ २१ ॥
अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा ॥
गोगजाश्वविशालासु तत्पुरीषस्य निष्क्रमम् ॥ २२ ॥
अस्तङ्गते न कर्तव्यं देवदेवे दिवाकरे ॥
ततस्तत्र यथान्यायं राजा विज्ञाय सारवित् ॥ २३ ॥
दद्यादावसथस्थानं सर्वेषामनुपूर्वशः ॥
योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥ २४ ॥
दद्यादावसथान्दुर्गे मन्त्रकालविदां सताम ॥
गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥ २५ ॥
आहरेत भृशं राजा दुर्गे परबलारुजः ॥
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥ ॥ २०५ ॥
न बहूनां न तैर्दुर्गं विना कार्यं तथा भवेत् ॥
दुर्गे च यन्त्राः कर्तव्या नानाप्रहरणान्विताः ॥ २७ ॥
सहस्रघातिनो राम तैस्तु रक्षा विधीयते ॥
दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥ २८ ॥
सञ्चयश्चात्र सर्वेषां चायुधानां प्रशस्यते ॥
धनुषां क्षेपणीयानां तोमराणां च भार्गव ॥ २९ ॥
शराणामथ खड्गानां खनकानां तथैव च ॥
लगुडानां गुडानां च हुडानां परिघैः सह ॥ ३० ॥
अश्मनां च प्रभूतानां मुद्गराणां तथैव च ॥
कणियानां त्रिशूलानां पट्टिशानां च भार्गव ॥ ३१ ॥
प्रासानां च त्सरूणां च शक्तीनां च नरोत्तम ॥
परश्वधानां चक्राणां चर्मणां चर्मभिः सह ॥ ३२ ॥
कुद्दालरज्जुवेत्राणां पिटिकानां तथैव च ॥
ह्रस्वकानां च पात्राणामगरस्य च संश्रयम ॥ ३३ ॥
सर्वेषां चित्रभाण्डानां सञ्चयश्चात्र इष्यते ॥
वादित्राणां च सर्वेषामौषधानां तथैव च ॥ ३८४ ॥
यवसानां प्रभूतानां चेन्धनस्य च सञ्चयम् ॥
गुडस्य सर्वशैलानां गोरसानां तथैव च ॥ ३९ ॥
चर्मणां च ससज्जानां स्नायूनामस्थिभिः सह ॥
गोरसस्य पटानां च धान्यानां सर्वतस्तथा ॥ ३६ ॥
तथैव प्रपटानां च यवगोधूमयोरपि ॥
रत्नानां सर्ववस्त्राणां लोहानां चाप्यशेषतः ॥३७ ॥
कलायमुद्गमाषाणां चणकानां तिलैः सह ॥
तथा च सर्वसस्यानां पांशुगोमययोरपि ॥३८८…
सणसर्जरसं भूर्जजतुलाक्षाकटंकटाम् ॥
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ॥ ३९ ॥
कुम्भाः साषीविषा धार्या व्याघ्रसिंहादयस्तथा ॥
मृगाश्च पक्षिणश्चैव पशवश्च पृथग्विधाः ॥४ ० ॥
सञ्चेयानि विरुद्धानां सुगुप्तानि पृथक्पृथक ॥
कर्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥ ४१ ॥
उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः ॥
सुगुप्तानि पुरे कुर्याज्जनानां हित काम्यया ॥ ४२ ॥
जीवकर्षभकाकोलीरामलक्यः परूषकम् ॥
शालिपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥ ४३ ॥
माषपर्णी तथा चैव सारिवे द्वे बलाभयम ॥
वीराश्वगन्धा वृथ्वीका बृहती कण्टकारिका ॥४४॥
शृङ्गाटिका रोद्रगोधी वर्षाभूदर्भगुन्द्रका ॥
मधुपर्णीविदार्यौ द्वे महादुर्गा महा तथा ॥ ४५ ॥
धन्वना महऋग्व्याह्या त्रिकोटी रण्डकं विषम् ॥
पर्णासनाह्वी मृद्वीका फल्गुः खर्जूरयष्टिका ॥ ४६ ॥
शुक्रातिशुक्रकाश्मर्यश्छत्रातिच्छत्रवीरणा ॥
इक्षुरिक्षुविकारश्च फाणिताद्याश्च भार्गव ॥ ४७ ॥
सहाश्च सहदेवाश्च विश्वेदेवाढरूपकम् ॥
मधूकपुष्पं हंसाख्या शतपुष्पमधूलिका ॥ ४८ ॥
शतावरी मधूकं च प्रियालं तालमेव च ॥
आत्मगुप्ता कट्फलाख्या दरदा राजसेरुका ॥४९॥
राजर्षभकधानक्या ऋष्यप्रोक्ता तथोत्कटा ॥
कटंकटा पद्मबीजं गोवल्ली मधुवल्लिका ॥५० ॥
शीतपाकी कुलिङ्गाक्षी काकजिह्वोरुपत्रिका ॥
एर्वारुम्रपसौ चोभौ मुञ्जातकपुनर्नवा ॥५१ ॥
काशेरुका तुगाक्षीरा बिल्वेशालूककेसरम् ॥
शूकधान्यानि सर्वाणि शम्बीधान्यानि यानि च ॥ ५२ ॥
क्षीरं क्षौद्रं तथा शुक्लं मज्जा तैलं वसा घृतम ॥
निकोचाभिषुकाक्षोटं वातापं सोरुखाणकम् ॥ ५३ ॥
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ॥
राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ॥ ५४ ॥
दाडिमांम्रातकां लीनं तितन्तिडीकाम्लवेतसम् ॥
भव्यकः कण्डलीकश्च मकरन्दकरूपकम् ॥५५॥
बीजपूरककाण्डीरमालती राजधन्वना ॥
कोलकद्वयपर्णानि द्वयोरल्लीकयोरपि॥५६॥
पालेवतं भागरिकं प्राचीनारूकमेव च ॥
कपित्थामलकं चुक्रं कलिन्दं च शठस्य च॥५७॥
जाम्बवं नवनीतं च सौवीरकतुपोचके ॥
सुरासवं च मद्यानि मण्डं तक्रदधीनि च ॥ ५८ ॥
शुक्लानि चैव सर्वाणि ज्ञेयान्यम्लगणानि वै ॥
सैन्धवोद्भेदनादेयपाक्यसामुद्ररोचसम् ॥
कूप्यसौवर्चलविडं वालकैलोपबाहुकम् ॥ ५९ ॥
ऊषक्षारं कालभस्म विज्ञेयौ लावणो गणः ॥
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥ ६० ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ॥
कुठेरकं समरिचं शिग्रुं भल्लात दुर्गं सुगुप्तं नृपतिस्सदैव॥८८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्कराख्याने दुर्गसम्पत्तिर्नाम षड्विंशतितमोऽध्यायः॥२६॥
2.27
राम उवाच ॥
रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा ॥
अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥ १ ॥
पुष्कर उवाच ॥
बिल्वाढकी यवक्षारपाटलीबाह्लिकोषणाः ॥
श्रीपर्णी सल्लकीयुक्ता निष्क्वाथः प्रोक्षणं परम् ॥ २ ॥
सविषं प्रोक्षितं तेन सद्यो भवति निर्विषः ॥
यवसैन्धवपानीयवसुशय्यासनौदनम् ॥ ३ ॥
कवचाभरणच्छत्रबालव्यजनमेव च ॥
शैलूपाटल्यतिविषाशिग्रुगोपीपुनर्नवाः ॥ ४ ॥
ससङ्गावृक्षमूलत्वक्कपित्थं वृक्षशोणितम् ॥
सहदन्तशठं तद्वत्प्रोक्षिणं विषनाशनम् ॥ ५ ॥
लाक्षा प्रियङुमञ्जिष्ठासमङ्गा सहरेणुका ॥
सयष्ट्याह्वमधूपेता बभ्रुपित्तेन कल्किताः ॥ ६ ॥
निखनेद्गोविषाणस्था सप्तरात्रं महीतले ॥
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥ ॥ ७ ॥
संस्पृष्टस्सविषस्तेन सद्यो भवति निर्विषः ॥
मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः ॥ ८ ॥
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥
धनोगवः कपिल्लायाः सौम्याख्योऽयं पुरो गदः ॥ ९ ॥
विषजित्परमः प्रोक्तो मणिरत्र च पूर्ववत् ॥
मूषकाजिरका चापि हस्ते बद्ध्वा विषापहा ॥ १० ॥
हरेणुमासी मंजिष्ठा रजनीमधुकं मधु ॥
अक्षत्वक्सुरसं…. ..श्वपित्तं पूर्ववर्मणि ॥ ११ ॥
वादित्राणि पताकाश्च विष्टैरेतैः प्रलेपिता ॥
श्रुत्वा दृष्ट्वा समाधाय सद्यो भवति निर्विषः ॥ १२ ॥
तत्पूषणं पञ्चलवणं मञ्जिष्ठारजनीद्वयम् ॥
सूक्ष्मैला त्रिवृतापत्रं विरुङ्गानींद्रवारुणी ॥ १३ ॥
मधुकं चेति सक्षौद्रं गोविषाणैर्निधापयेत् ॥
तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा ॥ ॥१४॥
विषं भुक्तं जरां याति निर्विषोपि न दोषकृत् ॥
संतुसर्जरसोशीरसर्षपापत्रवालुकैः ॥१५॥
सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च॥
धूपोवासो गृहे हन्ति विषं स्थावरजङ्गमम् ॥ १६ ॥
न तत्र कीटा न विषा दर्दुरा न सरीसृपाः ॥
न कृत्याः कर्म नाऽन्यच्च धूपोयं यत्र दह्यते ॥ १७ ॥
कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः ॥
पूर्वैलवालुसुरसानाकुलीतण्डुलीयकैः ॥ १८ ॥
क्वाथः सर्वोदकार्येषु काकमाचीजलैर्वृतः ॥
रोचनापत्र नैपालीकुंकुमैस्तिलकं वहन् ॥ १९ ॥
विषं न बाधते स्याच्च नरनारीनृपप्रियः ॥
चूर्णैर्हरिद्रामंजिष्ठाकिणिहीकणनिम्बकैः ॥ २० ॥
जिघ्रं न्निर्विषतामेति गात्रं सर्वविषार्दितम् ॥
शिरीषस्य फलं पत्रं पुष्पं त्वङ्मलमेव च ॥ २१ ॥
गोमूत्रपिष्टो ह्यगदः सर्वकर्मकरः स्मृतः ॥
एता वीरमहौषध्यः शृणु चातः परं द्विज ॥ २२ ॥
वन्ध्या कर्कोटकी राम विष्णुक्रान्ता तथोत्कटा ॥
शतमूला शतानन्दा बलास्फोटा पटोलिका ॥ २३ ॥
सोमा पिण्डा निशा चैव तथा दग्धरुहा जया ॥
स्थले कमलिनी या च पिंगली शृङ्गमूलिका ॥ २४ ॥
चण्डाली हस्तिचण्डाली गोचण्डाली कवन्धिका ॥
रक्ता चैव महारक्ता तथा बर्हिशिखा च या ॥ २५ ॥
कोशातकी नक्रमालं पियालं च स्वलक्षणा ॥
चारणा च सुगन्धा च तथा वै गन्धनाकुली ॥ २६ ॥
ईश्वरी च सलिङ्गी च सोमली वंशनालिका ॥
जतुकारी तथा श्वेता श्वेता च मधुयष्टिका ॥ २७ ॥
वज्जटः पारिभद्रश्च तथा वै सिन्धुवारिका ॥
जीवानन्दी वसुमती न तं नागकटं कटम् ॥ २८ ॥
तालना जालपातालं तथा च वटपत्रिका …
करक्षीरा महानीली कह्लारं हंसपादिका ॥ २९॥
मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके ॥
सर्पाक्षी लवणा ब्राह्मी विश्वरूपा सुखंकरी ॥ ३० ॥
रुजापहा शुद्धिकरी तथा शल्यापहा च या ॥
पत्रिका रोहिणी चैव रक्तला च महौषधी ॥ ३१ ॥
तथामलकवन्दारु यावचित्रा पटोलिका ॥
काकोली क्षीरकाकोली पीलुपर्णी मनोवती ॥ ३२ ॥
केशनी वृश्चिका काली महानागा शतावरी ॥
तथा गरुडवेगा च स्थलेकुमुदिनी च या ॥ ३३ ॥
स्थले चोत्पलिनी या च महाभूमिलता च या ॥
उन्मादिनी सोमराजी सर्वरत्नानि भार्गव ॥ ३४ ॥
विशोषामरकतं तत्र कीटपक्षं विशेषतः ॥
जीवजाताश्च मणयस्सर्वे धार्या विशेषतः ॥ ३५ ॥
रक्षोघ्नाश्च यशस्याश्च कृत्या वेतालनाशिनः ॥
विशेषान्तरनागाश्च गोखरोष्ट्रसमुद्भवाः ॥ ३६ ॥
सर्पतित्तिरगोमायुबभ्रुमण्डूकजाश्च ये ॥
सिंहव्याघ्रर्क्षमार्जारद्वीपवानरसम्भवाः ॥ ३७ ॥
कपिञ्जलाजगोधाविमहिषैणभवाश्च ये ॥ ३८ ॥
इत्येवमेतैस्सकलैरुपेतं द्रव्यैः पुरं रक्षितसञ्चयं च ॥
राजा वसेत्तत्र गृहं च शुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम् ॥ ३९ ॥
इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे अगदङ्कराध्यायो नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥
2.28
॥ राम उवाच ॥
राजरक्षारहस्यानि यानि दुर्गे निधापयेत् ॥
कारयेद्वा महीभर्ता कथयस्वाशु तानि मे ॥ १ ॥
पुष्कर उवाच ॥
शिरीषोदुम्बरशमीबीजपूरं घृतप्लुतम् ॥
क्षुद्योगः कथितो राम मासार्धस्य पुरातनैः ॥ २ ॥
कषेरूत्पलमूलानि इक्षुमूलं तथा विमम् ॥
दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परम् ॥ ३ ॥
शूलप्रोतं नरं प्राप्य तस्यास्थ्नामरणी भवेत् ॥
कल्माषवीणुना तत्र जनयेत्तु विभावसुम् ॥ ४ ॥
गृहे त्रिरपसव्यं तत्क्रियते यत्र भार्गव ॥
नान्योग्निर्ज्वलते तत्र नात्र कार्या विचारणा ॥ ५ ॥
कर्पासास्थि भुजङ्गस्य तथा निर्मोचनं परम् ॥
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥ ६ ॥
सान्द्रसत्त्वा च वयसा विद्युद्दग्धा च मृत्तिका ॥
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते द्विज ॥ ७ ॥
दिवा च दुर्गे रक्षोऽग्निर्वाति वाते विशेषतः ॥
विषाच्च रक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे ॥ ८ ॥
क्रीडानिमित्तं नृपतेर्धार्याः स्युर्मृगपक्षिणः ॥
अन्नं च प्राक्प्ररीक्षेत वह्नावथ नरेषु च ॥ ९ ॥
वस्त्रं पत्रमलङ्कारं भोजनाच्छादने तथा ॥
नापरीक्षितपूर्वं तु स्पृशेदपि महीपतिः ॥ १० ॥
श्यावास्यवक्त्रः सन्तप्तः सोद्वेगं च परीक्षते ॥
विषदेन विषं दत्तं यत्र तत्र निरीक्षते ॥ ११ ॥
स्रस्तोत्तरीयो विमनाः स्तम्भकुण्ड्यादिभिस्तथा ॥
प्रच्छादयति चात्मानं खिद्यते लज्जते तथा ॥ १२ ॥
भुवं विलिखते ग्रीवां तथा चालयते द्विज ॥
कण्डूयति च मूर्धानं परिलेढ्यधरं तथा ॥ १३ ॥
क्रियासु त्वरते राम विपरीतास्वपि ध्रुवम् ॥
एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ॥ १४ ॥
ततो विचायेदग्नौ तदन्नं त्वरयान्वितः ॥
इन्द्रायुधसवर्णस्तु वृक्षस्फोटसमन्वितः ॥ १५ ॥
एकावर्तोऽथ दुर्गन्धी भृशं चटचटायते ॥
तद्धूमसेवनाज्जन्तोः शिरोरोगश्च जायते ॥ १६ ॥
सविषेऽन्ने निलीयन्ते न च भार्गव मक्षिकाः ॥
निलीनाश्च विपद्यन्ते दृष्टे च सविषे तथा ॥ १७ ॥
विरज्यति चकोरस्य दृष्टिर्भार्गवसत्तम ॥
विकृतिं च स्वरो याति कोकिलस्य तथा द्विज ॥ १८ ॥
गतिः स्खलति हंसस्य भृङ्गराजश्च कूजति ॥
क्रौंचो मदमथाभ्येति कृकवाकुर्विरौति च ॥ १९ ॥
विक्रोशति चकोरश्च शारिका वाशते तथा ॥
चामीकरोऽन्यतो याति मृत्युं कारण्डवस्तथा ॥ २० ॥
मेहते वानरो राम ग्लायते जीवजीवकः ॥
हृष्टरोमा भवेद्बभ्रुः पृषतश्चैव रोदिति ॥ २१ ॥
हर्षमायाति च शिखी सविषे दर्शने द्विज ॥
अन्नं च सविषं राम चिरेण च विपच्यते ॥ २२ ॥
तथा भवत्यतिस्रावं पक्वं पर्युषितोपमम् ॥
व्यापन्नरसगन्धं च चन्द्रिकाभिस्तथा युतम् ॥ २३ ॥
व्यञ्जनानां च शुष्कत्वं द्रवाणां बुद्बुदोद्भवः ॥
ससैन्धवानां द्रव्याणां जायते फेनमालिका ॥ २४ ॥
रसस्य राजी नीला स्यात्ताम्रा च पयसस्तथा ॥
कोकिलाभा च सध्यस्य तोयस्य च भृगूत्तम ॥ २५ ॥
धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च ॥
मधुश्यावा च तक्रस्य नीला पीता तथैव च ॥ २६ ॥
घृतस्योदकसंकाशा कपोताभा च मस्तुनः ॥
हरिता साक्षिकस्यापि तैलस्य च तथारुणा ॥ २७ ॥
फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते ॥
प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा ॥२८॥
मृदुता कठिनानां स्यान्मृदूनां च विपर्ययः ॥
सूक्ष्मतन्तूपसदनं तथा चैवातिरोमता ॥२९॥
श्याममण्डलता चैव वस्त्राणामविशेषतः ॥
लोहानां च मणीनां च मलपङ्कोपदिग्धता ॥ ३० ॥
अनुलेपनगन्धानां स्नानानां च भृगूत्तम ॥
विगन्धता च विज्ञेया पर्णानां म्लानता तथा ॥ ३१ ॥
पीता नीला सिता ज्ञेया तथा रामाञ्जनस्य च ॥
दन्तकाष्ठत्वचः शान्तास्तन्तुसत्त्वं तथैव च ॥ ३२ ॥
एवमादीनि चिह्नानि विज्ञेयानि भृगूत्तम ॥
तस्माद्राजा सदा तिष्ठेन्मणिमन्त्रौषधीगणैः ॥ ३३ ॥
आप्तैः संरक्षितो राम प्रमाद परिवर्जकैः ॥ ३४ ॥
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्वृत्तिमुपैति राष्ट्रम् ॥
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या भृगुवंशचन्द्र ॥ ३५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० राजरक्षावर्णनन्नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥
2.29
राम उवाच ॥ ॥
वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज …
हिताय मानवेन्द्राणां तथान्येषां च मानद ॥ १ ॥
पुष्कर उवाच ॥ ॥
भूमिमादौ परीक्षेत शुभलक्षणलक्षिताम् ॥
पूर्वोदक्प्रवणां धन्यां तथा वै दक्षिणोन्नताम् ॥२॥
न तथा शिकटच्छिन्नां नान्यत्तोयपरिप्लुताम् ॥
वल्मीकमूषिकावासश्वभ्रकण्टकितैर्द्रुमैः॥ ३॥
विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूषराम् ॥
न तथा यवसंस्थानां नेभवज्रोपमां तथा ॥४॥
न शूर्पकूर्मसंस्थानां शक्तिहीनां तथैव च॥
सम्पूर्यमाणां कृमिभिस्तथाधिकमृदं शुभाम् ॥ ५ ॥
गर्भे च कुसुमं यस्यां न म्लानिमुपगच्छति ॥
न निर्वाणमवाप्नोति यस्यां दीपश्च भार्गव ॥ ६ ॥
उदकं च तथा यस्यां शीघ्रं राम न जीर्यते ॥
सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः ॥ ७ ॥
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्॥
विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज ॥८॥
घृतासृगन्नमद्यानां तुल्यगन्धा तथैव च ॥
मधुरा च कषाया च अम्लोषणरसा तथा ॥९॥
कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च सम्भृता ॥
परीक्ष्य यत्नतो भूमिं तिथिनक्षत्रसम्पदा ॥१०॥
सम्पूज्य ब्राह्मणान्पूर्वं निश्शल्यां तां तु कारयेत्॥
खातपूर्वां ततः कृत्वा देवभागांश्च कल्पयेत् ॥ ११ ॥
चतुःषष्टिपदं कृत्वा वास्तुपूर्वं यथाविधि ॥
चतुःषष्टिविभागेन कल्पयित्वा समन्ततः ॥ ॥ १२ ॥
एकैकं तु गृहं तत्र तथैव परिकल्पयेत् ॥
यस्मात्पुरविभागेन द्वारन्यासः प्रकीर्तितः ॥ १३ ॥
अतः परं प्रवक्ष्यामि देवभागान्यथाविधि॥
मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः ॥ १४.॥
प्राक्तथा निग्रहः स्वामी कथितश्च तथार्यमा ॥
दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः ॥ १५ ॥
उदक्पृथ्वीधरश्चैव विकोणेष्वथ मे शृणु ॥
विकोणे शिवदैवत्ये कामपक्षावुभौ सुरौ ॥ १६ ॥
सावित्रीसवितारौ तु तथाग्नेये प्रकीर्तितौ ॥
तथा नैर्ऋतकोणे तु जयेन्द्रौ राम कीर्तितौ ॥ १७ ॥
भद्रव्याधी तु वायव्ये कथितौ भृगुनंदन ॥
देवतानां तथैतासां भूयो बाह्ये तु मण्डले ॥१८॥
पूर्वादिषु यथा दिक्षु देवतास्तान्निबोध मे ॥
महेन्द्रश्च रविस्सत्यो भृशः प्राग्राम कीर्तिताः ॥ १९ ॥
गृहक्षितो यमो भृङ्गो गन्धर्वश्चैव याम्यतः ॥
भल्लाटश्च तथा सोम अदितिर्धनदस्तथा ॥ २० ॥
उत्तरेण स्मृता देवा विकोणेष्वथ मे शृणु ॥
दितिरीशौ मेघजयौ शिवकोणे प्रकीर्तितौ ॥ २१ ॥
व्योमाग्नी पूषवितथौ शिखिकोणे च भार्गव ॥
मृगपित्रीशदौवारिसुग्रीवाश्चैव नैर्ऋते ॥ २२ ॥
रोगानायुश्च नागश्च मुख्याश्वानिलदिक्स्थिताः ॥
ततोऽपि बाह्यतश्चाष्टौ शृणुष्व गदतो मम ॥ २३ ॥
अष्टावष्टौ विनिर्दिष्टा देवा दिक्षु विदिक्षु च ॥
आद्यन्तौ तु तयोर्देवौ प्रोक्तावथ ग्रहेश्वरौ।
पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः ॥
महेन्द्ररविसत्याश्च भृशोऽथ गमनस्ततः ॥ २५ ॥
पवनश्च महाभागाः पूर्वेणैते प्रकीर्तिताः ॥
पुष्योऽथ त्रितुदश्चैव तथैव च ग्रहर्क्षतः ॥ २६ ॥
यमो भृशश्च गन्धर्वो मृगोऽथ पितरस्तथा ॥
दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह ॥ २७ ॥
दौवारिकश्च सुग्रीवः पुष्पदंतस्तथा सुरः ॥
वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च ॥ २८ ॥
पश्चिमेन विनिर्दिष्टा देवा दानवनाशनाः ॥
नागराजस्तथा मुख्यो भल्लाटश्च तथा शशी ॥ २९ ॥
अदितिश्च कुबेरश्च नागश्चाथ हुताशनः ॥
एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज ॥ ३० ॥
एतेषामेव देवानां भागे द्वाराणि कारयेत् ॥
शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत् ॥ ३१ ॥
महेन्द्रसोमदैवत्यौ पूर्वतः शुभदौ स्मृतौ ॥
गृहर्क्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ ॥ ३२ ॥
सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतो द्विज ॥
भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा ह्युदक् ॥३३॥
द्वात्रिंशच्च बहिर्देवास्तथान्तर्द्वादश स्मृताः ॥
मध्ये ब्रह्मा तथा प्रोक्त एवं ते पिण्डदेवताः ॥ ३४ ॥
चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव ॥
विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज ॥ ३५ ॥
तत्र देवविभागेन गृहकर्म विधीयते ॥
चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे ॥ ३६ ॥
भगवत्संग्रहं कुर्याद्यथासंस्थानतो द्विज ॥
सूर्यान्तरिक्षसत्याग्निभागेषु च महानसम् ॥ ३७ ॥
वाय्वन्तरिक्षसुग्रीवभल्लाटपितृदैवते ॥
गंधर्वपुष्पदन्ताख्ये भागे कूपं तु कारयेत् ॥ ३८ ॥
एकवृक्षाधिकं तत्र तथा कुर्याद्द्विजोत्तम ॥
अथवा दिग्विभागेन गृहकर्म विधीयते ॥ ३९ ॥
ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम् ॥
अग्न्यागारं च तत्रैव भ्रमं नैर्ऋतके तथा ॥ ४० ॥
कोष्ठागारायुधागारौ वायव्यां च तथा स्मृतौ ॥
कूपादिस्थोदकं शस्तं दिक्षु चैवोत्तरासु च ॥ ४१ ॥
अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत् ॥
पुराणं नवमिश्रं तु दारुवेश्मनि वर्जयेत् ॥ ४२ ॥
सकुड्यं परकुड्यं च नैव कार्यं विजानता ॥
विनार्कचन्द्रग्रहणं द्वारसम्परिवर्तनम् ॥ ४३ ॥
वृद्धिक्षयौ न कर्तव्यौ भूयः कर्मणि वेश्मनः ॥
प्रागुत्तरेऽथवा कार्यौ ब्राह्मणानुमते तथा ॥
ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव ॥ ४४ ॥
न पीडनीयं च तथा नागदन्तादिभिर्भवेत् ॥
मर्माणि राम जानीयाद्देवतापदसन्धिषु ॥ ४५ ॥
न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज ॥
ये द्रुमा वटसंसिक्तास्तथा ये च सकोटराः ॥४६ ॥
हस्तिविद्युद्धता ये च देवतावेश्मजाश्च ये ॥
वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे॥४७॥
रोकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन ॥
वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च ॥ ४८ ॥
मध्वाज्यदिग्धेन तथा छिन्द्यात्परशुना द्विजः ॥
पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्तितम् ॥४९॥
शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम ॥
वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ ॥५० ॥
पुष्यकं शाल्मलिश्चैव पलाशं च विवर्जयेत ॥
विस्तारद्द्विगुणोच्छ्रायं द्वारं कार्यं तथा गृहे॥५१ ॥
निधिप्रथमको नागहंससारसचित्रितम् ॥
द्वारको नेत्रमद्वाभ्र चतुष्पथसुरालयैः॥५२॥
कूपैकवृक्षरथ्याभिर्विद्धं द्वारं विवर्जयेत्॥
द्विगुणात्तु गृहोच्छायाद्भूमिं त्यक्त्वा न दोषभाक्॥५३॥
आध्मातं सकटं राम तथाम्बुप्लवि यद्भवेत्॥
द्वारं न तत्प्रशंसन्ति तस्मात्तु परिवर्जयेत्॥५४॥
पुरद्वाराधिकं श्रीदं भागेषु च तथा भ्रमम्॥
धनदस्य तथा भागैर्धनवेश्म विधीयते॥५५॥
इन्द्रसत्येन्द्रसुग्रीवद्वारमन्यत्र कारयेत् ॥
स्तम्भं तु नवधा कृत्वा पीठे भागं तु कारयेत् ॥ ५६ ॥
भागे कुम्भस्तथा कार्यो भागे पद्मं निवेशयेत् ॥
स्तम्भं भागत्रये कार्यमष्टास्रमथ वर्तुलम् ॥ ५७ ॥
तस्योपरि तथा भागे भवत्यामलसारकम् ॥
भागदोषे तुला कार्या भागे कार्या तथा तुला ॥ ५८ ॥
एकशालचतुश्शालौ कर्तव्यौ स्वेच्छया सदा ॥
पूर्वोत्तराभिः शालाभिर्हीनं कार्यं द्विशालकम् ॥ ५५ ॥
अन्यथा गर्हितं राम सुतार्थक्षयदं मतम् ॥
अष्टहस्तोच्छ्रयादूर्ध्वं भूमिकां तु न कारयेत् ॥ ६० ॥
वास्तूच्छ्रायं न कर्तव्यं तथा हस्तशताधिकम् ॥
आरम्भं सशिलान्यासं द्वारस्तम्भोच्छ्रयावुभौ ॥ ६१ ॥
तथारोहणनिष्पत्ती तथा वास्तुप्रवेशनम् ॥
सर्वाण्येतानि कार्याणि दिवसे राम पूजिते ॥६२॥
शेषेष्वेतेषु कर्तव्यं देवब्राह्मणपूजनम् ॥
कालज्ञपूजनं चैव स्थपतीनां च भार्गव ॥ ६३ ॥
प्रावृट्काले न कर्तव्यं वास्तुकर्म विजानता॥
कृष्णपक्षत्रिभागान्ते शुक्लाद्ये च भृगूत्तम ॥ ६४ ॥
तिथिं चतुर्थी नवमीं वर्जयेच्च चतुर्दशीम् ॥
अङ्गारकदिनं राम करणं विष्टिसंज्ञितम् ॥ ६५ ॥
दिव्यान्तरिक्षक्षितिजैरुत्पातैर्भं च पीडितम् ॥
ग्रहोपस्पृष्टं च तथा व्यतीपातहतं च यत् ॥ ६६ ॥
चन्द्रतारानुकूले भे वास्तुकार्यं विजानता ॥
ध्रुवाणि तानि शस्तानि शाक्रं वै नैर्ऋतं तथा ॥६७॥
सौम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च ॥
स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयात्मके ॥६८ ॥
यस्य सौम्यग्रहाः केन्द्रे त्रिकोणे चापि भार्गव ॥
पापाश्चोपचयस्थाने तस्मिन्कार्यं प्रवेशनम् ॥ ६९ ॥
केन्द्रस्थं वर्जयेत्पापं सर्वयत्नेन कर्मसु ॥
केन्द्रं सौम्ययुतं देवं न तु शून्यं कदाचन ॥ ७० ॥
अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव ॥
चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ॥७१॥
कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज ॥
श्रियः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ॥ ७२ ॥
पूजनं मण्डले कार्यं वास्तुदेवगणस्य च ॥
गन्धार्धपुष्प नैवेद्यधूपदीपैर्भृगूत्तम ॥ ७३ ॥
तेषां सम्पूजनं कृत्वा समादाय हुताशनम् ॥
ओंकारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु ॥ ७४ ॥
श्रियः कृत्वा ततो होमं ब्रह्मणः कारयेत्ततः ॥
ब्रह्माणं तु पुरस्कृत्य वास्तुदेवगणस्य च ॥ ७५ ॥
होतव्यमाज्यं धर्मज्ञ यस्य देवस्य हूयते ॥
तत्कालमाशु भजते लक्षणेग्नौ द्विजोत्तम ॥ ७६ ॥
तस्य देवस्य यत्स्थानं तत्र शल्यं विनिर्दिशेत् ॥
शल्यस्योद्धरणं कार्यं राम यत्नेन जानता ॥ ७७ ॥
मध्ये शैलमयं कुम्भं शंकुं च स्थापयेद्बुधः ॥
ऐशाने च ततः कोणे शिलां पूर्वं प्रतिष्ठयेत् ॥ ७८ ॥
प्रदक्षिणं ततो राम शिलान्यासं विधीयते ॥
कुम्भस्य च शिलानां च ततः स्नानं विधीयते ॥७९॥
वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः ॥
ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना ॥८०॥
आच्छादनं ततः कार्यं वासोभिः कुसुमैः शुभैः ॥
धूपं प्रदीपं नैवेद्यं तेषां राम निवेदयेत् ॥ ८१ ॥
दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते ॥
कालवित्स्थपती पूज्यौ ततो राम विजानता ॥ ८२ ॥
ततो मन्त्रं जपेत्कर्ता कालज्ञः स्थपतिः स्वयम् ॥
गृहं पुष्टिकरं राम मुनिवक्त्राद्विनिस्सृतम् ॥ ८३ ॥
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥
जये जयावहे देवि प्रजानां जयमावह ॥ ८४ ॥
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व माम ॥
भद्रे कश्यपदायादे कुरु भद्रां मतिं मम ॥ ८५ ॥
सर्वबीजसमायुक्ते सर्वरत्नौषधैर्वृते ॥
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥ ८६ ॥
प्रजापतिसुते देवि चतुरग्रे महीमये ॥
सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यताम् ॥ ८७ ॥
पूजिते परमाचायैर्गन्धमाल्यैरलंकृते ॥
भवभूतिकरी देवि गृहं भार्गवि रम्यताम् ॥ ८८ ॥
अव्यङ्गे चाकृते पूर्णे सुनेत्र्यङ्गिरसः सुते ॥
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् ॥ ८९॥
देशस्वामिपुरस्वामिगृहस्वामिगृहे वस ॥
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥ ९० ॥
गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः ॥
कर्तव्यः सकलो राम शिलान्यासविवर्जितः ॥ ९१ ॥
पूजितापरलक्ष्मीकं हुत्वाग्निं चाप्यलंकृतम् ॥
पञ्चरङ्गेन सूत्रेण बद्धप्रतिसरं तथा ॥ ९२ ॥
सफलेषु च बाणेषु दिशासु विदिशासु च ॥
गवाक्षकेषु कर्तव्याश्चक्रा रक्षोहणास्तथा ॥ ९३ ॥
सर्वस्यास्य तथा न्यासं मन्त्रै रक्षोहणैर्भवेत् ॥
गोपृष्ठविन्यस्तकरः प्रविशेच्च गृही गृहम् ॥ ९४ ॥
स्वऽनुलिप्तस्सुखी स्रग्वी सपत्नीकस्तथैव च ॥
द्विजपुण्याहघोषेण वीणावेणुरवेण च ॥
बन्दिनां च निनादेन पटहानां स्वनेन च ॥ ९५ ॥
काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णघटाभिरामम् ॥
प्रविश्य कालज्ञसमर्चितानां कृत्वार्चनं तत्र सुरोत्तमानाम् ॥ ९६ ॥
सम्पूज्य वह्निं द्विजपुङ्गवांश्च माङ्गल्यमालभ्य च भोजयित्वा ॥
विप्रान्मधुक्षीरघृतोत्कटान्नैः सदक्षिणांस्तांश्च तथा विसर्ज्य ॥ ९७ ॥
सप्ताहमग्निं परिचर्य तत्र सम्पूज्य विप्रान्विधिवच्च राम ॥
गृहे वसेत्पूजितदेवविप्रे शुचौ सदा सर्वगुणोपपन्ने ॥ ९८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु वास्तुविद्यावर्णनन्नामैकोनत्रिंशत्तमोऽध्यायः ॥ २९ ॥
2.30
॥ पुष्कर उवाच ॥ ॥
उत्तरेण शुभः प्लक्षो वटः प्राग्भार्गवोत्तम ॥
उदुम्बरश्च याम्येन सौम्येनाश्वत्थ एव च ॥ १ ॥
एते क्रमेण नेष्यन्ति दक्षिणादिसमुद्भवाः ॥
समीपजाताश्च तथा वर्ज्याः कण्टकिनो द्रुमाः ॥ २ ॥
वामभागे तथोद्यानं कुर्याद्वासगृहाच्छुभम् ॥
वापयेत्प्राक्तिलांस्तत्र मृन्दीयात्तांश्च पुष्पितान् ॥ ३ ॥
ततस्तु रोपयेद्वृक्षान्प्रयतः सुसमाहितः ॥
स्नातो द्रुममथाभ्यर्च्य ब्राह्मणांश्च शिवं तथा ॥ ४ ॥
ध्रुवाणि पञ्च वायव्यं हस्तः पुष्यः सवैष्णवः ॥
नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे ५५॥
उद्यानं सजलं राम नाभिरामं यदा तदा ॥
प्रवेशयेन्न विपट (कुरुहान् )पुष्करिण्यश्च कारयेत् ॥ ६ ॥
संस्कार्यमुद्भिदं तोयं कूपाः कार्याः प्रयत्नतः ॥
हस्तं मघा तथा मैत्रं सौम्यं पुष्यं च वासवम् ॥ ७ ॥
उत्तरात्रितयं राम तथा पूर्वा च फल्गुनी ॥
जलाशयसमारंभे प्रशस्ते वारुणं तथा ॥ ८ ॥
सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च ॥
तर्पयित्वा द्विजान्कामैस्तदारंभकरो भवेत् ॥ ९ ॥
अथोद्याने प्रवक्ष्यामि प्रशस्तान्पादपान्द्विज ॥
अरिष्टाशोकपुन्नागशिरीषाम्रप्रियङ्गवः ॥ १० ॥
पनसाशोकदचलीजम्बूलकुचदाडिमाः ॥
माङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥ ११ ॥
कृत्वा बहुत्वमेतेषां रोप्यास्सर्वे ह्यनन्तरम् ॥
शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम् ॥ १२ ॥
असनं देवदारुं च पलाशं पुष्करं तथा ॥
न विवर्ज्यस्तथा कश्चिद्देवोद्यानेषु जानता ॥ १३ ॥
तत्रापि बहुता कार्या माङ्गल्यानां द्विजोत्तम ॥
सायं प्रातस्तु घर्मान्ते शीतकाले दिनान्तरे ॥ १४ ॥
वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥
उत्तमं विंशतिर्हस्तं मध्यमं षोडशांतरम् ॥ १५ ॥
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥
अभ्याशजातास्तरवः संस्पृशन्तः परस्परम् ॥ १६ ॥
अव्यक्तमिश्रमूलत्वाद्भवन्ति विफला द्विज ॥
तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम् ॥ १७ ॥
आदौ संशोधनं तेषां किञ्चिच्छस्त्रेण कारयेत् ॥
विडङ्गघृतपङ्काक्तान्सेचयेच्छीतवारिणा ॥ १६ ॥
फलनाशे कुलुत्थैश्च माषैर्मुद्गैस्तिलैर्यवेः ॥
श्रितशीतपयस्सेकः फलपुष्पाय सर्वदा ॥ ॥ १९ ॥
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ॥
गोमांसमुदकं चेति सप्तरात्रं निधापयेत् ॥ २० ॥
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम् ॥
रंगतोयोषितं बीजं रंगतोयाभिषेचितम् ॥ २१ ॥
उदग्रपुष्पं भवति यौवने नात्र संशयः ॥
मत्स्याम्भसा तु सिक्तेन वृद्धिर्भवति शाखिनाम् ॥ २२ ॥
ततः प्रधानतो वक्ष्ये द्रुमाणां दोहदान्यहम् ॥
मत्स्योदकेन शीतेन चाम्राणां सेक इष्यते ॥ २३ ॥
मृद्वीकानां तथा कार्यस्तेनैवं रिपुसूदन ॥
पक्वासृग्रुधिरं चैव दाडिमानां प्रशस्यते ॥ २४ ॥
तुषं देयं च भव्यानां मद्यं च बकुलद्रुमे ॥
विशेषात्कामिनीवक्त्रसंसर्गात्तु गुणं च यत् ॥ २५ ॥
प्रशस्तं चाप्यशोकानां कामिनीपादताडनम् ॥
सृगालमांसतोयं च नारङ्गाक्षोटयोर्हितम् ॥ २६ ॥
मधुयष्ट्युदकं चैव बदराणां प्रशस्यते ॥
गन्धोदकं च गोमांसं कतकानां प्रशस्यते॥ २७ ॥
क्षीरसेकेन भवति सप्तपर्णो मनोहरः ॥
मांसपूतो वसामज्जासेकः कुरबके हितः ॥ २८ ॥
पूतिमत्स्यघृतं पूतिकर्पासाफलमेव च ॥
अरिमेदस्य सेकोऽयं पाटलेषु च शस्यते ॥ २९ ॥
कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत् ॥
जातीनां मल्लिकायाश्च गन्धतोयं परं हितम् ॥ ३० ॥
तथा कुब्जकजातीनां कूर्ममांसं प्रशस्यते ॥
खर्जूरनारिकेराणां वंशस्य कदलस्य च ॥ ३१ ॥
लवणेन सतोयेन सेको वृद्धिकरः स्मृतः ॥
विडङ्गः तण्डुलोपेतं मत्स्यमांसं भृगूत्तम ॥
सर्वेषामविशेषेण दोहदं परिकल्पयेत ॥ ३२ ॥
एवङ्कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवर्जिताश्च ॥
भवन्ति नित्यं तरवः सरस्याश्चिरायुषः साधुफलान्विताश्च ॥ ३३ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वृक्षायुर्वेदवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥
2.31
॥ पुष्कर उवाच ॥
दुर्गे सर्वगुणोपेते वास्तुलक्षणसंयुते ॥
वसन्विवर्धयेत्कोशं धर्मेण पृथिवीपतिः ॥ १ ॥
प्रजानां पालनं कार्यं तत्र स्थाने महीक्षिता ॥
स्वदेशे देवतायाश्च कृता राज्ञः पुरातनैः ॥ २ ॥
दायं वित्तं जनं तासां प्रयत्नेन च पालयेत् ॥
देवद्रव्यापहारेण राजा नरकमृच्छति ॥ ३ ॥
अस्मिन्नपि तथा लोके प्राप्नोति च पराभवम् ॥
पालयन्ति महीं देवाः पूजिताः पृथिवीक्षिता ॥ ४ ॥
दैवायत्तमिदं सर्वं भूतलं द्विजपुङ्गव ॥
धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः ॥ ५ ॥
रत्नानुसम्प्रदानैश्च पूजनीयाः सुरोत्तमाः ॥
पूजिताः पूजयन्त्येते चायुषा यशसा श्रिया ॥ ६ ॥
प्राप्यते देवताभक्त्या चानुष्ठाने महत्पदम् ॥
पूजिताः संप्रयच्छन्ति कामान्नृणामभीप्सितान् ॥ ७ ॥
एकमप्याश्रितो देवं राजा भार्गवनन्दन ॥
सर्वासां पूजनं कुर्याद्देवतानामसंशयम् ॥८ ॥
देवतानां न चोच्छिन्द्यात्पूर्वदायं कथञ्चन ॥
प्राक्स्थितं तन्न चोच्छिंद्यान्न च च्छिंद्यात्तथा नवम् ॥ ९ ॥
तच्छेत्ता नरकं याति सह पूर्वैः पितामहैः ॥
अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता ॥ १० ॥
स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत् ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ ११ ॥
देवद्रव्यापहरणान्नरकं प्रतिपद्यते ॥
सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भार्गव ॥ १२ ॥
दर्शयन्ति रुषं सौम्य राज्यभ्रंशादिभिर्नृणाम् ॥
अस्मिँल्लोके रुषं क्रूरां नैव कुर्वन्ति देवताः ॥ १३ ॥
तासां वित्तापहरणाद्राजा नरकमृच्छति ॥
पूर्वैः पितामहैस्सार्धं प्रागुक्तं फलमेव तु ॥ १४ ॥
देवद्रव्यापहरणं नैव जातु भवेद्वृथा ॥
सर्वस्वरहितान्कृत्वा देवद्रव्यापहारिणः ॥ १५ ॥
अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत् ॥
त्रैविद्या वणिजो वैश्या लिङ्गिनो देवपालकाः ॥ १६ ॥
तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः ॥
तेषां सहायकः स्वामी निग्रहानुग्रही भवेत् ॥ १७ ॥
रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत् ॥
दण्डं च देवतागामि देवद्रव्यस्य सूचकम् ॥ १८ ॥
सर्वान्विवासयेद्राजा धार्मिको धर्मकारणात् ॥
राज्ञा सर्वप्रयत्नेन पालनीयाः सुरालयाः ॥ १९ ॥
कर्तव्याश्च महाभाग सुरलोकमभीप्सता ॥
देवतास्तु प्रतिष्ठाप्य तल्लोकं ध्रुवमाप्नुयात ॥ २० ॥
कृत्वा देवगृहं शुभ्रं स्वर्गमाप्नोत्यनुत्तमम् ॥
तदा भोगप्रमाणेन लक्ष्मीस्तत्रापि भार्गव ॥ २१ ॥
मृत्प्रासादाद्दशगुणं स्थूलदारुकृते भवेत् ॥
फलं दशगुणं तस्मात्तथा पक्वेष्टकाकृते ॥ २२ ॥
तस्माद्दशगुणं शैले नात्र कार्या विचारणा ॥
यावत्संख्यं नरः कुर्याद्देववेश्म सुधासितम् ॥ २३ ॥
तावज्जन्मान्तराणीह यशसा स विराजते ॥
कृत्वा च चित्रविन्यासं गन्धर्वैः सह मोदते ॥ २४ ॥
कृत्वा संशोधनं तत्र विरोगः समपद्यते ॥
प्रोक्षयित्वा मनस्तापान्मानवः प्रतिमुच्यते ॥ २५ ॥
कृत्वोपलेपनं राम नाकमाप्नोत्यनुत्तमम् ॥
गान्धर्वलोकमाप्नोति कृत्वा वर्णकरञ्जितम् ॥ २६ ॥
गन्धैः समुक्षितं कृत्वा गन्धर्वैस्सह मोदते ॥
उपकारप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥ २७ ॥
गीतवाद्यप्रदानेन सुखमाप्नोत्यनुत्तमम् ॥
प्रेक्षणीयप्रदानेन रूपवानभिजायते ॥ २८ ॥
तथा औज्ज्वल्यमाप्नोति यत्रयत्राभिजायते ॥
स्नापयित्वा घृतेनार्चां सर्वपापैः प्रमुच्यते ॥ २९ ॥
स्नापयित्वा च तैलेन विरोगः समपद्यत ॥
अम्बुना स्नापयित्वा तु सौभाग्यमधिगच्छति ॥ ३० ॥
विरूक्षयित्वा तां राम पापं जहति मानवाः ॥
अनुलेपनदानेन रूपमाप्नोत्यनुत्तमम् ॥ ३१ ॥
तथा पुष्पप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥
धूपदानेन धर्मज्ञ रतिमाप्नोति शोभनाम् ॥ ३२ ॥
तथा दीपप्रदानेन चक्षुष्मानभिजायते ॥
अन्नदः सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥३३ ॥
पानकानां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम ॥
वसुदो रूपमाप्नोति रूपमाप्नोति रूप्यदः ॥ ३४ ॥
रुक्मदस्सर्वमाप्नोति श्रियमाप्नोति सर्वदः ॥
छत्रदः स्वर्गमाप्नोति तालवृन्तप्रदो दिवम् ॥ ३५ ॥
चामराणां प्रदानेन राजा भवति धार्मिकः ॥
पताकायाः प्रदानेन सर्वपापान्व्यपोहति ॥ ३६ ॥
ध्वजदानेन लोकेऽस्मिन्ध्वजभूतो भवेन्नरः ॥
नानाविधानां भोगानां तथा राम प्रदायकः ॥ ३७ ॥
तानेव भोगानाप्नोति सर्वमाप्नोति भूमिदः ॥
देवमाल्यापनयनाद्गोदानफलमाप्नुयात् ॥ ३८ ॥
तदाहुतिप्रदानेन तल्लोकमभिपद्यते ॥
नमस्कारप्रणामाभ्यामेनोभिः प्रतिमुच्यते ॥ ३९ ॥
प्रदक्षिणं तथा कृत्वा भवत्याचारवारन्नरः ॥
स्तुत्वा च देवतां राम मनोदुःखात्प्रमुच्यते ॥४०॥
सन्तर्पयित्वा तोयेन तृप्तिं समधिगच्छति ॥
तस्मात्सर्वप्रयत्नेन विशुद्धेनान्तराप्मना ॥ ४१ ॥
अर्चास्थाः पूजयेत्सर्वा देवता भूरिदर्शन ॥
तदाश्रितांश्च युञ्जीत तदा तद्विधिपारगान् ॥ ४२ ॥
तत्पूजने तथा राम तांश्च सम्पूजयेत्सदा ॥
ब्राह्मणाश्च नियोक्तव्या वेदोक्तसुरपूजने ॥४३ ॥
यस्य राज्ञस्तु विषये देववेश्म विशीर्यते ॥
तस्य सीदति तद्राष्ट्रं देववेश्म यथा तथा ॥ ४४ ॥
संस्कारं लम्भयेद्यस्तु देववेश्म पुरातनम् ॥
स च सौख्यमवाप्नोति यत्रयत्राभिजायते ॥ ४५ ॥
वापीकूपतडागानां सदा त्रिदशवेश्मनाम् ॥
भूयः संस्कारकर्ता च लभते मुक्तिजं फलम् ॥ ४६ ॥
देवसम्पूजनाद्राम वृद्धिं समुपगच्छति ॥
राज्ञस्तु विषये यस्य पूज्यन्ते सततं सुराः ॥४७ ॥
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ॥
राक्षसाश्च पिशाचाश्च रिपवश्च सुदारुणाः ॥४८॥
ईतयश्च तथैवान्या न भवन्ति द्विजोत्तम॥४९॥
तस्मात्प्रयत्नेन सदा नरेन्द्रैः पूजा विधेया विषये सुराणाम्॥
सुरार्चनात्पूतसमस्तपापास्स्वर्गं क्षितीशाश्चिरमाप्नुवन्ति ॥५०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सुरपूजामाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः॥३१॥
2.32
पुष्कर उवाच ॥
ब्राह्मणान्पूजयेद्राजा ब्राह्मणान्पालयेत्सदा ॥
ब्राह्मणा हि महाभाग देवानामपि दैवतम् ॥१॥
ब्राह्मणानां क्षितिं दद्याद्भोगानन्यांश्च पार्थिवः ॥
ब्राह्मणेषु तु यद्दत्तं निधिस्तत्पारलौकिकम् ॥ २ ॥
वेदलाङ्गलकृष्टेषु द्विजक्षेत्रेषु भारत ॥
उप्तस्य दानबीजस्य फलस्यान्तो न विद्यते ॥३॥
ब्रह्मस्वं चैव नादद्याद्ब्रह्मस्वं पालयेत्तथा ॥
ब्रह्मस्वहरणाद्राम नरकं पश्यते नरः ॥ ४ ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यतै ॥
विषमेकाकिनं हन्ति ब्रह्मस्वं सप्तपूरुषम् ॥ ५ ॥
ब्रह्मस्वं प्रणयाद्भुक्तं हिनस्त्यासप्तमं कुलम् ॥
द्रोहाद्भुक्तं तदेवेह कुलानां पातयेच्छतम् ॥ ६ ॥
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम्। ॥
हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ॥ ७ ॥
दृष्ट्वा विटं दुराचारं ब्राह्मणं न द्विषेत्क्वचित् ॥
ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः ॥ ८ ॥
न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ॥
नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ॥ ९ ॥
ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ॥
वर्षाणामयुतं राम पच्यते स्नायुपूरिते ॥ १० ॥
शोणितं यावतः पांशून्गृह्णातीह द्विजन्मनाम् ॥
कर्ता तावन्ति वर्षाणि कृतकृन्नरके वसेत् ॥ ११ ॥
उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ॥
ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा ॥ १२ ॥
देहत्यागाच्च नरकं ब्राह्मणोऽपि प्रपद्यते ॥
तेन चाधिकमाप्नोति राम पापं नराधमः ॥१३॥
अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतम् ॥
ब्राह्मणाश्च महाभागा नमस्यास्ते सदैव हि ॥ १४ ॥
ब्राह्मणानां तथा कार्यं यत्नात्कुर्वीत पार्थिवः ॥
कालातिपातं च तथा विप्रकार्ये न कारयेत् ॥ १५ ॥
निष्पीडितस्तूपवसेद्येन विद्वान्निशां जनः ॥
स राम नरकं याति वर्षाणां तु दशायुतम् ॥ १६ ॥
ब्राह्मणी रुदती हन्ति कुलं रोदायते ध्रुवम् ॥
तदश्रुवह्निर्दहति कुलं त्रिपुरुषं ध्रुवम् ॥ १७ ॥
विद्वानप्यथवाविद्वान्ब्राह्मणो मानमर्हति ॥
प्रणीतश्चाप्रणीतश्च यथाग्निर्द्विजपुङ्गव ॥ १८ ॥
प्रतिष्ठां प्राप्नुवन्तीह सुरा विप्रप्रतिष्ठिताः ॥ १९ ॥
तन्मुखे तु तथाश्नन्ति देवाश्च पितृभिः सह ॥
वह्नौ हुताच्छ्रेष्ठतमं हुतं विप्रमुखाग्निषु ॥ २० ॥
अस्कन्दमविरुद्धं च प्रायश्चित्तैर्विवर्जितम् ॥
यावतो ग्रसते ग्रासान्विद्वान्विप्रः सुसंस्कृतः ॥ २१ ॥
अन्नप्रदस्य तावन्तः क्रतवः परिकीर्तिताः ॥
ब्राह्मणानां करान्मुक्तं तोयं शिरसि धारयेत् ॥ २२ ॥
ब्राह्मणस्य करे यस्मात्सर्वतीर्थसमागमः ॥
ब्राह्मणेभ्यः समुत्पन्नं त्रैलोक्यं सचराचरम् ॥ २३ ॥
अमोघशापा धर्मज्ञ कथितास्ते जगत्त्रये ॥
आशीर्वादममोघं च ब्राह्मणानां प्रकीर्तितम् ॥ २४ ॥
आशीर्वादपराः कार्यास्तस्माद्राज्ञा द्विजोत्तमाः ॥
यैः कृतः सर्वभक्ष्योग्निरपेयश्च महोदधिः ॥ २५ ॥
क्षयी सोमोऽजवृषणस्तथैव च शतक्रतुः ॥
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥ २६ ॥
विपुलश्च तथा येषां प्रसादो भृगुनन्दन ॥
येषां प्रसादात्क्षीणोऽपि वृद्धिमिच्छति चन्द्रमाः ॥ २७ ॥
येषां प्रसादाद्रक्षोभिर्नाभिभूयेत भास्करः ॥
येषां प्रसादाद्विपुलां कार्तवीर्यः श्रियं गतः ॥ २८ ॥
येषां प्रसादाद्धनदो धनाध्यक्षत्वमागतः ॥
अस्नातः स्नानमाप्नोति व्रतमाप्नोत्यथाव्रती ॥ २९॥
येषां वचनमात्रेण किम्भूतमधिकं ततः ॥
भोगं राज्यं तथा स्वर्गं येषां वाक्येन लभ्यते ॥ ३० ॥
अपावनकरः क्रोधो येषां राम सदा स्थितः ॥
ते पूज्यास्ते च सत्कार्यास्तेषां दाराणि दापयेत् ॥ ३१ ॥
धारयन्ति जगत्सर्वं ब्राह्मणा वेदपारगाः॥
देवानाप्याययन्तीह ब्राह्मणा भृगुनन्दन ॥३२॥
ते तृप्तास्तर्पयन्तीह भुवनं सकलं सुराः ॥
ब्राह्मणेनाहुतिर्दत्ता वह्नौ भृगुकुलोद्वह ॥ ३३ ॥
आदित्यमाप्नोत्यादित्याद्वृष्टिर्भवति भूतले ॥
अन्नस्य च तथोत्पत्तिरन्नाद्भूतोद्भवः स्मृतः ॥ ३४ ॥
तस्मात्त्रिभुवनं सर्वं ब्राह्मणैरेव धार्यते ॥
ब्राह्मणप्रभवा भूमिर्ब्राह्मणप्रभवो दिवः ॥ ३५ ॥
ब्राह्मणानामिमे लोकाः परलोकास्तथैव च ॥
इज्यास्वाध्यायतपसामुपरोधाद्यदा द्विजाः ॥ ३६ ॥
स्वाम्यं भुवि न विन्दन्ति क्षत्त्रियास्तु तदा कृताः ॥
ब्राह्मणानां वचः कार्यं राजभिः सततोत्थितैः ॥ ३७ ॥
धर्ममर्थं च कामं च तेषां वाचि प्रतिष्ठितम् ॥
ब्राह्मणानां तु वाक्येन निग्रहानुग्रहावुभौ ॥ ॥ ३८ ॥
लोके कार्यौ भूमिभृता भूतिकामेन नित्यदा ॥
राजा ब्राह्मणवाक्येन यः कुर्याच्छासनादिकम् ॥ ३९ ॥
सम्यग्वाप्यथवासम्यक्तेन नाके महीयते ॥
उल्लंघ्य शास्त्रं नृपतिर्यो यथारुचि वर्तते ॥ ४० ॥
स राम नरकं याति सुकृतेनापि कर्मणा ॥
यत्र ब्राह्मणवाक्यानि न करोतीह यो नरः… ४१ ॥
न तत्र दोषवान्विप्रो राजा दोषेण लिप्यते ॥
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ॥ ४२ ॥
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥
यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा ॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ॥ ४३ ॥
तस्मात्पूज्या नमस्कार्यास्सं विभाज्यास्तथा द्विजाः ॥
राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता ॥ ४४ ॥
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ॥
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ ४५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वि०खण्डे मा० सं० रामं प्रति पुष्करवाक्ये ब्राह्मणप्रशंसावर्णनंनाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥
2.33
॥ पुष्कर उवाच ॥
साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः ॥
एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम् ॥ १ ॥
भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा ॥
या तु स्त्री सा दिवं याति सह भर्त्रा द्विजोत्तम ॥ २ …
एकपत्न्यस्तु यद्दुःखं सहन्ते द्विज सानुगाः ॥
तेन ताः स्वर्गमासाद्य सुखमायन्त्यनेकधा ॥ ३ ॥
तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम …
न कोपनीया नोपेक्ष्या नैव ताश्च विमानयेत् ॥ ४ ॥
नाहूयेदपराधेषु दण्ड्यस्तासां पतिर्भवेत् ॥
पुत्रो वाप्यथवा नीतौ नैव राजा प्रभुः क्वचित … ॥ ५ ॥
नैव साध्वी विनिर्दिष्टा केवलोपस्थरक्षणात् ॥
विप्रियं नाचरेत्किञ्चित्पत्युः साध्वीति सा स्मृता ॥ ६ ॥
कर्मणा मनसा वाचा भर्तुः प्रियहितैषिणी ॥
या नारी सा स्मृता साध्वी पतिपूजनतत्परा ॥ ७ ॥
नमस्कार्याश्च पूज्याश्च वन्दनीयाश्च भार्गव ॥
राज्ञा सर्वप्रयत्नेन तथा लोकैश्च सर्वशः ॥ ८ ॥
अनाथां च तथा साध्वीं बिभृयात्पार्थिवोत्तमः ॥
तस्यै यद्दीयते दानं तदनन्तं प्रकीर्तितम् ॥ ९ ॥
साध्वीनामपमानेन कुलं दहति पूरुषः ॥
तासां सम्पूजनाद्राम स्वकुलं चोन्नतिं नयेत् ॥ १० ॥
न धनेन न धान्येन न शीलेन न बन्धुभिः ॥
न यज्ञैर्दक्षिणावद्भिर्नाधीतेन तथैव च ॥ ११ ॥
अकुलानि कुलान्याहुः किन्तु स्त्रीणां विचेष्टितैः ॥
येषु साध्व्यः स्त्रियो राम कुलेषु कुलधूर्वहाः ॥ … १२ ॥
महाकुलानि तानीह कृशान्यपि धनैर्यदि ॥
पुत्राणामपि तत्पुत्रं साध्वी यस्यारणिर्भवेत् ॥ १३ ॥
हव्येषु साध्वीतनयं तथा कव्यषु योजयेत् ॥
तत्राल्पस्यापि दानस्य महत्पुण्यं प्रकीर्तितम् ॥ १४ ॥
गायत्री तु यथा राम यथा गङ्गा सरिद्वरा ॥
पावनी कीर्तनादेव तथा साध्वी वराङ्गना ॥ १५ ॥
रामास्तु भृगुशार्दूल न प्रदुष्यन्ति कर्हिचित् ॥
मासिमासि रजस्तासां दुष्कृतान्यपकर्षति ॥ १६ ॥
सोमस्तासां ददौ शौचं गन्धर्वः शिक्षितां गिरम् ॥
अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ १७ ॥
ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पृष्ठतः ॥
अजाश्वौ मुखतो मेध्यौ स्त्रियो मेध्यास्तु सर्वतः ॥ १८ ॥
यामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥
तानि कृत्याह तानीव विनश्यन्ति समन्ततः ॥ १९ ॥
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥
तस्मात्सर्वप्रयत्नेन पूजनीयाः सदा स्त्रियः ॥ २० ॥
मिथ्या न साध्वी भवतीह लोके भवत्यथास्मिन्नपरे च राम ॥
साध्व्यस्तथा पूज्यतमा प्रदिष्टा लोकेषु सर्वेषु चराचरेषु ॥ २१ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे साध्वीमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥ ॥ ३३ ॥
2.34
राम उवाच ॥ ॥
साध्वीनां श्रोतुमिच्छामि देव धर्मानशेषतः ॥
साध्व्यो हि नार्यो लोकानामाधार इह कीर्तितः ॥ १ ॥
॥ पुष्कर उवाच ॥ ॥
एतदेव परं राम रामाणां धर्मकारणम् ॥
यदासां सर्वकार्येषु नित्यं हि परतन्त्रता ॥ २ ॥
बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ॥
पुत्राणां भर्तरि प्रेते न स्त्री स्वातन्त्र्यमर्हति ॥ ३ ॥
पित्रा भर्त्रा सुतेनेह नेच्छेद्विरहमात्मनः ॥
तेषां च विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥ ४ ॥
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ॥
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५ ॥
यः प्रदद्यात्पिता त्वेनां तदभावेपि कारकः ॥
तं शुश्रूषेत जीवन्तं संस्थितं न तु लंघयेत् ॥ ६ ॥
मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजायते ॥
प्रयुज्यते विवाहेषु प्रदानं स्वामिकारितम् ॥ ७ ॥
अनृतावृतुकालोक्ते मन्त्रसंस्कारकृत्पतिः ॥
सुखं नित्यं ददातीह परलोके च योषितः ॥ ८ ॥
विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ॥
उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ ९ ॥
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ॥
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ १० ॥
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ॥
पतिलोकमभीप्सन्ती नाचरेत्किञ्चिदप्रियम् ॥११॥
कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ॥
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु॥१२॥
आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी ॥
यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम्॥१३॥
अनेकानि सहस्राणि सुमुग्धब्रह्मचारिणाम् ॥
दिवङ्गतानां विप्राणामकृत्वा कुलसन्ततिम् ॥ १४ ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता॥
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ १५॥
अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्त्तते ॥
सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥ १६ ॥
नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहा ॥
न द्वितीयश्च साध्वीनां कश्चिद्भर्तोपदिश्यते॥१७॥
पतिं हित्वा निकृष्टं स्वं चोत्कृष्टं या निषेवते॥
निन्द्यैव लोके भवति परपूर्वेति चोच्यते ॥ १८ ॥
व्यभिचारात्तु भर्तुः स्त्री लोकान्प्राप्नोति निन्दितान् ॥
शृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥ १९ ॥
पतिं या नाभिचरति मनोवाग्देहसंयता ॥
इहाग्र्यां कीर्त्तिमाप्नोति परलोके च शस्यते ॥ २० ॥
पत्युरभ्यधिकं नारी नोपवासव्रतं चरेत् ॥
अनायुष्यं द्विजश्रेष्ठ पत्युस्तस्यास्तदुच्यते ॥२१॥
देवताराधनं कुर्यात्कामं वा ब्राह्मणोत्तम ॥
नारी पतिव्रता राम प्राप्तानुज्ञां तु भर्त्तृतः ॥ २२ ॥
नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ॥
विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदैहिकम् ॥२३॥
स्त्रीणां पूज्यतमा लोके देवतागृहवासिनाम् ॥
या स्ताः सम्पूजनीयाः स्युस्तासामेव यथाविधि ॥ २४ ॥
तासां च पूजनं कार्यं विदितं स्वामिनस्तथा ॥
अन्यथा चेत्प्रवर्त्तेत निर्ग्राह्या सा प्रकीर्तिता ॥ २५ ॥
गत्वान्यपुरुषं नारी नरकं प्रतिपद्यते ॥
कूटशाल्मलिमित्युक्तं यावदाभूतसम्प्लवम् ॥ २६ ॥
गर्हिता च तथा पत्युर्नरकं याति भार्गव ॥
दशवर्षसहस्राणि तथैवाप्रियवादिनी ॥ २७ ॥
सर्वावस्थास्वपि स्त्रीषु न वधो विद्यते द्विज ॥
परेण शङ्कितामेनां संयतां वासयेद्गृहे ॥ २८ ॥
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ॥
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ २९ ॥
मूलकर्म न कर्त्तव्यं कथञ्चिदपि योषिता ॥
मूलकर्मरता नारी कल्पं नरकमावसेत ॥ ३०॥
दौर्भाग्यं महदाप्नोति तत्र यत्राभिजायते ॥
या च नारी सपत्नीनां कुर्याद्दौर्भाग्यकारणम् ॥ ३१ ॥
कुहकैः पश्यति सापि कल्पानां नरके द्विज ॥
पुंस्त्वमूलं तथा लक्ष्मों पत्युर्हिंसति सा तथा ॥३२॥
यक्षरक्षःपिशाचानां मूलकर्मरता सदा ॥
वश्यो भवति लोकेषु भर्ता तस्यास्तथैव च ॥ ३३ ॥
नारी कृत्वा पतिं वश्यं सततं मूलकर्मणा ॥
लभतेन्ते तु दौर्भाग्यं भूतैर्वा भक्ष्यते ध्रुवम् ॥३४॥
तस्मात्सर्वप्रयत्नेन मूलकर्म विवर्जयेत् ॥
आत्मानमथ भर्तारं नाशयेन्मूलकर्मणा ॥ ३५ ॥
ब्राह्मणी न पिबेन्मद्यं न च विट्क्षत्रियस्त्रियः ॥
सुरां पिबेयुर्धर्मज्ञ तत्पानान्नाशमाप्नुयुः ॥ ३६ ॥
ततो भवति धर्मज्ञ जलौका रक्तपायिका ॥
कल्पावशेषं सकलं तेन घोरेण कर्मणा ॥ ३७ ॥
परवेश्मरुचिर्न स्यान्न स्यात्कलहशालिनी ॥
न च तिष्ठेत्तथा द्वारि न च राम गवाक्षके ॥३८॥
मण्डनं वर्जयेन्नारी तथा प्रोषित भर्तृका ॥
देवताराधनपरा भवेद्भर्तृहिते रता ॥ ३९ ॥
धारयेन्मङ्गलार्थाय किञ्चिदाभरणं तथा ॥
न जातु विधवा वेषं कदाचिदपि कारयेत् ॥४०।
पतिव्रता तु या नारी सह भर्त्रा दिवङ्गता ॥
कल्पावशेषं मुदिता पूज्यते त्रिदशालये ॥ ४१ ॥
पतिव्रतां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम ॥
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ४२ ॥
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि ॥
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥ ४३ ॥
मृते भर्तरि या साध्वी पुत्रमाश्रित्य भार्गव ॥
तपसा शातयेद्देहं तेन स्वर्गे महीयते ॥ ४४ ॥
पतिपक्षे नरं कञ्चित्पुत्राभावे समाश्रयेत् ॥
बिभृयाद्धि स चाप्येनां भोजनाच्छादनैः सदा ॥ ४५ ॥
पतिपक्षे समुच्छिन्ने पितृपक्षः प्रभुः स्त्रियः ॥
विषमस्थापि भर्तव्या पितृपक्षे स्वबन्धुभिः ॥ ४६ ॥
मृतं भर्तारमादाय यदि वाथ पतिव्रता ॥
प्रविशेद्द्विजशार्दूल ज्वलितं जातवेदसम् ॥ ४७ ॥
तिस्रः कोट्योर्द्धकोटी च यानि लोमानि मानवे ॥
तावन्त्येव शताब्दानि स्वर्गलोके महीयते ॥ ४८ ॥
व्यालग्राही यथा सर्पं बिलादुद्धरते बलात् ॥
एवं भर्त्तारमादाय सह तेनैव गच्छति ॥ ४९ ।
सद्वृत्तमध्यापयितुं गतानां स्त्रीणां वियोगक्षतकातराणाम् ॥
तासां मृते जीवितवल्लभे हि नाग्निप्रवेशादपरो हि धर्म ॥ ५० …
इति विष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने स्त्रीधर्मो नाम चतुस्त्रिंशत्तमोध्यायः ॥ ३४ ॥
2.35
राम उवाच ॥ ॥
स्त्रीणां पूज्यतमा लोके देवतास्त्वं प्रकीर्तय ॥
तासां कालं विधानं च फलं पूजनतस्तथा ॥ १ ॥
पुष्कर उवाच ॥
श्रियः सम्पूजनं कार्यं स्त्रीभिस्तु सततं गृहे ॥
पुप्पार्घमाल्यनैवेद्यधूपदीपानुलेपनैः ॥ २ ॥
गृहसम्मार्जनं राम तथा तस्योपलेपनम् ॥
पुष्पोपहारकरणं सुधाशुक्लत्वमेव च ॥ ३ ॥
सर्वमेतद्विजानीयाच्छ्रियः सम्पूजनं द्विज ॥
स्नानानुलेपनं यच्च गन्धवर्णावधारणम् ॥ ४ ॥
सुवर्णता च नारीणां श्रियः सम्पूजनाद्भवेत् …
अष्टमीषु च सर्वासु पूजनीयाप्यशोकिका ॥ ५ ॥
गन्धमाल्यनमस्कारधूपदीपादिभिस्तथा ॥
तस्मिन्नहनि या भुङ्क्ते नक्तं तैलविवर्जितम् ॥ ६ ॥
भवत्यथ विशोका सा यत्रयत्राभिजायते ॥
अष्टमीषु च सर्वासु न चेच्छक्नोति भार्गव ॥ ७ ॥
प्रोष्ठपद्यां व्यतीतायां या स्यात्कृष्णाष्टमी द्विज ॥
तस्यामवश्यं कर्त्तव्या देव्याः पूजा यथाविधि ॥ ८ ॥
अपामिव त्रिलोकेषु प्रकृतिः स्त्रीषु चोच्यते ॥
या प्रेरयति कर्माणि लोकेषु द्विजसत्तम ॥ ॥ ९ ॥
तस्यां सम्पूजनं कार्यं शुक्लां पञ्चदशीं तथा ॥
माल्यानुलेपनैः शुक्लैर्धूपेन च सुगन्धिना ॥ १० ॥
रक्तवस्त्रप्रदानेन दीपदानेन चाप्यथ ॥
वैदलैश्च तथा भक्ष्यैर्भोज्यैश्चोष्यैस्तथैव च ॥ ११ ॥
पूजयित्वा च तां देवीं भोक्तव्यं निशि भार्गव ॥
यदि पञ्चदशीं सर्वां न शक्नोति कदाचन … ॥ १२ ॥
देव्याः सम्पूजनं कार्यमवश्यमपि कार्तिके ॥
उपार्तिं पूजयेद्या तु सा तु नारी पतिव्रता ॥ १३ ॥
सदा धर्मरता साध्वी लोके भवति भार्गव ॥
नाशुभे च मतिस्तस्याः कदाचिदपि जायते ॥ १४ ॥
एकादशीं तथा कृष्णां फाल्गुने मासि भार्गव॥
शुद्धे देवस्य कर्त्तव्या पूजा धर्मभृतां वर ॥ १५ ॥
पूजनाच्छन्दोदेवस्य तनयं गुणवर्जितम् ॥
न प्राप्नोति तथाऽप्नोति गुणवन्तमसंशयम् ॥ १६ ॥
गन्धमाल्यादिभिर्भक्त्या तथा वै वास्तुदेवताम् ॥
एकादशीं तथा प्राप्य चैत्रशुक्लस्य पूजयेत् ॥ १७ ॥
संपूज्य तां महाभाग गृहभङ्गो न जायते ॥
शुक्लाष्टमीं तु सम्प्राप्य मासि भाद्रपदे तथा ॥ १८ ॥
दूर्वाप्रतानं लुप्पेत्तदुत्तराशाभिगामिनम् ॥
पूजयेद्गृहमानीय गन्धमाल्यानुलेपनैः ॥ १९ ॥
फलमूलैस्तथा राम धूपदीपौ विवर्जयेत् ॥
अग्निपक्वं तथा सर्वं न निवेद्यं कथञ्चन ॥ २० ॥
भोक्तव्यं च तथा राम वह्निपाकविवर्जितम् ॥
दूर्वांकुरस्थां सम्पूज्य विधिना यौवनश्रियम् ॥ २१ ॥
यौवनं स्थिरमाप्नोति यत्रयत्राभिजायते ॥
सोपवासा तु या नारी कृष्णपक्षस्य कार्तिके ॥ २२ ॥
द्वादश्यां पूजयेद्विष्णुं गां सवत्सामनन्तरम् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ २३ ॥
नैवेद्यं गोरसं सर्वं वर्जनीयं प्रयत्नतः ॥
भोक्तव्यं च न धर्मज्ञ दोग्धव्या नैव चार्जुने ॥२४॥
गावः प्राप्नोति कृत्वैवं नात्र कार्या विचारणा ॥
धेनुं तां यदि विप्राय प्रददाति यथाविधि॥२५॥
स्वर्गलोकमथासाद्य न ततो विनिवर्तते ॥
कार्तिके च तथा मासि कृत्तिकायां च पूजनम् ॥ २६ ॥
कर्तव्यं गन्धकलशैर्गन्धमाल्यानुलेपनैः ॥
भक्ष्यैश्च परमान्नैश्च कुल्माषैः पर्पटैस्तथा॥२७॥
शक्त्या वस्त्रैश्च धर्मज्ञ महारञ्जनरञ्जनैः ॥
गुडेन मधुना चैव सितया लवणेन च॥२८॥
आर्द्रकेणेक्षुणा चैव तथा कालोद्भवैः फलैः॥
सर्वैश्च विविधैरन्नैर्गन्धैर्नानाविधैस्तथा॥२९॥
पानकैश्च तथा हृद्यैः पूजनीयाश्च कृत्तिकाः ॥
सह चन्द्रमसा राम तेन सौभाग्यमश्नुते ॥३० ॥
नारी च रूपलावण्ये धर्मे चाग्र्यां तथा मतिम् ॥
अवैधव्यं च धर्मज्ञ यत्रयत्राभिजायते ॥३१॥
लवणस्य तुलां कृत्वा महारञ्जनरंजिते ॥ …
वस्त्रे वस्त्रेण तेनाथ सालङ्कारां सितच्छविम् ॥ ३२ ॥
कृत्वा पिण्डं हरिद्राक्तं कृत्तिकानां निवेदयेत् ॥
ग्राहयेद्ब्राह्मणं तां च प्राप्ते चन्द्रोदये तथा ॥ ३३॥
अनेन कर्मणा नारी सौभाग्यं महदश्नुते ॥
पुरुषोऽप्यथ वै शुद्धो सौभाग्यं महदश्नुते ॥
कृत्तिकाप्रतिपादे तु तासां कृत्वैव पूजनम्॥३४॥ ।
या भुङ्क्ते गोरसप्रायं कृत्वा ब्राह्मणपूजनम् ॥
सप्त जन्मान्तराण्येव सौभाग्यं रूपमेव च ॥३५॥
स्वर्गे तु भोगानाप्नोति सह भर्त्रा तु सा शुभा ॥ ॥ ३६ ॥
प्राप्य पञ्चदशीं राम तथा शुक्लां च कार्तिकीम् ॥
कार्तिकं कार्तिकीं राम गृहभित्तौ समालिखेत् ॥ ३७ ॥
उपद्वारं गृहाद्बाह्यं नानावर्णैस्तु वर्णकैः ॥
गृहोपकरणं शक्त्या तयोश्चैवाभितो लिखेत् ॥ ३८ ॥
पीठखड्गासनाद्यत्र शकटोलूखलादिकम् ॥
ततस्तौ पूजयेन्नारी नानाभक्तिपरा शुचिः ॥ ३९ ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
इक्षुणेक्षुविकारैर्वा विशेषेण च पूजयेत् ॥ ४० ॥
तयोस्तु पूजनं कृत्वा मत्स्यं च सिकतायुतम् ॥ ॥
शुक्तिनेत्रं न्यसेत्क्षीरे तच्च दद्याद्द्विजातये ॥ ४१ ॥
ततश्च नक्तं भुञ्जीत तिलतैलविवर्जितम् ॥
अनयोः पूजनाद्राम गृहभङ्गं न चाप्नुयात्॥४२॥
पतिव्रता महाभाग दीर्घमाप्नोति जीवितम् ॥
कार्तिके च तथा मासि सार्धं चन्द्रमसा सदा ॥४३॥
रोहिण्यां रोहिणीपूजा कर्तव्या विधिना द्विज ॥
सर्वैरविधवाचिह्नैर्लवणेन च भूरिणा ॥ ४४ ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
तथा कुंकुमरक्तेन शक्त्या भार्गव वाससा ॥ ४५ ॥
सौभाग्यं परमाप्नोति कृत्वैतत्परमाङ्गना ॥
शुक्लपक्षत्रयोदश्यां या च नारी पतिव्रता ॥ ४६ ॥
पूजयेत्सोपवासा च कामदेवमतन्द्रिता ॥
पट्टवर्णकविन्यासं तस्य भार्या तथा पतिम् ॥ ४७ ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
गुडेन मधुना चैव सितया चार्द्रकेण च ॥४८॥
लवणेन रसैश्चान्यैर्गन्धैः सस्यैः पृथक्पृथक् ॥
भक्ष्यैर्नाविधैश्चैव कुंकुमार्द्रेण वाससा ॥४९॥
गन्धतोयाम्बुपूर्णेन द्रुमपल्लवशालिना ॥
पूर्णकुम्भेन भव्येन माल्यकण्ठेन भार्गव ॥ ५० ॥
कामदेवाय नो दद्याद्यदम्लं किञ्चिदेव तु ॥
ततश्च पश्चाद्धोक्तव्यं सर्वमम्लविवर्जितम् ॥ ५१ ॥
सर्वान्कामानवाप्नोति कामपूजाविधायिनी ॥
अथ चेन्नैव शक्नोति सर्वां राम त्रयोदशीम् ॥ ५२ ॥
चैत्रशुक्लेन सर्वासां फलमाप्नोत्यसंशयम्॥
तस्मात्सर्वप्रयत्नेन चैत्रशुक्लत्रयोदशीम् ॥ ५३ ॥
कामस्य पूजा कर्तव्या सर्वकामप्रदायिनी ॥
कामदेवं समभ्यर्च्य कार्यमात्माभिपूजनम् ॥ ५४ ॥
