नरसिंहपुराणम्

श्रीनरसिंहपुराणम्।
प्रथमोऽध्यायः।
श्रीलक्ष्मीनृसिंहाय नम्नः । श्रीवेदव्यासाय नमः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् १

तप्तहाटककेशान्तज्वलत्पावकलोचन।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते २

पान्तु वो नरसिंहस्य नखलाङ्गूलकोटयः।
हिरण्यकशिपोर्वक्षःक्षेत्रासृक्कर्दमारुणाः ३

हिमवद्वासिनः सर्वे मुनयो वेदपारगाः।
त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ४

येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः।
महेन्द्रा द्रि रता ये च ये च विन्ध्यनिवासिनः ५

धर्मारण्यरता ये च दण्डकारण्यवासिनः।
श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ६

कौमारपर्वते ये च ये च पम्पानिवासिनः।
एते चान्ये च बहवः सशिष्या मुनयोऽमलाः ७

प्राघमासे प्रयागं तु स्नातुं तीर्थ समागताः।
तत्र स्नात्वा यथान्यायं कृत्वा कर्म जपादिकम् ८

नत्वा तु माधवं देवं कृत्वा च पितृतर्पणम्।
दृष्ट्वा तत्र भरद्वाजं पुण्यतीर्थनिवासिनम् ९

तं पूजयित्वा विधिवत्तेनैव च सुपूजिताः।
आसनेषु विचित्रेषु वृष्यादिषु यथाक्रमम् १०

भरद्वाजेन दत्तेषु आसीनास्ते तपोधनाः।
कृष्णाश्रिताः कथाः सर्वे परस्परमथाब्रुवन् ११

कथान्तेषु ततस्तेषां मुनीनां भावितात्मनाम्।
आजगाम महातेजास्तत्र सूतो महामतिः १२

व्यासशिष्यः पुराणज्ञो लोमहर्षणसञ्ज्ञकः।
तान् प्रणम्य यथान्यायं स च तैश्चाभिपूजितः १३

उपविष्टो यथायोग्यं भरद्वाजमतेन सः।
व्यासशिष्यं सुखासीनं ततस्तं लोमहर्षणम्।
स पप्रच्छ भरद्वाजो मुनीनामग्रतस्तदा १४

भरद्वाज उवाच।
शौनकस्य महासत्रे वाराहाख्या तु संहिता।
त्वत्तः श्रुता पुरा सूत एतैरस्माभिरेव च १५

साम्प्रतं नारसिंहाख्यां त्वत्तः पौराणसंहिताम्।
श्रोतुमिच्छाम्यहं सूत श्रोतुकामा इमे स्थिताः १६

अतस्त्वां परिपृच्छामि प्रश्नमेतं महामुने।
ऋषीणामग्रतः सूत प्रातर्ह्येषां महात्मनाम् १७

कुत एतत् समुत्पन्नं केन वा परिपाल्यते।
कस्मिन् वा लयमभ्येति जगदेतच्चराचरम् १८

किं प्रमाणं च वै भूमेर्नृसिंहः केन तुष्यति।
कर्मणा तु महाभाग तन्मे ब्रूहि महामते १९

कथं च सृष्टेरादिः स्यादवसानं कथं भवेत्।
कथं युगस्य गणना किं वा स्यात्तु चतुर्युगम् २०

को वा विशेषस्तेष्वत्र का वावस्था कलौ युगे।
कथमाराध्यते देवो नरसिंहोऽप्यमानुषैः २१

क्षेत्राणि कानि पुण्यानि के च पुण्याः शिलोच्चयाः।
नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः २२

देवादीनां कथं सृष्टिः मनोर्मन्वन्तरस्य तु।
तथा विद्याधरादीनां सृष्टिरादौ कथं भवेत् २३

यज्वानः के च राजानः के च सिद्धिं परां गताः।
एतत्सर्व महाभाग कथयस्व यथाक्रमम् २४

सूत उवाच।
व्यासप्रसादाज्जानामि पुराणानि तपोधानाः।
तं प्रणम्य प्रवक्ष्यामि पुराणं नारसिंहकम् २५

पाराशर्य परमपुरुषं विश्वदेवैकयोनिं।
विद्यावन्तं विपुलमतिदं वेदवेदाङ्गवेद्यम्।
शिश्वच्छान्तं शमितविषयं शुद्धतेजो विशालं।
वेदव्यासं विगतशमलं सर्वदाहं नमामि २६

नमो भगवते तस्मै व्यासायामिततेजसे।
यस्य प्रसादाद्वक्ष्यामि वासुदेवकथामिमाम् २७

सुनिर्णीतो महान् प्रश्नस्त्वया यः परिकीर्तितः।
विष्णुप्रसादेन विना वक्तुं केनापि शक्यते २८

तथापि नरसिंहस्य प्रसादादेव तेऽधुना।
प्रवक्ष्यामि महापुण्यं भारद्वाज शृणुष्व मे २९

शृण्वन्तु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः।
पुराणं नरसिंहस्य प्रवक्ष्यामि यथातथा ३०

नारायणादिदं सर्व समुत्पन्नं चराचरम्।
तेनैव पाल्यते सर्व नरसिंहादिमूर्तिभिः ३१

तथैव लीयते चान्ते हरौ ज्योतिःस्वरूपिणि।
यथैव देवः सृजति तथा वक्ष्यामि तच्छृणु ३२

पुराणानां हि सर्वेषामयं साधारणः स्मृतः।
श्लोको यस्तं मुने श्रुत्वा निःशेषं त्वं ततः शृणु ३३

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ३४

आदिसर्गोऽनुसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं चैव वक्ष्याम्यनुसमासतः ३५

आदिसर्गो महांस्तावत् कथयिष्यामि वै द्विजाः।
यस्मादारम्य देवानां राज्ञां चरितमेव च ३६

ज्ञायते सरहस्यं च परमात्मा सनातनः।
प्राक्सृष्टेः प्रलयादूर्ध्व नासीत् किञ्चिद्द्विजोत्तम ३७

ब्रह्मसञ्ज्ञमभूदेकं ज्योतिष्मत्सर्वकारणम्।
नित्यं निरञ्जनं शान्तं निर्गुणं नित्यनिर्मलम् ३८

आनन्दसागरं स्वच्छं यं काङ्क्षन्ति मुमुक्षवः।
सर्वज्ञं ज्ञानरूपत्वादनन्तमजमव्ययम् ३९

सर्गकाले तु सम्प्राप्ते ज्ञात्वाऽसौ ज्ञातृनायकः।
अन्तर्लीनं विकारं च तत्स्रष्टुमुपचक्रमे ४०

तस्मात् प्रधानमुद्भूतं ततश्चापि महानभूत्।
सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ४१

वैकारिकस्तैजसश्च भूतादिश्चैव तामसः।
त्रिविधोऽयमहङ्कारो महत्तत्त्वादजायत ४२

यथा प्रधानं हि महान् महता स तथाऽऽवृतः।
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ४३

मसर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम्।
शब्दमात्रं तथाऽऽकाशं भूतादिः स समावृणोत् ४४

आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह।
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ४५

आकाशं शब्दतन्मात्रं स्पर्शमात्रं तथाऽऽवृणोत्।
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह ४६

ज्योतिरुत्पद्यते वायोस्तद्रू पगुणमुच्यते।
स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् ४७

ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह।
सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ४८

रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत्।
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे ४९

तस्माज्जाता मही चेयं सर्वभूतगुणाधिका।
सङ्घातो जायते तस्मात्तस्य गन्धगुणो मतः ५०

तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता।
तन्मात्राण्यविशेषाणि विशेषाः क्रमशो पराः ५१

भूततन्मात्रसर्गोऽयमहङ्कारात्तु तामसात्।
कीर्तितस्ते समासेन भरद्वाज मया तव ५२

तैजसानीन्द्रि याण्याहुर्देवा वैकारिका दश।
एकादशं मनश्चात्र कीर्तितं तत्र चिन्तकैः ५३

बुद्धीन्द्रि याणि पश्चात्र पञ्च कर्मेन्द्रि याणि च।
तानि वक्ष्यामि तेषां च कर्माणि कुलपावन ५४

श्रवणे च दृशौ जिह्वा नासिका त्वक् च पञ्चमी।
शब्दादिज्ञानसिद्ध्यर्थ बुद्धियुक्तानि पञ्च वै ५५

पायूपस्थे हस्तपादौ वाग्भरद्वाज पञ्चमी।
विसर्गानन्दशिल्पी च गत्युक्ती कर्म तत्स्मृतम् ५६

आकाशवायुतेजांसि सलिलं पृथिवी तथा।
शब्दादिभिर्गुणैर्विप्र संयुक्तान्युत्तरोत्तरैः ५७

नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना।
नाशक्रवन् प्रजां स्रष्टुमसमागम्य कृत्स्नशः ५८

समेत्यान्योन्यसंयोगं परस्परसमाश्रयात्।
एकसङ्घातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ५९

पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च।
महदाद्या विशेषान्तास्त्वण्डमुत्पादयन्ति ते ६०

तत्क्रमेण विवृद्धं तु जलबुद्बुदवत् स्थितम्।
भूतेभ्योऽण्डं महाबुद्धे बृहत्तदुदकेशयम् ६१

प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम्।
तत्राव्यक्तस्वरूपोऽसौ विष्णुर्विश्वेश्वरः प्रभुः ६२

ब्रह्मस्वरूपमास्थाय स्वयमेव व्यवस्थितः।
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः।
गर्भोदकं समुद्रा श्च तस्याभूवन् महात्मनः ६३

अद्रि द्वीपसमुद्रा श्च सज्योतिर्लोकसङ्ग्रहः।
तस्मिन्नण्डेऽभवत्सर्व सदेवासुरमानुषम् ६४

रजोगुणयुतो देवः स्वयमेव हरिः परः।
ब्रह्मरूपं समास्याय जगत्सृष्टौ प्रवर्तते ६५

सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना।
नरसिंहादिरूपेण रुद्र रूपेण संहरेत् ६६

ब्राह्मेण रूपेण सृजत्यनन्तो।
जगत्समस्तं परिपातुमिच्छन्।
रामादिरूपं स तु गृह्य पाति।
भूत्वाथ रुद्र ः! प्रकरोति नाशम् ६७

इति श्रीनरसिंहपुराणे सर्गनिरूपणं नाम प्रथमोऽध्यायः १


द्वितीयोऽध्यायः।
सूत उवाच।
ब्रह्मा भूत्वा जगत्सृष्टौ नरसिंहः प्रवर्तते।
यथा ते कथयिष्यामि भरद्वाज निबोध मे १

नारायणाख्यो भगवान् ब्रह्मलोकपितामहः।
उत्पन्नः प्रोच्यते विद्वन् नित्योऽसावुपचारतः २

निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम्।
तत्पराख्यं तदर्ध च परार्धमभिधीयते ३

कालस्वरूपं विष्णोश्च यन्मयोक्तं तवानघ।
तेन तस्य नोबोध त्वं परिमाणोपपादनम् ४

अन्येषां चैव भूतानां चराणामचराश्च ये।
भूभूभृत्सागरादीनामशेषाणां च सत्तम ५

सङ्ख्याज्ञानं च ते वच्मि मनुष्याणां निबोध में।
अष्टादश निमेषास्तु काष्ठैका परिकीर्तिता ६

काष्ठास्त्रिंशत्कला ज्ञेया कलास्त्रिंशन्मुहूर्तकम्।
त्रिंशत्सङ्ख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् ७

अहोरात्राणि तावन्ति मासपक्षद्वयात्मकः।
तैः षड्भिरयनं मासैर्द्वेऽयने दक्षिणोत्तरे ८

अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम्।
अयनद्वितयं वर्ष मर्त्यानामिह कीर्तितम् ९

नृणां मासः पितृणां तु अहोरात्रमुदाहृतम्।
वस्वादीनामहोरात्रं मानुषो वत्सरः स्मृतः १०

दिव्यैर्वर्षसहस्रैस्तु युगं त्रेतादिसञ्ज्ञितम्।
चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ११

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्।
दिव्याद्वानां सहस्राणि युगेष्वाहुः पुराविदः १२

तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्र विधीयते।
सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि सः १३

सन्ध्यासन्ध्यांशयोर्मध्ये यः कालो वर्तते द्विज।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसञ्ज्ञकः १४

कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम्।
प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसं द्विज १५

ब्रह्मणो दिवसे ब्रह्मन् मनवस्तु चतुर्दश।
भवन्ति परिमाणं च तेषां कालकृतं शृणु १६

सप्तर्षयस्तु शत्रोऽथ मनुस्तत्सूनवोऽपि ये।
एककालं हि सृज्यन्ते संहियन्ते च पूर्ववत् १७

चतुर्युगानां सङ्ख्या च साधिका ह्येकसप्ततिः।
मन्वन्तरं मनोः कालः शक्रादीनामपि द्विज १८

अष्टौशतसहस्राणि दिव्यया सङ्ख्यया स्मृतः।
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु १९

त्रिंशत्कोट्यस्तु सम्पूर्णाः सङ्ख्याताः सङ्ख्यया द्विज।
सप्तषष्टिस्तथान्यानि नियुतानि महामुने २०

विंशतिश्च सहस्राणि कालोऽयमधिकं विना।
मन्वन्तरस्य सङ्ख्येयं मानुषैर्वत्सरैर्द्विज २१

चतुर्दशगुणो ह्येष कालो ब्राह्ममहः स्मृतम्।
विश्वस्यादौ सुमनसा सृष्ट्वा दवांस्तथा पितृन् २२

गन्धर्वान् राक्षसान् यक्षान् पिशाचान् गुह्यकांस्त्था।
ऋषीन् विद्याधरांश्चैव मनुष्यांश्च पशूंस्तथा २३

पक्षिणः स्थावरांश्चैव पिपीलिकभुजङ्गमान्।
चातुर्वर्ण्य तथा सृष्ट्वा नियुज्याध्वरकर्मणि २४

पुनर्दिनान्ते त्रैलोक्यमुपसंहृत्य स प्रभुः।
शेते चानन्तशयने तावन्तीं रात्रिमव्ययः २५

तस्यान्तेऽभून्महान्कल्पो ब्राह्म इत्यभिविश्रुतः।
यस्मिन् मत्स्यावतारोऽभून्मथनं च महोदधेः २६

तद्वद्वराहकल्पश्च तृतीयः परिकल्पितः।
यत्र विष्णुः स्वयं प्रीत्या वाराहं वपुराश्रितः।
उद्धर्तु वसुधां देवीं स्तृयमानो महर्षिभिः २७

सृष्ट्वा जगद्व्योमचराप्रमेयः।
प्रजाश्च सृष्ट्वा सकलास्तथेशः।
नैमित्तिकाख्ये प्रलये समस्तं।
संहृत्य शेते हरिरादिदेवः २८

इति श्रीनरसिंहपुराणे सर्गरचनायां द्वितीयोऽध्यायः २


तृतीयोऽध्यायः।
सूत उवाच।
तत्र सुप्तस्य देवस्य नाभौ पद्ममभून्महत्।
तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः १

ब्रह्मोत्पन्नः स तेनोक्तः प्रजां सृज महामते।
एवमुक्त्वा तिरोभावं गतो नारायणः प्रभुः २

तथेत्युक्त्वा सतन्देवंविष्णुं ब्रह्माथ चिन्तयन्।
आस्ते किञ्चिज्जगद्वीजं नाध्यगच्छत किञ्चन ३

तावत्तस्य महान् रोषो ब्रह्मणोऽभून्महात्मनः।
ततो बालः समुत्पन्नस्तस्याङ्के रोषसम्भवः ४

स रुदन्वारितस्तेन ब्रह्मणा व्यक्तमूर्तिना।
नाम मे देहि चेत्युक्तस्तस्य रुद्रे त्यसौ ददौ ५

तेनासौ विसृजस्वेति प्रोक्तो लोकमिमं पुनः।
अशक्तस्तत्र सलिले ममज्ज तपसाऽऽदृतः ६

तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिः।
ब्रह्मा ससर्ज भूतेशो दक्षिणाङ्गृष्ठतोऽपरम् ७

दक्षं वामे ततोऽङ्गृष्ठे तस्य पत्नी व्यजायत।
स तस्यां जनयामास मनुं स्वायम्भुवं प्रभुः ८

तस्मात्सम्भाविता सृष्टिः प्रजानां ब्रह्मणा तदा।
इत्येवं कथिता सृष्टिर्मया ते मुनिसत्तम।
सृजतो जगतीं तस्य किं भूयः श्रोतुमिच्छसि ९

भरद्वाज उवाच।
सङ्क्षेपेण तदाऽऽख्यातं त्वया मे लोमहर्षण।
विस्तरेण पुनर्ब्रूहि आदिसर्ग महामते १०

सूत उवाच।
तथैव कल्पावसाने निशासुप्तोत्थितः प्रभुः।
सत्त्वोद्रि क्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत ११

नारायणः परोऽचिन्त्यः पूर्वेषामपि पूर्वजः।
ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः १२

इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवात्मकम् १३

आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
अयनं तस्य ताः पूर्व तेन नारायण स्मृतः १४

सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा।
अबुद्धिपूर्वकं तस्य प्रादुर्भूतं तमस्तदा १५

तमो मोहो महामोहस्तामिस्रोऽह्यन्धसञ्ज्ञितः।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः १६

पञ्चधाधिष्ठितः सर्गो ध्यायतोऽप्रतिबोधवान्।
बहिरन्तोऽप्रकाशश्च सवृतात्मा नगात्मकः।
मुख्यसर्गः स विज्ञेयः सर्गसिद्धिविचक्षणैः १७

यत्पुनर्ध्यायतस्तस्य ब्रह्मणः समपद्यत।
नित्यक्स्रोतस्ततस्तस्मात् तिर्यग्योनिस्ततः स्मृतः १८

पश्वादयस्ते विख्याता उत्पथग्राहिणश्च ये।
तमप्यसाधकं मत्वा तिर्यग्योनिं चतुर्मुखः १९

ऊर्ध्वस्रोतास्तृतीयस्तु सात्त्विकः समवर्तत।
तदा तुष्टोऽन्यसर्ग च चिन्तयामास वै प्रभुः २०

ततश्चिन्तयतस्तस्य सर्गवृद्धिं प्रजापतेः।
अर्वाक्स्रोताः समुत्पन्ना मनुष्याः साधका मताः २१

ते च प्रकाशबहुलास्तमोयुक्ता रजोऽधिकाः।
तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः २२

एते ते कथिताः सर्गा बहवो मुनिसत्तम।
प्रथमो महतः सर्गस्तन्मात्राणां द्वितीयकः २३

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रि यकः स्मृतः।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः २४

तिर्यक्स्रोताश्च यः प्रोक्तस्तिर्यग्योनिः स उच्यते।
ततोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः २५

ततोऽर्वाक्स्रोतसां सर्गः सप्तमो मानुषः स्मृतः।
अष्टमोऽनुग्रहः सर्गः सात्त्विको य उदाहृतः २६

नवमो रुद्र सर्गस्तु नव सर्गाः प्रजापतेः।
पञ्चैते वैकृताः सर्गाः प्राकृतास्ते त्रयः स्मृताः।
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः २७

प्राकृता वैकृताश्चैव जगतो मूलहेतवः।
सृजतो ब्रह्मणः सृष्टिमुत्पन्ना ये मयेरिता २८

तं तं विकारं च परं परेशो।
मायामधिष्ठाय सृजत्यनन्तः।
अव्यक्तरूपी परमात्मसञ्ज्ञः।
सम्प्रेर्यमाणो निखिलात्मवेद्यः २९

इति श्रीनरसिंहपुराणे सृष्टि रचना प्रकारो नाम तृतीयोऽध्यायः ३


चतुर्थोऽध्यायः।
भरद्वाज उवाच।
नवधा सृष्टिरुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः।
कथं सा ववृघे सूत एतत्कथय मेऽघुना १

सूत उवाच।
प्रथमं ब्रह्मणा सृष्टा मरीच्यादय एव च।
मरीचिरत्रिश्च तथा अङ्गिराः पुलहः क्रतुः २

पुलस्त्यश्च महातेजाः प्रचेता भृगुरेव च।
नारदो दशमश्चैव वसिष्ठश्च महामतिः ३

सनकादयो निवृत्ताख्ये ते च धर्मेनियोजिताः।
प्रवृत्ताख्ये मरीच्याद्यामुक्तवैकं नारदं मुनिम् ४

योऽसौ प्रजापतिस्त्वन्यो दक्षनामाङ्गसम्भवः।
तस्य दौहित्रवंशेन जगदेतच्चराचरम् ५

देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः।
सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ६

चतुर्विधानि भूतानि ह्यचराणि चराणि च।
वृद्धिङ्गतानि तान्येवमनुसर्गोद्भवानि तु ७

अनुसर्गस्य कर्तारो मरीच्याद्या महर्षयः।
वसिष्ठान्ता महाभाग ब्रह्मणो मानसोद्भवाः ८

सर्गे तु भूतानि धियश्च खानि।
ख्यातानि सर्व सृजते महात्मा।
स एव पश्चाच्चतुरास्यरूपी।
मुनिस्वरूपी च सृजत्यनन्तः ९

इति श्रीनरसिंहपुराणे चतुर्थोऽध्यायः ४


पञ्चमोऽध्यायः।
भरद्वाज उवाच।
रुद्र सर्ग तु मे ब्रूहि विस्तरेण महामते।
पुनः सर्वे मरीच्याद्याः ससृजुस्ते कथं पुनः १

मित्रावरुणपुत्रत्वं वसिष्ठस्य कथं भवेत्।
ब्रह्मणो मनसः पूवमुत्पन्नस्य महामते २

रुद्र सृष्टिं प्रवक्ष्यामि तत्सर्गाश्चैव सत्तम।
प्रतिसर्ग मुनीनां तु विस्तराद्वदतः शृणु ३

कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः।
प्रादुरासीत् प्रभोरङ्के कुमारो नीललोहितः ४

अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान्।
तेजसा भासयन् सर्वा दिशश्च प्रदिशश्च सः ५

तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः।
विभजात्मानमद्य त्वं मम वाक्यान्महामते ६

इत्युक्तो ब्रह्मणा विप्र रुद्र स्तेन प्रतापवान्।
स्त्रीभावं पुरुषत्वं च पृथक् पृथगथाकरोत् ७

बिमेद पुरुषत्वं च दशधा चैकधा च सः।
तेषां नामानि वक्ष्यामि शृणु मे द्विजसत्तम ८

अजैकपादहिर्बुÞयः कपाली रुद्र एव च।
हरश्च बहुरूपश्च त्र्! यम्बकश्चापराजितः ९

वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा।
एकादशैते कथिता रुद्रा स्त्रिभुवनेश्वराः १०

स्त्रीत्वं चैव तथा रुद्रो बिभेद दशधैकधा।
उमैव बहुरूपेण पत्नी सैव व्यवस्थिता ११

तपः कृत्वा जले घोरमुर्त्तीर्णः स यदा पुरा।
तदा स सृष्टवान् देवो रुद्र स्तत्र प्रतापवान् १२

तपोबलेन विप्रेन्द्र भूतानि विविधानि च।
पिशाचान् राक्षसांश्चैव सिंहोष्ट्रमकरानतान् १३

वेतालप्रमुखान् भूतानन्यांश्चैव सहस्रशः।
विनायकानामुग्राणां त्रिंशत्कोट्यर्धमेव च १४

अन्यकार्य समुद्दिश्य सृष्टवान् स्कन्दमेव च।
एवम्प्रकारो रुद्रो ऽसौमया ते कीर्तितः प्रभुः १५

अनुसर्ग मरीच्यादेः कथयामि निबोध मे।
देवादिस्थावरान्ताश्च प्रजाः सृष्टाः स्वयम्भुवा १६

यदास्य च प्रजाः सर्वा न व्यवर्धन्त धीमतः।
तदा मानसपुत्रान् स सदृशानात्मनोऽसृजत् १७

मरीचिमत्र्! यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्।
प्रचेतसं वसिष्ठं च भृगुं चैव महामतिम् १८

नव ब्रह्माण इत्येते पुराणे निश्चयं गताः।
अग्निश्च पितरश्चैव ब्रह्मपुत्रौ तु मानसौ १९

सृष्टिकाले महाभागौ ब्रह्मन् स्वायम्भुवोद्गतौ।
शतरूपां च सृष्ट्वा तु कन्यां स मनवे ददौ २०

तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत।
प्रियव्रतोत्तानपादौ प्रसूतिं चैव कन्यकाम् २१

ददौ प्रसूतिं दक्षाय मनुः स्वायम्भुवः सुताम्।
प्रसूत्यां च तदा दक्षश्चतुर्विंशतिकं तथा २२

ससर्ज कन्यकास्तासां शृणु नामानि मेऽधुना।
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया २३

बुद्धिर्लज्जा वपुःशान्तिः सिद्धिः कीर्तिस्त्रयोदशी।
अपत्यार्थ प्रजग्राह धर्मो दाक्षायणीः प्रभुः २४

श्रद्धादीनां तु पत्नीनां जाताः कामादयः सुताः।
धर्मस्य पुत्रपौत्राद्यैर्धर्मवंशो विवर्धितः २५

ताभ्यः शिष्टा यवीयस्यस्तासां नामानि कीर्तये।
सम्भूतिश्चानसूया च स्मृतिः प्रीतिः क्षमाः तथा २६

सन्नतिश्चाथ सत्या च ऊर्जा ख्यातिर्द्विजोत्तम।
तद्वत्पुत्रौ महाभागौ मातरिश्चाथ सत्यवान् २७

स्वाहाथ दशमी ज्ञेया स्वधा चैकादशी स्मृता।
एताश्च दत्ता दक्षेण ऋषीणां भवितात्मनाम् २८

मरीच्यादीनां तु ये पुत्रास्तानहं कथयामि ते।
पत्नी मरीचेः सम्भूतिर्जज्ञे सा कश्यपं मुनिम् २९

स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास्तथा।
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ३०

अनसूया तथा चात्रेर्जज्ञे पुत्रानकल्मषान्।
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ३१

योऽसावग्नेरभीमानी ब्रह्मणस्तनयोऽग्रजः।
तस्मात् स्वाहा सुतांल्लेभेत्रीनुदारौजसोद्विज ३२

पावकं पवमानं च शुचिं चापि जलाशिनम्।
तेषां तु सन्ततावन्ये चत्वारिंशच्च पञ्च च ३३

कथयन्ते वह्नयश्चैते पिता पुत्रत्रयं च यत्।
एवमेकोनपञ्चाशद्वह्नयः परिकीर्तिताः ३४

पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव।
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा ३५

प्रजाः सृजेति व्यादिष्टः पूर्व दक्षः स्वयम्भुवा।
यथा ससर्ज भूतानि तथा मे शृणु सत्तम ३६

मनसैव हि भूतानि पूर्व दक्षोऽसृजन्मुनिः।
देवानृषींश्च गन्धर्वानसुरान् पन्नगांस्तथा ३७

यदास्य मनसा जाता नाभ्यवर्धन्त ते द्विज।
तदा सञ्चिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः ३८

मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः।
असिक्नीमुद्वहन् कन्यां वीरणस्य प्रजापतेः ३९

षष्टिं दक्षोऽसृजत्कन्या वीरण्यामिति नः श्रुतम्।
ददौ स दश धर्माय कश्यपाय त्रयोदश ४०

सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने।
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ४१

द्वे कृशाश्वाय विदुषे तदपत्यानि मे शृणु।
विश्वेदेवांस्तु विश्वा या साध्या साध्यानसूयत ४२

मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः।
भानोस्तु भानवो देवा मुहूर्तायां मुहूर्तजाः ४३

लम्बायाश्चैव घोषाख्यो नागवीथिश्च जामिजा।
पृथिवीविषयं सर्वमरुन्धत्यामजायत ४४

सङ्कल्पायाश्च सङ्कल्पः पुत्रो जज्ञे महामते।
ये त्वनेकवसुप्राणा देवा ज्योतिःपुरोगमाः ४५

वसवौऽष्टौ समाख्यातास्तेषां नामानि मे शृणु।
आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः ४६

प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः।
तेषां पुत्राश्च पोत्राश्च शतशोऽथ सहस्रशा ४७

साध्याश्च बहवः प्रोक्तास्तत्पुत्राश्च सहस्रशः।
कश्यपस्य तु भार्यां यास्तासां नामानि मे शृणु।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ४८

सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा।
कद्रू र्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ४९

अदित्यां कश्यपाज्जाताः पुत्रा द्वादश शोभनाः।
तानहं नामतो वक्ष्ये शृणुष्व गदतो मम ५०

भर्गोऽशुश्चार्यमा चैव मित्रोऽथ वरुणस्तथा।
सविता चैव धाता च विवस्वांश्च महामते ५१

त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते।
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ५२

हिरण्याक्षो महाकायो वाराहेण तु यो हतः।
हिरण्यकशिपुश्चैव नरसिंहेन यो हतः ५३

अन्ये च बहवो दैत्या दनुपुत्राश्च दानवाः।
अरिष्टायां तु गन्धर्वा जज्ञिरे कश्यपात्तथा ५४

सुरसायामथोत्पन्ना दिव्याधरगणो बहु।
गा वै स जनयामास सुरभ्यां कश्यपो मुनिः ५५

विनतायां तु द्वौ पुत्रौ प्रख्यातौ गरुडारुणौ।
गरुडो देवदेवस्य विष्णोरमिततेजसः ५६

वाहनत्वमियात्प्रीत्या अरुणः सूर्यसारथिः।
ताम्रायां कश्यपाज्जाताः षट्पुत्रास्तान्निबोध में ५७

अश्वा उष्ट्रा गर्दभाश्च हस्तिनो गवया मृगाः।
क्रोधायां जज्ञिरे तद्वद्ये भूम्यां दुष्टजातयः ५८

इरा वृक्षलतावल्लीशणजातीश्च जज्ञिरे।
खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ५९

कद्रू पुत्रा महानागा दन्दशूका विषोल्बणाः।
सप्तविंशति याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ६०

तासाँ पुत्रा महासत्त्वा बुधाद्यास्त्वभवन् द्विज।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ६१

बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः।
प्रत्यङ्गिरस्सुताः श्रेष्ठा ऋषयश्चर्षिसत्कृताः ६२

कृशाश्वस्य तु देवर्षेर्देवाश्च ऋषयः सुताः।
एते युगसहस्रान्ते जायन्ते पुनरेव हि ६३

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः।
स्थितौ स्थितस्य देवस्य नरसिंहस्य धर्मतः ६४

एता विभूतयो विप्र मया ते परिकीर्तिताः।
कथिता दक्षकन्यानां मया तेऽपत्यसन्ततिः ६५

श्रद्धावान् संस्मरेदेतां स सुसन्तानवान् भवेत् ६६

सर्गानुसर्गौ कथितौ मया ते।
समासतः सृष्टिविवृद्धिहेतोः ॥
पठन्ति ये विष्णुपराः सदा नरा।
इदं द्विजास्ते विमला भवन्ति ६७

इति श्री नरसिंहपुराणे सृष्टिकथने पञ्चमोऽध्यायः ५


षष्ठोऽध्यायः।
सूत उवाच।
सृष्टिस्ते कथिता विष्णोर्मयास्य जगतो द्विज।
देवदानवयक्षाद्या यथोत्पन्ना महात्मनः १

यमुद्दिश्य त्वया पृष्टः पुराहमृषिसन्निधौ।
मित्रावरुणपुत्रत्वं वसिष्ठस्य कथं त्विति २

तदिदं कथयिष्यामि पुण्याख्यानं पुरातनम्।
शृणुष्वैकाग्रमनसा भरद्वाज विशेषतः ३

सर्वधर्मार्थतत्त्वज्ञः सर्ववेदविदां वरः।
पारगः सर्वविद्यानां दक्षो नाम प्रजापतिः ४

तेन दत्ताः शुभाः कन्याः सर्वाः कमललोचनाः।
सर्वलक्षणसम्पूर्णाः कश्यपाय त्रयोदश ५

तासां नामानि वक्ष्यामि निबोधत ममाधुना।
अदितिर्दितिर्दनुः काला मुहूर्ता सिंहिता मुनिः ६

इरा क्रोधा च सुरभिर्विनता सुरसा खसा।
कद्रू सरसा चैव या तु देवशुनी स्मृता ७

दक्षस्यैता दुहितरस्ताः प्रादात् कश्यपाय सः।
तासां ज्येष्ठा वरिष्ठा च अदितिर्नामतो द्विज ८

अदितिः सुषुवे पुत्रान् द्वादशाग्निसमप्रभान्।
तेषां नामानि वक्ष्यामि शृणुष्व गदतो मम ९

यैरिदं वासरं नक्तं वर्तते क्रमशः सदा।
भर्गोऽशुस्त्वर्यमा चैव मित्रोऽथ वरुणस्तथा १०

सविता चैव धाता च विवस्वांश्च महामते।
त्वष्टा पूषा तथैवेन्द्रो विष्णुर्द्वादशमः स्मृतः ११

एते च द्वादशादित्यास्तपन्ते वर्षयन्ति च।
तस्याश्च मध्यमः पुत्रो वरुणो नाम नामतः १२

लोकपाल इति ख्यातो वारुण्यां दिशि शब्द्यते।
पश्चिमस्य समुद्र स्य प्रतीच्यां दिशि राजते १३

जातरूपमयः श्रीमानास्ते नाम शिलोच्चयः।
सर्वरत्नमयैः शृङ्गैर्धातुप्रस्रवणान्वितैः १४