कुंकुमाङ्कैस्तथा वस्त्रैर्गन्धमाल्यविभूषणैः ॥
भर्तारं पूजयेत्पश्चान्नारी तु कृतमण्डना ॥ ५५ ॥
कुकुमांकेन वस्त्रेण गन्धमाल्यैर्मनोहरैः ॥
पुरुषोऽपि समभ्यर्च्य कामदेवमसंशयम् ॥ ५६ ॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥
तथा शुक्लचतुर्थीषु गौरीपूजा सदा भवेत् ॥ ५७ ॥
स्नाताभिः सोपवासाभिः सूर्यस्योदयनं प्रति ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ ५८ ॥
गुडेन सितया चापि मधुना चार्द्रकेण च ॥
सर्वैश्चाविधवाचिह्नैर्लवणेन च भूरिणा ॥ ५९ ॥
चतुर्थीद्वितये पूज्या सर्वशक्त्या विशेषतः ॥
आषाढेऽप्यथवा मासि माघे चाप्यथवा द्विज ॥ ६० ॥
चतुर्णामपि कुण्डानां मध्ये सूर्यांशुसेविनी ॥
आषाढे सोपवासा तु तृतीयायां तथा वसेत् ॥ ६१ ॥
न तस्या दुर्लभं लोके किञ्चिद्भवति भार्गव ॥
माघेऽप्युपोषिता मासि रात्र्यन्ते तुहिनोत्करैः ॥६२॥
शुक्लीकृत्याखिलान्यङ्गान्यध्यास्ते शयनं यया ॥
ततश्च शीततोयेन पश्चात्स्नानं समाचरेत् ॥ ॥ ६३ ॥
सापि कामानवाप्नोति यान्राम मनसेच्छति॥
पतिव्रता सदा लोला सुभगा रूपसंयुता ॥ ६४ ॥
धर्मप्रिया च भवति गौरीपूजनतत्परा ॥
आषाढे दाडिमं पुष्पं मधौ कर्पाससम्भवम् ॥ ६५ ॥
निवेद्य सर्वमार्यायै सौभाग्यं महदश्नुते ॥
शक्राणी च तथा पूज्या मासि भाद्रपदे भवेत् ॥ ॥ ६६ ॥
स्त्रीणां गौरीविधानेन सर्वकामप्रदा हि सा ॥
प्रोष्ठपदस्य मासस्य चतुर्थ्यां द्विजसत्तम ॥ ६७ ॥
शक्राणीपूजनं कृत्वा नाकपृष्ठे महीयते ॥
पूजातिथिषु सर्वासु राम ब्राह्मणपूजनम् ॥६८॥
कर्तव्यं यच्च नैवेद्यं देयं तत्सुभगासु च ॥
अनभ्यर्च्य तथा गौरीं गौरीदीपं प्रपश्यति ॥ ॥ ६९ ॥
दौर्भाग्यं महदाप्नोति वर्जितं तस्य दर्शनम् ॥
गौरीपूजनकामा स्त्री तस्मिन्नहनि या द्विज ॥ ७० ॥
स्नानमुष्णाम्बुना कुर्यात्सापि सौभाग्यमश्नुते ॥
सम्पूज्य विधिना गौरीं यत्रयत्राभिजायते ॥ ७१ ॥
रूपलावण्यसौभाग्ययुक्ता भवति चाप्यथ ॥
नित्यं चाविधवा राम तथैव च पतिव्रता ॥ ७२ ॥
एताः पूज्यतमा स्त्रीषु दैवतास्ताः प्रकीर्तिताः ॥
अतः परं तु या कुर्यात्सतीमार्गविवर्जनम् ॥ ७३ ॥
हिंसात्मकमनिर्दिष्टमशुद्धं वा द्विजोत्तम ॥
देवताराधनं सा तु चिरं नरकमृच्छति ॥ ७४ ॥
ततस्तु चाप्यनायुष्यं ग्रहभूतविवर्धनम् ॥
हिंसात्मका तु या नारी देवताराधने रता ॥ ७५ ॥
मूलकर्मरता भर्त्रा सा विवाह्या भृगूत्तम ॥
पौंश्चल्यादपि नारीणां राम हिंसा विवर्जिता ॥ ७६ ॥
स्त्रीस्वभावं शुभं राम सौम्यत्वं मार्दवं दया ॥
निर्दया राक्षसी राम पिशाची वा द्विजोत्तम ॥ ७७ ॥
अथवा सर्वमुत्सृज्य पतिपूजनतत्परा ॥
केशवाराधनं कुर्याच्छ्रियश्च पुरुषर्षभ ॥ ७८ ॥
तेनैव सर्वमाप्नोति यत्किञ्चित्परमृच्छति ॥
अफलं सर्वमेव स्याद्भर्त्रनुज्ञां विना कृतम् ॥७९॥
केशवाराधनं राम तथापि सफलं स्त्रियः ॥
सर्वभूतानि गोविन्दो भर्ता नान्यस्तु योषितः ॥
भर्त्रनुज्ञां विना तस्मात्ततः पूजा विधीयते ॥ ८० ॥
नारायणः पूज्यतमो हि लोके नारायणः सर्वगतः प्रधानः ॥
नारायणाराधनतत्परा स्त्री कामानवाप्नोति न संशयोऽत्र ॥ ८१ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये स्त्रीदेवतापूजननिरूपणं नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥
2.36
॥ पुष्कर उवाच ॥
वैलोम्यं धर्मराजोऽपि नाचरत्यथ योषिताम् ॥
पतिव्रतानां धर्मज्ञ पूज्यास्तस्यापि तास्सदा ॥ १ ॥
अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ॥
यथा विमोक्षितो भर्ता मृत्युपाशावृतः स्त्रिया ॥२ ॥
मद्रेषु शाकले राजा बभूवाऽश्वपतिः पुरा ॥
अपुत्रस्तप्यमानोऽसौ पुत्रार्थे सर्वकामदम् ॥ ३ ॥
सावित्र्याः कारयामास लक्षहोमं द्विजोत्तमैः ॥
सिद्धार्थकैर्हूयमाना सावित्री प्रत्यहं द्विज ॥ ४ ॥
शतसंख्यैश्चतुर्थ्यां तु मासाद्दशदिने गते ॥
काले तु दर्शयामास स्वां तनुं मनुजेश्वरे ॥ ५ ॥
सावित्र्युवाच ॥
राजन्भक्तोऽसि मे नित्यं प्राप्स्यसे तनयां शुभाम् ॥
मद्दत्तां यत्प्रसादाच्च पुत्रान्प्राप्स्यसि शोभनान् ॥ ६ ॥
पुष्कर उवाच ॥ एतावदुक्त्वा सा राज्ञः प्रणतस्यैव भार्गव ॥
जगामादर्शनं देवी खे यथा राम चञ्चला ॥ ७ ॥
मालव्या नाम तस्यास्ति राज्ञः पत्नी पतिव्रता ॥
सुषाव तनयां काले सावित्रीमेव रूपतः ॥ ८ ॥
सावित्र्या हुतया दत्ता तद्रूपसदृशा ततः ॥
सावित्र्येव भवेदेषा जगाद नृपतिर्द्विजान् ॥ ॥
कालेन यौवनं प्राप्तां ददौ सत्यवते पिता ॥
नारदस्तु ततः प्राह राजानं दीप्ततेजसम् ॥ १० ॥
क्षीणायुरेष वर्षेण भविष्यति नृपात्मजः ॥
प्रदीयते सकृत्कन्या चिन्तयित्वा नराधिपः ॥ ११ ॥
तथापि प्रददौ कन्यां द्युमत्सेनात्मजे शुभाम ॥
सावित्र्यपि च भर्तारमासाद्य नृपनन्दनम् ॥ १२ ॥
नारदस्य तु वाक्येन दूयमानेन चेतसा ॥
शुश्रूषां परमां चक्रे भर्तृश्वशुरयोर्वने ॥ १३ ॥
राज्यभ्रष्टस्सभार्यस्तु नष्टचक्षुर्नराधिपः ॥
तुतोष तां समासाद्य राजपुत्रीं तदा स्नुषाम् ॥ १४ ॥
चतुर्थेऽहनि मर्तव्यं यदा सत्यवता द्विज ॥
श्वशुरेणाभ्यनुज्ञाता तदा राज्ञा तु सा स्नुषा ॥ १५ ॥
चक्रे त्रिरात्रं धर्मज्ञ प्राप्ते तस्मिंस्तदा दिने ॥
चारुपुष्पफलाहारं सत्यवान्प्रययौ वनम् ॥ १६ ॥
श्वशुरेणाभ्यनुज्ञाता याचनाभङ्गभीरुणा ॥
सावित्र्यपि जगामाशु सह भर्त्रा महद्वनम् ॥ १७ ॥
चेतसा दूयमानेन गूहमाना च तद्भयम् ॥
वने पप्रच्छ भर्तारं द्रुमांश्च समृगांस्तथा ॥ १८ ॥
आश्वासयामास स राजपुत्रीं क्लान्तां वने पद्मपलाशनेत्राम् ॥
सन्दर्शनेनाथ मृगद्विजानां तथा द्रुमाणां विपिने नृवीरः॥ १९ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सावित्र्युपाख्याने वनप्रवेशो नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥
2.37
॥ सत्यवानुवाच ॥ ॥
वनेऽस्मिन्षट्पदाकीर्णं सहकारं मनोहरम् ॥
श्रोत्रघ्राणमुखं पश्य वसन्ते रतिवर्धनम् ॥ १ ॥
वने सपुष्पं दृष्ट्वैषा रक्ता श्लोकं मनोहरम् ॥
हसतीव मनः सेर्ष्यं त्वामिवायतलोचने ॥ २ ॥
दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ॥
पुष्पितैः किंशुकैर्युक्तां ज्वलितामिव सप्रभैः ॥ ३ ॥
सुगन्धिकुसुमामोदी वनराजिविनिर्गतः। ।
करोति वायुर्दाक्षिण्यादावयोः क्लमनाशनम् ॥ ४ ॥
अप्युत्पलविशालाक्षि कर्णिकारैः सुपुष्पितैः ॥
काञ्चनैरिव भात्येषा वनराजी मनोहरा ॥ ५ ॥
अतिमुक्तलताजालरुद्धमार्गवनस्थलीः ॥
पश्योच्चैश्चारुसर्वाङ्गि कुसुमोत्कर भूषणा ॥ ६ ॥
मधुमत्तालिझाङ्कारव्याजेन वरवर्णिनि ॥
चापयष्टिं करोतीव कामः पान्थजिघांसया ॥ ७ ॥
फुल्लचंपकसद्वक्त्रा पुंस्कोकिलविनादिनी ॥
विभाति चारुतिलका त्वमिवैषा वनस्थली ॥ ८ ॥
कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ॥
गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव ॥ ९ ॥
पुष्परेण्वनुलिप्ताङ्गः प्रियामनुसरन्वने ॥
कुसुमात्कुसुमं याति कूजन्कामी शिलीमुखः ॥ १० ॥
मञ्जरीं सहकारस्य कान्ताचञ्च्वग्रखण्डिताम् ॥
स्वादयत्यतिपुष्पेऽपि पुंस्कोकिलयुवा द्रुमे ॥ ११ ॥
काकः प्रसूतां वृक्षाग्रे सामिषाग्रेण चञ्चुना ॥
काकीं सम्पाययत्येष पक्षाच्छादित पुत्रकाम् ॥ १२ ॥
भूभागं निम्नमासाद्य दयितासहितो युवा ॥
नाहारमपि चादत्ते कामी कामं कपिञ्जलः ॥ १३ ॥
कलविङ्कस्तु विरुतैः सप्रियो विटपे स्थितः ॥
मुहुर्मुहुर्विशालाक्षि उत्कण्ठयति कामिनः ॥१४ ॥
क्षुद्रशाखां समारूढः शुकोऽयं कान्तया सह ॥
भारेण नमयञ्शाखां करोति सफलामिव ॥ १५ ॥
वनेभपिशितास्वादतृप्तो निद्रामुपागतः ॥
शेते सिंहयुवा कान्ताचरणावरणाननः ॥ १६ ॥
व्याघ्रयोर्मिधुनं पश्य शैलकन्दर संस्थितम् ॥
ययोर्नेत्रप्रभालोकैर्गुहा भिन्नेव लक्ष्यते ॥ १७ ॥
अय द्वीपी प्रियां लेढि जिह्वाग्रेण पुनःपुनः ॥
प्रीतिमायाति महतीं लिह्यमानश्च कान्त्या ॥ १८ ॥
उत्सङ्गकृतमूर्धानं निद्रापहृतचेतसम् ॥
जन्तूद्धरणतः कान्तं सुखयत्येव वानरी ॥ १९ ॥
भूमौ निपतिता कान्तं मार्जारी दर्शितोदरा ॥
नखैर्दन्तैस्तुदत्येषा न च पीडयते तथा ॥ २० ॥
शशकः शशिका चोभे संसुप्ते पीडिते इमे ॥
सँल्लीनगात्रचरणे कर्णैर्व्यक्तिमुपागते ॥ २१ ॥
स्नातं सरसि पद्माढ्ये वारणं मदमन्थरम् ॥
सम्भावयति तन्वङ्गि मृणालशकलैर्वशा ॥ २२ ॥
कान्तपोत्रसमुत्खातैः कान्ता मार्गानुसारिणी ॥
करोति कवलं मुस्तैर्वराही पोतकानने ॥ २३ ॥
दृढाङ्गसन्धिर्महिषः कर्दमार्द्रतनुर्वने ॥
अनुव्रजति धावन्तीं प्रियां बद्धचतुष्ककः ॥२४॥
पश्य चार्वङ्गि सारङ्गः त्वत्कटाक्षनिभं वने ॥
सभार्यां मां तु पश्यन्तं कौतूहलसमन्वितम् ॥ २५ ॥
पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ॥
स्नेहार्द्रभावः कषति भर्ता शृङ्गाग्रकोटिना ॥ २६ ॥
दाडिमे चमरीं पश्य सितवालामगच्छतीम् ॥
अन्वास्ते चमरः कामी वीक्षते मां च गर्वितः ॥ ॥ २७ ॥
आतपे गवयः पश्य निविष्टो भार्यया सह ॥
रोमन्थमास्ये कुर्वाणः काकं ककुदि धारयन् ॥ २८ ॥
पश्याजं भार्यया सार्धं न्यस्ताग्रचरणद्वयम् ॥
विपुले बदरीस्कन्धे तच्छदग्रासकाम्यया ॥ २९ ॥
हंसं सभार्यं सरसि विचरन्तं सुनिर्मले ॥
सुशुक्लस्येन्दुबिम्बस्य पश्यैनं सदृश श्रियम् ॥ ३० ॥
सभार्यश्चक्रवाकोऽयं कमलाकरमध्यगः ॥
करोति पद्मिनीं कान्तां सपुष्पामिव सुन्दरि ॥ ३१ ॥
मया फलोच्चयः सुभ्रु त्वया पुष्पोच्चयः कृतः ॥
इन्धनं न कृतं किञ्चित्तत्करिष्यामि सांप्रतम् ॥ ३२ ॥
त्वमस्य सरसस्तीरे द्रुमच्छायामुपाश्रिता ॥
क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥ ३३ ॥
॥ सावित्र्युवाच ॥ ॥
एवमेतत्करिष्यामि मम दृष्टिपथात्त्वया ॥
दूरे कान्त न गन्तव्यं बिभेमि गहने वने ॥ ३४ ॥
॥ पुष्कर उवाच ॥ ॥
तस्य पातयतः काष्ठं जज्ञे शिरसि वेदना ॥
स वेदनार्त्तः सङ्गम्य भार्यां वचनमब्रवीत् ॥ ३५ ॥
॥ सत्यवानुवाच ॥ ॥
आयासेन ममानेन जाता शिरसि वेदना ॥
तमश्च प्रविशामीव न च जानामि किञ्चन ॥ ३६ ॥
त्वदुत्सङ्गे शिरः कृत्वा निद्रोपहतलोचनः ॥
पुष्कर उवाच ॥
तदुत्सङ्गे शिरः कृत्वा सुष्वाप गतचेतनः ॥ ३७ ॥
पतिव्रता महाभागा ततस्सा राजकन्यका ॥
ददर्श धर्मराजं तु स्वयं तं देशमागतम् । ३८॥
नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ॥
विद्युल्लतानिबद्धाङ्गं सतोयमिव तोयदम् ॥ ३९ ॥
किरीटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥
हारभारार्पितोरस्कं तथाङ्गदविभूषितम् ॥ ४० ॥
तथानुगम्यमानं च कालेन सह मृत्युना ॥
स तु संप्राप्य तं देशं देहात्सत्यवतस्तदा ॥ ४१ ॥
अङ्गुष्ठमात्रं पुरुषं पाशबद्धं वशङ्गतम् ॥
आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा ॥ ४२ ॥
सावित्र्यपि वरारोहा त्यक्त्वा तं गतजीवितम् ॥
अनुवव्राज गच्छन्तं धर्मराजमतन्द्रिता ॥ ४३ ॥
तामुवाच यमो गच्छ यथागतमनिन्दिते ॥
और्ध्वदैहिककार्येषु युक्ता भर्तुः समाचर ॥४४ ॥
नानुगन्तुमसौ शक्यस्त्वया लोकान्तरं गतः ॥
पतिव्रतासि तेन त्वं मुहूर्तमनुपश्यसि ॥ ॥४५ ॥
गुरुशुश्रूषणाद्भद्रे तथा सत्यवतो महत् ॥
पुण्यं समर्जितं येन नयाम्येनमहं स्वयम् ॥ ४६ ॥
एतावदेव कर्तव्यं पुरुषस्य विजानतः ॥
मातुः पितुश्च शुश्रूषा गुरोश्च वरवर्णिनि ॥ ४७ ॥
गुरुत्रितयमेतच्च सदा सत्यवता वने ॥ ४८ ॥
पूजितं पूजितस्स्वर्गस्तदानेन चिरं शुभे ॥
तपसा ब्रह्मचर्येण त्वग्निशुश्रूषया तथा ॥४९॥
पुरुषाः स्वर्गमायान्ति गुरुशुश्रूषणेन च ॥
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ॥ ५० ॥
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ॥५१॥
माता पृथिव्या मूर्तिश्च भ्राता वै मूर्तिरात्मनः ॥
यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ॥ ५२ ॥
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ॥ ५३ ॥
तेष्वेव त्रिषु तुष्टेषु तपः सत्यं समाप्यते ॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ॥ ५४ ॥
न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत ॥
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ॥ ५५ ॥
त एव च त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥
पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः ॥ ५६ ॥
गुरुराहवनीयस्तु अग्नित्रेता गरीयसी ॥
त्रिष्वप्रमाद्यन्नेतेषु त्रींल्लोकाञ्जयते गृही ॥ ५७ ॥
स हि दिव्येन वपुषा देववद्दिवि मोदते ॥
इमं लोकं मातृभक्तः पितृभक्तस्तु मध्यमम् ॥ ५८ ॥
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ॥ ५९ ॥
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥
यावत्त्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत् ॥ ६० ॥
तनुं निवेदयेत्तेभ्यो मनो वचनकर्मभिः ॥
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ॥ ६१ ॥
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥
गुरुपूजारतिर्भर्ता त्वं च साध्वी पतिव्रता ॥ ६२ ॥
विनिवर्तस्व धर्मज्ञे ग्लानिर्भवति तेऽधुना ॥
सावित्र्युवाच ॥
पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम्॥ ६३ ॥
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ॥ ६४ ॥
अमितस्य हि दातारं भर्तारं का न पूजयेत ॥
नीयते यत्र भर्ता मे स्वयं वा यत्र गच्छति ॥ ६५ ॥
मयापि तत्र गन्तव्यं यथाशक्ति सुरोत्तम ॥
पतिमादाय गच्छन्तमनुगन्तुमहं यदा ॥ ६६ ॥
त्वां देव न हि शक्ष्यामि तदा त्यक्ष्यामि जीवितम् ॥
मनस्विनी तथा का च वैधव्याक्षरदूषिता ॥ ६७ ॥
मुहूर्तमपि जीवेत मण्डनार्हाप्यमण्डिता ॥
यम उवाच ॥
पतिव्रते महाभागे परितुष्टोऽस्मि ते शुभे ॥ ६८ ॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥
सावित्र्युवाच ॥
विनष्टचक्षुषो राज्यं चक्षुषा सह कामये ॥
च्युतराज्यस्य धर्मज्ञ श्वशुरस्य महात्मनः ॥ ६९ ॥
॥ यम उवाच ॥
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम् ॥
ममोपरोधस्तव च क्लमः स्यात्तथाध्वना तेन तव ब्रवीमि ॥ ७० ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने सप्तत्रिंशत्तमोऽध्यायः ॥३७॥
2.38
सावित्त्र्युवाच॥
कुतः क्लमः कुतो दुःखं सद्भिः सह समागमे ॥
सतां तस्मान्न मे ग्लानिस्त्वत्समीपे सुरोत्तम ॥ १ ॥
साधूनां वाप्यसाधूनां सन्त एव परा गतिः ॥
नैवासतां नैव सतामसन्तो नैव चात्मनः ॥ २ ॥
विषाग्निसर्पशस्त्रेभ्यो न तथा जायते भयम् ॥
अकारणजगद्वैरिखलेभ्यो जायते यथा ॥ ३ ॥
सन्तः प्राणानपि त्यक्त्वा परार्थं कुर्वते यथा ॥
तथाऽसन्तोऽपि मनुजाः परपीडासु तत्पराः ॥४ ॥
त्यजत्यसूनयं लोकस्तृणवद्यस्य कारणात्॥
परोपधानसक्तास्ते परलोकं तथा सता ॥ ५ ॥
निकायेषुनिकायेषु पुरा ब्रह्मा जगद्गुरुः ॥
असतामुपघाताय राजानः कृतवान्स्वयम् ॥ ६ ॥
चारैः परीक्षयेद्राजा धूर्तान्सम्मार्जयेत्सदा ॥
निग्रहं चासतां कुर्यात्स तु लोकजिदुत्तमः ॥ ७ ॥
धान्यसंरक्षणार्थाय निर्मार्ष्टा कक्षमुद्धरन् ॥
यथा वर्धयते धान्यं वर्द्धनीयास्तथा प्रजाः ॥ ८ ॥
निग्रहेणा सतां राज्ञा सतां च परिपालनैः ॥
एतावदेव कर्तव्यं राज्ञा स्वर्गमभीप्सता ॥ ९ ॥
राजकृत्यं हि लोकेषु नास्त्यन्यज्जगतीपते ॥
असतां निग्रहादेव सतां च परिपालनात् ॥ १० ॥
राजानुशासिता तेषामसतां शासिता भवान् ॥
तेन त्वमधिको देव देवेभ्यः प्रतिभासि मे ॥ ११ ॥
जगत्तु धार्यते सद्भिः सतामग्र्यस्तथा भवान् ॥
तेन त्वामभियान्त्या मे क्लमो देव न विद्यते ॥ १२॥
यम उवाच ॥
तुष्टोस्मि ते विशालाक्षि वचनैर्धर्मसंहितैः ॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥ १३ ॥
सावित्र्युवाच ॥
सहोदराणां भ्रातॄणां कामयामि शतं विभो ॥
अनपत्यः पिता प्रीतिं पुत्रलाभात्प्रयातु मे॥१४॥
यम उवाच ॥
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं तवोक्तम् ॥
ममोपरोधस्तव च क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ॥१५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० सावित्र्युपाख्याने द्वितीयवरलाभो नामाष्टत्रिंशत्तमोध्यायः ॥ ३८ ॥
2.39
सावित्र्युवाच ॥
धर्मो हि दैवतं स्त्रीणां पतिरेव परायणम् ॥
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥ १ ॥
धर्मार्जने सुरश्रेष्ठ कुतो ग्लानिः कुतः क्लमः॥
त्वत्पादमूलमेवेदं परमं धर्मकारणम् ॥ २ ॥
धर्मार्जनं सदा कार्यं पुरुषेण विजानता ॥
तल्लाभः सर्वलाभेभ्यो यतो देव विशिष्यते ॥ ३ ॥
धर्मश्चार्थश्च कामश्च त्रिवर्गं जीवतः फलम् ॥
धर्महीनस्य कामार्थौ वन्ध्यासुतसमावुभौ ॥ ४ ॥
धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा ॥
धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ॥ ५ ॥
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥
एको हि जायते जन्तुरेक एव विपद्यते ॥ ६ ॥
धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः ॥
रूपसौभाग्यलावण्यं सम्पद्धर्मेण लभ्यते॥ ७॥
ब्रह्मेन्द्रोपेन्द्रशर्वेन्द्रयमार्काग्न्यनिलाम्भसाम् ॥
वस्वश्विधनदाद्यानां ये लोकाः सर्वकामदाः ॥ ८ ॥
धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक ॥
मनोहराणि द्वीपानि वर्षाणि सुमुखानि च॥ ९ ॥
प्रयान्ति धर्मेण नरास्तथैवामरतामिताः ॥
नन्दनादीनि मुख्यानि देवोद्यानानि यानि च ॥ १० ॥
तानि पुण्येन लभ्यन्ते नाकपृष्ठं तथा नरैः ॥
विमानानि विचित्राणि तथैवाप्सरसः शुभाः ॥ ११ ॥
तैजसानि शरीराणि सदा पुण्यवतां फलम ॥
राज्यं नृपतिपूजा च कामसिद्धिस्तथेप्सिता ॥ १२ ॥
उपस्कराणि मुख्यानि फलं पुण्यस्य दृश्यते ॥
रुक्मवैडूर्यदण्डानि चन्द्रांशुसदृशानि च ॥ १३ ॥
चामराणि सुराध्यक्ष भवन्ति शुभकर्मणाम् ॥
( पूर्णेन्दुमण्डलाभेन रक्तांशुकमितेन च ॥१४॥
धार्यतां यान्ति छत्रेण नरः पुण्येन कर्मणा ॥)
जयशङ्खस्वनादेव सूतमागधनिःस्वनम ॥ १५ ॥
वरासनं सभृङ्गारं फलं पुण्या कर्मणः ॥
वरान्नपानं गीतं च नृत्यमाल्यानुलेपनम् ॥ १६ ॥
रत्नवस्त्राणि मुख्यानि फलं पुण्यस्य कर्मणः ॥
रूपौदार्यगुणोपेताः स्त्रियश्चातिनोहराः ॥ १७ ॥
वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मणाम् ॥
सुवर्णकिंकिणी मिश्रचामराः पीठधारिणः ॥ १८ ॥
वहन्ति तुरगा देव नरं पुण्येन कर्मणा ॥
हेमकक्षैः समातङ्गैश्चलत्पर्वतसन्निभैः ॥ १९ ॥
खेलांघ्रिपदविन्यासैर्यान्ति पुण्येन कर्मणा ॥
सर्वकामप्रदे देवे सर्वापद्दुरितापहे ॥२० ॥
वहन्ति भक्तिं पुरुषास्सदा पुण्येन कर्मणा ॥
तस्य द्वाराणि यजनं तपो दानं दया क्षमा ॥ २१ ॥
ब्रह्मचर्यं च सत्यं च तीर्थानुसरणं शुभे ॥
स्वाध्यायसेवा साधूनां सहवासः सुरार्चनम् ॥२२॥
गुरूणां चैव शुश्रूषा ब्राह्मणानां च पूजनम् ॥
इन्द्रियाणां जयश्चैव मार्दवं ह्रीरमत्सरम् ॥ २३ ॥
तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता ॥
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ २४ ॥
बाल एवाचरेद्धर्ममनित्यं देव जीवितम् ॥
को हि जानाति कस्याद्य मृत्युः केन भविष्यति ॥२५॥
पश्यतोऽप्यस्य लोकस्य मरणं पुरतः स्थितम् ॥
अमरस्येव चरितमत्याश्चर्यं सुरोत्तम ॥ २६ ॥
युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा ॥
मृत्योरुत्सङ्गमारूढः स्थविरः किमपेक्षते ॥ २७ ॥
भुवः शैलं समारूढः ततो वृक्षाग्रमाश्रितः ॥
तत्राप्यविन्दतस्त्राणं मृत्योद्भीतस्य का गतिः ॥ २८ ॥
न भयं मरणादेव प्राणिनामधिकं क्वचित ॥
तत्रापि निर्भयाः सन्तः सदा सुकृतकारिणः ॥२९ ॥
यम उवाच ॥
तुष्टोऽस्मि ते विशालाक्षि वचनैर्धर्मसङ्गतैः ॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥ ३० ॥
सावित्र्युवाच ॥
वरयामि त्वया दत्तं पुत्राणां शतमौरसम् ॥
अनपत्यस्य लोकेषु गतिः किल न विद्यते ॥ ३१ ॥

ममोपरोधश्च तव क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ॥ ३२ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने तृतीयवरलाभो नामैकोनचत्वारिंशोऽध्यायः ॥३९॥
2.40
सावित्र्युवाच ॥
सर्वधर्मविधानज्ञः सर्वधर्मप्रवर्तकः ॥
त्वमेव जगतां नाथः प्रजासंयमनो यमः ॥ १ ॥
कर्मणामानुरूप्येण यस्माद्यमयसि प्रजाः …
तस्मात्त्वमुच्यसे देव यम इत्येव नामतः ॥ २ ॥
धर्मेणेमाः प्रजाः सर्वा यथा रञ्जयसे प्रभो ॥
तस्मात्ते धर्मराजेति नाम सत्यं निगद्यते ॥ ३ ॥
सुकृतं दुष्कृतं चोभे पुरोधाय यथा जनाः ॥
त्वत्सकाशमथायान्ति तस्मात्त्वं मृत्युरुच्यसे ॥ ४ ॥
सर्वेषामथ भूतानां यस्मादन्तकरो भवान् …
तस्मात्वमन्तकः प्रोक्तः सर्वदेवैर्महाद्युते ॥ ५ ॥
विवस्वतस्त्वं तनयः प्रथमः परिकीर्तितः ॥
तस्माद्वैवस्वतो नाम्ना सर्वदेवेषु कथ्यसे ॥ ६ ॥
कालं कलाद्यं कलयन्सर्वेषां त्वं हि तिष्ठसि ॥
तस्मात्कालेति ते नाम प्रोच्यते तत्सुदर्शिभिः ॥७ ॥
आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसभं जनम् …
तस्मात्त्वं कथ्यसे लोके सर्वप्राणहरेति वै ॥ ८ ॥
तव प्रसादाद्देवेश धर्मे तिष्ठन्ति जन्तवः ॥
तव प्रसादाद्देवेश सङ्करो नैव जायते ॥ ९ ॥
सतां सदा गतिर्देव त्वमेव परिकीर्तितः ॥
जगतोऽस्य जगन्नाथ मर्यादापरिपालकः ॥१० ॥
पाहि मां त्रिदशश्रेष्ठ दुःखितां शरणागताम् ॥
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥ ११ ॥
यम उवाच ॥
स्तुतेन भक्त्या धर्मज्ञे मया तुष्टेन सत्यवान् ॥
तव भर्ता विमुक्तोऽयं लब्धकामा व्रजाबले ॥ १२ ॥
राज्यं कृत्वा त्वया सार्धं वत्सराशीतिपञ्चकम् ॥
नाकपृष्ठमथारुह्य त्रिदशैस्सह रंस्यते ॥ १३ ॥
स्तोत्रेणानेन धर्मज्ञे कल्यमुत्थाय यश्च माम् ॥
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ॥ १४ ॥
पुष्कर उवाच ॥ एतावदुक्त्वा भगवान्यमस्तु विमुच्य तं राजसुतं महात्मा ॥
अदर्शनं तत्र जगाम राम कालेन सार्धं सह मृत्युना च॥१५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने चत्त्वारिंशत्तमोऽध्यायः ॥ ४० ॥
2.41
॥ पुष्कर उवाच ॥
सावित्री च ततः साध्वी जगाम वरवर्णिनी ॥
यथायथागतेनैव यत्रासौ सत्यवान्मृतः ॥ १ ॥
सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः ॥
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे ॥ २ ॥
सत्यवानपि निर्मुक्तो धर्मराज्ञा शनैः शनैः ॥
उन्मीलयति ते नेत्रे प्रस्यन्दत च भार्गव ॥ ३ ॥
ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ॥
क्वाऽसौ प्रयातः पुरुषो यो मामाकृष्य गच्छति ॥ ४ ॥
जानामि न वरारोहे कश्चासौ पुरुषः शुभे ॥
वनेऽस्मिँश्चारुसर्वाङ्गि सुप्तस्य च चिरं गतम् ॥ ५ ॥
उपवासपरिक्लान्ता कर्षिता भवती मया ॥
अस्माद्दुर्हृदयेनाद्य पितरौ दुःखितौ तथा ॥ ६ ॥
द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव ॥
सावित्र्युवाच ॥
आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो ॥ ७ ॥
आश्रमन्तु प्रयास्यावः श्वशुरौ तप्यतो मम ॥
यथावृत्तं च तत्रैव तव वक्ष्याम्यथाश्रमे ॥ ८ ॥
पुष्कर उवाच ॥
एतावदुक्त्वा भर्तारं सह भर्त्रा ययौ तदा ॥
आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ॥ ९ ॥
एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः ॥
द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव ॥ 2.41.१० ॥
सावित्र्यपि वरारोहा सह सत्यवता तदा ॥
ववन्दे तत्र राजानं सभार्यं भृगुनन्दन ॥ ११ ॥
परिष्वक्तस्तदा पित्रा सत्यवान्राजनन्दनः ॥
अभिवाद्य ततः सर्वान्वने तस्मिँस्तपोधनान् ॥ १२ ॥
उवास तां तदा रात्रिमृषिभिः सह धर्मवित् ॥
सावित्र्यपि जगादाथ यथा वृत्तमनिन्दिता ॥ १३ ॥
व्रतं समापयामास तस्यामेव तदा निशि ॥
ततस्तु राम रात्र्यन्ते शाल्वेभ्यस्तस्य भूपतेः ॥ १४ ॥
आजगाम जनः सर्वो राज्यार्थाय निमन्त्रणे ॥
आज्ञापयामास तदा तथा प्रकृतिशासनम् ॥ १५ ॥
विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम् ॥
अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप ॥ १६ ॥
एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा ॥
लेभे च सकलं वाक्यं धर्मराज्ञो महात्मनः ॥ १७ ॥
भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना ॥
एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥ १८ ॥
उज्जहार वरारोहा भर्तृपक्षं तथैव च ॥
मोचयामास भर्तारं मृत्युपाशवशीकृतम् ॥ १९ ॥
तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः ॥
तासां राम प्रसादेन धार्यते वै जगत्त्रयम् ॥ 2.41.२० ॥
तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ॥
तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः ॥ २१ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशात्तमोऽध्यायः ॥ ४१ ॥
2.42
पुष्कर उवाच ॥
गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ॥
गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः ॥ १ ॥
गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ॥
शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम् ॥ २ ॥
तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता ॥
उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता ॥ ३ ॥
गवां मूत्रपुरीषेषु ष्ठीवनाद्यं न सन्त्यजेत् ॥
गोरजः परमं पुण्यमलक्ष्मीविघ्ननाशनम् ॥ ४ ॥
गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ॥
तासां शृङ्गोदकश्चैव जाह्नवीजलसन्निभम् ॥ ५ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च रोचनम् ॥
षडङ्गमेतन्माङ्गल्यं पवित्रं तु पृथक्पृथक् ॥ ६ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ॥ ७ ॥
रक्षोघ्नमेतन्माङ्गल्यं कलिदुःखप्रणाशनम् ॥
रोचना च तथा धन्या रक्षोरगगदापहा ॥
यस्तु कल्ये समुत्थाय मुखमाज्ये निरीक्षते ॥
तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम् ॥ ९ ॥
गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते ॥
यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे ॥ 2.42.१० ॥
धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत् ॥
दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे ॥ ११ ॥
नरकं समवाप्नोति नात्र कार्या विचारणा ॥
दत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते ॥ १२ ॥
शैशिरं सकलं कालं ग्रासं परगवे तथा ॥
दत्त्वा स्वर्गमवाप्नोति संवत्सरशतानि षट् ॥ १३ ॥
अग्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम् ॥
मासषट्केन लभते नाकलोकं समायुतम् ॥ १४ ॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ॥
तत्रैवमशनं दत्त्वा गवां नित्यमतन्द्रितः ॥ १५ ॥
द्वितीयं यः समश्नाति तेन संवत्सरान्नरः ॥
गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विज ॥ १६ ॥
गवां प्रचारे पानीयं दत्त्वा पुरुषसत्तमः ॥
वारुणं लोकमासाद्य क्रीडत्यब्दगणायुतम् ॥
परां तृप्तिमवाप्नोति यत्रयत्राभिजायते ॥ १७ ॥
गवां प्रचारभूमिं तु वाहयित्वा हलादिना ॥
नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश ॥ १६ ॥
गवां पानप्रवृतानां यस्तु विघ्नं समाचरेत ॥
ब्रह्महत्या कृता तेन घोरा भवति भार्गव ॥
सिंहव्याघ्रभयत्रस्तां पङ्कमग्नां जले गताम् ॥ १९ ॥
गामुद्धृत्य नरः स्वर्गे कल्पभोगानुपाश्नुते ॥
गवां यवसदानेन रूपवानभिजायते ॥ 2.42.२० ॥
सौभाग्यं महदाप्नोति लावण्यं च द्विजोत्तम ॥
औषधं च तथा दत्त्वा विरोगस्त्वभिजायते ॥ ॥ २१ ॥
औषधं लवणं तोयमाहारं च प्रयच्छतः ॥
विपत्तौ पातकं नास्य भवत्युद्बन्धनादिकम ॥ २२ ॥
वक्तव्यता दिवापाले रात्रौ स्वामी न तद्गृहे ॥
तत्रापि तन्नियुक्तश्च कश्चिदन्यो न चेद्भवेत् ॥ २३ ॥
तासां चेदविरुद्धानां चरन्तीनां मिथो वने ॥
यामुत्पत्य वृको हन्यान्नपालस्तत्र किल्बिषी ॥ २४ ॥
संरुद्धासु तथैवासु वृकः पाले त्वनायति ॥
यामुत्पत्य वृको हन्यात्पाले तत्किल्बिषं भवेत ॥ २५ ॥
गोवधेन नरो याति नरकानेकविंशतिम् ॥
तस्मात्सर्वप्रयत्नेन कार्यं तासां तु पालनम् ॥ २६ ॥
विक्रयाच्च गवां राम न भद्रं प्रतिपद्यते ॥
तासां च कीर्तनादेव नरः पापाद्विमुच्यते ॥ २७ ॥
तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम् ॥
दानेन च तथा तासां कुलान्यपि समुद्धरेत् ॥ २८ ॥
उदक्या सूतिको दोषो नैव तत्र गृहे भवेत् ॥
भूमिदोषास्तथान्येऽपि यत्रैका वसते तु गौः ॥ २९ ॥
गवां निश्वासवातेन परा शान्तिर्गृहे भवेत ॥
नीराजनं तत्परमं सर्वस्थानेषु कीर्तितम् ॥ 2.42.३० ॥
गवां संस्पर्शनाद्राम क्षीयते किल्बिषं नृणाम् ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ३१ ॥
एकरात्रोपवासं च श्वपाकमपि शोधयेत् ॥
पृथक्त्वप्रत्ययाभ्यस्तमतिसन्तपनं स्मृतम् ॥ ३२ ॥
सर्वाशुभविमोक्षाय पुरा चरितमीश्वरेः ॥
प्रत्येकं च त्र्यहाभ्यस्तं चातिसांतपनं स्मृतम् ॥ ३३ ॥
सर्वकामप्रदं राम सर्वाशुभविनाशनम् ॥
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ॥ ३४ ॥
निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः ॥
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् ॥ ॥ ३५ ॥
त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥
तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम् ॥ ३६ ॥
शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः प्रकीर्तितः ॥
सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम् ॥ ३७ ॥
गोमूत्रेण चरेत्स्नानं वृत्तिं कुर्यात्तु गोरसैः ॥
उत्थितामुत्थितस्तिष्ठेदुपविष्टासु ना स्थितः ॥ ३८ ॥
अभुक्तवत्सु नाश्नीयादपीतासु च नो पिबेत् ॥
त्राणं तु रामाकृत्वैव तथा देवे प्रवर्षति ॥ ३९ ॥
त्राणं नैवात्मनः कार्यं भया र्त्ताश्च समुद्धरेत् ॥
आत्मानमपि सन्त्यज्य गोव्रतं तत्प्रकीर्तितम् ॥ 2.42.४० ॥
सर्वपापप्रशमनं मासेनैकेन भार्गव ॥
व्रतेनानेन चीर्णेन गोलोकं पुरुषो व्रजेत् ॥ ४१ ॥
अभीष्टमथ वा राम यावदिन्द्राश्चतुर्दश ॥
गवां निर्हारनिर्मुक्तानश्नन्प्रतिदिनं यवान् ॥ ४२ ॥
मासेन तदवाप्नोति यत्कि ञ्चिन्मनसेच्छति ॥
गोमतीं च तथा विद्यां सायं प्रातस्तथा जपन् ॥ ४३ ॥
गोलोकमाप्नोति नरो नात्र कार्या विचारणा ॥
उपर्युपरि सर्वेषां गवां लोकः प्रकीर्तितः ॥ ४४ ॥
निवसन्ति सदा यत्र गावस्त्वाकाशगा दिवि ॥
विमानेषु विचित्रेषु वृतेष्वप्सरसां गणैः ॥ ४५ ॥
किङ्किणी जालचित्रेषु वीणामुरजनादिषु ॥
सदा कामजला नद्यः क्षीरपायसकर्दमाः ॥ ४६ ॥
शीतलामलपानीयाः सुवर्णसिकतास्तथा ॥
पुष्करिण्यः शुभास्तत्र वैडूर्यकमलोत्पलाः ॥ ४७ ॥
मानसी च तथा सिद्धिः तत्र लोके भृगूत्तम ॥
तञ्च लोकं नरा यान्ति गवां भक्त्या न संशयः ॥ ४८ ॥
गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ॥
तां तु मे वदतो विप्र शृणुष्व सुसमाहितः ॥ ४९ ॥
गावः सुरभयो नित्यं गावो गुग्गु लुगन्धिकाः…
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम् ॥ 2.42.५० ॥
अन्नमेव परं गावो देवानां हविरुत्तमम् ॥
पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ॥५१॥
हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥
ऋषीणामग्निहोत्रेषु गावो होमे प्रयोजिताः ॥ ५२ ॥
सर्वेषामेव भूतानां गावः शरणमुत्तमम् ॥
गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ॥ ५३ ॥
गावः स्वर्गस्य सोपानं गावो धन्यास्सनातनाः ॥
ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥ ५४ ॥
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ॥
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम् ॥ ५५ ॥
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ॥ ५६ ॥
धार्यते वै सदा तस्मात्सर्वे पूज्यतमा सदा ॥
यत्र तीर्थे सदा गावः पिबन्ति तृषि ता जलम् ॥
उत्तरन्ति पथा येन स्थिता तत्र सरस्वती ॥५७॥
गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा तद्रजसि प्रवृद्धा ॥
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥ ५८ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिं शत्तमोऽध्यायः ॥ ४२ ॥
2.43
॥ पुष्कर उवाच ॥ ॥
अतः परं प्रवक्ष्यामि तव राम चिकित्सितम् ॥
संक्षेपेण गवां पुण्यं सारभूतं शृणुष्व तत् ॥ ॥ १ ॥
शृङ्गमूलेषु धेनूनां तैलं दद्यात्ससैन्धवम् ॥
शृङ्गीवीरबलामांसीकल्कसिद्धं समाक्षिकम् ॥ २ ॥
सिमिचूर्णयुतं देयमथवापि तथा घृतम् ॥
कर्णमूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः ॥ ३ ॥
सिद्धं तैलं प्रदातव्यं गोरसो वाथवा पुनः ॥
माक्षिकं सैन्धवं शंखं तगरीं पिप्पलीं सिहाम् ॥ ४ ॥
अजाक्षीरेण संपेष्य गुलिकां कारयेद्भिषक् ॥
एतन्नेत्राञ्जनं श्रेष्ठं घृतमाक्षिकसंयुतम् ॥ ५ ॥
बिल्वमूलमपामार्गं धातकीं च सपाटलाम् ॥
कुटजं दन्तमूलेषु लेपं तच्छूलनाशनम् ॥ ६ ॥
दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितम् ॥
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवम् ॥ ७ ॥
शृङ्गवेरं हरिद्रे द्वे त्रिफलां च गलग्रहे ॥
शृङ्गवेरं हरिद्रे द्वे वल्कलं कुटजस्य च ॥ ८ ॥
अपामार्गविडंगांश्च लवणेन विमिश्रितम् ॥
औषधं मुखरोगघ्नं ज्वरदाहविनाशनम् ॥ ९ ॥
हृच्छूले बस्तिशूले च वातरोगे क्षते तथा ॥
त्रिफलाघृतसमिश्रं गवां पानं प्रशस्यते ॥ 2.43.१० ॥
शतपुष्पायुतं पक्वं तैलं कुटजचित्रकैः ॥
गवां राम प्रदातव्यं सर्वहृद्रोगनाशनम् ॥ ११ ॥
अतीसारे हरिद्रे द्वे पाठां चैव प्रदापयेत् ॥
आनाहे घृतसंयुक्तां दापयेत्पद्मचारिणीम् ॥ ॥ १२ ॥
सर्वेषु कुष्ठरोगेषु तथा शाखागदेषु च ॥
शृङ्गवेरं च दार्वीं च कासे श्वासे प्रदापयेत् ॥१३॥
दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता ।
वातरोगेषु सर्वेषु शतपुष्पाविपाचितम् ॥ १४ ॥
गवां तैलं प्रदातव्यं सर्ववातगदापहम् ॥
यूषणं मधुसंमिश्रं कफरोगेषु दापयेत् ॥ १५ ॥
पित्त रोगेषु सर्वेषु मधुयष्टिविपाचितम् ॥
गव्यमाज्यं प्रदातव्यं सर्वपित्तगदापहम् ॥ १६ ॥
शाखोटकरमापानं रक्तपित्ते प्रशस्यते ॥
गोधूमानां च चूर्णानि माषाश्चैव ससर्षपाः ॥ १७ ॥
पयसा च समालोड्य गुरुमिश्राः प्रदापयेत् ॥
रक्तस्रावेषु कृच्छ्रेषु गवामेतत्प्रशस्यते ॥ १८ ॥
तिलाम्भकरुहांश्चैव हरितालं घृतं तथा ॥
भग्नक्षतानां धेनूनां लेपने तत्प्रशस्यते ॥ १९ ॥
वत्सानां च सरोगाणां पाठां तक्रेण पाययेत् ॥
हरिद्रां क्षीरसंयुक्तामथवा रोगशान्तये ॥ 2.43.२० ॥
माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ॥
एषां पिण्डाः प्रदातव्या लवणेन सुसँस्कृताः॥
पुष्टिप्रदा तु वत्सानां वृषभाणां बलप्रदा ॥ २१ ॥
देवदारुवचामांसीगुग्गुलुर्हिङ्गुसर्षपाः ॥
एष धूपः प्रदातव्यः किञ्चिद्घृतपरिप्लुतः ॥ २२ ॥
सर्वग्रह विनाशाय पलङ्कशयुतः शुभः ॥
घण्टा चापि गवां कार्या धूपेनानेन धूपिता ॥ २३ ॥
अश्वगन्धा तिलं चुक्रं वस्तियोगे प्रशस्यते ॥
अश्वगन्धायुतं तक्रं तिलान्वस्ति प्रशस्यते ॥
भवति क्षीरिणी तेन धेनुर्भृगुकुलोद्भव ॥ २४ ॥
पिण्याकमेव निर्दिष्टं गवां राम रसायनम् ॥
शीतोदपानमार्द्रञ्च यवसं च विवर्जयेत् ॥ २५ ॥
जरान्विता तथा स्थानं तच्च शीतं द्विजोत्तम ॥
धार्यं चैव गवां मध्ये मत्तोजः सर्वथा भवेत् ॥ ॥ २६ ॥
गवां वेश्मनि दीपास्तु दातव्या राम रात्रिकाः ॥ २७ ॥
गवां हि रोगोपशमाय शस्तं गतेऽर्धमासे लवणं सदैव ॥
आनाहशूलारुचिनाशनं तदजाविकस्यापि तथा प्रशस्तम् ॥२८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०- रामं प्रति पुष्करोपाख्याने गोचिकित्सितं नाम त्रिच
त्वारिंशत्तमोऽध्यायः ॥ ४३ ॥
2.44
पुष्कर उवाच ॥
अतः परं प्रवक्ष्यामि शान्तिकर्म गवां तव ॥
नित्यं नैमित्तिकं काम्यं तथा पुष्टिविवर्धनम् ॥ ऽ ॥
पञ्चमीषु च शुक्लासु श्रियः पूजा विधीयते ॥
गवां पुरीषे धर्मज्ञ धूपदीपान्नसम्पदा ॥ २ ॥
वन्यैः सुकुसुमैर्भक्त्या ब्राह्मणानां च पूजनम् ॥
तत्रैवाहनि कर्तव्यं वासुदेवस्य पूजनम् ॥ ३ ॥
स हि सर्वगतो देवः क्षीरोदधिनिकेतनः ॥
त्रैलोक्याधारभूतानां विशेषेण तथा गवाम् ॥ ४ ॥
आश्वयुक्शुक्लपक्षस्य पञ्चदश्यां भृगूत्तम ॥
वृत्रान्तकस्य कर्तव्यस्तदा यागस्तु गोमता ॥ ‘५ ॥
गन्धधूपनमस्कारपुष्पदीपान्नसम्पदा ॥
इह प्रजायाः साम्राधः पृषदश्वा तथैव च ॥ ६ ॥
घृतप्रतीकश्च तथा रौद्रीभिश्च भृगूत्तम ॥
नित्याभिश्च तथा वह्निं घृतेन जुहुयाद्बुधः ॥ ७ ॥
अम्भस्थेति च मन्त्रेण लवणं चाभिमन्त्रयेत् ॥
दध्ना संप्राशनं कार्यं दधिक्राव्णेत्यनन्तरम् ॥ ८ ॥
यजमानेन देया च धेनुः स्याच्छतधेनुना ॥
तदूनवित्तो दद्याच्च होत्रे शक्त्यैव दक्षिणाम्॥९॥
गावः स्वलंकृताः पश्चाद्गन्धमाल्यफलादिभिः ॥
स्वाशिता मुक्तवत्साश्च कुर्युर्वह्निं प्रदक्षिणम् ॥ 2.44.१० ॥
क्ष्वेडाकिलकिलाशब्दैः शङखवाद्यरवैस्तथा ॥
वृषाणां योजयेद्युद्धं गोपालानां तथैव च ॥ ११ ॥
द्वितीयेऽहनि धेनूनां वृषाणां सह वत्सकैः ॥
लवणं तत्प्रदातव्यं ब्राह्मणेनाभिमन्त्रितम॥१२॥
भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत् ॥
स्वस्ति वाच्यं ततः पश्चाद्दत्तदायान्विसर्जयेत ॥ १ ३॥
नित्यमेतत्तु वो दिष्टं शान्तिकर्म शुभं गवाम् ॥
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ॥ १४ ॥
धेनूनां मारके प्राप्ते तथा रोगाऽद्युपद्रवे ॥
क्षीरक्षये तथान्यस्मिन्प्रकृतेस्तु विपर्यये ॥ १५ ॥
त्रिरात्रोपोषितो विद्वानेकरात्रोषितोऽथ वा ॥
गवां मध्ये शुभे देशे स्थण्डिलं परिकल्पयेत॥१६॥
अष्टपत्रं लिखेत्पद्मं कर्णिकाकेसरान्वितम् ॥
पूजयेत्कर्णिकामध्ये वासुदेवं श्रिया सह ॥ १७ ॥
कृसरैः पूजन कार्यं देवतानां यथाक्रमम् ॥
यासां तासां प्रवक्ष्यामि तव नामानि भार्गव ॥ १८ ॥
सुभद्रां नाम दिग्धेनुं पूर्वभागे समर्चयेत् ॥
पूजनीयस्ततो ब्रह्मा सुरभिस्तदनन्तरम् ॥ ॥ १९ ॥
ततः सूर्यस्ततो धेनुर्बहुरूपा द्विजोत्तम ॥
ततस्तु पृथिवीं देवीं ततोऽनन्तं प्रपूजयेत् ॥ 2.44.२० ॥
ततश्च विश्वरूपाक्षं दिग्धेनुं तदनन्तरम् ॥
ततः सिद्धिं ततो ऋद्धिं ततः शान्तिं समर्चयेत् ॥ २१ ॥
रोहिणी नाम दिग्धेनुस्ततः पूज्या द्विजोत्तम ॥
ततश्चन्द्रमसं देवं महादेववृषं ततः ॥ २२ ॥
महादेवं ततो देवं पूजयेत्तदनन्तरम् ॥
इत्येता देवताः प्रोक्ताः कृसरे तव षोडश ॥ २३ ॥
पत्रेषु पूजनीयाश्च दिक्पालाश्च यथादिशम् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ २४ ॥
प्रत्येकां पूजयेद्राम देवतां प्रयतो द्विजः ॥
पूर्णकुम्भानि सर्वाणि प्रत्येकं विनिवेदयेत ॥ २५ ॥
भक्त्यास्थगितवक्त्राणि वर्धमानैस्सतण्डुलैः ॥
सहिरण्यैर्यथाशक्ति ततो होमं समारभेत् ॥ २६ ॥
वेदिं कृत्वा यथशास्त्रं समिध्य च हुताशनम् ॥
एकैकं दैवतं राम समुद्दिश्य यथाविधि ॥ २७ ॥
चतुर्थ्यन्तेन धर्मज्ञ नाम्ना तु प्रणवादिना ॥
होमद्रव्यैस्तथैकैकं शतसंख्यं तु होमयेत् ॥ २८ ॥
समिधः क्षीरवृक्षस्य अक्षतानि तिलाँस्तथा ॥
सिद्धार्थकान्यथाज्यं च प्रत्येकं जुहुयात्क्रमात् ॥ २९ ॥
ततो रक्षोहणैर्मन्त्रैर्जुहुयाद्गौरसर्षपान् ॥
ततः समापयेद्विद्वानग्निकर्म यथाविधि ॥ 2.44.३० ॥
सुवर्णं च तथा कांस्यं धेनुं वस्त्रयुगं तथा ॥
कर्तुर्देयमुपस्रष्टुर्वस्त्रयुग्मं गुरोस्तथा ॥ ३१ ॥

स्वस्ति वाच्यं ततः पश्चाद्दत्तदाया द्विजोत्तमाः ॥ ३२ ॥
रक्षोहणैस्तथा मन्त्रैः कुर्युरभ्युक्षणं गवाम् ॥
गवां च पूजा कर्तव्या गन्धमाल्यानुलेपनैः ॥ ३३ ॥
मोक्तव्याश्च तदा वत्सा यथाकामं द्विजोत्तम ॥
शान्तिकर्म गवामेतत्सर्वोत्पातप्रशान्तये ॥ ३४ ॥
कर्तव्यं भृगुशार्दूल परमं कर्म दारुणम् ॥
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥ ३५ ॥
कर्ता तूपवसेत्तत्र कारकैश्च तथैव च ॥
पूर्वभाद्रपदायोगमाहिर्बुध्न्यगते तथा ॥ ३६ ॥
स्नानं निशाकरे कुर्याद्द्वितीयेऽहनि शास्त्रवित् ॥
उदुम्बरस्य पत्राणि पञ्चगव्यं कुशोदकम् ॥ ३७ ॥
रोचनां च समंगां च क्षिपेत्कुम्भद्वये ततः ॥
कुम्भद्वयं बुधः कुर्याद्गन्धमाल्योज्ज्वलं दृढम् ॥ ३६ ॥
अकालमूलं संस्थाप्य कर्ता तेन तदा भवेत् ॥
स्नात्वा गोवालचीराणि परिधाय समाहितः ॥ ३९ ॥
पूजयेच्चाप्यहिर्बुध्न्यमादित्यं च तथैव च ॥
वरुणं च शशाङ्कं च गन्धमाल्यान्नसम्पदा ॥ ॥ 2.44.४० ॥
धूपदीपनमस्कारैस्तथैव बलिकर्मणा ॥
अक्षतानां च पात्राणि ततो राम चतुर्दश ॥ ४१ ॥
अहिर्बुध्न्याय रुद्राय सफलांश्च निवेदयेत्॥
खट्वांगेन तु दातव्यं तथा धूपं द्विजोत्तम ॥ ४२ ॥
ततस्तु पूजा कर्तव्या देवदेवस्य चक्रिणः ॥
ॐकारपूर्वमाज्यं च सर्वासां जुहुयात्ततः ॥ ४३ ॥
देवतानां यथोक्तानामेकैकस्य शतंशतम् ॥
गोवालशफशृङ्गैश्च त्रिवृतं कारयेन्मणिम् ॥ ४४ ॥
धारणं तस्य कर्तव्यं कण्ठे मूर्ध्न्यथवा भुजे ॥
कर्त्रे चैवोपद्रष्ट्रे च शक्त्या देया च दक्षिणा ॥ ४५ ॥
ब्राह्मणानां च सर्वेषां यथावदनुपूर्वशः ॥
अलंघयन्भद्रपदामथान्त्यां करोति यः स्नानमिदं सदैव ॥
भवन्ति तस्यायुतशश्च गावः परामवाप्नोति तथैव वृद्धिम् ॥ ४६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने गवां शान्तिकर्म नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥
2.45
पुष्कर उवाच ॥
राज्ञां तुरङ्गमायत्तो विजयो भृगुनन्दन ॥
तस्मात्सर्वं प्रयत्नेन तुरङ्गाणां समर्जनम् ॥ १ ॥
राज्ञा यत्नवता भाव्यं पालने च विशेषतः ॥
तावन्तस्तुरगा धार्या यावतां पोषणं सुखम् ॥ २ ॥
कर्तुं शक्यं न धार्यास्ते दुःखिताः क्षुधितास्तथा ॥
दुःखितास्ते श्रियं लोके विनिघ्नन्ति जयं तथा ॥ ३ ॥
धारणीयाः सुविहिता विधिना यवसादिताः॥
विधृतास्ते तथा कुर्युर्लोकद्वयजयं तथा ॥४॥
मङ्गल्यास्ते पवित्रास्ते रजस्तेषां तथैव च ॥
कैवल्यस्यैव ते भक्ता देवस्य परमेष्ठिनः ॥५॥
अन्ति मध्ये तथा तेन नानुज्ञाता दिवौकसाम् ॥
ततोऽश्वमेधतुरगस्तस्यैवैकस्य हूयते ॥ ६ ॥
सर्वरत्नाधिको जातस्तुरगोऽमृतमन्थनात् ॥
उच्चैःश्रवास्तेन हयः सर्वरत्नोत्तमः स्मृतः ॥ ७ ॥
सपक्षा देववाह्यास्ते मनुष्याणामपक्षकाः ॥
पद्मना शालिहोत्रेण वाहनार्थं पुरा कृताः ॥ ८ ॥
नीराजयन्ति ते देशान्ह्रेषितैर्बलशालिनः ॥
गन्धर्वास्ते विनिर्दिष्टाः श्रियः पुत्रा जितश्रमाः ॥ ९ ॥
प्रधानमंगं सैन्यस्य शोभा च परमा हयाः ॥
सुदूरगमने युद्धे यानश्रेष्ठास्तुरङ्गमाः ॥ 2.45.१० ॥
वल्गन्तमुच्चैस्तुरगं चामरापीडधारिणम् ॥
आरुह्य या भवेत्तुष्टिर्न सा राम त्रिविष्टपे ॥ ११ ॥
सन्नद्धपुरुषारूढैः सुसन्नद्धैस्तुरङ्गमैः ॥
दृष्टैरेवारिसैन्यस्य पतन्ति हृदयान्यलम् ॥ १२ ॥
तुरङ्गपादोद्धृतधूलिदण्डं यस्यातपत्रानुकृतिं करोति ॥
नभः समग्रा वसुधा तु तस्य शैलावतंसा भवतीह वश्या ॥ १३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने अश्वप्रशंसा नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥
2.46
॥ पुष्कर उवाच ॥ ॥
अतः परं प्रवक्ष्यामि शृणु तेषां चिकित्सितम् ॥
वृषो निम्ब बृहत्यौ च गुडूची च समांसिका ॥ १ ॥
शिङ्घाणकहरापिण्डी स्वेदस्य शिरसस्तथा ॥
यावशूकं समदनं पिप्पली विश्वभेषजम् ॥ २ ॥
सर्षपा गृहधूमश्च निर्गुण्डी सुरसा वचा ॥
निम्बपत्रयुता पायौ वर्तिः शूलविनाशिनी ॥ ३ ॥
हिङ्गु पुष्करमूलं च नागरं साम्लवेतसम् ॥
पिप्पली सैन्धवयुतं शूलघ्नं तूष्णवारिणा ॥ ४ ॥
नागरातिविषौ मुस्ता सानन्ता बिल्वमालका ॥
क्वाथो मासं पिबेद्वाजी सर्वातीसारनाशनम् ॥ ५ ॥
प्रियंगुशारिवाभ्यां च युक्तमाजं शृतं पयः ॥
पर्याप्तशर्करं पीत्वा श्रमाद्वाज्यवमुच्यते ॥ ६ ॥
द्रोणिकायां तु दातव्या तैलवस्तिस्तुरङ्गमे ॥
कोष्ठजाश्च शिरा वेध्यास्तेन तस्य सुखं भवेत् ॥ ७ ॥
दाडिमं त्रिफलां व्योषं गुडं च समभागिकम् ॥
पिण्डमेतत्प्रदातव्यमश्वानां कासनाशनम् ॥ ८ ॥
प्रियङ्गुरोध्रमधुभिः पिबन्ति स्म रसं हयाः ॥
क्षीरं वामं च कालोड्यं कश्मलाद्विप्रमुच्यते ॥ ९ ॥
प्रस्कन्नेषु च सर्वेषु श्रेय आदौ विशोषणम् ॥
अभ्यङ्गोद्वर्तनस्नेहनस्यवर्तिक्रमस्ततः ॥ 2.46.१० ॥
प्रस्कन्नं प्रशमं याति यदि नानेन कर्मणा ॥
उरस्युपान्तपार्श्वे च ततो विस्रावयेच्छिराम् ॥ ११ ॥
ज्वलितानां तुरङ्गाणामयमेव क्रियाक्रमः ॥
नस्यमेकं विना राम सर्वमेतत्प्रशस्यते ॥ १२ ॥
रोध्रकरञ्जयोर्मूलं मातुलुङ्गाग्निनागराः ॥
कुष्ठहिङ्गुवचारास्नालेपोऽयं शोफनाशनः ॥ १३ ॥
समासेन शिरां विध्याद्देया वापि जलौकसः ॥
त्र्यहेत्र्यहे वा धर्मज्ञ नस्यकर्म समाचरेत् ॥ १४ ॥
मञ्जिष्ठा मधुकं द्राक्षा बृहत्यौ रक्तचन्दनम् ॥
त्रपुसीबीजमूलानि शृङ्गाटककशेरुकम् ॥ १५ ॥
अजापयः शृतमिदं सुशीतं शर्करान्वितम्॥
पीत्वा निरशनो वाजी रक्तमेहात्प्रमुच्यते ॥ १६ ॥
मन्याहनुनिगालस्थः शिरःशोफो गलग्रह ॥
अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते ॥ १७ ॥
यवैः स्निग्धकुलत्थैश्च ततः स्वेदं प्रयोजयेत् ॥
मृदूकृते ततः शोफे नस्यकर्म समाचरेत् ॥१८॥
वचा- - - - सैन्धवं स्वरसो रसः ॥
कृष्णाहिङुयुतैरेभिः कृत्वा नस्यं न सीदति ॥१९॥
निशा ज्योतिष्मती पाठा कृष्णा कुष्ठा वचा मधु ॥
जिह्वास्तम्भे च लेपोऽयं गुडमूत्रयुतो हितः ॥ 2.46.२० ॥
तिलैर्युक्ता रजन्या च निम्बपत्रैश्च योजिता ॥
क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपिणी ॥ २१ ॥
अभिघातेन खञ्जन्ति येनाश्वास्तीव्रवेदनाः ॥
परिषेकक्रिया तेषां तैलेनाशु रुजापहा ॥२२॥
दोषकोपाभिघाताभ्यां तिलजे जृम्भते सदा ॥
शान्तिर्मध्वाज्यबन्धाभ्यां पक्वम्भिन्ने व्रणे क्रमः ॥ २३ ॥
अश्वत्थोदुम्बरप्लक्षमधूकवटकल्ककैः॥
प्रभूतसलिलः क्वाथः सुखोष्णो व्रणशोधनः ॥ २४ ॥
शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ॥
देवदारुवचायुग्मरजनीरक्तचन्दनैः ॥ २५ ॥
तैलं सिद्धं कषायेण गुडूच्या पयसा सह ॥
प्रक्षीणे वस्तिनस्ये च योज्यं सर्वत्र लंघने ॥ २६ ॥
रक्तस्रावो जलौकाभिर्नेत्रान्ते नेत्ररोगिणः ॥
खदिरोदुम्बराश्वत्थकषायेण च धावनम् ॥ २७ ॥
धात्रीदुरालभातिक्ता प्रियङ्गुकुङ्कुमैः समैः ॥
गुडूच्या कृतकः कल्को हितमुष्णावलम्बिते ॥ ॥ २८ ॥
उपान्ते च शिरास्रावे मुष्कशोफे तथैव च ॥
क्षिप्रकारिणि दोषे च सद्यो वेधनमिष्यते ॥ २९ ॥
गोशकृत्सर्जिकाकुष्ठरजनीतिलसर्षपैः ॥
गवां मूत्रेण पिष्टैश्च मर्दनं कण्डुनाशनम् ॥ 2.46.३० ॥
सितामधुयुतः क्वाथो वाशिकायाः सशर्करः ॥
रक्तपित्तहरः पानादश्वकर्णात्तथैव च ॥ ३१ ॥
आमे परिणते पक्वं पक्वमांसे जरां गते ॥
पक्वमांसयुतं नेष्टं सर्वं जीर्णं प्रशस्यते ॥ ३२ ॥
सप्तमेसप्तमे देयमश्वानां लवणं दिने ॥
तथा भुक्तवतां देया परिपाने तु वारुणी ॥ ३३ ॥
जीवनीयैः सुमधुरैर्मृद्वीकाशर्करायुतैः ॥
सपिप्पलीकैः शरदि प्रतिमानं सपद्मकम् ॥ ३४ ॥
विडङ्गपिप्पलीधान्याशताह्वा रोध्रसैन्धवैः ॥
सावित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे ॥ ३५ …
रोध्रं प्रियङ्गुका रास्ना पिप्पलीविश्वभेषजैः ॥
सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् ॥ ३६ ॥
प्रियङ्गुपिप्पलीरौद्रयष्ट्याह्वैः समहौषधैः ॥
निदाघे सगुडा देया मदिराप्रतिपानके ॥ ३७ ॥
भद्रकाष्ठा सलवणं पिप्पल्या विश्वभेषजम् ॥
भवेत्तैलयुतैरेभिः प्रतिपानं घनागमे ॥ ३८ ॥
निदाघावृतपित्तानां क्षरन्मदोष्णशोणिताः ॥
प्रावृड्भिन्नपुरीषाश्च पिबेयुर्वाजिनो घृतम् ॥ ३९ ॥
पिबेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ॥
स्नेहव्यापद्भवेद्येषां तेषां कार्यं विरूक्षणम् ॥ 2.46.४० ॥
त्र्यहं यवागू रूक्षा स्यात्सुरा च लवणान्विता ॥
भोजने तक्रसंयुक्तं ह्येष वै रूक्षणे विधिः ॥ ४१ ॥
प्रायोगिकस्तथा देयो वस्तिस्तस्य निरत्ययः ॥
ये पिबन्ति हयाः स्नेहं तेषां वस्तिं न दापयेत् ॥ ४२ ॥
शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः ॥
वर्षासु शिशिरे चैव वस्तौ देयमिहेष्यते ॥ ४३ ॥
गुर्वभिष्यन्दिभक्तानि व्यायामः स्नानमातपम् ॥
पायुर्वस्तं च वाहस्य स्नेहपीडस्य वर्जितम्॥ ४४ ॥
स्नानं पानं सकृद्दृष्टमश्वानां सलिलागमे ॥
अत्यर्थदुर्दिने काले स्नानमेकं प्रशस्यते ॥ ४५ ॥
युक्तशीतातपे काले द्विः पानं लवणं सकृत् ॥
ग्रीष्मे त्रिः स्नानपानं स्याच्चिरं तस्यावगाहनम् ॥ ४६ ॥
निस्तुषाणां प्रदातव्यं यवानां चतुराढकम् ॥
ववर्णव्रीहिमौदालाकलनां वापि दापयेत् ॥ ४७ ॥
अहोरात्रेण चान्द्रस्य यवसस्य तुला दश ॥
अष्टौ शुष्कस्य दातव्याश्चतस्रोऽथ बुसस्य वा ॥ ४८ ॥
दूर्वा पित्तं बुसः कार्श्यं तद्बुसः श्लेष्मसञ्चयम् ॥
नाशयत्यर्जुनः श्वासं तथा माषो बलक्षयम् ॥ ४९ ॥
वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः ॥
न रोगाः पीडयिष्यन्ति दूर्वाहारं तुरङ्गमम् ॥ 2.46.५०॥
द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि ॥
पश्चाद्बन्धश्च कर्तव्यो हरकीलव्यपाश्रयः ॥ ५१ ॥
केशानुरूपमास्यस्य केशपुच्छप्रकल्पनम् ॥
छेदः खुरप्रवृद्धौ च वर्जयेत्तु कनीनिकाम् ॥ ५२ ॥
यत्नोपन्यस्तयवसः कृतधूपनभूमयः ॥
वसेयुः सम्भृते स्थाने प्रदीपैः सार्वरात्रिकैः ॥ ५३ ॥
शाखामृगोजाः कृकवाकवश्च धार्याश्च शालासु तथैव धेनुः ॥
कुर्युर्निशीथे पुरुषाः सशस्त्राः संरक्षणं राम तुरङ्गमाणाम् ॥ ५४ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वचिकित्सा नाम षट्चत्वारिंशत्तमोऽध्यायः ॥ ४६ ॥ ॥ छ ॥
2.47
॥ पुष्कर उवाच ॥ ॥
नित्यं नैमित्तिकं काम्यं शान्तिकर्म निबोध मे ॥
पञ्चमीषु च सर्वासु श्रीधरं पूजयेद्भृशम् ॥१॥
श्रियश्च पूजनं कार्यं हयराज्ञस्तथैव व ॥
रामोच्चैःश्रवसो नित्यं गन्धमाल्यानुलेपनैः ॥ ॥ २ ॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ॥
शरद्वसन्तयोः कार्यमेकदन्तस्य पूजनम् ॥ ३ ॥
प्रतिपत्पञ्चमी षष्ठी सप्तमी द्वादशी तथा ॥
प्रशस्तास्तिथयो राम सूर्यवारो विशेषतः ॥ ४ ॥
कृत्तिकां रोहिणीं भाग्यं चार्यम्णमश्विनीं तथा ॥
त्वाष्ट्रं सावित्रमादित्यं वायव्यं च भृगूत्तम ॥ ॥ ५ ॥
नक्षत्राणि प्रशस्तानि शुक्लपक्षस्तथैव च ॥
उद्यानेषु विचित्रेषु नदीनां पुलिनेषु च ॥ ६ ॥
देवतायतनं राम पूजनं तस्य कारयेत् ॥
अर्घधूपनमस्कारदीपपुष्पान्नसम्पदा ॥ ७ ॥
कुल्माषोल्लोपिकाभक्ष्यमद्यमांससुरासवैः ॥
ओदनैः परमान्नेन फलैः कालोद्भवैः शुभैः ॥ ८ ॥
नृत्य गीतेन वाद्येन शङ्खशब्दैस्तथैव च ॥
सावित्रैश्च तथैवाज्यं जुहुयाज्जातवेदसि ॥ ९ ॥
ॐकारपूर्वं च तथा रेवन्ताय पुनःपुनः ॥
द्विजातिपूजनं कार्यं माल्यमोदकचन्दनैः ॥ 2.47.१० ॥
दक्षिणाभिश्च धर्मज्ञ यथावदनुपूर्वशः ॥
नारीषु वर्जयेत्सर्वं रेवन्तस्य निवेदितम् ॥ ११ ॥
एवं सम्पूजितो दद्यात्तुरङ्गमशतान्यपि ॥
बलं तेजस्तथारोग्यं तुरङ्गाणां च भार्गव ॥ १२॥
अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां नरोत्तम ॥
तुरङ्गमाणां कर्तव्यं शान्तिकं तन्निबोध मे॥१३॥
दिगीशानीं विनिष्कृष्य ग्रामाद्देशे मनोरमे॥
प्रागुदक्प्रवणे राम स्थण्डिलं परिकल्पयेत् ॥१४॥
नासत्यौ वरुणं देवं तथैवाश्वयुजे द्विज ॥
पूजयेत्प्रयतो विद्वान्गन्धमाल्यानुलेपनैः॥१५॥
धूपैर्दीपैर्नमस्कारैस्तथा चान्नेन भूरिणा ॥
समुल्लिख्य ततो वेदिं शाखाभिः परिवारयेत् ॥१६॥
समन्ततस्तथार्द्राभिर्वस्त्रैश्चाप्यहतैस्तथा ॥
घटान्सर्वरसैः पूर्णान्दिक्षु दद्याद्यथाविधि ॥१७॥
विदिक्षु च तथा दद्याद्ध्वजच्छत्राणि बुद्धिमान् ॥
ततः समुपधायाग्निं जयप्रभृतिभिः पुनः ॥ १८॥
हुत्वोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम् ॥
ततः सम्पूजनीयास्तु गन्धमाल्यैस्तुरङ्गमा ॥१९॥
सन्नद्धपुरुषारूढाः सुसन्नद्धास्तुरङ्गमाः ॥
सायुधैः पुरुषैः सार्धं वह्निं कुर्युः प्रदक्षिणम् ॥2.47.२०॥
त्रिः परिक्रामतो वह्निं क्ष्वेडोत्कृष्टनिनादितैः ॥
शङ्खवाद्यरवोन्मिश्रैर्नेतव्याः स्वगृहं ततः ॥ २१ ॥
रसानि तानि वासांसि गौः कांस्यं कनकं तथा ॥
दक्षिणायै प्रदातव्यं कर्तुर्द्विजवरोत्तम ॥ २२ ॥
कर्मणानेन भवति प्रभूतं राम वाहनम् ॥
हृष्टपुष्टं च धर्मज्ञ गदामयविवर्जितम् ॥ २३ ॥
नित्यमेतत्तवोद्दिष्टं शृणु नैमित्तिकं तथा ॥
अश्वानां मारके प्राप्ते व्याधौ वाप्यतिदारुणे ॥ २४ ॥
प्रकृतेश्च विपर्यासे तथा भृगुकुलोद्भव ॥
हयचारे शुभे देशे स्थण्डिलं परिकल्पयेत् ॥ २५ ॥
विन्यसेत्कमलं तत्र तन्मध्ये पूजयेद्धरिम् ॥
श्रियं च देवीं तत्रैव केसरेषु च देवताः ॥ २६ ॥
ब्रह्माणं शङ्करं सोममादित्यं च तथाश्विनौ ॥
रेवन्तमुच्चैःश्रवसं दिक्पालाँश्च दलेष्वपि ॥ २७ ॥
सर्वेषां पूजनं कार्यं गन्धधूपान्नसम्पदा ॥
दीपमाल्यनमस्कारपुष्पैर्मूलैः सगोरसैः॥२८॥
प्रत्येकं पूर्णकुम्भैश्च गन्धमाल्याद्यलङ्कृतैः ॥
तथा पिशितवस्त्रैश्च वर्धमानैः सतण्डुलैः ॥ २९ ॥
तथा प्रतिसरासूत्रैः पताकाभिश्च भार्गव ॥
तस्यै वोत्तरतो वेदिं कल्पयित्वा यथाविधि ॥ 2.47.३० ॥
ततः समुपधायाग्निं यथोक्तानां पृथक्पृथक् ॥
ततोऽग्निहवनस्यानु कांस्यं गां काञ्चनं तथा ॥ ३१ ॥
देयं वस्त्रयुगं कर्त्रे कारयित्रे तथैव च ॥
कर्मैतत्सर्वरोगघ्नं सर्वबाधाविनाशनम् ॥ ३२ ॥
उपोषितेन कर्तव्यं ब्राह्मणेन यथाविधि ॥
उपोषितस्तदा तिष्ठेद्यजमानोऽपि भार्गव ॥ ३३ ॥
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥
उपोषितौ सदा पौष्णे यजमानपुरोहितौ ॥३४॥
अश्विनर्क्षे सदा स्नानं कुर्युर्यन्मे निबोधत ॥
अकालमूलौ द्वौ कुम्भौ मधूककुसुमोत्कटौ ॥ ३५ ॥
अश्वगन्धायुतौ कृत्वा स्नाप्यस्ताभ्यां तदा भवेत् ॥
उत्तमं पूजयेद्विद्वान्नासत्यौ शशिनं तथा ॥ ३६ ॥
अश्विनौ वरुणं चैव शुक्लवासास्तथा हरिम् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ ३७ ॥
ततोऽश्वमिथुनं कार्यं सर्वौषधियुतं मृदा ॥
प्रणतेन ततो विद्वान्नासत्याभ्यां निवेदयेत् ॥ ३८ ॥
धूपमश्वशफं दद्याद्दैवतानां तथैव च ॥
यथोक्तानां द्विजश्रेष्ठ जुहुयाच्च पृथक्पृथक् ॥ ३९ ॥
चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव ॥
स्वाहान्तेनाथ शतशो मन्त्रपूतं घृतं द्विज ॥ 2.47.४० ॥
अश्वलोम तथा धार्यं फलमूले तथैव च ॥
एकत्र त्रिवृतं कृत्वा मणिर्धार्यस्तु पूर्ववत् ॥ ४१ ॥
अलंघयन्नश्विनतिं सदैव स्नानं च कुर्यात्प्रयता मनुष्यः ॥
अश्वानवाप्नोति सहस्रसंख्यान्कुलोद्भवान्वीर्यबलोपपन्नान् ॥४२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वानां शान्तिकर्मविधानन्नाम सप्तचत्वारिंशत्तमोऽध्यायः॥४७॥
2.48
पुष्कर उवाच ॥
कुञ्जराः परमा शोभा शिबिरस्य बलस्य च॥
आयाति कुञ्जरेष्वेव विजयः पृथिवीक्षिताम् ॥ १ ॥
तेषां संमार्जने यत्नं पालने च भृगूत्तम ॥
यथावन्नृपतिः कुर्याद्गन्धर्वाः कुञ्जरा मताः ॥२॥
जयन्ताश्च तथा धार्या यावतां पोषणं सुखम् ॥
कर्तुं शक्यं न धार्यास्ते क्षुधिता दुःखितास्तथा ॥ ३ ॥
दुःखितास्ते नृणां हन्युः कुलानि च भृगूत्तम ॥
तस्मात्तेषां सुखं कार्यं यशःश्रीविजयप्रदम् ॥ ४ ॥

अनल्पैरपि यद्युक्तं बलं परबलप्रणुत् ॥ ५…
तदैकस्यापि समरे कुञ्जरस्य सवर्मणः ॥
न शक्यं प्रमुखे स्थातुं वेगादापततो द्विज ॥६॥
अभिन्नानां तु संघानां संहृतानां च भेदनम् ॥
एकः क्रुद्धो रणे कुर्यात्कुञ्जरः साधु चोदितः ॥७॥
मदक्लिन्नकपोलस्य किञ्चिदञ्चितचक्षुषः ॥
बृहदाभोगशुण्डस्य कः शोभां कथितुं क्षमः ॥८॥
वेगेन धावमानस्य प्रसारितकरस्य च ॥
कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्तिनः ॥९॥
यस्य फूत्कारमात्रेण तुरङ्गमशतान्यपि॥
स्वारूढान्यपि वेगेन विद्रवन्ति दिशो दश॥2.48.१०॥
तत्सैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः ।
मूर्तिमान्विजयो राम कुञ्जरा मदगर्विताः ॥ ११ ॥
सपक्षा देववाह्यास्ते मनुजानां त्वपक्षकाः ॥
वाहनार्थं कृता राम स्वयमेव तु वेधसा ॥१२॥
दृष्ट्वा पताकाभिरलंकृतं तु नागेन्द्रसैन्यं प्रबलं यथाद्रिम्॥
पतन्ति शीघ्रं हृदयान्यरीणां तस्मात्प्रधानाः सततं गजेन्द्राः १३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गजप्रशंसा नामाष्टचत्वारिंशत्तमोऽध्यायः ॥४८॥
2.49
पुष्कर उवाच ॥
अतः परं प्रवक्ष्यामि कुञ्जराणां चिकित्सितम् ॥
पाकलेषु तु सर्वेषु कर्तव्यमनुवासरम् ॥ १ ॥
घृततैलपरीषेकः स्थानं वातविवर्जितम् ॥
स्कन्धेषु च तथा कार्या क्रिया पाकलवद्द्विज ॥२॥
गोमूत्रं पाण्डुरोगे तु रजनीभिर्युतं हितम् ॥
आनाहे तैलसिक्तस्य निवातस्थं प्रशस्यते ॥३॥
लवणैः पञ्चभिर्मिश्रा प्रतिपानाय वारुणी ॥
विडङ्गत्रिफलाव्योषसैन्धवैः कवलाः कृताः ॥४॥
मूर्च्छास्वभोजयेन्नागं क्षौद्रतोयं तु पाययेत् ॥
अभ्यङ्गः शिरसः कार्यो नस्यश्चैव प्रशस्यते ॥ ५ ॥
नागानां स्नेहकटुकैः पादरोगानुपक्रमेत् ॥
पञ्चकल्ककषायेण शोधनं च विधीयते ॥ ६ ॥
…….मन्दनं कार्यं मृदुस्निग्धं च भोजयेत् ॥
शिखितित्तिरलावानां पिप्पलीमरिचान्वितैः ॥ ७ ॥
रसैः सम्भोजयेन्नागं वेपधुर्यस्य जायते ॥
बालबिल्वं तथा रोध्रं धातुकीं वितुषा सह ॥८॥
अतीसारविनाशाय पिण्डं भुञ्जीत कुञ्जरः॥
नस्यं करग्रहे देयं घृतं लवणसंयुतम् ॥९॥
मागधी मरिचाढ्या च यवागुर्मस्तुसाधितः॥
तत्कर्णके च दातव्यं वाराहं च तथा रसम्॥2.49.१०॥
दशमूलकुलत्थाम्ल काकमाची विपाचितम्॥
तैलमूषणसंयुक्तं गलग्रहगदापहम् ॥११॥
अष्टभिर्लवणैः पिष्टैः प्रसन्नां पाययेद्युताम् ॥
मूत्रसंघेऽथवा बीजं क्वथितं त्रपुसस्य च ॥ १२ ॥
त्वग्दोषेषु पिबेन्निम्बं वृषं वा क्वथितं द्विपः ॥
गवां मूत्रं विडङ्गानि कृमिदोषेषु शस्यते ॥ १३ ॥
शृङ्गबेरकणाद्राक्षाशर्कराभिः शृतं पयः ॥