संयुक्तो भाति शैलेशो नानारत्नमयः शुभः।
महादरीगुहाभिश्च सिंहशार्दूलनादितः १५

नानाविविक्तभूमीषु सिद्धगन्धर्वसेवितः।
यस्मिन् गते दिनकरे तमसाऽपूर्यते जगत् १६

तस्य शृङ्गे महादिव्या जाम्बूनदमयी शुभा।
रम्या मणिमयैः स्तम्भैर्विहिता विश्वकर्मणा १७

पुरी विश्वावती नाम समृद्धा भोगसाधनैः।
तस्यां वरुण आदित्यो दीप्यमानः स्वतेजसा १८

पाति सर्वानिमाँ ल्लोकान्नियुक्तो ब्रह्मणा स्वयम्।
उपास्यमानो गन्धर्वैस्तथैवाप्सरसां गणैः १९

दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः।
कदाचिद्वरुणो यातो मित्रेण सहितो वनम् २०

कुरुक्षेत्रे शुभे रम्ये सदा ब्रह्मर्षिसेविते।
नाना पुष्पफलोपेते नानातीर्थसमाकुले २१

आश्रमा यत्र दृश्यन्ते मुनीनामूर्ध्वरेतसाम्।
तस्मिंस्तीर्थे समाश्रित्य बहुपुष्पफलोदके २२

चीरकृष्णाजिनधरौ चरन्तौ तप उत्तमम्।
तत्रैकस्मिन्वनोद्देशे विमलोदो ह्रदः शुभः २३

बहुगुल्मलताकीर्णो नानापक्षिनिषेवितः।
नानातरुवनच्छन्नो नलिन्या चोपशोभितः २४

पौण्डरीक इति ख्यातो मीनकच्छपसेवितः।
ततस्तु मित्रावरुणौ भ्रातरौ वनचारिणौ।
तं तु देशं गतौ देवौ विचरन्तौ यदृच्छया २५

ताभ्यां तत्र तदा दृष्टा उर्वशी तु वराप्सराः।
स्नायन्ती सहितान्याभिः सखीभिः सा वरानना।
गायन्ती च हसन्ती च विश्वस्ता निर्जने वने २६

गौरी कमलगर्भाभा स्निग्धकृष्णशिरोरुहा।
पद्मपत्रविशालाक्षी रक्तोष्ठी मृदुभाषिणी २७

शङ्खकुन्देन्दुधवलैर्दन्तैरविरलैः समैः।
सुभ्रूः सुनासा सुमुखी सुललाटा मनस्विनी २८

सिंहवत्सूक्ष्ममध्याङ्गी पीनोरुजघनस्तनी।
मधुरालापचतुरा सुमध्या चारुहासिनी २९

रक्तोत्पलकरा तन्वी सुपदी विनयान्विता।
पूर्णचन्द्र निभा बाला मत्तद्विरदगामिनी ३०

दृष्ट्वा तस्यास्तु तद्रू पं तौ देवौ विस्मयं गतौ।
तस्या हास्येन लास्येन स्मितेन ललितेन च ३१

मृदुना वायुना चैव शीतानिलसुगन्धिना।
मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च ३२

सुस्वरेण हि गीतेन उर्वश्या मधुरेण च।
ईक्षितो च कटाक्षेण स्कन्दतुस्तावुभावपि।
निमेः शापादथोत्क्रम्य स्वदेहान्मुनिसत्तम ३३

वसिष्ठ मित्रावरुणात्मजोऽसीत्यथोचुरागत्य हि विश्वदेवाः ॥
रेतस्त्रिभागं कमलेऽचरत्तद्।
वसिष्ठ एवं म्तु पितामहोक्तेः ३४

त्रिधा समभवद्रे तः कमलेऽथ स्थले जले।
अरविन्दे वसिष्ठस्तु जातः स मुनिसत्तमः।
स्थले त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः ३५

स तत्र जातो मतिमान् वसिष्ठः।
कुम्भे त्वगस्त्यः सलिलेऽथ मत्स्यः ॥
स्थानत्रये तत्पतितं समानं।
मित्रस्य यस्माद्वरुणस्य रेतः ३६

एतस्मिन्नेव काले तु गता सा उर्वशी दिवम्।
उपेत्य तानृषीन देवौ गतौ भूयः स्वमाश्रमम्।
यमावपि तु तप्येते पुनरुग्रं परं तपः ३७

तपसा प्राप्तुकामौ तौ परं ज्योतिः सनातनम्।
तपस्यन्तौ सुरश्रेष्ठौ ब्रह्माऽऽगत्येदमब्रवीत् ३८

मित्रावरुणकौ देवौ पुत्रवन्तौ महाद्युती।
सिद्धिर्भविष्यति यथा युवयोर्वैष्णवी पुनः ३९

स्वाधिकारेण स्थीयेतामधुना लोकसाक्षिकौ।
इत्युक्त्वान्तर्दधे ब्रह्मा तौ स्थितौ स्वाधिकारकौ ४०

एवं ते कथितं विप्र वसिष्ठस्य महात्मनः।
मित्रावरुणपुत्रत्वमगस्त्यस्य च धीमतः ४१

इदं पुंसीयमाख्यानं वारुण पापनाशनम्।
पुत्रकामास्तु ये केचिच्छृण्वन्तीदं शुचिव्रताः।
अचिरादेव पुत्रांस्ते लभन्ते नात्र संशयः ४२

यश्चैतत्पठते नित्यं हव्यकव्ये द्विजोत्तमः।
देवाश्च पितरस्तस्य तृप्ता यान्ति परं सुखम् ४३

यश्चैतच्छृणुयान्नित्यं प्रातरुत्थाय मानवः।
नन्दते स सुखं भूमौ विष्णुलोकं स गच्छति ४४

इत्येतदाख्यानमिदं मयेरितं।
पुरातनं वेदविदैरुदीरितम्।
पठिस्यते यस्तु शृणोति सर्वदा।
य याति शुद्धो हरिलोकमञ्जसा ४५

इति श्रीनरसिंहपुराणे पुंसवनाख्यानं नाम षष्ठोऽध्यायः ६


सप्तमोऽध्यायः।
श्रीभरद्वाज उवाच।
मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः।
एतदाख्याहि मे सूत त्वयैतत् सूचितं पुरा १

सूत उवाच।
इदं तु महदाख्यानं भरद्वाज शृणुष्व मे।
शृण्वन्तु ऋषयश्चेमे पुरावृत्तं ब्रवीम्यहम् २

कुरुक्षेत्रे महापुण्ये व्यासपीठे वराश्रमे।
तत्रासीनं मुनिवरं कृष्णद्वैपायनं मुनिम् ३

कृतस्नानं कृतजपं मुनिशिष्यैः समावृतम्।
वेदवेदार्थतत्त्वज्ञं सर्वशास्त्रविशारदम् ४

प्रणिपत्य यथान्यायं शुकः परमधार्मिकः।
इममेवार्थमुद्दिश्य तं पप्रच्छ कृताञ्जलिः ५

यमुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसन्निधौ।
नरसिंहस्य भक्तेन कृततीर्थनिवासिना ६

श्रीशुक उवाच।
मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः।
एतदाख्याहि मेतात श्रोतमिच्छामि तेऽधुना ७

व्यास उवाच।
मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः।
तथा ते कथयिष्यामि शृणु वत्स महामते ८

शृण्वन्तु मुनयश्चेमे कथ्यमानं मयाधुना।
मच्छिष्याश्चैव शृण्वन्तु महदाख्यानमुत्तमम् ९

भृगोः ख्यात्यां समुत्पन्नो मृकण्डुर्नाम वै सुतः।
सुमित्रा नाम वै पत्नी मृकण्डोस्तु महात्मनः १०

धर्मज्ञा धर्मनिरता पतिशुश्रूषणे रता।
तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ११

भृगुपौत्रो महाभागो बालत्वेऽपि महामतिः।
ववृघे वल्लभो बालः पित्रा तत्र कृतक्रियः १२

तस्मिन् वै जातमात्रे तु आगमी कश्चिदब्रवीत्।
वर्षे द्वादशमे पूर्णे मृत्युरस्य भविष्यति १३

श्रुत्वा तन्मातृपितरौ दुःखितौ तौ बभूवतुः।
विद्यमानहृदयौ तं निरीक्ष्य महामते १४

तथापि तत्पिता तस्य यत्नात् काले क्रियां ततः।
चकार सर्वा मेधावी उपनीतो गुरोर्गृहे १५

वेदानेवाभ्यसन्नास्ते गुरुशुश्रूषणोद्यतः।
स्वीकृत्य वेदशास्त्राणि स स पुनर्गृहमागतः १६

मातापितृन्नमस्कृत्य पादयोर्विनयान्वितः।
तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महामुनिः १७

तं निरीक्ष्य महात्मानं सत्प्रज्ञं च विचक्षणम्।
दुःखितौ तौ भृशं तत्र तन्मातापितरौ शुचा १८

तौ दृष्ट्वा दुःखमापन्नौ मार्कण्डेयो महामतिः।
उवाच वचनं तत्र किमर्थं दुःखमीदृशम् १९

सदैतत् कुरुषे मातस्तातेन सह धीमता।
वक्तुमर्हसि दुःखस्य कारणं मम पृच्छतः २०

इत्युक्ता तेन पुत्रेण माता तस्य महात्मनः।
कथयामास तत्सर्वमागमी यद्वाच ह २१

तच्छ्रुत्वासौ मुनिः प्राह मातरं पितरं पुनः।
पित्रा सार्धं त्वया मातर्न कार्यं दुःखमण्वपि २२

अपनेष्यामि भो मृत्युं तपसा नात्र संशयः।
यथा चाहं चिरायुः स्यां तथा कुर्यामहं तपः २३

इत्युक्त्वा तौ समाश्वास्य पितरौ वनमभ्यगात्।
वल्लीवटं नाम वनं नानाऋषिनिषेवितम् २४

तत्रासौ मुनिभिः सार्धमासीनं स्वपितामहम्।
भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः २५

अभिवाद्य यथान्यायं मुनींश्चैव स धार्मिकः।
कृताञ्जलिपुटो भूत्वा तस्थौ तत्पुरतो दमी २६

गतायुषं ततो दृष्ट्वा पौत्रं बालं महामतिः।
भृगुराह महाभागं मार्कण्डेयं तदा शिशुम् २७

किमागतोऽसि पुत्रात्र पितुस्ते कुशलं पुनः।
मातुश्च बान्धवानां च किमागमनकारणम् २८

इत्येवमुक्तो भृगुणा मार्कण्डेयो महामतिः।
उवाच सकलं तस्मै आदेशिवचनं तदा २९

पौत्रस्य वचनं श्रुत्वा भृगुस्तु पुनरब्रवीत्।
एवं सति महाबुद्धे किं त्वं कर्मं चिकीर्षसि ३०

मार्कण्डेय उवाच।
भूतापहारिणं मृत्युं जेतुमिच्छामि साम्प्रतम्।
शरणं त्वां प्रपन्नोऽस्मि तत्रोपायं वदस्व नः ३१

भृगुरुवाच।
नारायणमनाराध्य तपसा महता सुत।
को जेतुं शक्रुयान्मृत्युं तस्मात्तं तपसाचर्य ३२

तमनन्तमजं विष्णुमच्युतं पुरुषोत्तमम्।
भक्तप्रियं सुरश्रेष्ठं भक्त्या त्वं शरणं व्रज ३३

तमेव शरणं पूर्वं गतवान्नारदो मुनिः।
तपसा महता वत्स नारायणमनामयम् ३४

तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः।
जरां मृत्युं विजित्याशु दीर्घायुर्वर्धते सुखम् ३५

तमृते पुण्डरीकाक्षं नारसिंहं जनार्दनम्।
कः कुर्यान्मानवो वत्स मृत्युसत्तानिवारणम् ३६

तमनन्तमजं विष्णुं कृष्णं जिष्णुं श्रियःपतिम्।
गोविन्दं गोपतिं देवं सततं शरणं व्रज ३७

नरसिंहं महादेवं यदि पूजयसे सदा।
वत्स जेतासि मृत्युं त्वं सततं नात्र संशयः ३८

व्यास उवाच।
उक्तः पितामहेनैवं भृगुणा पुनरब्रवीत्।
मार्कण्डेयो महातेजा विनयात् स्वपितामहम् ३९

मार्कण्डेय उवाच।
आराध्यः कथितस्तात विष्णुर्विश्वेश्वरः प्रभुः।
कथं कुत्र मया कार्यमच्युताराधनं गुरो।
येनासौ मम तुष्टस्तु मृत्युं सद्योऽपनेष्यति ४०

भृगुरुवाच।
तुङ्गभद्रे ति विख्याता या नदी सह्यपर्वते।
तत्र भद्र वटे वत्स त्वं प्रतिष्ठाप्य केशवम् ४१

आराधय जगन्नाथं गन्धपुष्पादिभिः क्रमात्।
हृदि कृत्वेन्द्रि यग्रामं मनः संयम्य तत्त्वतः ४२

हृत्पुण्डरीके देवेशं शङ्खचक्रगदाधरम्।
ध्यायन्नेकमना वत्स द्वादशाक्षरमभ्यसन् ४३

ॐ नमो भगवते वासुदेवाय।
इमं मन्त्रं हि जपतो देवदेवस्य शार्ङ्गिणः।
प्रीतो भवति विश्वात्मा मृत्युं येनापनेष्यति ४४

व्यास उवाच।
इत्युक्तस्तं प्रणम्याथ स जगाम तपोवनम् ४५

सह्यपादोद्भवायास्तु भद्रा यास्तटमुत्तमम्।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ४६

गुल्मवेणुलताकीर्णं नानामुनिजनाकुलम्।
तत्र विष्णुं प्रतिष्ठाप्य गन्धधूपादिभिः क्रमात् ४७

पूजयामास देवेशं मार्कण्डेयो महामुनिः।
पूजयित्वा हरिं तत्र तपस्तेपे सुदुष्करम् ४८

निराहारो मुनिस्तत्र वर्षमेकमतन्द्रि तः।
मात्रोत्काले त्वासन्ने दिने तत्र महामतिः ४९

स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम्।
हृदि कृत्वेन्द्रि यग्रामं विशुद्धेनान्तरात्मना ५०

आसनं स्वस्तिकं बद्ध्वा कृत्वासौ प्राणसंयमम्।
ॐकारोच्चारणाद्धीमान् हृत्पद्मं स विकासयन् ५१

तन्मध्ये रविसोमाग्निमण्डलानि यथाक्रमम्।
कल्पयित्वा हरेः पीठं तस्मिन् देशे सनातनम् ५२

पीताम्बरधरं कृष्णं शङ्खचक्रगदाधरम्।
भावपुष्पैः समभ्यर्च्य मनस्तस्मिन्निवेश्य च ५३

ब्रह्मरूपं हरिं ध्यायंस्ततो मन्त्रमुदीरयत्।
ॐ नमो भगवते वासुदेवाय ५४

व्यास उवाच।
इत्येवं ध्यायतस्तस्य मार्कण्डेयस्य धीमतः।
मनस्तत्रैव संलग्नं देवदेवे जगत्पतौ ५५

ततो यमाज्ञया तत्र आगता यमकिङ्कराः।
पाशहस्तास्तु तं नेतुं विष्णुदूतैस्तु ते हताः ५६

शलैः प्रहन्यमानास्तु द्विजं मुक्त्वा ययुस्तदा।
वयं निवर्त्य गच्छामो मृत्युरेवागमिष्यति ५७

विष्णुदूता ऊचुः।
यत्र नः स्वामिनो नाम लोकनाथस्य शार्ङ्गिणः।
को यमस्तत्र मृत्युर्वा कालः कलयतां वरः ५८

व्यास उवाच।
आगत्य स्वयमेवाह मृत्युः पार्श्व महात्मनः।
मार्कण्डेयस्य बभ्राम विष्णुकिङ्करशङ्कया ५९

तेऽप्युद्यम्याशु मुशलानायसान् विष्णुकिङ्कराः।
विष्ण्वाज्ञया हनिष्यामो मृत्युमद्येति संस्थिताः ६०

ततो विष्ण्वर्पितमना मार्कण्डेयो महामतिः।
तुष्टाव प्रणतो भूत्वा देवदेवं जनार्दनम् ६१

विष्णुनैवोदितं यत्तत्स्तोत्रं कण महात्मनः।
सुभाषितेन मनसा तेन तुष्टाव माधवम् ६२

मार्कण्डेय उवाच।
नारायणं सहस्राक्षं पद्मनाभं पुरातनम्।
प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ६३

गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम्।
केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ६४

वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रि यम्।
दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ६५

शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम्।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ६६

वाराहं वामनं विष्णुं नरसिंहं जनार्दनम्।
माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ६७

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम्।
लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ६८

भूतात्मानं महात्मानं जगद्योनिमयोनिजम्।
विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ६९

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम्।
महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ७०

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः।
अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ७१

इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ७२

मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम्।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ७३

य इदं पठते भक्त्या त्रिकालं नियतः शुचिः।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युत चेतसः ७४

हृत्पद्ममध्ये पुरुषं पुराणं।
नारायणं शाश्वतमादिदेवम्।
सञ्चिन्त्य सूर्यादपि राजमानं।
मृत्युं स योगी जितवांस्तदैव ७५

इति श्रीनरसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम सप्तमोऽध्यायः ७


अष्टमोऽध्यायः।
श्रीव्यास उवाच।
मृत्युश्च किङ्कराश्चैव विष्णुदूतैः प्रपीडिताः।
स्वराज्ञस्तेऽनु निर्वेशं गत्वा ते चुक्रुशुर्भृशम् १

मृत्युकिङ्करा ऊचुः।
शृणु राजन् वचोऽस्माकं तवाग्रे यद् ब्रवीमहे।
त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः २

ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तम।
तं ध्यायमानं कमपि देवमेकाग्रमानसम् ३

गन्तुं न शक्तास्तत्पार्श्व वयं सर्वे महामते।
यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः ४

वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः।
अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः ५

एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम्।
अशक्ता वयमेवात्र मृत्युना सह वै प्रभो ६

तद्ब्रवीहि महाभाग यद्ब्रह्म ब्राह्मणस्य तु।
देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम् ७

व्यास उवाच।
इत्युक्तः किङ्करैः सर्वैर्मृत्युना च महामते।
ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः ८

यम उवाच।
शृण्वन्तु किङ्कराः सर्वे मृत्युश्चान्ये च मे वचः।
सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः ९

भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः।
स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया १०

भृगुणोक्तेन मार्गेण स तेपे परमं तपः।
हरिमाराध्य मेधावी जपन् वै द्वादशाक्षरम् ११

एकाग्रेणैव मनसा ध्यायते हृदि केशवम्।
सततं योगयुक्तस्तु स मुनिस्तत्र किङ्कराः १२

हरिध्यानमहादीक्षाबलं तस्य महामुनेः।
नान्यद्वै प्राप्तकालस्य बलं पश्यामि किङ्कराः १३

हृदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले।
पश्यन्तं विष्णुभूतं नु को हि स्यात् केशवाश्रयम् १४

तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम्।
अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः १५

न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः।
भक्तां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः १६

नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत्।
युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम्।
समानेतुं कृतो यत्नः समीचीनं नं तत्कृतम् १७

नरसिंहं महादेवं ये नराः पर्युपासते।
तेषां पार्श्वे न गन्तव्यं युष्माभिर्मम शासनात् १८

श्रीव्यास उवाच।
स एवं किङ्करानुक्त्वा मृत्युं च पुरतः स्थितम्।
यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् १९

कृपया परया युक्तो विष्णुभक्त्या विशेषतः।
जनस्यानुग्रहार्थाय तेनोक्ताश्च गिरः शृणु २०

नरके पच्यमानस्य यमेन परिभाषितम्।
किं त्वया नार्चितोदेवः केशवः क्लेशनाशनः २१

उदकेनाप्यलामे तु द्र व्याणां पूजितः प्रभुः।
यो ददाति स्वकं लोकं स त्वया किं न पूजितः २२

नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः।
स्मरणान्मुक्तिदो नृणां स त्वया किं न पूजितः २३

इत्युक्त्वा नारकान् सर्वान् पुनराह स किङ्करान्।
वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः २४

नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः।
अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रतम् २५

तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम्।
शिक्षार्थ किङ्कराः सर्वे शृणुत प्रणता हरेः २६

हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः।
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् २७

पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम्।
त्वामहं शरणं प्राप्त इति यस्तं समुद्धरे २८

त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन।
इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् २९

व्यास उवाच।
इत्युदीरितमार्कर्ण्य हरिवाक्यं यमेन च।
नारकाः कृष्णकृष्णेति नारसिंहेति चुक्रुशुः ३०

यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः।
तथा तथा हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् ३१

नारका ऊचुः।
ॐ नमो भगवते तस्मै केशवाय महात्मन।
यन्नामकीर्त्तनात्सद्यो नरकाग्निः प्रशाम्यति ३२

भक्तप्रियाय देवाय रक्षाय हरये नमः।
लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ३३

अनन्तायाप्रमेयाय नरसिंहाय ते नमः।
नारायणाय गुरवे शङ्खचक्रगदाभृते ३४

वेदप्रियाय महते विक्रमाय नमो नमः।
वाराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ३५

नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः।
वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ३६

बलिबन्धनदक्षाय वेदपालाय ते नमः।
विष्णवे सुरनाथाय व्यापिने परमात्मने ३७

चतुर्भुजाय शुद्धाय शुद्धद्र व्याय ते नमः।
जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ३८

रामाय रावणान्ताय नमस्तुभ्यं महात्मने।
अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ३९

व्यास उवाच।
इति सङ्कीर्तिते विष्णौ नारकैर्भक्तिपूर्वकम्।
तदा सा नारकी पीडा गता तेषां महात्मनाम् ४०

कृष्णरूपधराः सर्वे दिव्यवस्त्रविभूषिताः।
दिव्यगन्धानुलिप्ताङ्गा दिव्याभरण भूषिताः ४१

तानारोप्य विमानेषु दिव्येषु हरिपूरुषाः।
तर्जयित्वा यमभटान् नीतास्ते केशवालयम् ४२

नारकेषु च सर्वेषु नीतेषु हरिपूरुषैः।
विष्णुलोकं यमो भूयो नमश्चक्रे तदा हरिम् ४३

यन्नामकीर्तनाद्याता नारकाः केशवालयम्।
तं नमामि सदा देवं नरसिंहमहं गुरुम् ४४

तस्य वै नरसिंहस्य विष्णोरमिततेजसः।
प्रणामंयेऽपि कुर्वन्ति तेभ्योऽपीह नमो नमः ४५

दृष्ट्वा प्रशान्तं नरकाग्निमुग्रं।
यन्त्रादि सर्व विपरीतमत्र ॥
पुनः स शिक्षार्थमथात्मदूतान्।
यमो हि वक्तुं कृतवान् मनः स्वयम् ४६

इति श्रीनरसिंहपुराणे यमगीता नामाष्टमोऽध्यायः ८


नवमोऽध्यायः।
श्रीव्यास उवाच।
स्वपुरुषमभिवीक्ष्य पाशहस्तं।
वदति यमः किल तस्य कर्णमूले ॥
परिहर मधुसूदनप्रपन्नान्।
प्रभुरहमन्यनृणां न वैष्णवानाम् १

अहममरगणार्चितेन धात्रा।
यम इति लोकहिताहिते नियुक्तः।
हरिगुरुविमुखान् प्रशास्मि मर्त्यान्।
हरिचरणप्रणतान्नमस्करोमि २

सुगतिमभिलषामि वासुदेवादहमपि भागवते स्थितान्तरात्मा।
मधुवधवशगोऽस्मि न स्वतन्त्रः।
प्रभवति संयमने ममापि कृष्णः ३

भगवति विमुखस्य नास्ति सिद्धिर्विषममृतं भवतीति नेदमस्ति ॥
वर्षशतमपीह पच्यमानं।
व्रजति न काञ्चनतामयः कदाचित् ४

नहि शशिकलुषच्छविः कदाचिद्।
विरमति नो रवितामुपैति चन्द्र ः! ॥
भगवति च हरावनन्यचेता।
भृशमलिनोऽपि विराजते मनुष्यः ५

महदपि सुविचार्य लोकतत्त्वं।
भगवदुपास्तिमृते न सिद्धिरस्ति ॥
सुरगुरुसुदृढप्रसाददौ तौ।
हरिचरणौ स्मरतापवर्गहेतोः ६

शुभमिदमुपलभ्य मानुषत्वं।
सुकृतशतेन वृथेन्द्रि यार्थहेतोः।
रमयति कुरुते न मोक्षमार्गं।
दहयति चन्दनमाशु भस्महेतोः ७

मुकुलितकरकुड्मलैः सुरेन्द्रै ः!।
सततनमस्कृतपादपङ्कजो यः ॥
अविहतगतये सनातनाय।
जगति जनिं हरते नमोऽग्रजाय ८

यमाष्टकमिदं पुण्यं पठते यः शृणोति वा।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ९

इतीदमुक्तं यमवाक्यमुत्तमं।
मयाधुना ते हरिभक्तिवर्द्धनम् ॥
पुनः प्रवक्ष्यामि पुरातनीं कथां।
भृगोस्तु पौत्रेण च या पुरा कृता १०

इति श्रीनरसिंहपुराणे नवमोऽध्यायः ९


दशमोऽध्यायः।
श्रीव्यास उवाच।
जित्वैवमात्मनो मृत्युं तपसा शंसितव्रतः।
स जगाम पितुर्गेहं मार्कण्डेयो महामतिः १

कृत्वा विवाहं धर्मेण भृगोर्वाक्यविशेषतः।
स वेदशिरसं पुत्रमुत्पाद्य च विधानतः २

इष्ट्वा यज्ञैस्तु देवेशं नारायणमनामयम्।
श्राद्धेन तु पितृनिष्ट्वा अन्नदानेन चातिथीन् ३

प्रयागमासाद्य पुनः स्नात्वा तीर्थे गरीयसि।
मार्कण्डेयो महातेजास्तेपे वटतले तपः ४

यस्य प्रसादेन पुरा जितवान् मृत्युमात्मनः।
तं देवं द्र ष्टुमिच्छन् यः स तेपे परमं तपः ५

वायुभक्षश्चिरं कालं तपसा शोषयंस्तनुम्।
एकदा तु महातेजा मार्कण्डेयो महामतिः ६

आराध्य माधवं देवं गन्धपुष्पादिभिः शुभैः।
अग्रे व्यग्रमनाः स्थित्वा हृदये तमनुस्मरन्।
शङ्खचक्रगदापाणिं तुष्टाव गरुडध्वजम् ७

मार्कण्डेय उवाच।
नरं नृसिंहं नरनाथमच्युतं।
प्रलम्बबाहुं कमलायतेक्षणम् ॥
क्षितीश्वरैरर्चितपादपङ्कजं।
नमामि विष्णुं पुरुषं पुरातनम् ८

जगत्पतिं क्षीरसमुद्र मन्द्रि रं।
तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम् ॥
श्रियःपतिं श्रीधरमीशमीश्वरं।
नमामि गोविन्दमनन्तवर्चसम् ९

अजं वरेण्यं जनदुःखनाशनं।
गुरुं पुराणं पुरुषोत्तमं प्रभुम् ॥
सहस्रसूर्यद्युतिमन्तमच्युतं।
नमामि भक्त्या हरिमाद्यमाधवम् १०

पुरस्कृतं पुण्यवतां परां गतिं।
क्षितीश्वरं लोकपतिं प्रजापतिम् ॥
परं पराणामपि कारणं हरिं।
नमामि लोकत्रयकर्मसाक्षिणम् ११

भोगे त्वनन्तस्य पयोदधौ सुरः।
पुरा हि शेते भगवाननादिकृत् ॥
क्षीरोदवीचीकणिकाम्बुनोक्षितं।
तं श्रीनिवासं प्रणतोऽस्मि केशवम् १२

यो नारसिंहं वपुरास्थितो महान्।
सुरो मुरारिर्मधुकैटभान्तकृत्।
समस्तलोकार्तिहरं हिरण्यकं।
नमामि विष्णुं सततं नमामि तम् १३

अनन्तमव्यक्तमतीन्द्रि यं विभुं।
स्वे स्वे हि रूपे स्वयमेव संस्थितम् ॥
योगेश्वरैरेव सदा नमस्कृतं।
नमामि भक्त्या सततं जनार्दनम् १४

आनन्दमेकं विरजं विदात्मकं।
वृन्दालयं योगिभिरेव पूजितम् ॥
अणोरणीयांसमवृद्धिमक्षयं।
नमामि भक्तप्रियमीश्वरं हरिम् १५

श्रीव्यास उवाच।
इति स्तोत्रावसाने तं वागुवाचाशरीरिणी।
मार्कण्डेयं महाभागं तीर्थेऽनुतपसि स्थितम् १६

किमर्थं क्लिश्यते ब्रह्मं स्त्वया यो नैव दृश्यते।
माधवः सर्वतीर्थेषु यावन्न स्नानमाचरेः १७

इत्युक्तः सर्वतीर्थेषु स्नात्वोवाच महामतिः।
कृत्वा कृत्वा सर्वतीर्थे स्नानं चैव कृतं भवेत्।
तद्वद त्वं मम प्रीत्या योऽसि सोऽसि नमोऽस्तु ते १८

वागुवाच।
स्तोत्रेणानेन विप्रेन्द्र स्तुहि नारायणं प्रभुम्।
नान्यथा सर्वतीर्थानां फलं प्राप्स्यसि सुव्रत १९

मार्कण्डेय उवाच।
तदेवाख्याहि भगवन् स्तोत्रं तीर्थफलप्रदम्।
येन जप्तेन सकलं तीर्थस्नानफलं लभेत् २०

वागुवाच।
जय जय देवदेव जय माधव केशव।
यय पद्मपलाशाक्ष जय गोविन्द गोपते २१

जय जय पद्मनाभ जय वैकुण्ठ वामन।
जय पद्म हृषीकेश जय दामोदराच्युत २२

जय पद्मेश्वरानन्त जय लोकगुरो जय।
जय शङ्खगदापाणे जय भूधरसूकर २३

जय यज्ञेश वाराह जय भूधर भूमिप।
जय योगेश योगज्ञ जय योगप्रवर्त्तक २४

जय योगप्रवर्त्तक जय धर्मप्रवर्त्तक।
कृतप्रिय जय जय यज्ञेश यज्ञाङ्ग जय २५

जय वन्दितसद्द्विज जय नारदसिद्धिद।
जय पुण्यवतां गेह जय वैदिकभाजन २६

जय जय चतुर्भुज जयदेव जय दैत्यभयावह।
जय सर्वज्ञ सर्वात्मन् जय शङ्कर शाश्वत २७

जय विष्णो महादेव जय नित्यमधोक्षज।
प्रसादं कुरु देवेश कर्शयाद्य स्वकां तनुम् २८

व्यास उवाच।
इत्येवं कीर्तिते तेन मार्कण्डेयेन धीमता।
प्रादुर्बभूव भगवान् पीतवासा जनार्दनः २९

शङ्खचक्रगदापाणिः सर्वाभरणभूषितः।
तेजसा द्योतयन् सर्वा दिशो विष्णुः सनातनः ३०

तं दृष्ट्वा सहसा भूमौ चिरप्रार्थितदर्शनम्।
प्रयातः शिरसा वश्यो भक्त्या स भृगुनन्दनः ३१

निपत्योत्पत्य च पुनः पुनः साङ्गं महामनाः।
प्रबद्धसम्पुटकरो गोविन्दं पुरतः स्तुवन् ३२

मार्कण्डेय उवाच।
नमोऽस्तु ते देवदेव महाचित्त महाकाय महाप्राज्ञ महादेव महाकीर्त्ते।
ब्रह्मेन्द्र चन्द्र रुद्रा र्चितपादयुगल श्रीपद्महस्त सम्मर्दितदैत्यदेह।
३३

अनन्तभोगशयनार्पितसर्वाङ्ग सनकसनन्दनसनत्कुमाराद्यैर्योगिभिर्नासाग्रन्यस्तलोचनैरनवरतमभिचिन्तितमोक्षतत्त्व । गन्धर्वविद्याधरयक्षकिन्नरकिम्पुरुषैरहरहोगीयमानदिव्ययशः ३४
नृसिंह नारायण पद्मनाभ।
गोविन्द गोवर्द्धनगुहानिवास योगीश्वर देवेश्वर जलेश्वर महेश्वर ३५

योगधर महामायाधर विद्याधर यशोधर कीर्तिधर त्रिगुणनिवास।
त्रितत्त्वधर त्रेताग्निधर ३६
त्रिवेदभाक् त्रिनिकेत त्रिसुपर्ण।
त्रिदण्डधर ३७
स्निग्धमेघाभार्चितद्युतिविराजित पीताम्बरधर।
किरीटकटककेयूरहारमणिरत्नांशुदीप्तिविद्योतितसर्वदिश ३८ कनकमणिकुण्डलमण्डितगण्डस्थल।
मधुसूदन विश्वमूर्ते ३९
लोकनाथ यज्ञेश्वर यज्ञप्रिय तेजोमय।
भक्तिप्रिय वासुदेव दुरितापहाराराध्य पुरुषोत्तम नमोऽस्तु ते ४०

व्यास उवाच।
इत्युदीरितमाकर्ण्य भगवांस्तु जनार्दनः।
देवदेवः प्रसन्नात्मा मार्कण्डेयमुवाच ह ४१

श्रीभगवानुवाच।
तुष्टोऽस्मि भवतो वत्स तपसा महता पुनः।
स्तोत्रैरपि महाबुद्धे नष्टपापोऽसि साम्प्रतम् ४२