क्षतक्षयहरं पानात्तथा मांसरसः शुभः ॥ १४ ॥
मुद्गोदनं व्योषयुतं ह्यरुचौ च प्रशस्यते ॥
द्रोणिकाशान्तये यूषं पटोलीनिम्बदुर्गजम् ॥ १५ ॥
त्रिवृद्योषाग्निदन्त्यर्कश्यामक्षीरेभपिप्पली ॥
एष गुल्महरः स्नेहः कृतश्चैव तथासवः ॥ १६ ॥
क्षीरवृक्षनदीजम्बुमल्लकीनां त्वचः शुभाः ॥
हृद्रोगशान्तये देया विदार्यश्च रसोदनात् ॥ १७ ॥
भेदनश्रावाणभ्यङ्गस्नेहपानानुवासनैः ॥
सर्वानेव समुत्पन्नान्विद्रवेत्समुपाचरेत् ॥ १८ ॥
यष्टिकं मुद्गयूषेण शारदेषु तथा पिबेत् ॥
बालबिल्वैस्तथा लेपः कटिरोगेषु शस्यते ॥ १९ ॥
विडंगेन्द्रयवा हिङ्गुसरलं रजनीद्वयम् ॥
पूर्वाह्णे दापयेत्पिण्डं सर्वशूलोपशान्तये ॥ 2.49.२० ॥
भारेण चलितं दन्तं कुञ्जरस्य समुद्धरेत् ॥
प्रधाना भोजने तेषां यष्टिकाव्रीहिशालयः ॥ २१ ॥
मध्यमौ यवगोधूमौ शेषाः प्रत्यवराः स्मृताः ॥
विधौ योगे प्रयत्नेन दग्धिकां तु विवर्जयेत् ॥ २२ ॥
यवसेषु तथैवेक्षुर्नागानां बलवर्धनम् ॥
नागानां यवसं शुष्कं कफवातप्रकोपनम् ॥ २३ ॥
मदक्षीणस्य नागस्य पयःपानं प्रशस्यते ॥
जीवनीयैस्तथा द्रव्यैः शृतो मांसरसः शुभः ॥ २४ ॥
मदवृद्धिकरान्योगान्वक्ष्याम्यहमतः परम् ॥
रणकाले समापन्ने यान्राजा संप्रयोजयेत् ॥ २५ ॥
वायसः कुरवश्चोभौ काकोली नाकुली हरिः ॥
भवेत्क्षौद्रेण संयुक्तः पिण्डः सद्यः प्रभेदनः ॥ २६ ॥
जातिभंगं समूलश्च कपोतत्वक्तथेङ्गुदी ॥
अश्वसारकभङ्गश्च पिण्डोऽयमपरस्तथा ॥ २७ ॥
अजशृङ्ग्यर्कमूलाभ्यां सकुञ्जमधुसंयुतः ॥
मधुमिश्रोप्ययं पिण्डः पुष्पमूलफलान्वितः ॥ २८ ॥
युद्धकालेऽत्र नागस्य कर्तव्या मदवर्धिनी ॥
कटुमत्स्या विडङ्गानि क्षारः कोशातकी पयः ॥ २९ ॥
हरिद्रा चेति धूपोऽयं कुञ्जरस्य जयावहः ॥
पिप्पल्यः श्वेतलशुनं हरितालं मनःशिला ॥ 2.49.३० ॥
अश्वमूत्रोषितो धूपः स्यात्सूर्यपरिशोषितः ॥
मार्द्वीकं कटुमत्स्याश्च तथा कटुकरोहिणी॥३१॥
आभयं च त्रयः शैलं धूपोऽयमपरः शुभः ॥
अग्निकः सर्ववर्णश्च पीलुरित्येष दीपनः॥३२॥
प्रदेयः कवलो युद्धे मनुष्यास्थिप्रधूपितः ॥
जीर्णे विधानो देयः स्यात्पिण्डश्च तृट्क्षयङ्करः ॥३३॥
पिप्पली तण्डुलस्तैलं मार्द्वीकं माक्षिकं तथा ॥
नेत्रयोः परिषेकोऽयं दीपनीयः प्रशस्यते ॥ ३४ ॥
पुरीषं वृश्चिकायाश्च तथा पारावतस्य च ॥
क्षीरवृक्षकरीराश्च प्रपन्नाविष्टमञ्जनम् ॥ ३५ ॥
अनेनाञ्जितनेत्रस्तु करोति कदनं रणे ॥
उत्पलानि च नीलानि मुस्तं तगरमेव च ॥ ३६ ॥
तण्डुलोदकपिष्टानि नेत्रनिर्वापणं परम् ॥
प्रवृद्धये नदीजानां पञ्चमेऽब्दे वनौकसाम् ॥ ३७ ॥
दन्तमूलपरीणाहाद्विगुणात्कल्पयेत्परम् ॥
वनेवृद्धैर्न्नवे च्छेदः कर्तव्यश्च तदा भवेत् ॥ ३८॥
शय्यास्थानं भवेच्चास्य करीषैः पांसुभिस्तथा ॥
तैलावसेकः शीते स्यान्मासिमासि तथैव च ॥ ३९ ॥
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ॥
राज्यद्विपादभ्यधिकां तु शोभां नागस्य चान्यस्य न जातु कुर्यात् ॥
शोभाविधानं त्वधिकं सदैव राज्यद्विपस्यैव नृपस्तु कुर्यात् ॥ 2.49.४० ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने हस्तिचिकित्सा नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
2.50
पुष्कर उवाच ॥
अतः परं तु नागानां शान्तिकर्म निबोध मे ॥
नित्यं नैमित्तिकं काम्यं यथावदनुपूर्वशः ॥ १ ॥
पञ्चमीषु च शुक्लासु वासुदेवस्य पूजनम् ॥
श्रियश्च राम कर्तव्यं नागस्यैरावणस्य च ॥ २ ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
तथा च कृष्णपक्षान्ते मासिमासि द्विजोत्तम ॥ ३ ॥
भूतेज्या सततं कार्या तिलमांसपयोगुडैः ॥
मत्स्यैः पक्वामिषैर्भक्ष्यैः सुमनोभिश्च भार्गव ॥ ४ ॥
चतुष्पथेषु रथ्यासु तथा शून्यगृहेषु च ॥
एक वृक्षश्मशानेषु गोपुराट्टालकेषु च ॥ ५ ॥
सङ्गमेषु नदीनां च पर्वतानां गुहासु च ॥
त्रिकण्टकेषु मुख्येषु शून्यदेवगृहेषु च ॥ ६ ॥
शुक्लपक्षावसानेषु देवतेज्या विधीयते ॥
गजस्थानोत्तरे भागे प्रागुदक्प्रवणे शुभे ॥ ७ ॥
ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्रवणं यमम् ॥
चन्द्रार्कौ वरुणं वायुं त्वग्निं पृथ्वीं तथा खगम् ॥ ८ ॥
शेषं च नागराजं तु भूधराँश्चैव कुञ्जरान् ॥
विरूपाक्षं महापद्मं भद्रं सुमनसं तथा ॥ ९ ॥
अष्टौ च दिग्गजा ये वै ते स्मृता देवयोनयः ॥
कुमदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ॥ 2.50.१० ॥
सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः ॥
यथोक्तानां सुकर्तव्यं पूजनं वै पृथक्पृथक् ॥ ११ ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
ॐकारपूतेनाज्येन तथाग्निहवनं भवेत् ॥ १२ ॥
पृथक्पृथक् च सर्वेषां चतुर्थ्यन्तैश्च नामभिः ॥
दक्षिणाभिस्ततो राम ब्राह्मणान्स्वस्ति वाचयेत् ॥ १३ ॥
ततः शान्त्युदकं कृत्वा मन्त्रै रक्षोहणैर्द्विपान् ॥
अभ्युक्षयेत्कुशाग्रेण पूज्यास्ते च तथा तदा ॥ १४ ॥
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ॥
गजानां मरणे प्राप्ते तथा व्याधौ च दारुणे ॥ १९ ॥
दन्तच्छेदाशुभोत्पत्तौ मृते गजद्विपे तथा ॥
दन्तभङ्गे तथा जाते वा सुपक्षमृते गजे ॥ १६ ॥
कृष्णपक्षे मृते नागे वह्निपृष्ठे मृते तथा ॥
दारुणासु च वेलासु दक्षिणापरमूर्धनि ॥ १७ ॥
हस्तिन्याथ मदे जाते प्रकृतेश्च विपर्यये ॥
पूर्वोत्तरे च दिग्भागे नगरात्सुमनोहरे ॥ १८ ॥
स्निग्धप्राशन तोयेषु द्रुमवीतवनस्पतौ ॥
प्रागुदक्प्रवणं राम स्थण्डिलं परिकल्पयेत् ॥ १९ ॥
कमलं विन्यसेत्तत्र कर्णिकाकमले हरिम् ॥
श्रियं च विन्यसेत्तत्र केसरेषु च विन्यसेत् ॥ 2.50.२० ॥
ब्रह्माणं भार्गवं पृथ्वीं तथा स्कन्दं च भार्गव ॥
अनन्तं खं शिवं सोमं सर्वाण्येतानि भार्गव ॥ २१ ॥
दलेषु तत्र दिक्पालान्विन्यसेत्सह कुञ्जरैः ॥
पत्रान्तरेषु चास्त्राणि यथावदनुपूर्वशः ॥ २२ ॥
वज्रं तु विन्यसेद्धीमान्शक्रपत्रादनन्तरम् ॥
ततश्चक्रं ततो दण्डं तोरणं तदनन्तरम् ॥ २३ ॥
ततश्च विन्यसेत्पाशं तोमरं सशरं धनुः ॥
ततो गदां महाभाग ततः शूलं च विन्यसेत् ॥ २४ ॥
पद्मञ्च सान्तरदलं वृत्तया लेखया भजेत् ॥
आदित्यैः सह नासत्यौ ततः पूर्वेण विन्यसेत् ॥ २५ ॥
वसूनग्निदिशाभागे साध्यान्याम्ये च विन्यसेत ॥
तथा च नैर्ऋते भागे देवानङ्गिरसो न्यसेत् ॥ २६ ॥
पश्चिमे भृगवो भागे वायव्ये मरुतस्तथा ॥
विश्वेदेवास्तथोदक् च रुद्राञ्शिवदिशि न्यसेत् ॥ २७ ॥
कृत्वैतद्देवतान्यासं वृत्तया रेखया भजेत् ॥
बाह्येन विन्यसेत्तस्याः सूत्रकारानॄषीन्द्विज ॥ २८ ॥
पूर्वेण राम याम्येन तथा देवीं सरस्वतीम् ॥
नदीः पश्चिमतः शैलांस्तथोदग्भृगुनन्दन॥२९॥
महाभूतानि वेदीषु कोणहस्तगतानि तु॥
पद्मं चक्रं गदां शङ्खमीशान्यादिषु विन्यसेत्॥ । ॥ 2.50.३० ॥
चतुरस्रं तथा कार्यं चतुर्द्वारं च मण्डलम् ॥
प्रमाणं मण्डलस्यात्र भवेद्भूमिवशात्तथा ॥
विदिक्षु पूर्णकलशान्पूर्णपात्रयुतान्न्यसेत ॥ ३१ …
सप्तहस्तेषु दण्डेषु पताकाश्च तथा न्यसेत् ॥
सिता रक्ताः सिताः पीता यथावदनुपूर्वशः ॥
दिक्षु तोरणविन्यासं तोरणानां च वेष्टनम् ॥ ३२ ॥
क्षीरवृक्षद्रुमदलैः कुसुमैः सफलैर्भवेत् ॥
तोरणस्य प्रमाणं च षड्ढस्तं परिकीर्तितम् ॥ ३३ ॥
उच्छ्रायेण तथा यामाज्ज्ञेयं राम समद्वयम् ॥
तार्क्ष्यं तालं च मकरं ऋष्यं चैवानुपूर्वशः ॥ ३४ ॥
तोरणोपरि मध्ये तु दानवान्विनिवेशयेत् ॥
कर्णकैर्लक्षणोपेतान्विन्यसेद्देवतागणान् ॥ ३५ ॥
सायुधान्सपताकाँश्च सातपत्रं शतक्रतुम् ॥
दिग्गजानां च विन्यासमोषधीभिः प्रकल्पयेत् ॥ ३६ ॥
ऐरावणं दले शक्रे लाजाभिर्विन्यसेद्बुधः ॥
नागं पुष्पमयं पद्ममाग्नेये विन्यसेद्दले ॥ ३७ ॥
पुष्पदन्तस्तथा याम्ये नागः कार्यः प्रियंगुभिः ॥
तथा च नैर्ऋते भागे नागः पुष्पेण वामनः … ॥ ३८ ॥
वायव्ये चाञ्जनं पत्रे माषैः कुर्याद्विचक्षणः ॥
नीलश्च पत्रे कौबेरे शतपुष्पामयो भवेत् ॥ ३९ ॥
ऐशान्ये कुमुदं कुर्यान्नागेन्द्रं सिततन्दुलैः ॥
ततस्तु पूजनं कार्यं सोपवासेन भार्गव ॥ 2.50.४० ॥
जितेन्द्रियेण दान्तेन शिरःस्नातेन चाप्यथ ॥
शुक्लवस्त्रावृतेनापि सोष्णीषेण तथैव च ॥ ४१ ॥
काञ्चनालंकृतेनापि सपवित्रेण भार्गव ॥
सर्वासां पूजनं कुर्याद्देवतानां पृथक्पृथक ॥ ४२ ॥
अस्त्राणां कुञ्जराणां च पद्मादीनां तथैव च ॥
तोरणे तु निविष्टानां तार्क्ष्यादीनां पृथक्पृथक् ॥ ४३ ॥
सागराणां तु कुम्भेषु गन्धमाल्यानुलेपनैः ॥
धूपैर्दीपैर्नमस्कारैर्वासोभिश्च पृथक्पृथक् ॥ ४४ ॥
तथा प्रतिसराभिश्च भूषणैश्च पृथक्पृथक् ॥
भूरिणा च तथान्नेन पानैश्च विविधैस्तथा ॥ ४५ ॥
कुल्माषपरमान्नाभ्यां पूज्यास्ते कृसरेण च ॥
भूदकोल्लोपिकाभक्ष्यैः सितया गुडफाणितैः ॥ ४६ ॥
मासौदनपयःक्षौद्रदधिपायससक्तुभिः ॥
अपूपफलमूलान्नरागखण्डवकैर्दलैः ॥ ४७ ॥
एवं सम्पूजनं कृत्त्वा शङ्खवाद्यरवैर्द्विज ॥
गीतेन च महाभाग सुभगानर्तितेन च ॥ ४८ ॥
ततस्तु पूजनं कृत्वा पूजास्थानात्तथाप्युदक्॥
आहिताग्निकुलादग्निं वेदिमुल्लिख्य बोधयेत् ॥ ४९ ॥
देवतानां तु सर्वासामेकैकं तु पृथक्पृथक् ॥
चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव ॥ 2.50.५० ॥
शतमाज्येन जुहयान्महाव्याहृतयस्तथा ॥
ततस्तु पूजिता नागा वह्निं देवगणान्द्विजान्॥५१॥
कृत्वा प्रदक्षिणं सर्वे व्रजेयुः स्वगृहाणि ते ॥
उपद्रष्ट्रे तथा कर्त्रे सर्वं तत्र निवेदयेत् ॥५२॥
भवेन्निष्कं च निष्कं च धेनुधेनुं भुवंभुवम् ॥
अश्वमश्वं तथान्या च दक्षिणा शक्तितो भवेत् ॥ ५३ ॥
न भवेत्सा महाद्रोणा कथञ्चिदपि कस्यचित् ॥
तथा च हस्तिभिषजा प्रवृत्तेन च भूरिणा ॥ ५४ ॥
पूजनीयौ तथैवात्र सांवत्सर पुरोहितौ ॥
हस्तिन्यां मदमत्तायां शान्तिकेऽस्मिन्द्विजोत्तम ॥ ५५ ॥
राष्ट्रान्निर्वास्य तां कुर्याच्छान्तिमेतां द्विजोत्तम ॥
नागराज्ञि मृते कृत्वा तत्रैवान्यं मतङ्गजम् ॥ ५६ ॥
स्नातं सर्वौषधैर्नागं सर्वगन्धैस्तथैव च ॥
सर्वबीजैश्च रत्नैश्च सर्वतीर्थजलैस्तथा ॥ ५७ ॥
आहताम्बरसंवीतदर्शनं श्वेतलक्षणम् ॥
काञ्चनापीडिते वाद्यगीतपुण्याहनिस्वनैः ॥ ५८ ॥
अर्चितं दैवतो वह्निं कृतविप्रप्रदक्षिणम् ॥
करिणीं तु समारुह्य वदेत्कर्णे तु कालवित् ॥ ५९ ॥
श्रीगजस्त्वत्कृते राजा भवस्वास्य गजाग्रणीः ॥
गन्धमाल्याग्रभक्तैस्त्वां पूजयिष्यति पार्थिवः ॥ 2.50.६० ॥
लोकस्तदाज्ञया पूजां करिष्यति तथानघ ॥
पालनीयस्त्वया राजा घोरयुद्धे तथाहवे ॥ ६१ ॥
तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर ॥
देवासुराणां युद्धे च श्रीगजस्त्रिदशैः कृतः ॥ ६२ ॥
ऐरावणसुतः श्रीमानरिष्टो नाम रावणः ॥
श्रीगजानां तु तत्तेजः सर्वमेवात्र तिष्ठति ॥ ६३ ॥
तत्तेजस्तव नागेन्द्र दिव्यभागसमन्वितम् ॥
उपतिष्ठतु भद्रं ते रक्ष राजानमाहवे ॥ ६४ ॥
इत्येवमभिषिक्त्वेन शुभेऽहनि नराधिपः ॥
नित्यं चैवास्य कर्तव्यं ब्राह्मणैः स्वस्तिवाचनम् ॥ ६५ ॥
तस्यानुगमनं कुर्युः शस्त्रहस्ताश्च मानवाः ॥
सितवर्णश्च कर्तव्यो राज्ञः पुण्याहकर्मसु ॥ ६६ ॥
एतत्ते सर्वमाख्यातं गजानां शान्तिकर्मसु ॥
नक्षत्राणि प्रशस्तानि तिथयश्च तथा शृणु ॥ ६७ ॥
चतुर्दशीं चतुर्थीं च नवमीं च विवर्जयेत् ॥
अङ्गारकदिने राम दिनं भास्करजस्य च ॥ ६८ ॥
ऋक्षाणि वैष्णवं त्वाष्ट्रं शस्यते शक्रदैवतम् ॥
नक्षत्राणि मुहूर्ताश्च एत एव महाबल ॥ ६९ ॥
देशकालोपसम्पन्नं विधिना च तथा कृतम् ॥
शान्तिकर्म गजेन्द्राणां सर्वबाधाविनाशनम् ॥ 2.50.७० ॥
धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ॥
भार्गवश्च्यवनः क्रुद्धो यथा शक्रस्य भार्गव ॥ ७१ ॥
मदो नाम समुत्पन्नस्तथा दैत्यः सुदारुणः ॥
इन्द्रनाशाय शक्रार्थी ततः पश्चात्प्रसादितः ॥ ७२ ॥
मदं स बहुधा चक्रे प्रजापतिसमो द्विज ॥
स्त्रीष्वक्षेषु तथा पाने मृगयायां धने तथा ॥ ७३ ॥
विद्यासु चैव सर्वासु सर्वशिल्पेषु चाप्यथ ॥
जीवेषु राम सर्वेषु तथा रूपे बले कुले ॥ ७४ ॥
एकोऽस्य धारणे शक्तो न कश्चिदितिचिन्तयन् ॥
यथोक्तेष्वधिकं भागं किञ्चित्पाने निवेशयेत् ॥ ७५ ॥
प्राणिनामथ सर्वेषां नागेष्वभ्यधिकं तथा ॥
मदो यदा समभ्येति नागं ब्राह्मणसत्तम ॥ ७६ ॥
राम शान्तिस्तदा कार्या यादृशी तां निबोध मे ॥
शालाप्रागुत्तरे भागे स्थण्डिलं कल्पयेद्बुधः ॥ ७७ ॥
स्थण्डिले कमलं कृत्वा दिक्पत्रेषु तथेश्वरान् ॥
केसरं च्यवनं नागान्भुवं कं च सरस्वतीम् ॥ ७८ ॥
पूजयेड्डिण्डिमं मध्ये गन्धमाल्यानुलेपनैः ॥
धूपदीपनमस्कारैर्वासोभिश्च पृथक्पृथक् ॥ ७९ ॥
सर्वासां पूजनं कृत्वा पाद्याद्यनुरतो द्विज ॥
देवतानां घृतं हुत्वा यथाश्रद्धमनिन्दितम्॥ 2.50.८०
रसपूर्णो घटो देयो दक्षिणार्थे च काञ्चनम् ॥
दत्त्वा वासांसि नागस्य गजाध्यक्षं च पूजयेत् ॥ ८१ ॥
हस्तिपं कर्मिणश्चान्यान्दक्षिणाभिर्द्विजोत्तमान् ॥
सांवत्सरे च वित्तेन यतः सांवत्सरः स्वयम्॥८२॥
गजाध्यक्षाय तं दद्याद्दिण्डिमं प्रयतः स्वयम्॥
प्राङ्मुखश्च गजाध्यक्षो वादयेत्तं यथाविधि ॥ ८३ ॥
उच्चैर्गम्भीरनिर्घोषे डिण्डिमे तु शुभं वदेत् ॥
अन्तरा पातिते तस्मिँस्तथैवाप्यशुभं वदेत् ॥ ८४ ॥
डिण्डिमे सम्यगादत्ते शुभमेव विनिर्दिशेत् ॥
तदा प्रभृति मत्तस्य तदा नागस्य वै नृप ॥ ८५ ॥
अशुभे लक्षणे जाते भूयस्तत्कर्म चाचरेत् ॥
शुभे तु लक्षणे जाते गजाध्यक्षस्य डिण्डिमम् ॥ ८६॥
जये संस्थाप्य नन्दाद्याग्रजपाय……………………..सर्वबाधाविनाशनम् ॥ ८७ ॥

उपोषितस्तथा याम्ये यजमाने पुरोहितः ॥ ८८ ॥
शुभप्रदमिदं स्नानं यजमानस्य कारयेत् ॥
न्यग्रोधोदुम्बराश्वत्थमधुकोदकसंयुतैः ॥ ८९ ॥
अकालमूलैः कलशैः पञ्चभिर्गजलक्षणैः ॥
स्नातः शुक्लाम्बरो विष्णुं चन्द्रार्कौ वरुणं तथा ॥ 2.50.९० ॥
हस्तिनं पूजयेद्विद्वान्गन्धमाल्यान्नसम्पदा ॥
धूपदीपनमस्कारैर्वासोभिश्च तथैव च ॥ ९१ ॥
हस्तिदन्तेन सूर्याय दत्त्वा धूपमतः परम् ॥
चतुर्थ्यन्तेन वै नाम्ना प्रणवाद्येन भार्गव ॥
सहस्रशो गजाश्चात्र दक्षिणा काञ्चनं तथा ॥ ९२ ॥
यः स्वासते स्नानमिदं प्रकुर्वन्गजेन्द्रमुख्यान्गिरिसन्निकाशान् ॥
बहूनवाप्नोति तथास्य नागा भवन्त्यरोगा विनिमुक्तदोषाः ॥९३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने गजानां शान्तिकर्मविधानं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
2.51
पुष्कर उवाच ॥
दुर्गमायुधसंघातं कुञ्जरास्तुरगास्तथा ॥
पुरुषैश्च विना राम सर्वमेतदपार्थकम् ॥ १ ॥
तस्मात्प्रयत्नं कुर्वीत पुरुषाणां समर्जने ॥
तेषां चैवान्तरज्ञाने मूलमेतद्यतः श्रियः ॥२॥
सुसहायार्थसम्पन्न बलं यस्य महीपतेः ॥
संग्रामे तुमुले राम नूनं तस्य जयो भवेत् ॥ ३ ॥
सकृद्येन कृतं पापं तस्य राजा न विश्वसेत् ॥
पापं तु सुकरं तस्य सुकृतश्चास्य दुष्करम् ॥ ४ ॥
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते ॥
तथा चलितवृत्तस्तु वृत्तशेषं न रक्षति॥ ५ ॥
राजा न वेशयेत्कार्ये जनो यो नास्तिको भवेत् ॥
आस्तिका अपि तत्सङ्गात्प्राप्नुयुः संशयं द्विज ॥ ६ ॥
अनाहार्यप्रभस्यापि त्रैलोक्योद्भासितात्मनः ॥
कृष्णता राहुसंसर्गात्किन्न सूर्यस्य वा भवेत् ॥७॥
अकार्यमित्यकार्याणि कुर्यात्कार्यवशेन यः ॥
विचिकित्सुर्ध्रुवं राम पश्चादपि निवर्तते ॥ ८ ॥
कार्यं बुद्ध्वा त्वकार्याणि यः करोति नराधमः ॥
अकार्यकरणे श्रद्धा तस्य भूयोभिवर्धते ॥ ९ ॥
लोकः सर्वो महाभाग परलोकनिबन्धनः ॥
निरपेक्षस्य तत्रान्या का गतिः स्यान्निबन्धने ॥ 2.51.१० ॥
महापातकिनो येऽपि तेभ्योऽपि च महत्तरः ॥
पापकृन्नास्तिको लोकस्तस्मात्तं परिवर्जयेत् ॥ ११ ॥
आस्तिकानां च साधूनां संग्रहः शस्यते सदा ॥
ते सहाया नरेन्द्राणां तथा ये राम पण्डिताः ॥ १२ ॥
न पण्डितो मतो राम बहुपुस्तकधारणात् ॥
परलोकभयं यस्य तमाहुः पण्डितं बुधाः ॥ १३ ॥
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ॥
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ १४ ॥
शीलोपपन्नो नृपतिः सहायैः शरैस्तथाल्पैरपि सम्प्रयुक्तः ॥
प्रभूतनागाश्वबलोत्कटानां करोत्यरीणां कदनं रणेषु ॥ १५ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुरुषप्रशंसा नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥
2.52
॥ पुष्कर उवाच ॥ ॥
अतः परं प्रवक्ष्यामि नराणां ते चिकित्सितम् ॥
तत्राप्यादौ तथा स्त्रीणां यन्मूलं प्रजनं यतः ॥ १ ॥
महाजम्बूद्वयं रोध्रं मधुकं मधु शर्करा ॥
तण्डुलोदकसंयुक्तं शोणितप्रदरे पिबेत् ॥ २ ॥
ऊर्ध्वं संवत्सरान्नारीं रक्तगुल्मे विरेचयेत् ॥
स्निग्धस्विन्नशरीराञ्च राम तीक्ष्णौर्विरेचनैः ॥ ३ ॥
ज्वरेण च पलाशस्य संसिद्धं यावकं पिबेत् ॥
अग्निसन्धुक्षणं चान्यास्तथा कार्यं प्रयत्नतः ॥ ४ ॥
प्रस्थं वृषकमूलस्य तैलं प्रस्थं विपाचयेत् ॥
योनीनां परिकोपेषु वेदनामपकर्षति ॥५ ॥
सौराष्ट्री रोचना रोध्रं मधूकं त्रिफला मधु ॥
भद्रमुस्तानि चूर्णानि वाजीकरणमुत्तम् ॥ ६ ॥
अश्वगन्धाविपक्वेन वराहस्य तु मेदसा ॥
ग्रन्थीकरणमभ्यङ्गं योषितां परिकीर्तितम् ॥ ७ ॥
एकमामलकं काले सलिलांजलिना पिबेत् ॥
सृष्टं कृष्णायसे भाण्डे तेन शातोदरी भवेत् ॥ ८ ॥
त्रिफलां चित्रकं शुण्ठीं मधुना तु लिहेत्सदा ॥
स्थूलानां वरनारीणां कृषीकरणमुत्तमम् ॥ ९ ॥
अश्वगन्धां पयस्यां च संसृज्य पयसा पिबेत् ॥
मासमेतत्प्रयुञ्जाना कृशा भवति मांसला ॥ 2.52.१० ॥
वराहवसया कार्यमश्वगन्धाविपक्वया ॥
स्तनानां मर्दनं तेन नारी पीनस्तनी भवेत् ॥ ११ ॥
मूलकस्य च्युतं बीजं तथैव तगरस्य च ॥
सप्तरात्रं तु गोमूत्रे सिध्मनाशनमुत्तमम् ॥ १२ ॥
क्षारेण हस्तिपिण्डस्य अवल्गुजरसेन च ॥
एतेन प्रोक्षितं श्वित्रं त्रिरात्रेण विनश्यति ॥ १३ ॥
गुञ्जायाः सफलं मूलं चित्रकं तगरं तथा ॥
भल्लातकानां च फलं मूलं चैवाश्वमारकम् ॥ १४ ॥
अर्कक्षीरसमं तैलं द्रव्यैरेतैर्विपाचयेत् ॥
प्रोक्षणेन विनिर्दिष्टं रोमशातनमुत्तमम् ॥ १५ ॥
हस्तिदन्तमयीं पिष्ट्वा पयसा लेपयेच्छिरः ॥
अजातेष्वपि केशेषु रोमसञ्जननं परम् ॥ १६ ॥
भृङ्गराजरसैस्तैलं सिद्धमभ्यञ्जनाद्द्रुतम् ॥
दृढमूलानि केशानि कुर्यात्कृष्णासितानि च ॥ १७ ॥
कटुकं दन्तकाष्ठं तु गोमूत्रपरिभावितम् ॥
भुक्त्वा तैलेन गण्डूषं वक्त्रगन्धहरं परम् ॥ ॥१८॥
इन्दीवराणि शुष्काणि प्राश्यानि तण्डुलैस्सह ॥
सर्वरात्रं मुखे वाति सुगन्धिविशदं शुचि ॥१९॥
सर्षपोन्मथितं कृत्वा शाल्मलीनां तु कण्टकैः ॥
पयःपिष्टैर्मुखे लेपान्मुखं स्यात्कमलोपमम् ॥ 2.52.२० ॥
व्यङ्गानां तिलकानां च शमनं तत्प्रकीर्तितम् ॥
यौवने पिटकानां च ये च दोषा मुखे स्मृताः ॥ २१ ॥
कषायकल्कसिद्धेन शतावर्या घृतेन च ॥
अभ्यङ्गपानैर्भवति नारी वर्णयुता परम् ॥ २२ ॥
षोडशर्तुनिशाः स्त्रीणामाद्यास्तिस्रस्तु निन्दिताः ॥
अस्पृश्या तासु नारी स्यात्स्पृष्ट्वा तां स्नानमाचरेत् ॥ २३ ॥
दिनत्रयं तु तन्नारी स्नानाभ्यङ्गौ विवर्जयेत् ॥
आहारं गोरसानां च पुष्पालङ्कारधारणम् ॥ २४ ॥
अञ्जनं कङ्कणं गन्धाः पीतं शय्याधिरोहणम् ॥
मृल्लोहभाण्डवर्ज्येषु तथा भाण्डेषु भोजनम् ॥ २५ ॥
अग्निसंस्पर्शनं चैव वर्जयेत्तु दिनत्रयम् ॥
चतुर्थेऽहनि कुर्वीत स्नानं सा तु यथाविधि ॥ २६ ॥
अभिषेकोदिताभिश्च मृद्धिरद्भिश्च मानसैः ॥
ओषध्यश्च तथा कुम्भे निक्षिप्य स्नापयेत्तु ताम् ॥२७॥
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ॥
जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा ॥ २८ ॥
सहां च सहदेवीं च पूर्णकोशां शतावरीम् ॥
अरिष्टां शिवां भद्रां गोलोमीं विजयप्रदाम् ॥ २९ ॥
ब्राह्मीं क्षेत्रामजां चैव सर्वबीजानि चाञ्जनम् ॥
बिल्वं गन्धानि रत्नानि पञ्चगव्यं तथैव च ॥ 2.52.३० ॥
कुम्भे निक्षिप्य कुम्भं च गन्धमाल्यानुलेपनैः ॥
पूजयित्वा ततो देवं तस्यात्र शुभवर्धनम् ॥ ३१ ॥
मन्त्रं राजाभिषेकोक्तं पठेदत्र च कालवित् ॥
वस्त्रच्छन्नमुखी स्नाता स्नापके च विनिर्गते ॥ ॥ ३२ ॥
पश्येत्तदेव प्रतिमां वासुदेवस्य रूपिणः ॥
अथवा राम भर्तारं नान्यं कंचन सत्वरम् ॥ ३३ ॥
तत्काले वदनं तस्य पश्यत्यथ यथा विधि ॥
सा प्रसूते सुतं राम शुभं वाऽप्यथवा शुचिम् ॥ ३४ ॥
पूजनं वासुदेवस्य सा कृत्वात्मन एव च ॥
मण्डनं च यथान्यायं शुक्लवस्त्रोत्तरच्छदा। ॥३५ ॥
षष्टिकान्नं तु पयसा समश्नीयाद् घृतेन सा ॥
घृतस्य पीत्वा प्रसृतिं नागपुष्पावचूर्णितम् ॥ ३६ ॥
ऋतुकाले समाप्नोति नारी गर्भं द्विजोत्तम ॥
उपोषितेन शुचिना शुक्लपक्षे समुद्धृतम् ॥ ३७ ॥
पुष्येण बृहतीमूलमुत्तरां वा मुखे नयेत ॥
श्वेतपुष्पा तु बृहती द्रुमूलस्यैष निश्चयः ॥३८॥
नस्या देयाश्च चत्वार उन्मूला द्रुमबिन्दवः ॥
तस्मिन्नहनि सा तेन गर्भं धत्ते वरांगना ॥ ३९ ॥
एवमप्यभवन्ती तु पुत्रीयां राम सप्तमीम् ॥
पुत्रीयमथवा स्नानं केशवाराधनं व्रतम् ॥ 2.52.४० ॥
पुत्रीयमेव वा कुर्यात्केशवाराधनं प्रिया ॥
स्नातानुलिप्ता भर्तारं हृष्टैर्बृंहितमेव च ॥ ४१ ॥
यायाद्रात्रौ तथा नारी गन्धधूपादिवासिता ॥
आत्तगर्भां चिकित्सेत ततस्तामपराजित ॥ ४२ ॥
मधुरौषधिसिद्धेन पयसा सर्पिषा तथा ॥
इच्छाविमानगाः काश्चिन्नास्याः कार्या कथञ्चन ॥ ४३ ॥
कटुतिक्तकषायाणि चात्युष्णलवणानि च ॥
आयासं च व्यवायं च गर्भिणी वर्जयेत्सदा ॥ ४४ ॥
विना कर्म न तिष्ठेत तथा सा राहुदर्शने ॥
प्रादुर्भावाणि वेदेस्य विष्णोरमिततेजसः ॥ ४५ ॥
शृणुयात्तन्मना भूत्वा चरितं च महात्मनः ॥
पुन्नाम्नि नामनक्षत्रे ह्यासन्नप्रसवा गृहम् ॥ ४६ ॥
प्रविशेत्सूतिकासंज्ञं कृतरक्षं समन्ततः ॥
सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः ॥ ४७ ॥
प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम् ॥
देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम् ॥ ४८ ॥
विप्र पुण्याहघोषेण शंखवाद्यरवेण च ॥
प्रसूता बहुशस्तत्र तथा क्लेशक्षमाश्च याः ॥ ४९ ॥
हृद्या विश्वसनीयाश्च परिचरेयुः स्त्रियश्च ताम् ॥
वातानुलोमनैर्हृद्यैस्तत्रैनामुपचारयेत् ॥ 2.52.५० ॥
आहारैश्च विहारैश्च प्रसवाय सुखं द्विज ॥
एरण्डमूलमिश्रेण सघृतेन तथैव ताम् ॥ ५१ ॥
सुखप्रसवनार्थाय पश्चात्काये तु म्रक्षयेत् ॥
बलाकल्ककषायेण सिद्धं क्षीरं चतुर्गुणम् ॥ ५२ ॥
तैलमभ्यञ्जनार्थाय सूतायामुपकल्पयेत् ॥
अथ जातान्न पानेच्छां पञ्चकोलप्रसादिताम् ॥ ५३ ॥
पिबेद्यवागूं सस्नेहां तथा वै नीलकुञ्चिकाम् ॥
दशाहं सूतिकागारं चायुधैश्च विशेषतः ॥ ५४ ॥
वह्नि कातिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः ॥
मुसलेन तथा द्वारि वर्णकैश्चित्रितेन च ॥ ५५ ॥
रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ॥
राम जागरणं कार्यं जन्मदानां तथार्चनम् ॥ ५६ ॥
पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः ॥
रात्रौ जागरणं कुर्युर्दशमेऽहनि सूतिका ॥ ५७ ॥
स्नाता पूर्वविधानेन रक्षणीया समीरणात् ॥
बालस्य जातमात्रस्य नाभिं छित्त्वा यथाविधि ॥ ५८ ॥
तालुमुत्तापयेन्नारी पिचुना शोधयेन्मुखम् ॥
ब्राह्मी सुवर्चला सोमं सैन्धवं पिप्पली वचा ॥ ५९ ॥
कनकं सर्पिषा दद्याल्लेह्यमेतद्द्विजोत्तम ॥
लेह्येनानेन मेधावी शूरः पण्डित एव च ॥ 2.52.६० ॥
दर्शनीयो यशस्वी च सुभगः स भविष्यति ॥
बिभीतकास्थि क्षौद्रेण घृष्टं श्रेष्ठमथाञ्जनम् ॥ ६१ ॥
नेत्ररोगेषु बालानां सहरिद्रं च गोरसम् ॥
शारिवा चन्दनं कुष्ठं समभागानि कारयेत् ॥६२॥
शिरोलेपमिदं दद्यादक्षिरोगविनाशनम् ॥
आम्रास्थि सैन्धवं लाजा मधुना सह लेहयेत् ॥६३॥
एष लेहवरः श्रेष्ठश्छर्दिप्रशमनः शुभः ॥
अपामार्गविडङ्गानि पिप्पली मरिचं तथा ॥ ६४ ॥
सैन्धवं तण्डुलं चैव मधुसर्पिःसमन्वितम् ॥
व्याघ्रीरसेन लेहोऽयं हिक्काश्वासविनाशनः ॥ ६५ ॥
बिभीतकत्वचा श्रेष्ठं हरितालं मनःशिला ॥
एतत्तैलं पचेद्दद्रुपामाकिटिभनाशनम् ॥ ६६ ॥
क्षौद्रेण लेह्या तुवरा पिप्पल्यतिविषापहा ॥
श्लेष्मरोगेषु सर्वेषु बालानां भेषजं परम् ॥ ६७ ॥
रोध्रत्वङ्मधुना सार्धमतीसारविनाशिनी ॥
सप्त पर्णत्वक् च दूर्वा तथा कटुकरोहिणी ॥ ६८ ॥
एतदुद्वर्तनं श्रेष्ठं सर्वग्रहविनाशनम् ॥
भङ्गां वचां शङ्खपुष्पीमेरण्डसप्तपर्णकम् ॥ ६९ ॥
समन्तपुष्पीसंयुक्तमपामार्गं च पुष्करम् ॥
क्वाथयित्वा च दातव्यं स्नानं सद्यः सुखावहम् ॥2.52.७० ॥
सर्पिषा निम्बपत्राणि गोविषाणं घृतं मधु ॥
एतेन धूपितो बालो ग्रहदोषैर्विमुच्यते ॥ ७१ ॥
अपामार्गस्य बीजानि बिल्वमूलफलानि च ॥
अगुरुं चन्दनं चैव सप्तपर्णस्य वल्कलम् ॥ ७२ ॥
एतदालेपनं कुर्यात्सर्वग्रहविनाशनम् ॥
मातरश्च ग्रहाश्चैव बालं तु बलिकर्मणा ॥ ७३ ॥
क्षिप्रमेव प्रमुञ्चन्ति तस्माद्यत्नेन कारयेत् ॥
तरक्ष्वर्क्ष वराहाणां दंष्ट्रा गोरोचना वचा ॥ ७४ ॥
रत्नान्ययस्तथा कृष्णं वस्त्रं धार्यं तु बालकैः ॥
जातस्य राम बालस्य हेमन्ते प्रथमेऽथवा ॥ ७५ ॥
शिशिरे वापि कर्तव्यं कर्णवेधं तथा शृणु ॥
ग्रहाणां तत्र सर्वेषां दिनवारः प्रशस्यते ॥ ७६ ॥
तिथिं चतुर्थीं नवमीं वर्जयित्वा चतुर्दशीम् ॥
सावित्रं वैष्णवं त्वाष्ट्रमादित्यं पौष्णमाश्विनम् ॥ ७७ ॥
कर्णवेधे प्रशस्यन्ते सोमदेवं तथैव च ॥
पूर्वाह्णे पूजनं कृत्वा केशवस्य हरस्य च ॥ ७८ ॥
ब्रह्मणश्चन्द्रसूर्याभ्यां दिगीशानां तथैव च ॥
नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तथा ॥ ७९ ॥
गुरूणां मण्डलं कृत्वा तत्र दत्त्वा सुखासनम् ॥
दत्त्वोपवेशयेत्तत्र धात्रीं शुक्लाम्बरां तथा ॥2.52.८०॥
स्वलंकृतां तदुत्संगे बालं कृत्वा तु सान्त्वितम् ॥
धृतस्य निश्चलं सम्यग्गले कुकरसांकिते॥८१॥
विध्येद्दैवकृते छिद्रे सकृदेव तु लाघवात् ॥
प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः ॥
स्नेहाक्तं सूच्यनुस्यूतं सूत्रं वानुनिधापयेत् ॥ ८२ ॥
तैलाभ्यक्ते ततः कर्णे कार्यमाभरणं भवेत् ॥
कर्णवेधदिने विप्रं सांवत्सरचिकित्सकौ ॥
पूज्याश्चाविधवा नार्यः सुहृदश्च तथा द्विजाः ॥ ॥ ८३ ॥
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ॥
सौरभौमदिनं चैव तिथिं रिक्तां च वर्जयेत् ॥ ८४ ॥
चतुर्थीं नवमीं चैव रिक्तां चैव चतुर्दशीम् ॥
आर्यम्णं वैष्णवं हस्तमादित्यं पौषमश्विनम् ॥ ८५ ॥
भाग्यं त्वाष्ट्रं च पुष्यं च तत्र कर्मणि शस्यते ॥
दिगीशानां दिशं तत्र तथा चन्द्रार्कयोर्द्विज ॥ ८६ ॥
पूजनं वासुदेवस्य गगनस्य च कारयेत् ॥
तत्र स्वलंकृता धात्री बालमादाय पूजितम् ॥ ८७ ॥
बहिर्निष्क्रामयेद्गेहाच्छङ्खपुण्याहनिस्वनैः ॥
ततस्तत्र पठेन्मंत्रं यं तु राम निबोध मे॥८८॥
चन्द्रार्कयोर्दिगीशानां दिशां च गगनस्य च ॥
निक्षेपार्थमिदं दद्मि ते मे रक्षन्तु सर्वदा ॥८९॥
अप्रमत्तं प्रमत्तं वा दिवा रात्रावथापि वा ॥
रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः ॥ 2.52.९० ॥
स्त्रीणामविधवानां तु द्विजानां सुहृदां तथा ॥
तदा तु पूजा कर्तव्या गीतनृत्यैस्तथोत्सवैः ॥ ९१ ॥
पञ्चमे च तथा मासि भूमौ तमुपवेशयेत् ॥
तत्र सर्वे ग्रहाः शस्ता भौमो राम विशेषतः ॥ ९२ ॥
तिथिं च वर्जयेद्रिक्तामृक्षाणि शृणु भार्गव ॥
उत्तरात्रितयं सौम्यं चाश्वत्थं शक्रदैवतम् ॥ ९३ ॥
प्राजापत्यं च हस्तं च शस्तमाश्विनदैवतम् ॥
वराहं पूजयेद्देवं पृथिवीं च द्विजोत्तम ॥ ९४ ॥
पूजनं सर्वतः कृत्वा गुरुदेवद्विजन्मनाम् ॥
भूभागमुपलिप्याथ कृत्वा तत्र तु मण्डलम् ॥ ९५ ॥
शङ्खपुण्याहशब्देन भूमौ तमुपवेशयेत् ॥
मन्त्रश्चात्र भवेद्राम तन्मे निगदतः शृणु ॥ ९६ ॥
रक्षणं वसुधे देवि सदा सर्वगतं शुभे ॥
आयुःप्रमाणं सकलं निक्षेपस्ते हरिप्रिये ॥ ९७ ॥
अन्तरादायुषस्तस्य ये केचित्परिपन्थिनः ॥
जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥ ९८ ॥
वरेण्याशेषभूतानां माता त्वमसि कामधुक् ॥
अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥ ९९ ॥
चराचराणां भूतानां प्रतिष्ठा त्वं त्वर्हमसि ॥
कुमारं पाहि मातस्त्वं बालं तदनुमन्यताम् ॥ 2.52.१०० ॥
तस्योपवेशनं कृत्वा भूमौ ब्राह्मणभोजनम् ॥
शक्त्या कृत्वा ततः कार्यश्चोत्सवः पूर्ववद्द्विज ॥ १०१ ॥
षष्ठेऽन्नप्राशनं मासि कर्तव्यं भौमवर्जिते ॥
दिनवारे तिथिं रिक्तां वर्जनीया तथैव च ॥ १०२ ॥
नक्षत्राणि तथैवात्र दारुणोग्राणि वर्जयेत् ॥
साधारणे तथा राम ज्येष्ठान्तेष्वपि शस्यते ॥ १०३ ॥
ब्रह्माणं शङ्करं विष्णुं चन्द्रार्कौ च दिगीश्वरान् ॥
भुवं दिशश्च सम्पूज्य हुत्वा वह्नौ तथा चरुम् ॥ १०४ ॥
एतेषामेव देवानां कृत्वा ब्राह्मणपूजनम् ॥
देवतापुरतस्तस्य धात्र्युत्सङ्गगतस्य च ॥ १०५ ॥
अलंकृतस्य दातव्यं वीर कांस्ये तु काञ्चने ॥
मध्वाज्यकनकोपेतं प्राशयेत्पायसं ततः ॥ १०६ ॥
ततस्त्वन्नपते राम मन्त्रश्चात्र विधीयते ॥
कृतप्राशं तदोत्सङ्गाद्धात्री बालं तु विन्यसेत् ॥ १०७ ॥
देवाग्रतोऽथ विन्यस्य शिल्पभण्डानि सर्वशः ॥
शस्त्राणि चैव शास्त्राणि ततः पश्येत लक्षणम् ॥ १०५ ॥
प्रथमं यं स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा ॥
जीविका तस्य बालस्य तेनैव तु भविष्यति ॥ १०९ ॥
दन्त जन्मनि बालानां तेनैव तु भविष्यति ॥
दन्तजन्मनि बालानां लक्षणं तु निबोध मे ॥ 2.52.११० ॥
उपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः ॥
दन्तैर्वा सह यस्य स्याज्जन्म भार्गव जायते ॥ १११ ॥
मातरं पितरं वापि खादेदात्मानमेव च.॥
तत्र शान्तिं प्रवक्ष्यामि तन्मे निगदतः शृणु … ॥११२॥
गजपृष्ठगतं बालं नौस्थं वा स्थापयेद्द्विज ॥
तदभावे तु धर्मज्ञ काञ्चने तु वरासने ॥११३॥
सर्वौषधैः सर्वगन्धैर्बीजैः पुष्पैः फलैस्तथा ॥
पञ्चगव्ये तु रत्नैश्च पताकाभिश्च भार्गव ॥११४॥
स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् ॥
सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम् ॥ ११५ ॥
अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ॥
काञ्चनं रजतं गाश्च भुवं चात्मानमेव वा ॥ ११६ ॥
दन्तजन्मनि मासान्यसम्भवे सप्तमादपि ॥
अष्टमेऽहनि विप्राणां शृणु स्नानमतः परम् ॥११७॥
भद्रासने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ॥
सर्वौषधैः सर्वगन्धैः सर्वबीजैस्तथैव च ॥११८॥
स्नापयेत्पूजयेच्चात्र वह्निं सोमं समीरणम् ॥
पूर्वतश्च तथा ख्यातान्देवदेवं च केशवम् ॥११९॥
एतेषामेव जुहुयाद्घृतमग्नौ यथाविधि ॥
ब्राह्मणानां च दातव्या ततः पूजा च दक्षिणा ॥ 2.52.१२० ॥
ततस्त्वलंकृतं बालं चासने तूपवेशयेत् ॥
आसनं छत्रमूर्धानं बीजैस्तं स्नापयेत्ततः ॥ १२१ ॥
सुस्विन्नैर्बालकानां च तैश्च कार्यं च पूजनम् ॥
पूज्याश्चाविधवा नार्यो ब्राह्मणाः सुहृदस्तथा ॥ १२२ ॥
प्राप्तेऽथ पञ्चमे वर्षे त्वप्रसुप्ते जनार्दने ॥
प्रतिपदां तथा षष्ठीं वर्जयित्वा तथाष्टमीम् ॥१२३॥
रिक्तां पञ्चदशीं चैव सौरभौमदिने तथा ॥
धुवाणि याम्यं च तथा नक्षत्राणि विवर्जयेत्॥१२४॥
सौम्यवर्गश्चरे लग्ने हिते तत्र नवांशके ॥
त्रिकोणकेन्द्रगाः सौम्याः पापाश्चोपचये शुभाः ॥ १२५ ॥
नक्षत्राणां विवर्ज्यानां मुहूर्ताश्च विवर्जयेत् ॥
एवं सुनिश्चिते काले विद्यारम्भं च कारयेत् ॥ १२६ ॥
पूजयित्वा हरिं लक्ष्मीं तथा देवीं सरस्वतीम् ॥
सुविद्यां सूत्रकाराँश्च स्वां विद्यां च विशेषतः ॥ १२७ ॥
एतेषामेव देवानां नाम्ना तु जुहुयाद्घृतम् ॥
दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं चात्र पूजनम् ॥ १२८ ॥
धात्र्युत्सङ्गादथादाय बालं तु कृतवापनम् ॥
स्वलंकृतं प्रदातव्यमुत्सङ्गे तु तदा गुरोः ॥ १२९ ॥
गुरुश्चात्र भवेद्विद्वान्स्नातः शुक्लाम्बरः शुचिः ॥
प्रगृह्य तं तु निक्षेपं गुरुरप्यथ भार्गव ॥ 2.52.१३० ॥
प्राङ्मुखः सुमुखासीनो वारुणाशामुखं शिशुम् ॥
अध्यापयेत्तु प्रथमं कुर्याद्बालोऽपि वन्दनम् ॥ १३१ ॥
ब्राह्मणानां गुरूणां च देवतानामनन्तरम् ॥
ततस्तु पूज्या वित्तेन धात्री राम गुरुस्तथा ॥ १३२ ॥
दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं तर्पणं तथा ॥
ततः प्रभृत्यनध्यायान्वर्जनीयान्विवर्जयेत् ॥१३३ ॥
अष्टमीद्वितयं राम पक्षान्ते च दिनद्वयम् ॥
अशौचमिन्द्रयात्रां च भूकम्पं राहुदर्शनम् ॥ १३४ ॥
व्यतीतं चाप्यहोरात्रमुल्कापातं च भार्गव ॥
अकालस्तनितं चैव निर्ज्योतिषमथाम्बरम् ॥ १३५ ॥
तथा काले प्रचण्डश्च यदा वायुस्तदा भवेत् ॥
प्रदोषे चाप्यसंश्रद्धे चैत्यवृक्षचतुष्पथे ॥ १३६ ॥
गोयाने कुञ्जरे चाश्वे न च नावि तथा भवेत् ॥
श्वशृगालरवे घोरे तथा च खरनिस्वने॥१३७॥
तथा वादित्रशब्दे च तथैव नगरोत्सवे ॥ १३८ ॥
कालेषु देशेषु मयोदितेषु पठन्ति ये नाम न तेषु विद्या ॥
फलं प्रयच्छेत्यथवाऽरिशत्रोर्लोके परे वा यदि वाऽपि चास्मिन् ॥ १३९ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बालतन्त्रो नाम द्विपञ्चाशत्तमो
ऽध्यायः॥५२॥
2.53
श्रीपरशुराम उवाच ॥
पुत्रीयं भगवन्स्नानं पुत्रीयमथ सप्तमीम् ॥
पुत्रीयं च समाचक्ष्व तथा वै केशवव्रतम्॥१॥
पुष्कर उवाच ॥
उपोषितौ कृत्तिकासु यजमानपुरोहितौ ॥
रोहिण्यां स्नपनं कुर्युर्यजमानस्य भार्गव ॥ २ ॥
क्षीरवृक्षप्ररोहाभ्यां सितमाल्यविभूषितम्॥
प्रियङ्गुचन्दनोपेतान्पञ्च कुम्भान्प्रपूजयेत् ॥ ३ ॥
प्राङ्मुखं व्रीहिराशिस्थं कुम्भैस्तैरभिषेचयेत् ॥
विष्णुं शशाङ्कं वरुणं रोहिणीं च प्रजापतिम् ॥ ४ ॥
पूजयेत्प्रयतः श्रद्धी गन्धमाल्यानुलेपनैः ॥
धूपः प्रजापतेर्देयस्तथैव शटकेशयाः ॥५॥
पञ्चपृष्ठवृषान्दिग्धान्दध्ना च विनिवेदयेत् ॥
प्रजाध्यक्षाय होमञ्च देवतानां तु कारयेत् ॥६॥
घृतेन सर्वबीजैश्च शुक्लवासा जितेन्द्रियः ॥
दक्षिणां गुरवे देयात्काम्यं गौर्वाससी शुभे ॥ ७ ॥
सुवर्णं च महाभाग विप्राणामथ शक्तितः ॥
शुक्ला च गौर्वृषः शुक्लस्तयोर्लोम शफं तथा ॥८॥
शृङ्गाणि त्रिवृतं कृत्वा मणिर्धार्यस्ततो भवेत् ॥९॥
अलंकृतं केशमिदं सदैव स्नानं तु कुर्वन्पुरुषोऽथवा स्त्री ॥
पुत्रानवाप्नोति तथेष्टतां च पुष्टिं तथाग्र्यां विपुलां च कीर्तिम्॥ 2.53.१० ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयरोहिणीस्नानवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
2.54
॥ पुष्कर उवाच ॥
मार्गशीर्षे शुभे मासि शुक्लपक्षे द्विजोत्तम ॥
पुत्रीयां सप्तमीं राम गृह्णीयात्प्रयतः शुचिः ॥ १ ॥
अथवा पुत्रकामा स्त्री विधिना येन तच्छृणु ॥
हविष्याशी शिरःस्नातः कृत्वा ब्राह्मणपूजनम् ॥ २ ॥
अधःशायी द्वितीयेऽह्नि गोविषाणोदकेन च ॥
स्नात्वोपविश्य च तथा शुभे देशे तु मण्डलम् ॥ ३ ॥
तत्राष्टपत्रं कमलं विन्यसेद्वर्णकैः शुभैः ॥
तस्यैव कर्णिकामध्ये भास्करं चन्दनेन तु ॥ ४ ॥
रक्तेन पूजयेद्देवं गन्धमाल्यानुलेपनैः ॥
भक्ष्यैर्भोज्यैस्तथा पेयैर्धूपैर्दीपैस्तथैव च॥५॥
एवं संपूजनं कृत्वा सर्वकामप्रदस्य तु ॥
नक्तं भुञ्जीत धर्मज्ञ सर्वकर्मविवर्जितः ॥६॥
दन्तोलूखलको भूत्वा कृत्वा संवत्सरव्रतम् ॥
व्रतावसाने दातव्या शक्त्या ब्राह्मणदक्षिणा ॥७॥
तथात्रिमधुरप्रायं कर्तव्यं द्विजभोजनम् ॥
अधःशाय्यनिशं तां च भूय एव तथा भवेत् ॥ ८ ॥
पुत्रीयमेतद्व्रतमुत्तमं ते मयोदितं कल्मषनाशकारि ॥
आराधनं देववरस्य राम सर्वामयघ्नं च तथैतदुक्तम् ॥ ९ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयासप्तमीव्रतं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥
2.55
पुष्कर उवाच ॥
प्रोष्ठपद्यामतीतायां कृष्णपक्षाष्टमी तु या ॥
सोपवासो नरस्तस्यां योषिद्वा तनयार्थिनी ॥१ ॥
स्नाता सरसि धर्मज्ञ तोये चाप्यथ सारसे ॥
पूजनं वासुदेवस्य यथा कुर्यात्तथा शृणु ॥ २ ॥
घृतप्रस्थेन गोविन्दं स्नापयित्वा जगद्गुरुम् ॥
क्षौद्रेण च ततः पश्चाद्दध्ना च स्नपयेत्ततः ॥ ३ ॥
क्षीरेण स्नपनं कृत्वा ततः पश्चाद्विवक्षितम् ॥
सर्वौषधैश्च गन्धैश्च सर्वबीजफलैस्तथा ॥ ४ ॥
स्नापयित्वानुलिप्येत चन्दनागुरुकुङ्कुमैः ॥
कर्पूरेण तथा राम तथा जातीफलैः शुभैः ॥ ५ ॥
ततः कालोद्भवैः पुष्पैः पूजयित्वा जनार्दनम् ॥
धूपं चागुरुणा दत्त्वा कृत्वा नैवेद्यमुत्तमम् ॥ ॥ ६ ॥
विशेषाद्गोरसप्रायं पुन्नागैरन्वितैः फलैः ॥
पौरुषेण च सूक्तेन हुत्वा चानन्तरं घृतम् ॥ ७ ॥
शूद्रो वाप्यथवा नारी नाम्ना हुत्वा जगद्गुरुम् ॥
यवपात्राणि दद्यात्तु फल्गुनि कनकं तथा ॥ ८॥
पुत्रार्थं प्राशनं कुर्यात्फलैः पुन्नामभिः शुभैः ॥
स्त्रीनामभिश्च कन्यार्थी ततो भुक्त्वा यथेप्सितम् ॥ ९ ॥
पुत्रकामानवाप्नोति तथा सर्वमभीप्सितम् ॥
हविष्यं देवदेवस्य भूमिशोभां तु कारयेत् ॥ 2.55.१० ॥
संवत्सरमिदं कृत्वा व्रतमाप्नोत्यभीप्सितम् ॥
पुत्रकामानवाप्नोति तथा सर्वानभीप्सितान् ॥ ११ ॥
पुत्रीयमेतद्व्रतमुत्तमं ते मयेरितं यद्यपि धर्मनित्यम् ॥
तथाप्यनेनैव समस्त कामान्कृतेन लोके पुरुषा लभन्ते ॥ १२ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने पुत्रीयाष्टमीव्रतं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
2.56
॥ श्रीपरशुराम उवाच ॥
भगवञ्च्छ्रोतुमिच्छामि पुरुषाणां चिकित्सितम् ॥
तन्ममाचक्ष्व देवेश तत्र मे संशयो महान् ॥ ३ ॥
पुष्कर उवाच ॥
रक्षन्बलं महाभाग लङ्घयेज्ज्वरितं नरम् ॥
सविश्वं लाजमण्डं तु लंघितं तत्तु भोजयेत् ॥ ॥२॥
मुस्तपर्पटकोशीरचन्दनोद्दीप्यनागरैः ॥
घृतं शीतं पयश्चात्र दातव्यं तृट्प्रशान्तये ॥ ३ ॥
षडहे च व्यतिक्रान्ते तिक्तकं पाययेद्रसम् ॥
स्नेहयेत्पाकदोषं च ततस्तं च विरेचयेत् ॥ ४ ॥
जीर्णषष्टिकनीवाररक्तशालिप्रमोदकाः ॥
तद्विधाश्चतुरः श्रेष्ठाः यवानां विकृतिस्तथा ॥ ५ ॥
मुद्गा मसूराश्चणकाः कुलत्थाः समकुण्ठकाः ॥
आढकी च फलं मूले यूषार्थं ज्वरिणां हितम् ॥ ६ ॥
कृष्णशुक्लकवन्तीर्कतित्तिरैणकपिञ्जलाः ॥
लावाद्या जाङ्गलश्रेष्ठाः ज्वरिणां तद्विधाश्च ये ॥ ७ ॥
पटोलं सफलं निम्बं कर्कोटककटिल्लकम् ॥
शाकं पर्पटकं चाद्यादम्लार्थे दाडिमं हितम् ॥ ॥ ८ ॥
अयोगे वमनं शस्तमूर्द्धगे च विरेचनम् ॥
रक्तपित्ते तथा पाने षडङ्गं शुण्ठिवर्जितम् ॥ ९ ॥
लाजा सिञ्चति कामं तु यवगोधूमशालयः ॥
मसूरमुद्गचणकाः खण्डिताः समकुष्ठिकाः ॥ 2.56.१० ॥
हृद्या गोधूमिका भक्ष्या घृतक्षीरोपसाधिताः ॥
सक्षौद्रशर्करोपेतास्तथा वृषरसो हितः॥ ११ ॥
अतीसारे पुराणानां शालीनां भक्षणं हितम् ॥
अनभिष्यदि वा चान्यद्रौद्रवत्सकसंयुतम् ॥ १२ ॥
मारुतानां जये यत्नः कार्यो गुल्मेषु सर्वथा ॥
वाट्यक्षीरेण चाश्नीयाद्वस्तुकं घृतसाधितम् ॥ १३ ॥
कुक्कुटा बर्हिणः श्रेष्ठास्तिक्ता गोधूमशालयः ॥
हिता जठरिणां भोज्ये यवगोधूमशालयः ॥१४ ॥
मुद्गाः कुलत्थाः कौलानि जाङ्गला मृगपक्षिणः ॥
पटोलनिम्बधान्यास्तु शुष्कमूलकसैन्धवैः ॥ १५ ॥
मातुलुङ्गरसा जातिहिङ्गुवृक्षाम्लवेतसैः ॥
आहारं जठरे युक्त्या यथादोषं प्रकल्पयेत्॥ १६ ॥
कुष्ठिनां च तथा शस्तं पानार्थे खदिरोदकम्॥
मसूरमुद्गौ यूषार्थे भोज्ये जीर्णाश्च शालयः ॥ १७ ॥
निम्बपर्पटकौ शाकौ छागलानां तथा रसः ॥
विडङ्गं मरिचं शुण्ठी कुष्ठं रोध्रं ससर्जिकम्॥ १८ ॥
मनःशिलैः कृतो लेपः कुष्ठहा मूत्रपेषितः ॥
अपूपसक्तुकुल्माषवाज्याद्या मेहिनां हिताः ॥ १९ ॥
यवान्नविकृतिर्मुद्गाः कुलत्थाजीर्णशालयः ॥
तिक्तरूक्षाणि शाकानि तिक्तानि हरितानि च ॥ 2.56.२० ॥
तिलानि तिलशिग्रुर्वा बिभीतेङ्गुदजानि तु ॥
अनभिष्यन्दि यच्चान्यद्भोजने तत्प्रशस्यते ॥ २१ …
मुद्गाः सयवगोधूमा धान्यं वर्षस्थितं च यत् ॥
जाङ्गालस्वरसः प्रोक्तो भोजने राजयक्ष्मिणाम्॥ २२॥
कुलत्थमुद्गकालाबुशुष्कमूलकजाङ्गलैः. ॥
यूषैर्वा वाष्किरैः स्निग्धैर्दधिदाडिमसाधितैः ॥ २३ ॥
मातुलुङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः ॥
यवगोधूमशाल्यन्नैर्भोजयेच्छावसं परम् ॥ २४ …
दशमूलफलारास्नाकुलत्थैरुपसाधितैः ॥
पयोव्यूषरसक्वाथः श्वासहिक्कानिवारणः ॥ २५ ॥
शुष्कमूलककौलत्थमौद्गजांगलजै रसैः ॥
यवगोधूमशाल्यन्नं जीर्णाशोंऽशं समाचरेत् ॥ २६ ॥
जीर्ण पक्वरसं शीधुमार्द्वीकाँस्त्वथ वा पिबेत् ॥
शोथवान्सगुडां पथ्यां खादेद्वा गुडलावनम् ॥ ॥ २७ ॥
चित्रं विचित्रकं चोभौ ग्रहणीरोगनाशनौ ॥
पुराणयवगोधूमशालयो जाङ्गलं रसम् ॥ २८ ॥
मुद्गामलकखर्जूरमृद्वीकाबदराणि च ॥
मधुसर्पिःपयस्तक्रं निम्बपर्पटकौ वृषम् ॥ २९ ॥
तक्रवृद्ध्यानुशस्यन्ते सततं वातरोगिणाम् ॥
हृद्रोगिणे प्रदातव्यं प्रयत्नेन विरेचनम् ॥2.56.३०॥
पिप्पलीनां प्रयोगश्च प्रमृते धर्मिणस्तथा ॥
चकार नाडी शीधूनि युक्ता च शिशिराम्भसा ॥ ३१ ॥
युक्तसौवर्चलाजाक्षिमथ शस्तं मदात्यये ॥
सक्षौद्रपयसा लाक्षां पिबेत क्षतवान्नरः ॥ ३२ ॥
क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् ॥
शालयो भोजने शक्ता नीवारकलमादयः ॥ ३३ ॥
यवान्नविकृतिर्मांसं शाकं सौवर्चलं सुधीः ॥
पथ्यं तथैव तासां च मण्डं तक्रं च वारुणी ॥ ३४ ॥
मुस्ताभ्यासस्तथा लेपः चित्रकेण हरिद्रया ॥
यवान्नविकृतिः शालिर्वास्तुकी च सुवर्चलम् ॥ ३५ ॥
त्रपुसी चारुगोधूमाः क्षीरेक्षुघृतसंयुताः ॥
मूत्रकृच्छे च शस्ताः स्युः पाने मण्डसुरादयः .॥ ३६ ॥
लाजा सक्तु तथा क्षौद्रं शाल्यं मांसपरूषकम् ॥
वृन्ताकालाबुशिखिनश्छर्दिघ्नाः पानकानि च ॥ ॥ ३७ ॥
शाल्यन्नं तोयपयसी केवलोष्णश्रितेऽपि वा ॥
तृष्णाघ्ना मुस्तगुडयोर्गुलिका वा मुखे धृता ॥ ३८ ॥
यवान्नविकृतिर्यूषं शुष्कमूलकजं तथा ॥
शाकं पटोलवेत्राश्रमूरुस्तम्भविनाशनम् ॥ ३९ ॥
मुक्ताढकमसूराणामतीरैर्जाङ्गलैस्तथा ॥
ससैन्धवघृतद्राक्षाशुण्ठ्यामलकोलजैः ॥ 2.56.४० ॥
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् ॥
विसर्पं ससिताक्षौद्रमृद्वीकादाडिमोदरः ॥ ४१ ॥
रक्तषष्टिकगोधूमयवमुद्गादिवल्लघु ॥
काचमाची च वेत्राग्रं वास्तुकं च सुवर्चला ॥ ४२ ॥
वातशोषितनाशाय तोयं शस्तं सिता मधु ॥
नासारोगे च सहितं घृतदूर्वाप्रसाधितम् ॥ ४३ ॥
भृङ्गराजरसे सिद्धे तैलं धात्रीरसोऽपि वा ॥
न स्यात्सर्वामयेष्विष्टं मूर्धजत्रूद्भवेष्वथ ॥ ४४ ॥
शीततोयान्वपतनं तिलानां राम भक्षणम् ॥
द्विजदार्ढ्यकरं प्रोक्तं तथा पुष्टिकरं शुभम् ॥ ४५ ॥
गण्डूषस्तिलतैलेन द्विजदार्ढ्यकरः परः ॥
विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशनम् ॥ ४६ ॥
धात्रीफलान्यथाज्यं च शिरोलेपनमुत्तमम्॥
शिरोरोगविनाशाय स्निग्धशीतं च भोजनम्॥४७॥
तैलं वा वस्ति मूत्रं वा कर्णपूरणमुत्तमम् ॥
कर्णशूलविनाशाय शुद्धं तैलं निषेचयेत् ॥ ४८ ॥
गिरिभृच्चन्दनं माल्यं मालतीकालिकास्तथा ॥
संयोज्य याकृतावर्तिः क्षतचक्रहरीतुसा ॥४९ ॥
व्योषं त्रिफलयायुक्तं सुरूकं च रसाञ्जनम् ॥
सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनम् ॥ 2.56.५० ॥
आज्यभृष्टं शिलापिष्टरोथकाञ्जिकसैन्धवैः ॥
आश्च्योतनविनाशाय सर्वरोगामयेषु च ॥ ५१ ॥
गिरिभृच्चन्दनैर्लेपो बहिर्लेपस्य शस्यते ॥
नेत्रामयविघातार्थं त्रिफलां शीलयेत्सदा ॥ ५२॥
रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्जिजीविषुः ॥
शतावरे रसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ॥५३॥
कलविङ्कानि माषाश्च वृषौ क्षीरं घृतं तथा ॥
आयुष्या त्रिफला चैव पूर्ववन्मधुकान्विता ॥ ५४ ॥
मधुकायोरजोपेता वलीपलितनाशिनी ॥
वचसिद्धं घृतं राम तदा भूतविनाशनम् ॥ ५५ ॥
कण्ठे बुद्धिप्रदं चैव तथा सर्वार्थसाधकम् ॥
वल्गकल्ककषायेण सिद्धमभ्यञ्जनं हितम्॥५६॥
रास्ना सहचरैर्वापि तैलं वातविकारिणाम् ॥
अनभिष्यन्दि यच्चान्यत्तद्व्रणेषु प्रशस्यते ॥ ५७ ॥
पक्वस्य च तथा भेदं निम्बशीलं च रोपणे ॥
तथा तस्योपचारश्च बलिकर्मार्थिशेषतः ॥ ५८ ॥
सूतिका च तथा रक्षा व्रणिनां तु सदा हिता ॥
जङ्गमे विषदंशे तु दातव्यं स्थावरं विषम् ॥ ॥५९॥
स्थावरे सर्पदष्टस्य हितं मांसस्य भक्षणम् ॥
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ॥ 2.56.६० ॥
वन्ध्याकार्कोटजं मूलं छागमूत्राभिभावितम् ॥
नस्यं काञ्चिकसंपिष्टं विषवेगविनाशनम् ॥६१॥
बन्धनाद्दूषणं छेददाहस्रावाः प्रकीर्तिताः ॥
पूर्वदष्टस्य पाने च हृदयावरण घृतम् ॥ ॥६२॥
तालनिम्बदलं केशा जीर्णचैलं यवा घृतम् ॥
धूपो वृश्चिकविद्धस्य शिखिपत्रं घृतेन वा॥६३॥
अर्कक्षीरेण संपिष्टं लेपबीजं पलाशजम्॥
वृश्चिकार्त्तस्य कृष्णा वा शिरीषफलसंयुता ॥ ६४ ॥
तिलकास्फोटयोर्दूनं गिरिकर्ण्यास्तिलस्य च ॥
शर्करामधुसर्पींषि पानमाखुविषापहम् ॥ ॥६५॥
आर्कक्षीरं तिलास्तैलं पललं च गुरु समम् ॥
पानाज्जयति दुर्वारमविषं शीघ्रमेव च॥६६॥
पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा॥
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ॥ ६७ ॥
चन्दनं पद्मकं कुष्ठं नताम्बूशीरपाटलाः ॥
निर्गुण्डीशाखिशैलूषलूताविषहरोऽगदः ॥ ६८ ॥
शिरोविरेचनं शस्तं गुडनागरकं द्विज ॥
नस्यकर्मणि वस्तौ च तथा भृङ्गे च भार्गव ॥ ६९ ॥
तैलमेव परं विद्यात्स्नेहपाने तथा घृतम् ॥
स्वेदनीयः परो वह्निः सिताम्भःस्तम्भनं परम् ॥ 2.56.७० ॥
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ॥
वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु ॥७१॥
रक्तपित्ते बला रास्ना क्रमेण परमौषधम् ॥
शारीरमानसाग्रं तु सहजा व्याधयो मताः ॥ ७२ ॥
शारीरज्वरकुष्ठाद्याः क्रोधाद्या मानसा मताः ॥
आगन्तवोऽभिघातोत्थाः सहजाः क्षुत्तृषादयः ॥ ७३ ॥
शारीरागन्तुनाशाय सततं सूर्यवासरे ॥
गुडाज्यलवणोपेतं सहिरण्यं द्विजातये ॥७४॥
दद्याच्च धूपं धर्मज्ञ प्रीणयेच्च दिवाकरम् ॥
आरोग्यमेतेनाप्नोति कामाँश्च मनसेप्सितान् ॥ ७५ ॥
सततं दिवसे चान्द्रे स्नानमभ्यङ्गपूर्वकन् ॥
यः प्रयच्छति विप्राय सोऽपि रोगैर्विमुच्यते ॥ ॥७६ ॥
शनैश्चरदिने दत्त्वा तैलं विप्रेषु शक्तितः॥
नित्यमेव महाभाग रोगनाशनमाप्नुयात् ॥ ७७ ॥
आश्विनं सकलं मासं प्रत्यहं गोरसैर्द्विजान् ॥
भोजयित्वा महाभाग रोगनाशनमाप्नुयात् ॥७८॥
स्नापयित्वा तथा लिङ्गं देवदेवस्य शूलिनः ॥
घृतेन पयसा चैव सर्वरोगैर्विमुच्यते ॥ ७९ ॥
गायत्र्यावाहयेद्विद्वान्दूर्वां त्रिमधुनाप्लुताम् ॥
पूतश्च ब्राह्मणाशीर्भिः सर्वरोगैर्विमुच्यते ॥ 2.56.८० ॥
यस्मिन्भे व्याधिमाप्नोति कृत्वा तस्य बलिक्रियाम् ॥
भपूजाविधिना राम तस्माद्रोगाद्विमुच्यते॥८१॥
कर्तव्यमथवा स्नानं तथारोग्यविवर्धनम् ॥
आरोग्यदां द्वितीयां वा प्रतिपद्वा भृगूत्तम ॥ ८२ ॥
कर्तव्यं वैष्णवं वापि व्रतमारोग्यकारकम् ॥
मानसानां निजानां च तथा चैवाविपत्तये ॥८३ ॥
शरणं देवदेवेशं व्रजेत मधुसूदनम् ॥
सर्वगं तं जगन्नाथमजेयं पुरुषोत्तमम् ॥ ८४ ॥
स्तुवन्नामसहस्रेण व्याधीन्सर्वान्व्यपोहति ॥
दोषधातुमलाधारं शरीरं प्राणिनां द्विज ॥ ८५ ॥
वातपित्तकफा दोषा धातवश्च तथा शृणु ॥
भुक्तं पक्वाशयादन्नं द्विधा याति भृगूत्तम ॥ ८६ ॥
अंशेनैकेन किट्टत्वं रसतां चापरेण च ॥
किट्टभागो मलस्तत्र विण्मूत्रस्वेददूषकः ॥ ८७ ॥
नासामलं देहमलं तथा कर्णमलं च यत् ॥
रसभागे रसं तत्र सम्यक्शोणिततां व्रजेत् ॥ ८८ ॥
मांसं रक्तन्ततो मेदो मेदसोस्थ्नां च सम्भवः ॥
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्राम ततो रसः ॥८९ ॥
सर्वेषामेव धातूनां सारमोजः प्रकीर्तितम् ॥
देशं सात्म्यं च यां शक्तिं कालं प्रकृतिमेव च ॥2.56.९० ॥
ज्ञात्वा चिकित्सितं कुर्याद्भेषजस्य तथा बलम् ॥
तिथिं रिक्तां दिनेशं च तथैव च कुजार्कजौ॥ ॥ ९१ ॥
दारुणोग्राणि चर्क्षाणि वर्जयेद्भेषजे सदा ॥
हरिगोद्विजचन्द्रार्कसुराग्नीन्प्रतिपूज्य च॥ ९२ ॥
श्रुत्वा मन्त्रमिमं विद्वान्भेषजारम्भमाचरेत् ॥
ब्रह्मत्र्यक्षाश्विरुद्रेन्द्रभूचन्द्रार्कनलानिलाः ॥ ९३ ॥
ऋषय ओषधिग्रामा भूतसर्गाश्च पान्तु ते॥
रसायनमिवर्षीणां देवानाममृतं यथा ॥ ९४ ॥
स्वधेवोत्तमनागानां भैषज्यमिदमश्नुते ॥
वातश्लेष्मात्मको देशो बहुवृक्षो बहूदकः ॥ ९५ ॥
अनूप इति विख्यातो जाङ्गलस्तद्विवर्जितः ॥
किंञ्चिद्वृक्षाधिको देशस्तथा साधारणः स्मृतः ॥९६॥
जाङ्गलः पित्तबहुलो मध्यः साधारणो मतः॥
रूक्षशीतश्चलो वातः पित्तमुष्णकटुद्रवम् ॥ ९७ ॥
स्थिराम्लस्निग्धमधुरं बलासं च प्रचक्षते ॥
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः ॥ ९८ ॥
समाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ॥
कटुतिक्तकषायाश्च वातलाः श्लेष्मनाशनाः ॥ ९९ ॥
कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्धनाः ॥
तिक्ताः स्वादुकषायाश्च तथा पित्तविनाशनाः ॥ 2.56.१०० ॥
स्वभावतस्तथा कर्म ते च कुर्वन्ति भार्गव ॥
शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ॥ १०१ ॥
चयप्रकोपप्रशमास्तथा पित्तस्य कीर्तिताः ॥
निदाघे वारिदा रात्रे तथा शरदि भार्गव ॥ १०२ ॥
चयप्रकोपप्रशमास्तथा वातस्य कीर्तिताः ॥
चयप्रकोपप्रशमाः श्लेष्मणश्च प्रकीर्तिताः ॥ १०३ ॥
संवत्सरो द्वादशाङ्गो मासभेदेन कीर्तितः ॥
द्विधा तु मतभेदेन भूय एव प्रकीर्तितः ॥ १०४ ॥
आदानश्च विसर्गश्च तत्रापि परिकीर्तितौ ॥
वर्षादयो विसर्गाश्च हेमन्ताद्याः स्मृतास्त्रयः ॥ १०५ ॥
मेघकाले च शरदि हेमन्ते च यथाक्रमात् ॥
चयप्रकोपप्रशमस्तथा पित्तस्य कीर्तितः ॥ १०६ ॥
शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ॥
सौम्यो विसर्गस्त्वादानं चाग्नेयं परिकीर्तितम् ॥ १०७ ॥
वर्षादीन्स्त्रीनृतून्राम चतुःपर्यायगोरसान् ॥
विवर्धयेत्तथा तिक्तकषायकटुकान्क्रमात् ॥ १०८ ॥
यथा रजन्यो वर्धन्ते बलमेवं विवर्धते ॥
क्रमशोऽथ मनुष्याणां हीयमानासु हीयते ॥ १०९ ॥
रात्रिभुक्तं दिनान्ते तु दिवसस्य तथैव च ॥
आदिमध्यावसानेषु कफपित्तसमीरणाः ॥ 2.56.११० ॥
प्रकोपं यान्ति कोपादौ काले येषां चयः स्मृतः ॥
प्रकोपान्तरजे काले शमस्तेषां प्रकीर्तितः ॥ १११ ॥
अतिभोजनतो राम तथा चाभोजनेन च ॥
सर्वेऽपि रोगा जायन्ते वेगोदीरणधारणैः ॥ ११२ ॥
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् ॥
आश्रयं पवनादीनां तथैकमवशेषयेत ॥ ११३ ॥
व्याधेर्निदानस्य तथा विपरीतमथौषधम् ॥
कर्तव्यमेतदेवात्र मया सार्धं प्रकीर्तितम् ॥ ११४ ॥
नाभेरूर्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ॥
बलासपित्तवातानां देहे स्थानं प्रकीर्तितम् ॥ ११५ ॥
तथापि सर्वगा एते देहे वायुर्विशेषतः ॥
देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ॥ ११६ ॥
कृशोल्पकेशश्चपलो बहुवाग्विषमानलः ॥
व्योमगश्च तथा स्वप्ने वातप्रकृतिरुच्यते ॥ ११७ ॥
अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ॥
स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥ ११८ ॥
दृढाङ्गः स्थिरचित्तश्च सुप्रजः स्थिरमूर्धजः ॥
शुक्लाम्बुदर्शौ स्वप्ने च कफप्रकृतिको नरः ॥ ११९ ॥
तामसा राजसाश्चैव सात्त्विकाश्च तथा स्मृताः ॥
मानुषा भृगुशार्दूल वातपित्तकफाधिकाः ॥ 2.56.१२० ॥
रूक्षशीतव्यवायाध्वगुरु कर्म प्रवर्तते ॥
कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति ॥ १२१ ॥
विदाहिनां तथोष्णानामुच्चैरध्वनिषेविणाम् ॥
पित्तं प्रकोपमायाति भयेन च तथा द्विज ॥ १२२ ॥
अत्यंबुपानविषमभोजिनां भुवि शायिनाम् ॥
श्लेष्मा प्रकोपमायाति तथा ये चाल्पभोजनाः ॥ १२३ ॥
वातपित्तकफोत्थानि सर्वरोगाणि देहिनाम् ॥
लक्षयेल्लक्षणं विद्वाञ्शमयेत्तदनन्तरम् ॥ १२४ ॥
अस्थिभङ्गः कषायित्वमास्ये शुष्कास्यता तथा ॥
जृंभणं लोमहर्षश्च वातिकव्याधिलक्षणम् ॥ १२५ ॥
नखनेत्रशिराणां च पीतता कटुता मुखे …
तृष्णा दाहोऽम्लता चैव पित्तव्याधिनिदर्शनम् … १२६ ॥
आलस्यं च प्रसेकश्च गुरुता मधुरास्यता ॥
उष्णाभिलाषिता चेति श्लैष्मिकं व्याधि लक्षणम् ॥ १२७ ॥
स्निग्धोष्णमन्नं ससुखा च शय्या मनोऽनुकूलाः सुहृदः कथाश्च ॥
अभ्यञ्जनं चाप्यतितैलपानं वातप्रकोपप्रशमाय दृष्टम् … ॥ १२८ ॥
सरांसि वाप्यः सरितः सुशीताश्चन्द्रांशवश्चन्दनपङ्कलेपाः ॥
संसेवितेनाशु शमं प्रयाति विलासमग्र्यं मनसः प्रहर्षात् ॥ १२९ ॥
सर्वामयार्तिप्रशमार्थमेकां त्वमोषधीं राम निबोध गुह्याम्॥
भक्तिः प्रभोर्देववरस्य विष्णोर्या सर्वकामैः पुरुषं युनक्ति ॥ 2.56.१३० ॥ ॥
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मा० सं० पुरुषचिकित्सानाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
2.57
॥ राम उवाच ॥ ॥
आरोग्यकरणं नाम द्वितीया प्रतिपत्तथा ॥
आरोग्यदं व्रतं चैव वैष्णवं कथयस्व मे ॥ १ ॥
॥ पुष्कर उवाच ॥ ॥
धनिष्ठासु महाभाग यजमानपुरोहितौ …
उपोष्य वारुणं स्नानं यजमानस्य कारयेत् ॥ २ ॥
कृत्वा कुम्भशतं साग्रं शंखमुक्ताफलोदकैः ॥
भद्रासनोपविष्टस्तैः स्नातश्चैवाहताम्बरः ॥ ३ …
केशवं वारुणं चन्द्रं नक्षत्रं वारुणं तथा ॥
पूजयेत्प्रयतो राम गन्धमाल्यानुलेपनैः ॥ ४ ॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ॥
देवतानां यथोक्तानां कुर्वीत हवनं तथा ॥ ५ ॥
सर्वौषधैस्तथाज्येन यथाशक्ति विधानतः ॥
गुरवे वाससी देये रसकुम्भं च काञ्चनम्॥ ६ ॥
ब्राह्मणानां प्रदातव्या वित्तशक्त्या च दक्षिणा ॥
शमीशाल्मलिजैः पत्रैवंशाग्रेण तथैव च ॥ ७ ॥
त्रिवृतस्तु बलिः कार्यः सर्वरोगविनाशनः ॥
शाकानि हरितं माल्यं सर्वसस्यानि वाससी ॥
वरुणायाशु निक्षिप्य गन्धैर्धूपैर्निवेदयेत् ॥८ ॥
अलङ्घ्यमानस्य हि वारुणं तं स्नानेन दानेन कृतेन सम्यक् ॥
रोगाः समस्ताः प्रशमं प्रयान्ति बद्धस्तथा मोक्षमवाप्नुयाच्च ॥ ९ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शतभिषास्नानवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥
2.58
॥ पुष्कर उवाच ॥ ॥
पौषशुक्लद्वितीयायां गवां शृङ्गोदकेन तु ॥
स्नात्वा शुक्लाम्बरो भूत्वा सूर्येस्तं समुपागते ॥ १ ॥
बालेन्दोः पूजनं कृत्वा गन्धमाल्यानुलेपनैः ॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ॥ २ ॥
दध्ना च परमान्नेन गुडेन लवणेन च ॥
पूजनैर्ब्राह्मणानां च पूजयित्वा निशाकरम् ॥ ३ ॥
यावदस्तं न यातीन्दुस्तावदेव समाचरेत् ॥
आहारं गोरसप्रायमधःशायी निशं नयेत् ॥ ४ ॥
ततः संवत्सरे पूर्णे सौम्यमासे द्विजोत्तम ॥
बालेन्दोः पूजनं कृत्वा ब्राह्मणानां च पूजनम् ॥ ५ ॥
वाससी रसकुम्भं च काञ्चनं च द्विजातये ॥
दत्त्वा च पूजयित्वा च व्रतपारङ्गतो भवेत् ॥ ६ ॥
व्रतेनानेन धर्मज्ञ रोगमेवं व्यपोहति ॥
सर्वसौख्यं तथा द्रव्यं पुष्टिं च मनुजोत्तम ॥ ७ ॥
कामं समाप्नोत्यथवैकमिष्टं येन व्रतेनाथ समस्तधर्मम् ॥
अभ्यासतस्तस्य समस्तकामान्नरः समाप्नोति किमत्र चित्रम् ॥ ८ ॥ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने आरोयद्वितीयानामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
2.59
॥ पुष्कर उवाच ॥ ॥
संवत्सरावसाने तु पञ्चदश्यामुपोषितः ॥
पूजयेद्भास्करं देवं वर्णकैः कमले कृते ॥ १ ॥
शुक्लेन गन्धमाल्येन चन्दनेन सितेन च ॥
तथा कूर्मेण धूपेन घृतदीपेन भार्गव ॥ २ ॥
अपूपैः सैकतैर्दध्ना परमान्नेन भूरिणा ॥
ओदनेन च शुक्लेन सितालवणसर्पिषा ॥ ३ ॥
क्षीरेण च फलैः शुक्लैर्वह्निब्राह्मणतर्पणैः ॥
पूजयित्वा जगद्धाम दिनभागे चतुर्थके ॥ ४ ॥
आहारं प्रथमं कुर्यात्सघृतं मनुजोत्तमः ॥
रसं च मनुजश्रेष्ठ घृतहीनं विवर्जयेत् ॥ ५ ॥
भुक्त्वा च सकृदेवान्नं नाहारं समुपाचरेत् ॥
पानीयपानं कुर्वीत ब्राह्मणानुमते पुनः ॥ ६ ॥
संवत्सरमिदं कृत्वा ततः कृत्वा त्रयोदशम् ॥
पूजनं देवदेवस्य तस्मिन्नहनि भार्गव ॥ ७ ॥
समापयेद्व्रतं पुण्यं राम कुम्भं द्विजातये ॥
सहिरण्यं सवस्त्रं च तथा दद्याद्द्विजोत्तम ॥ ८ ॥
व्रतेनानेन धर्मज्ञ रोगमेव व्यपोहति ॥
आरोग्यमाप्नोति गतिं तथाग्र्यां यशस्तथाग्र्यं विपुलांश्च भोगान् ॥
व्रतेन सम्यक्पुरुषो धनार्थी सम्पूजयेद्यश्च जगत्प्रधानम् ॥ ९ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अरोग्यप्रतिपन्नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥
2.60
पुष्कर उवाच ॥
शुक्लपक्षावसाने तु यद्राम दिनपञ्चकम् ॥
तत्र सम्पूजयेद्विष्णुं विधिना येन तं शृणु ॥ १ ॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिस्तथैव च ।
एकैकेन चरेत्स्नानमेकादश्यादिषु क्रमात ॥ २ ॥
कौपताडागनादेयैः पद्मिनीसारसैर्जलैः ॥
कर्तव्यं क्रमशः स्नानं स्नातः सम्पूजयेद्धरिम् ॥ ३ ॥
तैलमिक्षुरसं क्षौद्रं क्षीरं सर्पिश्च भार्गव ॥
स्नपयेद्देवदेवस्य कर्तव्यं स्याद्दिनक्रमात् ॥ ४ ॥
कालागुरुमुशीरं च तथा जातीफलं द्विज ॥
कर्पूरं चन्दनं चैव कल्पयेदनुलेपने ॥५॥
कुसुमेष्वम्बुजातेषु गन्धवत्सु सितेषु च ॥
एकैकं कल्पयेज्जातिं श्रद्धया दिवसक्रमात् ॥६॥
कृष्णा गौरी तथा ताम्रा कपिला च सिता तथा॥ ॥
या धेनुस्तद्घृतं देयं दीपार्थं दिवसक्रमात् ॥ ७
माषमुद्गकलापानां चणकस्य तिलस्य च ॥
भक्ष्याणि विनिवेद्यानि तथैव दिवसक्रमात् ॥ ८ ॥
फाणितं च गुडं चैव तथा मत्स्यण्डिका शुभा ॥
खण्डं च शर्करां चैव क्रमशो विनिवेदयेत् ॥९ ॥
क्षीरवृक्षस्य समिधस्तथा दूर्वास्तिलानपि …
सिद्धार्थकान्यथाज्यं च भावयेद्दिवसक्रमात् ॥ 2.60.१० ॥
अनिरुद्धाय देवाय प्रद्युम्नाय तथैव च ॥
संकर्षणाय देवाय वासुदेवाय चाप्यथ ॥ ११ ॥
नाम्ना तु जुहुयाद्वह्निं प्रणवेनान्तिमेऽहनि ॥
अयः सीसं तथा ताम्रं रजतं कनकं तथा ॥ १२ ॥
दक्षिणार्थं प्रदातव्यं द्विजेभ्यो दिवसक्रमात् ॥
नक्तं च गोरसप्रायं भोक्तव्यं तैलवर्जितम् ॥ १३ ॥
भूशोधनं च कर्तव्यं देवस्य पुरतस्तथा ॥