वरं वरय विप्रेन्द्र वरदोऽहं तवाग्रतः।
नातप्ततपसा ब्रह्मन् द्र ष्टुं साध्योऽहमञ्जसा ४३

मार्कण्डेय उवाच।
कृतकृत्योऽस्मि देवेश साम्प्रतं तव दर्शनात्।
त्वद्भक्तिमचलामेकां मम देहि जगत्पते ४४

यदि प्रसन्नो भगवन् मम माधव श्रीपते।
चिरायुष्यं हृषीकेश येन त्वां चिरमर्चये ४५

श्रीभगवानुवाच।
मृत्युस्ते निर्जितः पूर्वे चिरायुस्त्वं च लब्धवान्।
भक्तिरस्त्वचला ते मे वैष्णवी मुक्तिदायिनी ४६

इदं तीर्थं महाभाग त्वन्नाम्ना ख्यातिमेष्यति।
पुनस्त्वं द्र क्ष्यसे मां वै क्षीराब्धौ योगशायिनम् ४७

व्यास उवाच।
इत्युक्त्वा पुण्डरीकाक्षस्तत्रैवान्तरधीयत।
मार्कण्डेयोऽपि धर्मात्मा चिन्तयन्मधुसूदनम् ४८

अर्चयन् देवदेवेशं जपन् शुद्धं नमन्नपि।
वेदशास्त्राणि पुण्यानि पुराणान्यखिलानि च ४९

मुनीनां भावयामास गाथाश्चैव तपोधनः।
इतिहासानि पुण्यानि पितृतत्त्वं च सत्तमः ५०

ततः कदाचित् पुरुषोत्तमोक्तं।
वचः स्मरन् शास्त्रविदां वरिष्ठः ॥
भ्रमन् समुद्रं स जगाम द्र ष्टुं।
हरिं सुरेशं मुनिरुग्रतेजाः ५१

श्रमेण युक्तश्चिरकालसम्भ्रमाद्।
भृगोः स पौत्रो हरिभक्तिमुद्वहन् ॥
क्षीराब्धिमासाद्य हरिं सुरेशं।
नागेन्द्र भोगे कृतनिद्र मैक्षत ५२

इति श्रीनरसिंहपुराणे मार्कण्डेयचरित्रे दशमोऽध्यायः १०


एकादशोऽध्यायः।
व्यास उवाच।
प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम्।
मार्कण्डेयोऽभितुष्टाव भोगपर्यङ्कशायिनम् १

मार्कण्डेय उवाच।
प्रसीद भगवन् विष्णो प्रसीद पुरुषोत्तम।
प्रसीद देवदेवेश प्रसीद गरुडध्वज २

प्रसीद विष्णो लक्ष्मीश प्रसीद धरणीधर।
प्रसीद लोकनाथाद्य प्रसीद परमेश्वर ३

प्रसीद सर्वदेवेश प्रसीद कमलेक्षण।
प्रसीद मन्दरधर प्रसीद मधुसूदन ४

प्रसीद सुभगाकान्त प्रसीदं भुवनाधिप।
प्रसीदाद्य महादेव प्रसीद मम केशव ५

जय कृष्ण जयाचिन्त्य जय विष्णो जयाव्यय।
जय विश्व जयाव्यक्त जय विष्णो नमोऽस्तुते ६

जय देव जयाजेय जय सत्य जयाक्षर।
जय काल जयेशान जय सर्व नमोऽस्तु ते ७

जय जज्ञपते नाथ जय विश्वपते विभो।
जय भूतपते नाथ जय सर्वपते विभो ८

जय विश्वपते नाथ जय दक्ष नमोऽस्तु ते।
जय पापहरानन्त जय जन्मजरापह ९

जय भद्रा तिभद्रे श जय भद्र नमोऽस्तु ते।
जय कामद काकुत्स्थ जय मानद माधव १०

जय शङ्कर देवेश जय श्रीश नमोऽस्तु ते।
जय कुङ्कुमरक्ताभ जय पङ्कजलोचन ११

जय चन्दनलिप्ताङ्ग जय राम नमोऽस्तु ते।
जय देव जगन्नाथ जय देवकिनन्दन १२

जय सर्वगुरो ज्ञेय जय शम्भो नमोऽस्तु ते।
जय सुन्दर पद्माभ जय सुन्दरिवल्लभ।
जय सुन्दरसर्वाङ्ग जय वन्द्य नमोऽस्तु ते १३

जय सर्वद सर्वेश जय शर्मद शाश्वत।
जय कामद भक्तानां प्रभविष्णो नमोऽस्तु ते १४

नमः कमलनाभाय नमः कमलमालिने।
लोकनाथ नमस्तेऽस्तु वीरभद्र नमोऽस्तु ते १५

नमस्त्रैलोक्यनाथाय चतुर्मूर्ते जगत्पते।
नमो देवाधिदेवाय नमो नारायणाय ते १६

नमस्ते वासुदेवाय नमस्ते पीतवाससे।
नमस्ते नरसिंहाय नमस्ते शार्ङ्गधारिणे १७

नमः कृष्णाय रामाय नमश्चक्रायुधाय च।
नमः शिवाय देवाय नमस्ते भुवनेश्वर १८

नमो वेदान्तवेद्याय नमोऽनन्ताय विष्णवे।
नमस्ते सकलाध्यक्ष नमस्ते श्रीधराच्युत १९

लोकाध्यक्ष जगत्पूज्य परमात्मन् नमोऽस्तु ते।
त्वं माता सर्वलोकानां त्वमेव जगतः पिता २०

त्वम्मार्तानां सुहृन्मित्रं प्रियस्त्वं प्रपितामहः।
त्वं गुरुस्त्वं गतिः साक्षी त्वं पतिस्त्वं परायणः २१

त्वं ध्रुवस्त्वं वषट्कर्ता त्वं हविस्त्वं हुताशनः।
त्वं शिवस्त्वं वसुर्धाता त्वं ब्रह्मा त्वं सुरेश्वरः २२

त्वं यमस्त्वं रविर्वायुस्त्वं जलं त्वं धनेश्वरः।
त्वं मनुस्त्वमहोरात्रं त्वं निशा त्वं निशाकरः।
त्वं धृतिस्त्वं भियः कान्तिस्त्वं क्षमा त्वं धराधरः २३

त्वं कर्ता जगतामीशस्त्वं हन्ता मधुसूदन।
त्वमेव गोप्ता सर्वस्य जगतस्त्वं चराचर २४

करणं कारणं कर्ता त्वमेव परमेश्वरः।
शङ्खचक्रगदापाणे भो समुद्धर माधव २५

प्रिय पद्मपलाशाक्ष शेषपर्यङ्कशायिनम्।
त्वामेव भक्त्या सततं नमामि पुरुषोत्तमम् २६

श्रीवत्साङ्कं जगद्बीजं श्यामलं कमलेक्षणम्।
नमामि ते वपुर्देव कलिकल्मषनाशनम् २७

लक्ष्मीधरमुदाराङ्गं दिव्यमालाविभूषितम्।
चारुपृष्ठं महाबाहुं चारुभूषणभूषितम् २८

पद्मनाभं विशालाक्षं पद्मपत्रनिमेक्षणम्।
दीर्घतुङ्गमहाघ्राणं नीलजीमूतसन्निभम् २९

दीर्घबाहुं सुगुप्ताङ्गं रत्नहारोज्ज्वलोरसम्।
सुभ्रूललाटमुकुटं स्निग्धदन्तं सुलोचनम् ३०

चारुबाहुं सुताम्रोष्ठं रत्नोज्ज्वलितकुण्डलम्।
वृत्तकण्ठं सुपीनांसं सरसं श्रीधरं हरिम् ३१

सुकुमारमजं नित्यं नीलकुञ्चितमूर्धजम्।
उन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ३२

हेमारविन्दवदनमिन्दिरायनमीश्वरम्।
सर्वलोकविधातारं सर्वपापहरं हरिम् ३३

सर्वलक्षणसम्पन्नं सर्वसत्त्वमनोरमम्।
विष्णुमच्युतमीशानमनन्तं पुरुषोत्तमम् ३४

नतोऽस्मि मनसा नित्यं नारायणमनामयम्।
वरदं कामदं कान्तमनन्तं सूनृतं शवम् ३५

नमामि शिरसा विष्णो सदा त्वां भक्तवत्सल।
अस्मिन्नेकार्णवे घोरे वायुस्कम्भितचञ्चले ३६

अनन्तभोगशयने सहस्रफणशोभिते।
विचित्रशयने रम्ये सेविते मन्दवायुना ३७

भुजपञ्जरसंसक्तकमलालयसेवितम्।
इह त्वां मनसा सर्वमिदानीं दृष्टवानहम् ३८

इदानीं तु सुदुःखार्तो मायया तव मोहितः।
एकोदके निरालम्बे नष्टस्थावरजङ्गमे ३९

शून्ये तमसि दुष्पारे दुःखपङ्क निरामये।
शीतातपजरारोगशोकतृष्णादिभिः सदा ४०

पीडितोऽस्मि भृशं तात सुचिरं कालमच्युत।
शोकमोहग्रहग्रस्तो विचरन् भवसागरे ४१

इहाद्य विधिना प्राप्तस्तव पादाब्जसन्निधौ।
एकार्णवे महाघोरे दुस्तरे दुःखपीडितः ४२

चिरभ्रमपरिश्रान्तस्त्वामद्य शरणं गतः।
प्रसीद सुमहामाय विष्णो राजीवलोचन ४३

विश्वयोने विशालाक्ष विश्वात्मन् विश्वसम्भव।
अनन्यशरणं प्राप्तमतोऽत्र कुलनन्दन ४४

त्राहि मां कृपया कृष्ण शरणागतमातुरम्।
नमस्ते पुण्डरीकाक्ष पुराणपुरुषोत्तम ४५

अञ्जनाभ हृषीकेश मायामय नमोऽस्तु ते।
मामुद्धर महाबाहो मग्ने संसारसागरे ४६

गह्वरे दुस्तरे दुःखक्लिष्टे क्लेशमहाग्रहैः।
अनाथं कृपणं दीनं पतितं भवसागरे।
मां समुद्धर गोविन्द वरदेश नमोऽस्तु ते ४७

नमस्त्रैलोक्यनाथाय हरये मूधराय च।
देवदेव नमस्तेऽस्तु श्रीवल्लभ नमोऽस्तु ते ४८

कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भवान्।
संसारार्णवमग्नानां प्रसीद मधुसूदन ४९

त्वामेकमाद्यं पुरुषं पुराणं।
जगत्पतिं कारणमच्युतं प्रभुम्।
जनार्दनं जन्मजरार्तिनाशनं।
सुरेश्वरं सुन्दरमिन्दिरापतिम् ५०

बृहद्भुजं श्यामलकोमलं शुभं।
वराननं वारिजपत्रनेत्रम् ॥
तरङ्गभङ्गायतकुन्तलं हरिं।
सुकान्तमीशं प्रणतोऽस्मि शाश्वतं ५१

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्त्वदर्पितम्।
तावेव केवलौ श्लाघ्यौ यौ त्वत्पूजाकरौ करौ ५२

जन्मान्तरसहस्रेषु यन्मया पातकं कृतम्।
तन्मे हर त्वं गोविन्द वासुदेवेति कीर्तनात् ५३

व्यास उवाच।
इति स्तुतस्ततो विष्णुर्मार्कण्डेयेन धीमता।
सन्तुष्टः प्राह विश्वात्मा तं मुनिं गरुडध्वजः ५४

श्रीभगवानुवाच।
प्रीतोऽस्मि तपसा विप्र स्तुत्या च भृगुनन्दन।
वरं वृणीष्व भद्रं ते प्रार्थितं दद्मि ते वरम् ५५

मार्कण्डेय उवाच।
त्वत्पादपद्मे देवेश भक्तिं मे देहि सर्वदा।
यदि तुष्टो ममाद्य त्वमन्यदेकं वृणोम्यहम् ५६

स्तोत्रेणानेन देवेश यस्त्वां स्तोष्यति नित्यशः।
स्वलोकवसतिं तस्य देहि देव जगत्पते ५७

दीर्घायुष्ट्वं तु यद्दत्तं त्वया मे तप्यतः पुरा।
तत्सर्वं सफलं जातमिदानीं तव दर्शनात् ५८

वस्तुमिच्छामि देवेश तव पादाब्जमर्चयन्।
अत्रैव भगवन्नित्यं जन्ममृत्युविवर्जितः ५९

श्रीभगवानुवाच।
मय्यस्तु ते भृगुश्रेष्ठ भक्तिरव्यभिचारिणी।
भक्त्या मुक्तिर्भवत्येव तव कालेन सत्तम ६०

यस्त्विदं पठते स्तोत्रं सायं प्रातस्तवेरितम्।
मयि भक्तिं दृढां कृत्वा मम लोके स मोदते ६१

यत्र यत्र भृगुश्रेष्ठ स्थितस्त्वं मां स्मरिष्यसि।
तत्र तत्र समेष्यामि दान्तो भक्तवशोऽस्मि भोः ६२

व्यास उवाच।
इत्युक्त्वा तं मुनिश्रेष्ठं मार्कण्डेयं स माधवः।
विरराम स सर्वत्र पश्यन् विष्णुं यतस्ततः ६३

इति ते कथितं विप्र चरितं तस्य धीमतः।
मार्कण्डेयस्य च मुनेस्तेनैवोक्तं पुरा मम ६४

ये विष्णुभक्त्या चरितं पुराणं।
भृगोस्तु पौत्रस्य पठन्ति नित्यम्।
ते मुक्तपापा नरसिंहलोके।
वसन्ति भक्तैरभिपूज्यमानाः ६५

इति श्रीनरसिंहपुराणे मार्कण्डेयचरितं नाम एकादशोऽध्यायः ११


द्वादशोऽध्यायः।
सूत उवाच।
श्रुत्वेमाममृतां पुण्यां सर्वपापप्रणाशिनीम्।
अवितृप्तः स धर्मात्मा शुको व्यासमभाषत १

श्रीशुक उवाच।
अहोऽतीव तपश्चर्या मार्कण्डेयस्य धीमतः।
येन दृष्टो हरिः साक्षाद्येन मृत्युः पराजितः २

न तृप्तिरस्ति मे तात श्रुत्वेमां वैष्णवीं कथाम्।
पुण्यां पापहरां तात तस्मादन्यत्तु मे वद ३

नराणां दृढचित्तानामकार्य नेह कुर्वताम्।
यत्पुण्यमृषिभिः प्रोक्तं तन्मे वद महामते ४

व्यास उवाच।
नराणां दृढचित्तानामिह लोके परत्र च।
पुण्यं यत्स्यान्मुनिश्रेष्ठ तन्मे निगदतः शृणु ५

अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
यम्या च सह संवादं यमस्य च महात्मनः ६

विवस्वानदितेः पुत्रस्तस्य पुत्रौ सुवर्चसौ।
जज्ञाते स यमश्चैव यमी चापि यवीयसी ७

तौ तत्र संविवर्द्धेते पितुर्भवन उत्तमे।
क्रीडमानौ स्वभावेन स्वच्छन्दगमनावुभौ ८

यमी यमं समासाद्य स्वसा भ्रातरमब्रवीत् ९

न भ्राता भगिनीं योग्यां कामयन्तीं च कामयेत्।
भ्रातृभूतेन किं तस्य स्वसुर्यो न पतिर्भवेत् १०

अभूत इव स ज्ञेयो न तु भूतः कथञ्चन।
अनाथां नाथमिच्छन्तीं स्वसारं यो न नाथति ११

काङ्क्षन्तीं भ्रातरं नाथं भर्तारं यस्तु नेच्छति।
भ्रातेति नोच्यते लोके स पुमान् मुनिसत्तमः १२

स्याद्वान्यतनया तस्य भार्या भवति किं तया।
ईक्षतस्तु स्वसा भ्रातुः कामेन परिदह्यते १३

यत्कार्यमहमिच्छामि त्वमेवेच्छ तदेव हि।
अन्यथाहं मरिष्यामि त्वामिच्छन्ती विचेतना १४

कामदुःखमसह्यं नु भ्रातः किं त्वं न चेच्छसि।
कामाग्निना भृशं तप्ता प्रलीयाम्यङ्ग मा चिरम् १५

कामार्तायाः स्त्रियाः कान्त वशगोभव मा चिरम्।
स्वेन कायेन मे कायं संयोजयितुमर्हसि १६

यम उवाच।
किमिदं लोकविद्विष्टं धर्म भगिनि भाषसे।
अकार्यमिह कः कुर्यात् पुमान् भद्रे सुचेतनः १७

न ते संयोजयिष्यामि कायं कायेन भामिनि।
न भ्राता मदनार्तायाः स्वसुः कामं प्रयच्छति १८

महापातकमित्याहुः स्वसारं योऽधिगच्छति।
पशूनामेष धर्मः स्यात्तिर्यग्योनिवतां शुभे १९

यम्युवाच।
एकस्थाने यथा पूर्व संयोगो नौ न दुष्यति।
मातृगर्भे तथैवायं संयोगो नौ न दुष्यति २०

किं भ्रातरप्यनाथां त्वं मा नेच्छसि शोभनम्।
स्वसारं निरृती रक्षः सङ्गच्छति च नित्यशः २१

यम उवाच।
स्वयम्भुवापि निन्द्येत लोकवृत्तं जुगुप्सितम्।
प्रधानपुरुषाचीर्णं लोकोऽयमनुवर्तते २२

तस्मादनिन्दितं धर्मं प्रधानपुरुषश्चरेत्।
निन्दितं वर्जयेद्यत्नादेतद्धर्मस्य लक्षणम् २३

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते २४

अतिपापमहं मन्ये सुभगे वचनं तव।
विरुद्धं सर्वधर्मेषु लोकेषु च विशेषतः २५

मत्तोऽन्यो यो भवेद्यो वै विशिष्टो रूपशीलतः।
तेन सार्धं प्रमोदस्व न ते भर्ता भवाम्यहम् २६

नाहं स्पृशामि तन्वा ते तनुं भद्रे दृढव्रतः।
मुनयः पापमाहुस्तं यः स्वसारं निगृह्णति २७

यम्युवाच।
दुर्लभं चैव पश्यामि लोके रूपमिहेदृशम्।
यत्र रूपं वयश्चैव पृथिव्यां क्व प्रतिष्ठितम् २८

न विजानामि ते चित्तं कुत एतत्प्रतिष्ठितम्।
आत्मरूपगुणोपेतां न कामयसि मोहिताम् २९

लतेव पादपे लग्ना कामं त्वच्छरणं गता।
बाहुभ्यां सम्परिष्वज्य निवसामि शुचिस्मिता ३०

यम उवाच।
अन्यं श्रयस्व सुश्रोणि देवं देव्यसितेक्षणे।
यस्तु ते काममोहेन चेतसा विभ्रमं गतः।
तस्य देवस्य देवी त्वं भवेथा वरवर्णिनि ३१

ईप्सितां सर्वभूतानां वर्या शंसन्ति मानवाः।
सुभद्रा ं! चारुसर्वाङ्गीं संस्कृतां परिचक्षते ३२

तत्कृतेऽपि सुविद्वांसो न करिष्यन्ति दूषणम्।
परितापं महाप्राज्ञे न करिष्ये दृढव्रतः ३३

चित्तं मे निर्मलं भद्रे विष्णौ रुद्रे च संस्थितम्।
अतः पापं नु नेच्छामि धर्मचित्तो दृढव्रतः ३४

व्यास उवाच।
असकृत् प्रोच्यमानोऽपि तया चैवं दृढव्रतः।
कृतवान्न यमः कार्यं तेन देवत्वमाप्तवान् ३५

नाराणां दृढचित्तानामेवं पापमकुर्वताम्।
अनन्तं फलमित्याहुस्तेषां स्वर्गफलं भवेत् ३६

एतत्तु यम्युपाख्यानं पूर्ववृत्तं सनातनम्।
सर्वपापहरं पुण्यं श्रोतव्यमनसूयया ३७

यश्चैतत्पठते नित्यं हव्यकव्येषु ब्राह्मणः।
सन्तृप्ताः पितरस्तस्य न विशन्ति यमालयम् ३८

यश्चैतत् पठते नित्यं पितृणामनृणो भवेत्।
वैवस्वतीभ्यस्तीव्राभ्यो यातनाभ्यः प्रमुच्यते ३९

पुत्रैतदाख्यानमनुत्तमं मया।
तवोदितं वेदपदार्थनिश्चितम्।
पुरातनं पापहरं सदा नृणां।
किमन्यदद्यैव वदामि शंस मे ४०

इति श्रीनरसिंहपुराणे यमीयसंवादो नाम द्वादशोऽध्यायः १२


त्रयोदशोऽध्यायः।
श्रीशुक उवाच।
विचित्रेयं कथा तात वैदिकी मे त्वयेरिता।
अन्याः पुण्याश्च मे ब्रूहि कथाः पापप्रणाशिनीः १

अहं ते कथयिष्यामि पुरावृत्तमनुत्तमम्।
पतिव्रतायाः संवादं कस्यचिद्ब्रह्मचारिणः २

कश्यपो नीतिमान्नाम ब्राह्मणो वेदपारगः।
सर्वशास्त्रार्थतत्त्वज्ञो व्याख्याने परिनिष्ठितः ३

स्वधर्मकार्यनिरतः परधर्मपराङ् मुखः।
ऋतुकालाभिगामी च अग्निहोत्रपरायणः ४

सायम्प्रातर्महाभाग हुत्वाग्निं तर्पयन् द्विजान्।
अतिथीनागतान् गेहं नरसिंहं च पूजयत् ५

तस्य पत्नो महाभागा सावित्री नाम नामतः।
पतिव्रता महाभागा पत्युः प्रियहिते रता ६

भर्तुः शुश्रूषणेनैव दीर्घकालमनिन्दिता।
परोक्षज्ञानमापन्ना कल्याणी गुणसम्मता ७

तया सह स धर्मात्मा मध्यदेशे महामतिः।
नन्दिग्रामे वसन् धीमान् स्वानुष्ठानपरायणः ८

अथ कौशलिको विप्रो यज्ञशर्मा महामतिः।
तस्य भार्याभवत् साध्वी रोहिणी नाम नामतः ९

सर्वलक्षणसम्पन्ना पतिशुश्रूषणे रता।
सा प्रसूता सुतं त्वेकं तस्माद्भर्तुरनिन्दिता १०

स यायावरवृत्तिस्तु पुत्रे जाते विचक्षणः।
जातकर्म तदा चक्रे स्नात्वा पुत्रस्य मन्त्रतः ११

द्वादशेऽहनि तस्यैव देवशर्मेति बुद्धिमान्।
पुण्याहं वाचयित्वा तु नाम चक्रे यथाविधि १२

उपनिस्क्रमणं चैव चतुर्थे मासि यत्नतः।
तथान्नप्राशनं षष्ठे मासि चक्रे यथाविधि १३

संवत्सरे ततः पूर्णे चूडाकर्म च धर्मवित्।
कृत्वा गर्भाष्टमे वर्षे व्रतबन्धं चकार सः १४

सोपनीतो यथान्यायं पित्रा वेदमधीतवान्।
स्वीकृते त्वेकवेदे तु पिता स्वर्लोकमास्थितः १५

मात्रा सहास दुःखी स पितर्युपरते सुतः।
धैयमास्थाय मेधावी साधुभिः प्रेरितः पुनः १६

प्रेतकार्याणि कृत्वा तु देवशर्मा गतः सुतः।
गङ्गादिषु सुतीर्थेषु स्नानं कृत्वा यथाविधि १७

तमेव प्राप्तवान् ग्रामं यत्रास्ते सा पतिव्रता।
सम्प्राप्य विश्रुतः सोऽथ ब्रह्मचारी महामते १८

भिक्षाटनं तु कृत्वासौ जपन् वेदमतन्द्रि तः।
कुर्वन्नेवाग्निकार्य तु नन्दिग्रामे च तस्थिवान् १९

मृते भर्तरि तन्माता पुत्रे प्रव्रजिते तु सा।
दुःखाद्दुःखमनुप्राप्ता नियतं रक्षकं विना २०

अथ स्नात्वा नु नद्यां वै ब्रह्मचारी स्वकर्पटम्।
क्षितौ प्रसार्य शोषार्थं जपन्नासीत वाग्यतः २१

काको बलाका तद्वस्त्रं परिगृह्याशु जग्मतुः।
तौ दृष्ट्वा भर्त्सयामास देवशर्मा ततो द्विजः २२

विष्ठामुत्सृज्य वस्त्रे तु जग्मतुस्तस्य भर्त्सनात्।
रोषेण वीक्षयामास खे यान्तौ पक्षिणौ तु सः २३

तद्रो षवह्निना दग्धौ भूम्यां निपतितौ खगौ।
स दृष्ट्वा तौ क्षितिं यातौ पक्षिणौ विस्मयं गतः २४

तपसा न मया कश्चित् सदशोऽस्ति महीतले।
इति मत्वा गतो भिक्षामटितुं ग्राममञ्जसा २५

अटन् ब्राह्मणगेहेषु ब्रह्मचारी तपःस्मयी।
प्रविष्टस्तद्गृहं वत्स गृहे यत्र पतिव्रता २६

तं दृष्ट्वा वाच्यमानापि तेन भिक्षां पविव्रता।
वाग्यता पूर्व विज्ञाय भर्तुः कृत्वानुशासनम् २७

क्षालयामास तत्पादौ भूय उष्णेन वारिणां।
आश्वास्य स्वपतिं सा तु भिक्षां दातुं प्रचक्रमे २८

ततः क्रोधेन रक्ताक्षो ब्रह्मचारी पतिव्रताम्।
दग्धुकामस्तपोवीर्यात् पुनः पुनरुदैक्षत।
सावित्री तु निरीक्ष्यैवं हसन्ती सा तमब्रवीत् २९

न काको न बलाकाहं त्वत्क्रोधेन तु यौ मृतौ।
नदीतीरेऽद्य कोपात्मन भिक्षां मत्तोयदीच्छसि ३०

तयैवमुक्तः सावित्र्! या भिक्षामादाय सोऽग्रतः।
चिन्तयन् मनसा तस्याः शक्तिं दूरार्थवेदिनीम् ३१

एत्याश्रमे मठे स्थाप्य भिक्षापात्रं प्रयत्नतः।
पतिव्रतायां भुक्तायां गृहस्थे निर्गते पतौ ३२

पुनरागम्य तद्गेहं तामुवाच पतिव्रताम्।
ब्रह्मचार्युवाच।
प्रब्रूह्येतन्महाभागे पृच्छतो मे यथार्थतः ३३

विप्रकृष्टार्थविज्ञानं कथमाशु तवाभवत्।
इत्युक्ता तेन सा साध्वी सावित्री तु पविव्रता ३४

तं ब्रह्मचारिणं प्राह पृच्छन्तं गृहमेत्य वै।
शृणुष्वावहितो ब्रह्मन् यन्मां त्वं परिपृच्छसि ३५

तत्तेऽहं सम्प्रवक्ष्यामि स्वधर्मपरिबृंहितम्।
स्त्रीणां तु पतिशुश्रूषा धर्म एष परिस्थितः ३६

तमेवाहं सदा कुर्या नान्यमस्मि महामते।
दिवारात्रमसन्दिग्धं श्रद्धया परितोषणम् ३७

कुर्वन्त्या मम सम्भूतं विप्रकृष्टार्थदर्शनम्।
अन्यच्च ते प्रवक्ष्यामि निबोध त्वं यदीच्छसि ३८

पिता यायावरः शुद्धस्तस्माद्वेदमधीत्य वै।
मृते पितरि कृत्वा तु प्रेतकार्यमिहागतः ३९

उत्सृज्य मातरं द्र ष्टुं वृद्धां दीनां तपस्विनीम्।
अनाथां विधवामत्र नित्यं स्वोदरपोषकः ४०

यया गर्भे धृतः पूर्वं पालितो लालितस्तथा।
तां त्यक्त्वा विपिने धर्म चरन् विप्र न लज्जसे ४१

यया तव कृतं ब्रह्मन् बाल्ये मलनिकृन्तनम्।
दुःखितां तां गृहे त्यक्त्वा किं भवेद्विपिनेऽटतः ४२

मातृदुःखेन ते वक्त्रं पूतिगन्धमिदं भवेत्।
पित्रैव संस्कृतो यस्मात् तस्माच्छक्तिरभूदियम् ४३

पक्षी दग्धः सुदुर्बुद्धे पापात्मन् साम्प्रतं वृथा।
वृथा स्नानं वृथा तीर्थं वृथा जप्तं वृथा हुतम् ४४

स जीवति वृथा ब्रह्मन् यस्य माता सुदुःखिता।
यो रक्षेत् सततं भक्त्या मातरं मातृवत्सलः ४५

तस्येहानुष्ठितं सर्वं फलं चामुत्र चेह हि।
मातुश्च वचनं ब्रह्मन् पालितं यैर्नरोत्तमैः ४६

ते मान्यास्ते नमस्कार्या इह लोके परत्र च।
अतस्त्वं तत्र गत्वाद्य यत्र माता व्यवस्थिता ४७

तां त्वं रक्षय जीवन्तीं तद्र क्षा ते परं तपः।
क्रोधं परित्यजैनं त्वं दृष्टादृष्टविघातकम् ४८

तयोः कुरु वधे शुद्धिं पक्षिणोरात्मशुद्धये।
याथातथ्येन कथितमेतत्सर्वं मया तव ४९

अब्रह्मचारिन् कुरुष्व त्वं यदोच्छसि सतां गतिम्।
इत्युक्त्वा विररामाथ द्विजपुत्रं पतिव्रता ५०

सोऽपि तामाह भूयोऽपि सावित्रीं तु क्षमापयन्।
अज्ञानात्कृतपापस्य क्षमस्व वरवर्णिनि ५१

मया तवाहितं यच्च कृतं क्रोधनिरीक्षणम्।
तत् क्षमस्व महाभागे हितमुक्तं पतिव्रते ५२

यत्र गत्वा मया यानि कर्माणि तु शुभव्रते।
कार्याणि तानि मे ब्रूहि यथा मे सुगतिर्भवेत् ५३

तेनैवमुक्ता साप्याह तं पृच्छन्तं पतिव्रता।
यानि कार्याणि वक्ष्यामि त्वया कर्माणि मे शृणु ५४

पोष्या माता त्वया तत्र निश्चयं भैक्षवृत्तिना।
अत्र वा तत्र वा ब्रह्मन् प्रायश्चित्तं च पक्षिणोः ५५

यज्ञशर्मसुता कन्या भार्या तव भविष्यति।
तां गृह्णीष्व च धर्मेण गते त्वयि स दास्यति ५६

पुत्रस्ते भविता तस्यामेकः सन्ततिवर्धनः।
यायावरधनाद्वृत्तिः पितृवत्ते भविष्यति ५७

पुनर्मृतायां भार्यायां भविता त्वं त्रिदण्डकः।
स यत्याश्रमधर्मेण यथोत्क्यानुष्ठितेन च।
नरसिंहप्रसादेन वैष्णवं पदमाप्स्यसि ५८

भाव्यमेतत्तु कथितं मया तव हि पृच्छतः।
मन्यसे नानृतं त्वेतत् कुरु सर्वं हि मे वचः ५९

ब्राह्मण उवाच।
गच्छामि मातृरक्षार्थमद्यैवाहं पतिव्रते।
करिष्ये त्वद्वचः सर्वं तत्र गत्वा शुभेक्षणे ६०

इत्युक्त्वा गतवान् ब्रह्मन् देवशर्मा ततस्त्वरन्।
संरक्ष्य मातरं यत्नात् क्रोधमोहविवर्जितः ६१

कृत्वा विवाहमुत्पाद्य पुत्रं वंशकरं शुभम्।
मृतभार्यश्च सन्न्यस्य समलोष्टाश्मकाञ्चनः।
नरसिंहप्रसादेन परां सिद्धिमवाप्तवान् ६२

पतिव्रताशक्तिरियं तवेरिता।
धर्मश्च मातुः परिरक्षणं परम् ॥
संसारवृक्षं च हिहत्य बन्धनं।
छित्त्वा च विष्णोः पदमेति मानवः ६३

इति श्रीनरसिंहपुराणे ब्रह्मचारिसवादो नाम।
त्रयोदशोऽध्यायः १३


चतुर्दशोऽध्यायः।
व्यास उवाच।
शृणु वत्स महाबुद्धे शिष्याश्चैतां परां कथाम्।
मयोच्यमानां शृण्वन्तु सर्वपापप्रणाशिनीम् १

पुरा द्विजवरः कश्चिद्वेदशास्त्रविशारदः।
मृतभार्यो गतस्तीर्थं चक्रे स्नानं यथाविधि २

तपः सुतप्तं विजने निःस्पृहो दारकर्मणि।
भिक्षाहारः प्रवसितो जपस्नानपरायणः ३

स्नात्वा स गङ्गां यमुनां सरस्वतीं।
पुण्यां वितस्तामथ गोमतीं च ॥
गयां समासाद्य पितृन् पितामहान्।
सन्तर्पयन् सन् गतवान् महेन्द्र म् ४

तत्रापि कुण्डेषु गिरौ महामतिः।
स्नात्वा नु दृष्ट्वा भृगुनन्दनोत्तमम् ॥
कृत्वा पितृभ्यस्तु तथैव तृप्तिं।
व्रजन् वनं पापहरं प्रविष्टः ५

धारां पतन्तीं महतीं शिलोच्चयात्।
सन्धार्य भक्त्या त्वनु नारसिंहे ॥
शिरस्यशेषाधविनाशिनीं तदा।
विशुद्धदेहः स बभूव विप्रः ६