गीतवाद्यस्तवैश्चैव पूजयेद्दिनपञ्चकम् ॥ १४ ॥
एवं संवत्सरं कृत्वा सर्वान्रोगान्व्यपोहति ॥
ग्रहणे च व्रतस्यास्य न कालनियमः स्मृतः ॥ १५ ॥
नित्याभ्यासेन चैवास्य विष्णुलोके महीयते॥
व्रतं श्रेष्ठमिदं प्रोक्तं मया ते भृगुनन्दन ॥ १६ ॥
धन्यं यशस्यं रिपुनाशकारि सौभाग्यदं पापहरं पवित्रम् ॥
आयुष्यमग्र्यं सुगतिप्रदं च व्रतोत्तमं विघ्नविनाशनं च ॥१७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आरोग्यव्रतन्नाम षष्टितमोध्यायः ॥ ६० ॥
2.61
पुष्कर उवाच ॥
राजधर्मव्रतं श्रेष्ठं कृत्वा पुरुषविग्रहम् ॥
पूरुषान्विनियुञ्जीत चोत्तमाधमकर्मसु ॥ १॥
ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा ॥
शतग्रामाधिपं चापि तथैव विषयेश्वरम् ॥ २ ॥
तेषां भागविभागश्च भवेत्कर्मानुरूपतः ॥
नित्यमेव तथा कार्यं तेषां चारैः परीक्षयेत् ॥ ३ ॥
ग्रामदोषान्समुत्पन्नान्ग्रामेशः प्रशमं नयेन् ॥
अशक्तौ देशपालस्य स तु गत्वा निवेदयेत् ॥ ४ ॥
श्रुत्वा तु देशपालोपि तत्र युक्तिमुपाचरेत् ॥
सोप्यशक्तः शतेशाय यथावद्विनिवेदयेत् ॥ ५ ॥
शतेशो विषयेशाय सोपि राज्ञे निवेदयेत् ॥
अशक्तौ शक्तिमान् राम स्वयं युक्तिमुपाचरेत् ॥ ६ ॥
राजा सर्वात्मना कुर्याद्विषये राम रक्षणम् ॥
वित्तमाप्नोति धर्मज्ञ विषयाच्च सुरक्षितात् ॥ ७ ॥
रिपुघातसमर्थः स्याद्वित्तवानेव पार्थिवः ॥
परचक्रोपमर्देषु वित्तवानेव मुच्यते ॥ ८ ॥
वित्तवानेव सहति सुदीर्घमपि विग्रहम् ॥
बहुदण्डानपि परांस्तथा भिन्द्याद्धनाधिपः ॥ ९ ॥
अन्ने प्राणाः प्रजाः सर्वा धने तच्च प्रतिष्ठितम् ॥
धनवान्धर्ममाप्नोति धनवान्काममश्नुते ॥ 2.61.१० ॥
यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बन्धवाः ॥
यस्यार्थः स पुमाँल्लोके यस्यार्थः सोपि पण्डितः ॥ ११ ॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ॥
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥१२॥
विशेषो नास्ति लोकेषु पतितस्याधनस्य च ॥
पतितानां न गृह्णन्ति दरिद्रो न प्रयच्छति ॥१३ ॥
धनहीनस्य भार्यापि नैव स्याद्वशवर्तिनी ॥
गुणौघमपि चैवास्य नैव कश्चित्प्रकाशयेत् ॥ १४ ॥
बान्धवा विनिवर्तन्ते धनहीनात्तथा नरात् ॥
यथा पुष्पफलैर्हीनाच्छकुन्ता द्विज पादपात् ॥ ॥ १५ ॥
दारिद्र्यमरणे चोभे केषांचित्सदृशे मते ॥
सत्यं हासाद्दरिद्रस्य मृतः श्रेयान्मते मम ॥ १६ ॥
कोशं राज्यतरोर्मूलं तस्माद्यत्नं तदर्जने ॥
धर्मेणैव ततः कुर्यान्नाधर्मेण कथंचन ॥ १७ ॥
धनैरधर्मसम्प्राप्तैर्यद्दृढं हि पिधीयते ॥
तदेव याति विस्तारं विनाशाय दुरात्मनाम् ॥१८ ॥
सुकृतस्य पुराणस्य बलेन बलिनां वर ॥
यद्यधर्मात्फलं शीघ्रं नाप्नुवन्ति दुरात्मनः ॥ १९ ॥
तथापि पूर्वकर्मान्ते तेन पापेन कर्मणा ॥
विनश्यन्ति समूलास्ते सपुत्रधनबान्धवाः ॥ 2.61.२० ॥
नरकेषु तथा तेषां यातना विविधाः स्मृताः ॥
बहून्यब्दसहस्राणि ये नृपा राष्ट्रपीडकाः ॥ २१ ॥
नित्यं राज्ञा तथा भाव्यं गर्भिणीसहधर्मिणा ॥
यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत् । २२ ॥
गर्भिणी तद्वदेवेह भाव्यं भूपतिना सदा ॥
प्रजासुखं तु कर्तव्यं सुखमुद्दिश्य चात्मनः ॥ २३ ॥
किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिताः ॥
सुरक्षिताः प्रजास्तस्य स्वर्गस्तस्य गृहोपमः ॥ ॥ २४ ॥
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ॥
राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि ॥ २५ ॥
धर्मो नाम महाभाग सम्पद्रक्षण तत्परः ॥
अरक्षितस्तथा सर्वं पापमाप्नोति भार्गव ॥ २६ ॥
नैव किञ्चिदवाप्नोति पुण्यभाक्पृथिवीपतिः ॥
आपन्नमपि धर्मिष्ठं प्रजा रक्षत्यथापदि। । २७ ॥
तस्माद्धर्मार्थकामेन प्रजा रक्ष्या महीक्षिता ॥
सुभगैश्चाथ दुर्वृत्तराजवल्लभतस्करैः ॥ २८ ॥
भक्ष्यमाणाः प्रजा रक्ष्या कायस्थैश्च विशेषतः ॥
रक्षितास्तद्भयेभ्यस्तु प्रजा राज्ञां भवन्ति ताः ॥ २९ ॥
अरक्षिता सा भवति तेषामेवेह भोजनम् ॥
साधुसंरक्षणार्थाय राजा दुष्ट निबर्हणम् ॥ 2.61.३० ॥
तृणानामिव निर्माता सदा कुर्याज्जितेन्द्रियः ॥
शास्त्रोक्तं बलिमादद्याद्धर्मं तत्तस्य जीवितम् ॥ ३१ ॥
तस्य सन्त्यजनं राजा न समृद्धोपि कारयेत् ॥
आकाराणि च सर्वाणि शुल्कं शास्त्रोदितो बलिः ॥ ३२ ॥
दण्डं विनयनाद्राज्ञो धर्म्यं तत्तस्य जीवितम् ॥
धर्ता कराणां सर्वेषां प्रभुरुक्तो महीपतिः ॥ ३३ ॥
निधिं पुराणं संप्राप्य केशवं तु प्रवेशयेत् ॥
अर्थं ब्राह्मणसात्कुर्याद्धर्मकामो महीपतिः ॥ ॥ ३४ ॥
निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा ॥
जगतोस्य समग्रस्य प्रभुरुक्तो द्विजोत्तमः ॥ ३५॥
निधिं ज्ञात्वा पुराणं तु क्षत्रविट्शूद्रयोनयः ॥
निवेदयेयुर्भूपाय राजा लब्ध्वापि तं निधिम् ॥ ३६ ॥
चतुर्थमष्टमं चांशं तथा षोडशमं द्विज ॥
वर्णक्रमेण विसृजेदाख्यातं धर्म कारणम् ॥ ३७ ॥
तेऽपि लब्ध्वा तदा तेन संविभज्य द्विजोत्तमान् ॥
शेषेण कुर्युः कामार्थौ विदितौ पृथिवीपतेः ॥ ३८ ॥
प्रकाशविभवो लोके यस्य राज्ञः स भूपतिः ॥
अप्रकाशधनो यस्तु नरकं तस्य मन्दिरम् ॥ ३९ ॥
ममेदमिति यो ब्रूयान्निधिं सत्येन मानवः ॥
तस्याददीत नृपतिर्भागमब्राह्मणस्य तु ॥ 2.61.४० ॥
चतुर्विंशतिकं राम द्वादशं षष्ठमेव च ॥
क्षत्रियाश्च तथा वैश्याः शूद्राश्च भृगुनन्दन ॥ ४१ ॥
अनृतं च वदन्दण्ड्यः स्ववित्तस्यांशमष्टकम् ॥
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ॥ ४२ ॥
अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥
ममेदमिति यो ब्रूयादनुयुक्तो यथाविधि ॥ ४३ ॥
संपाद्य रूपं द्रव्यादीन्स्वामी तद्द्रव्यमर्हति ॥
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ॥ ॥ ४४ ॥
वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति ॥
निधिवद्भागमादद्यात्प्रनष्टाधिगतान्नृपः ॥४५॥
बालदायादिकं रिक्थं तावद्राजा तु पालयेत् ॥
यावत्स स्यात्समावृत्तो यावद्वातीतशैशवः ॥ ४६ ॥
बालपुत्रेषु चैवं स्याद्रक्षणं निष्कुलासु च ॥
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ ॥ ४७ ॥
जीवन्तीनां तु तासां ये धारयेयुः स्वबान्धवाः ॥
ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ ४८ ॥
सर्वेषामेव वर्णानां चौरैरपहृतं धनम् ॥
तत्प्रमाणं स्वकात्कोशाद्दातव्यमविधारयन् ॥ ४९ ॥
ततस्तु पश्चात्कर्तव्यं चौरान्वेषणमञ्जसा ॥
चौररक्षाधिकारिभ्यो राजापि तदवाप्नुयात् ॥ 2.61.५० ॥
अहृते च तथा वित्ते हृतमित्येव वादिनम् ॥
निर्धनं पार्थिवः कृत्वा विषयात्स्वाद्विवासयेत् ॥ ५१ ॥
न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः ॥
प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम् ॥ ५२ ॥
स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज ॥
शुल्कांशं परदेशाच्च निबोध गदतो मम ॥ ५३ ॥
क्षयव्ययप्रवासांश्च यथायामं द्विजोत्तम! ॥
ज्ञात्वा तु कल्पयेत्तत्र शुल्कांशं पृथवीपतिः ॥ ५४ ॥
तथा कार्यं यथा लाभं वणिजः समवाप्नुयुः ॥
पुण्यच्छेदश्च नैव स्यात्स्वदेशे पृथवीपतेः ॥ ५५ ॥
व्ययं शुल्कप्रवासादि लङ्घयित्वा तथा द्विज ॥
विंशांशभागमादद्युर्दण्डनीया अतोन्यथा ॥ ५६ ॥
दिशि दिश्येकमेव स्याच्छुल्कस्थानं नृपस्य तु ॥
तदतिक्रमतो द्रव्यं राजगामि विधीयते ॥ ५७ ॥
दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा ॥
स्त्रीणां प्रव्रजितानां च तारशुल्कं विवर्जयेत् ॥ ५८ ॥
भिन्नकर्षापणं शुल्कं न ग्राह्यं पृथिवीक्षिता ॥
तारेषु दाशदोषेण नष्टं दाशात्प्रदापयेत् ॥ ५९ ॥
दैवदोषविनष्टं च नष्टं यस्यैव तस्य तत् ॥
शूकधान्येषु षड्भागं शिंबिधान्येष्वथाष्टकम् ॥ 2.61.६० ॥
राजा बल्यर्थमादद्याद्देशकालानुरूपकम् ॥
राजांशभागमादद्याद्राजा पशुहिरण्ययोः ॥ ६१ ॥
गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥
पत्रशाकतृणानां च वत्सरेण च चर्मणाम् ॥ ६५ ॥
वैदलानां च भांडानां सर्वस्याश्ममयस्य च ॥
षड्भागमेव चादद्याद्ब्राह्मणेभ्यस्तथा करम् ॥ ६३ ॥
तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत् ॥
न च क्षुधावसीदेत श्रोत्रियो विषये वसन् ॥ ६४ ॥
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ॥ ६५ ॥
श्रुतवृत्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥
रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसम् ॥ ६६ ॥
संरक्ष्यमाणो राज्ञा यः कुरुते धर्म संग्रहम् ॥
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ ६७ ॥
कर्म कुर्युर्नरेन्द्रस्य मासेनैकं च शिल्पिनः ॥
भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ॥ ६८ ॥
स्नातानुलिप्ताश्च विभूषिताश्च वेश्याङ्गनावारविवर्तितेन ॥
संवीतगात्रः पृथिवीश्वरस्य सदाभ्युपासां परितस्त्रिकुर्युः ॥ ॥६९॥
इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे रामं प्रति पुष्करोपाख्याने राजधर्मवर्णनोनामैकषष्टितमोऽध्यायः ॥६१…
2.62
पुष्कर उवाच ॥
धर्मश्चार्थश्च कामश्च पुरुषार्थः परः स्मृतः ॥
अन्योन्यरक्षणात्तेषां सेवा कार्या महीक्षिता ॥ १ ॥
धर्ममूलोर्थविटपस्तथा कामफलो महान् ॥
त्रिवर्गपादपस्तस्य रक्षणात्फलभाग्भवेत् ॥ २ ॥
धर्माविरोधिनी कार्या कामसेवा सदैव तु ॥
मूलच्छेदे भवेन्नाशो विटपस्य फलस्य च ॥३ ॥
कामसेवाविहीनस्य धर्मार्थावपि निष्फलौ ॥
ओषधीनां फलार्थाय कीनाशो यत्नवांस्तथा ॥४॥
कामार्थी यत्नवानेवं लोभो धर्मार्थयोर्द्विज ॥
कामस्यापि परं नार्यो धर्मरागमदोत्कटाः ॥ ५ ॥
तदर्थं रत्ननिधयो विभवाश्च तथा परे ॥
गीतं वाद्यं सुमधुरं भोज्यं पानं स्रजिस्तथा ॥६॥
भूषणानि सुगन्धीनि तदर्थं सर्वमेव हि ॥
तपश्चापि तपस्यन्ति दुःखं परमुपाश्रिताः ॥ ७ ॥
दुर्गमाणि च तीर्थानि व्रजन्ति पुरुषास्तथा ॥
त्यजन्ति समरे प्राणान्प्राणेभ्योऽप्यधिकं धनम् ॥ ८ ॥
त्यजन्ति ब्रह्मणादिभ्यस्तथा स्वर्गेप्सवो जनाः ॥
स्वर्गस्यापि धनं राम कारणं विद्धि भार्गव ॥ ९ ॥
ता एव चपलापाङ्गविक्षेपविजिताः प्रजाः ॥
क्षयमेव क्षयं तस्य यस्य नाध्यसितं सदा ॥ 2.62.१० ॥
अधः कृत्वेन्दुबिम्बाग्रवदनाभिः पुरन्ध्रिभिः ॥
तस्यैकं सफलं जन्म सम्पदश्च मनोरथाः ॥ ११ ॥
यस्यैताश्चञ्चलापाङ्ग्यस्तरुण्यो वशमागताः ॥
सेव्यास्ता नातिसेव्याश्च भूभुजा विजिगीषुणा ॥ १२ ॥
असेवनाद्वृथा जन्म दोषग्रामोऽतिसेवनात् ॥
ऊरुस्तम्भत्रयं प्रोक्तं शरीरेषु शरीरिणाम् ॥ १३ ॥
आहारं मैथुनं निद्रा यैर्वृतं सकलं जगत् ॥
असेवनादथैतस्य तथैवात्यन्तसेवनात् ॥ १४ ॥
रोगग्रामो नृणां देहे सम्भवत्यतिदारुणः ॥
विश्वासमतिसक्तिं च तीक्ष्णतां स्त्रीषु वर्जयेत् ॥ १५ ॥
न चाधिकारे कर्तव्या भूषणाच्छादनाशनैः ॥
सुविभक्ताश्च कर्तव्या लालनीयास्तथैव च ॥ १६ ॥
ज्ञेयौ रागापरागौ च तथा तासां विशेषतः ॥
नारी रागवते लोके नानृतेन विशिष्यते ॥ १७ ॥
विरक्ताभिर्महीपाल छद्मना बहवो हताः ॥
द्विष्टान्याचरते या तु नाभिनन्दति तत्कथाम् ॥ १८ ॥
ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता ॥
चुम्बिता मार्ष्टि वदनं दत्तं न बहुमन्यते ॥ १९ ॥
स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यति ॥
स्पृष्ट्वा धुनोति गात्राणि कान्तं चैव रुणद्धि या ॥ 2.62.२० ॥
ईषत्स्मितेन वाक्यानि प्रियाण्यपि पराङ्मुखी ॥
नयत्यश्रुतवद्या तु जघनं च विगूहति ॥२१ ॥
दृष्टे विवर्णवदना मित्रेष्वपि पराङ्मुखी ॥
तत्कामितासु च स्त्रीषु मध्यस्थैव च लक्ष्यते ॥ २२ ॥
ज्ञातमङ्गलकालापि न करोति च मण्डनम् ॥
या सा विरक्ता रक्ता च निबोध गदतो मम ॥ २३ ॥
दृष्ट्वैव हृष्टा भवति वीक्षते च पराङ्मुखम् ॥
दृश्यमाना तथान्यत्र दृष्टिं क्षिपति चञ्चलाम् ॥ २४ ॥
तथाप्यपावर्तयति नैव शक्नोत्यशेषतः ॥
विवृणोति तथाङ्गानि सुगुह्यान्यपि भार्गव ॥ २५ ॥
गर्हितं च तथैवांगं प्रयत्नेन विगूहते ॥
तद्दर्शनेन कुरुते बालालिङ्गनचुम्बनम् ॥ २६ ॥
आभाष्यमाणा भवति सन्नवाक्या तथैव च॥
स्पृष्ट्वा पुलकितैरंगैः सखे दैर्वापि भज्यते ॥ २७ ॥
करोति च तथा राम सुलभद्रव्ययाचनम् ॥
ततः स्वल्पमपि प्राप्य प्रयाति परमां मुदम् ॥ २८ ॥
नाम संकीर्तनादेव मुदिता बहु मन्यते ॥
करजाङ्काकितान्यस्य फलानि प्रेषयत्यपि ॥ २९ ॥
तत्प्रेषितानि हृदये विन्यस्यत्यपि चादरात् ॥
आलिङ्गनैश्च गात्राणि लिम्पन्तीवामृतेन च ॥ 2.62.३० ॥
सुप्ते स्वपित्यथादौ तु तथा तस्य विबुध्यते ॥
ऊरू स्पृशति चात्यर्थं सुप्तं चैनं विचुम्बते ॥ ३१ ॥
एवं रक्तां तु विज्ञाय कामयेतात्मवान्नरः ॥
कामं च भोजनं सख्यं ज्ञेयाः कृत्रिमपुत्रिकाः ॥ ३२ ॥
स्वीकर्तुमिच्छन्बालायाः क्रीडनादिस्तथैव च ॥
गन्धमाल्यप्रदानेन यौवनस्थां वशं नयेत् ॥ ३३ ॥
वस्त्रभूषणदानेन तया यौवनविच्युताम् ॥
क्रीडासाधुप्रिया बाला तथा यौवनविच्युता ॥ ३४ ॥
रतिप्रिया तु विज्ञेया तरुणी चोभयप्रिया ॥
आत्मसंभावना स्त्रीषु न कर्तव्या कथंचन ॥ ३५ ॥
असूया जायतेऽत्यर्थमात्मसंभाविते नरे ॥
न चासां दर्शनं देयं न चात्यन्तमदर्शनम् ॥ ३६ ॥
उभयेनाप्यथैतासामुत्कण्ठा तु विहन्यते ॥
हृद्यैः सुविहितैर्भोगैर्गन्धयुक्तैश्च कौशलैः ॥
कार्यमाराधनं स्त्रीणां रतिकामैः सदैव तु ॥ ३७ ॥
एवं सदा यस्तु करोति राम स्त्रीचेतसां स्वीकरणं मनुष्यः ॥
तस्यान्तराया न भवन्ति किञ्चित्स्त्रीद्वारमासाद्य सदासपत्नः ॥३८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अन्तःपुरचिन्ता नाम द्विषष्टितमोऽध्यायः ॥ ६२॥
2.63
राम उवाच ॥
कल्पना भोजनीयानां गन्धानां या च कल्पना ॥
तानहं श्रोतुमिच्छामि त्वत्तो धर्मभृतां वर ॥१ ॥
पुष्कर उवाच ॥
भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पानं तथैव च ॥
कल्पना पञ्चधा राम भोज्यस्यैषा प्रकीर्तिता ॥ २ ॥
अभ्यासगम्या चाप्येषा वक्तव्यं तत्र मे शृणु ॥
कटुतोयोदकं क्वाथं शोधितानामसंशयम् ॥ ३ ॥
पुराणधान्यजातीनां गन्धमाशु विनश्यति ॥
श्रेष्ठं सार्षपकं तैलं शाकानां परिशोधने ॥ ४ ॥
मांसं काठिन्यमायाति कौमल्यं चार्द्रकाम्बुना ॥
वरुणक्षारसंयोगान्मत्स्यस्यास्थि विलीयते ॥ ॥ ५ ॥
गण्डिकाभिः पलाशस्य क्षीरमायाति पक्वताम् ॥
कपित्थचूर्णयोगेन तथा चैव सुजातकैः ॥ ६ ॥
घृतैः सुगन्धी भवति दग्धैः क्षिप्तैस्तथा यवैः ॥
पद्मवारिणि योगेन काञ्जिकस्याम्लता भवेत् ॥ ७ ॥
गुडाद्यं शुद्धिमाप्नोति क्षीरेण च तथा युतम् ॥
पद्मरागसमं वर्णं चांशुमत्याः प्रजायते ॥ ८ ॥
पानकानां महाभाग यस्याप्यन्यस्य चेच्छति ॥
क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति ॥ ९ ॥
लवणाधिकविक्षेपं संजातविरसं ध्रुवम् ॥
सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ॥ 2.63.१० ॥
चणकक्षारयोगेन पुष्पाणि च फलानि च ॥
सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत् ॥ ११ ॥
गन्धवर्णरसाधानं पानकादिषु सर्वतः ॥
यथाकालं यथादेशं यथासात्म्यं च कारयेत् ॥ १२ ॥
नात्यर्थदीप्तेन हुताशनेन नात्यन्तमन्देन च साध्यमन्नम्॥
रसं न चाप्यत्र भवेत्प्रभूतं नात्यल्पमेतत्कथितं मया ते॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० श्रीपरशुरामं प्रति पुष्करोपाख्याने भोज्यकल्पनो नाम त्रिषष्टितमोध्यायः॥६३॥
2.64
पुष्कर उवाच॥
शोधनं वसनं चैव तथैव च विरेचनम् ॥
भावना चैव पाकश्च बोधनं धूपनं तथा ॥ १ ॥
वासनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ॥
कपित्थबिल्वजम्बाम्रबीजपूरकपल्लवैः ॥ २ ॥
कृत्वोदकं तु यद्द्रव्यं शोधितं शौचितं तु तत् ॥
तेषामभावे शौचं तु मृतदर्शाम्भसा भवेत् ॥ ३ ॥
तदभावे तु कर्तव्यं तदा मुस्ताम्भसा द्विज…
शुष्कं शुष्कं पुनर्द्रव्यं पञ्चपल्लववारिणा ॥ ४ ॥
प्रक्षालितं चाप्यसकृद्वमितं तत्प्रकीर्तितम् ॥
पञ्चपल्लवतोयेन क्वाथयित्वा पुनःपुनः ॥ ५ ॥
द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ॥
हरीतकीं ततः पिष्ट्वा पञ्चपल्लववारिणा ॥ ६ ॥
तेन पथ्याकषायेण तच्चूर्णं भावयेत्सकृत् ॥
शोषितं शोधयेदेतद्विरेकं तत्प्रकीर्तितम् ॥ ७ ॥
ततस्तु गन्धद्रव्येण यथेष्टं कुङ्कुमादिना ॥
भावयेत्तेन तद्द्रव्यं भावना सा प्रकीर्तिता ॥ ८ ॥
तेनैव भावयेद्द्रव्यं पञ्चपल्लववारिणा ॥
आश्वत्थेनैव तेनाथ द्रव्यं राम तथास्तु तत् ॥ ९ ॥
मृदा पिहितसत्त्वो तु मृण्मये भाजनद्वये॥
विपचेत्तु विधूमाग्नावर्तधूमः पुनःपुनः ॥2.64.१०॥
तावेव क्वाथयेत्तावत्तत्रैवानुगतो रसः ॥
एतत्पाकविधानं ते पञ्चमं परिकीर्तितम् ॥११॥
ततस्तु भावनाद्रव्यं कल्कपिष्टं नियोजयेत् ॥
कल्कपिष्टे तथा द्रव्ये बोधनं परिकीर्तितम् ॥ १२ …
ततस्तु पूजयेद्द्रव्यं पूर्वमेव तु पथ्यया ॥
ततस्तु गुरुशुक्तिभ्यां चन्दनागरुभिस्ततः ॥ १३ ॥
कर्पूरमृगदर्पाभ्यां ततश्चैनं प्रधूपयेत् ॥
इत्येतद्वासनं राम कर्म तेऽभिहितं मया ॥१४॥
ततस्तु गुलिकां कृत्वा यथाकाममतन्द्रितः ॥
पुष्पैर्बकुलजातीनां तथान्येषां सुगन्धिभिः ॥ १५ ॥
छायासु शोष्यमाणस्य वासना क्रियते तु या ॥
वासना सा विनिर्दिष्टा कर्मैतच्चाष्टमं शुभम् ॥ १६ ॥
कर्माष्टकमिदं कृत्वा वचां पिण्डनिभां तथा ॥
मुस्तं शैलेयकं वापि सेव्यं वा द्विजसत्तम ॥ १७ ॥
शोधयेद्गान्धिको विद्याद्यथान्यत्कर्मसेत्स्यति ॥
निर्यासानां च पुष्पाणां कर्माष्टकमिदं शुभम् ॥ १८ ॥
विदुषा नैव कर्तव्यं कार्यमन्यत्र भार्गव ॥
अशोधितैस्तथा धूपाः कार्या द्रव्यैर्यथाविधि ॥ १९ ॥
अतः परं तु ते योगान्कांश्चिद्वक्ष्यामि ताञ्छृणु ॥
नखं कुष्ठं धनं मांसीस्पृक्त्वा शैलेयकं जलम् ॥ 2.64.२० ॥
तथैव कुङ्कुमं लाक्षा चन्दनागुरुणी नतम् ॥
सरला देवकाष्ठं च कर्पूरं कार्तया सह॥२१॥
बोलं कन्दुरकश्चैव गुग्गुलः श्रीनिवासकः ॥
सह सर्जरसेनेयं धूपद्रव्यैकविंशतिः ॥ २२ ॥
धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ॥
द्वेद्वे द्रव्ये समादाय सर्जभागे नियोजयेत् ॥ २३ ॥
नवे पिण्याकवलयैः संयोज्य मधुना तथा ॥
धूपयोग्या भवन्तीह यथावत्स्वेच्छया कृताः ॥ २४ ॥
त्वचं जातीफलं तैलं कुङ्कुमं ग्रन्थिपर्णकम् ॥
शैलेयं तगरं काष्ठं ताम्बूलं तगरं तथा ॥२५ ॥
मांसीसरावकुष्ठं च नव द्रव्याणि निर्दिशेत्॥
एतेभ्यस्तु समादाय द्रव्यं तत्र यथेच्छया ॥ २६ ॥
मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्धनम् ॥
द्रुक्सुरानलदैस्तुल्यैर्वान्यकारसमायुतैः ॥ २७ ॥
स्नानमुत्पलगन्धि स्यात्सतैलं कुङ्कुमैर्युतम् ॥
जातीपुष्पसुगन्धि स्यात्तगरार्धेन योजितम् ५२८ ॥
बालकाञ्चनसंयुक्तं पाटलाकुसुमायते ॥
सव्यापकं स्याद्बकुलैस्तुल्यगन्धि मनोहरम् ॥ २९ ॥
नालिकावंशसहितं कुट्टिपादेन चार्यकम् ॥
द्विकेसरं वेणुपादं कुन्दपुष्पायते तथा ॥ 2.64.३०॥
शैलपादार्थसंयुक्तं व्यक्तं मदनकं भवेत् ॥
मञ्जिष्ठा तगरं बालं द्वयं व्याघ्रनखं नखम् ॥ ३१ ॥
गन्धपत्रं च विन्यस्य गन्धतैलं भवेच्छुभम् ॥
तैलं निष्पीडितं राम तिलैः पुष्पाधिवासितैः ॥ ३२ ॥
वासनापुष्पसदृशं गन्धने तु भवेद्द्रुतम् ॥
पूर्ववच्छोधयित्वा तु मुस्तं सेव्यं वचां निशाम् ॥ ३३ ॥
अभीष्टमन्यत्कलुषं यथावदनुलेपयेत् ॥
उद्धृत्य चन्दनादिं च शोधनं वमनं तथा ॥ ३४ ॥
वर्जयित्वा विरेकं च शेषकर्माणि कारयेत् ॥
तद्वा भवति धर्मज्ञ वर्णकं त्रिदिवप्रियम् ॥ ३५ ॥
पटवासांसि कार्याणि वर्णकैः श्लक्ष्णचूर्णितैः ॥
एलालवङ्गकक्कोलजातीफलनिशाकराः ॥ ३६ ॥
जातिपत्रिकया सार्द्धं स्वतन्त्रं मुखवासकम् ॥
कर्पूरं कुङ्कुमं कान्तं मृगदर्पं हरेणुकम् ॥ ३७ ॥
कक्कोलैलालवङ्गं च जाती कोशकमेव च ॥
द्रुक्पत्रं त्रुटिमुस्तं च लताकस्तूरिकं तथा ॥ ३८ ॥
कण्टकानि लवङ्गस्य फलपत्रैश्च जातितः ॥
कटुकं च फलं राम कर्षिकाण्डां प्रकल्पयेत् ॥३९॥
तच्चूर्णे खादिरं सारं दद्यात्तुल्यतुलार्पितम् ॥
सहकण्यारसेनास्य कर्तव्या गुलिकाः शुभाः ॥ 2.64.४० ॥
मुखे न्यस्ताः सुगंधास्ता मुखरोगविनाशनाः ॥
पूर्वं प्रक्षालितं सम्यक्पद्यपल्लववारिणा ॥ ४१ ॥
शक्त्या तु गुलिकद्रव्यैर्वासिकं मुखवासकम् ॥
कटुकं दन्तकाष्ठं च गोमूत्रे वासितं त्र्यहम् ॥ ४२ ॥
कृतं च पूगवद्राम मुखसौगन्ध्यकारकम् ॥
त्वक्पथ्ययोः समावंशौ सितभागार्धसंयुतौ ॥ ४३ ॥
नागवल्लीसमो भाति मुखवासो मनोहरः ॥४४॥
कटुकफलनताम्बुत्वक्त्रुटिव्याधिपत्त्रैर्नलदनतसुराभिस्तुल्यभागान्वितानि ॥
द्विगुणितकृतमात्राप्रातिकक्कोलसैम्यैः शशिरसरसमोऽयं गन्धपत्रं विदध्यात् ॥ ४५ ॥
निहितमिदमनर्घं कर्णपत्रं युवत्याः शमयति विविधानि श्रोत्रपालीगदानि ॥
अपरमपि च यावत्काममामोदमत्तुं भ्रमदलिपटलेन व्याप्यते वक्त्रभागः ॥४६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा० सं० रामं प्रति पुष्करोपाख्याने गन्धयुक्तिर्नाम चतुष्षष्टितमोऽध्यायः ॥६४॥
2.65
पुष्कर उवाच ॥
एवं कुर्यात्सदा स्त्रीणां रक्षणं पृथिवीपतिः ॥
न चेमां विश्वसेज्जातु पुत्रमात्राविशेषतः ॥ १ ॥
न स्वपेत्स्त्रीगृहे रात्रौ विश्वासं कृत्रिमं भजेत् ॥
राजपुत्रस्य रक्षां च कर्तव्या पृथिवीक्षिता ॥ २ ॥
आचार्यैश्चास्य कर्तव्यं नित्यं युक्त्यैव रक्षणम् ॥
धर्मार्थकाममोक्षाणां धनुर्वेदं च शिक्षयेत् ॥ ३॥
रथेऽश्वे कुञ्जरे चैनं व्यायामं कारयेत्सदा ॥
शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्या प्रियंवदैः ॥ ४ ॥
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ॥
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः ॥ ५ ॥
तथा च विनयेदेनं यथायौवनगं सुखे ॥
विषयैर्यैर्न कृष्येत सतां मार्गात्सुदुर्गमात् ॥ ६ ॥
गुणाधानं न शक्यं तु यस्य कर्तुं स्वभावतः ॥
बन्धनं तस्य कर्तव्यं गुप्तदेशे सुखान्वितम् ॥ ७ ॥
अविनीतकुमारं हि कुलमाशु विशीर्यते ॥
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ॥ ८ ॥
आदौ स्वल्पे ततः पश्चात्क्रमेणाथ महत्स्वपि ॥
मृगयापानमक्षांश्च वर्जयेच्च महीपतिः ॥ ९ ॥
एतान्संसेवमानास्तु विनष्टाः पृथिवीक्षितः ॥
बहवो भृगुशार्दूल येषां संख्या न विद्यते ॥ 2.65.१० ॥
दिवास्वापं वृथावादं विशेषेण विवर्जयेत ॥
वाक्पारुष्यं न कर्तव्यं दण्डपारुष्यमेव च ॥ ११ ॥
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥
अर्थस्य दूषणं राम द्विप्रकारं विवर्जयेत् ॥ १२ ॥
अर्थानां दूषणं चैकं तथा चार्थेन दूषणम् ॥
प्राकाराणां समुच्छेदो दुर्गादीनां समक्रिया ॥ १३ ॥
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥
अदेशकाले यद्दानमपात्रे दानमेव च ॥ १४॥
अर्थैस्तु दूषणं प्रोक्तमसत्कर्मप्रवर्तनम् ॥
कामः क्रोधो मदो मानं लोभो हर्षस्तथैव च ॥ १५ ॥
जेतव्यमरिषड्वर्गमाहुस्तु पृथिवीक्षिताम् ॥
एतेषां विजयं कृत्वा कार्यो भृत्यजयस्ततः ॥ १६ ॥
कृत्वा भृत्यजयं राजा पौरजानपादाञ्जयेत् ॥
कृत्वा च विजयं तेषां शत्रून्बाह्यांस्ततो जयेत् ॥ १७ ॥
बाह्याश्च त्रिविधा ज्ञेयास्तुल्यानन्तरकृत्रिमाः ॥
गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत् ॥ १८ ॥
पितृपैतामहं मित्रमाश्रितञ्च तथा रिपोः ॥
कृत्रिमं च महाभाग मित्रं त्रिविधमुच्यते ॥ १९ ॥
तथापि च गुरुः पूर्वं भवेत्तत्रापि चाश्रितम् ॥
स्वाम्यमात्यजनपदा बलं दुर्गं तथैव च॥2.65.२०॥
कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्तितः ॥२१॥
तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः ॥
षडङ्गरक्षा कर्तव्या तेन चापि प्रयत्नतः ॥ २२ ॥ ॥
अङ्गेभ्यो यस्त्वथैकस्य द्रोहमाचरतेऽल्पधीः ॥
वधस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता ॥ २३ ॥
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ॥
न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ॥ २४ ॥
काले मृदुर्यो भवति काले भवति दारुणः ॥
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥ २५ ॥
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ॥
भृत्याः परिभवन्तीह नृपं हर्षलसत्कथम् ॥ २६ ॥
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ॥
लोकसंग्रहणार्थाय कृतकव्यसनी भवेत् ॥ ॥ २७ ॥
शौण्डीर्यस्य नरेन्द्रस्य नित्यमुत्क्षिप्तचेतसः ॥
जनो विरागमायाति सदा दुःसेव्यभावतः ॥ २८ ॥
स्मितपूर्वाभिभाषी स्यात्सर्वस्यैव महीपतिः ॥
मध्येष्वपि महाभागः भ्रुकुटिं न समाचरेत् ॥ २९ ॥
भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा ॥
स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी ॥ 2.65.३० ॥
अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः ॥
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥ ३१ ॥
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ॥
अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते ॥ ३२ ॥
राज्ञा संवृतमन्त्रेण संभाव्यं द्विजसत्तम ॥
तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ॥ ३३ ॥
कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः. ॥
नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ॥ ३४ ॥
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ॥
कर्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा ॥ ३५ ॥
मन्त्रवित्साधितो मन्त्रः संयतानां सुखावहः ॥
मन्त्रभेदेन बहवो विनष्टाः पृथिवीक्षितः ॥ ३६॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥
नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः ॥ ३७ ॥
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा ॥
भवतीह महीभर्तुः सदा भार्गवनन्दन ॥ ३८ ॥
नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह ॥
बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान्पृथक्पृथक् ॥ ३९ ॥
मन्त्रिणामपि नो कुर्यान्मन्त्री मन्त्रप्रकाशनम् ॥
क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम् ॥ 2.65.४० ॥
निश्चयश्च तथा मन्त्री कार्य एकेन सूरिणा ॥
भवेद्वा निश्चयावाप्तिः परबुद्ध्युपजीवनात् ॥ ४१ ॥
एकस्यैव महीभर्तुर्भूयः कार्ये सुनिश्चिते ॥
ब्राह्मणान्पर्युपासीत त्रय्यां राम मुनींश्च तान् ॥ ४२ ॥
नासच्छास्त्ररतान्मूढांस्ते हि लोकस्य कण्टकाः ॥
वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् ॥ ४३ ॥
तेभ्यो हि शिक्षेद्विनयं विनीतात्मा हि नित्यशः ॥
समग्रां वशगां कुर्यात्पृथिवीं नात्र संशयः ॥ ॥ ४४ ॥
बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ॥
वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे ॥ ४५ ॥
त्रैविद्येभ्यस्त्रयीं विद्याद्दण्डनीतिं च शाश्वतीम् ॥
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भं च लोकतः ॥ ४६ ॥
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ॥
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ४७ ॥
यजेत राजा क्रतुभिर्बहुभिश्चाप्तदक्षिणैः ॥
धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ॥४८॥
सांवत्सरिकैराप्तैश्च राष्ट्रादाहारयेद्बलिम् ॥
स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु ॥ ४९ ॥
आवृतानां गुरुकुलाद्द्विजानां पूजनं भवेत्॥
नृपाणामक्षयो ह्येष निधिर्ब्राह्मो विधीयते ॥2.65.५०॥
न तं स्तेना नाप्यमित्रा हरन्ति न च नश्यति॥
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ ५१ ॥
समोत्तमाधमै राजा ह्याहूताः पालयन्प्रजाः ॥
न निवर्तेत संग्रामात्क्षात्रं व्रतमनुस्मरन् ५२॥
संग्रामेष्वनिवर्तित्वं प्रजानां परिपालनम् ॥
शुश्रूषा ब्राह्मणानां च राज्ञां निश्रेयसं परम् ॥ ५३॥
कृपणानां च वृद्धानां विधवानां च योषिताम् ॥
योगं क्षेमं च वृत्तिं च तथैव परिकल्पयेत् ॥ ॥ ५४ ॥
वर्णाश्रमव्यवस्था तु तथा कार्या विशेषतः ॥
स्वधर्मप्रच्युतान्राजा स्वधर्मे विनियोजयेत् ॥ ५५ ॥
आश्रमेषु यथाकालं तैलभाजनभोजनम् ॥
स्वयमेव नयेद्राजा सत्कृतान्नवमन्य च ॥ ५६ ॥
तापसे सर्वकार्याणि राज्यमात्मानमेव च ॥
निवेदयेत्प्रयत्नेन देववच्चैनमर्चयेत् ॥ ५७ ॥
द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः ॥
शठाञ्ज्ञात्वा न सेवेत प्रतिबोधं तदा गतान् ॥ ५८ ॥
नास्यच्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ॥
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ ५९ ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ॥
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ 2.65.६० ॥
विश्वासयेच्चापि परं तत्त्वभूतेन हेतुना ॥
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् ॥ ६१ ॥
बकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥
दृढप्रहारी च भवेत्तथा सूकरवन्नृपः ॥ ६२ ॥
चित्राकारश्च शिखिवद्दृढभक्तस्तथान्धवत् ॥
भवेच्च मधुराभाषी शुककोकिलवन्नृपः ॥६३ ॥
काकशंकी भवेन्नित्यमज्ञातवसतिं वसेत् ॥
नापरीक्षितपूर्वं च भोजनं शयनं स्पृशेत् ॥ ६४ ॥
वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ॥
न गाहेज्जनसंबाधं न चाज्ञातं जलाशयम् ॥ ६५ ॥
नापरीक्षितपूर्वैस्तु पुरुषैराप्तकारिभिः ॥
नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा ॥ ६६ ॥
नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुभवाससम् ॥
नारोहेद्विषमां नावं नापरीक्षितनाविकाम् ॥ ६७ ॥
ये चास्य भूमिं जयतो भवेयुः परिपन्थिनः ॥
तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥ ६८॥
यथा न स्यात्कृशीभावः प्रजानामनवेक्षया ॥
तथा राज्ञा विधातव्यं स्वराष्ट्रं परिरक्षता ॥ ६९ ॥
मोहाद्राजा स्वराष्ट्रं यत्कर्षयत्यनवेक्षया ॥
सोऽचिराद्भ्रंशते राज्याज्जीविताच्च सबान्धवः ॥ 2.65.७० ॥
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ॥
तथा राष्ट्रं महाभाग भृतं कर्ममहद्भवेत् ॥ ७१ ॥
यो राष्ट्रमनुगृह्णाति राजा सुपरिरक्षति ॥
तं प्रजाश्चोपजीवन्ति विन्दते सुमहत्फलम् ॥ ७२ ॥
दुह्याद्धिरण्यं धान्यं च मही राज्ञा सुरक्षिता ॥
नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ॥ ७३ ॥
गोपिनो हि सदा कार्यः संविभागः प्रियाणि च ॥
अजस्रमुपयोक्तव्यं फलं तेभ्यस्तथैव च ॥ ७४ ॥
सर्वं कर्मेदमायत्तं विधानं चैव पौरुषम् ॥
तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥ ७५ ॥
एवं महीं पालयतोऽस्य भर्तुर्लोकानुरागः परमो भवेत्तु॥
लोकानुरागप्रभवा हि लक्ष्मीर्लक्ष्म्या भवेच्चैव परश्च लोकः ॥७६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०राम पुष्करसंवादे राजधर्मवर्णनन्नाम पञ्चषष्टितमोऽध्यायः ॥६५॥
2.66
राम उवाच ॥
दैवे पुरुषकारे च किं ज्यायस्तद्वदस्व मे॥
अत्र मे संशयो देव संशयच्छिद्भवाँस्तथा ॥ १ ॥
पुष्कर उवाच ॥
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् ॥
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥२॥
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते॥
मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥३॥
येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम ॥
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥ ४ ॥
कर्मणा प्राप्यते लोके राजन्सम्यक्तथा फलम् ॥
पौरुषेणाप्यते राम मार्गितव्यं फलं नरैः ॥ ५ ॥
दैवमेव न जानाति नरः पौरुषवर्जितः ॥
तस्मात्सत्कार्ययुक्तस्य दैवं तु सफलं भवेत् ॥ ६ ॥
पौरुषं चैव सम्पत्त्या काले फलति भार्गव ॥
दैवं पुरुषकारश्च कालश्च मनुजोत्तम ॥ ७ ॥
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥
कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ॥ ८ ॥
तास्तु कालेन दृश्यन्ते नैवाकाले कथञ्चन ॥
तस्मात्सदैव कर्तव्यं सधर्मं पौरुषं नृभिः ॥ ९ ॥
विपत्तावपि यस्येह परलोके फलं धुवम् ॥
नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ॥
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥2.66.१ ०॥
त्यक्तालसान्दैवपरान्मनुष्यानुत्थानयुक्तान्पुरुषान्हि लक्ष्मीः॥
अन्विष्य यत्नाद्वृणुते द्विजेन्द्र तस्मात्समुत्थानवता हि भाव्यम्॥११॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे पुरुषकाराध्यायो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥
2.67
राम उवाच ॥
उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते ॥
लक्षणं च तथा तेषां प्रयोगं वरुणात्मज ॥ १ ॥
पुष्कर उवाच ॥
सामभेदौ तथा राम दण्डं च मनुजोत्तम ॥
उपेक्षा च तथा माया इन्द्रजालञ्च भार्गव ॥ २ ॥
प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु ॥
द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥ ३ ॥
तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ॥
तच्च साधुप्रियं ते च सामसाध्या न राम ते ॥ ४ ॥
महाकुलीना ऋजवो धर्मनिष्ठा जितेन्द्रियाः ॥
सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥ ५ ॥
तथ्यं च साम कर्तव्यं कुलशीलादिवर्णनम् ॥
तथा तदुभयं राम कृतानां चैव वर्णनम्॥६॥
अनयैव तथा युक्त्या कृतज्ञख्यापनं स्वकम् ॥
एवं सान्त्वेन कर्तव्या वशगा धर्मतत्पराः ॥ ७ ॥
साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः ॥
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥ ८ ॥
अतिसन्धिकमित्येव पुरुषं सामवादिनम् ॥
असाधवो विजानन्ति तस्मात्तत्तेषु वर्जितम्॥९॥
ये शुद्धवंशा ऋजवः प्रतीता धर्मे स्थिताः सत्यपरा विनीताः ॥
ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राम ॥ 2.67.१०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे सामविधिर्नाम सप्तषष्टितमोऽध्यायः ॥६७॥
2.68
पुष्कर उवाच ॥
परस्परं तु ये दुष्टाः क्रुद्धा भीतावमानिताः ॥
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥ १ ॥
ये तु येनैव दोषेण परस्माद्राम बिभ्यति ॥
ते तु तद्दोषपालेन भेदनीया भृशं ततः ॥ २ ॥
आत्मीयाद्दर्शयेदाशां परस्माद्दर्शयेद्भयम् ॥
एवं हि भेदयेद्भिन्नान्यथावद्वशमानयेत् ॥ ३ ॥
संहिता हि विना भेदं शक्रेणापि सदःसहा ॥
भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥४॥
स्वमुखेनाथ यद्धेदं भेदं परमुखेन च ॥
परीक्ष्य साधु मन्येऽहं भेदं परमुखाच्छ्रुतम् ॥ ५ ॥
भेद्या स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः ॥
भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः ॥ ६ ॥
अन्तःकोपबहिःकोपौ यत्र स्यातां महीक्षिताम् ॥
अन्तःकोपो महांस्तत्र नाशनः पृथिवी क्षिताम् ॥ ७ ॥
सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः ॥
महिषीभ्लवराजाभ्यां तथा सेनापतेर्द्विज ॥ ८ ॥
अमात्यान्मन्त्रिपुत्राच्च राजपुत्रात्तथैव च ॥
अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ॥ ९ ॥
बहिःकोपे समुत्पन्ने सुमहत्यपि पार्थिवः ॥
शुद्धान्तस्तु महाभाग शीघ्रमेव जयेदरीन् ॥ 2.68.१० ॥
अपि शक्रसमो राजा कोपेनान्तर्विनश्यति ॥
स्वान्तःकोपं प्रयत्नेन तस्माद्यत्नात्परीक्षता ॥ ११ ॥
परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा ॥
रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः ॥ १२ ॥
ज्ञातयः परितप्यन्ते सततं यद्यपि श्रिया ॥
तथापि तेषां कर्तव्यं सुगम्भीरेण चेतसा ॥ १३ ॥
ग्राहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः…
नाज्ञातिरनुगृह्णाति नाज्ञातिः स्नेहमिच्छति ॥१४…
ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः॥१५॥
भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सेन्येन निहन्तुमाजौ ॥
सुसंहितेनाथ ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः ॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भेदविधानन्नामाष्टषष्टितमोऽध्यायः ॥६८॥
2.69
पुष्कर उवाच ॥
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् ॥
सुदत्तेनैव भवति दानेनोभयलोकजित् ॥१॥
स नास्ति राम दानेन वशगो यो न जायते ॥
दानवान्गोचरं नैति तथा रामापदां क्वचित ॥ २ ॥
दानवानेव शक्नोति संहतान्भेदितुं परान् ॥
यद्यप्यलुब्धा गम्भीराः पुरुषाः सागरोपमाः ॥३॥
न गृह्णंति तथाप्येते जायन्ते पक्षपातिनः ॥
अन्यत्रापि कृतं दानं करोत्यन्यांस्तथा परैः ॥ ॥ ४ ॥
उपायेभ्यः प्रयच्छंति दानं श्रेष्ठतमं नराः ॥
दानं संवर्धनं श्रेष्ठं दानं श्रेयस्करं परम् ॥ ५ ॥
दानवानेव लोकेषु पुत्रवत्प्रीयते सदा ॥
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीर ॥
जयन्ति ते राम सुरेन्द्रलोकं सुदुर्जयं यद्विबुधाधिवासम् ॥ ६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामपुष्करसंवादे दानविधिर्नामैकोनसप्ततितमोऽध्यायः ॥६९॥
2.70
पुष्कर उवाच॥
न शक्या ये स्वयं कर्तुं चोपायत्रितयेन तु॥
दण्डेन तान्वशीकुर्याद्दण्डो हि वशकृत्परः ॥ १ ॥
सम्यक्प्रणयनं तस्य सदा कार्यं महीक्षिता ॥
धर्मशास्त्रानुसारेण सुसहायेन धीमता ॥ २ ॥
तस्य सम्यक्प्रणयनं त्रिदशानपि पीडयेत् ॥
वानप्रस्थांश्च धर्मज्ञ निर्देशान्निष्परिग्रहान् ॥ ३ ॥
स्वदेशे परदेशे च धर्मशास्त्रविशारदाः ॥
समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम्॥४॥
आश्रमी यदि वा वर्णी पूज्योऽथवा गुरुर्महान्॥
नादण्ड्यो राम राज्ञा तु यः स्वधर्मे न तिष्ठति…
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ॥
इह राज्यपरिभ्रष्टो नरकं प्रतिपद्यते ॥ ६ ॥
तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः ॥
दण्डप्रणयनं कार्यं लोकानुग्रहकाम्यया ॥ ७ ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ॥
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ ८ ॥
बाल वृद्धातुर यति द्विजाति विकलाबलाः ॥
मत्स्यन्यायेन भक्षेरन्यदि दण्डो न पालयेत् ॥ ९ ॥
देवदैत्योरगनराः सिद्धभूतपतत्रिणः ॥
उत्क्रामेयुः स्वमर्यादां यदि दण्डो न पालयेत् ॥ 2.70.१० ॥
एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च ॥
सर्वविक्रमकोपेषु व्यवसाये च तिष्ठति ॥ ११ ॥
पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ॥
न ब्राह्मणं न धातारं न पूषार्यमणावपि ॥ १२ ॥
यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥
रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा ॥ १३ ॥
विष्णुं देवगणाँश्चान्ये दण्डिनः पूजयन्ति हि ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ॥ १४ ॥
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥
राजदण्डभयादेव पापाः पापं न कुर्वते ॥ १५ ॥
यमदण्डभयादन्ये परस्परभयादपि ॥
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥ १६ ॥
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥ ॥
तस्माद्दम्यान्दमयति उद्दण्डान्दण्डयत्यपि ॥ १७ ॥
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥
दण्डस्य भीतैस्त्रिदशैः समस्तैर्भागो धृतः शूलधरस्य यज्ञे ॥
चक्रुः कुमारं ध्वजिनीपतिं च वरं शिशूनां च भयाद्बलस्थम् ॥ १८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० पुष्करोपाख्यानेषु दण्डप्रशंसा नाम सप्ततितमोऽध्यायः ॥ ७० ॥
2.71
राम उवाच ॥
दण्डप्रणयनार्थाय राजा सृष्टः स्वयंभुवा ॥
देवभागानुपादाय सर्वभूताभिगुप्तये ॥ ॥ १ ॥
तेजसा यदयं कश्चिन्नैव शक्नोति वीक्षितुम् ॥
तदा भवति लोकेषु राजा भास्करवत्प्रभुः ॥ २ ॥
यदस्य दर्शने लोकः प्रसादमुपगच्छति ॥
नयनानन्दकारित्वात्तदा भवति चन्द्रमाः ॥ ३ ॥
चारैर्यदायं व्याप्नोति सर्वलोकं यदृच्छया ॥
तदा भवति लोकेषु राजा देवः समीरणः ॥ ४ ॥
यदाऽपराधिनां चैव विधत्ते निग्रहं नृपः ॥
तदा भवति लोकेषु राजा वैवस्वतः सदा ॥ ५ ॥
यदा भवति माहात्म्यात्क्रुद्धबुद्धान्नरान्नृपः ॥
अनिच्छन्नपि लोकेषु तदा भवति पावकः ॥ ६ ॥
करोति च यदा दानं धनानां सर्वतो नृपः ॥
विसर्गार्थं सुरश्रेष्ठ तदा भवति वित्तदः ॥ ७ ॥
यदा च धनधाराभिर्वर्षन्प्लावयते जगत् ॥
तदा स वरुणः प्रोक्तो राजा नयविशारदैः ॥ ८ ॥
क्षमा बलेन मनसा धारयन्सकलाः प्रजाः ॥
अविशेषेण धर्मज्ञ पार्थिवः पार्थिवो भवेत् ॥ ९ ॥
यदाधिपत्येन जनान्समग्रान्परिरक्षति ॥
तदा भवति देवेन्द्रः सर्वभूतानुकम्पिता ॥2.71.१०॥
उत्साहमंत्रशक्तिर्या प्रभुशक्तिश्च दैविकी ॥
चतस्रः शक्तयस्तत्र वैष्णव्यः परिकीर्तिताः ॥ ११ ॥
कः समर्थः प्रजाः पातुं विना वैष्णवतेजसा ॥
तिस्रस्तु शक्तयस्तस्य वैष्णव्यः पृथिवीपते ॥ १२ ॥
दण्डप्रणयनं सम्यक् श्रोतुमिच्छामि तत्त्वतः ॥
कथं स्वविषये तस्य दण्डनीतिर्भवेद्ध्रुवा ॥ १३ ॥
कथं च दण्डं प्रणयन्नरेन्द्रो धर्मेण युज्येद्यशसा च वीर ॥
अर्थेन कामेन च स सर्वमेतद्ब्रवीहि यादोगण नाथपुत्र ॥ १४ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामवाक्याध्यायो नामैकसप्ततितमोऽध्यायः॥७१॥
2.72
पुष्कर उवाच ॥
दण्डप्रणयनं राम स्वदेशे शृणु भूभुजाम् ॥
यस्य सम्यक्प्रणयनात्स्वर्गभाक्पार्थिवो भवेत् ॥ १ ॥
त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत् ॥
कृष्णलानां तथा षष्ट्या कर्षार्धं राम कीर्तितम् ॥ २ ॥
सुवर्णश्च विनिर्दिष्टो राम षोडशमाषकः ॥
निष्कं सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः ॥ ३ ॥
ताम्ररूप्यसुवर्णानां मानमेतत्प्रकीर्तितम् ॥
ताम्रकर्षापको राम प्रोक्तः कार्षापणो बुधैः ॥ ४ ॥
पणानां द्वे शते सार्धे प्रथमं साहसः स्मृतः ॥
मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ॥ ५ ॥
बालदायादकं रिक्थं तावद्राजानुपालयेत् ॥
यावत्स स्यात्समावृत्तो यावद्वातीतशैशवः ॥ ६ ॥
वेश्यापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ॥
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ ७ ॥
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः ॥
ताञ्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ ८ ॥
प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ॥
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ९ ॥
ममेदमिति यो ब्रूयात्सोऽनुयुक्तो यथाविधि ॥
सम्पाद्य रूपसंख्यादीन्स्वामी तद्द्रव्यमर्हति ॥ 2.72.१० ॥
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ॥
वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ११ ॥
प्रनष्टाधिगतं रिक्थं तिष्ठेदर्थैरधिष्ठितम् ॥
यांस्तत्र चौरान्गृह्णीयाद्घातयेत्कुञ्जरेण तान् ॥ १२ ॥
ममेदमिति यो ब्रूयादसत्येना तथा निधिम् ॥
तस्य दण्डं हरेद्राजा स्ववित्तस्याष्टमांशकम् ॥ १३ ॥
चौरैरमुषितो यस्तु मुषितोऽस्मीति भाषते ॥
तत्प्रदातरि भूपाले स दण्ड्यस्तावदेव तु ॥ १४ ॥
यो यावन्निह्नु तार्थं मिथ्या यो वा वदेत्ततः ॥
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं धनम् ॥ १५ ॥
कूटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः ॥
प्रमापयेन्महाभाग ब्राह्मणं तु विवासयेत् ॥ १६ ॥
यत्स्वामिनाननुज्ञातमाधिं भुङ्क्ते विचक्षणः ॥
अवध्यमूलं कर्तव्यं तस्य दण्डं महीक्षिता ॥
वसा - - - - -तथा धर्मो न हीयते ॥ १७ ॥
यो निक्षेपं याचयति यश्च निक्षिप्य याचते ॥
तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं धनम् ॥ १८ ॥
उपदाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ॥
ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥ १९ ॥
यो याचितकमादाय न तद्दद्याद्यथाक्रमम् ॥
स निगृह्य बलाद्दाप्यो दण्डो वै पूर्वसाहसम् ॥ 2.72.२० ॥
अज्ञानाद्यः पुमान्कुर्यात्परद्रव्यस्य विक्रयम् ॥
निर्दोषो ज्ञानपर्यन्तं चौरवद्वधमर्हति ॥ २१ ॥
मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति॥
दण्ड्यः समूलं सकलं धर्मज्ञेन महीक्षिता ॥ २२ ॥
द्विजभोज्ये तु सम्प्राप्ते प्रातिवेश्यमभोजनम् ॥
हिरण्यमाषकं दण्ड्यः पापे नास्ति ह्यतिक्रमः ॥ २३ ॥
आमन्त्रितो द्विजो यस्तु वर्तमानः प्रतिग्रहे ॥
निष्कारणं न गच्छेद्यः स दाप्योऽष्टशतं दमम् ॥ २४ ॥
प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ॥ ॥ २५ ॥
भृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् ॥
स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥ २६ ॥
अकाले यस्त्यजेद्भृत्यं दण्ड्यः स्यात्तावदेव तु ॥
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ॥
विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ २७ ॥
क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ॥
सोन्तर्दशाहात्तत्साम्याद्दद्याश्चैवाददीत च ॥ २८ ॥
परेण तु दशाहस्य न दद्यान्नैव दापयेत् ॥
आददद्विददच्चैव राज्ञा दण्ड्यः शतानि षट् ॥ २९ ॥
यस्तु दोषवतीं कन्यां त्वनाख्याय प्रयच्छति ॥
तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ 2.72.३० ॥
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ॥
स शतं प्राप्नुयाद्दण्डं कन्यादोषमदर्शयन् ॥ ३१ ॥
यस्त्वन्यां दर्शयित्वान्यां वोढुः कन्यां प्रयच्छति ॥
उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥ ३२ ॥
वरो दोषानभिख्याप्य यः कन्यां वरयेदिह ॥
दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥ ३३ ॥
प्रदाय कन्यां योऽन्यस्मै पुनस्तां सम्प्रयच्छति ॥
दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ॥ ३४ ॥
सत्यंकारेण वाचा च युक्तं पर्यासमं शयम् ॥
लुब्धोऽन्यत्र तु विक्रेता षट्शतं दण्डमर्हति ॥ ३५ ॥
वहेच्छुल्कं तु विक्रेता सत्यंकारं तु संत्यजेत् ॥
द्विगुणं दण्डयेदेनमिति धर्मो व्यवस्थितः ॥ ३६ ॥
मूल्यैकदेशं दत्त्वा तु यदि क्रेता धनं त्यजेत् ॥
दण्डयः स मध्यमं दण्डं तस्य दण्डस्य मोक्षणात् ॥ ३७ ॥
द्रुह्याद्भृतस्तु यः पालं गृहीत्वा भक्तवेतनम् ॥
स तु दण्ड्यः शतं राज्ञा सुवर्णं स्वाम्यरक्षिणा ॥ ॥ ३८ ॥
दण्डं दत्त्वा न विरमेत्स्वामिभिः कृतलक्षणः ॥
बद्धः कृत्वायसैः पाशैस्तस्य कर्मकरो भवेत् ॥ ३९ ॥
धनुश्चतुःपरीमाणं ग्रामस्य तु समन्ततः ॥
द्विगुणं त्रिगुणं वापि नगरस्य तु कल्पयेत् ॥2.72.४० ॥
वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥
छिद्रं निवारयेत्सर्वं श्वसूकरमुखानुगम् ॥ ४१ ॥
तत्रापरधृतं धान्यं महिष्यः पशवो यदि ॥
न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥४२ ॥
अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा ॥
सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत् ॥ ४३ ॥
अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति ॥ ४४ ॥
पालस्त्वपालकी स्वामी विनाशे क्षत्त्रियस्य तु ॥
भक्षयित्वोपविष्टासु द्विगुणं दण्डमर्हति ॥ ४५ ॥
वैराद्दशगुणं दण्डं विनाशात्क्षत्त्रियस्य तु ॥
गृहं तडागमारामं क्षेत्रं बुद्ध्वा ह्यपाहरन् ॥
शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥ ४६ ॥
सीमाबन्धनकाले तु सीमाबन्धनकारिणाम् ॥
तेषां संज्ञां दधानस्तु जिह्वाच्छेदनमाप्नुयात् ॥४७ ॥
अर्थेनापि च यो विद्यात्संविदं वापि गच्छति ॥
उत्तमं साहसं दण्ड्य इति स्वायंभुवो ऽब्रवीत् ॥ ४८ ॥
स्थापितां चापि मर्यादां ये भिन्द्युः पापकारिणः ॥ ४९ ॥
सर्वे पृथक्पृथग्दण्ड्या राज्ञा प्रथमसाहसम् ॥
शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ॥ 2.72.५० ॥
वैश्यश्च द्विशतं राम शूद्रश्च वधमर्हति ॥
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्यापि शासने ॥ ५१ ॥
वैश्ये चाप्यर्धपञ्चाशच्छूद्रो द्वादशकोऽधमः ॥
क्षत्त्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु ॥ ५२ ॥
शूद्रः क्षत्रियमात्रस्य जिह्वाच्छेदनमाप्नुयात् ॥
पञ्चाशत्क्षत्रियो दण्ड्यस्तथा वैश्याभिशासने ॥ ५३ ॥
शूद्रे चैवार्धपञ्चाशत्तथा धर्मो न हीयते ॥
वैश्यस्याक्रोशने दण्ड्यः शूद्रश्चोत्तम साहसम् ॥ ५४ ॥
शूद्राक्रोशे तथा वैश्यः शतार्धं दण्डमर्हति ॥
सवर्णाक्रोशने दण्डस्तथा द्वादशिकः स्मृतः ॥ ५५॥
वादेषु वचनीयेषु तदेव द्विगुणं भवेत ॥
एकजातिर्द्विजातिं तु वाचा दारुणया क्षिपन् ॥
जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ ५६ ॥
नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः ॥
निखन्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥ ५७ ॥
धर्मोपदेशधर्मेण द्विजानामस्य कुर्वतः ॥
तप्तमासिञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥५८॥
शृतं देशं च जातिं च कर्म शारीरमेव च ॥
वितथं तु ब्रुवन्दण्ड्यो राज्ञा द्विगुणसाहसम् ॥ ५९ ॥
यस्तु पातकसंयुक्तैः क्षिपेद्वर्णान्तरौ विशः ॥
उत्तमं साहसं तस्मिन्दण्डः पात्यो यथाक्रमम् ॥ 2.72.६० ॥
राज्ञो निवेश्य नियमं प्रथमं यान्ति ये मिथः ॥ ६१ ॥
सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु ॥
प्रीत्या मयास्याभिहितं प्रमादेनाथवा वदेत् ॥
भूयो न चैवं वक्ष्यामि स तु दण्डार्धभाग्भवेत् ॥ ६२ ॥
काणं वाप्यथवा खञ्जमन्धं वापि तथाविधम् ॥
तथ्येनापि ब्रुवन्दाप्यो दण्डः कार्षापणावरम् ॥ ६३ ॥
मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम् ॥
आक्षारयच्छतं दण्ड्यः पन्थानं चाददद्गुरोः ॥६४ ॥
गुरुवर्ज्यं तु मार्गार्हे यो मार्गं न प्रयच्छति ॥
स राज्ञा कृष्णलं दण्ड्यस्तस्य पापस्य शान्तये ॥६५॥
एकजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् ॥
तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥६६॥
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ॥
अवसेचयतो मेढ्रमवशब्दयतो गुदम् ॥ ६७ ॥
महासनमभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः ॥ ६८ ॥
कृताङ्कः स विनिर्वास्यो ह्यङ्गं वास्य विकर्तयेत् ॥
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ॥
पादयोर्दण्डिकायां तु ग्रीवायां वृषणेषु वा ॥ ६९ ॥
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ॥ 2.72.७० ॥
अस्थिभेत्ता च षण्णिष्कान्प्रमाप्यश्च प्रमापकः ॥
अङ्गभङ्गकरस्यांगं तदेवापहरेन्नृपः ॥ ७१ ॥
दण्डपारुष्यकृद्दद्यात्समुत्थानव्ययं तथा ॥
अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ॥ ७२ ॥
पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः ॥
पञ्चाशत्तु भवेद्दण्डस्तथैव मृगपक्षिषु ॥ ७३ ॥
कृमिकीटेषु दण्डः स्याद्रजतस्य तु माषकम् ॥
तस्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा ॥७४॥
सस्वामिकानां मरके शेषाणां दण्डमेव तु ॥
वृक्षं तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ॥ ७५ ॥
द्विगुणं दण्डयेच्चैत्ये पथि सीम्नि जलाशये ॥
छेदनादफलस्यापि मध्यमः साहसः स्मृतः ॥ ७६ ॥
गुल्मवल्लीलतानां तु सुवर्णस्य च माषकम् ॥
वृथा छेदे तृणस्यापि दण्डः कार्षापणं भवेत् ॥ ७७ ॥
त्रिभागं कृष्णलान्दण्डयः प्राणिनस्ताडने तथा ॥
देशकालानुरूपेण मूल्यं राम! द्रुमादिषु ॥ ७८ ॥
तत्स्वामिनि तथा दद्याद्दण्डमुक्तं च पार्थिवे ॥
यत्रातिवर्तते युग्यं वैगुण्याद्रजकस्य तु ॥७९ ॥
तत्र स्वामी भवेद्दण्ड्यो नाप्तश्चेद्व्याजको भवेत् ॥
प्राणकश्च भवेदाप्तः प्राजको दण्डमर्हति ॥ 2.72.८०॥
नास्ति दण्डं च तस्यापि तथा त्राहीति जल्पतः ॥ ८१ ॥
द्रव्याणि यो हरेद्यस्य जानतोऽजानतोऽपि वा ॥
स तस्योत्पादयेत्तुष्टिं राज्ञो दद्यात्ततो दमम् ॥ ८२ ॥
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च तां प्रपाम् ॥
स दण्डं प्राप्नुयान्माषं तच्च संप्रतिपादयेत् ॥ ८३ ॥
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बुधः ॥
शेषेऽप्येकादशगुणं दण्डं तस्य प्रकल्पयेत् ॥८४॥
सुवर्णरजतादीनां चोत्तमानां च वाससाम् ॥
पुरुषाणां कुलीनानां नारीणां च विशेषतः ॥
मुख्यानां चैव रत्नानां हरणे वधमर्हति॥८५॥
महापशूनां हरणे वस्त्राणामौषधस्य च ॥
कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ८६ ॥
गोषु ब्राह्मणसंस्थासु स्थूलकार्याविभेदने ॥
अश्वापहारकश्चैव सद्यः कार्योर्धपादिकः ॥ ८७ ॥
सूत्रकार्पासकिल्वानां गोमयस्य गुडस्य च ॥
दध्नः क्षीरस्य तक्रस्य पानीयस्य फलस्य च ॥ ८८. ॥
वेणुवैदलभाण्डानां लवणानां तथैव च ॥
मृण्मयानां च सर्वेषां मृदो भस्मन एव च ॥८९॥
मद्यानां पक्षिणां चैव तैलस्य च घृतस्य च ॥
मांसस्य मधुनश्चैव यच्चान्यत्पशुसम्भवम्॥2.72.९०॥
अन्येषामेवमादीनां मत्स्यानामोदनस्य च ॥
पक्वान्नानां च सर्वेषां तन्मूल्याद्द्विगुणो दमः ॥ ९१ ॥
पुष्पेषु हरिते धान्ये गुल्मवल्लीलतासु च …
अल्पेषु परिपूर्णेषु दण्डः स्यात्पञ्चमाषकः ॥ ९२ ॥
परिपूर्णेषु धान्येषु शाकमूलफलेषु च ॥
निरन्वये शतं दण्ड्यः सान्वये च शतं दमः ॥ ९३ ॥
येनयेन यथाङ्गेन स्तेनो नृषु विचेष्टते ॥
तत्तदेव हरेदस्य प्रत्यादेशाय पार्थिवः ॥ ९४ ॥
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षु द्वे च मूलके ॥
त्रपुसोर्वारुकौ द्वौद्वौ तावन्मानं फलेषु च ॥ ९५ ॥
तथा च सर्वधान्यानां मुष्टिग्राहेण भार्गव ॥
शाकं शाकप्रमाणेन गृह्यमाणो न दुष्यति ॥ ९६ ॥
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ॥
तृणं च गोभ्यो दानार्थमस्तेयं मनुरब्रवीत् ॥ ९७ ॥
अदेववाटजं पुष्पं देवतार्थं तथैव च ॥
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ९८ ॥
शृङ्गिणं नखिनं चापि दंष्ट्रिणं वा वधोद्यतम् ॥
यो हन्यान्न स पापेन लिप्यते मनुजः क्वचित् ॥ ९९ ॥
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ॥
आततायिनमायान्तं हन्यादेवाविचारयन् ॥ 2.72.१०० ॥
नाततायिवधे दोषः कर्तुर्भवति कश्चन ॥
प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमर्हति ॥ १०१ ॥
गृहक्षेत्राभिहर्तारं तथा पत्न्यभिगामिनम् ॥
अग्निदं गरदं चैव तथा हस्तोद्यतायुधम् ॥ १०२ ॥
अभिचारं च कुर्वाणं राजगामि च पैशुनम् ॥
एते हि कथिता लोके धर्मज्ञैराततायिनः ॥ १०३ ॥
परस्त्रियं न संभाषेत्तीर्थेऽरण्ये गृहेऽपि वा ॥
नदीनां चैव संभेदे संग्रहणमवाप्नुयात् ॥ १०४ ॥
न संभाषं सह स्त्रीभिः प्रतिषिद्धं समाचरेत् ॥
प्रतिषिद्धस्तु संभाषः सुवर्णं दण्डमर्हति ॥ १०५ ॥
नैष चारेणदारेषु विधिर्नात्मोपजीविषु ॥
सज्जयन्ति मनुष्यैस्ते निगूढं विचरन्त्युत ॥ १०६ ॥
किञ्चिदेव तु सख्यं स्यात्संभाषेताभिचारयन् ॥
प्रेष्यासु चैव सर्वाभिरहः प्रव्रजितासु च ॥ १०७ ॥
योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ॥
सकामां दूषयाणस्तु प्राप्यः प्रथमसाहसम् ॥ १०८ ॥
भिक्षुकोऽप्यथवा नारी योऽपि च स्यात्कुशीलवः ॥
प्रविशेत्प्रतिषिद्धस्तु प्राप्नुयाद्द्विशतं दमम् ॥ १०९ ॥
यश्च संचारकस्तत्र पुरुषः स तथा भवेत् ॥
पारदारिकवद्दण्ड्यो यश्च स्यादवकाशदः ॥ 2.72.११० ॥
बलात्संदूषयन्यस्तु परभार्यां नरः क्वचित् ॥
वधदण्डो भवेत्तस्य नापराधो भवेत्स्त्रियाः ॥ १११ ॥
रजस्तृतीयं या कन्या स्वगृहे प्रतिपद्यते ॥
अदण्ड्या सा भवेद्राज्ञा वरयन्ती पतिं स्वयम् ॥ ११२ ॥
स्वदेशे कन्यकां दत्त्वा तामादाय तथा व्रजन् ॥
परदेशे भवेद्वध्यः स्त्रीचौरः स तथा भवेत् ॥ ११३ ॥
अद्रव्यां मृतपत्नीं तु संगृह्णन्नापराध्यति ॥
सार्थां वै तां च गृह्णानो दण्डमुत्तममर्हति ॥ ११४ ॥
उत्कृष्टं या भजेत्कन्या देया तस्यैव सा भवेत् ॥
जघन्यं सेवमानां च संयतां वासयेद्गृहे ॥ ११५ ॥
उत्तमां सेवमानस्तु जघन्यो वधमर्हति ॥
जघन्यमुत्तमा नारी सेवमाना तथैव च ॥ ११६ ॥
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता ॥
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥ ११७ ॥

वासयेत्स्वैरिणीं नित्यं सवर्णेनाभिदूषिताम् ॥ ११८ ॥
ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् ॥
मासं च मलिना नित्यं सा ग्रासान्प्राप्नुयाद्दश ॥ ११९ ॥
ब्राह्मणः क्षत्त्रियो वैश्यः क्षत्त्रविट्शूद्रयोनयः …
व्रजन्दाप्यो भवेद्राम दण्ड उत्तमसाहसम् ॥ 2.72.१२० ॥
वैश्यागमे तु विप्रस्य क्षत्त्रियस्यन्त्यजागमे ॥
मध्यमं प्रथमं वैश्यो दण्ड्यः शद्रागमे भवेत् ॥ १२१ ॥
शूद्रः सवर्णाऽगमने शतं दण्ड्यो महीभुजा ॥
वैश्यश्च द्विगुणं राम क्षत्त्रियस्त्रिगुणं तथा ॥ १२२ ॥
ब्राह्मणश्च भवेद्दण्ड्यस्तथा राम चतुर्गुणम् ॥
गुप्तास्वेव भवेद्दण्डमगुप्तास्वपि तत्स्मृतम् ॥ १२३ ॥
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ॥
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ॥ १२४ ॥
भागिनेयी तथा चैव राजपत्नी तथैव च ॥
इत्यगम्यास्तु निर्दिष्टास्तासां तु गमने नरः ॥ १२५ …
शिश्नस्योत्कर्तनं कृत्वा ततस्तु वधमर्हति ॥
भ्रातृभार्यागमे पूर्वाद्दण्डस्तु वधमर्हति ॥ १२६ ॥
चण्डालीं वा श्वपाकीं वा गच्छन्वधमवाप्नुयात् ॥
तिर्यग्योनौ तु गोवर्ज्यं मैथुनं यो निषेवते ॥ १२७ ॥
स पणं प्राप्नुयाद्दण्डं तस्याश्च यवसोदकम् ॥
सुवर्णं च भवेद्दण्ड्यो गां व्रजन्मनुजोत्तम ॥ १२८ ॥
वेश्यागामी भवेद्दण्ड्यो वेश्याशुल्कसमं पणम् ॥
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ॥ १२९ ॥
वेतनं द्विगुणं दद्याद्दण्डं च त्रिगुणं तथा ॥