विन्ध्याचले सक्तमनन्तमच्युतं।
भक्तैर्मुनीन्द्रै रपि पूजितं सदा।
आराध्य पुष्पैर्गिरिसम्भवै शुभैस्तत्रैव सिद्धिं त्वभिकाङ्क्ष्यसंस्थितः ७

स नारसिंहो बहुकालपूजया।
तुष्टः सुसिद्रा गतमाह भक्तम्।
अनाश्रमित्वं गृहभङ्गकारणः।
ह्यतो गृहणाश्रममुत्तमं द्विज ८

अनाश्रमीति द्विजवेदपारगानपि त्वहं नानुगृह्णामि चात्र ॥
तथापि निष्ठां तव वीक्ष्य सत्तम।
त्वयि प्रसन्नेन मयेत्युदीरितम् ९

तेनैवमुक्तः परमेश्वरेण।
द्विजोऽपि बुद्ध्या प्रविचिन्त्य वाक्यम् ॥
हरेरलङ्घ्यं नरसिंहमूर्तेर्बाधं च कृत्वा स यतिर्बभूव १०

त्रिदण्डवृक्षाक्षपवित्रपाणिराप्लुत्य तोये त्वघहारिणि स्थितः।
जपन् सदा मन्त्रमपास्तदोषं।
सावित्र्! यमीशं हृदये स्मरन् हरिम् ११

यथाकथञ्चित् प्रतिलभ्य शाकं।
भैक्ष्याभितुष्टो वनवासवासी।
अभ्यर्च्य विष्णुं नरसिंहमूर्ति।
ध्यात्वा च नित्यं हृदि शुद्धमाद्यम् १२

विविक्तदेशे विपुले कुशासने।
निवेश्य सर्वं हृदयेऽस्य सर्वम्।
बाह्यं समस्तं गुणमिन्द्रि याणां।
विलीय भेदं भगवत्यनन्ते १३

विज्ञेयमानन्दमजं विशालं।
सत्यात्मकं क्षेमपदं वरेण्यम्।
सञ्चिन्त्य तस्मिन् प्रविहाय देहं।
बभूव मुक्तः परमात्मरूपी १४

इमां कथां मुक्तिपरां यथोक्तां।
पठन्ति ये नारसिंहं स्मरन्तः ॥
प्रयागतीर्थप्लवने तु यत्फलं।
तत् प्राप्य ते यान्ति हरेः पदं महत् १५

इत्येतदुक्तं तव पुत्र पृच्छतः।
पुरातनं पुण्यतमं पवित्रकम्।
संसारवृक्षस्य विनाशनं परं।
पुनः कमिच्छस्यभिवाञ्छितं वद १६

इति श्रीनरसिंहपुराणे चतुर्दशोऽध्यायः १४


पञ्चदशोऽध्यायः।
श्रीशुक उवाच।
श्रोतुमिच्छाम्यहं तात साम्प्रतं मुनिभिः सह।
संसारवृक्षं सकलं येनेदं परिवर्तते १

वक्तुमर्हसि मे तात त्वयैतत् सूचितं पुरा।
नान्यो वेत्ति महाभाग संसारोच्चारलक्षणम् २

सूत उवाच।
सपुत्रेणैवमुक्तस्तु शिष्याणां मध्यगेन च।
कृष्णद्वैपायनः प्राह संसारतरुलक्षणम् ३

व्यास उवाच।
शृण्वन्तु शिष्याः सकला वत्स त्वं शृणु भावितः।
संसारवृक्षं वक्ष्यामि येन चेदं समावृतम् ४

अव्यक्तमूलप्रभवस्तस्मादग्रे तथोत्थितः।
बुद्धिस्कन्धमयश्चैव इन्द्रि याङ्करकोटरः ५

महाभूतविशाखश्च विशेषैः पत्रशाखवान्।
धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः ६

आजीव्यः सर्वभूतानां ब्रह्म वृक्षः सनातनः।
एतद्ब्रह्म परं चैव ब्रह्म वृक्षस्य तस्य तत् ७

इत्येवं कथितं वत्स संसारवृक्षलक्षणम्।
वृक्षमेनं समारूढा मोहमायान्ति देहिनः ८

संसरन्तीह सततं सुखदुःखसमन्विताः।
प्रायेण प्राकृता मर्त्या ब्रह्मज्ञानपराङ्मुखाः ९

छित्त्वैनं कृतिनो यान्ति नो यान्ति ब्रह्मज्ञानिनः।
कर्मक्रिये महाप्राज्ञ नैनं छिन्दन्ति दुष्कृताः १०

एनं छित्त्वा च भित्त्वा च ज्ञानेन परमासिना।
ततोऽमरत्वं ते यान्ति यस्मान्नावर्तते पुनः ११

देहदारमयैः पाशैर्दृढं बद्धोऽपि मुच्यते।
ज्ञानमेव परं पुंसां श्रेयसामभिवाञ्छितम्।
तोषणं नरसिंहस्य ज्ञानहीनः पशुः पुमान् १२

आहारनिद्रा भयमैथुनानि।
समानमेतत्पशुभिर्नराणाम्।
ज्ञानं नराणामधिकं हि लोके।
ज्ञानेन हीनाः पशुभिः समानाः १३

इति श्रीनरसिंहपुराणे पञ्चदशोऽध्यायः १५


षोडशोऽध्यायः।
श्रीशुक उवाच।
संसारवृक्षमारुह्य द्वन्द्वपाशशतैर्दृढैः।
बध्यमानः सुतैश्वर्यैः पतितो योनिसागरे १

यः कामक्रोधलोभैस्तु विषयैः परिपीडितः।
बद्धः स्वकर्मभिर्गौणैः पुत्रदारैषणादिभिः २

स केन निस्तरत्याशु दुस्तरं भवसागरम्।
पृच्छामाख्याहि मे तात तस्य मुक्तिं कथं भवेत् ३

श्रीव्यास उवाच।
शृणु वत्स महाप्राज्ञ यज्ज्ञात्वा मुक्तिमाप्नुयात्।
तच्च वक्ष्यामि ते दिव्यं नारदेन श्रुतं पुरा ४

नरके रौरवे घोरे धर्मज्ञानविवर्जिताः।
स्वकर्मभिर्महादुःखं प्राप्ता यत्र यमालये ५

महापापकृतं घोरं सम्प्राप्ताः पापकुञ्जनाः।
आलोक्य नारदः शीघ्रं गत्वा यत्र त्रिलोचनः ६

गङ्गाधरं महादेवं शङ्करं शूलपाणिनम्।
प्रणम्य विधिवद्देवं नारदः परिपृच्छति ७

नारद उवाच।
यः संसारे महाद्वन्द्वैः कामभोगैः शुभाशुभैः।
शब्दादिविषयैर्बद्धः पीड्यमानः षडूर्मिभिः ८

कथं नु मुच्यते क्षिप्रं मृत्युसंसारसागरात्।
भगवन् ब्रूहि मे तत्त्वं श्रोतुमिच्छामि शङ्कर ९

तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः।
उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः १०

महेश्वर उवाच।
ज्ञानामृतं च गुह्यं च रहस्यमृषिसत्तम।
वक्ष्यामि शृणु दुःखघ्नं सर्वबन्धभ्यापहम् ११

तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम्।
चराचरं जगत्सर्वं प्रसुप्तं यस्य मापया १२

तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते।
स निस्तरति संसारं देवानामपि दुस्तरम् १३

भोगैश्वर्यमदोन्मत्तस्तत्त्वज्ञानपराङ्मुखः।
संसारसुमहापङ्के जीर्णा गौरिव मज्जति १४

यस्त्वात्मानं निबध्नाति कर्मभिः कोशकारवत्।
तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि १५

तस्मान्नारद सर्वेशं देवानां देवमव्ययम्।
आराघयेत्सदा सम्यग् ध्यायेद्विष्णुं समाहितः १६

यस्तं विस्वमनाद्यन्तमाद्यं स्वात्मनि संस्थितम्।
सर्वज्ञममलं विष्णुं सदा ध्यायन् विमुच्यते १७

निर्विकल्पं निराकाशं निष्प्रपञ्चं निरामयम्।
वासुदेवमजं विष्णुं सदा ध्यायन् विमुच्यते १८

निरञ्जनं परं शान्तमच्युतं भूतभावनम्।
देवगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते १९

सवपापविनिर्मुक्तमप्रमेयमलक्षणम्।
निर्वाणमनघं विष्णुं सदा ध्यायन् विमुच्यते २०

अमृतं परमानन्दं सर्वपापविवर्जितम्।
ब्रह्मण्यं शङ्करं विष्णुं सदा सङ्कीर्त्य मुच्यते २१

योगेश्वरं पुराणाख्यमशरीरं गुहाशयम्।
अमात्रमव्ययं विष्णुं सदा ध्यायन् विमुच्यते २२

शुभाशुभविनिर्मुक्तमूर्मिषट्कपरं विभुम्।
अचिन्त्यममलं विष्णुं सदा ध्यायन् विमुच्यते २३

सर्वद्वन्द्वविनिर्मुक्तं सर्वदुःखविवर्जितम्।
अप्रतर्क्यमजं विष्णुं सदा ध्यायन् विमुच्यते २४

अनामगोत्रमद्वैतं चतुर्थं परमं पदम्।
तं सर्वहृदगतं विष्णुं सदा ध्यायन् विमुच्यते २५

अरूपं सत्यसङ्कल्पं शुद्धमाकाशवत्परम्।
एकाग्रमनसा विष्णु सदा ध्यायन् विमुच्यते २६

सर्वात्मकं स्वभावस्थमात्मचैतन्यरूपकम्।
शुभ्रमेकाक्षअरं विष्णुं सदा ध्यायन् विमुच्यते २७

अनिर्वाच्यमविज्ञेयमक्षरादिमसम्भवम्।
एकं नूत्नं सदा विष्णुं सदा ध्यायन् विमुच्यते २८

विश्वाद्यं विश्वगोप्तारं विश्वादं सर्वकामदम्।
स्थानत्रयातिगं विष्णुं सदा ध्यायन् विमुच्यते २९

सर्वदुःखक्षयकरं सर्वशान्तिकरं हरिम्।
सर्वपापहरं विष्णुं सदा ध्यायन् विमुच्यते ३०

ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः।
योगिभिः सेवितं विष्णुं सदा ध्यायन् विमुच्यते ३१

विष्णो प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः।
विश्वेश्वरमजं विष्णुं कीर्तयन्नेव मुच्यते ३२

संसारबन्धनान्मुक्तिमिच्छन् काममशेषतः।
भक्त्यैव वरदं विष्णु सदा ध्यायन् विमुच्यते ३३

व्यास उवाच।
नारदेन पुरा पृष्ट एवं स वृषभध्वजः।
यदुवाच तदा तस्मै तन्मया कथितं तव ३४

तमेव सततं ध्याहिं निर्बीजं ब्रह्म केवलम्।
अवाप्स्यसि ध्रुवं तात शाश्वतं पदमव्ययम् ३५

श्रुत्वा सुरऋषिविष्णोः प्राधान्यमिदमीश्वरात्।
स विष्णुं सम्यगाराध्य परां सिद्धिमवाप्तवान् ३६

यश्चैनं पठते चैव नृसिंहकृतमानसः।
शतजन्मकृतं पापमपि तस्य प्रणश्यति ३७

विष्णोः स्तबमिदं पुण्यं महादेवेन कीर्तितम्।
प्रातः स्नात्वा पठेन्नित्यममृतत्वं स गच्छति ३८

ध्यायन्ति ये नित्यमनन्तमच्युतं।
हृत्पद्ममध्येष्वथ कीर्तयन्ति ये।
उपासकानां प्रमुमीश्वरं परं।
ते यान्ति सिद्धिं परमां तु वैष्णवीम् ३९

इति श्रीनरसिंहपुराणे विष्णोः स्तवराजनिरूपणे।
षोडशोऽध्यायः १६


सप्तदशोऽध्यायः।
श्रीशुक उवाच।
किं जपन् मुच्यते तात सततं विष्णुतत्परः।
संसारदुःखात् सर्वेषां हिताय वद मे पितः १

व्यास उवाच।
अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम्।
यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् २

हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम्।
एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः ३

एकान्ते निर्जनस्थाने विष्ण्वग्रे वा जलान्तिके।
जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै ४

अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम्।
छन्दश्च दैवी गायत्री परमात्मा च देवता ५

शुक्लवर्णं च ॐकारं नकारं रक्तमुच्यते।
मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते ६

राकारं कुङ्कुमाभं तु यकारं पीतमुच्यते।
णाकारमञ्जनाभं तु यकारं बहुवर्णकम् ७

ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः।
भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः।
वेदानां प्रणयेनैष सिद्धो मन्त्रः सनातनः ८

सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः।
एनष्टाक्षरं मन्त्रं जपन्नारायणं स्मरेत् ९

सन्ध्यावसाने सततं सर्वपापैः प्रमुच्यते।
एष एव परो मन्त्र एष एव परं तपः १०

एष एव परो मोक्ष एष स्वर्ग उदाहृतः।
सर्ववेदरहस्येभ्यः सार एष समुद्धृतः ११

विष्णुना वैष्णवानां हि हिताय मनुजां पुरा।
एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत् १२

स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये।
जपे दाने च होमे च गमने ध्यानपर्वसु १३

जपेन्नारायणं मन्त्रं कर्मपूर्वे परे तथा।
जपेत्सहस्रं नियुतं शुचिर्भूत्वा समाहितः १४

मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः।
स्नात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतम् १५

स गच्छेत् परमं देवं नारायणमनामयम्।
गन्धपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत् १६

महापातकयुक्तोऽपि मुच्यते नात्र संशयः।
हृदि कृत्वा हरिं देवं मन्त्रमेनं तु यो जपेत् १७

सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम्।
प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति १८

द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात्।
तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात् १९

चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात्।
पञ्चमेन तु लक्षेण निर्मलं ज्ञानमाप्नुयात् २०

तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः।
सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते २१

अष्टमेन तु लक्षेण निर्वाणमधिगच्छति।
स्वस्वधर्मममायुक्तं जपं कुर्याद् द्विजोत्तमः २२

एतत् सिद्धिकरं मन्त्रमष्टाक्षरमतन्द्रि तः।
दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः २३

जापिनं नोपसर्पन्ति चौरक्षुद्रा धयस्तथा।
एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः २४

जपेन्नारायणं मन्त्रमेतन्मृत्युभयापहम्।
मन्त्राणां परमो मन्त्रो देवतानां च दैवतम् २५

गुह्यानां परमं गुह्यमॐकाराद्यक्षराष्टकम्।
आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः २६

धर्मार्थकाममोक्षांश्च लभते च जपन्नरः।
एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् २७

एतत् सिद्धिकरं नृणां मन्त्ररूपं न संशयः।
ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः २८

एतदेव परं जपत्वा परां सिद्धिर्मितो गताः।
ज्ञात्वा यस्त्वात्मनः कालं शास्त्रान्तर विधानतः।
अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् २९

नारायणाय नम इत्ययमेव सत्यं।
संसारघोरविषसंहरणाय मन्त्रः।
शृण्वन्तु भव्यमतयो मुदितास्त्वरागा।
उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ३०

भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्व ब्रवीम्यहम्।
हे पुत्र शिष्याः शृणुत न मन्त्रोऽष्टाक्षरात्परः ३१

सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते।
वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः ३२

आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ३३

इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम्।
कथाश्च विविधाः प्रोक्ता मया भज जनार्दनम् ३४

अष्टाक्षरमिमं मन्त्रं सर्वदुःखविनाशनम्।
जपपुत्र महाबुद्धे यदि सिद्धिमभीप्ससि ३५

इदं स्तवं व्यासमुखात्तु निस्सृतं।
सन्ध्यात्रये ये पुरुषाः पठन्ति।
ते धौतपाण्डुरपटा इव राजहंसाः।
संसारसागरमपेतभयास्तरन्ति ३६

इति श्रीनरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम।
सप्तदशोऽध्यायः १७


अष्टादशोऽध्यायः।
सूत उवाच।
इति श्रुत्वा कथाः पुण्याः सर्वपापप्रणाशनीः।
नानाविघा मुनिश्रेष्ठाः कृष्णद्वैपायनात् पुनः १

शुकः पूर्व महाभागो भारद्वाजो महामते।
सिद्धैरन्यैश्च सहितो नारायणपरोऽभवत् २

एवं ते कथिता विप्र मार्कण्डेयादिकाः कथाः।
मया विचित्राः पापघ्न्यः किं भूयः श्रोतुमुच्छसि ३

भरद्वाज उवाच।
वस्वादीनां तथा प्रोक्ता मम सृष्टिस्त्वया पुरा।
अश्विनोर्मरुतां चैव नोक्तोत्पत्तिस्तु तां वद ५