अन्यमुद्दिश्य वेश्यां यो नयेदन्यस्य कारणात् ॥ 2.72.१३० ॥
तस्य दण्डं भवेद्राम सुवर्णस्य च माषकम् ॥
नीत्वा भोगं न यो दद्याद्दाप्यो द्विगुणवेतनम् ॥ १३१ ॥
राज्ञा च द्विगुणं दण्ड्यस्तथा धर्मो न हीयते ॥
बहूनां व्रजतामेकां सर्वे तद्द्विगुणं दमम् ॥ १३२ ॥
सर्वे पृथक्पृथग्राम दण्डं च द्विगुणं पणात् ॥
न माता न पिता न स्त्री ऋत्विग्याज्यस्य सूनवः ॥ १३३ ॥
अन्योन्याः पतितास्त्याज्यास्त्यागे दण्ड्यः शतानि षट् ॥
पतिता गुरवस्त्याज्या न तु माता कदाचन ॥१३४॥
गर्भधारणपोषाभ्यां तेन माता गरीयसी ॥
संदंशहीनौ कर्तव्यौ कूटाक्षोपधिदेविनौ ॥ १३५ ॥
अधीयानमनध्याये दण्डः कर्षापणत्रयम् ॥
अध्यापकश्च द्विगुणं तथाचारस्य लङ्घने ॥ १३६ ॥
अन्तं सस्यभवे दण्डः सुवर्णस्य च कृष्णलम् ॥
भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः ॥ १३७ ॥
प्राप्तापराधास्ते दण्ड्या रज्वा वेणुदलेन वा ॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथंचन ॥ १३८ ॥
अतोन्यथा यत्प्रहरेत्प्राप्तः स्याच्चौरकिल्बिषम् ॥
द्यूतं समाह्वयं चैव यो निषिद्धं समाचरेत् ॥ १३९ ॥
प्रच्छन्नं वा प्रकाशं वा स दण्ड्यः पार्थिवेच्छया ॥
वासांसि फलके श्लक्ष्णे नेनिज्याद्रजकः शनैः ॥ 2.72.१४० ॥
अतोऽन्यथा तु कुर्वीत दण्डस्स्याद्रुक्मकृष्णलम् ॥
रक्षांस्यधिकृता राम प्रजेयं यैर्विलिप्यते ॥ १४१ ॥
कार्यिकेभ्योऽर्थमादाय हन्युः कार्याणि कार्यिणाम् ॥
तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ १४२ ॥
ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कार्यिणाम् ॥
निर्घृणाः क्रूरमनसः सर्वकार्योपरोधिनः ॥ १४३ ॥
धनोष्मणा पच्यमानांस्तान्निःस्वान्कारयेन्नृपः ॥
कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् ॥ १४४ ॥
स्त्रीबालब्राह्मणघ्नांश्च वध्यांश्चासेविनस्तथा ॥
अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ॥ १४५ ॥
तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ १४६ ॥
एतान्सर्वान्पृथग्विद्यान्महापातकिनो नरान् ॥
महापातकिनो वध्या ब्राह्मणं तु विवासयेत् ॥ १४७ ॥
कृतचिह्नं स्वकाद्देशाच्छृणु चिह्नक्रमं तथा॥
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ॥ १४८ ॥
स्तेये तु श्वपदं विद्याद्ब्रह्महण्यशिराः पुमान् ॥
असम्भाष्या ह्यसंलाप्या असम्पाद्या विशेषतः ॥ १४९ ॥
त्यक्तव्याश्च तथा राम! ज्ञातिसम्बन्धिबान्धवैः ॥
महापातकिनो वित्तमादाय नृपतिः स्वयम् ॥ 2.72.१५० ॥
अप्सु प्रवेशयेद्दण्डं वरुणायोपपादयेत् ॥
सहोढं न विना चौरं घातयेद्धार्मिको नृपः ॥ १५१ ॥
सहोढं सोपकरणं घातयेदविचारयन्॥
ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः ॥ १५२ ॥
भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥
राष्ट्रेषु राष्ट्राधिपतेः समन्ताच्चैव दूषकान् ॥ १५३ ॥
अभ्याघातेषु मध्यस्थाः क्षिप्रं शास्यास्तु चौरवत् ॥
दस्युप्रपीडितानां हि पथि मोहादिदर्शने ॥ १५४ …
शक्तितोनाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥
राज्ञः कोषापहर्तॄंश्च प्रतिकूलेषु च स्थितान् ॥१९५ ॥
अरीणामुपजप्तॄँश्च घातयेद्विविधैर्वधैः ॥
सन्धिं भित्त्वा तु ये चौर्यं राज्ञः कुर्वंति तस्कराः ॥ १५६ ॥
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥
तडाकभेदकं हन्यादप्सु शुद्धवधेन तु ॥१५७॥
यस्तु पूर्वं निवृत्तस्य तडाकस्योदकं हरेत् ॥
आगमं वाप्यपां कुर्यात्स दाप्यः पूर्वसाहसम् ॥१५८॥
कोष्ठागारायुधागारदेवतागारभेदकान् ॥
पापान्पापसमाचारान्घातयेच्छीघ्रमेव तान्॥१५९॥
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ॥
स हि कार्षापणं दण्ड्यस्तममेध्यं च शोधयेत्॥ ॥2.72.१६०॥
आपद्गतोऽथवा वृद्धो गर्भिणी बाल एव वा ॥
परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः॥१६१॥
प्रथमं साहसं दण्ड्यः यश्च मिथ्याचिकित्सकः ॥
पुरुषे मध्यमं दण्ड्यस्तूत्तमे च तथोत्तमम् ॥१६२॥
संक्रमध्वजयष्टीनां प्रतिमानां च भेदकान् ॥
प्रतिकुर्युश्च तत्सर्वं दद्युः पञ्चशतानि च॥१६३॥
अदूषितानां द्रव्याणां दूषणे भेदने तथा ॥
मणीनामपि भेदस्य दण्डः प्रथमसाहसः ॥ १६४ ॥
समैश्च विषमं यो वै कुरुते मूल्यतोऽपि वा ॥
समाप्नुयान्नरः पूर्वं समं वाधममेव वा ॥ १६५ ॥
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ॥
क्लिश्यन्तो यत्र दृश्यन्ते विकृताः पापचारिणः ॥ १६६ ॥
प्राकारस्य तु भेत्तारं परिखानां च भेदकम् ॥
द्वाराणां चैव भेत्तारं क्षिप्रं निर्वासयेत्पुरात् ॥ १६७ ॥
मूलकर्माभिचारेषु कर्तव्यो द्विगुणो दमः ॥
अबीजविक्रयी दैवबीजोत्कृष्टस्तथैव च ॥ १६८ ॥
मर्यादाभेदकश्चैव विकृतं वधमाप्नुयात् ॥
सर्वसङ्करपापिष्ठं हेमकारं नराधिपः ॥ १६९ ॥
अन्याये वर्तमानं तु लवशश्छेदयेच्छरैः ॥
द्रव्यमादाय वणिजामनर्घेणावरुन्धताम् ॥ 2.72.१७० ॥
राजा पृथक्पृथक्कुर्याद्दण्डमुत्तमसाहसम् ॥
द्व्यावदूषको यश्च प्रतिच्छन्दकविक्रयी॥ १७१ ॥
मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमम् ॥
शास्त्राणां यज्ञतपसां देशानां क्षेपको नरः ॥ १७२ ॥
देवतानां सतीनां वै तूत्तमं दण्डमर्हति ॥
एकस्य दण्डपारुष्ये बहूनां द्विगुणो दमः ॥१७३ ॥
कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ॥
मध्यमं ब्राह्मणं राजा विषयाद्विप्रवासयेत् ॥ १७४ ॥
लशुनं च पलाण्डुं च सूकरं ग्रामकुक्कुटम् ॥
तथा पञ्चनखं सर्वं भक्ष्यादन्यत्र भक्षिणम् ॥ १७५ ॥
विवासयेत्क्षिप्रमेव ब्राह्मणं विषयात्स्वकात् ॥
अभक्ष्यभक्षणे दण्ड्यः शूद्रो भवति कृष्णलम् ॥ १७६ ॥
ब्राह्मणक्षत्त्रियविशां चतुस्त्रिद्विगुणं हितम् ॥
यः साहसं कारयति स दद्याद्द्विगुण दमम् ॥ १७७ ॥
यश्चेदमुक्त्वाहं दाता कारयेत्स चतुर्गुणम् ॥
संदिष्टस्याप्रदातारं समुद्रगृहभेदकम् ॥ १७८ ॥
पञ्चाशत्पणिको दंडस्तयोः कार्यो महीक्षिता ॥
अस्पृश्येषु शतार्धन्तु मध्योऽधो योगकर्मकृत् ॥ १७९ ॥
पुंस्त्वहर्ता पशूनां च दासीगर्भविनाशकृत् ॥
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ॥ 2.72.१८०॥
अव्रजन्बाढमुक्त्वा च तथैव च निमन्त्रणात् ॥
एते कार्षापणशतं सर्वे दण्ड्या महीक्षिता ॥ १८१ ॥
दुःखोत्पादि गृहे द्रव्यं क्षिपन्दण्ड्यस्तु कृष्णलम् ॥
पितापुत्रविरोधे तु साक्षिणां द्विशतो दमः ॥ १८२ ॥
तुलाशासनमानानां कूटकृन्नाणकस्य च ॥
एभिश्च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम् ॥ १८३ ॥
विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् ॥
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ १८४ ॥
क्षेत्रवेश्मग्रामवननिवीतखलदाहकाः ॥
राजपत्न्यभिगामी च दग्धव्याश्च कटाग्निना ॥ १८५ ॥
ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम् ॥
पारदारिकचौरौ च मुञ्चतो दण्डमुत्तमम् ॥ १८६ ॥
अभक्ष्येण द्विजं दूष्य दण्डमुत्तमसाहसम् ॥
क्षत्रियो मध्यमं वैश्यः प्रथमं शूद्रमर्धिकम् ॥ १८७॥
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा॥
राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥ ॥ १८८ ॥
यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः …
तमायातं पुनर्जित्वा दण्डद्येद्द्विगुणं दमम्॥१८९॥
आह्वानकारी वध्यः स्यादनाहूतमथाह्वयन्॥
दण्डिकस्य यो हस्तादभियुक्तः पलायते॥2.72.१९०॥
हीनः पुरुषकारेण तद्दद्याद्दाण्डिको धनम्॥
प्रेष्यापराधात्प्रेष्यस्य स दण्डं दातुमर्हति ॥ १९१ ॥
दण्डार्थं नियमार्थं च नीयमानस्तु बन्धनम् ॥
पथि कश्चित्पलायेत दण्डमष्टगुणं भवेत् ॥ १९२ ।
अनिष्ठितविवादे तु नखरोमावतारणम् ॥
कारयेद्यः स पुरुषो मध्यमं दण्डमर्हति ॥ १९३ ॥
बन्धनं वाथवा वध्यं बलान्मोचयतो भवेत् ॥
वध्ये विमोचिते वध्यो दण्ड्ये द्विगुणदण्डभाक् ॥ १९४ ॥
दुर्मृष्टव्यवहाराणां सभ्यानां द्विगुणो दमः ॥
ज्ञात्वा त्रिंशद्गुणं दण्डं प्रक्षेप्यमुदके भवेत्॥ ॥ १९५ ॥
अल्पे दण्डेधिकं कृत्वा विपुले चाल्पमेव च ॥
ऊनाधिकं तु तद्दण्डं सद्यो दद्यात्स्वकाद्गृहात् ॥ १९६ ॥
यावद्वध्यः स वध्येत तावद्वध्यस्य मोक्षणात् ॥
न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ॥ १९७ ॥
वध्ये विवासयेद्राष्ट्रात्समग्रधनमक्षतम् ॥
न जातु ब्राह्मणवधात्पापमप्यधिकं क्वचित् ॥ १९८ ॥
यस्मात्तस्मात्प्रयत्नेन ब्रह्महत्यां विवर्जयेत् ॥

अयशोमहदाप्नोति नरकं चैव गच्छति ॥ १९९ ॥
ज्ञात्वापराधं पुरुषं च राजा कालं तथा चानुमते द्विजानाम् ॥
दण्ड्येषु दण्डं परिकल्पयेत पापस्य ये तच्छमनं न कुर्युः ॥ 2.72.२०० ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० परशुरामं प्रति पुष्करोपाख्यानेषु दण्डप्रणयनन्नाम द्विसप्ततितमोऽध्यायः ॥७२॥
2.73
राम उवाच ॥
कुर्याद्दण्डप्रणयनं प्रायश्चित्तमकुर्वताम् ॥
नृणां राजा ततो ब्रूहि प्रायश्चित्तविधिं मम ॥ १ ॥
पुष्कर उवाच ॥
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ॥
कामचारकृतेऽप्येतन्मतं मे श्रुतिदर्शनात् ॥ २॥
प्रायश्चित्तैः शमं याति पापं कृतमसंशयम् ॥
राजदण्डाच्छमं याति प्रायश्चित्तमकुर्वताम् ॥ ३ ॥
प्रायश्चित्तविहीना ये राजभिश्चाप्यवासिताः ॥
नरकं प्रतिपद्यन्ते तिर्यग्योनिं तथैव च ॥ ४ ॥
मानुष्यमपि चासाद्य भवन्तीह तथांकिताः ॥
प्रायश्चित्तमतः कार्यं कल्मषस्यापनुत्तये॥५॥
राजक्रुद्धातुरान्नं च न भुञ्जीत कदाचन ॥
तथैवाह्वायकस्यान्नं पदा स्पृष्टं च कामतः॥६…
महापातकिना स्पृष्टमवलीढं पतत्रिणा ॥
त्र्यृबीमपक्वं यश्चापि स्पृष्टं यच्चाप्युदक्यया ॥ ७ ॥
गणान्नं गणिकान्नं च विद्विषां यज्जुगुप्सितम ॥
स्तेनस्य चैव तीक्ष्णस्य वार्धुषेर्गायनस्य च ॥८ ॥
दीक्षितस्य कदर्यस्य बद्धस्य निगडैरपि ॥
अभिशस्तस्य षण्ढस्य पुंश्चल्या दांभिकस्य च ॥९॥
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥
अनर्चितं वृथा मांसमवीरायाश्च योषितः ॥ 2.73.१० ॥
द्विषदन्नं च दासान्नमुग्रान्नं चाप्यचाक्षुषम् ॥
पिशुनानृतिनोश्चान्नमस्त्रविक्रयिणस्तथा ॥ ११ ॥
रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥ १२ ॥
परिवित्तेश्च दुष्टस्य बन्दिनः कितवस्य च ॥
कुण्डगोलकयोश्चैव स्त्रीजितस्य तथैव च ॥ १३ ॥
कर्मारस्य निषादस्य रङ्गावतरकस्य च ॥
सुवर्णकर्तुवेनस्य चैलनिर्णेजकस्य च ॥ १४ ॥
मिथ्याप्रव्रजितस्यान्नं तैलिकस्य तथैव च ॥
तथैव वृषलस्यान्नं ब्राह्मणेनानिमन्त्रितम् ॥ १५ ॥
एषामन्यतमस्यान्नममत्यात्त्वा त्र्यहं क्षिपेत ॥
मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥ १६ ॥
महापातकयुक्तस्य सूतिकस्य तथैव च ॥
भुक्त्वान्नं चर्मकारस्य मत्या कृच्छ्रं चरेद्द्विजः ॥ १७॥
चण्डालश्वपचान्नं च भुक्त्वा चान्द्रायणं चरेत॥
अन्तश्चतुर्थिप्रेतान्नं गवाघ्रातं तथैव च ॥ १८ ॥
शूद्रोच्छिष्टं लघूच्छिष्टं सूतिकान्नं तथैव च ॥
तप्तकृच्छ्रं तु कुर्वीत तस्य पापस्य शान्तये ॥ १९ ॥
भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः ॥
भुक्त्वा तु क्षत्रियाशौचे तथा कृच्छ्रं विधीयते ॥ 2.73.२० ॥
वैश्याशौचे तथा भुक्त्वा तप्तकृच्छ्रं समाचरेत् ॥
शूद्राशौचे द्विजो भुक्त्वा तथा चान्द्रायणं चरेत्॥२१॥
अशौचे यस्य यो भुक्त्वा सोऽप्यशुद्धस्तथा भवेत्॥
तावद्यावदशौचं तु तस्य राम प्रकीर्तितम्॥२२॥
तस्याशौचव्यपगमे प्रायश्चित्तं समाचरेत् ॥
भुक्त्वोत्तमस्य चाशौचे क्षपेत दिवसं तथा ॥२३॥
मृतपञ्चनखात्कूपादमेध्येन सकृद्युतात् ॥
अपः पीत्वा त्र्यहं तिष्ठेत्सोपवासो द्विजोत्तमः ॥ २४ ॥
द्विदिनं क्षत्त्रियस्तिष्ठेदेकाहं वैश्य एव च ॥
नक्ताशी च तथा शूद्रः पञ्चगव्येन शुध्यति ॥ २५ ॥
भुक्त्वाप्यथ कषायांश्च पीत्वामेध्यान्यपि द्विजः ॥
तावद्भवत्यप्रयतो यावदन्नं व्रजत्यधः ॥ २६ ॥
विड्वराहखरोष्ट्राणां गोमायुकपिकाह्वयोः ॥
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ २७ ॥
शुष्काणि जग्ध्वा मांसानि भौमानि कवकानि च ॥
अज्ञातं चैव सूनास्थं चैतदेव व्रतं चरेत् ॥ २८॥
क्रव्यादसूकरोष्ट्राणां गोमायोः कपिकाकयोः॥
गोनराश्वखरोष्ट्राणां भोक्ता पञ्चनखाश्च ये ॥२९॥
मांसं च कौञ्जरं भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति॥
ग्रामकुक्कुटच्छत्राकौ भुक्त्वा चान्द्रायणं चरेत्॥2.73.३०॥
केशकीटावपन्नेऽपि पिबेद्ब्रह्मसुवर्चलाम्॥
आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति॥३१॥
संकल्पिते तथा भुक्त्वा त्रिरात्रोपोषणं भवेत् ॥
व्रतचारी तथा भुक्त्वा मधुमांसं च भार्गव॥३२॥
लशुनं गृञ्जनं चैव पालण्डुं मद्यमेव च॥
लशुनादिसमं यच्च गन्धेन मनुजोत्तम॥३३॥
भुक्त्वा चान्द्रायणं कुर्यान्मासं क्रव्यभुजस्तथा ॥
लोहितान्वृक्षनिर्यासान्कुस्थानप्रभवांस्तथा॥३४॥
शेलुं गव्यं च पेयूषं विषं श्लेष्मातकं मृदम् ॥
वृथा कृसरसंयावपायसापूपशष्कुलीः॥३५॥
गवां च महिषीणां च वर्जयित्वा तथाप्यजाम ॥
सर्वक्षीराणि वर्ज्यानि तेषां चैवाप्यनिर्दशम्॥३६॥
स्यंदनेऽमेध्यभक्षाया विवत्सायाश्च वर्जयेत् ॥
दधिवर्ज्यं च शुक्तानि सर्वाण्येव विवर्जयेत् ॥३७॥
शुभैः पुष्पफलैर्यानि भक्तैरभियुतानि च ॥
विष्किराञ्जालपादांश्च रक्तपादांस्तथैव च॥३८॥
सर्वशुष्कांश्च चूडालान्प्रतोदांश्च विवर्जयेत् ॥
वर्तिको वर्तिका चेति तित्तिरश्च कपिञ्जलः ॥ ३९ ॥
भक्ष्यो मयूरश्च तथा पक्षिणां ये विवर्जिताः ॥
शशकः शल्लको गोधा खड्गः कूर्मस्तथैव च॥2.73.४०॥
भक्ष्याः पञ्चनखाः प्रोक्ताः परिवेषाश्च वर्जिताः ॥
पाठीनान्रोहितान्मत्स्याँल्लोहतुण्डांश्च भक्षयेत् ॥ ४१॥
राजीवांश्च सशल्कांश्च भक्ष्यानाहुर्मनीषिणः ॥
अतोऽन्यान्वर्जयेत्सर्वांस्तथा वै जलचारिणः ॥ ४२॥
एतेषां भक्षणाद्राम त्रिरात्रौ क्षपणं भवेत् ॥
चक्रवाकं प्लवं हंसं टिट्टिभं मद्गुमेव च ॥ ४३ ॥
काकोलं च शुकं भासं दात्यूहं सारिकां तथा ॥
बकश्येनबलाकांश्च भुक्त्वा षड्रात्र माचरेत् ॥ ४४ ॥
उपवासस्तथा कार्यः सूनामांसाशने भवेत् ॥
अजाविकानुरोहांश्च पृषतान्माहिषांस्तथा ॥ ४५ ॥
रङ्कुन्यंकूंस्तथैणांश्च गवयांश्चैव भक्षयेत् ॥
भुक्त्वा मांसं ततोऽन्यस्य त्र्यहं तिष्ठेद्बुभुक्षितः ।४६॥
यवगोधूमजं सर्वं पयसश्चैव विक्रियाः ॥
रागषाडवचुक्रादीन्सस्नेहं यच्च किञ्चन … ॥४७॥
एतद्विना पर्युषितं भुक्त्वा चोपवसेद्दिनम् ॥
मद्यभाण्डगता मोहात्पीत्वा वापो द्विजोत्तमः॥४८॥
शङ्खपुष्पाश्रितं क्षीरं पिबेत्तु दिवसत्रयम् …
सुराभाण्डगता पीत्वा सप्तरात्रं तथा पिबेत्॥४९॥
शूद्रोच्छिष्टात्तथा पीत्वा पञ्चरात्रं तथा पिबेत्॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः॥2.73.५०…
स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥
अग्निहोत्रापविद्धाग्निर्ब्राह्मणः कामचारतः ॥५१॥
चान्द्रायणं चरेन्मासं वीरमप्यासनं हितम् ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ ५२ ॥
महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥ ५३ ॥
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः॥५४॥
वर्जितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्॥
निक्षेपस्यापहरणं नराऽश्वरजतस्य च॥५५॥
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम्॥
रेतःसेकस्स्वयोनीषु कुमारीष्वन्त्यजासु च॥५६॥
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥
गोवधोऽयाज्यसंयाज्यपारदार्यात्मविक्रयः॥५७॥
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥
परिवर्तितानुजेन परिवेदनमेव च ॥ ५८॥
तयोर्मानं च कन्यायास्तयोरेव च याजनम् ॥
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ॥५९॥
तडागारामदाराणामपत्यस्य च विक्रयः ॥
व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ॥ 2.73.६० ॥
भृतादध्ययनादानमविक्रेयस्य विक्रयम् ॥
सर्वाकरेष्वधीकारो महायन्त्र प्रवर्तनम् ॥ ६१ ॥
हिंस्रौषधिस्त्रियाजीवी क्रिया याचनकर्म च ॥
इन्धनार्थमशुष्काणां द्रुमाणां चैव पातनम् ॥ ६२ ॥
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥
अनाहिताग्निता स्तेयमगम्यास्त्रीनिषेवणम् ॥ ६३॥
स्त्रीशूद्रविट्क्षत्त्रिवधो नास्तिक्यञ्चोपपातकम् ॥
ब्राह्मणस्य रुजा कृत्यं घ्रातिरघ्रेयमद्ययोः ॥ ६४ ॥
जैह्मं च पुंसि मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥
श्वखरोष्ट्रमृगेभानामजाव्योश्चैव मारणम् ॥ ६५ ॥
संकीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च ॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ॥ ६६ ॥
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥
कृमि कीटवयोहत्यामन्यानुगतभोजनम् ॥ ६७ ॥
फलैधकुसुमस्तेयमधैर्यं चपलात्मता ॥
एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् ॥ ६८ ॥
यैर्यैर्व्रतैरपोहेत तानि सम्यङ्निबोधत ॥
ब्रह्महा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ॥ ६९ ॥
भिक्षेताथ विशुद्ध्यर्थमुपासीनो वृषध्वजम् ॥
लक्षं शस्त्रभृतां वा स्याद्विद्विषामिच्छयात्मनः ॥ 2.73.७० ॥
प्राश्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्छिराः ॥
यजेत वाश्वमेधेन स्वर्जितागोसवेन च ॥ ॥ ७१ ॥
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥
जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् ॥ ७२ ॥
ब्रह्महत्यापनुत्त्वर्थं मितभुङ् नियतेन्द्रियः ॥
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ॥ ७३ ॥
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥
व्रतैरेतैरपोहेत महापातकितान्द्विज ॥ ७४ ॥
उपपातकसंयुक्तो गोघ्नो मासं यवानदेत् ॥
कृतपापो वा निवसेच्चर्मणा तेन संवृतः ॥ ७५ ॥
चतुर्थकालमश्नीयादक्षारलवण मितम् ॥
गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ७६ ॥
दिवाऽनुगच्छेत्ता गाश्च तिष्ठन्नूर्ध्वमपः पिबेत् ॥
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं चरेत् ॥ ७७ ॥
तिष्ठंतीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् ॥
आसीनासु तथासीनो नियतो वीतमत्सरः ॥ ७८ ॥
आतुरामभिषिक्तां च चौरव्याघ्रादिभिर्भयैः ॥
पतित ङ्कलीनां वा सर्वप्राणैर्विमोक्षयेत् ॥ ७९ ॥
उष्णैर्वर्षातिशीतैर्वा मारुते वाति वा भृशम् ॥
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ 2.73.८० ॥
आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथ वा खले ॥
खादमानां न शंसेत पिबन्तं चैव वत्सकम् ॥ ८१ ॥
वृषभैकादशा गास्तु दध्याद्धि चरितव्रतः ॥
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ८२ ॥
बन्धने रोधने वापि योजने च गवां रुजा ॥
भवेद्वा मरणं यत्र निमित्ते तत्र लिप्यते ॥ ८३ ॥
पादमेकं चरेद्गोष्ठे द्वौ पादौ बन्धने चरेत् ॥ ।
योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥ ८४ ॥
कान्तारेष्वथ दुर्गेषु विषमेषु गुहासु च ॥
यदि तत्र विपत्तिः स्यादेकः पादो विधीयते ॥ ८५ ॥
बाधामरणदोषेषु तथैवार्धं विनिर्दिशेत् ॥
दमने वाहने रोधे शकटस्य च योक्त्रणे॥८६॥
नद्यां शकलपाशेषु मृते पादौ समाचरेत् ॥
व्यापन्नानां बहूनां तु बन्धने रोधनेऽपि वा॥८७॥
भिषङ् मिथ्याचरंश्चेह द्विगुणं गोव्रतं चरेत् ॥
शृङ्गभङ्गेऽस्थिभङ्गे वा लांगूलच्छेदनेऽथवा ॥८८॥
यावकं तु पिबेत्तावद्यावत्स्वस्था तु गौर्भवेत् ॥
एका चेद्बहुभिर्दैवाद्यत्र व्यापादिता भवेत् ॥ ८९ ॥
पादंपादं तु हत्यायां चरेयुस्ते पृथक्पृथक् ॥
यन्त्रेण गोश्चिकित्सार्थे मूढगर्भविमोक्षणे ॥ 2.73.९० ॥
यदि तत्र विपत्तिः स्याद्दोषस्तत्र न विद्यते ॥
औषधं स्नेहमाहारं दद्याच्च ब्राह्मणादिषु ॥९१ ॥
दीयमाने विपत्तिः स्याद्दातुर्दोषो न विद्यते ॥
एतदेव व्रतं कुर्युरुपपातकिनस्तथा ॥ ९२ ॥
अवकीर्णी विशुद्ध्यर्थं चान्द्रायणमथापि वा ॥
अवकीर्णी तु कालेन सप्तमेन चतुष्पथे ॥ ९३ ॥
पाकयज्ञविधानेन यजते निभृतं निशि ॥
हुत्वाग्नौ विधिवद्धोमांस्ततस्तु समितित्यृचम् ॥ ९४ ॥
वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः ॥
कामतो रेतसः सेके व्रतस्थस्य द्विजन्मनः ॥ ९५ ॥
आक्रमं च व्रतस्याहुर्धर्मज्ञाः सत्यवादिनः ॥
एतस्मिन्नेव सिद्धार्थे वसित्वा गर्दभाजिनम् ॥ ९६ ॥
सप्तागारं चरेद्भैक्ष्यं स्वकर्मपरिदेवयन् ॥
तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेव कालिकम् ॥ ९७ ॥
उप स्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥
हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ॥ ९८ ॥
राजन्यवैश्यौ चेजाना आत्रेयीमेव च स्त्रियम् ॥
उक्त्वा चैवानृतं साक्ष्ये प्रतिवद्य गुरूँस्तथा॥९९॥
अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ॥2.73.१००॥
तया सकाये निर्दग्धे मुच्यते किल्बिषात्ततः ॥
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव ॥१०१॥
पयो घृतं वा मरणाद्गोशकृद्रसमेव वा॥
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि॥१०२॥
सुरापानापनुत्त्यर्थं चीरवासा जटी ध्वजी॥
सुरा वै मलन्नानां पाप्मा च मलमुच्यते॥१०३॥
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥१०४॥
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥
यक्षरक्षःपिशाचानां मद्यं मांसं सुराशनम् ॥१०५॥
तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥
माध्वीकमैक्षवं टाकं कौलं खार्जूरपानसम् ॥१०६॥
मृद्वीकारसमार्द्वीके मेरेयं नारिकेलजम् ॥
असेव्यानि दशैतानि मद्यानि ब्राह्मणस्य च ॥ १०७ ॥
यस्य कामगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ॥
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ १०८ ॥
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिर्णयम् ॥
सुवर्णस्तेयकृद्विप्रो राजानमभिशस्य तु ॥१०९॥
स्वकर्म ख्यापन्ब्रूयान्मां भवानपि शास्त्विति ॥
गृहीत्वा मुसलं राजा सकृद्दद्यात्तु तं स्वयम् ॥ 2.73.११० ॥
वधेन शुध्यते स्तेनो ब्राह्मणस्तपसैव वा ॥
तपसा त्वपनुत्सुस्तु सुवर्णस्तेयजं मलम् ॥ १११ ॥
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥
गुरुतल्पोऽभिभाष्यैनं तल्पे स्वप्यादयोमये ॥ ११२ ॥
सूर्मीं ज्वलंतीमाश्लिष्य मृत्युना तु विशुध्यति ॥
स्वयं वा शिश्नवृषणावुत्कृत्याधाय स्वाञ्जलौ ॥ ११३ ॥
नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ॥
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ॥ ११४ ॥
प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः ॥
चान्द्रायणं तु त्रीन्मासानभ्यसेन्नियतेन्द्रियः ॥ ११५ ॥
हविष्येण यवाग्वा च गुरुतल्पापनुत्तये ॥
जातिभ्रंशकरं कर्म कृत्वान्यतरमिच्छया ॥ ॥ ११६ ॥
चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥
शंकरायात्र कृत्यासु चासंशोधनमैन्दवम् ॥ ११७ ॥
मलिनीकरणीयेषु तप्तः स्याद्यावकं त्र्यहम् ॥
तुरीयं ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतम् ॥ ११८ ॥
वैश्येऽष्टमेंशो ह्यन्यत्तु शूद्रे ज्ञेयस्तु षोडश ॥
अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ॥ ११९ ॥
वृषभैकसहस्रं गा दद्याच्छुद्ध्यर्थमात्मनः ॥
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ॥ 2.73.१२० ॥
वसेद्दूरतरे ग्रामाद्वृक्षमूलनिकेतनम् ॥
एतदेवाचरेदब्दं प्रायश्चित्तं द्विजोत्तमः ॥ १२१ ॥
प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् ॥
एतदेव व्रतं कृत्स्नं षण्मासाञ्छूद्रहा चरेत् ॥ १२२ ॥
वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ॥
मार्जारनकुलौ हत्वा चाषं मण्डूकमेव वा ॥ १२३ ॥
श्वगोधोलूक काकांश्च शूद्रहत्याव्रतं चरेत् ॥
पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ॥ १२४ ॥
उपस्पृशेत्स्रवन्त्यां वा सूक्तं वा त्रिवृतं जपेत् ॥
अभ्रीं कालायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः ॥ १२५ ॥
पलालभारकं षण्ढं सोमकं चैव माषकम् ॥
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरे ॥ ॥ १२६ ॥
शुके द्विहायनं वत्सं क्रौञ्चं हत्वा द्विहायनम् ॥
हत्वा हंसं बलाकां च वकं बर्हिणमेव च ॥ १२७ ॥
वानरं श्येनभासौ वा स्पर्शयेद्ब्राह्मणाय गाम् ॥
वासो दद्याद्धयं हत्वा पञ्चनीलान्वृषान्गजम् ॥ १२८ ॥
अजं मेषमनड्वाहं खरं हत्वैकहायनम् ॥
क्रव्यादां हरिणीं हत्वा धेनुं दद्यात्पयस्विनीम् ॥ १२९ ॥
अक्रव्यादं वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥
जीवकार्मुकवत्सादीन्पृथग्दद्याद्विशुद्धये ॥ 2.73.१३० ॥
चतुर्णामपि वर्णानां नारीं हत्वा न रागतः ॥
वर्णानामानुपूर्व्येण त्रयाणामविशेषतः ॥ १३१ ॥
प्रमाप्य चाप्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत ॥
धनेन वधनिर्णेकं सर्पादीनामशक्नुवन् ॥ १३२ ॥
एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये ॥
फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ॥ १३३ ॥
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥
अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ॥ १३४ ॥
पूर्णे वा तदनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥
किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे ॥ १३५ ॥
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ॥ १३६ ॥
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥
कृष्णजानामौषधीनां जातानां च स्वयं वने ॥ १३७ ॥
वृथारम्भेण गच्छेद्गां दिनमेकं पयोव्रतः ॥
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ॥ १३८ ॥
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥
धान्यानि धनचौर्याणि कृत्वा कामाद्द्विजोत्तमः ॥ १३९ ॥
स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥
मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ॥ 2.73.१४० ॥
कूपवापीजलानां तु शुद्धिश्चान्द्रायणं स्मृतम् ॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः ॥ १४१ ॥
चरेत्सान्तपनं कृच्छ्रं तं निर्यात्यात्मशुद्धये ॥
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ॥ १४२ ॥
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥
तृणकाष्ठद्रुमाणां तु शुष्कान्नस्य गुडस्य च ॥ १४३ ॥
चैलचर्माऽमिषाणां च त्रिरात्रं स्यादभोजनम् ॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ॥ १४४ ॥
अयस्कांस्योपलानां च द्वादशाहं कणान्नभुक् ॥
कार्पासकीटकोर्णानां द्विशफैकशफस्य च ॥ १४५ ॥
पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः ॥
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ॥ १४६ ॥
अगम्यगमनीयेन व्रतैरेभिरपानुदेत् ॥
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वान्ययोनिषु ॥ १४७ ॥
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥
पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुरेव च ॥ १४८ ॥
मातुश्च भ्रातुस्तनयां गत्वा चाद्रायणं चरेत् ॥
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत बुद्धिमान् ॥ १४९ ॥
ज्ञातयो नोपयमनाः पितुश्च ह्युपयन्नधः ॥
अमानुषीषु पुरुष उदक्यां वामयोनिषु ॥ 2.73.१५० ॥
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ॥ १५१ ॥
गोयानेषु दिवा चैव सवासाः स्नानमाचरेत् ॥
चण्डालान्त्यजस्त्रीयोगाद्भुक्त्वा च प्रतिगृह्य च ॥ १५२ ॥
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं च गच्छति ॥
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ॥ १५३ ॥
यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ॥
सा चेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ॥ १५४ ॥
कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ॥ १५५ ॥
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ॥ १५६ ॥
पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ॥
संवत्सरेण पतति पतितेन सहाचरन् ॥ १५७ ॥
याजनाध्यापनाद्दानादुक्तिपानाशनासनात् ॥
यो येन पतितेनैषां संसर्गं याति मानवः ॥ १५८ ॥
स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ॥
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह ॥ १५९ ॥
निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ॥
दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ॥ 2.73.१६० ॥
अहोरात्रमुपासीरन्न शौचं बान्धवैः सह ॥
निवर्तयेरन्तस्मात्तु संभाषणसहासने ॥ १६१ ॥
दायादस्य प्रदानं च यात्रामेव च लौकिकीम् ॥
ज्येष्ठभागं निवर्तेत ज्येष्ठावाप्तं च यद्वसु ॥ १६२ ॥
ज्येष्ठांशं प्राप्नुयाच्चापि यवीयान्गुणतोऽधिकः ॥
प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवम् ॥ १६३ ॥
तेनैव सार्धं प्राप्येयुः स्नात्वा पुण्ये जलाशये ॥
सत्स्वप्सु तं घटं प्राप्य प्रविश्य भवनं स्वकम् ॥ १६४ ॥
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥
एनमेव विधिं कुर्याद्योषित्सु पतितास्वपि ॥ १६५ ॥
वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥
एनस्विभिरनिर्णिक्तैर्नार्थं किञ्चित्समाचरेत्॥ १६६ ॥
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत कर्हिचित् ॥
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ॥१६७॥
शरणागतहंतॄश्च स्त्रीहंतॄश्च न संवसेत् ॥
येषां द्विजानां सावित्री नानुच्येत यथाविधि ॥ १६८ ॥
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ॥ १६९ ॥
ब्राह्मणाश्च परित्यक्ता येषां मध्ये तदादिशेत् ॥
यद्गर्हितेनार्जयन्ति ब्राह्मणाः कर्मणा धनम । 2.73.१७० ॥
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ॥ १७१ ॥
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥
उपवासकृशं तं तु गोव्रजात्पुनरागतम् ॥१७२ ॥
प्रणतं परिपृच्छेयुः सौम्य सौम्येच्छसीति किम् ॥
सत्यमुक्त्वा तु विप्रेभ्यो वितरेद्यवसं गवाम् ॥! १७३ ॥
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम ॥
व्रात्यानां याजनं कृत्वा परेषामंत्यकर्म च ॥१ ७४ ॥
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुध्यति ॥
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः॥१७५॥
संवत्सरं यताहारस्तत्पापमपगच्छति॥
श्वशृगालोरगैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ॥ १७६॥
गवाश्वोष्ट्रवराहैश्च प्राणायामेन शुद्ध्यति॥
षष्ठान्नकालमशनं संहिताजाप एव च॥ १७७॥
होमश्च शाकलो नित्यमपङ्क्त्यानां विशोधनम्॥
उष्ट्रयानं समारुह्य खरयानं च कामतः॥१७८॥
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति॥
विना भिन्नाप्सु चाद्यन्तः शरीरं संनिवेशयेत्॥१७९॥
सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे॥2.73.१८०॥
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्॥
हुङ्कारं ब्राह्मणस्योक्त्वा त्वंकारं तु गरीयसः॥१८१॥
स्नात्वानश्नन्नहश्चैकमभिवाद्य प्रसादयेत्॥
ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा॥ १८२॥
विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत्॥
अवगूर्य त्वब्दशतं सहस्रमभिहत्य च॥१८३॥
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते॥
शोणितं यावतः पांसून्संगृह्णाति द्विजन्मनः॥१८४॥
तावन्त्यब्दसहस्राणि तत्कर्ता नरकं व्रजेत्॥
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने॥१८५॥
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम्॥
चण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि॥१८६॥
सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनम्॥
चान्द्रायणं पराकं वा द्विजानां तु विशोधनम्॥१८७॥
प्राजापत्यं तु शूद्राणां शेषं तदनुसारतः॥
गुडं कुसुम्भं लवणं तथा धान्यानि यानि च॥१८८॥
कृत्वा गृहे ततो द्वारि तेषां दद्याद्धुताशनम्॥
मृण्मयानां तु भाण्डानां त्याग एव विधीयते॥१८९॥
द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते॥
यस्तस्य भुङ्क्ते पक्वान्नं कृच्छ्रार्धं तस्य दापयेत्॥2.73.१९०॥
शुष्कान्नभोजिनः पादमित्याह भगवान्मनुः॥
कूपे ता नव संतार्य स्पर्शसंकल्पदूषिताः॥१९१॥
शुद्धेयुरुपवासेन पञ्चगव्येन चाप्यथ॥
यस्तु संस्पृश्य चाण्डालमश्नीयाद्वा त्वकामतः॥१९२॥
द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा॥
वर्णसंकरसंकीर्णाश्चण्डालादिजुगुप्सिताः॥१९३॥
भुक्त्वा पीत्वा तथा तेषां षड्रात्रेण विशुध्यति॥
अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः॥ १९४॥
व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव च॥
चण्डालकूपभाण्डेषु अज्ञानाद्यः पिबेज्जलम् ॥ १९५ ॥
द्विजः सान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनम् ॥
उच्छिष्टो यदि संस्पृष्टः शुना शूद्रेण वा द्विजः ॥ १९६ ॥
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥
उच्छिष्टेन यदि स्पृष्ट उच्छिष्टो ब्राह्मणोत्तमः ॥ १९७ ॥
त्रिकालमाचरेत्स्नानं नक्तं भुंजीत वाग्यतः ॥
क्षत्त्रियेण तथा स्पृष्टः स्नानं नक्तं समाचरेत् ॥ १९८ ॥
स्पृष्टः सवर्णेनाचामेदमेध्यं स्पृशते यदि ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥१९९॥
अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके ॥
पक्वान्नेन गृहीतेन मूत्रोच्चारं करोति वै ॥ 2.73.२०० ॥
अनिधायैव तद्द्रव्यं कृत्वांगे उत्तमे स्थितम् ॥
शौचं कृत्वा यथान्यायमुपविश्य यथाविधि॥२०१॥
अन्नमभ्युक्षयेच्चापि उद्धृत्यार्कस्य दर्शयेत् ॥
अर्काभावेऽप्यथाग्नेश्च बस्तस्याथ प्रदर्शयेत् ॥२०२ ॥
त्यक्त्वा ग्रासत्रयं तस्माच्छेषं शुद्धिमवाप्नुयात् ॥
म्लेच्छैर्हृतानां चौरैर्वा कान्तारे वा प्रवासिनाम्॥२०३…
भक्ष्याभक्ष्यविशुद्ध्यर्थं तेषां वक्ष्यामि निष्कृतिम् ॥
पुनः प्राप्य स्वदेशं च वर्णानामनुपूर्वशः ॥ २०४ ॥
कृच्छ्रस्यार्धे ब्राह्मणस्तु पुनः संस्कारमर्हति ॥
पादोनान्ते क्षत्रियस्तु अर्धार्धे वैश्य एव च ॥ २०५ ॥
पादं कृत्वा तथा शूद्रो दानं दत्त्वा विशुध्यति ॥
उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ॥ २०६ ॥
अहोरात्रोषिता सा च शुद्धा स्नानेन शुध्यति ॥
मूत्रं कृत्वा व्रजेन्मार्गं स्मृतिभ्रंशाज्जलं पिबेत् ॥ २०७ ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
( मूत्रोच्चारं द्द्विजः कृत्वाऽप्यकृत्वा शौचमात्मनः ॥ २०८ ॥
मोहाद्भुक्त्वा त्रिरात्रं तु यवान् पीत्वा विशुध्यति ॥)
परित्यक्तमहायज्ञा प्रव्रज्याविच्युताश्च ये ॥२०९॥
अनाशकनिवृत्ताश्च तेषां शुद्धिः प्रवक्ष्यते ॥
चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ॥ 2.73.२१० ॥
जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥
उपानहममेध्यं वा चास्य संस्पृशते मुखम् ॥ २११ ॥
पुत्रिकागोमयौ तस्य पञ्चगव्यं विशोधनम् ॥
वापन विक्रयं चैव नीलवृत्त्युपजीवनम् ॥ २१२ ॥
पतनीयं हि विप्रस्य नीलसूत्रस्य धारणात् ॥
( स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥ २१३ ॥
वृथा तस्य महायज्ञा सूत्रसूत्रस्य धारणात् ॥)
नीलरक्तं यदा वस्त्रं द्विजोंगेषु हि धारयेत् ॥ २१४ ॥
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति॥
नीलदारु यदा भज्येद्ब्राह्मणस्य तु पादयोः ॥ २१५ ॥
शोणितं दृश्यते चास्य द्विजश्चान्द्रायणं चरेत्॥
वापितं यत्र नीलं तु तावदेवाशुचिर्मही ॥ २१६ ॥
प्रमाणं द्वादशाब्दानि अत ऊर्ध्वं शुचिर्भवेत् ॥
अन्त्यजातिः श्वपाकेन संस्पृष्टा स्त्री रजस्वला ॥ २१७ …
चतुर्थेऽहनि शुद्धायाः प्रायश्चित्तं विशोधनम् ॥
त्रिरात्रमुपवासः स्यात्पञ्चगव्यं तथैव च ॥ २१८ ॥
उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला …
यावन्न शुद्धिमाप्नोति नाश्नीयात्तावदेव तु ॥ २१९ ॥
चण्डालश्वपचौ स्पृष्ट्वा शवधूमञ्च सूतिकाम् ॥
शवं स्पर्शयिता श्वानं सद्यः स्नानेन शुध्यति ॥2.73.२२०॥
ना स्पृष्ट्वाऽस्थि तु सस्नेहं स्नात्वा विप्रो विशुध्यति॥
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा॥२२१॥
रथ्याकर्दमतोयेन नाभिस्पृष्टो भवत्यधः॥
मृत्तोयैश्चर्चयेदङ्गं ततः शुद्धिमवाप्नुयात्॥२२२॥
वान्तं विविक्तः स्नात्वा तु घृतं पीत्वा विशुध्यति॥
क्षुरकर्म ततः कृत्वा स्नानेनैव विशुध्यति॥२२३॥
अपाङ्क्तेयैस्तु यः पङ्क्त्यां भुंक्ते कश्चिद्द्विजोत्तमः॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति॥२२४॥
चन्द्रार्कग्रहणे भुक्त्वा द्विजश्चान्द्रायणं चरेत्॥
ब्रह्मचारी शुनादष्टस्त्र्यहं सायं पयः पिबेत्॥२२५॥
गृहस्थो वा त्रिरात्रं तु चैकाहं त्वग्निहोत्रवान्॥
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत्॥२२६॥
बाह्वोश्च त्रिगुणं ज्ञेयं मूर्धनि स्याच्चतुर्गुणम्॥
उद्ग्रन्थमृतकं प्रेतं यः स्पृशेद्ब्राह्मणः क्वचित्॥२२७॥
तस्य शुद्धिं विजानीयात्तप्तकृच्छ्रेण नित्यशः॥
आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः॥२२८॥
तस्य प्रेतक्रियां कृत्वा तप्तकृच्छ्रेण शुध्यति॥
इन्द्रियेषु प्रविष्टं स्यादमेध्यं यस्य कस्य चित्॥२२९॥
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति॥
एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैर्मया॥2.73.२३०॥
अनाविष्कृतपापांश्च मन्त्रैर्होमैश्च साधयेत्॥
ख्यापनेनानुतापेन तपसाऽध्ययनेन च॥२३१॥
पापकृन्मुच्यते पापात्तथा दानेन चापरे॥
यथा यथानरो धर्मं स्वयं कृत्वा न भाषते॥२३२॥
तथा तथा च येनैव तस्मात्पापात्प्रमुच्यते॥
कृत्वा पापं हि स्मर्तव्यं तस्मात्पाप्त्प्रमुच्यते॥२३३॥
यथायथा मनस्तस्य दुष्कृतं कर्म गर्हति॥
तथातथा शरीरं तत्तेनाधर्मेण मुच्यते॥२३४॥
नैतत्कुर्यां पुनरिति निवृत्यां प्रयतेन्नरः॥
एवं संचिन्त्य मनसा प्रेत्यकर्मफलोदयम्॥२३५॥
मनोवाक्कर्मभिर्न्नित्यं शुभं कर्म समाचरेत्॥
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम्॥२३६॥
तस्माद्धि मुच्यते नित्यं द्वितीयं न समाचरेत्॥
यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम्॥
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्॥२३७॥
गुरुलघुतां तु विचार्य यथावद्येषु मयागमनं च तवोक्तम्॥
तेषु न चेत्सहनिश्चितबुद्धिर्विप्रवरैः कुशलैः सुधिया वा॥२३८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० प्रायश्चित्ताध्यायो नाम त्रिसप्ततितमोऽध्यायः॥७३॥
2.74
पुष्कर उवाच॥
इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि॥
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोध मे॥१॥
पौरुषेण तु सूक्तेन जप्यहोमैर्दविजोत्तमाः॥
मासेनैकेन मुच्यन्ते पातकैः संयतेन्द्रियाः॥२॥
सव्याहृतीकप्रणवाः प्राणायामास्तु षोडश॥
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥३॥
कौत्सं जप्त्वाप इत्येतद्वसिष्ठं प्रति च त्र्यृचम्॥
माहेशं शुद्धवत्यश्च सुरापोऽपि विशुध्यति॥४॥
सकृज्जप्त्वास्यवामीयं शिवसंकल्पमेव च॥
अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः॥५॥
हविष्मतीयमस्येति ततः संहा इतीति च ॥
जप्त्वा च पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ६ ॥
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ॥
अवेत्र्यृचं जपेदब्दं यत्किञ्चिदपि तानि चेत् ॥ ७ ॥
प्रतिगृह्याप्रतिगृह्यं भुक्त्वा चान्नं विगर्हितम् ॥
जपंस्तरत्समंदीयं प्रयतो मानवस्त्र्यहम् ॥ ८ ॥
सोमारौद्रं तु वह्नीनां जपन्सत्यस्य शुध्यति ॥
स्रवन्त्यामाचरेत्स्नानं पर्यस्यमिति वा त्र्यृचम् ॥ ९ ॥
अद्वा रसानमित्येतदेनस्वी सप्तकं जपेत् ॥
अप्रकाशं तु कृत्वेनो मासमासीत भैक्ष्यभुक् ॥ 2.74.१० ॥
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ॥
सुगुर्वप्यपहन्त्येनो जप्त्वा वामन इष्यते ॥ ११ ॥
द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता…
अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥ १२ ॥
महापातकसंयुक्तो न गच्छेद्गाः समाहितः ॥
स्वभ्यस्य पावमानीयं भैक्ष्याहारो विशुध्यति ॥ ॥१३॥
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् ॥
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ १४॥
त्र्यहं तूपवसेद्युक्तस्त्रिरहोऽभ्युपयन्नपः ॥
मुच्यते पातकैः सर्वैर्जप्त्वा त्रिरघमर्षणम् ॥ १५ ॥
यथाश्वमेधः सुतरां सर्वपापापनोदनः ॥
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥१६॥
हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः ॥
ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन॥१७॥
ऋक्संहितां समभ्यस्य यजुषां वा समाहितः ॥
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते॥१८॥
यथा महाह्रदं प्राप्य क्षिप्रं लोष्ठो विनश्यति॥
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति॥१९॥
ऋचो यजूंषि चाद्यानि सामानि विविधानि च ॥
एष ज्ञेयस्त्रिवृद्वेदो यो वै वेद स वेदवित् ॥2.74.२०॥
आद्यं वै त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता ॥
स गुह्योऽन्यस्त्रिवृद्वेदो यो वेदैनं स वेदवित्॥२१॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियासमः॥
नाशयन्त्याशु पापानि महापातकजान्यपि ॥२२॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात्॥
तथा ज्ञानाग्निना पापं क्षिप्रं दहति वेदवित्॥२३॥
ये वासुदेवं जगतामधीशं भक्त्या गताः सर्वजगत्प्रधानम् ॥
ते पातकान्याशु विधूय लोके भवन्ति चन्द्रार्कसमप्रभावाः॥२४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० प्रायश्चित्तो नाम चतुःसप्ततितमोऽध्यायः॥७४॥
2.75
राम उवाच ॥
प्रेतशुद्धिं समाचक्ष्व सूतिकाशुद्धिमेव च ॥
द्रव्यशुद्धिं च भगवंस्त्वं हि वेत्सि यथातथा ॥ १ ॥
पुष्कर उवाच ॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते ॥
जनने च तथाप्येवं ब्राह्मणानां भृगूत्तम ॥ २ ॥
द्वादशाहेन राजन्यः पक्षाद्वैश्यो विशुध्यति ॥
मासेन शुद्धिमाप्नोति तथा शूद्रोऽपि भार्गव ॥ ३ ॥
आनुलोम्येन पत्नीनां दासीनां च भृगूत्तम ॥
स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौतुकम् ॥ ४ ॥
षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥
ब्राह्मणः शुद्धिमाप्नोति नात्र कार्या विचारणा ॥ ५ ॥
विट्शूद्रयोनौ शुद्धिः स्यात्क्षत्त्रियस्य तथैव च ॥
षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रस्तथा विशः ॥६ ॥
अदन्तजातबाले तु सद्यः शौचं विधीयते ॥
बाले त्वकृतचूडे च विशुद्धिर्नैशिकी स्मृता ॥ ७ ॥
तथा चानुपनीते तु त्रिरात्राच्छुद्धिरिष्यते ॥
ततः परं दशाहेन शुद्धेयुस्तस्य बान्धवाः॥८॥
ऊनत्रिवार्षिके शुद्धे पञ्चाहा शुद्धिरिष्यते ॥
द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये॥९॥
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता॥
स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता॥2.75.१०॥
तथा हि कृतचूडानां त्र्यहाच्छुध्यन्ति बान्धवाः ॥
विवाहितासु नाशौचं पितृपक्षे विधीयते ॥ ११ ॥
पितृगृहे प्रसूतायां विशुद्धिर्नैशिकी स्मृता ॥
सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ॥ १२ ॥।
विवाहिताऽपि चेत्कन्या म्रियते पितृवेश्मनि ॥
तस्यास्त्रिरात्राच्छुध्यन्ति बान्धवा नात्र संशयः ॥ १३॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ॥
तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥ १४ ॥
सस्नानं खलु शौचं च प्रथमेन समापयेत् ॥
असमानं द्वितीयेन धर्मराजवचो यथा ॥ १९ ॥
देशान्तरस्थाः श्रुत्वा तु कुल्यानां मरणोद्भवौ ॥
यच्छेषं दशरात्रस्य तावदेव शुचिर्भवेत् ॥ १६ ॥
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत्॥
तथा संवत्सरेऽतीते स्नात एव च शुद्ध्यति ॥ १७ ॥
मातामहे तथातीते आचार्ये च तथा मृते ॥
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥ १८ ॥
परपूर्वासु भार्यासु त्रिरात्राच्छुद्धिरिष्यते ॥
निवासे राजनि प्रेते मातुले श्वशुरे तथा ॥ १९ ॥
आचार्यपत्नीपुत्रेषु शिष्ये सब्रह्मचारिणि ॥
एकरात्रमशौचं स्यादन्नदाने तथा मृते ॥ 2.75.२० ॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनम् ॥
सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥ २१ ॥
दशरात्रेण शुद्धयन्ति द्वादशाहेन भूमिपाः ॥
वैश्यः पञ्चदशाहेन शूद्रो मासेन भार्गव ॥२२॥
भृग्वग्न्यनाशनांभोभिर्मृतानामात्मघातिनाम् ॥
पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥ २३ ॥
सती व्रती ब्रह्मचारी नृपकारकदीक्षिताः ॥
नाशौचभाजः कथिता राजकार्यकराश्च ये ॥२४॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा ॥
सवासा जलमाप्लुत्य घृतं प्राश्य विशुध्यति॥
मैथुने कटधूमे च सद्यः स्नानं विधीयते ॥ २५॥
जननमरणयोः शुचिर्दशाहेन भवति शौचविधेर्न विप्रयोज्यम् ॥
न च भवति प्रतिग्रहेषु दोषो द्विपद चतुष्पदधान्यदक्षिणासु॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने शौचविधिर्नाम पञ्चसप्ततितमोऽध्यायः॥७५॥
2.76
पुष्कर उवाच ।
द्विजं न निर्हरेत्प्रेतं शूद्रेण तु कथंचन ।
न च शूद्रं द्विजेनापि तयोर्दोषोऽभिजायते ॥ १ ॥
अनाथं ब्राह्मणप्रेतं ये वहन्ति द्विजातयः ।
पदेपदे क्रतुफलं चानुपूर्वाल्लभन्ति ते॥२॥
संस्कारार्थमनाथस्य यस्तु काष्ठं प्रयच्छति ॥
काष्ठाग्निदाता प्राकाश्यं संग्रामे लभते जयम् ॥३॥
संज्वाल्य बान्धवं प्रेतमपसव्येन तां चितिम् ॥
परिक्रम्य ततः स्नानं कुर्युः सर्वे स्वबान्धवाः ॥४॥
प्रेताय च तथा दद्युस्तिस्रो वै चोदकाञ्जलीः ॥
द्वार्यश्मनि पदं दत्त्वा प्रविशेयुस्तथा गृहम् ॥ ॥५॥
अक्षता निक्षिपेयुश्च तथा वह्नौ समाहिताः ॥
विदश्य निम्बपत्राणि शयीरंश्च पृथक् क्षितौ॥६॥
क्रीतलब्धाशनाश्चैव भवेयुः सुसमाहिताः ॥
न चैव मांसमश्नीयुर्व्रजेयुर्न च योषितम् ॥ ७ ॥
निवर्तयेयुस्तथैवैकं पिण्डं प्रेतस्य नित्यदा ॥
अशौचं यावदेव स्यात्तस्मिन्व्यपगते पुनः ॥८॥
श्मश्रुकर्म तदा कृत्वा स्नाताः सिद्धार्थकैस्तिलैः ॥
पूजयेयुर्द्विजान्राम परिवर्तितवाससः ॥९॥
अदन्तजातेस्तनये शिशौ गर्भच्युते तथा ॥
कार्यो नैवाऽग्निसंस्कारो नैव चास्योदकक्रिया ॥2.76.१०॥
चतुर्थे च दिने कार्यश्चैवास्थ्नां राम संचयः ॥
अस्थिसंचयनादूर्ध्वं कुलस्पर्शो विधीयते ॥ ११ ॥
मृतस्य बान्धवैः सार्धं कृत्वाश्रुपतनं नरः ॥
अस्थिसंचयनादर्वाक् सचैलं स्नानमाचरेत् ॥१२॥
स्नातश्च शुद्धिमाप्नोति ततः परमिति श्रुतिः ॥
अस्थ्नां गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ॥ १३ ॥
अस्थ्नां हि प्लावनार्थाय सागराणां महात्मनाम् ॥
गगनाद्भुवमानीता गङ्गा गगनमेखला ॥ १४ ॥
भगीरथेन धर्मज्ञ तपसा महता पुरा ॥
सगरस्य सुताः सर्वे नरकस्था भृगूत्तम ॥ १५ ॥
गङ्गातोयाप्लुता राम दिवमक्षय्यमागताः ॥
गङ्गातोयेन यस्यास्थि यावत्संख्यं निमज्जति ॥ १६ ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥ १७ ॥
तेषामपि तथा गङ्गातोये स्यात्पतनं हितम् ॥
पतितानां तु यद्दत्तं श्राद्धं चाथ जलाञ्जलिः ॥ १८ ॥
न तत्प्रेतः समाप्नोति गगने प्रविलीयते ॥
अनुग्रहेण सहिता प्रेतस्य पतितस्य तु ॥ १९ ॥
नारायणबलिः कार्यस्तेनानुग्रहमश्नुते ॥
अनादिनिधनो देवः शंखचक्रगदाधरः ॥ 2.76.२० ॥
अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ॥
यथाकथंचिद्यद्दत्तं देवदेवे जनार्दने ॥ २१ ॥
अविनाशि तु तद्विद्धि पात्रमेको जनार्दनः ॥
परस्मात्त्रायते यस्मात्तस्मात्पात्रं प्रकीर्तितम् ॥
पततां त्राणदस्त्वेको देवो मधुनिषूदनः ॥२२॥
अमितबलपराक्रमो महौजा दुरितभयापहरो हरिर्महात्मा ॥
अघशतमलिनैश्च सेव्यमानो भवति नृणां त्रिदिवाय वासुदेव॥२३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने प्रेतनिर्हणोनाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥
2.77
॥ पुष्कर उवाच ॥
अशौचे तु व्यतिक्रान्ते स्नातः प्रयतमानसः ॥
स्नातानलङ्कृतान्भक्त्या गन्धवस्त्रोज्ज्वलान्द्विजान् …३॥
उदङ्मुखान्भोजयीत स्वासीनान्सुसमाहितान् ॥
मन्त्रोहाश्चात्र कर्तव्यास्तथैकवचनेन च ॥ २ ॥
उच्छिष्टसन्निधावेकं तथा पिण्डं निवेशयेत् ॥
कीर्तयेच्च तथा तस्य नामगोत्रे समाहितः …३ ॥
भुक्तवत्सु च विप्रेषु पूजितेषु तथा धनैः ॥
विसृष्टाक्षयतोयेषु गोत्रनामानुकीर्तनैः ॥ ४ ॥
चतुरङ्गुलविस्तारमुत्खातं तावदन्तरम् ॥
वितस्तिदीर्घं कर्तव्यं कर्षूणां च तथा त्रयम् ॥ ५ ॥
कर्षूणां तु समीपे च ज्वालयेज्ज्वलनत्रयम् ॥
सोमाय वह्नये राम यमाय च समाहितः ॥ ६ ॥
जुहुयादाहुतीः सम्यक् तथैव च त्रयस्त्रयः ॥
पिण्डनिर्वपणं कुर्यात्प्राग्वदेव पृथक्पृथक् ॥ ७ ॥
अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ॥
मध्ये चेदधिवासः स्यात्कुर्यादभ्यधिकं ततः ॥ ८ ॥
अथवा द्वादशाहेन सर्वमेतत्समापयेत् ॥
संवत्सरस्य मध्ये चेद्यदि स्यादधिमासकः ॥ ९ ॥
ततो द्वादशके श्राद्धे कार्यं तदधिमासिकम् ॥
ततो द्वादशके श्राद्धे कार्यं तदधिकं भवेत्॥2.77.१०॥
संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥
प्रेताय तस्मादूर्ध्वं च तस्यैव पुरुषत्रये ॥ ११ ॥
पिण्डान्विनिर्वपेच्चात्र चतुरः सुसमाहितः ॥
संसृजं पृथिवीं दत्त्वा समानावेति चाप्यथ ॥ १२ ॥
योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥
प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ॥१३॥
पृथक्पृथक् च कर्तव्यं कर्मैतत्कर्मणां त्रये ॥
मन्त्रवर्जमिदं कर्म शूद्रस्यापि विधीयते ॥ १४ ॥
अमन्त्रोच्चारणं स्त्रीणां कार्यमेतत्तथा भवेत् ॥
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ॥
अनेनैव विधानेन भक्त्त्या प्रयतमानसः॥१५।
प्रेतायान्नं सोदकुम्भं प्रदेयं नित्यं भक्त्या यावदब्दावसानम् ॥
एतत्कार्यं बान्धवैर्नैव कार्यः शोकः शोचन्नैव किञ्चित्प्रकुर्यात्॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये प्रेतक्रिया नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
२.७८
पुष्कर उवाच ॥
बुधैराश्वसनीयाश्च बान्धवैर्मृतबान्धवाः ॥
वचनैर्धर्मसंयुक्तैस्तानि चान्यानि मे शृणु ॥ १ ॥
नित्यमस्मिन्निरालम्बे काले सततयायिनि ॥
न तद्भूतं प्रपस्यामि स्थितिर्यस्य भवेद्ध्रुवा ॥ २ ॥
गङ्गायाः सिकताधारास्तथा वर्षति वासवे ॥
शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ ३ ॥
चतुर्दश विनश्यन्ति कल्पेकल्पे सुरेश्वराः ॥
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ॥ ४ ॥
बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ॥
विनष्टानीह कालेन मनुजेष्वथ का कथा ॥ ५ ॥
राजर्षयश्च बहवः सर्वे समुदिता गुणैः ॥
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥ ६ ॥
ये समर्था जगत्यस्मिन्सृष्टिसंहारकारणे॥
तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः॥७॥
आक्रम्य सर्वं कालेन परलोकाय नीयते ॥
कर्म पश्यति नो जन्तुस्तत्र का परिदेवना ॥८॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ॥
अस्मिन्दुष्परिहार्येऽर्थे नास्ति लोके सहायता ॥ ९ ॥
शोचन्तो नोपकुर्वन्ति मृतस्य हि जना यदा ॥
अतो न शोचितव्यं स्यात्क्रिया कार्या सुयत्नतः ॥ 2.78.१० ॥
सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ॥
बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा ॥ ११ ॥
बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति ॥
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥ १२ ॥
अर्वाक् सपिण्डीकरणात्प्रेतो भवति यो मृतः ॥
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥ १३ ॥
पितृलोकगतश्चान्नं श्राद्धं भुङ्क्ते सुधासमम् ॥
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयत्नतः ॥ १४ ॥
देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ॥
मानुष्ये च तथाऽप्नोति श्राद्धे दत्ते स्वबान्धवैः ॥ १५॥
प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् ॥
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥१६॥
एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः॥
नोपकुर्यान्नरः शोचन्प्रेतस्यात्मन एव च॥१७॥
दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् ॥
धर्ममेकं सहायार्थे कारयध्वं सदा नराः ॥ १८॥
मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरैर्यतः ॥
जायावर्ज्यं हि सर्वस्य यस्या भर्ता विभिद्यते ॥ १९ ॥
धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ॥
नन्वसारे त्रिलोके ऽस्मिन्धर्म कुरु मा चिरम् ॥ 2.78.२० ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे त्वपराह्णिकम् ॥
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम ॥ २१ ॥
क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् ॥
वृकीवाऽरण्यमासाद्य मृत्युरादाय गच्छति॥२२॥
न कालस्य प्रियः कश्चिद्वेष्यश्चास्य न विद्यते ॥
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम्॥२३॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥२४॥
नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः ॥
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम्॥२५॥
आगामिनमनर्थं तु प्रतिघातशतैरपि ॥
न निवारयितुं शक्तास्तत्र का परिदेवना ॥२६॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् …२७॥
अव्यक्तादीनि सर्वाणि व्यक्तमध्यानि चाप्यथ ॥
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८॥
देहिनोस्मिन्यथा देहं कौमारं यौवनं जरा ॥
तथा जन्मान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २९ ॥
गृह्णातीव यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः॥
गृह्णात्येवं नवं देहं देहीकर्मनिबन्धनः॥2.78.३०॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ ३१ ॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ॥
नित्यः सर्वगतःस्थाणुरचलोऽयं सनातनः॥३२॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमेव च ॥
तस्मादेवं विदित्त्वैनं नानुशोचितुमर्हथ ॥ ३३ ॥
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ॥
आश्चर्यवश्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥३४…
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बान्धवसमाश्वासनं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥
2.79
॥ पुष्कर उवाच । ।
मृन्मयं भाजनं सर्वं पुनः पाकेन शुध्यति ॥
मद्यैर्मूत्रपुरीषैर्वा ष्ठीवनैः पूयशोणितैः॥१॥
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥
एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम्॥२॥
शुध्यत्यातापितं पश्चादन्यथा केवलाम्भसा॥
अम्लोदकेन ताम्रस्य सीसस्य त्रपुसस्तथा॥३॥
क्षारेण शुद्धिं कांस्यस्य लोहस्य च विनिर्दिशेत्॥
मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु॥४॥
अन्येषां चैव भाण्डानां सर्वस्याश्ममयस्य च ॥
शाकरज्जुमूलफलवैदलानां तथैव च॥५॥
मार्जनाद्यज्ञभाण्डानां पाणिना चाग्निकर्मणि ॥
उष्णाम्भसा तथा शुद्धिः सस्नेहानां विनिर्दिशेत् ॥ ६ ॥
शयनासनयानानां स्फ्यशूर्पशकटस्य च ॥
शुद्धिः संक्षेपणाज्ज्ञेया पलालेन्धनयोस्तथा ॥ ७ ॥
मार्जनाद्वेश्मनां शुद्धिः क्षितौ शोधनतः क्षणात् ॥
संमार्जितेन तोयेन वाससां शुद्धिरिष्यते ॥ ॥ ८ ॥
बहूनां प्रोक्षणाच्छुद्धिः धान्यानां च विनिर्दिशेत् ॥
शुद्धिर्द्रुमाणा विज्ञेया नित्यसत्पवनेन तु ॥ ९ ॥
प्रोक्षणात्संहतानां तु दारवाणां च तक्षणात् ॥
सिद्धार्थकाणां कल्केन शृङ्गदन्तमयस्य च ॥ 2.79.१० ॥
गोवालैः फलपत्राणामस्थ्नां स्याच्छृङ्गवस्तथा ॥
निर्यासानां गुडानां च लवणानां तथैव च ॥ ११ ॥
कुसुम्भकुंकुमानां च ऊर्णाकार्पासयोस्तथा ॥
प्रोक्षणात्कथिता शुद्धिरित्याह भगवान् हि सः ॥ १२ ॥
भूमिष्ठमुदकं शुद्धं तथैव च शिलागतम् ॥
वर्णगन्धरसैर्दुष्टैर्वर्जितं यदि तद्भवेत् ॥ १३ ॥
शुद्धं नदीगतं तोयं सर्व एव तथाकराः ॥
शुद्धं प्रसारितं पण्यं शुद्धे चाश्वाजयोर्मुखे ॥ १४ ॥
मुखवर्जं च गौः शुद्धा मार्जारः श्वा च नो शुचिः ॥
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ॥ ॥ १५ ॥
आत्मनः कथितं शुद्धं न परस्य कथञ्चन ॥
नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् ॥ १६ ॥
रतौ प्रस्रवणे वृक्षे मृगयायां सदा शुचिः ॥
शुद्धा भर्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला ॥ १७ ॥
दैवकर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥
कृत्वा मूत्रपुरीषं वा स्नात्वा भोक्तुमनास्तथा ॥ १८ ।!
भुक्त्वा क्षुत्त्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च ॥
रथ्यामाक्रम्य वाचामेद्वासो विपरिधाय च ॥ १९ ॥
कृत्वा मूत्रपुरीषं च लेपगन्धापहं बुधः ॥
उद्धृतेनाम्भसा शौचं मृदा शौचं समाचरेत् ॥ 2.79.२० ॥
मेहने मृत्तिकाः पञ्च लिङ्गे द्वे परिकीर्तिते ॥
एकस्मिन्विंशतिर्हस्ते द्वयो ज्ञेयाश्चतुर्दश ॥ २१ ॥
तिस्रस्तु मृत्तिका ज्ञेयाः कृत्वा तु नखशोधनम् ॥
तिस्रस्तिस्रः पादयोश्च शौचकामैस्तु नित्यदा ॥ २२ ॥
शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥
त्रिगुणं तु वनस्थानां यतीनां च चतुर्गुणम् ॥ २३ ॥
मृत्तिका च विनिर्दिष्टा त्रिपूर्वं पूर्यते यया ॥
शुद्धिश्च काचभाण्डानां केवलेन तथाम्भसा ॥ २४ ॥
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥
शुद्धिः पद्माक्षतोयेन मृगलोम्नां प्रकीर्तिता ॥
पुष्पाणां चन्दनानां च प्रोक्षणाच्छुद्धिरिष्यते ॥ २५ ॥
सिद्धार्थकैः शुद्धिमुदाहरन्ति लोम्नां तथा भार्गववंशमुख्य ॥
सर्वस्य जीवस्य विशुद्धिरुक्ता मृदा च तोयेन विगन्धलेपात् ॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने द्रव्यशुद्धिर्नामैकोनशीतितमोऽध्यायः ॥ ७९ ॥
2.80
राम उवाच ॥
वर्णानामाश्रमाणां च वेत्ति सर्वमिदं भवान् ॥
पुष्कर उवाच ॥
अहिंसासत्यवचनं ते स्याद्भूतेष्वनुग्रहः ॥ १ ॥
तीर्थानुसरणं दानं ब्रह्मचर्यममत्सरम् ॥
देवद्विजातिशुश्रूषा गुरूणां च भृगूत्तम ॥ २ ॥
श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा ॥
भक्तिश्च भूपतौ नित्यं तथा सच्छास्त्रनेत्रता ॥ ३ ॥
आनृशंस्यन्तितिक्षा च तथा चास्तिक्यमेव हि ॥
धर्मसामान्यमेतत्ते कथितं भृगुसत्तम ॥ ४ ॥
यजनं याजनं दानं तथैवाध्यापनक्रिया ॥
प्रतिग्रहं चाध्ययनं विप्रकर्माणि निर्दिशेत् ॥५॥
दानमध्ययनं चैव यजनं च यथाविधि॥
क्षत्त्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम् ॥ ६ ॥
क्षत्रियस्य विशेषस्तु प्रजानां परिपालनम् ॥
कृषिगोरक्षवाणिज्यं वैश्यस्य परिकीर्तितम् ॥ ७ ॥
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ॥ ८ ॥
तेषां जन्माद्वितीयं तु विज्ञेयं मौञ्जिबन्धनम् ॥
आचार्यस्तु पिता तत्र सावित्री जननी तथा ॥
ब्राह्मणक्षत्रियविशां मौञ्जीबन्धनजन्मनि ॥ ९ ॥
वृत्त्या द्विजाः शूद्रसमा भवन्ति यावन्न वेदे प्रभवन्ति राम ॥
ततः परं ते द्विजतां लभन्ते समस्तकार्येष्वधिदैवतं च ॥2.80.१०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने वर्णधर्माध्यायो नामाशीतितमोऽध्यायः ॥ ८०
2.81
॥ पुष्कर उवाच ॥
आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता ॥
चण्डालो ब्राह्मणीपुत्रः शूद्रः स्यात्प्रतिलोमजः ॥ १ ॥
मागधश्च तथा वैश्याच्छूद्रादायोगवो भवेत् ॥
वैश्यायाः प्रातिलोम्येन प्रतिलोमात्सहस्रशः ॥ २ ॥
विवाहसदृशैस्तेषां नोत्तमैर्नाधमैस्तथा ॥
चण्डालकर्म निर्दिष्टं वध्यानां घातनं तथा ॥ ३ ॥
स्त्रीजीवनं च तद्रक्षा प्रोक्तं वैदेहकस्य च ॥
सूतानामश्वसारथ्यं पुक्कसानां च व्याधता ॥ ४ ॥
स्तुतिक्रिया मागधानां तथा चायोगवस्य च ॥
रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनम् ॥ ५ ॥
सूतानामस्ति संस्कारस्तथा वै याजनक्रिया ॥
बहिर्ग्रामनिवासश्च मृतचैलस्य धारणम् ॥ ६ ॥
असंस्पर्शस्तथैवान्यैश्चण्डालस्य विधीयते ॥
ब्राह्मणार्थे गवार्थे वा देह त्यागानुपस्कृतः ॥ ७ ॥
स्त्रीबालाद्युपपत्तौ च बाह्यानां शुद्धिकारणम् ॥
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ॥ ८ ॥
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥
अनार्यता निष्ठुरता पुरतो निष्क्रियात्मता ॥ ९ ॥
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥
पितुर्वा भजते शीलं मातुर्वोभयमेव वा ॥ 2.81.१० ॥
न कथंचन दुर्योनिः प्रकृतिं स्वां न गच्छति ॥
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः ॥ ११ ॥
स श्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥
यत्र त्वेते परिध्वंसा जायन्ते वर्णसङ्कराः ॥ १२ ॥
राष्ट्रियैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते ॥
अश्रेयाञ्श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात्॥१३॥
राज्ञा स्वकालं परिरक्षणीयं घोरं नृणां सङ्करमेतदेव ॥
आसाद्य घोराणि हि सङ्कराणि नश्यन्ति राष्ट्राणि सराजकानि॥ १४ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने सङ्करधर्मोनामैकाशीतितमोऽध्यायः ॥ ८१ ॥
2.82
पुष्कर उवाच ॥
आजीवं तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ॥
जीवेत्क्षत्रियधर्मेण सा ह्यस्य वृत्त्यनन्तरा ॥ १ ॥
उभाभ्यामप्यजीवन्वै वैश्यवृत्तिं समाचरेत् ॥
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रवृत्तिं विवर्जयेत् ॥ ॥ २ ॥
शूद्रो ब्राह्मणवृत्तिं च विशेषेण विवर्जयेत् ॥
आजीवत्सु स वृत्या च मध्यवृत्तिं समाचरेत् ॥ ३ ॥
ब्राह्मणः क्षत्रियो वापि वैश्यवृत्त्या तु वर्तयन् ॥
अयः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ॥ ४ ॥
क्षीरं क्षौद्रं दधि घृतं तैलं मज्जां गुडं कुशम् ॥
मद्यं नीलं च लाक्षां च लवणं प्राणिनोऽपि च ॥ ५ ॥
विक्रीणीत तिलान्नैव पक्वान्नं गोरसांस्तथा ॥
रसा रसैर्निहन्तव्या गन्धेन लवणं रसैः ॥ ६ ॥
कृतान्नं च कृतान्नेन तिलधान्येन तत्समम् ॥
वैश्यो वा क्षत्त्रियो वापि वर्जयेद्द्विजजीविकाम् ॥७ ॥
सद्यः पतति मांसेन लाक्षया लवणेन च॥
त्र्यहाच्च शूद्रो भवति ब्राह्मणः क्षीरविक्रयी ॥ ८ ॥
इतरेषां हि पण्यानां विक्रयां मनुजोत्तम ॥
ब्राह्मणः सप्तरात्रेण वैश्यभावं हि गच्छति ॥९॥
क्षिप्राणि यानि रूक्षाणि चराणि च मृदूनि च ॥
वाणिज्ये तानि शस्यन्ते तिथिं रिक्तां विवर्जयेत् ॥2.82.१ ० ॥ ॥
द्विकं शतं तु गृह्णीयात्कुसीदेनापि वर्धयन् ॥
ततोऽधिकं तु गृह्णानश्चौरस्याप्नोति किल्बिषम् ॥ ११ ॥
प्रतिपद्द्वादशी षष्ठी नक्षत्राणि ध्रुवाणि च ॥
कुसीदे वर्जनीयानि नित्यं सूर्यसुतस्य च॥१२॥
कृषिभूमिपतेर्भागं दत्त्वा कुर्याद्यथोदितम् ॥
ध्रुवाणि सौम्यं मैत्रं च वायव्यं पौष्ण्माश्विनम्॥ …१३॥
वासवं श्रवणं चित्रा विशाखा मूलमेव च ॥
कृष्यारम्भे प्रशस्यन्ते तथा पुष्यपुनर्वसू॥१४॥
कृष्यारम्भे प्रयत्नेन तिथिं रिक्तां विवर्जयेत॥
अङ्गारकदिनं वर्ज्यं दिवसं सूर्यजस्य च ॥ १५ ॥
नक्षत्राणां यथोक्तानां मुहूर्तेषु च कारयेत् ॥
मुहुर्ते यदि वा ब्राह्मे सर्वकर्मसु पूजिते॥१६॥
वराहं पूजेयद्देवं शेषं पृथ्वीं तथैव च ॥
पर्जन्यं भास्करं वायुं देवेशं शशिनं तथा ॥ १७ ॥
फालं च गोयुगं चैव गन्धमाल्यान्नसम्पदा ॥
ततोऽग्निहवनं कुर्यात्सुसमिद्धे हुताशने ॥ १८ ॥
देवतानां यथोक्तानां जुहुयाच्च घृताहुतीः ॥
गावो भग इति द्वाभ्यां सीरां युञ्जन्त्यतस्त्रिभिः ॥ १९ ॥
फालं शुनां सुफालेति लाङ्गलं च तथेति वै ॥
हुत्वा विप्रान्समभ्यर्च्य दक्षिणाभिर्यथाविधि ॥ 2.82.२० ॥
पूर्वोदक्प्रवणां भूमिं वाहयेत्प्राग्घलेन तु ॥
सीरायुञ्जन्त इत्येतदृक्त्रयं कीर्तयेद्बुधः ॥ २१ ॥
या ओषधय इत्येवं बीजं तदनु मन्त्रयेत् ॥
कृत्वा सुवर्णतोयाक्तं लक्षण्यो वापयेत्पुमान्॥ २२ ॥
प्राङ्मुखैर्वाहयेद्गोभिः प्राङ्मुखैश्चैव वापयेत् ॥
शंखपुण्याहघोषेण बीजवापः प्रशस्यते ॥ २३ ॥
बीजवापे तथा मन्त्रं निबोध गदतो मम ॥
प्रजापते कश्यपाय देवलाय नमः सदा ॥ २४ ॥
सदा मे ऋद्धतां देवी बीजेषु च धनेषु च ॥
भोजयेद्ब्राह्मणांश्चात्र तथैव च कृषीवलान् ॥ २५ ॥
कालश्च सर्वः पूर्वोक्तः संग्रहेऽपि प्रशस्यते ॥
देवतानां पितॄणां च कृत्वा तत्रापि पूजनम् ॥ २६ ॥
नववस्त्रपरीधानः श्वेतमाल्यानुलेपनः॥
प्राङ्मुखः प्राशनं कुर्यात्पात्रे सौवर्णराजते॥२७॥
तत्रापि भोजयेद्विप्रांस्तथैव च कृषीवलान्॥
कृष्ये विशेषतः कार्यं फलयज्ञं भृगूद्वह॥२८॥
यूपोयं निहितो मध्ये पेषीवासैषकार्षकैः॥
तस्मादतन्द्रितो दद्यादन्नं धान्यार्थदक्षिणा॥२९॥
भूमिं भित्त्वौषधीश्छित्त्वा हत्वा कीटपिपीलिकम्॥
पुनन्ति खलु यज्ञेन कर्षिका नात्र संशयः॥ 2.82.३०
अष्टागवं धर्महलं षड्गवं जीवितार्थिनाम्॥
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम्॥३१॥
आपदं च समुत्तीर्य त्यक्त्वा वित्तं च कर्मणा॥
यदर्जितं ततः कुर्यात्प्रायश्चित्तं विचक्षणः॥३२॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्॥
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३३॥
ऋतेन जीवेदनृतेन जीवेन्मितेन जीवेत्प्रमितेन जीवेत्॥
सत्यानृताभ्यामथवापि जीवेच्छ्ववृत्तिमेकां परिवर्जयेत्तु॥३४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आपद्धर्मो नाम द्व्यशीतितमोऽध्याय ॥ ८२ ॥
2.83
॥ राम उवाच ॥
काम्यं कर्म समाचक्ष्व वाणिज्यं येन शुध्यति॥
कृषिं च बहुलां चैव कर्मणा केन चाश्नुते॥१॥
॥पुष्कर उवाच॥
मूलेनोपोषितः कुर्यादिदं कर्म पुरोहितः॥
उपोषितस्य धर्मज्ञ जयमानस्य नित्यशः॥२॥
प्राप्तामुत्तरषाढासु प्राङ्मुखं स्नापयेन्नरम्॥
युक्तैर्वेतसमूलेन शङ्खमुक्ताफलैस्तथा॥३॥
मणिभिश्च यथालाभं कनकेन तथैव च॥
अकालमूलैः कलशैश्चतुर्भिर्भृगुनन्दन॥४॥
नवैस्तु पूजयेद्देवं शङ्खचक्रगदाधरम्॥
पूर्वाषाढां तथैवाऽपो वरुणं च निशाकरम्॥५॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज॥६॥
नीलवासावृतो भूत्वा क्षिपेदप्सु समाहितः॥
नीलानि राम वासांसि पयांसि विविधानि च॥७॥
तदा मंथं सुरां चैव मैरेयं विविधं तथा॥
शुक्लानि चैव माल्यानि धूपं दद्यात्तु कम्बुना॥८॥
तिम्यस्थि मकरादस्थि शङ्खमुक्ताफले तथा॥
सुवर्णान्तरितं कृत्वा धारयेच्च तथा मणिम्॥९॥
कृत्वैतत्सिद्धिमाप्नोति वाणिज्ये नात्र संशयः॥
समुद्रयाने च तथा कान्तारे न विषीदति॥2.83.१०॥
नीलानि राम वासांसि दक्षिणा चात्र शस्यते॥
शङ्खं सुवर्णं रूप्यं च तथा मुक्ताफलानि च॥११॥
होत्रे कर्त्रे द्विजेभ्यश्च सर्वमेतद्विधीयते॥
ब्राह्मणान्भोजयेच्चात्र परमान्नं तु संस्कृतम्॥१२॥
अलंघयन्नित्यमथाप्यमृक्षं करोति कर्मैतदतन्द्रितात्मा॥
न जातु लाभाद्विनिवर्ततेऽसौ समुद्रमार्गादिव निम्नगा वै॥ १३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पूर्वाषाढास्नानवर्णनो नाम त्र्यशीतितमोऽध्याय ॥ ८३ ॥
2.84
पुष्कर उवाच॥
स्वयं सूपोषितो विद्वान्यजमानमुपोषितम्॥
मूलेन स्नापयेन्नित्यं तथाप्याशामुखास्थितम्॥१॥
दूर्वाकुश शमीपत्रपूर्णेन सुदृढेन च ॥
कुम्भद्वयेन स्नातस्तु पूजयेन्मधुमूदनम् ॥ २ ॥
विरूपाक्षं सवरुणं चन्द्रं मूलं तथैव च ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ ३ ॥
एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज ॥
पीतवासास्ततो भूत्वा मत्स्यकुल्माषसूकरैः ॥ ४ ॥
सुराकृसरसंयुक्तैः स्नानोक्ताशामुखस्थितः ॥
बलिं निर्ऋतये दद्याज्जानु कृत्वा ततः क्षितौ ॥ ५ ॥
ततोष्टादशभिः पुष्पैर्मूलैः पञ्चभिरेव च ॥
सुवर्णगर्भं च मणिं विद्वाञ्शिरसि धारयेत् ॥ ६ ॥
कृत्वैतत्सकलं कर्म कृषिं बहुफलां लभेत् ॥
दक्षिणा चात्र दातव्या मूलानि च फलानि च ॥७॥
पीतानि चैव वस्त्राणि कनकं रजतं तथा ॥
भोजनं चात्र दातव्यं ब्राह्मणानामभीप्सितम् ॥ ८ ॥
अलंघयन्मूलमिदं हि कुर्वन्स्नानं सदा भार्गव वंशमुख्य ॥
कृषिं समाप्नोति सदैव विद्वान्यथेप्सितं नात्र विचारमस्ति॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मूलस्नानवर्णनो नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥
2.85
राम उवाच ॥
धर्ममार्गमहं त्वत्तः श्रोतुमिच्छामि मे वद ॥
त्वं हि वेत्थ महाभाग सर्वधर्मान्यथाविधि ॥ १ ॥
पुष्कर उवाच ॥
षोडशर्तु निशाः स्त्रीणामाद्यास्तिस्रस्तु गर्हिताः ॥
व्रजेद्युग्मासु पुत्रार्थी ततः परमिति श्रुतिः ॥ २ ॥
अयुग्मासु तथा राम दुहितार्थी स्त्रियं व्रजेत् ॥
विकृष्टयुग्मामुत ये प्रशस्ताः प्रियदर्शनाः ॥ ३ ॥
दीर्घायुषो धर्मपरा भवन्तीह धनान्विताः ॥
गर्भस्य सृष्टताधाने गर्भाधानिकमिष्यते ॥ ४ ॥
पुरा तु स्पर्शनं कार्यं सेवनं तु विचक्षणैः ॥
षष्ठेऽष्टमे वा सीमन्तकर्मस्वेतेषु च त्रिषु ॥ ५ ॥
पुन्नामधेयं नक्षत्रं पुत्रकामस्य शस्यते ॥
आदित्यपुष्यसावित्रसौम्यमूलाः सवैष्णवाः ॥ ६ ॥
पुन्नामधेया निर्दिष्टाः स्वातिश्चैवात्र सप्तमम् ॥
अङ्गारकदिनं वर्ज्यं तिथिं रिक्तां च वर्जयेत् ॥ ७ ॥
अच्छिन्ननाभ्यां कर्तव्यं जातकर्म विचक्षणैः ॥
आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ॥ ८ ॥
अथवा भार्गवश्रेष्ठ दिने पूजितलक्षणे ॥
मृदुध्रुवेषु ऋक्षेषु नामकर्म विधीयते ॥९॥
तत्राप्यङ्गारकदिनं तिथिं रिक्तां च वर्जयेत् ॥
नामधेयं तु वर्णानां कर्तव्यं तु समाक्षरम् ॥2.85.१ ०॥
माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम् ॥
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्॥११॥
शर्म वर्म धनार्थं तु दासान्तं चानुपूर्वशः ॥
नामधेयं तु कर्तव्यं स्वकुलानुगमेन वा ॥ १२ ॥
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ॥
नाम कार्यं महाभाग न कार्यं विषमाक्षरम् ॥ १३ ॥
बालं तु कृतनामानं पूजितस्य गदाभृतः ॥
निवेदयेन्महाभाग तव पुत्रोऽयमित्युत ॥ १४ ॥
शिष्यः प्रेष्यश्च दासश्च संविभाज्यश्च केशवः ॥
नित्यं सन्ति विभागेन शुभेन मधुसूदनः ॥ १५ ॥
ततस्तु पूजनं कार्यं ब्राह्मणानां यथाविधि ॥
भोजयेद्ब्राह्मणांश्चात्र परमान्नं सदक्षिणम् ॥ १६ ॥
चूडाकर्म ततः कार्यं भृगुपुत्र यथाकुलम् ॥
नक्षत्राण्यत्र शस्यन्ते मृदु क्षिप्रचराणि च ॥ १७ ॥
तिथिं विवर्जयेद्रिक्तां सूर्यारार्किदिनान्यपि ॥
तत्रापि वासुदेवस्य पूजां कृत्वा विशेषतः ॥ १८ ॥
गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम् ॥
गर्भादेकादशे राज्ञः गर्भाच्च द्वादशे विशः ॥ १९ ॥
चूडाकर्मणि यः प्रोक्तः कालः सोऽत्रापि शस्यते ॥
नक्षत्राणां यथोक्तानां मुहूर्ताश्च शुभप्रदाः ॥ 2.85.२० ॥
षोडशाऽब्दे हि विप्रस्य राजन्यस्य दविविंशतिः॥
विंशतेश्च चतुष्कं तु वैश्यस्य परिकीर्तितम्॥२१॥
सावित्री नातिवर्तेत अत ऊर्ध्वं निवर्तते ॥
विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ॥ २ ॥
सावित्रीपतिता व्रात्या व्रात्यस्तोमक्रमादृते ॥
मुञ्जस्य बिल्वजानां च क्रमान्मौञ्जः प्रकीर्तितः॥ २३ ॥
मार्गवैयाघ्रचर्माणि वस्त्राणि व्रतचारिणाम् ॥
पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः॥२४॥
कचदेशललाटांसतुल्याः प्रोक्ताः क्रमेण तु ॥
अवक्रा सत्वचः सर्वे नाग्निशुष्कास्तथैव च ॥ २५ ॥
वासोपवीतकार्पासक्षौमोर्णानां यथाक्रमम् ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ॥ २६॥
प्रथमं तत्र भिक्षेत यत्र भिक्षा ध्रुवं भवेत् ॥
पूजयेद्वासुदेवं च तत्र देवं विशेषतः ॥ २७ ॥
हृषीकेशं व्रतेशं च सर्वविघ्नेश्वरं प्रभुम् ॥
यथोक्तेषु च ऋक्षेषु त्रैविद्यां कारयेद्गुरुः ॥ २८ ॥
नैवाधिकरी वेदे स्याद्विना त्रैविद्यकेन तु ॥
स्त्रीणां संस्कारमत्रोक्तं सकृत्कार्यं विजानता ॥ २९ ॥
क्षेत्रसंस्कारमेतद्धि सकृदेव विजायते ॥
संस्काराणि पिता कुर्यान्मेखलाबन्धनात्मनः ॥
मेखला बन्धनाद्यानि कार्याणि गुरुणा तथा ॥2.85.३०॥
सर्वाणि कार्याणि हि लौकिकेऽग्नौ स्वकल्पमालोक्य भृगुप्रधान ॥
सर्वेषु पूजा च तथा विधेया तस्याप्रमेयस्य जनार्दनस्य॥३१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने संस्कारवर्णनोनाम पञ्चाशीतितमोध्यायः॥८५॥
2.86
पुष्कर उवाच ॥
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ॥
आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥ १ ॥
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः ॥
भक्त्या गुरोस्तु कुर्वीत अभिगम्याभिवादनम् ॥२॥
गुरोस्तु वामं चरणं वामहस्तेन संस्पृशेत् ॥
दक्षिणं दक्षिणेनैव स्वनाम परिकीर्तयन् ॥ ३ ॥
अनुज्ञातस्तु गुरुणा ततोऽध्ययनमाचरेत् ॥
कृत्वा ब्रह्माञ्जलिं पश्यन्गुरोर्वदनमानतः ॥ ४ ॥
ब्रह्मावसाने प्रारम्भे प्रणवं चैव कीर्तयेत् ॥
अनध्यायेष्वध्ययनं वर्जयेत्तु प्रयत्नतः ॥ ५ ॥
भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ॥
गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ॥ ६ ॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ॥
श्रियः प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ ७ ॥
हितं प्रियं गुरोः कुर्याद्भक्त्याहंकारवर्जितः ॥
अन्वास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ॥ ८ ॥
अभिवाद्य गुरुं पश्चाद्गुरोर्वचनकृद्भवेत् ॥
मधुमांसाञ्जनं श्राद्धं गीतं नृत्यं च वर्जयेत् ॥ ९ ॥
हिंसां परापवादं च अश्लीलं च विशेषतः ॥
मेखलामजिनं दण्डं धारयेत्प्रयतः सदा ॥ 2.86.१० ॥
विनष्टानप्सु निक्षिप्य तथान्यान्धारयेत्पुनः ॥
आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् ॥ ११ ॥
समाप्ते तु व्रतं कुर्यात्त्रिरात्रेणैव शुद्ध्यति ॥
अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ॥ १२ ॥
एवं मतं तु कुर्वीत वेदस्वीकरणं द्विजः ॥
गुरवे दक्षिणां दत्त्वा स्नायाच्च तदनन्तरम्॥१३॥
आशरीरविमोक्षाद्वा वसेद्गुरुकुले सदा ॥
नैष्ठिको ब्रह्मचारी च वायुभूतः खमूर्तिमान् ॥१४॥
तत्पदं समवाप्नोति यत्र गत्वा न शोचति ॥
स्नाने चैव सगोदाने कालः पूर्वो विधीयते ॥
पूजनं वासुदेवस्य सर्वत्र च विधीयते॥१५॥
संपूज्य देवं गुरवे च दत्त्वा धनं यथावत्परिपूर्णविद्यः ॥
गृहाश्रमी स्याद्विधिवन्नृसिंह यत्रास्य लोकद्वितयं प्रदिष्टम् ॥ १६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने ब्रह्मचर्यवर्णनो नाम षडशीतितमोऽध्यायः ॥ ८६ ॥
2.87
पुष्कर उवाच ॥
विप्रश्चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः ॥
द्वे च वैश्यस्तथा कामं भार्यैकामपि चान्त्यजः ॥ १ ॥
ब्राह्मणी क्षत्रिया वैश्या शूद्री विप्रस्य कीर्तिताः ॥
क्रमेण कामसक्तस्य विवाहाः परिकीर्तिताः ॥२॥
विवाहमुत्क्रमात्कृत्वा नरकं प्रतिपद्यते ॥
धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ॥३ ॥
असवर्णा तु या नारी रत्यर्थे सा प्रकीर्तिता ॥
आधानं तस्य धर्मार्थं न प्रशंसन्ति साधवः ॥ ४ ॥
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ॥
वैश्या प्रतोदमादद्याद्दशां चैवान्त्यजा तथा॥५॥
उत्कृष्टवेदनेऽप्येतद्विधानं परिकीर्तितम् ॥
सकृत्कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ॥ ६ ॥
न कन्याविकयं कार्यं कदाचिदपि केनचित् ॥
केशविक्रयिणो यान्ति नरकानेक विंशतीन्॥७॥
अपत्यविक्रयात्तस्य निष्कृतिर्न विधीयते ॥
कन्याप्रजीवनात्किंचिन्नोपजीवति यः पुमान् ॥ ८ ॥
न तच्छुल्कं समुद्दिष्टमानृशंस्यं हि तत्कृतम् ॥
कन्यादानं शचीयागो विवाहोऽथ चतुर्थिका ॥ ९ ॥
विवाहमेतत्कथितं राम कर्मचतुष्टयम् ॥
दत्तामपि हरेत्कन्यां वरश्चेद्दोषभाग्भवेत् ॥ 2.87.१० ॥
नष्टे मृते प्रव्रजिते क्लीबेऽथ पतितेऽपतौ ॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ ११ ॥ ।
मृते तु देवरे देया तदभावे यदृच्छया ॥
पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयम् ॥ १२ ॥
रोहिणी चेति वरुणं भगणः शस्यते सदा ॥
नैकगोत्रां च वरयेन्नैकार्षीयां च भार्गव ॥ १३ ॥
पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा ॥
वरयेल्लक्षणोपेतां सदा लोकद्वयेच्छया ॥ १४ ॥
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ॥ १५ ॥
आहुः प्रदानं ब्राह्मेण कुलशीलयुताय तु ॥
तज्जः पुनात्युभयतः पुरुषानेकविंशतीन्॥१६॥
दैवश्च ऋत्विजे दानं स तु यज्ञः प्रकीर्तितः ॥
तज्जः पुनाति धर्मज्ञ स्वकुले पुरुषत्रयान्॥१७॥
शुल्केन चासुरं विद्यात्स तु धर्मादृते मतः ॥
परस्परेच्छया राम कन्यकावरयोस्तथा॥ १८ ॥
गान्धर्वो नाम निर्दिष्टः स तु मन्मथलक्षणः ॥
राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ १९ ॥
प्राजापत्यस्तथा ब्राह्मः समवर्णेषु पूज्यते ॥
दैवस्तु ब्राह्मणस्यैव नैव चान्यस्य कस्यचित् ॥ 2.87.२० ॥
गान्धर्वराक्षसौ श्रेष्ठौ क्षत्त्रियस्यैव भार्गव ॥
पूर्वं विवाहात्कर्तव्यः शचीयागो भृगूत्तम ॥ २१ ॥
वैवाहिकेन्दौ कुर्वीत कुम्भकारमृदा शचीम् ॥
सर्वलक्षणसंयुक्तां कुशलेन च शिल्पिना ॥ २२ ॥
तां नयेत्सरसस्तीरं नदीतीरमथापि वा ॥
सर्वभूषणसंपन्ना सर्वास्त्वविधवाः स्त्रियः ॥ २३ ॥
कौसुंभरक्तवसनाः सर्वाः स्युः शस्त्रपाणयः ॥
माल्यानुलेपनैर्भक्ष्यैर्दीपैर्धूपैस्तथैव च ॥ २४ ॥
कौसुंभरक्तैर्वस्त्रैश्च भूषणैश्चैव शक्तितः ॥
ततः शूर्पेण ताः साध्व्यो दिक्षु दत्त्वा बलिं शुभम् ॥ २५ ॥
संयम्य केशान्प्रयता गृहीत्वा च तथा शचीम् ॥
वाद्यगीतेन महता द्विजवाचनकेन च ॥ २६ ॥
गृहे प्रवेशयेत्पुंसां शक्रपत्नीमनिंदिताम् ॥
त्रिसन्ध्यं तत्र सा पूज्या गन्धमाल्यान्नसम्पदा ॥ २७ ॥
वन्दनीयोद्वाहसमये तत्र कालं निबोध मे ॥
प्रसुप्ते केशवे राम न तु कार्यं कथञ्चन ॥ २८ ॥
न पौषे न तथा चैत्रे न चार्ककुजवासरे ॥
कृष्णत्रिभागे नैवान्त्ये नाद्ये शुक्लस्य भार्गव॥२९॥
तथा रिक्ततिथौ नैव न विष्टौ करणे तथा ॥
न शुक्रेऽस्तमनं प्राप्ते तथा चास्ते बृहस्पतौ ॥2.87.३०॥
शशांकेऽन्यग्रहाश्चैव विवाहो न प्रशस्यते ॥
अर्कार्किभौमयुक्ते भे व्यतीपातहते तथा ॥३१॥
दिव्यान्तरिक्षभौमेन तथोत्पातेन घातिते ॥
तथा शिखिशिखाध्वस्ते सैंहिकेययुते तथा ॥३२॥
वैवाहिकान्यतो वक्ष्ये नक्षत्राणि भृगूत्तम ॥
सौम्यं पित्र्यं च वायव्यं सावित्रं रौहिणं तथा॥३३॥
उत्तरात्रितयं मूलं मैत्रं पौष्णं तथैव च ॥
मूहूर्ताश्च तथैतेषां शुभा अभिजिता सह ॥३४॥
मानुष्याख्यस्तथा लग्नो मानुष्याख्यस्तथांशकः ॥
अमानुष्याख्ये लग्नेऽपि मानुष्याख्येंशको हितः ॥३५॥
तृतीये च तथा षष्ठे दशमैकादशाष्टमे ॥
अर्कार्किभौमतनयाः प्रशस्ता न कुजोष्टमः ॥ ३६ ॥
सप्तान्त्याष्टमवर्ज्येषु शेषाः शस्ता ग्रहोत्तमाः ॥
तेषामपि तथा सूर्यश्चन्द्रः षष्ठो न शस्यते ॥ ३७
संकल्पविधिना कार्यो विवाहस्तदनन्तरम् ॥
वैवाहिकेऽह्नि कर्तव्यास्तथैव च चतुर्थिके ॥ ॥ ३८ ॥
न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः ॥
अतः परं गृहे गच्छेदृतुकाले सदा स्त्रियम् ॥ ३९ ॥
पर्ववर्ज्यं सदा गच्छेत्स्त्रीणां वा संस्मरन्वरम् ॥
सर्वकालं रतिर्दत्ता तासां सत्यं भृगूत्तम ॥2.87.४० ॥
परस्परातिक्रमणं दंपत्योः परिवर्जयेत् ॥
निष्कारणं तथा राम न कार्यमधिवेदनम् ॥४१॥
अप्रजा रोगिणी मूढा तथा च कलहप्रिया ॥
कन्याप्रजा तथा या च या चैवाप्रियवादिनी ॥ ४२ ॥
एताः खल्वधिवेत्तव्या गृहकार्यपराङ्मुखीः ॥
अधिविन्ना विशेषेण पालनीया सुतं भवेत् ॥४३॥
धर्मकार्येषु सर्वेषु तथा ज्येष्ठां नियोजयेत् ॥
धर्माधर्मौ समौ राम दम्पत्योरुभयात्मकौ ॥ ४४॥
पोष्या च नित्यं परिपालनीया भार्या भवेद्धर्मपरायणस्य ॥
धर्मार्थकामान्सततं द्विजेन्द्र तान्रक्षयेत्सम्यगथानया स्वान्॥ ४५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने धर्मवर्णनन्नाम सप्ताशीतितमोध्याम् ॥ ८७
2.88
॥ पुष्कर उवाच ॥
निद्रां जह्याद् गृही राम नित्यमेवारुणोदये ॥
वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्वकम् ॥ १ ॥
स्नानं समाचरेत्प्रातः सर्वकल्मषनाशनम् ॥
वेगोत्सर्गं न कुर्वीत फालकृष्टे तथा शुचौ ॥ २ ॥
गोष्ठे न चाग्नौ न तटे द्रुमच्छायासु शाद्वले ॥
पथि भस्मनि तोये च नांगणे न च गोपथे ॥ ३ ॥
नाग्न्यर्कानागतोयेषु प्रतिवाते तथैव च ॥
न वेगितो न कार्यस्थो वेगोत्सर्गं समाचरेत् ॥ ४ ॥
उदङ्मुखस्तु सन्ध्यासु दिवा वै भृगुनन्दन ॥
दक्षिणाभिमुखो रात्रौ नाकाशे तु कथञ्चन ॥ ५ ॥
कर्णस्थब्रह्मसूत्रस्तु वस्त्राच्छादितमस्तकः ॥
अभ्युद्धृताभिरद्भिस्तु मृद्भिः शौचं समाचरेत् ॥ ६ ॥
कृतशौचः शुचौ देशे प्राङ्मुखः सुसमाहितः ॥
उदङ्मुखस्तु धर्मज्ञ तथान्तर्जानुरेव च ॥ ७ ॥
उपस्पृशेच्च धर्मज्ञ शुद्धपादकरः सदा ॥
एकहस्तार्पितेनाऽथ फेणबुद्बुदिना तथा ॥ ८ ॥
अग्निपक्वेन तोयेन ननु नोपस्पृशेद्बुधः ॥
अङ्गुल्यग्रे भवेद्दैवं ब्राह्ममङ्गुलिमूलके ॥९॥
पैत्र्यं तर्जनिमूले स्यात्कनिष्ठायाश्च मानुषम् ॥
ब्राह्मेण त्रिः पिबेदापः प्रमृज्यात्तु ततो मुखम् ॥2.88.१० ॥
खान्यद्भिः संस्पृशेत्पश्चान्मूर्धानं नाभिमेव च ॥
उपस्पृश्य ततः पश्चाद्भक्षयेद्दन्तधावनम् ॥ ११ ॥
भुक्त्वा च निक्षिपेद्राम नित्यमेव समाहितः ॥
उदङ्मुखः प्राङ्मुखो वा न याम्याशापराङ्मुखः॥१२॥
मांसन्न भक्षयेच्चैव नोर्धशुष्कं न पिच्छिलम्॥
सुशिरं मधुरं चाम्लं वित्वचं पत्रसंयुतम॥१३॥
समपूर्वमतिस्थूलं कुब्जकीटविनाशितम् ॥
शाल्मल्यश्वत्थभव्यानां धवकिंशुकयोरपि ॥ १४॥
कोविदारशमीपीलुश्लेष्मातकबिभीतकान् ॥
वर्जयेद्दन्तकाष्ठेषु गुग्गुलं क्रमुक तथा ॥१५॥
वटासनार्कखदिरकरवीरांश्च भक्षयेत् ॥
जात्यश्वबिल्वबदरं मूलं च ककुभस्य च ॥ १६॥
अरिमेदं प्रियङ्गुं च कण्टकिन्याश्च भार्गव ॥
प्रक्षाल्य भक्षयेत्पूर्वं प्रक्षाल्यैव च संत्यजेत् ॥१७॥
पतितेऽभिमुखं शस्तं शान्ताशाभिमुखे दिनम् ॥
सौभाग्यकामो वामेन भक्षयेत्प्राक् सुसंयतः ॥१८॥
मुखभागेन धर्मज्ञ वाग्यतश्चैव भक्षयेत् ॥
मलशौचं ततः कृत्वा सम्यक् स्नानमथाचरेत् ॥ १९ ॥
न स्नानमाचरेद्भुक्त्वा नाविज्ञाते जलाशये ॥
नातुरो नारुणकरैरनाक्रान्ते नभस्तले ॥ 2.88.२०॥
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात ॥
परांभसि तथैवाल्पे नासिरस्कः कथञ्चन ॥२१॥
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ॥
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ॥ २२ ॥
खानि रात्रौ शयानस्य स्रवन्ति पुरुषस्य च॥
तस्मात्सर्वप्रयत्नेन प्रातःस्नानं समाचरेत्॥२३॥
प्रातःस्नायी सदा राम नरकं न च पश्यति ॥
यः करोति सदा राम स्नानं तु सवनद्वयम् ॥२४॥
स तु स्वर्गमनुप्राप्य त्रिदशैरपि पूज्यते ॥
तथा त्रिषवणस्नायी स्वर्गलोके महीयते ॥ २५ ॥
मानुष्यं प्राप्य भवति रूपयौवनसंयुतः ॥
धनधान्यवति स्फीते कुले चैव प्रसूयते ॥ २६॥
रूपौदार्यगुणोपेताः स्त्रियश्चाप्नोत्यनिन्दिताः ॥
धर्मे मतिश्चास्य भवेद्यशसा च विराजते ॥ २७ ॥
तस्मात्सदा धर्मपरेण राम तीर्थेषु मुख्येषु सरस्सु चैव ॥
स्नानं च कार्यं सुमलापहर्तृ नाकप्रदं कामकरं सुखाय ॥२८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने स्नानवर्णनो नामाष्टाशीतितमोऽध्यायः ॥ ८८॥
2.89
पुष्कर उवाच॥
माल्यं लक्ष्मीकरं नाम नित्यं शिरसि धारयेत् ॥
नान्यत्र धारयेत्प्राज्ञो बहिर्गन्धं न धारयेत् ॥ १॥
यश्च कण्टकिसम्भूतं कृष्णं रक्तं च भार्गव …
कण्टकिभ्योऽपि यज्जातं शुक्लं धार्यं तु तद्भवेत् ॥२ ॥
कृष्णरक्ते तथा धार्ये यदि स्यातां जलोद्भवे ॥
चन्दनेनानुलिप्तेन कुंकुमागुरुभिस्तथा ॥३ …
कर्पूरेण तथाङ्गानि शुभेन च प्रियङ्गुना ॥
वस्त्रं नान्यधृतं धार्यं न रक्तं मलिनं तथा ॥ ४ ॥
जीर्णं नापदशं चैव श्वेतं धार्यं प्रयत्नतः ॥
उपानहं नान्यधृतं ब्रह्मसूत्रं च धारयेत् ॥ ५ ॥
हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ॥
व्यालैरदान्तैर्वाहैश्च न व्रजेच्च कदाचन ॥ ६
स्नानभोजनपानादि तेषामाद्यो न वाचरेत् ॥
नैकः प्रपद्येदध्वानं नाधार्मिकसहायवान् ॥ ७ ॥
न रात्रौ न च मध्याह्ने न च देवे प्रवर्षति ॥
न चातिविषमे वाते सन्ध्ययोश्च तथा द्विज ॥ ८ ॥
नासन्निहितपाने वा न वेगान्न च सन्ततम् ॥
सातपत्र पदत्राणः सोष्णीषश्च तथा चरेत् ॥ ९ ॥
चतुष्पथं न सः कुर्याद्विख्यातांश्च वनस्पतीन् ॥
मङ्गल्यानि च सर्वाणि पथि कुर्यात्प्रदक्षिणम् ॥ 2.89.१० ॥
अमङ्गल्यानि वामानि कर्तव्यानि विजानता ॥
वरस्य भूमिपालस्य स्नातकस्याथ चक्रिणः ॥ ११॥
भाराक्रान्तस्य गुर्विण्याः पन्था देयः प्रयत्नतः ॥
व्यालयुद्धं न चेक्षेत विना विषममास्थितः ॥१२॥
न पश्येच्चार्कमुद्यन्तं नास्तं यान्तं न चाम्भसि ॥
तिरस्कृतं तु वस्त्रेण न कुद्धस्य गुरोर्मुखम् ॥१३॥
न स्त्रीं स्रवन्तीं नोदक्यां न नग्नां नान्यसङ्गताम् ॥
न पत्नीं भोजनस्वप्नस्नानासक्तां विभूषणाम् ॥ १४ ॥
नाञ्जयन्तीं स्वके नेत्रे नाश्लीलं किञ्चिदेव तु ॥
नानास्थानं न पश्येच्च न पश्येच्च महानसम् ॥ १५ ॥
जलाशयतटस्थांश्च न पश्येत्तु कदाचन ॥
हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ॥ १६ ॥
व्यालैरदान्तैर्वाहैश्च न व्रजेत्तु कदाचन ॥
स्नानभोजनपानादि तेषामादौ न चाचरेत् ॥ १७ ॥
चतुष्पथस्तुषाङ्गारशन्यवेश्माटवीस्तथा ॥ १८ ॥
कार्पासास्थि तथा भस्म नाक्रमेद्यश्च कुत्सितम् ॥
अन्तःपुरं ऋतुगृहं परदूतगृहं तथा ॥ १९ ॥
नारोहेद्विषमां नावं न वृक्षं न च पर्वतम् ॥
न लोष्टेन न काष्ठेन नाश्मना च फलद्रुमान्॥ 2.89.२० ॥
न पातयेन्न कुर्वीत सर्वत्र च कुतूहलम् ॥
अर्थायतनशास्त्रेषु सर्वत्र स्यात्कुतूहली ॥ २१ ॥
दण्डेन करपातैर्वा न कुर्यादम्बुवादनम् ॥
तृणच्छेदं न कुर्वीत न च लोष्टाभिमर्दनम् ॥ २२ ॥
नखानां भक्षणं चैव दन्तानां कुट्टनं तथा ॥
छेदनं च नखैर्लोम्नां वृथा चेष्टां विवर्जयेत् ॥ २३ ॥
मुखाङ्गवादनं चैव क्ष्वेडोत्क्रुष्टं तथा वृथा ॥
अवगुंठ्य शिरो रात्रौ न शयीत कदाचन … ॥ २४ ॥
पर्यटेन्न तथा रात्रौ विना राम प्रदीपिकाम् ॥
नाद्वारेण पशुगृहे नाद्वारेण रिपोर्गृहम् ॥ २५ ॥
प्रविशेन्न च तिष्ठेच्च निद्रितं न च बोधयेत् ॥
नाक्षिपेत्परवाक्यं तु न च रक्तं विरागयेत् ॥ २६ ॥
कथाभङ्गं न कुर्वीत न च वासोविपर्ययम् …
नोर्ध्वजानुश्चिरं तिष्ठेदुत्पतन्तीं न लंघयेत् ॥ २७ ॥
परक्षेत्रे चरन्तीं गां पाययन्तीं च वत्सकम्॥
नाचक्षीत तथान्यस्य शक्रचापं न दर्शयेत् ॥ २८ ॥
भद्रं भद्रमिति ब्रूयान्नानिष्टं वर्तयेत्क्वचित् ॥
पालाशमासनं वर्ज्यं पादपीठं च पादुके ॥ २९ ॥
सुरार्चा गुरुभूपानां ब्राह्मणानां विशेषतः ॥
नाक्रमेच्च तथा छायां श्वपचस्य च भार्गव ॥ 2.89.३० ॥
द्विजयोश्चैव दम्पत्योर्भूपयोर्युध्यमानयोः ॥
अग्निब्राह्मणयोश्चैव द्विजभूपालयोस्तथा ॥ ३१ ॥
शिष्योपाध्याययोश्चैव न च मध्ये न पूज्ययोः ॥
तैले जले तथा वक्त्रमादर्शे च मलान्विते ॥ ३२ ॥
न पश्येन्न तथा पश्येदुपरक्तं दिवाकरम् ॥
नोच्छिष्टस्तारकाराहुः स्तुतिनाशं हुताशनम् ॥ ३३ ॥
न तिष्ठेत्प्रतिवातं च तथा च प्रतिभास्करम् ॥
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ॥ ३४ ॥
रोदनं च तथा नग्नः कुर्यात्तोयावगाहनम् ॥
निष्कारणं नदीपारं बाहुभ्यां न तरेत्तथा ॥ ३५ ॥
न प्रशंसेन्नदी तोये नदीमन्यां कथंचन ॥
न गिरौ पर्वतं राम न राज्ञः पुरतो नृपम् ॥३६॥
असंतर्प्य पितुर्देयं नदीपारं न च व्रजेत् ॥
भोजनं वर्जयेन्नावि ष्ठीवनं च तथांभसि ॥ ३७ ॥
नैवाप्सु प्रक्षिपेद्विद्वानमेध्यं रुधिरं विषम् ॥
समाल्यो नाचरेत्स्नानं न द्विवासा विकारणम् ॥३८ ॥
आत्मनश्च तथा राम नैव त्वपनयेत्स्रजम् ॥
स्नातः शिरो नावधुनेन्नांगेभ्यस्तोयमुद्धरेत् ॥ ३९ ॥
तद्दिने चानुलिप्तांगं तथा स्नानं विवर्जयेत् ॥
शिरःस्नातश्च तैलेन स्पृशेदंगं न किञ्चन ॥ 2.89.४० ॥
वाससा वामभागस्य रजसा पूर्ववाससा ॥
संमार्जनं रजोवर्ज्यः खराश्वादेस्तथैव च ॥ ४१ ॥
मेध्यानि च तथा राम गोगजाश्वरजांसि च ॥
नाधः कुर्वीत दहनं न च पादौ प्रतापयेत् ॥ ४२ ॥
दर्भैर्न मार्जयेत्पादौ न च कांस्ये प्रधापयेत् ॥
गोगजाश्वाजपुच्छेषु खरस्य च विशेषतः ॥ ४३ ॥
यल्लग्नमुदकं तस्माद्विप्रुषो दूरतस्त्यजेत् ॥
अकस्मादप्यशस्तास्ताः खञ्जांगस्पर्शनं तथा ॥ ४४ ॥
हीनं वा न वहेद्राम श्रुतरूपधनादिभिः॥
हीनैर्न च वसेत्सार्धं न देशे वैद्यवर्जिते ॥ ४५ ॥
न भूपालविहीने च न सांवत्सरवर्जिते ॥
दुष्टकूपान्विते राम तथा च बहुनायके ॥ ४६ ॥
स्त्रीनायके बालपतौ शूद्रराज्ये तथैव च ॥
म्लेच्छवेषो न कर्तव्यो म्लेच्छभाषा तथैव च ॥ ४७ ॥
चण्डालैः पतितैर्म्लेच्छैर्भाषणं न कदाचन ॥
नकारं कायतः कृत्वा कीर्तयेत्केशवं विभुम् ॥ ४८ ॥
नासंवृतमुखः कुर्याद्धासं जृम्भां तथा क्षुतम् ॥
गोपयेज्जन्मनक्षत्रमृणसारं गृहे मलम् ॥ ४९ ॥
प्रभोरप्यवमानं स्वं तस्य दुश्चरितं च यत् ॥
नानुकूल्यं तथा कार्यमिन्द्रियाणां सुखेप्सुना ॥ 2.89.५० ॥
युक्त्या च कामसेवी स्यान्नाकस्मान्निःसुखी भवेत् ॥
वेगरोधं न कर्तव्यमन्यत्र क्रोधवेगतः ॥ ५१ …
नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पोऽपि भार्गव ॥
स्नात्वा भुक्त्वा च धर्मज्ञ भक्तिकामः सुरार्चने ॥ ५२ ॥
मलायनानां संस्पर्शे मलानां चैव भार्गव ॥
वाससश्च परीधाने रथ्याचंक्रमणे तथा ॥ ५३ ॥
आचमेच्च तथा राम तथा स्वप्नोत्थितो नरः ॥
न हुंकुर्याच्छिवं पूज्यं बिभृयान्नाग्निचारिणीम्॥५४॥
न भुक्तमात्रं प्रायस्येन्नीचसेवां विवर्जयेत् ॥
पादेन नाक्रमेत्पादं न कण्डूयेन्न शौचयेत् ॥५५ ॥
वर्जयेच्छवधूमं च गिरं चाश्लीलसंयुताम् ॥
प्रत्यक्षं वा परोक्षं वा कस्यचिन्नाप्रियं वदेत् ॥ ५६ ॥
वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् ॥
नास्तिक्यमनृतं चैव चेतसो दूषणं तथा ॥ ५७ ॥
स्त्रीणामीर्ष्या न कर्तव्या विश्वासं तासु वर्जयेत् ॥
लाडितास्ताडिताः कार्या देहे स्वे स्त्रीकुमारिकाः ॥ ॥ ५८ ॥
सर्वेषामेव धर्माणां कर्तव्यं श्रवणं तथा ॥
नमस्कारं च देवानां सर्वेषामेव कारयेत् ॥ ५९ ॥
सर्वेषां चरितं राम धर्मतो न विकुत्सयेत् ॥
न चाचरेच्च धर्मज्ञ ते हि तेजोपहाहताः ॥2.89.६०॥
धर्मस्यार्थस्य कामस्य पीडावर्ज्या परस्परम् ॥
देवस्य वयसश्चैव शिल्पस्य स्वकुलस्य च ॥६१॥
आचरेत्सदृशं वेषं व्यवसायानुरूपतः ॥
स्नात एवाशु बिभृयात्सोष्णीषे धौतवाससी ॥ ६२ ॥
अनुलिप्येत्तथांगानि सितं माल्यं च धारयेत् ॥
नासंस्कृतं च बिभृयात्काञ्चनं पुरुषोत्तम ॥६३॥
निराशनस्य सुप्तस्य शयानस्य तथैव च ॥
तथा भुक्तवतो राम स्नातस्य भाषितस्य च ॥६४॥
यात्रायुद्धोत्सुकस्यापि श्मश्रुकर्म विवर्जयेत् ॥
वैष्णवं वारुणं त्वाष्ट्रं सावित्रं वासवं तथा ॥ ६५ ॥
वायव्यमिन्द्रिकं पौष्णं शाक्रमाश्विनमेव च ॥
मैत्रादित्ये तथा पुष्यः शंखचक्रगणं भवेत् ॥ ६६ ॥
नक्षत्राणामथैतेषां मुहूर्ताश्च हितप्रदाः ॥
अर्कार्किभौमवाराश्च रिक्ताश्च तिथयस्तथा ॥ ६७ ॥
प्रतिपच्च तथा षष्ठी वर्जयेत्क्षौरकर्मणि ॥
वर्जयेज्जन्मनक्षत्रं नानुकूलं तथैव च ॥ ६८ ॥
जन्मनक्षत्रगे सौम्ये शिरःस्नानेन यत्नतः ॥
पूजा सोमस्य कर्तव्या नक्षत्रस्य तथात्मनः ॥ ६९ ॥
श्राद्धं कुर्यात्प्रयत्नेन वह्निब्राह्मणपूजनम् ॥
वाहनायुधच्छत्राद्यं पूजनीयं प्रयत्नतः ॥ 2.89.७० ॥
सुराणामर्चनं कार्यं केशवस्य विशेषतः ॥
समं स्वलंकृतस्तिष्ठेच्छिरस्नातश्च मानवः ॥ ७१ ॥
निर्मलानि च कार्याणि दन्तकेशनखानि च ॥
अष्टमीं च तथा षष्ठीं नवमीं च चतुर्दशीम् ॥ ७२ ॥
शिरोभ्यङ्गं न कुर्वीत पर्वसन्धौ तथैव च ॥
तथैवामलकस्नानं सप्तमीषु विवर्जयेत् ॥७३॥
विना तु सततं स्नानं न स्नायाद्दशमीषु च ॥
अमावस्यां सुरार्चासु नववस्त्रं न धारयेत् ॥ ७४ ॥
न च भौमदिने राम तेष्वनक्तेषु चाप्यथ ॥
सावित्र रौहिणं मैत्रमादित्यं तिष्यमाश्विनम् ॥ ७५ ॥
उत्तरात्रितयं चित्रा वायव्यं वसुदैवतम् ॥
इन्द्राग्निदैवतं पौष्णं तानि शस्तानि निर्दिशेत् ॥ ७६ ॥

परद्रोहं तथा हिंसां प्रयत्नेन विवर्जयेत् ॥ ७७ ॥
केशग्रहान्प्रहारांश्च शिरस्येतां तथैव च ॥
दूरादावसन्थामूत्रं पूरीषं च समुत्सजेत् ॥ ७८ ॥
पादप्रक्षालनं चैव भिन्नभाण्डादिकं च यत् ॥
सर्वमेतत्त्यजेत्प्राज्ञो येन स्यादरिमर्दनम् ॥ ७९ ॥ ।
तण्डुलोदकनिक्षेपं विपरीतं तु कारयेत् ॥
तथैकमनसा कार्यं देवतानां च पूजनम् ॥ 2.89.८० ॥
वह्निसंपूजनं चैव न चास्नातेन भार्गव ॥
माल्यानुलेपनादीनि न प्रपद्यात्तु कस्यचित् ॥ ८१ ॥
अन्ये च देवताविप्रगुरूणां भृगुनन्दन ॥
कोविदारगणाशाकं चतुर्थी पिप्पली तथा ॥ ८२ ॥
वर्जये –न्मांसं सुखार्थी सर्वमेव तु ॥
राजद्विष्टं न कर्तव्यं विरोधं च महाजनैः ॥८३॥
शुष्कवैरं विवादं च प्रयत्नेन विवर्जयेत् ॥
न वसेच्च तथा वासं वास्तुविद्याविगर्हितम् ॥८४॥
आगाराद्याखुघातां च परोच्छिष्टां तथैव च॥
ऊषराच्चैव वल्मीकान्मृदं शौचे विवर्जयेत् ॥८५॥
येनेच्छेद्विपुलां प्रीतिं तेन सार्धमरिन्दम ॥
न कुर्यादर्थसंबन्धं दारसंदर्शनं तथा॥८६॥
आत्माभिष्टवनं निन्दां परस्य च विवर्जयेत् ॥
दृढभक्तो भवेन्नित्यं कृतज्ञश्च विशेषतः ॥८७॥
इन्द्रियाणां जये योगमातिष्ठेच्च सदा नरः ॥
इन्द्रियाणां जयाच्चैव लोकयोः सुखमाप्नुयात् ॥८८॥
अभिगत्वा तु धर्मज्ञो योगक्षेमार्थमीश्वरम् ॥
गृहं प्रविश्य कुर्वीत स्वाध्यायं सततं बुधः ॥८९॥
अर्थलाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ॥
कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात् ॥ 2.89.९० ॥
यस्तु वर्षशतं पूर्णं त्वरण्ये तपते तपः ॥
ऋचमेकां च योध्येति समौ स्यातां न चाधिकः ॥
स्वाध्यायाऽनन्तरं स्नातः कृतजप्यः समाहितः॥९१॥
संपूजनं देववरस्य कुर्यात्तस्याप्रमेयस्य जनार्दनस्य ॥
संपूजनाद्यस्य समस्तयज्ञैः कृतैः फलं शीघ्रमवाप्नुवन्ति ॥ ९२ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आचाराध्यायो नामैकोननवतितमोध्यायः ॥ ८९
2.90
॥ पुष्कर उवाच॥
स्वाचान्तः प्रयतः स्नातः प्रविशेद्देवतागृहम् ॥
नमस्कारं तु कुर्वीत तत्र भक्त्या समाहितः॥१॥
आपोहिष्ठेति तिसृभिस्ततोऽर्घ्यं विनिवेदयेत् ॥
हिरण्यवर्णा इति च पाद्यं च तिसृभिर्द्विजः ॥ २ ॥
शन्न आप इत्यनेन देयं सौदामनं भवेत् ॥
इदमापः प्रवहत स्नानमन्त्रः प्रकीर्तितः … ॥ ३ ॥
रथे अक्षेषु च तथा चतस्रस्त्वनुलेपने ॥
युवा सुवास इति च मन्त्रो वासस ईरितः ॥ ४ ॥
पुष्पं पुष्पवतीत्येव धूपं धूरसि चाप्यथ ॥
तेजोसि शुक्रमसि दीपं दद्याद्विचक्षणः ॥ ५ ॥
दधिक्राव्णो इति तथा मधुपर्कं निवेदयेत् ॥
हिरण्यगर्भ इत्यष्टौ ऋचः प्रोक्ता निवेदने ॥ ६ ॥
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ॥
चामरव्यजने मात्रां छत्रं यानासने तथा ॥७॥
यत्किञ्चिदेवमादिः स्यात्सावित्रेण निवेदयेत् ॥
पौरुषं च जपेत्सूक्तं तदेव जुहुयात्तथा ॥ ८ ॥
अर्चाभावे तथा वेद्यां स्थले पूर्णघटे तथा ॥
नदीतीरेऽथ कमले केशवं पूजयेन्नरः ॥ ९ ॥
सर्वाशुभानां परिघातकारि संपूजनं देववरस्य विष्णोः ॥
कृत्वानघान्क्षिप्रमनुप्रयाति यत्रैक्यतां याति पितामहस्य ॥2.90.१०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने देवकर्माध्यायो नाम नवतितमोऽध्यायः ॥९०॥
2.91
पुष्कर उवाच॥
नक्तं गृहीतमुदकं देवकर्मणि वर्जयेत् ॥
चन्दनागरुकर्पूर मृगदर्पं तथैव च ॥ १ ॥
जातीफलं तथा दद्यादनुलेपस्य कारणात् ॥
अतोन्यं नैव दातव्यं किञ्चिदेवानुलेपनम् ॥ २ ॥
दारिद्र्यं पद्मकः कुर्यादस्वास्थ्यं रक्तचन्दनम् ॥
उशीरश्च तु विभ्रंशं मन्ये कुर्युरुपद्रवम् ॥ ३ ॥
न वस्त्रं मलिनं देयं नीलं रक्तं तु यद्भवेत् ॥
तौ दत्त्वा देवदेवाय शोकमाप्नोत्यसंशयम् ॥ ४ ॥
कृत्रिमं तु न दातव्यं तथैवाभरणं द्विज ॥
प्रतिरूपकृतं दत्त्वा क्षिप्रं पुष्ट्या वियुज्यते ॥ ५ ॥
पुष्पं कण्टकिसंजातं तथा गन्धविवर्जितम् ॥
उग्रगन्धं न दातव्यं त्वन्यदेवगृहोद्भवम् ॥ ६ ॥
श्मशानचैत्यद्रुमजं भूमावशनिपातितम् ॥
कलिका न तु दातव्या देवदेवस्य चक्रिणः ॥ ७ ॥
शुक्लान्यवर्णं कुसुमं न देयं च तथा भवेत् ॥
सुगन्धि शुक्लं देयं स्याज्जातं कण्टकिते द्रुमे।८॥
दत्त्वा कण्टकिसंभूतं कुसुमं परिभूयते ॥
शुक्लान्यवर्णं दातव्यं कुसुमं कुंकुमस्य यत् ॥ ९ ॥
पद्मोत्पले च धर्मज्ञ तथा वै पीतयूथिकाम् ॥
तथा च वन्यकं दद्याच्चूतकेतकिजं च यत् ॥ 2.91.१० ॥
रक्ताशोकस्य कुसुममतसीकुसुमं तथा ॥
वृक्षायुर्वेदविद्भिश्च शुक्लं रक्तीकृतं च यत् ॥११॥
तद्रक्तमपि दातव्यं बिल्वपत्रं तथैव च ॥
दूर्वाग्रं च तथा देयं पत्रं भृङ्गिरजस्य तु ॥ १२ ॥
पत्राणि च सुगन्धीनि तथा देयानि चक्रिणः ॥
मध्योऽन्यवर्णो यस्य स्याच्छुक्लस्य कुसुमस्य च ॥ १३ ॥
पुष्पं शुक्लं तु तद्विद्यान्मनोज्ञं केशवप्रियम् ॥
बन्धुजीवकपुष्पाणि रक्तान्यपि च दापयेत् ॥ १४ ॥
अनुक्तरक्तकुसुम दानाद्दौर्भाग्यमाप्नुयात् ॥
सुगन्धि दत्त्वा नाप्नोति शुभं वा यदि वाशुभम् ॥ १५ ॥
मृगदर्पं विना किञ्चिदथ चेज्जीवसंभवम् ॥
देवदेवस्य दातव्यं दीपे मज्जानमेव वा ॥ १६ ॥
नीलां रक्तां दशां दीपे प्रयत्नेन विवर्जयेत् ॥
अन्या च दीपमात्रं तु तथा वर्जं प्रयत्नतः ॥१७ ॥
कृष्णागरुस्तथा देवधूपं देवस्य यत्नतः ॥
अभक्षं चाप्यहृद्यं च नैवेद्यं न निवेदयेत् ॥ १८ ॥
केशकीटावपन्नं च नखांशविहितं च यत् ॥
मूषिकालांगलोपेतमवधूतमवक्षतम्॥१९॥
न भक्ष्यमन्नमक्षीरं माहिषं क्षीरमेव च ॥
वराहमत्स्यमांसं च मांसं पञ्चनखस्य च ॥
दुरामोदौ तथा वर्ज्यौ देवकर्मणि पंडितैः॥2.91.२०॥
निवेश्य चित्तं पुरुषोत्तमस्य भक्तिं समास्थाय तथा विशुद्धाम् ॥
करोति श्रद्धां सततं यथोक्तां स याति लोकं मधुसूदनस्य ॥२१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्पादिदेयादेयकथनन्नामैकनवतितमोऽध्यायः ॥ ९१ ॥
2.92
पुष्कर उवाच ॥
ततोऽग्निशरणं गत्वा स्मार्तेऽग्नौ विधिपूर्वकम् ॥
वैश्वदेवं तु कर्तव्यं हुतोत्सृष्टं तु लौकिके ॥ १ ॥
यत्र क्वचन वा राम दीप्यमानेऽथ चोदके ॥
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिस्तरेत् ॥ २ ॥
सर्वान्नमग्नावुद्धृत्य जुहुयात्प्रयतस्ततः ॥
वासुदेवाय देवाय प्रभवे नाप्ययेन च ॥ ३ ॥
अग्नये चैव सोमाय मित्राय वरुणाय च ॥
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥ ४ ॥
विश्वेभ्यश्चैव देवेभ्यः प्रजानां पतये तथा ॥
अनुमत्यै तथा राम धन्वंतरिण एव च ॥ ५ ॥
वास्तोष्पत्यै तथा देव्यै ततः स्विष्टिकृतेऽग्नये ॥
चतुर्थ्यन्तेन नत्वा च हुत्वैतेभ्यो बलिं हरेत् ॥ ६ ॥
तक्षोपतक्षावभितः पूर्वेणाग्निमतः परम् ॥
अम्बानामासि धर्मज्ञ दुर्गा नामानि चाप्यथ ॥ ७ ॥
निवन्ती च पनीका च प्रभवन्ती तथैव च ॥
मेधवन्ती च नामासि सर्वेषामेव भार्गव॥८।
आग्नेयाद्याक्रमेणाथ ततः सूक्तिषु निक्षिपेत् ॥
निर्दित्यै वसुभाग्यै च सुमङ्गल्यै च भार्गव ॥ ९॥
भद्रंकर्यै ततो दत्त्वा स्थूणायै च तथा श्रियै ॥
हिरण्यकेश्यै च तथा वनस्पतय एव च ॥2.92.१०॥
धर्माधर्माभ्यां च द्वारे गृहमध्ये ध्रुवाय च ॥
मृत्यवे च बहिर्दद्याद्वरुणायोदकाशये॥११॥
भूतेभ्यश्च बहिर्दद्याच्छरणे धनदाय च ॥
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात्पूर्वेण मानवः ॥ १२ ॥
यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस्ततः ॥
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्ततः ॥ १३ ॥
सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरम् ॥
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ॥ १४ ॥
आकाशे च तथैवोर्ध्वं स्थण्डिले च तथा क्षितौ ॥
दिवाचरेभ्यश्च दिवा रात्रौ रात्रिचराय च ॥ १५ ॥
बलिं बहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहम् ॥
पिण्डनिर्वापणं कार्यं सायं प्रातर्न कारयेत् ॥ १६ ॥
पित्रे तु प्रथमं पिण्डं तत्पित्रे तदनन्तरम् ॥
ततो दद्याच्च तत्पित्रे मात्रे च तदनन्तरम् ॥ १७ ॥
पितृमात्रे ततो दद्याच्छ्वश्र्वै तदनन्तरम् ॥
दक्षिणाग्रेषु दर्भेषु सलिलेषु विशेषतः ॥ १८ ॥
यत्किञ्चित्पश्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥
निवेदयेच्च तत्सर्वं शुभं पानं विशेषतः ॥ १९ ॥
पुष्पैर्धूपेन दीपेन पूजयेत्सततं पितॄन् ॥
नामगोत्रे सदा वाच्ये पिण्डनिर्वापणे तथा ॥ 2.92.२० ॥
पिण्डं दद्याच्च काकानां तत्र मन्त्रमिमं पठेत् ॥
ऐन्द्रा वरुणवायव्या याम्या वै नैर्ऋतास्तथा ॥ २१ ॥
ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् ॥
ततः पिण्डं शुनां दद्यान्मन्त्रं तत्र निबोध मे ॥२२ ॥
वैवस्वतकुले जातौ द्वौ श्यामशबलौ शुनौ ॥
ताभ्यां पिण्डं प्रदास्यामि पथि रक्षन्तु मां सदा ॥ २३ ॥
ततो ग्रासं गवां दद्यादत्र मन्त्रं निबोध मे ॥
सौरभेय्यः सर्वहिताः पवित्राः पापनाशिनीः ॥२४॥
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥
ततः स्वस्तययनं कार्यं भिक्षा देया च भिक्षवे॥२५॥
दत्त्वा तु संस्कृतां भिक्षां गोदानफलमाप्नुयात् ॥
बालः सुवासिनी वृद्धा गर्भिण्यातुरकन्यकाः॥२६॥
भृत्याँश्च भोजयेद्राम पूजयित्वा तथातिथीन् ॥
नैकग्रामीणमतिथिं विद्यान्नाब्राह्मणं तथा ॥२७॥
अतिथिं भोजयेत्पूर्वं ततो भृत्यांश्च पूजयेत् ॥
राजन्यमथवा वैश्यं शूद्रं वा द्विजसत्तम ॥२८॥
वैश्वदेवे च संप्राप्तं भृत्यैः सह च भोजयेत्॥
वयोभ्यश्च तथा दद्याच्चण्डालेभ्यस्तथा भुवि॥२९॥
साधारणं तत्सर्वेषां शेषकं गृहिणां गृहे ॥
वैश्वदेवे च संप्राप्ते न कथंचिदवमानयेत्॥2.92.३०॥
आदाय सुकृतं याति भग्नाशश्चातिथिर्गतः ॥
अध्वना यस्तु भग्नाय ब्राह्मणाय तथा दिवि॥३१॥
सत्कृत्य भोजनं दद्यात्तेन स्वर्गे महीयते ॥
देवा ब्राह्मणरूपेण चरन्ति पृथिवीमिमाम्॥ ३२॥
तस्मात्संप्राप्तमतिथिं प्रयत्नेन तु पूजयेत् ॥
अतिथिं पूजयेच्चाग्रे दशगोदफलं लभेत्॥३३॥
पादशौचं ततो दत्त्वा प्राप्तायांतिथये गृहे ॥
गोदानफलमाप्नोति दत्त्वा चैव तथासनम् ॥३४॥
प्रतिश्रयप्रदानेन नाकपृष्ठे महीयते ॥
तालवृन्तानिलं कृत्वा तथा प्राप्ताय मानवः ॥३५॥
गोदानफलमाप्नोति वायुलोकं स गच्छति ॥
तालव्यजनहस्तस्तु कृत्वा तदभिचारणम्॥३६॥
अतिथिर्भोजने प्राप्ते गोदानफलमाप्नुयात् ॥
शीताहतातिथिं प्राप्य काष्ठान्प्रज्वालयेन्नरः ॥ ३७ ॥
प्रतापयेन्महाभाग दशधेनुफलं लभेत् ॥
कायाग्निदीप्तिमाप्नोति प्राकाश्यं परमं तथा ॥ ३८ ॥
तृष्णार्तायोदकं दत्त्वा पाने गोदानमाप्नुयात् ॥
श्रान्तसंवाहनं कृत्वा धेनुदानफलं लभेत् ॥ ३९ ॥
रोगिणः परिचर्यां च कृत्वा दशगुणं लभेत् ॥
पादाभ्यंगं नरः कृत्वा प्राप्तायातिथये गृहे ॥2.92.४०॥
गोदानफलमाप्नोति नागलोकं च गच्छति॥
प्रतिश्रयं तथा दीनं दत्त्वा चातिथये नरः॥४१॥
धेनुदानफलं प्राप्य सूर्यलोके महीयते ॥
चक्षुष्मांश्च प्रकाशांश्च विरोधश्चैव जायते ॥४२॥
शयनीयप्रदानेन वसुदानफलं लभेत् ॥
दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात्॥४३॥
शौचोदकप्रदानेन गोदानफलमाप्नुयात् ॥
मृत्प्रदानेन धर्मज्ञ विरोधो नाभिजा यते॥४४॥
दत्त्वानुलेपनं मालां परां लक्ष्मीमुपासते ॥
तथौषधिप्रदानेन विरोगस्त्वभिजायते॥ ४५ ॥
स्नानाभ्यङ्गप्रदानेन रूपवानभिजायते ॥
तथा स्नानीयदानेन गन्धर्वैः सह मोदते ॥ ४६ ॥
स्नानोदकप्रदानेन वारुणं लोकमाप्नुयात् ॥
उपानहः प्रदानेन विमानमधिरोहति ॥ ४७ ॥
तथा छत्रप्रदानेन गाणपत्यमवाप्नुयात् ॥
वस्त्रप्रदानाद्भवति रूपवान्सुभगस्तथा ॥ ४८ ॥
अश्वमेधमवाप्नोति तथा भूमिप्रदो नरः ॥
यानदः स्वर्गमाप्नोति पौण्डरीकपदं तथा ॥४९॥
वारिधानीस्तथा दत्त्वा पूर्णाः शीतेन वारिणा ॥
सर्वा सभक्षाः प्राप्नोति गोलोकं मानुषोत्तम ॥ 2.92.५० ॥
त्रपुषैर्वारुकायुक्तैः शर्कराघृतसंयुतैः ॥
सक्तुभिर्लवणोपेतैघृर्तैर्हरितसंयुतैः ॥ ५१॥
तर्पयित्वातिथिं सम्यग्वारिधान्यैश्च गोरसैः ॥
गोलोकं चिरमाप्नोति नात्र कार्या विचारणा ॥ ५२ ॥
तृप्तिमाप्नोति च तथा यत्रयत्राभिजायते ॥
किमिच्छकेन संयोज्य चाश्वमेधफलं लभेत् ॥ ५३ ॥
तांबूलस्य प्रदानेन गन्धर्वैः सह मोदते ॥
उप्तिमासावृतं कृत्वा स्वर्गलोके महीयते ॥ ५४ ॥
इतिहासानथाश्राव्य गोदानफलमाप्नुयात ॥
गोप्रदानेन वित्तेन तोषयित्वा तथातिथिम् ॥ ५५ ॥
महत्फलमवाप्नोति गन्धर्वैः सह मोदते ॥
अनुव्रज्यातिथिं राम गोदानफलमाप्नुयात् ॥ ५६ ॥
तस्मात्सर्वप्रयत्नेन पूजयेदतिथिं सदा ॥
राजन्या विप्रदैवत्या नार्यश्च पतिदेवताः ॥
गृहस्थोऽतिथिदैवत्यस्तस्मात्तं पूजयेत्सदा ॥५७॥
सततमिह नरो यः पूजनं चातिथीनां तृणजलमृदुवाक्यैः सारशक्त्या विदध्यात् ॥
सुरसदसि स पूज्यो देवतानां तथा स्याद्भवति च नरलोके जायमानः समृद्धः ॥ ॥ ५८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये वैश्वदेवकथनन्नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥
2.93
॥ पुष्कर उवाच ॥
चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव ॥
ग्रहणं तु भवेत्तत्र न पूर्वं भोजनक्रिया ॥ १ ॥
नाचरेत्सग्रहे तस्मिंस्तथैवास्तमुपागते ॥
यावत्स्यादुदयं तस्य नाश्नीयात्तावदेव तु ॥२॥
गोब्राह्मणश्चोपरागे न चाश्नीयात्प्रयत्नतः ॥
न राज्ञो विप्लवेऽश्नीयात्सुरार्चाविप्लवे तथा ॥ ॥ ३ ॥
न हुत्वा न च दत्त्वा च नाशौचे न च गर्हितम् ॥
नापथ्यं न च बालानां तथा भार्गव पश्यताम् ॥ ४ ॥
प्रार्थितं बालकानां च दातव्यं स्यात्प्रयत्नतः ॥
बालानां प्रार्थितं दत्त्वा नाकलोके महीयते ॥ ५ ॥
बालका लालनीयाश्च धर्मकामैः सदा नरैः ॥
तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात् ॥ ६ ॥
तेषां क्रीडनकं दत्त्वा मोदते नन्दने चिरम् ॥
आह्लादं यान्ति सततं यस्मिन्दृष्ट्वा तु बालकाः ॥ ७ ॥
सौभाग्यं महदाप्नोति यत्रयत्राभिजायते ॥
तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत् ॥८॥
अभुक्तवत्सु बालेषु न चाश्नीयात्कथञ्चन ॥
यो न दद्यान्न चाश्नी यात्कदाचिदपि तन्मयम् ॥ ९ ॥
य एको मिष्टमश्नाति न ततोऽन्योऽस्ति पातकी ॥
नैकवासास्तथाश्नीयाद्भिन्नभाण्डे न मानवः ॥ 2.93.१० ॥
भिन्नासनोपविष्टश्च शयनीयगतस्तथा ॥
अनार्द्रपाणिपादान्तस्तथा चैवार्द्रमस्तकः ॥ ११ ॥
नोत्सङ्गे भक्षयेद्भक्ष्यान्न पाणौ लवणं तथा ॥
सकृद्दानं पृथक्पानं मांसेन पयसा निशि ॥ १२ ॥
दन्तच्छेदनमुष्णं च सप्तकन्तु सुवर्जयेत् ॥
दधि रात्रौ न चाश्नीयाज्जलन्नाञ्जलिना पिबेत् ॥ ॥ १३ ॥
सर्वं तैलसमृद्धं च नाद्यादस्तमिते रवौ ॥
वर्जनीया दिवा धानाः कोविदारः सदैव तु ॥ १४ ॥
दिवा धानाः स्वरं हन्ति रात्रौ च दधि सक्तुषु ॥
अलक्ष्मीः कोविदारेषु नित्यमेव कृतालया ॥ १५ ॥
निःशेषकृत्तथा राम न स्यादन्यत्र माक्षिकात् ॥
क्षीरस्य राम सक्तूनां पाथसस्योदकस्य च ॥ १६ ॥
शेषं तु कार्यमन्यस्य न तु निःशेषकृद्भवेत् ॥
शूद्राय दद्यान्नोच्छिष्टं नोच्छिष्टश्च घृतं स्पृशेत् ॥ १७ ॥
मूर्धानं न स्पृशेद्राम न स्पृशेच्च हुताशनम् ॥
नानुकुत्सा च कर्तव्या सुमनास्तन्मनास्तथा ॥ १८ ॥
भुञ्जीत प्रयतो भूत्वा दिशश्चानवलोकयन् ॥
वामहस्तेन पानीयं पीतोच्छिष्टं तथैव च ॥ १९ ॥
न पिबेन्न तथाश्नीयात्कृत्वा पर्यस्तिकं नरः ॥
पादप्रसारणं कृत्वा न च वेष्टितमस्तकः ॥ 2.93.२० ॥
आचम्य तु ततः कार्यं दन्तकाष्ठस्य भक्षणम् ॥
भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलधारणम् ॥२१ ॥
श्रवणं चेतिहासस्य ततः कुर्यात्समाहितः ॥
शास्त्रान्वेषा च कर्तव्या ततः सम्यग्भृगूत्तम ॥ २२ ॥
शास्त्रान्ववेक्षणं कृत्वा कृत्वा चंक्रमणं ततः ॥
उपास्य पश्चिमां सन्ध्यां तिष्ठेत्प्रयतमानसः ॥ २३ …
पूर्वां सन्ध्यां जपंस्तिष्ठेदुपविष्टश्च पश्चिमाम् ॥
अर्क्कस्योदयनात्तावद्यावद्भास्करदर्शनम् ॥ २४ ॥
पूर्वां सन्ध्यां जपेत्स्नातः पश्चिमां सति भास्करे ॥
उपविष्टो जपेत्तावद्यावत्तारकदर्शनम् ॥ २५ ॥
सम्पूजनं देववरस्य कृत्वा ततश्च कुर्यात्खलु वैश्वदेवम् ॥
भुक्त्वा ततोऽन्नं लघु यच्च हृद्यं ततः स्वपेद्भार्गववंशमुख्य ॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भोजनविधिर्नाम त्रिनवतितमोध्यायः ॥९३॥
2.94
पुष्कर उवाच॥
शून्यालये श्मशाने वानेकवृक्षे चतुष्पथे ॥
महादेवगृहे वापि मातृवेश्मनि वा स्वपेत्॥१॥
न यक्षनागायतने स्कन्दस्यायतने तथा॥
कूलच्छायासु च तथा शर्करालोष्टपांसुषु ॥२॥
प्रस्वपेच्च तथा दर्भे विना दीक्षां व्रतं न च ॥
धान्यगोदेवविप्राणां गुरूणां च तथोपरि ॥ ३ …
न चापि भिन्नविषये नाशुचौ नाशुचिस्तथा ॥
नार्द्रपादश्च नग्नश्च नोत्तरापरमस्तकः ॥४॥
नाकाशे सर्वतः शून्ये न च चैत्यद्रुमे तथा॥
न गच्छेद्गुर्विणीं नारीं न गच्छेत्सितमूर्धजाम् ॥५॥
रजस्वलां रोगवतीं नायोनौ न बुभुक्षितः ॥
नाभ्यक्तो न तथाभ्यक्तां न च पर्वणि भार्गव ॥
शुक्रमोक्षमथाकाशे तिर्यग्योनौ च वर्जयेत् ॥६॥
एवं सदा यः कुरुते नृवीर सम्यग्यथोक्तं सुमनास्तरस्वी ॥
तस्याशु पापं विलयं प्रयाति श्रियं च मुख्यां लभते सुखं च ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आचारकथनन्नाम चतुर्नवतितमोऽध्यायः ॥९४॥
2.95
पुष्कर उवाच॥
वैवाहिकेऽग्नौ कुर्वीत कर्म स्मार्तं सदा गृही ॥
दायकालाहृते वापि पितुर्मरणकालिके ॥ १ ॥
मातुर्वा भृगुजश्रेष्ठ श्रौतं वैतानिकाग्निषु ॥
देवतानां पितॄणां च ऋषीणां च तथा नरः ॥ २ ॥
ऋणवाञ्जायते यस्मात्तन्मोक्षे प्रयतेत्सदा ॥
देवानामनृणो जन्तुर्यज्ञैर्भवति मानद ॥ ३ ॥
स्वल्पवित्तश्च पूजाभिरुपवासैर्व्रतैस्तथा ॥
श्राद्धेन पूजया चैव पितॄणामनृणो भवेत् ॥ ४ ॥
ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥
हुतं चैवाहुतं चैव निर्वाप्यं प्रहुतं तथा ॥ ५ ॥
प्राशितं च महाभाग पञ्चयज्ञान्न हापयेत् ॥
हुतमग्नौ विजानीयादहुतं बलिकर्म यत् ॥६ ॥
पिण्डनिर्वापणं राम निर्वाप्यं परिकीर्तितम् ॥
प्रहुतं च यथायज्ञं पितृयज्ञं तथैव च ॥ ७ ॥
प्राशनं च तथा प्रोक्तं यद्भुक्तं तदनन्तरम् ॥
पञ्चयज्ञान्सदा कुर्याद् गृही पापापनुत्तये ॥ ८ ॥
देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च ॥
मानुष्यमृषियज्ञं च कुर्यान्नित्यमतन्द्रितः ॥ ९ ॥
देवयज्ञं हुतं विद्याद्भूतयज्ञं बलिक्रिया ॥
पितृयज्ञं तथा पिण्डैर्ऋषियज्ञं च भार्गव ॥ 2.95.१० ॥
स्वाध्यायसेवा विज्ञेया तथै वातिथिपूजनम् ॥
मनुष्ययज्ञो विज्ञेयः पञ्चयज्ञान्न हापयेत् ॥ ११ ॥
विष्णुं यजेत्तथा देवं हविर्यज्ञैश्च सप्तभिः ॥
अग्न्याधानं महाभाग तथाग्निहवनक्रिया ॥ १२ ॥
दर्शं च पौर्णमासं च चातुर्मास्यं तथैव च ॥
द्विराग्रहायणेष्टिश्च पाके च यवधान्ययोः ॥१३॥
विरूढा पशुबन्धश्च तथा सौत्रामणिर्द्विजः ॥
सप्तभिः सोमसंस्थाभिर्यजेद्देवं सनातनम् ॥ १४ ॥
अग्निष्टोमं महाभाग चात्यग्निष्टोममेव च ॥
उक्थं च पावनीं चैव प्रतिरात्रं तथैव च ॥ १५ ॥
वाजपेयञ्च धर्मज्ञ आप्तोर्यामं तथैव च ॥
अन्यैश्च विविधैर्यज्ञैः पौण्डरीकादिभिस्तथा ॥ १६ ॥
गोसवेनाश्वमेधेन राजसूयेन वा पुनः ॥
तथा पुरुषमेधेन सर्वमेधेन भार्गव ॥ १७ ॥
अन्यैश्च विविधैर्यज्ञैर्नामकल्पोचितैस्तथा ॥
यजनं देवदेवस्य वासुदेवस्य कारयेत् ॥ १८ ॥
यज्ञो विष्णुर्महातेजा यजमानः स एव हि ॥
त एव यज्ञपात्राणि यज्ञद्रव्याणि यानि च ॥ १९ ॥
तं यजेत्सततं राम सर्वदेवमयं हरिम् ॥
सत्येन वै यजेद्देवं प्रत्यब्दं मुनिपुङ्गव ॥ 2.95.२० ॥
पशुप्रत्ययनं कुर्याच्चातुर्मासिकमेव च ॥
इष्टिं वैश्वानरीं कुर्यात्तथा स्वल्पधनो नरः ॥ २१ ॥
अत्येवाल्पे धने सोमं पिबेद्भार्गवसत्तम ॥
आयुः पुत्रान्यशो मेधां धनमन्त्रगणं तथा ॥ ।२२ ॥
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये ॥ २३ ॥
अधिकं वापि विद्येत स सोमं पातुमर्हति ॥
प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणा ॥ २४ ॥
अनाहिताग्निर्भवति ब्राह्मणो विभवे सति॥
सर्वदेवमयो विष्णुः प्रत्यहं तस्य पूजनम् ॥ २५ ॥
प्रतिमायामपि तथा कर्तव्यं भृगुसत्तम ॥
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु वै द्विजाः ॥ २६ ॥
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥
तत्तद्देवनिकायेषु तथैव स्वयमेव वा ॥ २७ ॥
पूजा कार्या बहिर्वेदौ श्रद्धया भृगुनन्दन ॥
नत्वल्पदक्षिणैर्यज्ञैर्यजेतेह कदाचन ॥ २८ ॥
विष्णुं देवनिकायस्थं यथाश्रद्धमरिन्दम ॥
तपसा पूजयेन्नित्यं तस्मादल्पधनो नरः ॥ २९ ॥
संपूज्य देवं परमान्नगन्धैर्धूपैः सुगन्धैश्च फलैश्च मुख्यैः ॥
तस्मादवाप्नोति स सर्वयज्ञांस्तस्मात्प्रपूज्यः सततं महात्मा॥2.95.३०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने गृहस्थधर्म वर्णनन्नाम पञ्चनवतितमोऽध्यायः ॥ ९५ ॥
2.96
राम उवाच ॥
कर्माणि श्रोतुमिच्छामि काम्यानि गृहिणामहम् ॥
त्वत्तः समस्तधर्मज्ञ यादोगण नृपात्मज ॥ १ ॥
पुष्कर उवाच ॥
कृतोपवासो याम्यर्क्षे सोपवासस्य भार्गव ॥
पुरोधाः स्नपनं कुर्यात्कृत्तिकासु यथाविधि ॥२॥
अकालमूलैः कलशैर्मृन्मयैरथ काञ्चनैः ॥
उज्वलैर्लक्षणैः पूर्णैस्तथा तीर्थोदकैः शुभैः ॥ ३ ॥
अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि ॥
पत्रपूर्णैस्तथायुक्तैस्तिलैः कृष्णैर्द्विजोत्तम ॥ ४ ॥
वह्निं कुमारं शशिनं खङ्गं वरुणमेव च ॥
पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा ॥ ५ ॥
पीतरक्तैस्तथा वर्णैर्घृतदीपैस्तथैव च ॥
दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ ॥ ६ ॥
कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः ॥
देवतानां यथोक्तानां प्रियङ्गुं जुहुयात्ततः ॥ ७ ॥
चन्दनञ्च मयूराणां लोमानि मनुजोत्तम ॥
अग्निमन्थगृहाद्धूमं कृत्वा रुक्माङ्गदं मणिम् ॥ ८ ॥
धारयेद्दक्षिणां दद्याच्छक्त्या कनकमेव च ॥
श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् ॥ ९ ॥
कर्मैतत्सततं कृत्वा वह्न्याधानमथाप्नुयात् ॥ ।
कर्मैतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च ॥
धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मविदां वरिष्ठ ॥ 2.96.१० ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयकाण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृत्तिकास्नानवर्णनन्नाम षष्णवतितमोऽध्यायः ॥ ९६ ॥
2.97
राम उवाच ॥ ॥
अग्न्याधानमथाप्नोति शत्रुनाशमथापि वा ॥
स्वेच्छया कर्मणा केन सदा यादोनृपात्मज ॥ १ ॥
शत्रुनाशकरं कर्म कथयस्व ततः परम् ॥
तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥ २ ॥
पुष्कर उवाच ॥
कृतोपवासो याम्यर्क्षे कृत्तिकासु सदैव तु ॥
पूजयेद्वासुदेवं तु कुङ्कुमेन सुग न्धिना ॥३॥
रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् ॥
घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च॥४॥
निवेदनीयं देवाय तथा सर्वं निवेदयेत् ॥
होतव्यं सुसमिद्धेऽग्नौ तथैवात्र शुभं हविः ॥
आयुधानि च देयानि ब्राह्मणेभ्यश्च दक्षिणा ॥५ ॥
कर्मैतदुक्तं रिपुनाशकारि धार्यं सदा शत्रुगणप्रमाथि ॥
कृत्वैतदग्र्यं रिपुनाशमाशु प्राप्नोति मर्त्यो न हि संशयोऽत्र ॥ ६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने शत्रुनाशकर्मवर्णनन्नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥
2.98
राम उवाच ॥
काम्यानि त्वं समाचक्ष्व स्नानान्यन्यानि देवज ॥
केन स्नानेन धर्मज्ञ कं कं काममवाप्नुयात् ॥१॥
पुष्कर उवाच ॥
पुरोधाः सोपवासस्तु सर्वस्नानानि कारयेत् ॥
सोपवासस्य धर्मज्ञ तथा सर्वत्र मानवः ॥ २ ॥
अकालमूलाः कलशाः कार्याः सर्वेषु भार्गव ॥
पूजा चन्द्रमसः कार्या वरुणस्य तथैव च ॥ ३ ॥
नक्षत्रदेवतानां च नक्षत्रस्य तथैव च ॥
सर्वगस्याप्रमेयस्य वासुदेवस्य चाप्यथा॥४॥
येषां च पूजा कर्तव्या तेषां च जुहुयाद्धविः ॥
काम्यं स्नानं सदा कुर्यान्नक्षत्रं तु न लंघयेत्॥
मन्त्रयेत्स्नानकलशं मन्त्रेणानेन भार्गव ॥५ ॥
मन्त्रः-
आपः सोमाद्याः संबभूवुः पवित्राग्निः पावनः सोमसूर्यसंस्थिता वायुना नष्टदोषाश्च यो नित्य मच्छ्रेयसे सत्कृत्याप्सु स्युः स्वाहा शान्तिः श्रीर्नवपुष्टिर्मह्यं भूयासं सर्वशिरः ॥
साधुस्वाहेति सूर्यः संस्थिता वायुनामाष्टदोषा ॥’
कर्मैतदुक्तं रिपुनाशकारि साधारणं स्नानमिदं पवित्रम् ॥
अतः परं ते कथयामि राम स्नानानि काम्यानि सुखप्रदानि ॥ ६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने साधारणस्नानवर्णनन्नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥
2.99
पुष्कर उवाच ॥
कृत्तिकास्नानमुक्तं ते वह्निकर्मप्रसाधनम् ॥
तथारिनाशनं मुख्यं वह्न्याध्येयप्रदं तथा ॥ १॥
रोहिणीषु तथा स्नानं प्रोक्तं पुत्रप्रदं पुत्रप्रदं तव ॥
ब्रह्मवर्चसकामस्य स्नानं सौम्यमिदं शृणु ॥ २ ॥
पूर्णमौदुम्बरैः पत्रैः कृत्वा राम घटत्रयम् ॥
पूर्णचन्द्राङ्कितैः शुक्लैः सूत्रमाल्यैरलंकृतम् ॥ ३ ॥
तेन संस्नापितः पश्चात्क्षौमवासा यथाविधि ॥
देवतापूजनं कृत्वा घृतं हुत्वा हुताशने ॥ ४ ॥
ओङ्कारपूतं सोमाय क्षीरं हुत्वा तथा जले ॥
निवेदनीयं सोमाय तथा पृष्ठमृगत्रयम् ॥ ५ ॥
मृगशृङ्गेण धूपं च तथा दद्यादनन्तरम् ॥
सोमेन च मणिर्धार्यो जातरूपपरिष्कृतः ॥ ६ ॥
दक्षिणा चात्र दातव्या शुभधेनुः पयस्विनी ॥
कृत्वा तन्नित्यमाप्नोति ब्रह्मवर्चसमुत्तमम् ॥ ७ ॥
घृताम्रमधुपूर्णेन स्नातः कुम्भेन मानवः ॥
पट्टिशालंकृतेनाथ रक्तचन्दनवारिणा ॥ ८ ॥ ।
रुद्राय मांसं रुधिरं तथा च मधु पायसम् ॥
कृष्णानि वासांसि तथा धूपं गुग्गुलमेव च ॥९॥
दद्याद्घृतेन च तथा होमो मन्त्रैर्विधीयते ॥
कृष्णानि वासांसि तथा दातव्या दक्षिणा भवेत् ॥ 2.99.१० ॥
मेषाश्वनरलोमानि गर्दभस्य विशेषतः ॥
आयसी तु मणौ कृत्वा द्वारि शत्रोर्निधापयेत् ॥ ११ ॥
आर्द्रास्नानमिदं राम सर्वशत्रुविनाशनम् ॥
सर्वगन्धैः फलैर्बीजैः पूर्णं कृत्वा घटत्रयम् ॥ १२ ॥
स्नापनं तेन कर्तव्यमादित्यैस्तदनन्तरम् ॥
नवनीतं च कुल्माषं मत्स्यांश्चैव स्वरांस्तथा ॥ १३ ॥
निवेदयेच्चैव तथा मत्स्यानि सुरभीणि च ॥
घृताक्षताभ्यां धूपेन होमश्चैव विधीयते ॥ १४ ॥
तद्दिने तु नदी यत्र योगे गच्छतु तां मुदा ॥
सुवर्णरूप्यगन्धश्च धारणीयस्तथा मणिः ॥ १५ ॥
दक्षिणा चात्र दातव्या राम धेनुः पयस्विनी ॥
स्नातः पुनर्वसावेव जातिश्रैष्ठ्यमवाप्नुयात् ॥ १६ ॥
पुत्रान्वा सुमहाभाग यदीच्छति तदाप्नुयात् ॥
गौरसर्षपकल्केन रामोत्सादितविग्रहः ॥१७॥
गव्याज्यपूर्णकुम्भेन स्नातः स्नातस्तथौषधैः ॥
अहताम्बरसंवीतः पायसं विनिवेदयेत् ॥ १८ ॥
शुक्लानि चैव माल्यानि वासांस्यपहतानि च ॥
होमश्च पायसेनात्र धूपं गन्धैश्च दापयेत् ॥ १९ ॥
मणिः शिरसि धार्यश्च दण्डाग्रे ब्रह्मचारिणः ॥
सुवर्णगर्भं पुष्पेण स्नानं पुष्टिकरं भवेत् ॥2.99.२०…
दक्षिणा चात्र दातव्या घृतं कनकसंयुतम् ॥
षड्ध्वजां नीलसूत्रेण नीलपुष्पैश्च वेष्टिताम् ॥ २१ ॥
सर्षपान्वेष्टयेद्राम नागपुष्पेण भूरिणा ॥
वल्मीकानां सहस्तस्य तथैवाग्रमृदा द्विज॥२२॥
तै स्नातः सर्वनागेभ्यो मधुलाजां निवेदयेत्॥
गन्धोदकं तथा धानाः षट्कृत्वाथ पुनःपुनः॥२३…
क्षीरेण होमः कर्तव्यो धूपः सर्वत्वचा तथा ॥
सर्पत्वङ् नागपुष्पं च सुवर्णं च मणिर्भवेत् ॥ २४ ॥
दक्षिणा चात्र दातव्या शयनीयं मनोहरम् ॥
स्नानं सार्पेण ते प्रोक्तं भोग्यं सिद्धिकरं भवेत् ॥२५॥
श्रीप्रदं वा महाभाग कथितं कामतस्तव ॥
प्लक्षपत्रैस्तिलैः कृष्णैर्घटषट्कं तु पूरयेत् ॥२६॥
वेष्टयेत्कृष्णमाल्यैश्च तेन स्नातोऽहताम्बरः ॥
दक्षिणाग्रेषु दर्भेषु सप्तपिण्डानुपाहरेत् ॥ २७ ॥
सुभास्वरो बर्हिषदो ह्यग्निष्वात्तास्तथैव च ॥
क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः ॥ २८ ॥
पितरः कथितास्तेषां पिण्डं दद्यात्क्रमेण च ॥
धूपं व्रीहियवैर्दद्यात्तिलैर्होमं तु कारयेत् ॥ २९ …
दातव्या दक्षिणा चात्र तिलान्रजतमेव च ॥
वचा च कोरकं चैव त्रिवृतं धारयेन्मणिम् ॥ 2.99.३० ॥
पितृप्रसादं प्राप्नोति कर्मसिद्धिमथापि च ॥
मघास्नानमिदं कृत्वा नित्यमेव समाहितः ॥ ३१ ॥
माक्षिकं च मधूकं च तथैव मधुयष्टिकाम् ॥
कृत्वा कुम्भद्वयं पूर्णं भग्नाङ्गः स्नापयेन्नरम् ॥ ३२ ॥
शालिपिष्टं ततः स्नातो घृतेन मधुना युतम् ॥
गन्धमाल्यं बहुविधं बहुकृत्वा भगाय तु ॥ ३३ ॥
निवेदयित्वा देयानि चित्रमांसानि चाप्यथ ॥
घृतेन धूपो दातव्यो होमः कार्यः प्रियङ्गुना ॥ ३४ ॥
दक्षिणा चात्र दातव्या चित्रवासांसि चाप्यथ ॥
पारावतस्य पक्षाणि चक्रवाकस्य मानद ॥ ३५ ॥
त्रिवृतानि तथा कृत्वा मणिं शिरसि धारयेत् ॥
सौभाग्यं महदाप्नोति स्नात्वैव भगदैवते ॥ ३६ ॥
तिलमाक्षिकपूर्णेन स्नातः कुम्भद्वयेन तु ॥
आर्यक्षे पायसं दद्यात्पीतरक्ते च वाससी ॥ ३७ ॥
धूपे शतावरी देया होमः कार्यस्तथाक्षतैः ॥
तेजोवन्ती प्रियङ्गुश्च त्रिवृतं धारयेन्मणिम् ॥ ३८ ॥
दक्षिणा चात्र दातव्या तथा रक्ते च वाससी ॥
उत्तराफल्गुनीस्नानं सर्वारम्भप्रसिद्धिदम् ॥ ३९ ॥
वीर्यस्य वर्धनं चापि कर्तव्यमनुसूनुना ॥
गजकामस्य ते स्नानं हस्ते पूर्वं मयोदितम् ॥ 2.99.४० ॥
परसैन्यजयार्थाय स्नानं तदपि शस्यते ॥
मंजिष्ठां च समङ्गां च मिसिकान्तां च भार्गव ॥ ४१ ॥
कनकं रजतं चैव पूर्णकुम्भे विनिक्षिपेत् ॥
तेनाभिषिक्तश्चित्राणि माल्यवासांस्यनन्तरम् ॥ ४२ ॥
त्वाष्ट्रे निवेदयेद्भक्त्या होमं क्षीरेण कारयेत् ॥
दक्षिणा चात्र दातव्या चित्रवस्त्राणि मानद ॥ ४३ ॥
सर्वगन्धैस्तथा धूपं बलिं चित्रं तथैव च ॥
पृथक्स्रुतिप्रसूतानां पुष्पानां कनकैर्वृतम् ॥ ४४ ॥
अष्टादशानां च तथा मणिं शिरसि धारयेत् ॥
एवं स्नातस्तु चित्रासु सौभाग्यं महदश्नुते ॥ ४५ ॥
सर्वभूतेषु चाधिक्यं यदिच्छति तदाप्नुयात् ॥
रुक्ममश्ववत्थपत्रं च खड्गशृङ्गं तथैव च ॥ ४६ ॥
पूर्णकुम्भे विनिक्षिप्य स्नातः शीधुसुरासवम् ॥
वायव्ये प्रयतो दद्यात्क्षीरं सपललं दधि ॥ ४७ ॥
गन्धं धूपं तथा दद्याद्धोमे कार्यं तथा घृतम् ॥ ।
दक्षिणा चात्र दातव्या वासांसि विविधानि च ॥ ४८ ॥
द्वष्टाश्वश्यामहारीतहंसपक्षैः पयोऽन्वितम् ॥
धारयेच्च मणिं विद्वान्स्वातावेवं समाचरेत् ॥ ॥ ४९ ॥
वाणिज्ये सम्यगाप्नोति सिद्धिं च महतीं नरः ॥
विशाखासु तथा स्नानं कार्यं कुम्भद्वयेन तु ॥ 2.99.५० ॥
कृत्तिकासु महाभाग ततः शाकं निवेदयेत् ॥
इन्द्राग्निभ्यां च वासांसि पीतरक्तानि चाप्यथ ॥ ५१ ॥
माल्यानि च महाभाग धूपं च घृतगुग्गुलम् ॥
होमार्थे च घृतं कुर्याद्दक्षिणा कनकं तथा ॥ ५२ ॥
गणाधिपत्यमाप्नोति कृत्वैवं नात्र संशयः ॥
सहस्रवीर्यं चानन्तां मधूकं च तथा मिसिम् ॥ ५३ ॥
पूर्णकुम्भत्रये कृत्वा कृतस्वस्तिकलक्षणे ॥
अहताम्बरसंवीतः सर्वगन्धफलाक्षतैः ॥ ५४ ॥
मधुना च बलिं दद्यान्मित्राय च महात्मने ॥
वृश्चिकेन तथा धूपं यवैर्होमं च मानद ॥ ५५ ॥
पुरद्वारं कटाहाश्च चूडाकाष्ठं सकाञ्चनम् ॥
धारयेद्दक्षिणां दद्यात्तथा च कनकं द्विज ॥ ५६ ॥
एवं मैत्रे सदा स्नातः सर्वभूतैः समाप्नुयात् ॥
मैत्रीं मनुजशार्दूल पुरं वा कुरुते वशे ॥ ५७ ॥
तडागपद्मिनीकूलनदीनदसमुद्भवैः ॥
तोयैः पूर्ण घटान्कृत्वा सर्वबीजसमन्वितान् ॥ ५८ ॥
सर्वरत्नौषधीपूर्णान्स्त्रीस्नानं तैः समाचरेत् ॥
क्षौमवासास्तु रत्नानि माल्यानि च फलानि च ॥ ॥ ५९ ॥
रत्नानि दद्याच्छक्राय प्राङ्मुखः सुसमाहितः ॥
धूपं दद्याच्च शीर्षेण विशाखावन्मणिर्भवेत् ॥ 2.99.६० ॥
छत्रं च दक्षिणा देया ज्येष्ठायां भृगुनन्दन ॥
स्नानमेव सदा कृत्वा राज्यमाप्नोत्यकण्टकम् ॥ ६१ ॥
कृषिकामस्य मूलेन स्नानमुक्तं मया पुरा ॥
तथा वाणिज्यकामस्य प्रागषाढासु भार्गव ॥ ६२ ॥
अथोत्तरासु षाढासु कुर्याद्घटचतुष्टयम् ॥
पुष्पबीजफलोपेतं तेन स्नातस्तु मानवः ॥ ६३ ॥
क्षौमवासाः सुरां चैव पायसं च निवेदयेत् ॥
मुद्गमिश्रं च धर्मज्ञ माल्यवासांसि चेच्छया ॥ ६४ ॥
होमे च पायसं कुर्याद्धूपे गोशृङ्गमेव च ॥
धात्रीपुष्पशमीबिल्वैर्मणिर्धार्यः सकाञ्चनैः ॥ ६५ ॥
दक्षिणा चात्र दातव्या सुवर्णं रौप्यमेव च ॥
राजश्रेष्ठत्वमाप्नोति विवादेषु जयं तथा ॥ ६६ ॥
बिल्वं च तगरं चैव चन्दनं मधुयष्टिकाम् ॥
प्रियङ्गुं च मधूकं च त्रिषु कुम्भेषु निक्षिपेत् ॥ ६७ ॥
संगमादाहृतं तोयं तन्मृदं च भृगूत्तम ॥
तेन स्नातस्ततः स्नानं कुर्यात्सर्वौषधैर्द्विज ॥ ६८ ॥
कुलत्थाऽन्नं सशाल्यन्नं मुख्यानि च फलानि च ॥
बलिं च विष्णवे दद्यान्मुद्गैर्धूपं तथैव च ॥ ६९ ॥
राजच्छत्रस्य दण्डाग्रात्काष्ठं शक्रध्वजात्तथा ॥
सिंहदंष्ट्रामणिश्चात्र सरुक्मः शिरसि स्मृतः ॥ 2.99.७० ॥
दक्षिणा चात्र दातव्या धेनुः कांस्योपदोहिनी॥
एवं तु श्रवणस्नायी राज्यमाप्नोत्यकण्टकम् ॥ ७१ ॥
अन्यदेशाधिपत्यं वा राज्यमाप्नोति भार्गव ॥
अतिमुक्तकपत्राणि बिल्वस्य च तथा क्षिपेत् ॥ ७२ ॥
कुम्भेषु पञ्चसु ततः स्नानं तैस्तु समाचरेत् ॥
वास्तुभ्यस्तु बलिं दद्यात्सुवर्णं माक्षिके ततः ॥ ७३ ॥
धूपं वायसपक्षैस्तु होमः कार्यो घृतेन तु ॥
ब्रह्मचारिशिलालोपकाकपक्षं तथैव च ॥ ७४ ॥
काकमाचीं रुक्मयुतां मणिं शिरसि धारयेत् ॥
दक्षिणा चात्र दातव्या धेनु कांस्योपदोहिनी ॥ ७५ ॥
धनं प्राप्नोति सुमहद्विवाहे वापि कन्यकाम् ॥
एवं स्नातो धनिष्ठासु नित्यमेव भृगूत्तम ॥ ७६ ॥
आरोग्यकारकं स्नानं पूर्वमुक्तं तु वारुणम् ॥
रत्नोदकेन स्नातस्तु नरः कुम्भद्वयेन तु ॥ ७७ ॥
अजैकपादाय बलिं छागं दद्यात्तु पायसम् ॥
शुक्लानि चैव माल्यानि फलानि विविधानि च ॥ ७८ ॥
खट्वाङ्गञ्च तथा धूपं होमं च पयसा तथा ॥
व्याघ्रदंष्ट्रा तथा लोमनखं कनकमेव च ॥ ७९ ॥
मणिर्धार्यो भवेद्राम छागो देया च दक्षिणा ॥
अजैकपादे स्नातस्तु नित्यमेव समाहितः ॥ 2.99.८० ॥
उद्धरेत्तु निधिं राम शत्रून्वा विजयेद्ध्रुवम् ॥
आहिर्बुध्न्यं तथा स्नानं गोदमुक्तं पुरा तव ॥ ८१॥
चन्दनं च हरिद्रा च दर्भमूलं तथैव च॥
कृत्वा कुम्भे नरः स्नायात्कृत्वा पिष्टेन कन्यकाम्॥ ॥ ८२ ॥
स्नानालङ्कारवस्त्राद्यान्पूष्णे दद्याद्बलिं ततः ॥
मधुलाजास्तथैवात्र धूपं दद्याद्घृतेन च ॥ ८३॥
होमं घृतेन कर्तव्यं दक्षिणा कनकं भवेत् ॥
ब्राह्मीं सुवर्चलां होमं होमगर्भो मणिर्भवेत् ॥ ८४ ॥
एवं पौष्णे सदा स्नातो यः सदा युज्यते नरः ॥
आश्विने सुप्रदं स्नानं पूर्वमुक्तं मया तव ॥ ॥ ८५ ॥
वैजयन्तीं बलां चैव समङ्गां च भृगूत्तम ॥
इन्द्रहस्तां मधूकं च कुर्याद्राम घटत्रये ॥ ८६ ॥
तेन स्नातो यमायाथ प्रपद्यात्तिलतण्डुलम् ॥
माल्यानि चैव चित्राणि पीतानि वसनानि च ॥ ८७ ॥
उरभ्रशृङ्गं धूपार्थे होमार्थे च तथा तिलम् ॥
दक्षिणा चात्र दातव्या तिलं कनकमेव च ॥ ८८ ॥
दर्भमूलैर्मणिः कार्यः कनकेन च वेष्टितः ॥
एवं स्नातो नरो याम्ये दीर्घं जीवितमाप्नुयात् ॥ ८९ ॥
स्नानानि मुख्यानि तवोदितानि काम्यानि पापप्रशमाय राम ॥
एतानि कार्याणि सदा द्विजेन्द्र धरान्वितेनाथ विचक्षणेन ॥2.99.९०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नक्षत्रस्नानकथनन्नाम नवनवतितमोऽध्यायः ॥ ९९ ॥
2.100
पुष्कर उवाच ॥
उपोष्य चोत्तराषाढां ब्रह्मस्नानं विधीयते ॥
सूर्ये मध्यमनुप्राप्ते नरेन्द्रो - - - ॥
सर्वैर्बीजैस्तथा रत्नैः फलैः पुष्पैस्तथौषधैः ॥
स्नातश्च सोदकैः कुर्यात्ततः पूजां स्वयंभुवः ॥ २ ॥
धूपं च दद्याद्धर्मज्ञ कुशमूलघृताक्षतैः ॥
होमं घृताक्षतैः कुर्याद्दद्यात्कनकमेव च ॥ ३ ॥
क्रियमाणे स्रुवे चूर्णं तथा चैव रणो द्विजः ॥
सोमं चूर्णं च त्रिवृतं मणिं शिरसि धारयेत् ॥ ४ ॥
स्नानं तु राज्यकामस्य प्रोक्तमेतन्मया तव ॥
ब्रह्मवर्चसकामस्य स्वेच्छया च यथोदितम् ॥ ५ ॥
ब्राह्मं तव स्नानमिदं प्रदिष्टं सर्वाधिनाशाय भृगुप्रधान ॥
कार्यं सदा वा दिनमध्ययाते दिवाकरे कामकरं प्रशस्तम् ॥ ६ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अभिजित्स्नानवर्णनन्नाम शततमोऽध्यायः ॥ १०० ॥
2.101
राम उवाच ॥
स्नानमन्यत्समाचक्ष्व भगवन्पुष्टिकारकम् ॥
येन नित्यं कृतेनेह पुरुषः पुष्टिमाप्नुयात्॥ १ ॥
पुष्कर उवाच ॥
श्रवणर्क्षमनुप्राप्ते देवदेवे निराकरे।
भक्त्या समाचरेत्स्नानं नदीद्वितयसङ्गमे ॥२ ॥
निम्नगायां सरसि या नदीसागरसङ्गमे ॥
स्नातः संपूजयेद्देवं विष्णुं माल्यानुलेपनैः ॥ ३ ॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ॥
शाल्यन्नं दधिसंयुक्तं विष्णवे विनिवेदयेत् ॥ ४ ॥
पौरुषेण च सूक्तेन पायसं जुहुयात्ततः ॥
रजतं दक्षिणां दद्याद्ब्राह्मणाय भृगूत्तम ॥
उपवास विनाप्येतत्स्नानं पुष्टिप्रदं परम् ॥ ५ ॥
स्नातः समाप्नोति सदा मनुष्यः कामानभीष्टाञ्छ्रवणर्क्षयोगे ॥
पापं समस्तं विजहाति राम धर्मं समाप्नोति यशश्च मुख्यम् ॥६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्टिकारक श्रवणस्नानकथनन्नामैकोत्तरशततमोऽध्यायः ॥ १०१ ॥
2.102
पुष्कर उवाच ॥
जन्मनक्षत्रगे सोमे सर्वौषधिसमन्वितम् ॥
कुम्भं सुपूजितं कृत्वा स्नपनं तेन कारयेत् ॥ १ ॥
स्नातश्चैवार्चयेद्देवं वासुदेवं जगत्पतिम् ॥
नक्षत्रदैवतं चन्द्रं नक्षत्रं वारुणं तथा ॥२॥
वायुं चायुधपीठाद्यं छत्रं संपूजयेत्तथा ॥
यथोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम् ॥ ३ ॥ ।
शक्त्या च दक्षिणा देया ब्राह्मणेभ्यो भृगूत्तम ॥
ततोनुलिप्तः सुरभिः स्रग्वी विविधभूषणः ॥ ४ ॥
तिष्ठन्मनुजशार्दूल हविष्याशी जितेन्द्रियः …
उपवासं विनाप्येतत्पवित्रं पापनाशम् ॥ ५ ॥
मातृस्थाने तु जगतां जन्मतारा विधीयते ॥
चन्द्ररूपी च भगवान्पिता विष्णुः प्रकीर्तितः ॥ ६ ॥ ]
तस्मात्सर्वप्रयत्नेन यमनक्षत्रसंस्थितम् ॥
भक्त्या तं पूजयेच्चन्द्रं जन्मर्क्षं च विशेषतः ॥७॥
पूजां सदा चन्द्रमसस्तु कृत्वा जन्मर्क्षसंस्थस्य भृगुप्रधान ॥
कामानवाप्नोति नरस्तु सर्वान्सुखी सदा स्याद्भुवि नष्टपाप्मा॥८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने जन्मर्क्षस्नानवर्णनन्नाम द्व्युत्तरशततमोऽध्यायः ॥१०२॥
2.103
पुष्कर उवाच ॥
चन्द्रमंडलवृद्धौ तु तथा चैवोत्तरायणे ॥
शुभे दिवसनक्षत्रे मुहूर्ते च तथा शुभे ॥ १ ॥
तिष्याश्विनगते चन्द्रे हस्तश्रवणगेऽपि च ॥
प्राचीं वाप्यथवोदीचीं निष्क्रम्य नगराद्दिशम् ॥ २ ॥
वास्तुविद्याविनिर्दिष्टे भूमिभागे मनोहरे ॥
अष्टहस्तं शुभं कुर्याच्चतुरस्रं च मण्डलम् ॥ ३ ॥
बल्यर्थमपरं कुर्याद्वह्निवेद्यर्थमेव च ॥
गोमये नोपलिप्ते तु सुधालेखासमन्विते ॥ ४ ॥
ध्वजातपत्रव्यजनमाल्यदामकुशाक्षतैः ॥
लाजागन्धादिभिर्मुख्यैर्मङ्गल्यैस्तं समर्चयेत्॥५॥
लाजालाजोपकरणैस्तथैव च विभूषयेत् ॥
ततः प्रस्रवणेभ्यस्तु चतुर्भ्यस्तु घटान्नवान् ॥ ६ ॥
प्रत्येकं कल्पयेद्विद्वान्कल्पिते मण्डलद्वये ॥
सूक्तिष्वथ महाभाग बीजमात्रसमन्वितान् ॥ ७ ॥
ततस्तु कल्पयेत्कुम्भान्सप्तमुख्यान्नदीजलैः ॥
सर्वौषधियुतः कार्यः कुम्भ एको द्विजन्मना ॥ ८ ॥
सर्वबीजयुतो धान्यरत्नोपेतस्तथा परः ॥
तथा चैवापरं युक्तं कार्यं वृक्षाग्रपल्लवैः ॥ ९ ॥
पुष्पैश्चैवापरं युक्तं फलैश्चैवापरं तथा ॥
सर्वगन्धयुतं चान्यं सर्वानेव समर्चयेत् ॥ 2.103.१० ॥
पूर्वमन्त्रेण च तथा सर्वानेवाभिमन्त्रयेत् ॥
ततो भद्रासनं दत्त्वा तत्र चर्मास्तरेद् बुधः ॥ ११ ॥
विप्रस्य स्नातुकामस्य सौरमार्षभकं शुभम् ॥
क्षत्त्रियस्य तथा सैंहं वैयाघ्रं च तथा विशः॥१२॥
द्वीपिचर्म च वैश्यस्य स्नाप्यस्तत्रोपवेशयेत् ॥
प्रशस्तलक्षणां भार्यां वामभागे तथैव च॥१३॥
उपोषितः शिरः स्नातः सिद्धार्थैः कङ्कतं विना ॥
स्नापयेद्ब्राह्मणो विद्वान्बहुभिर्ब्राह्मणैः सह ॥ १४॥
शङ्खपुण्याहघोषेण वीणावेणुरवेण च ॥
जयशब्देन महता बन्दिनां निस्वनेन च ॥१५॥
सौवर्णं च शतच्छिद्रं पात्रं शिरसि धारयेत् ॥
तत्र दद्याद्घटैस्तोयं क्रमेणानेन शास्त्रवित् ॥ १६ ॥
या औषधय इत्येष मन्त्रः स्यादौषधीघटे ॥
आब्रह्मन् ब्रह्मणेत्येष बीजकुम्भे प्रकीर्तितः ॥ १७ ॥
आशुः शिशान इति च तथा रत्नघटे भवेत् ॥
मन्त्रः पुष्पवतीत्येष पुष्पकुम्भे प्रकीर्तितः ॥ १८ ॥
एष एव तथा मन्त्रः फलकुम्भे प्रकीर्तितः ॥
गन्धद्वारेण च तथा गन्धकुम्भे विधीयते ॥ १९ ॥
एवं स्नातः परीधाय सुशुक्ले वाससी शुभे ॥
मङ्गल्यानि स्पृशेद्राम संपश्येद्वदनं घृते ॥ 2.103.२० ॥
विमले च तथादर्शे ततः संपूजयेद्धरिम् ॥
वैष्णवांश्च तथा मन्त्राञ्जुहुयाज्जातवेदसि ॥ २१ ॥
ततस्तूत्तरदिग्भागे वह्निं तस्योपकल्पयेत ॥
भद्रासनं शुभे देशे युक्तं पूर्वोक्तचर्मणा ॥ २२ ॥
श्वेतानुलेपनः स्रग्वी मङ्गल्याभरणस्तथा ॥
निविशेतासने तस्मिन्सभार्यो भृगुनन्दन ॥ २३ ॥
गन्धद्वारेतिमन्त्रेण तस्य रोचनया ततः ॥
कण्ठे मूर्ध्नि ततः कुर्यात्तिलकं ब्राह्मणः स्वयम् ॥ २४ ॥
येन देवा ज्योतिषेति दर्भार्ग्रैर्ब्राह्मणस्ततः ॥
पादतस्तु प्रभृत्येनं सर्वाङ्गेषु प्रमार्जयेत् ॥ २५ ॥
गुरवे दक्षिणां दद्याद्ब्राह्मणेभ्यश्च शक्तितः ॥
गन्धरत्नाज्यमाल्यानि कनकं रजतं तथा ॥ २६ ॥
शतच्छिद्रं च तत्पात्रं गुरवे विनिवेदयेत् ॥
मङ्गलालम्भनं कृत्वा गतपापो द्विजाशिषा॥२७॥
शङ्खपुण्याहघोषेण प्रविशेच्च गृहं स्वकम् ॥
विनापि भार्यया राम स्नानं कार्यमिदं तथा ॥२८॥
सप्तरात्रमिदं स्नानं सर्वकल्मषनाशनम् ॥
मधु मांसं तथा क्षौद्रं मैथुनं च विवर्जयेत् ॥२९॥
अलक्ष्मीशमनं पुण्यं रक्षोघ्नं बुद्धिवर्धनम् ॥
आरोग्यदं दीप्तिकरं यशस्यं शत्रुसूदनम् ॥ 2.103.३० ॥
मङ्गल्यं पापशमनं कलिदुस्वप्ननाशनम् ॥
बृहस्पतिरिदं चक्रे स्नानं मघवतः स्वयम् ॥
ब्रह्महत्याभिभूतस्य वृत्ते वृत्रवधे पुरा ॥३१॥
ततोऽस्य दत्तः स्वयमेव वज्रिणा वरो नृलोकेपि वरोऽस्य कारकः ॥
कामानभीष्टान्समवाप्य पूजितो महेन्द्रलोकं स सुखी प्रयास्यति ॥ ३२ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बार्हस्पत्यस्नानवर्णनन्नाम त्र्युत्तरशततमोऽध्यायः ॥ १०३ ॥ ॥
2.104
राम उवाच ॥
स्नानमन्यत्समाचक्ष्व भगवन्दुरितापहम् ॥
सकृदेव कृतं यत्तु पापेभ्यो विप्रमोचयेत् ॥ १ ॥
पुष्कर उवाच ॥
राजयक्ष्माभिभूतेषु विषमज्वरितेषु च ॥
छायोन्मादोपतप्तेषु विषमज्वरितेषु च ॥ २ ॥
विनायकग्रहार्त्तेषु मूढचित्तेष्वतीव हि ॥
येषां न सिध्यते विद्या सस्यं येषां न रोहति ॥ ३ ॥
सीदेद्यस्य कुटुम्बं च पण्यं नायाति विक्रयम् ॥
न लभेत्तु जयं युद्धे बलवानपि यो नरः ॥ ४ ॥
युक्तान्यपि च कार्याणि विपद्यन्ते पुनःपुनः ॥
कलहश्च भवेद्येषां सुहृत्स्वजनबान्धवैः॥ ॥ ५ ॥
गर्भः प्रस्रवते यस्या जातो वापि विनश्यति ॥
पुष्पं यस्याः क्षयं याति न च किञ्चित्प्रजायते ॥ ६ ॥
गृह्णाति या न बीजं च जनयेद्वाप्यमानुषान् ॥
नाप्नोति च पतिं कन्या तस्मात्स्नेहमथापि वा ॥ ७ ॥
सौभाग्यं च न चायाति सुहृत्स्वजनबन्धुषु ॥
एवमुक्तेषु चान्येषु त्वनुक्तेषु च भार्गव ॥ ८ ॥
प्रसमीक्ष्य विधानज्ञः स्नानमेतत्समाचरेत् ॥
स्नापयेत्सरितस्तीरे ग्रहाविष्टान्विचक्षणः ॥ ९ ॥
राजयक्ष्माभिभूता ये विषम ज्वरिताश्च ये ॥
तेषां देवालये स्नानं कुर्याद्वा सिद्धसेविते ॥ 2.104.१० ॥
छायोन्मादोपतप्ता ये ये चापस्मारशोषिणः ॥
तेषां मुनिगणावासे तीर्थे वा स्नानमिष्यते ॥ ११ ॥
विनायकग्रहार्ता ये ये च मूढा विचेतसः ॥
सज्जनाचरिते देशे तेषां स्नानं विधीयते ॥ १२ ॥
त्रैविद्या येन सिध्यन्ति गुणा येषां प्रपूजिताः ॥
तेषां स्नानमिहोद्दिष्टं सिद्धदेवस्य मन्दिरे ॥ १३ ॥
येषां नास्ति जयो युद्धे येषां स्वजनसंक्षयः ॥
कान्तारे वा वने तीर्थे तेषां स्नानं प्रशस्यते ॥ १४ ॥
सततं कलहो येषां जायते च यतस्ततः ॥
त्रिपथे वा तडागे वा स्नानं तेषां प्रकल्पयेत् ॥ १५ ॥
पद्मिन्यां स्नपयेन्नारीं गर्भो यस्याः स्रवेत्तथा ॥
अशोकसन्निधौ स्नाप्या जातो यस्याः विनश्यति ॥ १६ ॥
न च गृह्णाति या शुक्रं स्नाप्या सा सफले तरौ ॥
महोदधितटे स्नाप्या यदापत्यं विनश्यति ॥ १७ ॥
अमानुषान्या जनयेत्स्नापयेत्तां चतुष्पथे ॥
यादृशं या च भर्तारं न लभेत वराङ्गना ॥ १८ ॥
स्नापयेदेकलिङ्गे तां स्थाने वा वृक्षसंकुले ॥
रूपलावण्ययुक्ता या सौभाग्यं या न विन्दति ॥ १९ ॥
स्नानं वृद्धिकरं तस्या वेश्यागारे प्रकल्पयेत्॥
अन्येषामथ कर्तव्यं सदा स्नानं मनोहरम्॥2.104.२०॥
समे सज्जनसंकीर्णे शुचौ देशे विकण्टके॥
सहायैः प्रयतैः सार्धमहोरात्रोषितो द्विजः॥२१॥
स्नानकर्म प्रयुञ्जीत सोपवासस्य मानद॥
अहोरात्रासमर्थस्य कार्यं वा हविषाशनम्॥२२॥
शरद्वसन्तयोः कार्यं स्नानं स्वस्थस्य भार्गव ॥
सर्वकालेष्वथार्त्तस्य ग्रहव्याधिनिबर्हणम् ॥ २३ ॥
मुहूर्ते तत्र सावित्रे ब्राह्मणः स्नापयेद्द्विज ॥
मैत्रेऽथ विजये चैव राजन्यं स्नापयेत्तथा ॥ २४ ॥
वैश्यं पैतामहे शूद्रं शेषेषु स्नापयेत्तथा ॥
पञ्चमी सप्तमी श्रेष्ठा स्नपने ब्राह्मणस्य व ॥ २५ ॥
त्रयोदशी तृतीया च क्षत्त्रियस्य विशिष्यते ॥
द्वितीया दशमी चैव तथा वैश्यस्य मानद ॥ २६ ॥
षष्ठी चतुर्दशी चैव शूद्राणां स्नानकर्मणि ॥
एकादशी द्वादशी च तथा कृष्णचतुर्दशी ॥ २७ ॥
सर्वेषामेव वर्णानां स्नानकर्मणि पूजिता ॥
ध्रुवेषु वैष्णवे पुष्ये रेवत्यां भगदैवते ॥ २८ ॥
हस्ते पुनर्वसौ सौम्ये ज्येष्ठायामथ वारुणे ॥
धनिष्ठायां तथा स्नानं सर्वेषामेव पूजितम् ॥ २९ ॥
वेत्रासनं भद्रपीठं वैदलं दारवं तथा ॥
वर्णानामानुपूर्व्येण परिकीर्तितमासनम् ॥ 2.104.३०॥
कृष्णाजिनं च वैयाघ्रं रौरवं बास्तमेव च ॥
पादोपधानं वर्णानामानुपूर्व्येण कल्पयेत ॥ ३१ ॥
वृषाश्वरथ पृष्ठे च गजपृष्ठे तथैव च ॥ ॥
नरस्कन्धेङ्गनाङ्गे वा प्रायशः स्नापयेच्छिशून् ॥ ३२ ॥
स्नातुकामस्य तस्याथ पूर्वमुत्सारसः स्मृतम् ॥
यैर्द्रव्यैर्भृगुशार्दूल तानि वक्ष्याम्यतः परम् ॥ ३३ ॥
पुनर्नवां रोचनां च शताह्वागुरुणीं त्वचम् ॥
मधूकं च रजन्यौ द्वे तगरं नागकेसरम् ॥ ३४ ॥
आसुरीं सर्जिकां चैव मांसीं रामठ चन्दनम् ॥
प्रियङ्गुं सर्षपान्कुष्ठं कुंकुमं बहुपुत्रिकाम् ॥ ३५ ॥
बलेन्द्रहस्तीं ब्राह्मीं च पञ्चगव्यं तथैव च ॥
सक्तुना मिश्रयित्वा च कार्यमुद्वर्तनं भवेत् ॥ ३६॥
ततः स्नानदिने प्राप्ते प्राग्वदुत्सादयेत्पुनः ॥
ततो मनोहरे देशे मण्डलं कल्पयेद् बुधः ॥३७ ॥
चतुरस्रं गोमयेन सर्वतोऽष्टदिशं समम् ॥
सतोरणं चतुर्द्वारं प्राकारैरुपशोभितम् ॥ ३८ ॥
तत्र मध्ये लिखेत्पद्ममष्टपत्रं सुशोभितम् ॥
कर्णिकायां लिखेद्विष्णुं मेघाभं पीतवाससम् ॥३९॥
कौस्तुभोद्भासितोरस्कं शङ्खचक्रगदाधरम्॥
ब्रह्माणं दक्षिणे न्यस्य पद्मवर्णं समालिखेत् ॥ 2.104.४०॥
अजिनाम्बरसंयुक्तं श्वेतयज्ञोपवीतिनम् ॥
रजताभ्रनिभं वामे भागे रुद्रं समालिखेत् ॥ ४१ ॥
व्याघ्रचर्माम्बरधरं त्रिनेत्रं शूलधारिणम् ॥
पूर्वपत्रे लिखेच्छक्रं सवज्रं च सुदर्शनम् ॥ ४२ ॥
गजपृष्ठाधिरूढं तु स्वर्णाभं पीतवाससम् ॥
प्राग्दक्षिणे तथा पत्रे लिखेद्वह्निं महाप्रभम् ॥ ४३ ॥
धूमाभवसनं देवं शुकयानगतं प्रभुम् ॥
अतसीपुष्पसंकाशं पीताम्बरधरं शुभम् ॥ ४४ ॥
सदण्डं महिषारूढं लिखेत्पत्रे तु दक्षिणे ॥
उष्ट्रारूढं विरूपाक्षं लिखेद्दक्षिणपश्चिमे ॥ ४५ ॥
रक्ताम्बरधरं कृष्णं खड्गपाणिं विभीषणम् ॥
पश्चिमे वरुणं देवं सपाशं हंसवाहनम् ॥ ४६ ॥
सशुक्लवसनं देवं स्वच्छवैडूर्यसन्निभम् ॥
पश्चिमोत्तरतो वायुं वायुमण्डलमध्यगम् ॥ ४७ ॥
लिखेच्छुभ्राम्बरं श्वेतं सर्वाभरणभूषितम् ॥
कुबेरमुत्तरे पत्रे व्योमयानगतं लिखेत् ॥ ४८ ॥
कवचोत्तमसंयुक्तं गदिनं कमलप्रभम् ॥
वृषारूढमथेशानं पत्रे पूर्वोत्तरे लिखेत् ॥४९॥
व्याघ्रचर्माम्बरधरं भालचन्द्र विभूषितम् ॥
चतुर्भिः सागरैः पद्मं चतुरस्रं समन्ततः ॥ 2.104.५० ॥
यादोगणयुतैश्चैव क्रमेण परिवारयेत् ॥
सागराणां तु पूर्वेण लिखेत्पद्मं मनोहरम् ॥ ५१ ॥
ततश्चक्रं तथा दण्डं वज्रं मकरमेव च ॥
शक्तिं ध्वजं त्रिशूलं तु क्रमेणैव तु विन्यसेत् ॥ ५२ ॥
ततः प्राकारसंलग्नानिषून्द्वादश विन्यसेत् ॥
चतुरः सूक्तिषु तथा द्वारेष्वष्टौ भृगूत्तम ॥ ५३ ॥
सुसंहतान्समाञ्श्लक्ष्णान्दुरङ्गान्पत्रनिर्गतान् ॥
व्यामार्धसम्मितांस्तीक्ष्णान्पार्श्वे तक्षविभूषितान् ॥ ९४ ॥
पञ्चरङ्गं ततः सूत्रं बध्नीयात्तेषु भार्गव ॥
अरुन्धन्द्वारमार्गांस्तु सुदृढं सुमनोहरम् ॥ ५५ ॥
वितानं मण्डलीकुर्याच्छ्वेतवर्णं मनोहरम् ॥
ध्वजं छत्राणि खड्गांश्च घण्टादर्शांश्चतुर्दिशम् ॥ ५६ ॥
प्राकारोपरि दण्डेषु सुदृढेष्वनिरोधयेत्॥
स्नाने मण्डलकान्कुर्यात्प्राकारस्य ततो बहिः ॥ ५७ ॥
त्रिसमान्भृगुशार्दूल चतुरस्रान्मनोहरान् ॥
ज्वालामाल्यार्घरचितान्दिशासु विदिशासु च ॥ ५८ ॥
स्नानमण्डलकानां तु समीपे सुसमन्ततः ॥
गावः सवत्साः संस्थाप्या वृषभाश्च सुपूजिताः ॥ ५९ ॥
अजाश्चार्भकसम्पन्ना जीवमोक्षाश्च पक्षिणः ॥
प्राकारस्योत्तरे भागे वेदिं कुर्यात्सुशोभिताम् ॥ 2.104.६० ॥
दर्भैराच्छाद्य तान्सर्वान्सलिलेन समुक्षयेत् ॥
तत्राग्निं जुहुयान्मन्त्रैर्महाव्याहृतिपूर्वकम् ॥ ६१ ॥
यथोक्तदेवतालिंगैस्तथा मन्त्रैश्च भार्गव ॥
ॐकारेण तथास्त्राणां नामयुक्तेन वै पृथक् ॥ ६२ ॥
अश्वत्थोदुम्बरप्लक्षबिल्वार्कखदिराः शमी ॥
स्वराह्वयमपामार्गं पलाशयवकान्यपि ॥ ६३ ॥
वंशिका चाश्वगन्धा च कदम्बश्चार्जुनासनौ ॥
एतेषां समिधः शस्ताः किष्कुमात्रा घृतप्लुताः ॥ ६४ ॥
एकैकमप्यष्टशतं हव्यं सर्षपसंयुतम् ॥
तिलान्यवांस्तथाक्षोटाँल्लाजाश्चाग्नौ समावपेत् ॥ ६५॥
ततश्चावपयेच्छान्तिं ब्राह्मणान्गुणसंयुतान् ॥
अभ्यर्च्य दक्षिणाभिश्च पुष्पाक्षतफलैस्तथा ॥६६॥
ततस्तु स्थापयेत्कुम्भान्मण्डले सागरोपरि ॥
यथा दिग्देवनामाङ्कान्दिशासु विदिशासु च ॥ ६७ …
काञ्चनान्राजतांस्ताम्रानथ वापि महीमयान् ॥
नामान्यथैषां वक्ष्यामि तानि मे गदतः शृणु ॥ ६८ ॥
भद्रः सुभद्रः सिद्धार्थश्चतुर्थः पुष्टिवर्धनः ॥
अमोकश्चित्रभानुश्च पर्जन्योऽथ सुदर्शनः ॥६९ ॥
वापीकूपसरिद्भ्यश्च पूजयित्वा जलेन तान् ॥
वनस्पतिसमायुक्तानर्घ्यमाल्यादिपूजितान्॥2.104.७०॥
मन्त्रानुमन्त्रितानेतांस्तत्र मन्त्रं निबोध मे ॥
स्थापयन्तु घटानेतान्साश्विरुद्रमरुद्गणाः ॥ ७१॥
विश्वेदेवास्तथादित्या वसवो मुनयस्तथा ॥
अधिश्रयन्तु सुप्रीतास्तथान्या अपि देवताः ॥७२॥
एवं संस्थाप्य तान्कुम्भान्स्थाप्या मण्डलकेष्वथ॥
ऐन्द्रादिक्रमशः स्थाप्यास्त्वासने पूर्वचोदिते ॥ ७३॥
पूर्वे मण्डलके स्थाप्यः शुक्लपुष्पान्वरान्वितः ॥
सर्वत्र ग्राहयेद्विप्रैर्वक्ष्यमाणगुणान्घटान् ॥ ७४ ॥
प्रत्येकं स्याच्चतुर्भिस्तु द्वारस्योपरि भार्गव ॥
अपां पूर्णं घटं तत्र यथाशं च यथास्वकम् ॥ ७५ ॥
तथा दद्याद्यथास्नानं सम्यक्स्नाप्यस्य जायते ॥
ओषधीश्चात्र वक्ष्यामि यास्तु कुम्भेषु निक्षिपेत् ॥ ७६ ॥
अस्थापितेषु धर्मज्ञ ततः संस्थापनं भवेत् ॥
जयां जयन्तीं विजयां सूकरीं मर्कटीं वचाम्॥ ७७ ॥
कायस्थां च वयस्थां च बृहतीं बहुपुत्रिकाम् ॥
सहस्तशतवीर्ये च त्रायमाणां कटुम्बराम् ॥ ७८ ॥
अतिच्छत्रां तथा च्छत्रां जीवन्तीमपराजिताम् ॥
जटिलां पूतनां कीशां सुरां यक्षसुरां तथा ॥ ७९ ॥
अवीतराक्षसीं वीरां स्थिरां भद्रां यशोबलाम् ॥
शङ्खपुष्पीं विष्णुदत्तां नाकुलीं गन्धनाकुलीम् ॥ 2.104.८० ॥
गोलोम्यतिबले चैव व्याघ्रीमश्ववतीं तथा ॥
श्यामां ज्योतिष्मतीं चैव तेषु कुम्भेषु निक्षिपेत् ॥ ८१ ॥
चन्दनोशीरतगरकुम्भमागुरुकेसरान्॥
त्वक्पत्रमुस्तह्रीबेरप्रियङ्ग्वेलारसांस्तथा॥८२॥
गन्धमांसीं तथा स्पृक्कां रोचनं रामकं बुटिम्॥
कशीरुकामृतानं च ककुभं पद्मकं तथा ॥ ८३ ॥
कस्तूरिकां तरुष्कं च कर्पूरं नाडिकं तथा ॥
जातीफलं लवङ्गाश्च कक्कोलैः सह चूर्णिताः ॥ ८४ ॥
गन्धद्रव्याणि चान्यानि यथालाभं विनिक्षिपेत् ॥
श्वेता रक्ता तथा पीता कृष्णा चैव हि मृत्तिका ॥ ८५ ॥
याश्चान्या विविधाः शस्ता मृत्तिकास्ता निबोध मे ॥
वृषाग्रशृङ्गाद्वल्मीकाद्देवतायतनाद्व्रजात् ॥ ८६ ॥
अग्न्यागाराद्धस्तिदन्तात्सुभगागणिकागृहात् ॥
राजद्वारात्पुरद्वारात्कूपाद्दानगृहात्तथा ॥ ८७ ॥
कुम्भकारगृहान्नद्याः पद्मिन्याः श्रोत्रियालयात् ॥
इन्द्रनीलतडागाच्च ह्रदात्प्रस्रवणादपि ॥ ८८ ॥
चतुष्पथात्सप्तपथान्मृत्तिकाशकटात्तथा ॥
गजाश्वगणशालाभ्यस्तथाथर्वणवेश्मनः ॥ ८९ ॥
अजाविकान्वितागाराद्राजकोशान्महासनात् ॥
अशोकात्क्षीरवृक्षाणां समीपात्सफलस्य च ॥ 2.104.९० ॥
सदाध्ययनशालातो यज्ञभूमेश्च मृत्तिकाः ॥
प्रगृह्य सर्वाः सम्भृत्य पञ्चगव्यसमन्विताः ॥ ॥ ९१ ॥
सर्वबीजैः समायोज्य स्नानकुम्भेषु निक्षिपेत् ॥
ततः कुम्भान्प्रतिष्ठाप्य स्नाप्यं संस्थापयेद्द्विजः ॥ ९२ ॥
मण्डलेषु क्रमेणैव दिशासु विदिशासु च ॥
पूर्वे मण्डलके स्नाप्यः श्वेतमाल्यानुलेपनः ॥ ९३ ॥
श्वेतश्चैव पटो धार्यश्चतुर्भिर्ब्राह्मणैर्भवेत् ॥
एवं दक्षिणतस्तस्य सर्वं नीलं प्रकल्पयेत् ॥ ९४ ॥
कृष्णं च कल्पयेत्सर्वं तथा दक्षिणपश्चिमे ॥
( पीतं प्रकल्पयेत्सर्वं तथा भागे तु पश्चिमे ॥)
पश्चिमोत्तरयोः सर्वं शुक्लवर्णं प्रकल्पयेत् ॥ ९५ ॥
तथैवोत्तरदिग्भागे पद्मवर्णं प्रकल्पयेत् ॥
प्रागुत्तरे तथा भागे चित्रं सर्वं प्रकल्पयेत्॥ ९६ ॥
राज्याभिषेकविहितो मन्त्रश्चात्र विधीयते ॥
प्रत्येकमथ कुम्भेषु दिशासु विदिशासु च ॥ ९७ ॥
एवं स्नाप्यो महाभाग शङ्खपुण्याहनिस्वनैः ॥
स्नातः शुक्लाम्बरधरः श्वेतमाल्यानुलेपनः ॥ ९८ ॥
मण्डले तु निविष्टानां सुराणां पूजनं ततः ॥
कुर्वीत प्रयतः शुद्धिं गन्धमाल्यार्घसम्पदा ॥ ९९ ॥
दीपैर्धूपैर्नमस्कारैर्वस्त्रैराभरणैस्तथा ॥
अपूपान्पायसं भक्ष्याञ्शुक्लमाल्यानुलेपनम् ॥ 2.104.१०० ॥
विविधं च फलं क्षीरं ब्रह्मणेभ्यो निवेदयेत् ॥
दध्ना च परमान्नेन श्वेतमाल्यानुलेपनैः ॥ १०१ ॥
फलैः प्रसूनैश्च तथा केशवाय हरेद्बलिम् ॥
क्षीरेण परमान्नेन दध्ना सकृसरेण च ॥ १०२ ॥
फलैः कालोद्भवैः पुष्पैः शङ्कराय हरेद्बलिम् ॥
अपूपैः परमान्नेन भक्ष्यैः क्षीरेण सर्पिषा ॥ १०३ ॥
माल्यानुलेपनैः शुक्लैर्महेन्द्राय हरेद्बलिम् ॥
यवानां च तिलानां च गोधूमानां तथा सकृत् ॥१०४ ॥
भक्ष्यैः सगुडसर्पिष्कैर्बलिं कुर्यात्तु वह्नये ॥
गुडोदनगुडापूपान्पक्वमांसं तथामिषम् ॥ १०५ ॥ ।
यमाय च बलिं दद्याद्रक्तमाल्यानुलेपनम् ॥
पक्वमांसं तथा मांसं कृष्णमाल्यानुलेपनम् ॥ १०६ ॥
विरूपाक्षाय तु सुरां दद्यात्सौवीरकं तथा ॥
मुद्गापूपांस्तिलापूपाञ्जलजान्मन्दिरांस्तथा ॥ १०७ ॥
वरुणाय बलिं दद्यात्पीतं माल्यादिकं तथा ॥
यवगोधूमचणकमाषसक्तून्सगोरसान् ॥ ॥ १०८ ॥
कुल्माषघृतसंयुक्तान्बलिं दद्यात्तु वायवे ॥
भक्ष्यांश्च मधुसंयुक्तान्मुद्गमिश्रांस्तथामिषम् ॥ १०९ ॥
चित्रं माल्यं कुंकुमं च कुबेराय हरेद्बलिम् ॥
शिम्बिधान्यभवान्भक्ष्याञ्शाल्यन्नं सगुडं दधि ॥2.104.११०॥
ईशानाय बलिं दद्याच्छुक्लमाल्यानुलेपनैः ॥
शुक्लौदनं शुक्लमाल्यं शूलायोपहरेद्बलिम् ॥१११॥
तथा पञ्चरसैः सिद्धं दद्याद्विज्ञाय बुद्धिमान् ॥
कृसरं गन्धपुष्पाढ्यं दद्याच्छक्राय पायसम्॥११२॥
फलोदनं रक्तमाल्यं दद्याच्छक्त्यै तथा बलिम् ॥
स्नानमण्डलकेभ्योऽपि बलिं दद्यात्ततो बलिम्॥११३॥
बालक्रीडनकान्भक्ष्यान्फलानि विविधानि च ॥
मत्स्यामिषं सरुधिरं पायसं तिलतण्डुलम् ॥ ११४ ॥
सकृदन्त्राणि हृदयं भूतेभ्यो बलिमाहरेत् ॥
ॐकाराद्यैश्चतुर्थ्यन्तैः स्वाहाकारसमन्वितैः ॥११५॥
राज्याभिषेकमन्त्रोक्तदेवतानां पृथक्पृथक् ॥
नामभिर्जुहुयाद्वह्नौ यथाश्रद्धं यथाघृतम् ॥ ११६॥
पूर्णाहुतिं ततो दत्त्वा देया विप्रेषु दक्षिणा ॥
कनकं रजतं गावो वासांसि विविधानि च ॥ ११७ ॥
कर्त्रे च दक्षिणा देया तथा राम विशेषतः ॥
दत्तं वस्त्रादि देवेभ्यस्तथा स्तानघटादिकम् ॥ ११८ ॥
कर्ता यथेष्टं विभजेत्तस्य भागो हि स स्मृतः ॥
घृतेऽथ वदनं दृष्ट्वा नमस्कृत्य च देवताः ॥११९ ॥
मङ्गल्यालम्भनं कृत्वा फलपाणिरुदङ्मुखः ॥
तस्माद्देशाद्विनिर्गत्य गृहं यायात्ततः स्वकम् ॥ 2.104.१२० ॥
तत्र तिष्ठेद्धविष्याशी ब्रह्मचारी च तां निशाम् ॥
स्नापितो ब्रह्मपूतेन स्नानेनायं यथा भवेत् ॥ १२१ ॥
सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति ॥
पुरा देवासुरे युद्धे शक्रायैतद्बृहस्पतिः ॥ १२२॥
कृतवान्पुरुहूताय ततः शक्रः सुराधिपः ॥
जघान दैत्यमुख्यानां नवतीर्नव भार्गव ॥ १२३॥
धन्यं यशस्यं रिपुनाशकारि रक्षोहणं पापहरं पवित्रम् ॥
रोगापहं विघ्नविनाशकारि स्नानं मया ते विहितं यथार्थम्॥१२४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा०सं० रामं प्रति पुष्करोपाख्याने दिक्पालस्नानवर्णनन्नाम चतुरुत्तर
शततमोऽध्यायः ॥ १०४ ॥
2.105
राम उवाच ॥
स्नानमन्यत्समाचक्ष्व भगवन्दुरितापहम् ॥
विनायकोपसृष्टानां सर्वकर्मप्रसाधकम् ॥ १ ॥
पुष्कर उवाच ॥
विनायकः कर्मविघ्नसिध्यर्थं विनियोजितः ॥
गणानामधिपत्ये च केशवेन पितामहैः ॥ २ ॥
तेनोपसृष्टो यस्तस्य लक्षणानि निबोध मे ॥
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डं च पश्यति ॥ ३ ॥
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ॥
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ॥ ४ ॥
व्रजमानस्तथात्मानं मन्यतेऽनुगतं परैः ॥
विमना विफलारम्भः संसीदन्ननिमित्ततः ॥ ५ ॥
तेनोपसृष्टो लभते न राज्यं राजनन्दनः ॥
या कुमारी च भर्तारमपत्यं गर्भमङ्गना ॥ ६ ॥
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ॥
वणिङ् न लाभमाप्नोति न कृषिं तु कृषीवलः ॥ ७॥
स्नपनं तस्य कर्तव्यं पुण्येह्नि विधिपूर्वकम् ॥
हस्तपुष्याश्वयुक्सौम्यवैष्णवान्यतमे शुभे ॥ ८॥
नक्षत्रे च मुहूर्ते च मैत्रे वा ब्रह्मदैवते ॥
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं भवेत् ॥ ९ ॥
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजोत्तमान् ॥
गौरसर्षपकल्केन मेध्येनोत्सादितस्य च ॥ 2.105.१० ॥
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ॥
चतुर्भिः कलशैः कार्यं स्नपनं मन्त्रसंयुतम् ॥११ ॥
तथैकवर्णाः कलशाः कर्तव्यास्ते ह्रदाम्भसा ॥
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्धृदात् ॥ १२ ॥
मृत्तिकां रोचनं गन्धान्गुग्गुलं तेषु निक्षिपेत् ॥
सर्वौषधीश्च बीजानि स्नानमन्त्रानतः शृणु ॥ १३ ॥
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ॥
तेन त्वामभिषिञ्चामः पावमानीः पुनन्तु ते ॥ १४ ॥
भगं ते वरुणो राजा भगं शुक्रो बृहस्पतिः ॥
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ १५ ॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ॥
ललाटकर्णयोरक्ष्णोरापस्तद्धन्तु ते सदा ॥ १६ ॥
दर्भपिञ्जलमादाय वामहस्ते ततो गुरुः ॥
स्नातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु ॥ १७ ॥
जुहुयान्मूर्ध्नि धर्मज्ञ चतुर्थ्यन्तैश्च नामभिः ॥
ॐकारपूतैर्धर्मज्ञ स्वाहाकारसमन्वितैः ॥ १८ ॥
मिताय संमितायाथ सालङ्कटकटाय च ॥
कूष्माण्डराजपुत्राय तथैव च महात्मने ॥ १९ ॥
नामभिर्बलिमन्त्रैश्च वषट्कारसमन्वितैः॥
दद्याच्चतुष्पथे शीर्षे कुशानास्तीर्य सर्वतः ॥2.105.२०॥ ।
कृतरक्तांस्तण्डुलांश्च पललौदनमेव च ॥
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेव तु ॥ २१ ॥
पुष्पं चित्रं सुगन्धं तु सुरां च त्रिविधामपि ॥
मूलकं पूरिकापूपास्तथैवैण्डर्यकाणि च ॥ २२॥
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः॥
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम्॥२३॥
रूपं देहि यशो देहि सौभाग्यं सुभगे मम॥
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे॥२४॥
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः॥
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ॥ २५ ॥
विनायकस्नानमिदं यशस्यं रक्षोहणं विघ्नविनाशकारि॥
सर्वामयघ्नं रिपुनाशकं च कर्तव्यमेतन्नियमेन राम॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने विनायकस्नानवर्णनन्नाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥
2.106
पुष्कर उवाच ॥
स्नानमन्यत्प्रवक्ष्यामि तवाहं दुरितापहम् ॥
दानवेन्द्राय भुवने यज्जगादोशनाः पुरा ॥ १ ॥
धन्यं यशस्यमायुष्यं सर्वशत्रुक्षयंकरम् ॥
प्रभातायां तु शर्वर्यां भास्करेऽनुदिते तथा ॥ २॥
स्नायीत भार्गवश्रेष्ठ विधिदृष्टेन कर्मणा ॥
सौवर्णं राजतं कुम्भमथवापि महीमयम् ॥ ३ ॥
नादेयैः सागरैस्तोयैः कल्पयित्वा यथाविधिः ॥
ओषधीर्विन्यसेत्तत्र समभागाः सुचूर्णिताः ॥ ४ ॥
जया च विजया चैव तथा सूक्ष्मफलानि च ॥
प्रसन्नमुखबीजानि भाण्डीरकुसुमानि च ॥ ९ ॥
क्षीरजापत्रनिर्माल्यं देवीनिस्सारमेव च ॥
कल्लीवराङ्गना चैव गजेन्द्रस्य च मञ्जरी ॥ ६ ॥
क्षुद्रजं करजं चैव धने द्वेद्वे विभावरी ॥
महौघं पूर्तगं चैव भुवं यक्षभुवं तथा ॥ ७ ॥
शशाङ्कमृगदर्पं च दानं च करिणस्तथा ॥
ओषध्यः कथितास्तुभ्यं दाने मन्त्रमतः शृणु ॥ ८॥
( ॐनमो भगवते रुद्राय धवलपाण्डुरोपचितभस्मानुलिप्तगात्राय ॥
तद्यथा ॥
जय जय विजयविजय सर्वाञ्छत्रूनमुकस्य कलहविग्रहविवादेषु भञ्जभञ्ज मथमथ सर्वत्र प्रत्यक्षिकां योऽसौ युगान्तकाले दध्यक्षतैरिमां पूजां रौद्री मूर्तिसहस्तां सुसत्त्वां रक्षतु जीविकां संवर्तकाग्नितुल्यश्च त्रिपुरार्तिकरः यः सर्वदेवमयः सोऽपि तव रक्षतु जीवितं निखि निखि निखि स्वाहा ॥ )
एवं स्नातस्त्वनेनैव गात्रेण तिलतण्डुलम् ॥
घृताक्तं ज्वलिते वह्नौ जुहुयात्प्रयतः सदा ॥९ ॥।
ततः सम्पूजनं कुर्याद्देवदेवस्य शूलिनः ॥
घृतक्षीराभिषेकेण गन्धपुष्पफलाक्षतैः ॥ 2.106.१० ।॥
दीपधूपनमस्कारैस्तथा वान्नेन भूरिणा ॥
गीतवाद्यैः सुमधुरैर्ब्राह्मणान्स्वस्तिवाचनैः ॥ ११ ॥
माहेश्वरस्नानमिदं हि कृत्वा रक्षोहणं शत्रुनिबर्हणं च ॥
कामानवाप्नोति नरस्तु सर्वान्यान्राम कांश्चिन्मनसेच्छतीति ॥ १२ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने माहेश्वरस्नानवर्णनन्नाम षडुत्तरशततमोऽध्यायः ॥ १०६ ।॥
2.107
पुष्कर उवाच ॥
स्नानान्यन्यानि ते वच्मि निबोध गदतो मम ॥
रक्षोघ्नानि यशस्यानि मङ्गल्यानि विशेषतः ॥ १ ॥
स्नानं घृतेन कथितं चायुषो वर्धनं परम् ॥
राम गोशकृता स्नानं परं लक्ष्मीविवर्धनम् ॥ २ ॥
स्नानं च कथितं दध्ना परं लक्ष्मीविवर्धनम्॥
तथा दर्भोदकस्नानं सर्वपापनिबर्हणम् ॥ ३॥
पलाशबिल्व कमलकुशस्नानं पुरो हितम् ॥
वचा हरिद्रा मञ्जिष्ठा तगरं चारकं तथा ॥ ४॥
स्नानमेतद्विनिर्दिष्टं रक्षोघ्नं पापसूदनम् ॥
वचाहरिद्रया युक्तं स्नानं रक्षोहणं परम् ॥ ५ ॥
आयुष्यं च यशस्यं च धन्यं मेधाविवर्धनम् ॥
स्नानं पवित्रं मङ्गल्यं तथा काञ्चनवारिणा ॥ ६ ॥।
क्रमादूनतरे किञ्चिद्रूप्यताम्रोदकैस्ततः ॥
तथा रत्नोदकस्नानं सङ्ग्रामविजयावहम् ॥ ७ ॥
वैडूर्यं मध्यतः कृत्वा प्रवालैः परिवारयेत् ॥
तेन पात्रेण यत्स्नानं सर्वकामकरं हितम् ॥ ८ ॥
स्नानं सर्वौषधैर्मुख्यं विवादे विजयप्रदम् ॥
सर्वगन्धोदकस्नानं सौभाग्यारोग्यकारकम् ॥ ९ ॥
तथा बीजोदकस्नानं सर्वकर्मप्रसाधकम् ॥
तथैवामलकस्नानमलक्ष्मीनाशनं परम् ॥ 2.107.१० ॥
तिलसिद्धार्थकैः स्नानममङ्गल्यप्रणाशनम् ॥
केवलैर्वा तिलैः स्नानमथवा गौरसर्षपैः ॥ ११ ॥
स्नानं प्रियङ्गुना प्रोक्तं तथा सौभाग्यवर्धनम् ॥
सौभाग्यकं तथा स्नानं नागकान्ताप्रियङ्गुभिः ॥ १२ ॥
पुरोचारुककुष्ठैश्च तथैव च विनिर्दिशेत् ॥
धात्रीफलेन पद्मैश्च तथामलकवारिणा ॥ १३ ॥
लक्ष्मीवृद्धिकरं स्नानं कथितं भार्गवोत्तम ॥
पद्मोत्पलकदम्बैश्च तथा लक्ष्मीविवर्धनम् ॥ १४ ॥
बलामतिबलां चैव तथा नागबलामपि ॥
बलां मोटां चतुर्थी तु स्नानं वै बलवर्धनम् ॥ १५ ॥
ब्रह्माकर्कोटकीमूलं कुमारी पद्मचारिणी ॥
स्नाने रोगविनाशाय स्मृताः प्रत्येकशो द्विज ॥ १६ ॥
मांसीमुराचोरकनागपुष्पैः सनागदानैरतिनाशकारि ॥
तुरुष्ककक्कोलकजातिपूगैः फलैः समस्तैः सुतरां प्रदद्यात् ॥ १७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नानाविधस्नानवर्णनन्नाम सप्तोत्तरशततमोऽध्यायः ॥ १०७॥
2.108
राम उवाच ॥
स्नानानामिह सर्वेषां यत्स्नानमतिरिच्यते ॥
तन्ममाचक्ष्व सकलं सर्वकल्मषनाशनम् ॥१॥
पुष्कर उवाच ॥
शृणु पादोदकस्नानं सर्वकिल्बिषनाशनम् ॥
श्रवणर्क्षं विना ह्येतद्भवत्यर्धफलं यतः ॥ २ ॥
ततः कार्यं प्रयत्नेन श्रवणर्क्षे विशेषतः ॥
अथोत्तरासु षाढासु निराहारो जितेन्द्रियः ॥ ३ ॥
सर्वौषधैः सर्वगन्धैर्देवदेवस्य चक्रिणः ॥
पादं प्रलेपयेद्विद्वान्क्रमेण चतुरात्मनः ॥ ४ ॥
ततस्तु कलशान्कुर्याच्चतुरः सुदृढान्नवान् ॥
सौवर्णान्राजतान्ताम्रानथ वापि महीमयान्॥ ५ ॥
ततोऽनिरुद्धचरणौ कृपाद्भिः क्षालयेत्ततः ॥
ताभिस्तु कलशं पूर्णं स्थापनीयं तदग्रतः ॥ ६ ॥
ततः प्रद्युम्नचरणौ क्षाल्यौ प्रस्रवणोदकैः ॥
कलशं पूरितं तच्च भवेत्स्थाप्यं तदग्रतः ।७ ॥
संकर्षणस्य चरणौ क्षाल्यौ तोयैश्च सारसैः ॥
तैस्तु संपूर्णकलशं स्थाप्यं तस्याग्रतो भवेत् ॥ ८ ॥
वासुदेवस्य चरणौ नादेयैः क्षालयेद्बुधः ॥
कलशं पूरितं तैश्च स्थापनीयं तदग्रतः ॥ ९ ॥
ततः पूजा तु कर्तव्या यथावच्चतुरात्मनः ॥
कलशान्पूजयेत्तांश्च गन्धमाल्यफलाक्षतैः ॥ 2.108.१० ॥
ततः प्राप्ते द्वितीयेऽह्नि स्नातः पूर्वमुपोषितः ॥
सम्मुखश्चानिरुद्धस्य स्नाप्यश्च कटुको भवेत् ॥ ११ ॥
प्रद्युम्नस्य च देवस्य ततः संकर्षणस्य च ॥
ततश्च वासुदेवस्य यथा रामस्य चक्रिणः ॥ १२ ॥
( पवित्रमन्त्रैः सर्वेषां घण्टानामभिमन्त्रणम्॥
कर्तव्यं सात्त्वतेनाथ शुचिना भार्गवोत्तम ॥१३॥
अथ मन्त्रान्प्रवक्ष्यामि कलशेषु चतुर्षु ते॥)
मङ्गल्यांश्च यशश्यांश्चा सर्वाघविनिषूदनान् ॥ १४ ॥
अरुद्धमार्गाः सर्वत्र सर्वशश्चापराजिताः ॥
वायुमूर्तिरचिन्त्यात्मा सोऽनिरुद्धः स्वयं प्रभुः ॥ १५ ॥
पादोदकेन दिव्येन शिवेनाघविनाशिना ॥
तथाघमपहृत्याशु शिवं वर्धयतां प्रभुः ॥ १६ ॥
लोकान्प्रद्योतयति यः प्रयुम्नो भास्करप्रभः ॥
हुताशनः स तेजस्वी मङ्गलं विदधातु मे ॥ ।१७ ॥
कामदेवो जगद्योनिः सर्वशः प्रभुरीश्वरः ॥
दुःखहर्ता जगन्नाथो मङ्गलानि ददातु ते ॥ १८ ॥
जगतां कर्षणाद्देवो यः स सङ्कर्षणः प्रभुः ॥
रुद्रमूर्तिरचिन्त्यात्मा सर्वगः सर्वहारकः ॥ १९ ॥
कामपालोऽरिदमनः सर्वभूतस्य शङ्करः॥
विश्वयोनिर्महातेजा मङ्गलानि ददातु ते ॥ 2.108.२० ॥
सर्वावासो वासुदेवो भूतात्मा भूतभावनः ॥
सर्वगश्चाप्रमेयश्च पुरुषः परमेश्वरः ॥ २१ ॥
अनन्तः सर्वदेवेशो जगदाधारकारणः ॥
अघापहारी वरदो विदधातु श्रियं तव ॥ २२ ॥
एवं स्नातस्ततस्त्यक्त्वा तत्रैव स्नानवाससी ॥
शुक्लवासा उपस्पृश्य पूजां कुर्यात्क्रमेण तु ॥ २३ ॥
गन्धैः पुष्पैः फलैर्मुख्यैर्दीपैर्धूपैः सुगन्धिभिः ॥
नैवेद्यैर्विविधैश्चैव सात्त्वतानां च पूजनैः ॥२४॥
एवं देवार्चनं कृत्वा सात्त्वतां शान्तिदं शुभम् ॥
भोजनं गोरसप्रायं कृत्वा तिष्ठेत्सुयन्त्रितम् ॥ २६ ॥
प्रादुर्भावाणि मुख्यानि शृणुयात्केशवस्य च ॥
पाखण्डिपतितानां च वर्जयेद्दर्शनं तथा ॥ २६ ॥
इति पादोदकस्नानं प्रोक्तं रक्षोहणं तव ॥
मङ्गल्यं पापशमनमलक्ष्मीनाशनं परम् ॥ २७ ॥
सर्वविघ्नप्रशमनं सर्वबाधाविनाशनम् ॥
दुःस्वप्नारिष्टशमनं सर्वव्याधिहरं शिवम् ॥ २८ ॥
यात्रासिद्धिकरं धन्यं कर्मणां सिद्धिकारकम् ॥
शत्रुघ्नं बुद्धिदं मेध्यं बलायुःस्मृतिवर्धनम् ॥
सौभाग्यदं कामपरं यशःपुत्रविवर्धनम् ॥ २९ ॥
अमोघवीर्यं पुरुषोत्तमस्य पादोदकस्नानमिदं प्रदिष्टम् ॥
स्नानोत्तरं ते रणचण्डवेग भूयस्तु ते किं कथयामि राम ॥ 2.108.३० ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषोत्तमपादोदकस्नानवर्णनन्नामाष्टोत्तरशततमोऽध्यायः ॥ १०८ ॥
2.109
राम उवाच ॥
मणीनामथ काम्यानां श्रोतुमिच्छाम्यहं विधिम् ॥
सर्वकामकरं मुख्यं तथा च दुरितापहम् ॥ १ ॥
पुष्कर उवाच ॥
आथर्वणेन विधिना मणिकर्म निबोध मे ॥
ध्रुवस्तिष्ठेत्यृचा वृक्षं प्रत्यक्षमनुमन्त्रयेत् ॥ २ ॥
पादोनया मणिस्थानं प्रोक्षयेत्तु द्वितीयया ॥
अस्याः पादेनोत्तरेण निर्मिमीत मणिं ततः ॥ ३ ॥
सबन्धुश्चेति तमृचा तस्माच्छिन्द्यादिति श्रुतिः ॥
आहरेत मणिं तस्मात्सूक्तादस्मात्तृतीयया ॥ ४ ॥
सर्वत्र तु मणीनां च निर्माणं केवलं भवेत् ॥
उपयुक्तास्तु केवाक्षा द्रव्यास्ते परिकीर्तिताः ॥५॥
अङ्गुष्ठपर्वमात्रास्ते कर्तव्यास्तु समन्ततः ॥
सम्यगुत्पादयेत्तेषां सम्यग्ग्रन्थिचतुष्टयम् ॥ ६ ॥
अग्रतो मूलतो वापि कल्पमानेऽतिरिच्यते ॥
अरातीयोरित्यनया छिन्द्याच्छस्त्रेण तत्त्ववित् ॥ ७ ॥
अर्थं च सुशिरः कृत्वा ततः प्रक्षाल्य वारिणा ॥
पात्रं तमग्नौ कृत्वा तु सम्यगेव यथाविधि ॥ ८ ॥
यत्राचक्रुरित्यनया ससूत्रमत उत्तरम् ॥
कुर्यात्तदग्निकुण्डं च प्रबोध्य जुहुयाद् घृतम् ॥ ९ ॥
प्रत्यृचा स्वेन मन्त्रेण सम्पातानयनं भवेत् ॥
कृतशान्त्युदके पात्रे रम्ये लोहमये दृढे ॥ 2.109.१० ॥
स्वलिङ्गोद्धृमन्त्रेण दर्विदण्डादतः परम् ॥
विमुच्य सर्वं तेनैव मन्त्रेण भ्रामयेन्मणिम् ॥ ११ ॥
पात्रे तस्मिंस्ततस्तस्मादुद्धृत्या बन्धनं भवेत् ॥
सकलेनैव मन्त्रेण मन्त्रयेच्च तथोद्गतम् ॥ १२ ॥
सामान्यमिदमुक्तं ते शृणु वैशेषिकं द्विज ॥
अभीवर्तमणौ कर्म तव वक्ष्याम्यतः परम् ॥ १३ ॥
अभीवर्त्तेन मणिनेत्याद्याभिस्तिसृभिर्मणौ ॥
अत्रायं वासवं पात्रं द्वेभ्यश्च प्रत्यृचं पुनः १४ ॥
दत्त्वा सर्वेण सूक्तेन मणेराधन्वनं भवेत् ॥
अभीवर्तमणिः प्रोक्तो नो वा काष्ठान्भृगूत्तम ॥ १५ ॥
अयं योनिरत इति तस्य होमो विधीयते ॥
शशकेष्विह ये श्रान्तवत्सभैषज्यभाजनम ॥ १६ ॥
क्षुद्रेषु यदपामार्गं मणिः शान्तविसंज्ञकः ॥
इत्येते यावदुक्ताः स्युर्विवाहमधुराश्च ये ॥ १७ ॥
पूर्वोक्तेन भवेद्धर्म एतेषामिति मे मतिः ॥
द्रव्यौषधिमणीनां च सभार्याणां तथैव च ॥ १८ ॥
दाक्षायणमणीनां च भवेद्धोमाधिको विधिः ॥
ओषधीनामिहेदानीं विधानं शृणु भार्गव ॥ १९ ॥
व्रीहीणां वा यवानां वा मूले तु परितः किरेत् ॥
यदि सौम्य सुमन्त्रेण फलकान्येकविंशतिः ॥ 2.109.२० ॥
अमुष्मिन्स्थानरूढासु यथाभिलषितां बुधः ॥
योजयेन्नाम सम्भूताममुकस्य विभूतये ॥ २१ ॥
घृताहुतेति च द्वाभ्यां घृतेन प्रोक्षयेत्ततः ॥
मा ते रिषसीत्यनया ह्या त्वा तमभिमन्त्रयेत् ॥ २२ ॥
गन्धं संछादयेच्चैव ततो भूमेत्यनन्तरम् ॥
इत्यौषधीनां सर्वासां सामान्योऽयं विधिः स्मृतः ॥ २३ ॥
एककाद्यास्तु मणयः सलिङ्गं निखनेद्बुधः ॥
मन्त्रेण तान्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ २४ ॥
एकाङ्क एककामायेत्येकांके विधिवत्खनेत् ॥
आक्रन्दयति सूक्तेन प्रदध्नां यद्यथाविधि ॥ २५ ॥
इयं वीरुदित्यनया विधिवन्मधुघः खनेत् ॥
सूक्तेन सुकलेनास्य मणेराबन्धनं भवेत् ॥ २६ ॥
इमां खनामीत्यनया नितनीलिङ्गया खनिम् ॥
प्रतीची सौममसितां बध्नीयात्तु यथाविधि ॥ २७ ॥
यात्वा गन्धर्व इन्द्राभ्यां कपिकच्छुं खनेद्वधः ॥
सूक्तेनानेन तन्मेढ्रे प्रबध्नीयादिति स्थितः ॥ २८ ॥
इमां खनामीत्यनया दशधास्रुतया खनेत् ॥
पाठासूक्तेन बध्नीयादेका राज्ञीमिति श्रुतिः ॥ २९ ॥
दशशीर्ष इति द्वाभ्यां महाख्यं विधिवत्खनेत् ॥
आपः पुनन्त्वित्यनेन बध्नीयात्तां यथाविधि ॥ 2.109.३० ॥
इमां खनाम्यौषधीं त्वां ढबीं नाम तथोत्खनेत् ॥
काण्डीयाऋक्तया त्वेते बध्नीयात्तु यथाविधि ॥ ३१ ॥
य आत्मजा इत्यनया खन्यादिति तथैव ताम् ॥
1(vd2.4)
अनेनैव प्रबध्नीयाद्विद्वान्सूक्तेन तं मणिम् ॥ ३२ ॥
अरिष्टस्त्वा खनतु वै पिप्पलं तु खनेत्तथा ॥
यावद्द्यौरिति सूक्तेन तस्य चाबन्धनं भवेत् ॥ ३३ ॥
साहसीनावचेत्येवं सैधकं च तथा खनेत् ॥
अनेवैव प्रबध्नीयात्सूत्रेण तु यथाविधि ॥ ३४ ॥
पयोऽसीत्यथवा हन्यात्स्वर्गपत्रीं यथाविधि ॥
सूक्तेन तां प्रबध्नीयादनेनैव यथाक्रमम् ॥ ३५ ॥
इमां खनामीत्यनया माषपर्णीं तथा खनेत् ॥
द्वाभ्यां चानर्थसक्तत्वप्रबध्नीयादिति श्रुतिः ॥३६॥
ततः खण्डारिकां खन्याद्राजा त्वां वरुणः खनेत्॥
ऋचानया समस्तेन सूक्तेनाबन्धनं भवेत् ॥३७॥
एकार्कप्रभृतीनां तु लिङ्गः कल्प्यं फलं बुधैः ॥
सामीयात्वाह वरुणेत्येवमादिषु संश्रिताः ॥ ३८ ॥
सामीदयः पदार्थास्ते उपक्लृप्तास्तथा स्मृताः ॥
द्रव्यैस्तैस्तु मणिं कुर्यादाम्नायोक्तैर्यथाविधि ॥ ३९ ॥
तल्लिङ्गेन तु मन्त्रेण यथावदनुपूर्वशः ॥
कुष्ठस्य मणयः पञ्च उदपात्रे विदुर्बुधाः ॥ 2.109.४० ॥
प्रत्यैकपाठसंस्कार शुद्धये वेति नः श्रुतम् ॥
चतुरस्रं प्रबध्नीयान्मणिमञ्जनवत्तथा ॥ ४१ ॥
सैन्धवं लवणं सिद्धमुभयत्र परिग्रहात् ॥
कुर्याद्वाक्ष्यं च संस्कारं व्याघ्रत्यपमणौ तथा॥४२ ॥
चतुरस्रौ तु कर्तव्यौ मणी कारणकालजौ ॥
नैमित्तिकाश्च मणयो मणयः संविदुश्च ये ॥ ४३ ॥
स्वंस्वं मन्त्रं भवेत्तेषामिति मे निश्चिता मतिः ॥
नैमित्तिकानां घोरास्ते तेषां नैमित्तिकं भवेत् ॥ ४४ ॥
सम्पदानां तथा मध्ये साम्पदं नात्र संशयः ॥
सीमात्र्यात्वाहेत्यनेन सीमसं जनवद्भवेत् ॥ ४५ ॥
पिशाचशातनः पुंसां यातुधानविनाशनः ॥
मन्त्रलिङ्गादयं ज्ञेयो मन्त्रश्चास्य प्रवक्ष्यते ॥ ४६ ॥
शरकाष्ठे तु संयोज्य सीसं कृत्वेति बुद्धिमान् ॥
भार्ङ्गीं ज्यां धनुषः कृत्वा बाधकेनाथ तेन तत ॥ ४७ ॥
भूमौ पिशाचमालिख्य भगवेन तु ताडयेत् ॥
उत्तरेण शरेणैव पिशाचो नाशमाप्नुयात् ॥ ४८ ॥
शंकुधारमणेर्मन्त्र अनुसूर्यमिति स्मृतिः ॥
प्रज्ञातवर्णशाब्दाश्च रोहितस्य परिग्रहः ॥ ४९ ॥
चर्मणः स्यात्तथा वर्गो रोहितासाभवेच्च गाः ॥
शंकुर्निधीयते यत्र विस्तरार्थं तु चर्मणः ॥ 2.109.५० ॥
तस्माद्देशान्मणिः कार्यः शंकुर्धनपरिग्रहः ॥
मणिधनं च दुग्धं स्यादुपविष्टाय चर्मणि ॥ ५१ ॥
यजमानाय धर्मज्ञ उदपात्रं तथामया ॥
अतिकामल रोगघ्नमायुष्यश्च तथा मणिः ॥ ५२ ॥
इमं मे कुष्ठेत्यनेन पञ्चानां स्यात्परिग्रहः ॥
अत्यर्थमेव नैतेषां जलं कुष्ठेन संयुतम् ॥ ५३ ॥
सत्कृत्य पानयोगत्वाद्यजमानः पिबेत्ततः ।
मणयः पञ्चकुष्ठे द्वौ मणिशब्दपरिग्रहम् ॥ ५४ ॥
तुल्येन विधिना कार्याः फलं तेषां पृथक्पृथक् ॥
शिरोर्तिनाशनः पूर्वो द्वितीयो विषदूषकः ॥ ५९ ॥
तृतीयश्च तथा प्रोक्तो विषमज्वरनाशनः ॥
चतुर्थश्च तथा प्रोक्तः सततज्वरनाशनः ॥ ५६ ॥
चक्षुष्यः पञ्चमः प्रोक्तो मणिर्भार्गवनन्दन ॥
कृत्वोदपात्रं कुष्ठाम्भो नवनीतविमिश्रितम् ॥ ५७ ॥
भूयः कुष्ठं क्षिपेत्तत्र मणिं तत्रावतारयेत् ॥
मणिबन्धं ततः कृत्वा तोयं तत्पाययेन्नरम् ॥ ५८ ॥
लिप्येच्च सरुजं देशमुदपात्रजलेन तु ॥
याः पुरस्तादित्यनेन मणिः स्याल्लवणस्य तु ॥ ५९ ॥
पितुर्वस्त्रपुटे बद्ध्वा लवणस्य तु तन्मणिम् ॥
आबन्धे कुष्ठवत्स्याच्च यातुधानविनाशनः ॥ 2.109.६० ॥
व्याघ्ररूप इत्यनेन खंतव्यं वाटरूषकम् ॥
व्याघ्ररूप इति द्वाभ्यामृग्भ्यामाबन्धनं भवेत् ॥ ६१ ॥
पिशाचनाशकस्त्वेवं स मणिः स्यादसंशयम् ॥
एवमेवोत्तराभ्यां च भवेप्रत्यभिचारकः ॥ ॥ ६२ ॥
विष्कन्दस्येत्यनेनाह त्रिपर्णी विश्वभेषजी ॥
स्कन्दस्योपरि यः स्कन्दो भवेत्तस्य विनाशिनी ॥ ६३ ॥
यस्मादङ्गादिति भवेद्गणादित्वात्परिग्रहः ॥
गणस्य कर्म सामान्यं प्रतिसूक्तं न कारयेत ॥ ६४ ॥
गोराचवारि कर्माणि हन्तव्यानीवमादिभिः ॥
पतङ्गाद्याश्च चत्वारः संस्कृत्य प्राणिनो बुधः ॥ ६५ ॥
तृष्णत्वप्तैश्च मन्त्रेण गात्रं प्रक्षालयेत्खिलम् ॥
प्रथमेन तु सूक्तेन वेणुपौत्रे द्रवो मणिः ॥ ६६ ॥
वेणुः कुर्याद्भवेद्धर्मो वाक्षवद्देवदारुणः ॥
संस्कृत्य पूर्वमन्त्रेण माषकादीन्प्रमर्दयेत् ॥ ६७ ॥
गात्रसंस्कारसहितैः पिष्टैर्वा प्रकृतिर्भृशम् ॥
केवलेनैव मन्त्रेण मर्दयेत्तु विनश्यति ॥ ६८ ॥
तथा स्वलोमप्रभृती विधूलो धूशिरो युतिः ॥
देवप्रवेशं जतुना स्थगयित्वा तु रक्तिका ॥ ६९ ॥
दूष्या इति प्रतीकेन कुर्यात्प्रतिसरं मणिम्॥
कृत्वा दूषणमायुष्यं तदा प्रत्यभिवादकः॥2.109.७०॥
अयं प्रतिसरः पाणौ यात्राकाले सपत्नहा ॥
सूत्रेणानेन बध्नीयाल्लिङ्गात्प्रतिसरो परः॥७१॥
अनेन विधिना वृत्रं निजघान शतक्रतुः ॥
अशंस इति मन्त्रेण प्रबध्नीयाद्यथाविधि॥७२॥
भूतिश्रीप्रभृतीनां च विघ्नमेवं करोति यः ॥
विनाशनं तस्य भवेदाबन्धाद्यक्षनाशनम्॥७३॥
ज्यासूत्रप्रोथिताः सप्त वंशप्राप्ताः समुद्भवाः ॥
रत्तयान्तरव्यवहिता गर्भिण्या उद्धरेद् बुधः ॥ ७४॥
मासे चतुर्थे बध्नीयान्मन्त्रेणानेन बुद्धिमान् ॥
एकैकस्मिन्नतीते तु मासे सूत्रान्तरे मणिः ॥ ७५॥
एकैकं प्रक्षिपेद्धीमान्ससूत्रं पश्चिमं तथा ॥
प्राची दिगिति मन्त्रेण उदीची भयनाशनी ॥७६ ॥
अक्षीयाभ्यामित्यनेन दाप्यः स्याद्यक्ष्मनाशनः ॥
सन्धानार्थं शीतमग्ने रात्रीमातेत मोहनः ॥
मयूरगोसुरवृद्धौ द्वौ वेतीति प्रकीर्तितम् ॥७७॥
प्रोक्तास्तथैते मणयो नृवीर काम्या मया सर्वहिताय पुण्याः ॥
येषां हि बन्धो दुरितापहारी भयापहः केवलवृद्धिकारी ॥७८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मणिबन्धवर्णनन्नाम नवोत्तरशततमोऽध्यायः ॥ ॥ १०९॥
2.110
राम उवाच ॥
भगवञ्छ्रोतुमिच्छामि कर्म काम्यमहं नृणाम् ॥
कृतेन येन कामानां नरो भवति भाजनम् ॥ १॥
पुष्कर उवाच ॥
सर्वेषामेव कामानामीश्वरो भगवान्हरिः ॥
तस्य सम्पूजनादेव सर्वान्कामानुपाश्नुते ॥ २ ॥
स्नापयित्वा घृतक्षीरैश्चन्दनेनानुलेपयेत् ॥
शुक्लैः सम्पूज्य पुष्पैश्च सप्तमस्य बलिं हरेत् ॥ ३ ॥
रक्तपित्तान्नरो घोरान्मुच्यते नात्र संशयः ॥
तैलक्षौद्रघृतैर्देवं स्नापयित्वा जनार्दनम् ॥ ४ ॥
भस्मत्रयेणानुलिप्य सम्पूज्य कुसुमैः सितैः ॥
पञ्चमुद्गबलिं दद्यादतीसारात्प्रमुच्यते ॥ ५ ॥
संस्नाप्य पञ्चगव्येन दत्त्वा पञ्चानुलेपनम् ॥
पञ्चसस्यबलिं दत्त्वा सुखं कुष्ठात्प्रमुच्यते ॥ ६ ॥
त्रिरसस्नापितं देवं त्रिसुगन्धेन लेपितम् ॥
कृत्वा दत्त्वा त्रिसूत्रं च बलिं कामाद्विमुच्यते ॥ ७ ॥
स्नापयित्वा तु तैलेन त्रिभिरुष्णैर्विलेपयेत् ॥
पञ्चमाषबलिं दत्त्वा वातव्याधिं विमुञ्चति ॥ ८ ॥
द्विस्नेहस्नपितं देवं शीतोष्णेनानुलेपितम् ॥
पञ्चभिः स्नापयित्वा च रसैर्देवं जनार्दनम् ॥ ९ ॥
अनुलिप्य च धर्मज्ञ तथा पञ्चसुगन्धिना ॥
पञ्चवर्णानि पुष्पाणि तथा दत्त्वा यथाविधि ॥ 2.110.१० ॥
धूपं च पञ्चनिर्यासं दत्त्वा चैवाप्यनुत्तरम् ॥
ततश्च पञ्चमधुरं बलिं सम्यङ् निवेदयेत् ॥ ११ ॥
अनेन रोगतः शीघ्रं मुच्यते नात्र संशयः ॥
विष्णुं सहस्रमूर्धानं चराचरगुरुं हरिम् ॥ १२ ॥
स्तुवन्नामसहस्रेण ज्वरान्सर्वान्व्यपोहति ॥
घृतेन स्नापितं देवं चन्दनेनानुलेपयेत् ॥ १३ ॥
पञ्चभिर्जलजैः पुष्पैस्ततः सम्पूजयेद्विभुम् ॥
धूपं दद्यात्त्रिवारं च पञ्चगव्यं तथा बलिम् ॥ ॥ १४ ॥
पञ्चगौडं तथा राम बद्धो मुच्येत बन्धनात् ॥
त्रिशीतस्नापितं देवं त्रिशीतेनानुलेपयेत् ॥ १५ ॥
त्रिशीतैः कुसुमैः पूज्यं धूपं दद्यात्त्रिशीतलम् ॥
त्रिशीतं च बलिं दत्त्वा राजकोपाद्विमुच्यते १६ ॥
शीतोष्णस्नापितं देवं त्रिशीतैरनुलेपयेत् ॥
धूपं दत्त्वा च शीतोष्णं शीतोष्णं च तथा बलिम् ॥ १७ ॥
गुरुप्रसादमाप्नोति नात्र कार्या विचारणा ॥
यमलस्नापितं देवं यमलेनानुलेपितम् ॥ १८ ॥
अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ॥
यमलं च बलिं दत्त्वा सौभाग्यं प्राप्नुयान्नरः ॥ १९ ॥
सौभाग्यकामा नारी च सौभाग्यं महदाप्नुयात् ॥
सौभाग्यकामोऽपि नरः सौभाग्यं महदश्नुते ॥ 2.110.२० ॥
त्रिभिः संस्नापितं देवं सौभाग्यं महदाप्नुयात् ॥
त्रिभिः फलैः स्नापयित्वा त्रिसारेणानुलेपयेत् ॥२१॥
त्रिशीतं च बलिं दद्याद्यशः प्राप्नोत्यनुत्तमम् ॥
त्रितैलस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥२२॥
धूपयेन्महिषाक्षेण त्रिरक्तं च बलिं हरेत् ॥
रौद्रकर्म तु प्राप्नोति सिद्धिरस्ति न संशयः॥२३॥
त्रिगन्धस्नापितं देवं त्रिशीतेनानुलेपितम् ॥
पूजयेच्छ्वेतपद्मानां सहस्रेण महाभुजम्॥ ॥ २४॥
निवेद्य परमान्नं च श्रियं प्राप्नोत्यनुत्तमाम् ॥
घृतेन स्नापितं देवं चन्दनेनानुलेपितम्॥२५॥
परमान्नं बलिं दत्त्वा यथेष्टं काममाप्नुयात् ॥
घृतेन स्नापितं देवं चन्दनेनानुलेपितम् ॥२६॥
अपूपैः परमान्नेन कुल्माषेण च पूजयेत् ॥
आम्रातकानां मुख्यानां ततस्त्वष्टाधिकं शतम् ॥ २७ ॥
क्षौद्रन्त्रिवृत्तं देवाय यथावद्विनिवेदयेत् ॥
सौभाग्यं महदाप्नोति नात्र कार्या विचारणा ॥ २८ ॥
पञ्चगव्यबलिं दत्त्वा धनमाप्नोत्यनुत्तमम् ॥
त्रिरक्तस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥२९॥
रक्तपुष्पैः समभ्यर्च्य त्रिभिरेव यथाविधि ॥
त्रिरक्तं च बलिं दत्त्वा हुत्वा वै सर्षपत्रयम् ॥ 2.110.३० ॥
त्रिलोहं दक्षिणां दत्त्वा शत्रुनाशमवाप्नुयात्॥
त्रिफलस्नापितं देवं त्रिरक्तेनानुलेपितम्॥५३१ ॥
त्रिशीतं च बलिं दत्त्वा पुन्नामकुसुमानि च ॥
पुन्नामकानि मुख्यानि फलानि विविधानि च॥३२॥
पुत्रजन्म समाप्नोति नात्र कार्या विचारणा ॥
घृतेन स्नापितं देवं त्रिरक्तेनानुलेपितम्॥३३॥
कृत्वा तदेव धूपं तु दत्त्वा क्षीरं निवेदयेत् ॥
घृतपूरं बलिं दत्त्वा नरः प्राप्नोति जीविकाम् ॥ ३४ ॥
क्षीराज्यस्नापितं देवं चन्दनेनानुलेपितम् ॥
तदेव धूपं दातव्यं जातीपुष्पाणि चाप्यथ ॥ ३५ ॥
पञ्चगव्यबलिं दत्त्वा हुत्वा वह्नौ तथा घृतम् ॥
गां च दत्त्वा महाभाग गाः समाप्नोति मानवः ॥ ३६ ॥
यमलस्नापितं देवं यमलेनानुलेपितम ॥
अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ॥ ३७ ॥
यमलं च बलिं दत्त्वा जुहुयादक्षतांस्तथा ॥
तिलसिद्धार्थकयुतान्सर्पिः क्षीरं घृतं तथा ॥ ३८ ॥
अश्वं च दक्षिणां दत्त्वा हयान्प्राप्नोत्यनुत्तमान् ॥
घृतेन स्नापितं देवं तथैव घृतलेपितम् ॥ ३९ ॥
पुष्पैश्चतुर्भिः सम्पूज्य धूपं दत्त्वा चतुःसमम् ॥
त्रिशुकं च तथा दत्त्वा तथैव पानकत्रयम् ॥ 2.110.४० ॥
त्रिशुकं च तथा हुत्वा त्रिस्नेहेन समन्वितम् ॥
त्रिलोहं दक्षिणां दत्त्वा गाणपत्यमवाप्नुयात् ॥ ४१ ॥
मधुरत्रितयेनाथ स्नापयित्वा जनार्दनम् ॥
अनुलिम्पेत्त्रिशीतेन पूजयेच्चमकैस्तथा ॥ ४२ ॥
धूपं दहेत्त्रिशीतेन दद्यात्त्रिमधुरं बलिम् ॥
मधूकपुष्पाणि तथा द्राक्षां खर्जूरमेव च ॥ ४३ ॥
सर्वभूतैः सहाप्नोपि सख्यमेव न संशयः ॥
घृतेन स्नापितं देवं वचया निशया तथा ॥ ४४॥
चन्दनेनानुलिम्पेत्तु जातीपुष्पैरथार्चयेत् ॥
घृतक्षौद्रयुतं दत्त्वा तथा धूपं च गुग्गुलम् ॥ ४५ ॥
त्रिशूकं च बलिं दत्त्वा तथा त्रिलवणं नरः ॥
कनकं दक्षिणां दत्त्वा विद्यामाप्नोत्यभीप्सिताम् ॥ ४६ ॥
चन्दनमाज्यं जाती परमान्नं गुग्गुलुं च देवाय॥
दत्त्वा भक्त्या पुरुषः सर्वान्कामानवाप्नोति॥४७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भगवदनुलेपनस्नानवर्णनन्नाम दशोत्तरशततमोऽध्यायः ॥११०॥
2.111
राम उवाच ॥ भगवञ्छ्रोतुमिच्छामि पापानां कर्मणां फलम् ॥
त्वत्तः कमलपत्राक्ष तन्ममाचक्ष्व पृच्छतः ॥१॥
पुष्कर उवाच ॥
भुक्त्वैवान्नमभोज्यं तु नरकं याति मानवः ॥
व्रतलोपे तदर्धं च प्रकीर्णे तु दशाहकम् ॥ २ ॥
अग्निहोत्रसमिद्यादीन्सहस्रं याति वत्सरान् ॥
महापातकिनः सर्वे कल्पं पश्यन्ति भार्गव ॥ ३ ॥
मन्वन्तरं तु तां कृत्वा नरकं प्रतिपद्यते ॥
चतुर्युगं क्षत्त्रियहा वैश्यहा त्रियुगं तथा॥४॥
शूद्रं हत्वा महाभाग युगं तु नरकं व्रजेत् ॥
यावन्ति पशुरोमाणि तावत्कृत्वेह मानवः ॥५॥
वृथापशुघ्नः प्राप्नोति वर्षाणि नरकं नरः ॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ॥ ६ ॥
याति संवत्सरशतं गुरुब्राह्मणताडनात् ॥
तच्छस्त्रवर्ती नृपतिः कल्पं पश्यति मानद ॥ ७ ॥
पक्षपाती तथा सभ्यस्तावदेव भृगूत्तम ॥
ब्राह्मणस्य च शूद्रस्य सहस्रं भृगुसत्तम ॥ ८ ॥
5
शोणितं यावतः पांसून्निगृह्णाति महीतले ॥
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते ॥ ९ ॥
राजनि प्रहरेद्यस्तु कृतगाम्याति दुर्मतिः ॥
अराजा नरकं याति स तु कल्पशतं नरः ॥ 2.111.१० ॥
नित्यान्यकुर्वन्धर्माणि तथा वर्षशतं व्रजेत् ॥
द्रुमाणां छेदने राम पञ्चाशद्वर्षमेव तु ॥ ॥ ११ ॥
गुल्मवल्लीलतानां तु दशवर्षाणि भार्गव ॥
अनागसामथाक्रोशे तिरश्चामथ ताडने ॥ १२ ॥
तावदेव यथाकालं नरकं प्रतिपद्यते ॥
अगम्यागामिनः सर्वे महापातकिभिः समाः ॥ १३ ॥
अनिविष्टां भृतिं भुक्त्वा द्वे शते प्रतिपद्यते ॥
तथा पुस्तकहारी च सहस्रं याति वत्सरान् ॥ १४ ॥
सस्यानां नाशकारी च नरकं प्रतिपद्यते ॥
अगारवनदाही च नास्तिकश्च तथा नरः ॥ १५ ॥
कल्पमेकं प्रपद्यन्ते नरकं नात्र संशयः॥
देवतानां द्विजातीनां शास्त्राणां निन्दकस्तथा॥१६॥
श्रुतीनां दूषकश्चैव तावदेव द्विजोत्तम॥
प्रतिश्रुत्य तथा चार्थं यो न दद्यान्महाभुज ॥ १७ ॥
आश्रितस्य परित्यागं वृथा कुर्याद्द्विजोत्तम ॥
अपराधं तथा राम वृथा भार्यावमन्तकः ॥ १८ ॥
क्रतुहा चैव धर्मज्ञ सहस्रं पतिपद्यते ॥
बहूनि राम पापानि पापेषूक्तेषु भार्गव ॥
अन्तर्भावं प्रपद्यन्ते तानि चिन्त्यानि धर्मतः ॥१९ ॥
नरकाणां गणनमुदितं पापानां ते मया राम ॥
एतच्च भवति घोरं त्वनुबन्धकृतं मनुष्याणाम्॥२०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पापनिश्चयो नामैकादशोत्तरशततमोऽध्यायः ॥१११ ॥
2.112
राम उवाच ॥
जन्तुः कथं सम्भवति कथं चैव विपद्यते ॥
कथं देहान्तरं याति तन्ममाचक्ष्व पृच्छतः ॥ १ ॥
पुष्कर उवाच ॥
विश्वस्यावरणं राम तथैवाण्डं न हेम यत् ॥
तथा प्राणिशरीरस्य पार्थिवत्वं महाभुज ॥ २ ॥
आकाशे नरशार्दूल यथैवाण्डं व्यवस्थितम् ॥
सुषिरं तद्वदेवेह पुरुषस्य शरीरगम् ॥ ३ ॥
धारयन्ति यथा विश्वमण्डस्याभ्यन्तरे स्थिताः ॥
वाय्वग्निसोमाः सततं तथा देहं शरीरिणाम् ॥ ४ ॥
आधारभूते द्वे भूते आद्यन्ते सर्वदेहिनाम् ॥
प्रपद्यन्ते महाभाग कललत्वं हि तत्क्षणात् ॥ ५ ॥
करोति तत्र च ततः प्रवेशं कर्मचोदितः ॥
वायुभूतस्तथा जीवस्त्यक्त्वा भोगविवर्धनम् ॥
स्वर्गाद्वा नरकाद्देहं तिर्यग्योनावथापि वा ॥ ६ ॥
एवं प्रवेशं स करोति गर्भे जीवस्तदा कर्मवशानुबन्धात् ॥
ततः प्रविष्टस्तु तथा स मूढो मासांश्च षट् तिष्ठति वेद नित्यः॥७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने गर्भसंक्रान्तिवर्णनन्नाम द्वादशोत्तरशततमोऽध्यायः ॥ ११२ ॥
2.113
राम उवाच ॥
भोगदेहं कथं त्यक्त्वा जीवो गर्भं प्रपद्यते ॥
भोगदेहश्च कः प्रोक्तस्तं ममाचक्ष्व पृच्छतः ॥ १ ॥
पुष्कर उवाच ॥
आतिवाहिका गर्भस्य देहो भवति भार्गव ॥
केवलं तं मनुष्याणां मृत्युकाल उपस्थिते ॥ २ ॥
याम्यैर्नरैर्मनुष्याणां तच्छरीरं भृगूत्तम ॥
6
नीयते याम्यमार्गेण नान्येषां प्राणिनां द्विज ॥ ३ ॥
मनुष्याः प्रतिपद्यन्ते स्वर्गं नरकमेव वा ॥
नैवाऽन्ये प्राणिनः केचित्सर्वं ते फलभोगिनः ॥ ४ ॥
शुभानामशुभानां वा कर्मणां भृगुनन्दन ॥
संचयः क्रियते लोके मनुष्यैरेव केवलम् ॥ ५ ॥
तस्मान्मनुष्यस्तु मृतो यमलोकं प्रपद्यते ॥
नान्यः प्राणी महाभाग फलयोनौ व्यवस्थितः॥६॥
गच्छँल्लोके प्रपन्नस्य पुरुषस्य तथा यमः॥
योनीश्च नरकांश्चैव निरूपयति कर्मणाम्॥७॥
पूजनीयाश्च ते तेन वैवस्वतमपश्यत॥
मरणानन्तरं प्रोक्तं तिरश्चां गर्भसम्भवम् ॥८॥
वायुभूताश्च ते गर्भं प्रपद्यन्ते न संशयः ॥
मनुष्यस्तु मृतो राम नीयते यममन्दिरम्॥९॥
तथा कर्मानुरूपेण यमं पश्यत्यसौ ततः ॥
घोरं पापस्तथा धर्मे निविष्टः सौम्यदर्शनम् ॥ 2.113.१० ॥
धर्मिष्ठः पूज्यते तत्र ह्यासनेनोदकेन च ॥
पाशबद्धगलः पापः पीड्यते वै यमाग्रतः ॥ ११ ॥
चित्रगुप्तास्ततस्तस्य स्वर्गं नरकमेव च ॥
निवेदयन्ति धर्मज्ञ स तु पिण्डाशनस्ततः ॥ १२ ॥
तदा त्यक्त्वा तु तद्देहं प्रेतदेहं प्रपद्यते ॥
प्रेतलोके तु वसतिर्वर्षं तस्य तु कीर्तिता ॥ १३ ॥
क्षुत्तृष्णे प्रत्यहं तत्र भवतो भृगुनन्दन ॥
अहोरात्रं तु तत्रापि मानुष्यं परिकीर्तितम् ॥ १४ ॥
आमश्राद्धास्तथा दत्ता भुज्यंते तत्र मानवैः ॥
अतिवाहिकदेहात्तु प्रेतपिण्डैर्विना नरः ॥ १५॥
न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सोऽश्नुते ॥
कृते सपिण्डीकरणे नरः संवत्सरात्परम् ॥ १६ ॥
प्रेतदेहं समुत्सृज्य भोगदेहं प्रपद्यते ॥
तदादौ भुज्यते तत्र यत्स्तोकं भृगुनन्दन ॥ १७ ॥
भोगदेहावुभौ प्रोक्तौ शुभाशुभकसंज्ञकौ ॥
भोगदेहं शुभं तस्य देवरूपस्य जायते ॥ १८ ॥
नानाप्रकारमशुभं नीरूपं घोरदर्शनम् ॥
यादृशं तस्य मानुष्यं रूपमासीत्पुरातनम् ॥ १९ ॥
किञ्चित्तस्य तु सादृश्यं तत्रापि प्रतिपद्यते ॥
भुक्त्वा स भोगदेहेन यथाकालं त्रिविष्टपम् ॥ 2.113.२० ॥
कर्मण्यल्पावशेषे तु त्रिदिवाद्विनिपात्यते ॥
त्रिदिवात्पतितं तस्य भोगदेहं तु राक्षसाः ॥ २१ ॥
भक्षयन्ति तदा भूमौ विकृता भीमदर्शनाः ॥
पापे तिष्ठति चेत्स्वर्गे तेन भुक्त तथा द्विज ॥ २२ ॥
तदा द्वितीयं गृह्णाति भोगदेहं तु पापिनम् ॥
भुक्त्वा पापं तु ते पश्चात्तेन भुक्तं त्रिविष्टपम् ॥ २३ ॥
शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टोऽभिजायते ॥
पुण्ये तिष्ठति चेत्पापं तेन भुक्तं तदा भवेत् ॥ २४ ॥
तस्मिन्सम्भक्षिते देहे शुभं गृह्णाति विग्रहम् ॥
कर्मण्यल्पावशेषे तु नरकादपि मुच्यते ॥ २५ ॥
युक्तस्तु नरकाद्याति तिर्यग्योनिमसंशयम् ॥
तत्राप्यशेषतः पापं न तदश्नाति भार्गव ॥
ततोऽवशेषं मानुष्यं भुंक्तेऽसौ कृतलक्षणः ॥२६॥
रज्जुर्यथा स्याद्बहुतन्तुबद्धा विकर्षणं शक्तिमनी गुरूणाम् ॥
स्वर्गाय पुण्यं नरकाय पापं तथा नृणां स्यादिह भार्गवाग्र्य ॥ २७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भोगदेहवर्णनन्नाम त्रयोदशोत्तरशततमोऽध्यायः ॥ ११३ ॥
2.114
पुष्कर उवाच ॥
जीवः प्रविष्टो गर्भे तु कललं प्रति तिष्ठति ॥
मूढस्तु कलले तस्मिन्मासमात्रं हि तिष्ठति ॥१॥
द्वितीयं तु तदा मासं घनीभूतः स तिष्ठति ॥
तस्यावयवनिर्माणं तृतीये मासि जायते ॥ २ ॥
त्वक्चर्मपञ्चमे मासि षष्ठे रोम्णां समुद्भवः ॥
सप्तमे च तथा मासि प्रबोधश्चास्य जायते ॥ ३ ॥
स जीवोऽपि हि माण्डूकः शीते शीतादितोभ्यसुः ॥
मूढस्तिष्ठति धर्मज्ञ षण्मासान्गर्भगस्तथा ॥ ४ ॥
मातुराहारपीतं तु सप्तमे मास्युपाश्नुते ॥
अष्टमे नवमे मासि भृशमुद्विजते तदा ॥ ५ ॥
जरायुवेष्टितो देहो मूर्ध्नि बद्धाञ्जलिः सदा ॥
मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा ॥ ६ ॥
तिष्ठत्युत्तरभागे तु पृष्ठस्याभिमुखस्तथा ॥
यस्यां तिष्ठति सा योनौ तां तु वेत्ति न संशयम् ॥ ७ ॥
सर्वं स्मरति वृत्तान्तं त्वारभ्य जन्मतस्तथा ॥
अन्धकारे च महति पीडां विन्दति भार्गव ॥ ८ ॥
कीटगन्धेन महता कल्मषं विन्दते परम् ॥
मात्रानीते जले पीते परं शीतमुपाश्नुते ॥ ९ ॥
उष्णे भुक्ते तदा दाहं परमाप्नोति भार्गव ॥
व्याधिभिः परमां पीडां तीव्रां प्राप्नोति दुःसहाम् ॥ 2.114.१० ॥
व्यायामे च तथा मातुः क्लमं महदुपाश्नुते ॥
व्याधितायां तथा तीव्रां वेदनां समुपाश्नुते ॥ ११ ॥
भवन्ति व्याधयश्चास्य तत्र घोराः पुनःपुनः ॥
न च माता पिता वेत्ति तदा कश्चिच्चिकित्सकः ॥ १२ ॥
सौकुमार्याद्रुजं तीव्रां जनयन्ति तु तस्य ताः ॥
आधिभिर्व्याधिभिश्चैव पीड्यमानस्य दारुणैः ॥ १३ ॥
स्वल्पमध्येऽथ तत्कालं याति वर्षशतोपमम् ॥
सन्तप्यते तथा गर्भे कर्मभिश्च पुरातनैः ॥ १४ ॥
मनोरथानि कुरुते सुकृतार्थं पुनःपुनः ॥
जन्म चेदहमाप्स्यामि मानुष्ये दैवयोगतः ॥ १५ ॥
ततः कर्म करिष्यामि येन मोक्षो भवेन्मम ॥
नास्ति मोक्षं विना सौख्यं गर्भवासे कथञ्चन ॥ १६ ॥
गर्भवासश्च सुमहल्लोके दुःखैककारणम् ॥
एवं विचिन्तयानस्य तस्य वर्षशतोपमम् ॥ १७ ॥
मासत्रयं तद्भवति गर्भस्थस्य प्रपीड्यतः ॥
ततस्तु काले सम्पूर्णे प्रबलैः सूतिमारुतैः ॥ १८ ॥
भवत्यवाङ्मुखो जन्तुः पीडामनुभवन्पराम् ॥
अधोमुखः संकटेन योनिद्वारेण वायुना ॥ १९ ॥
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥
योनिनिष्क्रमणात्पीडां चर्मोत्कर्तनसन्निभाम् ॥ 2.114.२० ॥
प्राप्नोति च ततो जातः तीव्रं शीतमसंशयम् ॥
जन्मज्वराभिभूतस्य विज्ञानं तस्य नश्यति ॥ २१ ॥
करसंस्पर्शनान्मातुर्न च जानात्यसौ तदा ॥
करपत्रस्य संस्पर्शान्मासमात्रं विमोहितः ॥ २२ ॥
संभवमेतद्गर्भे प्रोक्तं जन्तोर्मया तुभ्यम् ॥
क्रमतो वच्मि तवाहं तत्सत्यं ब्रूहि धर्मज्ञ ॥ २३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने सम्भववर्णनन्नाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥
2.115
॥ राम उवाच ॥
शरीरं सकलं देव तन्ममाख्यातुमर्हसि ॥
एतदेव परं ज्ञानं त्वं हि वेत्सि महाभुज ॥ १ ॥
पुष्कर उवाच ॥
भूमिः पञ्चगुणा ज्ञेया जलं ज्ञेयं चतुर्गुणम् ॥
तेजस्तु त्रिगुणं राम पवनो द्विगुणो मतः ॥ २ ॥
तत्रैकगुणमाकाशं नित्यं ज्ञेयं मनीषिभिः ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ॥ ३ ॥
भूमेर्गुणं विजानीयादुपान्ते गन्धवर्जिताः ॥
रसगन्धविहीनास्तु तेजसः परिकीर्तिताः ॥ ४ ॥
गन्धो रसस्तथा रूपं नास्ति वायोर्भृगूत्तम ॥
गन्धो रसस्तथा रूपं स्पर्शः खे न च विद्यते ॥ ५ ॥
रसो गन्धस्तथा रूपं स्पर्शनं शब्द एव च ॥
भूम्यादीनां गुणाः प्रोक्ताः प्रधाना भृगुनन्दन ॥ ६ ॥
आकाशजानि स्रोतांसि तथा श्रोत्रं विविक्तता ॥
श्वासोच्छ्वासौ परिस्पन्दो वाक् च संस्पर्शनं तथा ॥ ७ ॥
वायवीयानि जानीयात्सर्वाण्येतानि पण्डितः ॥
रूपं संदर्शनं पक्तिं पित्तमूष्माणमेव च ॥ ८ ॥
मेधा वर्णं बलं छाया तेजः शौर्यं तथैव च ॥
सर्वाण्येतानि जानीयात्तैजसानि शरीरिणाम् ॥ ९ ॥
अम्भसानीह रसनं स्वेदः क्लेदो वसा तथा ॥
रसासृक्छुक्रमूत्रादि देहे द्रवचयस्तथा ॥ 2.115.१० ॥
शैत्यं स्नेहश्च धर्मज्ञ तथा श्लेष्माणमेव च ॥
पार्थिवानीह जानीहि प्राणकेशनखादि च ॥ ११ ॥
अस्थ्नां समूहो धैर्यं च गौरवं स्थिरता तथा ॥
मातृजानि मृदून्यत्र त्वक् च मांसं च भार्गव ॥ १२ ॥
हदयं च तथा नाभिः स्वेदो मज्जा यकृत्तथा ॥
क्लोमान्तं च गुदं राम आमस्याशयमेव च ॥ १३ ॥
पितृजानि स्थिराण्यग्रभूमिजानीह यानि तु ॥
स्नायुशुक्रशिराश्चैव आत्मजानि निबोध मे ॥ १४ ॥
कामः क्रोधो भयो हर्षो धर्माधर्मात्मता तथा ॥
आकृतिः स्वरवर्णौ च चेतनाद्यं तथा वयः ॥ १५३ ॥
तामसानि तथा ज्ञानप्रमादालस्यतृट्क्षुधः ॥
मोहमात्सर्यवैगुण्यशोकायासभयानि च ॥ १६ ॥
कामक्रोधौ तथा शौर्यं यज्ञेप्सा बहुभाषिता ॥
अहङ्कारः परावज्ञा राजसानि महाभुज ॥ ॥१७ ॥
धर्मेच्छा मोक्षकामित्वं परा भक्तिश्च केशवे ॥
दाक्षिण्यं व्यवसायश्च सात्त्विकानि विनिर्दिशेत् ॥ १८ ॥
चतुरः क्रोधनो भीरुर्बहुभाषी कलिप्रियः ॥
स्वप्ने गगनगश्चैव वहुवातो नरो भवेत् ॥ १९ ॥
अकालपलितः क्रोधी महाप्रज्ञो रणप्रियः ॥
स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत्॥ 2.115.२० ॥
स्थिरचित्तः स्थिरोत्साहः स्थिराङ्गरचनान्वितः ॥
स्वप्ने जलसितालोकी बहुश्लेष्मा नरो भवेत् ॥ २१ ॥
रसस्तु प्रीणनो देहे जीवनो रुधिरस्तथा ॥
लेपनं च तथा मांसे मेदः स्नेहकरं च तत् ॥ २२ ॥
धारणं त्वस्थि कथितं मज्जा भवति पूरणी ॥
गर्भोत्पादकरं शुक्रं तथा वीर्यविवर्धनम् ॥ २३ ॥
तेजः प्राणकरं नित्यं तत्र जीवो व्यवस्थितः ॥
शुक्रादपि परं सारमपीतं हृदयोपमम् ॥ २४ ॥
षडङ्गानि प्रधानानि कथयिष्यामि ते शृणु ॥
द्वौ बाहू सक्थिनी द्वे च मूर्धा जठरमेव च ॥ २५ ॥
षट्त्वचश्च शरीरेऽस्मिन्कीर्त्यमाना निबोध मे ॥
बाह्यतो ह्यधरा राम त्वचा रुधिरधारिणी ॥ २६ ॥
विलासकारिणी चान्या चतुर्थी कुष्ठकारिणी ॥
पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता ॥ २७ ॥
कलाः सत्यस्मृता देहे तासांवक्ष्यामि लक्षणम् ॥
एका मांसधरा राम धमन्यो यत्र संस्थिताः ॥ २८ ॥
असृग्धरा द्वितीया तु यकृत्प्लीहाश्रया मता ॥
मेदोधरा तृतीया स्यात्सूक्ष्मस्थूलाश्रया तु या ॥ २९ ॥
मज्जाश्रया चतुर्थी तु तथा श्लेष्मपरा मता ॥
पुरीषधारिणी चान्या यथा पक्वाशये स्थितेः ॥ 2.115.३० ॥
षष्ठी पित्तधरा नाम जठराग्नौ समाश्रिता ॥
शुक्राशया शुकधरा तथा ज्ञेया च सप्तमी ॥ ३१ ॥
बुद्धीन्द्रियाणि पञ्चात्र श्रोत्रं प्राणं च चक्षुषी ॥
त्वक्तथा रसना चैव महाभूताश्रयाणि तु ॥ ३२ ॥
इन्द्र्यार्थास्तथा पञ्च तेषां नामानि मे शृणु ॥
श्रोत्रस्य शब्दः कथितो गन्धो प्राणस्य पार्थिवः ॥ ३३ ॥
रूपं च चक्षुषो ज्ञेयं त्वक् च संस्पर्शनं तथा ॥
रसनस्य रसश्चैव महाभूताश्रयास्तु ते ॥ ३४ ॥
कर्मेन्द्रियाणि पञ्चात्र तेषां नामानि मे शृणु ॥
पायूपस्थं हस्तपादौ जिह्वा चैवात्र पञ्चमी ॥ ३५ ॥
तेषामर्थास्तथा पञ्च तान्प्रवक्ष्याम्यतः परम् ॥
उत्सर्गं च तथानन्दं आदानगमने तथा ॥ ३६ ॥
इन्द्रियाणि दशैतानि तेषां वै नायकं मनः ॥
पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च ॥ ३७ ॥
इन्द्रियार्थाश्च पञ्चात्र महाभूतानि पञ्च च ॥
इन्द्रियेभ्यः पराः प्रोक्ताश्चत्वारो भृगुनन्दन ॥ ३८ ॥
मनो बुद्धिस्तथैवात्मा अव्यक्तश्च महाभुज ॥
तदाश्रयाणीन्द्रियाणि इन्द्रियेभ्यः पराश्च ते ॥ ३९ ॥
तत्त्वान्येतानि जानीहि चतुर्विंशतिसंख्यया ॥
येषामैक्यं महाभाग पुरुषः पञ्चविंशकः ॥ 2.115.४० ॥
संयुक्तस्तैर्वियुक्तश्च तथा मत्स्योदके उभे ॥
मनः संशयकृन्नित्यं तथा बुद्धिर्विवेचनी ॥ ४१ ॥
आत्मा जीवः स्मृतो राम यो भोक्ता सुखदुःखयोः ॥
अव्यक्तो मिश्रितानीह रजःसत्त्वतमांसि च ॥ ४२ ॥
पुरुषस्त्वपरो ज्ञेयो यश्च सर्वगतो महान् ॥
चतुर्विशतिकात्संख्याद्यः स नित्यः पृथक् स्थितः ॥ ४३ ॥
एकत्रितानि तत्त्वानि पुरुषस्य तथैकतः ॥
न चैव व्यतिरिक्तानि तत्त्वानि पुरुषात्परम् ॥ ४४ ॥
प्रकृतिः पुरुषो राम निष्फलः पञ्चविंशकः ॥
विकृतिस्तस्य विज्ञेया शेषस्तत्त्वगणो बुधः ॥ ४५ ॥
सर्वतः पाणिपादोऽसौ सर्वतोक्षिशिरोमुखः ॥
पुरुषः स परो ज्ञेयः सर्वशक्तिस्तु सर्वतः॥४६॥
नादिर्न मध्यो नैवान्तो व्याप्तिसम्भवयोर्द्वयोः ॥
यस्य जानन्ति मुनयो यस्तं वेद स वेदवित् ॥ ४७॥
स याति परमं स्थानं यो वेत्ति पुरुषं परम् ॥
एतदेव च विज्ञानं प्रस्तुतं शृणु भार्गव ॥ ४८ ॥
सप्ताशयाः स्मृता देहे शृणु तानपि भार्गव ॥
आशयो रुधिरस्यैकः कफस्य च तथा परः ॥ ४९॥
आमपित्ताशयौ चान्यौ ज्ञेयः पक्वाशयोऽपरः ॥
वायुमात्राशयौ चान्यौ आशया सप्त कीर्तितः॥2.115.५०॥
स्त्रीणां गर्भाशयो राम पित्तपक्वाशयान्तरे ॥
अष्टमः स भवेत्तासां यत्र गर्भः स तिष्ठति ॥ ५१ ॥
ऋतौ विकोशा भवति योनिः कमलवत्सदा ॥
गर्भाशये ततः शुक्र धत्ते रक्तसमन्वितम् ॥ ५२ ॥
अन्यत्र काले मुकुला योनिर्भवति योषिताम् ॥
न्यस्तं शुक्रमतो योनौ नैति गर्भाशयं मुने ॥ ५३ ॥
ऋतावपि च योनिश्चेद्वातपित्तकफावृता ॥
भवेत्तस्या विशौचार्थं नैव तस्याः प्रजायते ॥ ५४ ॥
वृक्का तु पुष्पसप्लीहं हृत्कोष्ठाङ्गयकृद् घनाः ॥
तण्डुलश्च महाभाग निबद्धान्याशये तु ते ॥ ५५ ॥
रसस्य पच्यमानस्य साराद्भवति देहिनाम् ॥
प्लीहा यकृच्च धर्मज्ञ रक्तफेनाच्च पुक्कसः ॥ ५६ ॥
रक्तकिट्टाच्च भवति तथा दण्डकसंज्ञकः ॥
मेदो रक्तप्रसादाच्च वृक्कयोः सम्भवः स्मृतः ॥ ५७ ॥
रक्तमांसप्रसादाच्च भवन्त्यन्त्राणि देहिनाम् ॥
सावित्रिव्योमसंख्यानि तानि स्त्रीणां विनिर्दिशेत् ॥ ५८ ॥
त्रिव्योमानि तथा स्त्रीणां प्राहुर्वेदविदो जनाः ॥
रक्तवायुसमायोगात्कालो यस्योद्भवः स्मृतः ॥ ५९ ॥
कफप्रसादाद्भवति हृदयं पद्मसन्निभम् ॥
अधोमुखं तत्सुषिरं यत्र जीवो व्यवस्थितः ॥ 2.115.६० ॥
चैतन्यानुगता भावा सर्वे तत्र व्यवस्थिताः ॥
तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत् ॥ ६१ ॥
दक्षिणे च तथा क्लोम पद्मस्यैव प्रकीर्तितम् ॥
स्रोतांसि यानि देहेऽस्मिन्कफरक्तवहानि तु ॥६२॥
तेषां भूतानुगानां तु भवतीन्द्रियसम्भवः ॥
नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैत्तिकम् ॥ ६३ ॥
कृष्णं च मण्डलं वातात्तथा भवति मातृकम्॥
सर्वहृन्मण्डलं ज्ञेयं मातापितृसमुद्भवम् ॥ ६४ ॥
पक्ष्ममण्डलमेकं तु द्वितीयं वर्त्ममण्डलम् ॥
शुक्ले तृतीयं कथितं चतुर्थं कृष्णमण्डलम्॥६५॥
दृङ्मण्डलं पञ्चमं तु नेत्रं स्यात्पञ्चमण्डलम् ॥
अन्ये तु नेत्रभागे द्वे तथाऽपाङ्गकनीनिके॥६६॥
याभ्यां नेत्रस्य जनिता मत्स्यसंस्थानता द्विज ॥
नासासमीपे कथितं तदपाङ्गेतिसंज्ञितम् ॥ ६७ ॥
कपोलयोः समीपे तु तथा प्रोक्ता कनीनिका ॥
मांसासृक्कफजा जिह्वा मेदोऽसृक्कफमांसजा ॥ ६८ ॥
वृषणौ च तथा ज्ञेयौ सर्वेषामेव देहिनाम् ॥
प्राणस्यायतानान्यत्र दशैतानि निबोध मे ॥६९॥
मूर्धा च हृदयं नाभि कण्ठो जिह्वा निबन्धनम् ॥
रक्तं शुक्रं गुदो वस्तिस्तथा गुल्फौ च भार्गव ॥2.115.७०॥
कण्डराः षोडश प्रोक्तास्तथा देहे शरीरिणाम् ॥
द्वे करस्थे तथा द्वे च चरणस्थे पृथक्पृथक् ॥ ७१ ॥
चतस्रः पृष्ठगा ज्ञेया ग्रीवायां तावदेव तु ॥
जलानि षोडशैवात्र विभागस्तेषु कथ्यते ॥ ७२ ॥
मांसस्नायुशिरास्थिभ्यः चत्वारस्तु पृथक्पृथक् ॥
मणिबन्धानि गुल्फेषु निबद्धानि परस्परम् ॥ ७३ ॥
शंकूनि च स्मृतानीह हस्तयोः पादयोस्तथा ॥
ग्रीवायां च तथा मेढ्रे कथितानि मनीषिभिः ॥ ७४ ॥
देहेऽस्मिंश्च तथा ज्ञेयाश्चतस्रो मांसरज्जवः॥
पृष्ठवंशोभयगते द्वे द्वे तत्र प्रकीर्तिते ॥ ७५ ॥
तावन्त्यश्च तथाप्येतास्तासां बन्धनकारकाः ॥
सीवन्यश्च तथा सप्त पञ्च मूर्धानमाश्रिताः ॥ ७६॥
एका मेढ्रगता चैका तथा जिह्वागता परा॥
अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि तु॥७७॥
सूक्ष्मैः सह चतुःषष्टिं दशना विंशतिर्न्नखाः ॥
पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् ॥ ७८ ॥
चत्वारिंशत्तथास्थीनि जंघयोस्तावदेव तु ॥
द्वेद्वे जानुकपोलौष्ठफलकांससमुद्भवे ॥ ७९ ॥
अक्षिस्थलेऽष्टकं श्रोणिफलके चैवमादिशेत् ॥
भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ॥ 2.115.८० ॥
ग्रीवापञ्चदशास्थीनि जत्र्वेकं च तथा हनुः ॥
भ्रूमूलं द्वे ललाटाक्षिगण्डनासा तथास्थिका ॥ ८१ ॥
सर्जुकास्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः ॥
द्वौ शङ्खकौ कपालानि चत्वार्येव शिरस्तथा ॥ ८२ ॥
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥
तथा चैवात्र सन्धीनां द्वे शते तु शताधिके ॥ ८३ ॥
अष्टषष्टिश्च शाखासु षष्टिश्चैकविवर्जिता ॥
अन्तराधौ त्वशीतिश्च कथिता भृगुनन्दन ॥ ८४ ॥
न च स्नायुशतान्यत्र द्वे तु त्रिंशाधिके मते ॥
अन्तराधौ तु कथिता ह्यूर्ध्वगाश्चैव सप्ततिः ॥ ८५ ॥
षट्कृतानि च शाखासु कथितानि मनीषिभिः ॥
पञ्चपेशीशतान्यत्र चत्वारिंशत्तथोर्ध्वगाः ॥ ८६ ॥
चत्वारिंशच्छतान्यत्र तथा शाखासु पण्डितैः ॥
अन्तराधौ तथा षष्टिः पेश्यस्तु कथिता बुधैः॥८७॥
स्त्रीणां चैवाधिका ज्ञेया त्रिंशतिश्चतुरुत्तरा ॥
स्तनयोर्दश विज्ञेया योनौ राम तथा दश ॥ ८८ ॥
गर्भाशये तथा ज्ञेयाश्चतस्रो गर्भचिन्तकैः ॥
त्रिंशच्छतसहस्राणि तथान्यानि दशैव तु ॥ ८९ ॥
षट्पञ्चाशत्सहस्राणि शिराणां कथितानि तु ॥
ता वहन्ति रसं देहे केदारमिव कुल्यकाः ॥ 2.115.९० ॥
अभ्यंगादि तथा सर्वं स्वेदलेपादिकं च यत् ॥
द्विसप्ततिस्तथा कोट्यो रोम्णां विद्धि महाभुज ॥ ९१ ॥
मज्जाया मेदसश्चैव वसायाश्च तथा द्विज ॥
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा ॥ ९२ ॥
रक्तस्य च रसस्याथ क्रमशोञ्जलयः स्मृताः ॥
अर्धार्धाभ्यधिकाः सर्वाः पूर्वार्धाञ्जलितः स्मृताः ॥९३॥
अर्धांजलिश्च शुक्रस्य तथार्धा च तथौजसः ॥
रजसस्तु तथा स्त्रीणां चतस्रः कथिता बुधैः ॥९४॥
समधातोरिदं प्रोक्तं प्रमाणं देहचिन्तकैः ॥
विलक्षणानि देहानि नित्यमेव शरीरिणाम् ॥
तेषां भेदेन भिद्यन्ते मलदोषानुरूपतः ॥ ९५ ॥
एतच्छरीरं मलदोषपिण्डं धात्वाश्रयं कर्मवशानुबद्धम् ॥
मोक्षाय यस्येह भवेत्स धन्यो मोक्षे च हेतुः परमो हि विष्णुः ॥९६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने शरीरविषयवर्णनन्नाम पञ्चदशोत्तरशततमोऽध्यायः ॥ ११५ ॥
Missing 2.116 to 2.119
2.120
राम उवाच ॥
कर्मणा केन धर्मज्ञ नरा नरकवासिनः ॥
कांकां योनिं प्रपद्यन्ते तिरश्चो ब्रूहि तन्मम ॥ १ ॥
पुष्कर उवाच ॥
अमेध्यमध्ये कृमयो महापातकिनो जनाः ॥
भवन्ति बहुधा भूम्यां ततश्चैव शिलासु ते ॥ २ ॥
तृणगुच्छलतागुल्मद्रुमत्वं प्राप्यते क्रमात् ॥
भवन्ति च मृगाः पश्चान्नित्यं व्याधभया र्दिताः ॥ ३ ॥
ब्रह्मस्वहारिणो हिंस्रा रौद्राचाराः सदैव तु ॥
अटव्यां घोररूपायां जायन्ते ब्रह्मराक्षसाः ॥ ४ ॥
परदाररता मूढाः सन्तप्तायां तथा भुवि ॥
कृकलासा हि जायन्ते पिशाचाश्चाप्यनन्तरम् ॥ ५ ॥
अटव्यां घोररूपायां संशुष्कद्रुमकोटरे ॥
कृष्णाहयो हि जायन्ते ततः पश्चान्न संशयः ॥ ६ ॥
कूटसाक्षिप्रदाः पापास्त्वमेध्ये कृमयश्चिरम् ॥
कृत्वा भवन्ति सर्पास्ते पिशाचास्तदनन्तरम् ॥ ७ ॥
गुरुमित्रद्रुहः पापा ये च स्वा मिद्रुहो जनाः ॥
द्विजशिष्यद्रुहश्चैव कृतघ्ना नास्तिकास्तथा ॥ ८ ॥
त्यागिनो बान्धवानां च त्यागिनः शरणार्थिनाम् ॥
निक्षेपहारिणो ये च कन्यका क्रयिणश्च ये ॥ ९ ॥
अमेध्ये कृमयः सर्पा मृगा व्यालमृगास्तथा ॥
ततो घोरगणोपेता जायन्ते जम्बुकाः खलाः ॥ 2.120.१० ॥
परस्वहारिणः पापाः कुञ्जरास्तुरगाः खराः ॥
बलीवर्दास्तथैवोष्ट्रा जायन्ते नात्र संशयः ॥ ११ ॥
हृतं यस्य तु तै र्द्रव्यं तस्य भाग्यानुरूपतः ॥
आत्मदोषानुसारेण जायन्ते धनिनस्तु ते ॥ १२ ॥
चन्द्रार्कग्रहणे भुक्त्वा जायन्ते कुञ्जरा नराः ॥
आमश्राद्धं तथा भुक्त्वा जायन्ते गृध्रयोनिषु ॥ १३ ॥
असत्प्रतिग्रहं राम गृहीत्वा वानरास्तथा ॥
आशाभङ्गं तथा कृत्वा शृगालाश्च तथाधमाः ॥ १४ ॥
सूचकस्तु दुराचारो वागुरिर्नाम जायते ॥
बहु कालं महाभाग भूयोभूय इति श्रुतिः ॥१५ ॥
मांसभुग्यावतां राम मांसमश्नाति देहिनाम् ॥
तावतां योनिमाप्नोति भूयोभूयो न संशयः ॥ १६ ॥
भोक्तव्यानि च तैस्तस्य राम मांसान्यसंशयम् ॥
यावन्तः प्राणिनो येन बहिर्वेद्यां निपातिताः ॥ १७॥
तावत्यो योनयस्तेन गन्तव्या भृगुसत्तम ॥
योनौयोनौ च हन्तव्यस्तेनासौ नात्र संशयः ॥ १८…
वान्ताशी गुणपाशी च पूयभुग्रुधिराशिनः ॥
स्वकर्मविच्युता वर्णा जायन्ते प्रेतयोनिषु॥१९॥
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलंप्लवः ॥
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ 2.120.२० ॥
मांसं गृध्रो वसां मद्गुस्तैलं तैलापगः खगः ॥
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥ २१ ॥
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा च दर्दुरः ॥
कर्पासं तान्तवं क्रौञ्चं गां गोधा वागुदो गुडम् ॥ २२ ॥
छुच्छुन्दरिः शुभागन्धान्पत्रशाकं शिखी तथा ॥
मक्षिकास्तु तथैवान्नमकृतान्नं तु शल्यकः ॥ २३ ॥
भेको भवति हृत्त्वाग्निं गृहहारी च तस्करः ॥
रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ २४ ॥
वृको मृगेभं व्याघ्राश्वं फलपुष्पं तु मर्कटः ॥
स्त्रियं हृत्वा भवेद्यक्षो यानमुष्ट्रः पशूनजः ॥ २५ ॥
यद्वा तद्वा परद्रव्यमपहृत्य वलान्नरः ॥
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ॥ २६ ॥
तिर्यक्षु दुःखं परमं विदित्वा पापानि वर्ज्यानि नरेण नित्यम् ॥
भक्तिश्च कार्या मधुसूदनस्य तया स दुःखं सकलं जहाति ॥ २७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने तिर्यग्योनिवर्णनन्नाम विंशत्युत्तरशततमोऽध्यायः ॥ १२०
Missing 2.121 to 2.131
राम उवाच ॥
अष्टादशभ्यः शान्तिभ्यः शान्तयो याः सुरोत्तम ॥
भिद्यन्ते वा न भिद्यन्ते तन्ममाचक्ष्व पृच्छतः ॥ १ ॥
पुष्कर उवाच ॥
अमृता चाभया सौम्यास्तिस्रोन्याः सन्ति भार्गव ॥
एकापि तासां विज्ञेया सर्वकर्मफलप्रदा॥ २ ॥
सर्वोत्पातप्रशमनी मङ्गल्या सिद्धिकारिका ॥
पूर्वोक्ताः कथितेष्वेव कर्तव्या अद्भुतेषु च ॥ ३ ॥
राम उवाच ॥
शान्तीनां मे त्वमाचक्ष्व स्वरूपाणि महाभुज ॥
पितामहसमो लोके सर्वज्ञोऽपि मतो मम॥
॥ पुष्कर उवाच ॥
अमृता शर्वदैवत्या अभया ब्रह्मदैवता ॥
सौम्या च सोमदैवत्या कथिता भृगुनन्दन ॥ ५ ॥
अन्यासां देवता ज्ञानं नाम्नैव कथितं तव ॥
आथर्वणानां शान्तीनां निबोध गदतो मम ॥ ६ ॥
अमृता चित्रवर्णा स्यादभया तु शशिप्रभा॥
सौम्या शुक्लैव विज्ञेया नीला भवति वैष्णवी ॥ ७ ॥
बालार्कसदृशा रौद्री ब्राह्मी शंखसमप्रभा ॥
रुक्मवर्णा तथैवैन्द्री वायव्या हरिता भवेत्॥ ८ ॥
शुक्ला च वारुणी ज्ञेया कौबेरी पद्मसुप्रभा ॥
भार्गवी शुक्लवर्णा स्यात्प्राजापत्या च पीतिका ॥ ९ ॥
त्वाष्ट्री शुक्ला च विज्ञेया कौमारी ताम्रसुप्रभा ॥
आग्नेय्यग्निसु वर्णा स्याच्छुक्ला मातङ्गिनी भवेत् ॥ 2.132.१० ॥
प्रवालाभा च गान्धर्वी कृष्णा वै नैनृता तथा॥
रोचनाभा चाङ्गिरसी याम्या कृष्णा तथा भवेत्॥११॥
पार्थिवी च मयूराभा वर्णतः कथितास्तव ॥
अतः परं प्रवक्ष्यामि स्थानान्यासां यथाविधि ॥ १२ ॥
अमृता चाभया सौम्या तिस्रस्तु भृगुनन्दन ॥
तासां सर्वत्र संस्थानं कथितन्तु पुरातनैः ॥ १३ ॥
प्राजापत्या तथाग्नेयी याम्या वै नैर्ऋती तथा ॥
कौबेरी पार्थिवी चेति पृथिव्यां परिकीर्तिताः ॥ १४ ॥
वायव्या चैव कौमारी वैष्णवी रुद्रदैवता ॥
अन्तरिक्षे विनिर्दिष्टाः शान्तयो द्विजसत्तम ॥ १५ ॥
ऐन्द्री मातङ्गिनी त्वाष्ट्री दिव्या ब्राह्मी तथेरिता ॥
वारुणी चैव गान्धारी भार्गव्याङ्गिरसी तथा ॥ १६ ॥
आद्यास्तु कथितास्तुभ्यं कर्तव्याश्च विजानता ॥
यथा स्वदेशजातेषु चाद्भुतेषु यथाविधि ॥ १७ ॥
तद्दैवत्यास्तथा मन्त्राः सर्वासां गर्भ उच्यते ॥
मणीनाञ्च तथा गर्भाः सर्वासां मन्त्र उच्यते ॥ १८ ॥
मणीनाञ्च तथा मन्त्रा ज्ञातव्या मन्त्रलिङ्गतः ॥
सर्वासाञ्चैव शान्तीनां होतव्याश्च गणा दश ॥ १९ ॥
शान्त्यातीतन्तु भैषज्यं त्रिसप्तीयं तथैव च ॥
अभया च तथा राम तथा चैवापराजिता ॥ 2.132.२० ॥
आयुष्यं च स्वस्त्ययनं सर्ववर्मगणं तथा ॥
वास्तोष्पत्यं तथा रौद्रं गणाः प्रोक्तास्तथा दश ॥ २१ ॥
होमस्तथैषां मन्तव्यः सर्वशान्तिषु भार्गव ॥
पृथक्प्रधानतः कल्पास्तिस्रः पूर्वाः प्रकीर्तिताः॥२२॥
गणेगणे तु गां दद्याद्गां गर्भे गां तथा मणौ ॥
अराजा भूमिपालस्तु दद्याद्दश दशैव तु॥२३॥
निष्कामः सभुवं चैव तथा दद्यात्पुरोधसे ॥
अभयाया मणिः कार्यो वरुणस्य भृगूत्तम ॥२४॥
शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणि॥
वैष्णव्यास्त्रिवृतः प्रोक्तः स्नातो रौद्र्यास्तथा मणिः ॥ २५ ॥
ब्रह्मरक्षस्तथा ब्रह्म्या मैत्र्याः स्यात्कनको मणिः ॥
वायव्याश्चाङ्गिरः प्रोक्तो वायव्यः शङ्खजो भवेत् ॥ २६ ॥
औदुम्बरश्च कौबेर्या भार्गव्यायाः शतावरीम् ॥
प्राजापत्या बिल्वमणिस्त्वाष्ट्र्याः संस्कृतकोमणिः ॥ २७ ॥
दाक्षायणश्च कौमार्य्या आग्नेय्याश्च तदेव तु ॥
मातङ्गिन्या जिगितजं गान्धर्व्या अजशृङ्गजम् ॥ २८ ॥
नैर्ऋत्यामायसं चैव आङ्गिरस्यास्तथाञ्जनम् ॥
शतकाण्डश्च याम्यायाः पार्थिव्या अपि पार्थिवम् ॥ २९ ॥
अद्भुतस्य बलं ज्ञात्वा कृच्छ्रं कुर्यात्पुरोहितः ॥
प्रागेव कुर्याच्छमनमादावेवाद्भुतस्य तु ॥ 2.132.३० ॥
कृतकृच्छ्रस्तु कुर्वीत ततः शान्तिमुपोषितः ॥
अरण्यां पातयेद्वह्निं सर्वास्वेतासु शान्तिषु ॥ ३१ …
उपवासदिनस्यान्ते वह्निमुत्पाद्य यत्नतः ॥
उत्पन्नमन्नं विभजेत्क्रव्यादं सौम्यमेव च ॥ ३२ ॥
कृत्वा कपाले क्रव्यादं ध्रुवेण नैर्ऋतीं दिशम् ॥
शान्त्यागारे स्थापयेच्च शान्त्यर्थे सौम्यमेव वा ॥ ३३ ॥
कृष्णोष्णीषः कृष्णवासाः कृष्णमाल्यानुलेपनः ॥
पुरोहितः प्रदेशं तु गत्वा वै नैर्ऋतीं यजेत् ॥ ३४ ॥
मृन्मयं जीर्णशीर्षे तु गन्धमाल्यानुसम्पदा ॥
कृष्णवस्त्रैस्तु संच्छाद्य ततस्तूपहरेद्बलिम् ॥ ३५ ॥
वाद्यघोषेण महता तथा कोलाहलैः शुभैः ॥
ततोऽग्नौ जुहुयात्सम्यङ्मेदःप्रभृति वै द्विज ॥ ३६ ॥
ये पिशाचाश्चतुर्भिस्तु इषीका शर्करी ततः ॥
केवले जुहुयाद्वह्नौ करशुक्त्या श्रवामया ॥ ३७॥
फलीकरणमग्नौ च हुत्वा भुक्त्वा च पावकम् ॥
अपश्यन्स्वगृहं यायात्स्नात्वा श्वेताम्बरस्ततः … ॥ ३८ ॥
अहोमुचं शान्तिकं च जप्त्वा तिष्ठेत्सुयन्त्रितः ॥
रात्रौ त्रिभागशेषायां शान्तिकर्म समारभेत ॥ 39 ॥
शान्तिकल्पविधानज्ञः सदस्यैः सहितस्ततः ॥
एकः कर्मणि युक्तः स्यादेको मन्त्रस्य निश्चये ॥४०॥
एष शान्तिविधिः प्रोक्तः समासात्सर्वशान्तिषु ॥
विस्तरे विस्तरः प्रोक्तः शान्तिकर्म ह्यथर्वणः ॥४१॥
धनेन पूज्योऽथ पुरोहितः स्यात्तथोपदेष्टा गुरुरप्रमत्तः ॥
सांवत्सरो यस्तु ततः सदस्याः पूज्यास्ततो विप्रवराश्च सर्वे॥४२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शान्तिकर्मवर्णनन्नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३२ …
तृतीयखण्डम्
(न उपलब्धम् )

Missing 2.121 to 2.126
पुष्कर उवाच
शान्तातीतं गणं हुत्वा शान्तिमाप्नोति मानवः ।
भैषज्यं च गणं हुत्वा सर्वान् रोगान् व्यपोहति ॥ २,१२७.१ ॥
त्रिषप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ।
क्वचिन्नाअप्नोति च भयं हुत्वा चैवाभयं गणम् ॥ २,१२७.२ ॥
न पराजायते राम गणं हुत्वापराजितम् ।
आयुष्यं च गणं हुत्वा चापमृत्यूं व्यपोहति ॥ २,१२७.३ ॥
स्वस्तिमाप्नोति सर्वत्र हुत्वा स्वस्त्ययनं गणं ।
श्रेयसा योगमाप्नोति शर्मवर्मगणं तथा ॥ २,१२७.४ ॥
वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति ।
तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति ॥
एतैर्दशगणैर्होमो ह्यष्टादशसु शान्तिषु ॥ २,१२७.५ ॥
वैष्णवी शान्तिरैन्द्री च ब्राह्मी रौद्री तथैव च ।
वायव्या वारुणी चैव कौबेरी भार्गवी तथा ॥ २,१२७.६ ॥
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ।
मारुद्गणा च गान्धर्वी शान्तैर्नैरृतकी तथा ॥ २,१२७.७ ॥
शान्तिराङ्गिरसी याम्या पार्थिवी च भृगूत्तम ।
एतास्तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा ॥ २,१२७.८ ॥
यस्त्वा मृत्युरिति ह्येतज्जप्तं मृत्युविनाशनं ।
हुत्वा च मातृनामानि कामानेवमवाप्नुयात् ॥ २,१२७.९ ॥
सुपर्णस्त्वेति हुत्वा च भुजगैर्नैव बाध्यते ।
[Bहत्तछर्य्य एदित्स्भुजगैनव बाध्यते, wहिछ्चन् बे जुस्त त्य्पो!]
यस्येदं भूम्यामिति च भूमिकामो जपेत्सदा ॥ २,१२७.१० ॥
पृथिव्यामुत्तमोऽसीति हुतं श्रैष्ठ्यप्रदं सदा ।
औदुम्बरं यो न इति तथा वीर्यविवर्धनम् ॥ २,१२७.११ ॥
इन्द्रेण दत्तमित्येतत्सर्वबाधाविनाशनम् ।
हिरण्यवर्णा इति च स्नानं पापहरं भवेत् ॥ २,१२७.१२ ॥
असितस्येति सर्वाणि विषघ्नानि भृगूत्तम ।
सरस्वतीति मन्त्रांश्च विषघ्नान्निर्विशेद्बुधः ॥ २,१२७.१३ ॥
शरभादीनि सर्वाणि पिशाचक्षपणानि च ।
इमा देवीति मन्त्रश्च सर्वशान्तिकरः परः ॥ २,१२७.१४ ॥
देवा मरुत इत्येतत्सर्वकामकरं भवेत् ।
यमस्य लोकादित्येतद्दुःस्वप्नशमनं परं ॥ २,१२७.१५ ॥
अग्नेर्व इति चाप्येतत्कथितं मन्युनाशनम् ।
ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः ॥ २,१२७.१६ ॥
इन्द्रं वयं वणिजमिति पण्यलाभकरं परम् ।
[Bहत्तछर्य्य॒ बणिजं]
कामो मे राज्ञ इत्येतत्स्त्रीणां सौभाग्यवर्धनम् ॥ २,१२७.१७ ॥
भद्राय कर्णमित्येतत्कर्णप्रस्यन्दने जपेत् ।
भद्रास्यक्षिरोधे जाता कर्णप्रस्यन्दने तथा ॥ २,१२७.१८ ॥
तुब्यमेव जरिमन्नायुष्यं तु हुतं भवेत् ।
आयातु मित्र इत्येतन्मित्रलब्धिकरं हुतम् ॥ २,१२७.१९ ॥
आशासानमिदं जना मिश्रधान्येन होमयेत् ।
आधिपत्यमवाप्नोति सर्वत्र मनुजोत्तम ॥ २,१२७.२० ॥
अग्ने गोभिर्न इत्येतद्गवां वृद्धिकरं परम् ।
द्वादशाहं तु जुहुयात्पराकेण विशेषतः ॥ २,१२७.२१ ॥
शान्तो अग्निरितीत्येतद्ग्रामस्वास्थ्यकरं भवेत् ।
तस्माद्ग्रामान्मृदा कृत्वा वेदिसाम्यं समश्नुते ॥ २,१२७.२२ ॥
विद्मास्य सर्वा चित्तानि राष्ट्रस्वीकरणानि तु ।
त्रिभ्यो रुद्रेभ्य इत्येतद्वास्तोष्पतमुदाहृतम् ॥ २,१२७.२३ ॥
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ।
अच्युता द्यौस्तथा राम कथितं स्थानलाभदम् ॥ २,१२७.२४ ॥
पयो देवेष्विति हुतं रायस्पोषकरं परम् ।
युनक्रसीरेति शुना कृषिलाभकरं भवेत् ॥ २,१२७.२५ ॥
अयं ते योनिरित्येतत्पुत्रलाभकरं भवेत् ।
शुनं वत्सान् तथा ह्येतद्गवां वृद्धिकरं हुतम् ॥ २,१२७.२६ ॥
… मेति कथितं सर्वत्श्रैष्ठ्यकारकम् ।
अहं ते भग इत्येतद्भवेत्सौभाग्यवर्धनं ॥ २,१२७.२७ ॥
ये ते पाशास्तथाप्येतद्बन्धनान्मोक्षकारकम् ।
यो न स्व इति चाप्येतच्छत्रुनाशकरं परम् ॥ २,१२७.२८ ॥
सपत्नहनमिति तथा नात्र कार्या विचारणा ।
त्वमुत्तममितीत्येतद्यशसो वर्धनं परम् ॥ २,१२७.२९ ॥
यथा मृगो गोपयसि स्त्रीणां सौभाग्यवर्धनम् ।
आ नो अग्न इत्येतच्च कथितं पतिलाभदम् ॥ २,१२७.३० ॥
येन वेहदिषं चैव गर्भलाभकरं भवेत् ।
इमं तपस्विन्निति तथा भवेत्सौभाग्यवर्धनम् ॥ २,१२७.३१ ॥
यत्पृथिव्या अनावृत्तं हुतमेतद्यथाविधि ।
[Bहत्तछर्य्य त्य्पो॒ पृविव्या]
कृत्वा तु शंसनं ज्ञेयं नात्र कार्या विचारणा ॥ २,१२७.३२ ॥
…… ।
शिवः शिवाभिरित्येतद्भवेच्छ्रेयस्करं परम् ॥ २,१२७.३३ ॥
कृत्यादूषण इत्येतत्कृत्यादूषणमुच्यते ।
बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत् ॥ २,१२७.३४ ॥
मनो न्वेदमभयदं पथि स्वस्त्ययनं भवेत् ।
अयं नो अग्निरध्यक्षो भवेदग्निप्रसादतः ॥ २,१२७.३५ ॥
संवत्सरं तु शिरसा धारयेद्यो हुताशनम् ॥
[Bहत्तछर्य्य॒ हूताशनम्]
मन्त्रमेतज्जपेन्नित्यमाग्नेयाशामुखः स्थितः ॥
अनग्निज्वलनं कुर्याद्राम संवत्सरे गते ॥ २,१२७.३६ ॥
दूष्या दूषीत्त्येतज्जपेन्मन्त्रमनुत्तमम् ।
कुर्यात्प्रतिसराबन्धं सर्वदोषनिबर्हणम् ॥ २,१२७.३७ ॥
प्राणसूक्तञ्च कथितं तथा प्राणविवर्धनम् ।
मुञ्चामि त्वेति कथितमपमृत्युविमोक्षणम् ॥ २,१२७.३८ ॥
अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते ।
परमं पावनं तद्धि सर्वकल्मषनाशनम् ॥ २,१२७.३९ ॥
एवमेते शुभा मन्त्राः प्रतिवेदं मया तव ।
समासात्कथिता राम समुद्धृत्य प्रधानतः ॥ २,१२७.४० ॥
एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः ।
[Bहत्तछर्य्य॒ विनियोगः]
कथिता भृगुशार्दूल पुराणैः सुमहात्मभिः ॥ २,१२७.४१ ॥
न ते शक्या महाभाग वक्तुं वर्षशतैरपि ।
प्राधान्येन तु मन्त्राणां किञ्चित्कर्म तवेरितम् ॥ २,१२७.४२ ॥
होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव ।
हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु ॥ २,१२७.४३ ॥
वृक्षाणां यज्ञियानान् तु समिधः प्रथमं हविः ।
आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ॥ २,१२७.४४ ॥
अक्षतानि तिलाश्चैव दधि क्षीरञ्च भार्गव ।
दर्भास्तथैव दूर्वाश्च बिल्वानि कमलानि च ॥ २,१२७.४५ ॥
शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि भार्गव ।
तैलेन्धनानि धर्मज्ञ राजिकां रुधिरं विषम् ।
समिधः कण्टकोपेता अभिचारेषु योजयेत् ॥ २,१२७.४६ ॥
आर्षं वै दैवतं छन्दस्त्वविज्ञाय भृगूत्तम ।
मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत् ॥ २,१२७.४७ ॥
छन्दसि ब्राह्मणे सूक्ते यदव्यक्तं प्रदृश्यते ।
विद्वद्भिः सह निश्चित्य तद्यज्ञमवतारयेत् ॥ २,१२७.४८ ॥
सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः ।
शाखां प्रति तथा तत्र तत्प्रमाणमिति स्थितिः ॥ २,१२७.४९ ॥
यः स्वसूत्रमतिक्रम्य परसूत्रेण वर्तते ।
अप्रमाणमृषिं कृत्वा सोऽप्यधर्मेण युज्यते ॥ २,१२७.५० ॥
तस्मात्सर्वप्रयत्नेन स्वसूत्रं न विलङ्घयेत् ।
प्राक्तन्त्रोत्तरतन्त्रे द्वे स्वशाखाप्रत्यये द्विज ।
सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते ॥ २,१२७.५१ ॥
आथर्वणोऽयं कथितो विधिस्ते संक्षेपतो भार्गवांशमुख्य ।
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥ २,१२७.५२ ॥
॥ इति श्रिविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्यानेऽथर्वविधिकथनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥
\\\\Z
Missing 2.128 to 2.131
राम उवाच ॥
अष्टादशभ्यः शान्तिभ्यः शान्तयो याः सुरोत्तम ॥
भिद्यन्ते वा न भिद्यन्ते तन्ममाचक्ष्व पृच्छतः ॥ १ ॥
पुष्कर उवाच ॥
अमृता चाभया सौम्यास्तिस्रोन्याः सन्ति भार्गव ॥
एकापि तासां विज्ञेया सर्वकर्मफलप्रदा॥ २ ॥
सर्वोत्पातप्रशमनी मङ्गल्या सिद्धिकारिका ॥
पूर्वोक्ताः कथितेष्वेव कर्तव्या अद्भुतेषु च ॥ ३ ॥
राम उवाच ॥
शान्तीनां मे त्वमाचक्ष्व स्वरूपाणि महाभुज ॥
पितामहसमो लोके सर्वज्ञोऽपि मतो मम॥
॥ पुष्कर उवाच ॥
अमृता शर्वदैवत्या अभया ब्रह्मदैवता ॥
सौम्या च सोमदैवत्या कथिता भृगुनन्दन ॥ ५ ॥
अन्यासां देवता ज्ञानं नाम्नैव कथितं तव ॥
आथर्वणानां शान्तीनां निबोध गदतो मम ॥ ६ ॥
अमृता चित्रवर्णा स्यादभया तु शशिप्रभा॥
सौम्या शुक्लैव विज्ञेया नीला भवति वैष्णवी ॥ ७ ॥
बालार्कसदृशा रौद्री ब्राह्मी शंखसमप्रभा ॥
रुक्मवर्णा तथैवैन्द्री वायव्या हरिता भवेत्॥ ८ ॥
शुक्ला च वारुणी ज्ञेया कौबेरी पद्मसुप्रभा ॥
भार्गवी शुक्लवर्णा स्यात्प्राजापत्या च पीतिका ॥ ९ ॥
त्वाष्ट्री शुक्ला च विज्ञेया कौमारी ताम्रसुप्रभा ॥
आग्नेय्यग्निसु वर्णा स्याच्छुक्ला मातङ्गिनी भवेत् ॥ 2.132.१० ॥
प्रवालाभा च गान्धर्वी कृष्णा वै नैनृता तथा॥
रोचनाभा चाङ्गिरसी याम्या कृष्णा तथा भवेत्॥११॥
पार्थिवी च मयूराभा वर्णतः कथितास्तव ॥
अतः परं प्रवक्ष्यामि स्थानान्यासां यथाविधि ॥ १२ ॥
अमृता चाभया सौम्या तिस्रस्तु भृगुनन्दन ॥
तासां सर्वत्र संस्थानं कथितन्तु पुरातनैः ॥ १३ ॥
प्राजापत्या तथाग्नेयी याम्या वै नैर्ऋती तथा ॥
कौबेरी पार्थिवी चेति पृथिव्यां परिकीर्तिताः ॥ १४ ॥
वायव्या चैव कौमारी वैष्णवी रुद्रदैवता ॥
अन्तरिक्षे विनिर्दिष्टाः शान्तयो द्विजसत्तम ॥ १५ ॥
ऐन्द्री मातङ्गिनी त्वाष्ट्री दिव्या ब्राह्मी तथेरिता ॥
वारुणी चैव गान्धारी भार्गव्याङ्गिरसी तथा ॥ १६ ॥
आद्यास्तु कथितास्तुभ्यं कर्तव्याश्च विजानता ॥
यथा स्वदेशजातेषु चाद्भुतेषु यथाविधि ॥ १७ ॥
तद्दैवत्यास्तथा मन्त्राः सर्वासां गर्भ उच्यते ॥
मणीनाञ्च तथा गर्भाः सर्वासां मन्त्र उच्यते ॥ १८ ॥
मणीनाञ्च तथा मन्त्रा ज्ञातव्या मन्त्रलिङ्गतः ॥
सर्वासाञ्चैव शान्तीनां होतव्याश्च गणा दश ॥ १९ ॥
शान्त्यातीतन्तु भैषज्यं त्रिसप्तीयं तथैव च ॥
अभया च तथा राम तथा चैवापराजिता ॥ 2.132.२० ॥
आयुष्यं च स्वस्त्ययनं सर्ववर्मगणं तथा ॥
वास्तोष्पत्यं तथा रौद्रं गणाः प्रोक्तास्तथा दश ॥ २१ ॥
होमस्तथैषां मन्तव्यः सर्वशान्तिषु भार्गव ॥
पृथक्प्रधानतः कल्पास्तिस्रः पूर्वाः प्रकीर्तिताः॥२२॥
गणेगणे तु गां दद्याद्गां गर्भे गां तथा मणौ ॥
अराजा भूमिपालस्तु दद्याद्दश दशैव तु॥२३॥
निष्कामः सभुवं चैव तथा दद्यात्पुरोधसे ॥
अभयाया मणिः कार्यो वरुणस्य भृगूत्तम ॥२४॥
शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणि॥
वैष्णव्यास्त्रिवृतः प्रोक्तः स्नातो रौद्र्यास्तथा मणिः ॥ २५ ॥
ब्रह्मरक्षस्तथा ब्रह्म्या मैत्र्याः स्यात्कनको मणिः ॥
वायव्याश्चाङ्गिरः प्रोक्तो वायव्यः शङ्खजो भवेत् ॥ २६ ॥
औदुम्बरश्च कौबेर्या भार्गव्यायाः शतावरीम् ॥
प्राजापत्या बिल्वमणिस्त्वाष्ट्र्याः संस्कृतकोमणिः ॥ २७ ॥
दाक्षायणश्च कौमार्य्या आग्नेय्याश्च तदेव तु ॥
मातङ्गिन्या जिगितजं गान्धर्व्या अजशृङ्गजम् ॥ २८ ॥
नैर्ऋत्यामायसं चैव आङ्गिरस्यास्तथाञ्जनम् ॥
शतकाण्डश्च याम्यायाः पार्थिव्या अपि पार्थिवम् ॥ २९ ॥
अद्भुतस्य बलं ज्ञात्वा कृच्छ्रं कुर्यात्पुरोहितः ॥
प्रागेव कुर्याच्छमनमादावेवाद्भुतस्य तु ॥ 2.132.३० ॥
कृतकृच्छ्रस्तु कुर्वीत ततः शान्तिमुपोषितः ॥
अरण्यां पातयेद्वह्निं सर्वास्वेतासु शान्तिषु ॥ ३१ …
उपवासदिनस्यान्ते वह्निमुत्पाद्य यत्नतः ॥
उत्पन्नमन्नं विभजेत्क्रव्यादं सौम्यमेव च ॥ ३२ ॥
कृत्वा कपाले क्रव्यादं ध्रुवेण नैर्ऋतीं दिशम् ॥
शान्त्यागारे स्थापयेच्च शान्त्यर्थे सौम्यमेव वा ॥ ३३ ॥
कृष्णोष्णीषः कृष्णवासाः कृष्णमाल्यानुलेपनः ॥
पुरोहितः प्रदेशं तु गत्वा वै नैर्ऋतीं यजेत् ॥ ३४ ॥
मृन्मयं जीर्णशीर्षे तु गन्धमाल्यानुसम्पदा ॥
कृष्णवस्त्रैस्तु संच्छाद्य ततस्तूपहरेद्बलिम् ॥ ३५ ॥
वाद्यघोषेण महता तथा कोलाहलैः शुभैः ॥
ततोऽग्नौ जुहुयात्सम्यङ्मेदःप्रभृति वै द्विज ॥ ३६ ॥
ये पिशाचाश्चतुर्भिस्तु इषीका शर्करी ततः ॥
केवले जुहुयाद्वह्नौ करशुक्त्या श्रवामया ॥ ३७॥
फलीकरणमग्नौ च हुत्वा भुक्त्वा च पावकम् ॥
अपश्यन्स्वगृहं यायात्स्नात्वा श्वेताम्बरस्ततः … ॥ ३८ ॥
अहोमुचं शान्तिकं च जप्त्वा तिष्ठेत्सुयन्त्रितः ॥
रात्रौ त्रिभागशेषायां शान्तिकर्म समारभेत ॥ 39 ॥
शान्तिकल्पविधानज्ञः सदस्यैः सहितस्ततः ॥
एकः कर्मणि युक्तः स्यादेको मन्त्रस्य निश्चये ॥४०॥
एष शान्तिविधिः प्रोक्तः समासात्सर्वशान्तिषु ॥
विस्तरे विस्तरः प्रोक्तः शान्तिकर्म ह्यथर्वणः ॥४१॥
धनेन पूज्योऽथ पुरोहितः स्यात्तथोपदेष्टा गुरुरप्रमत्तः ॥
सांवत्सरो यस्तु ततः सदस्याः पूज्यास्ततो विप्रवराश्च सर्वे॥४२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शान्तिकर्मवर्णनन्नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३२ …
Missing 2.121 to 2.126 Missing 2.128 to 2.131
]