सूत उवाच।
मरुतां विस्तरेणोक्ता वैष्णवाख्ये महामते।
पुराणे शक्तिपुत्रेण पुरोत्पत्तिश्च वायुना ५

अश्विनोर्देवयोश्चैव सृष्टिरुक्ता सुविस्तरात्।
सङ्क्षेपात्तव वक्ष्यामि सृष्टिमेतां शृणुष्व मे ६

दक्ष कन्यादितिः । अदितेरादित्यः पुत्रः । तस्मै त्वष्टा दुहितरं।
सञ्ज्ञां नाम कन्यां दत्तवान् ७
सोऽपि त्वाष्ट्रीं रूपवतीं मनोज्ञां प्राप्य।
तया सह रेमे । सा कतिपयात् कालात् स्वभर्तुरादित्यस्य तापमसहन्ती।
तितुर्गृहं जगाम ८
तामवलोक्य सुतां पितोवाच किं पुत्रि।
तव भर्त्ता सवित स्नेहात् त्वां रक्षत्युत परुष इति ९
एवं पितुर्वचनं।
श्रुत्वा सञ्ज्ञा तं प्रत्युवाच । दग्वाहं भर्तुः।
प्रचण्डतापादिति १०
एवं श्रुत्वा तामाह पिता।
गच्छ पुत्रि भर्तुर्गृहमिति ११
युवतीस्त्रीणां भर्तुः।
शुश्रूषगमेव वर्मः श्रेयान् । अहमपि कतिपयदिवसादागत्यादि-त्यस्योष्णतां।
जामातुरुद्धरिष्यामि १२
इत्युक्ता सा च पुनर्भर्तुर्गृहं प्राप्य।
कतिपयदिवसान्मनुं यमीं यमं चापत्यत्रयमादित्यात् प्रासूत ॥
पुनस्तदुष्णतामसहन्ती छायां भर्तुरपभोगाय।
स्वप्रज्ञाबलेनोत्पाद्य तत्र संस्थाप्य।
गत्वोत्तरकुरूनधिष्ठायाश्वी भूत्वा।
विचचार १३
आदि-त्योऽपि सञ्ज्ञेयमिति मत्वा तस्यां जायां।
पुनरपत्यत्रयमुत्पादयामास १४
मनुं शनैश्चरं तपतीं च ॥
स्वेष्वपत्येषु पक्षपातेन वर्ततीं छायां दृष्ट्वा यमः स्वपितरमाह।
नेयमस्मन्मातेति १५
पितापि तच्छ्रुत्वा भार्यां प्राह ॥
सर्वेष्वपत्येषु सममेव वर्ततामिति १६
पुनरपि स्वेष्वपत्येषु।
स्नेहात्प्रवर्तती छायां दृष्ट्वा यमो यमो च तां।
बहुविधमपीत्थमुवाच । आदित्यसन्निधानात्तूष्णीं बभूवतः १७ ततश्छाया तया शापं दत्तवती । यम त्वं प्रेतराजो भव यमि त्व यमुना नाम।
नदी भवेत् १८
ततः क्रोधादादित्योऽपि छायापुत्रयोः शाप दत्तवान् हे पुत्र।
शनैश्चर त्वं ग्रहो भव क्रूरदृष्टिर्मन्दगामी च पापग्रहस्त्वं च १९ पुत्रि तपती नाम नदी भवेति । अथादित्यो ध्यानमास्थाय सञ्ज्ञा क्व।
स्थितेति विचारयामास २०
स दृष्ट्वानुत्तरकुरुषु।
ध्यानचक्षुषाश्वीभूय विचरन्तीम् । स्वयं।
चाश्वरूपेण तत्र गत्वा तया सह सम्पर्कं कृतवान् २१
तस्यामेवादित्यादश्विनावुत्पन्नौ तयोरतिशयवपुषोः साक्षात् प्रजापतिरागत्य देवत्वं।
यज्ञभागत्वं मुख्यं च देवानां भिषजत्वं दत्त्वा जगाम । आदित्यश्चाश्वरूपं विहाय स्वभार्या सञ्ज्ञां त्वाष्ट्रीं स्वरूपधारिणीं नीत्वा स्वरूपमास्थाय दिवं जगाम २२
विश्वकर्मा चागत्य आदित्यं नामभिः।
स्तुत्वा तदतिशयोष्णतांशतामपशातयामास २३

एवं वः कथिता विप्रा अश्विनोत्पत्तिरुत्तमा।
पुण्या पवित्रा पापघ्नी भरद्वाज महामते २४

आदित्यपुत्रौ भिषजौ सुराणां।
दिव्येन रूपेण विराजमानौ।
श्रुत्वा तयोर्जन्म नरः पृथिव्यां।
भवेत् सुरूपो दिवि मोदते च २५

इति श्रीनरसिंहपुराणे अश्विनोरुत्पत्तिर्नाम अष्टादशोऽध्यायः १८


ऊनविशोऽध्यायः।
भरद्वाज उवाच।
यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा।
तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः १

सूत उवाच।
तानि मे शृणु नामानि यैः स्तुतो विश्वकर्मणा।
सविता तानि वक्ष्यामि सर्वपापहराणि ते २

आदित्यः सविता सूर्यः खगः पूषागभस्तिमान्।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ३

हिरण्यगर्भः कपिलस्तपनो भास्करो रविः।
अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ४

अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः।
आतपी मण्डली मृत्युः कपिलः सर्वतापनः ५

हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः।
अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ६

प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः।
यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ७

अमित्रहा शिवो हंसो नायकः प्रियदर्शनः।
शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ८

धर्मरश्मिः पतङ्गश्च विशालो विश्वसंस्तुतः।
दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ९

भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः।
प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः १०

आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः।
विमलो वीर्यवानीशो योगज्ञो योगभावनः ११

अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः।
धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् १२

तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः।
वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः १३

ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः।
महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः १४

एतैस्तु नामाभिः सूर्यः स्तुतस्तेन महात्मना।
उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः १५

भ्रमिमारोप्य मामत्र मण्डलं मम शातय।
त्वद्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् १६

इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज।
शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः १७

सञ्ज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत्।
त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च १८

वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ।
इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् १९

वरदो यदि मे देव वरमेतं प्रयच्छ मे।
एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः २०

तस्य पापक्षयं देव कुरु भक्तस्य भास्कर २१

तेनैवमुक्तो दिनकृत्तथेति।
त्वष्टारमुक्त्वा विरराम भास्करः।
सञ्ज्ञां विशङ्कां रविमण्डलस्थितां।
कृत्वा जगामाथ रविं प्रसाद्य २२

इति श्रीनरसिंहपुराणे एकोनविंशोऽध्यायः १९


विंशोऽध्यायः।
साम्प्रतं मारुतोत्पत्तिं वक्ष्यामि द्विजसत्तम।
पुरा देवासुरे युद्धे देवैरिन्द्रा दिभिर्दितेः १

पुत्राः पराभूता दितिश्च विनष्टपुत्रा महेन्द्र दर्पूरं पुत्रमिच्छन्ती।
कश्यपमृषिं स्वपतिमाराधयामास २
स च तपसा सन्तुष्टो गर्भाधानं चकार।
तस्याम् । पुनस्तामेवमुक्तवान् ३
यदि त्वं शुचिः सती शरच्छतमिमं गर्भं।
धारयिष्यसि ततश्च महेन्द्र दर्पयन्ता पुत्रो भविष्यतिं । इत्येवमुक्ता सा।
च तं गर्भं धारयामास ४
इन्द्रो ऽपि तज्ज्ञात्वा वृद्धब्राह्मणरूपेणागत्य।
दितिपार्श्वं स्थितवान् । किञ्चिदूनपूर्णे वर्षशते पादशौयमकृत्वा।
दितिः शयनमारूह्य निद्रा ं! गता ५
सोऽपि लब्धावसरो।
वज्रपाणिस्ततकुक्षिं प्रविश्य वज्रेण तं गर्भ।
सप्तधा चिच्छेद । सोऽपि तेन प्रच्छिद्यमानो रुरोद ६
मा रोदीरिति।
वदन्निन्द्र स्तान् सप्तधैकैकं चिच्छेद ७
सप्तधा ते सर्वे मरुतो।
यतो जातमात्रान्मा रोदीरित्युक्तवान् । महेन्द्र स्य महाया।
अमी मरुतो नाम देवा बभूवुः ८

एवं मुने सृष्टिरियं तवेरिता।
देवासुराणां नरनागरक्षसाम्।
वियन्मुखानामपि यः पठेदिदं।
शृण्वंश्च भक्त्या हरिलोकमेति सः ९

इति श्रीनरसिंहपुराणे विंशतितमोऽध्यायः २०


एकोविंशोऽध्यायः।
भरद्वाज उवाच।
अनुसर्गश्च सर्गश्च त्वया चित्रा कथेरिता।
वंसमन्वन्तरे ब्रूहि वंशानुचरितं च मे १

सूत उवाच।
राज्ञां वंशः पुराणेषु विस्तरेण प्रकीर्तितः।
सङ्क्षपात्कथयिष्यामि वंशमन्वन्तराणि ते २

वंशानुचरितं चैव शृणु विप्र महामते।
शृण्वन्तु मुनयश्चमे श्रोतुमागत्य ये स्थिताः ३

आदौ तावद्ब्रह्मा ब्रह्मणो मरीचिः । मरीचेः कश्यपः कश्यपादादित्यः ४
आदित्यान्मनुः । मनोरिक्ष्वाकुः इक्ष्वाकोर्विकुक्षिः ॥
विकुक्षेर्द्योतः द्योताद्वेनो वेनात्पृथुः पृथोः पृथाश्वः ५
पृथाश्वादसङ्ख्याताश्वः । असङ्ख्याताश्वान्मान्धाता ६
मान्धातुः पुरुकुत्सः।
पुरुकुत्साद्दषदो द्दषदादभिशम्भुः ७
अभिशम्भोर्दारुणो दारुणात्सगरः ८
सगराद्धर्यश्वो हर्यश्वाद्धारीतः ९
हारीताद्रो हिताश्वो।
रोहिताश्वादशुमान् । अशुमतो भगीरथः १०
भगीरथात् सौदासः।
सौ दासाच्छत्रुन्दमः ११
शत्रुन्दमादनरण्यः अनरण्याद्दीर्घबाहुः।
दीर्घबाहोरजः १२
अजाद्दशरथः । दशरथाद्रा मः रामाल्लवः।
लवात पद्मः १३
पद्मादनुपर्णः । अनुपर्णाद्वस्त्रपाणिः १४
वस्त्रपाणेः शुद्धोदनः । शुद्धोदनाद्बुधः । बुधादादित्यवंशो निवर्तते १५

सूर्यवंशभवास्ते ते प्राधान्येन प्रकीर्तिताः।
यैरियं पृथिवी भुक्ता धर्मतः क्षत्रियैः पुरा १६

सूर्यस्य वंशः कथतो मया मुने।
समुद्गता यत्र नरेश्वराः पुरा।
मयोच्यमानाञ्छशिनः समाहितः।
शृणुष्व वंशेऽथ नृपाननुत्तमान् १७

इति श्रीनरसिंहपुराणे सूर्यवंशकथनं नामैकविंशोऽध्यायः २१


द्वाविंशोऽध्यायः।
सूत उवाच।
सोमवंशं शृणुष्वाथ भरद्वाज महामुने।
पुराणे विस्तरेणोक्तं सङ्क्षेपात् कथयेऽधुना १

आदौ तावद्ब्रह्मा । ब्रह्मणो मानसः पुत्रो मरीचिर्मरीचेर्दाक्षायण्यां कश्यपः २
कश्यपाददितेरादित्यः । आदित्यात्सुवर्णलायां।
मनुः ३
मनो सुरूपायां सोमः । सोमाद्रो हिण्यां बुधः । बुधादिलायां।
पुरूरवाः ४
पुरूरवस आयुः । आयो रूपवत्यां नहुषः ५
नहुषात्।
पितृवत्यां ययातिः । ययातेः शर्मिष्ठायां पूरूः ६
पूरोर्वशदायां।
सम्पातिः । सम्पातेर्भानुदत्तायां सार्वभौमः । सार्वभौमस्य वैदेह्यां।
भोजः ७
भोजस्य लिङ्गायां दुष्यन्तः । दुष्यन्तस्य शकुन्तलायां।
भरतः ८
भरतस्य नन्दायामजमीढः । अजमीढस्य सुदेव्यां पृश्निः ॥
पृश्नेरुग्रसेनायां प्रसरः । प्रसरस्य।
बहुरूपायां शन्तनुः । शन्तनोर्योजनगन्धायां विचित्रवीर्यः ॥
विचित्रवीर्यस्याम्बिकायां पाण्डुः ९
पाण्डोः कुन्तिदेव्यामर्जुनः ॥
अर्जुनात् सुभद्रा यामभिमन्युः १०
अभिमन्योरुत्तरायां परीक्षितः।
। परीक्षितस्य मातृवत्यां जनमेजयः । जनमेजयस्य पुण्यवत्यां शतानीकः ११ शतानीकस्य पुष्पवत्यां सहस्रानीकः । सहस्रानीकस्य मृगवत्यामुदयनः ॥
तस्य वासवदत्तायां नरवाहनः १२
नरवाहनस्याश्वमेधायां क्षमकः ॥
क्षेमकान्ताः पाण्डवाः सोमवंशो निवर्तते १३

य इदं शृणुयान्नित्यं राजवंशमनुत्तमम्।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति १४

यश्चेदं पठते नित्यं श्राद्धे वा श्रावयेत्पितृन्।
वंशानुकीर्तनं पुण्यं पितृणां दत्तमक्षयम् १५

राज्ञां हि सोमस्य मया तवेरिता।
वंशान्कीर्तिर्द्विज पापनांशनी ॥
शृणुष्व विप्रेन्द्र मयोच्यमानं।
मन्वन्तरं चापि चतुर्दशाख्यम् १६

इति श्रीनरसिंहपुराणे सोमवंशानुकीर्तनं नाम द्वाविंशोऽध्यायः २२


त्रयोविंशोऽध्यायः।
सूत उवाच।
प्रथमं तावत्स्वायम्भुवं मन्वन्तरं तत्स्वरूपं कथितम् । सर्गादौ।
स्वारोचिषो नाम द्वितीयो मनुः १
तस्मिन् स्वारोचिषे मन्वन्तरे।
विपश्चिन्नाम देवेन्द्र ः! । पारावताः सतुषिता देवाः २
ऊजस्तम्बः।
सुप्राणो दन्तो निरृषभो वरीयानीश्वरः सोमः सप्तर्षयश्रैवम्।
किम्पुरुषाद्याः स्वारोचिषस्य मनोः पुत्रा राजानो भवन्ति ३
तृतीय।
उत्तमो नाम मनु । सुधामानः सत्याः शिवाः प्रतर्दना वंशवर्तिनश्च।
देवाः । पञ्चैते द्वादशगणाः ४
तेषां सुशान्तिरिन्द्र ः! ५
वन्द्याः।
सप्तर्षयोऽभवन् । अत्र परशुचित्राद्या मनोः सुताः ६
चतुर्थस्तामसो।
नाम मनुः । तत्र मन्वन्तरे सुराः पराः सत्याः सुधियश्च सप्तविंशतिका गणाः ७ तत्र भुशुण्डी नाम देवेन्द्र ः! । हिरण्यरोमा देव।
श्रीरूर्ध्वबाहुर्देवबाहुः।
सुधामा ह पर्जन्यो मुनिरित्येते सप्तर्षयः ८
ज्योतिर्धामा पृथुः।
काश्योऽग्निर्धनक इत्येते तामसस्य मनोः पुत्रा।
राजानः ९
पञ्चमो नाम रैवतो मनुः । तस्यान्तरेऽमिता निरता।
वैकुण्ठाः सुमेधस इत्येते देवगणाश्चतुर्दशका गणाः । असुरान्तको।
नाम देवेन्द्र ः! । सप्तकाद्या मनोः सुता राजानो वै बभूवुः १०
शान्तः।
शान्तभयो विद्वांस्तपस्वी मेधावी सुतपाः सप्तर्षयोऽभवन् ११ षष्ठश्चाक्षुषो नाम।
मनुः । पुरुशतद्युम्नप्रमुस्रास्तस्य सुता राजानः । सुशान्ता आप्याः।
प्रसूता भव्याः प्रथिताश्च महानुभावाः लेखाद्याः पञ्चैते ह्यष्टका गणास्तत्र देवाः १२
तेषामिन्द्रो मनोजवः । मेधाः सुमेधा विरजा।
हविष्मानुत्तमो मतिमान्नाम्ना सहिष्णुश्चैते सप्तर्षयः १३
सप्तमो।
वैवस्वतो मनुः साम्प्रतं वर्तते । तस्य पुत्रा इक्ष्वाकुप्रभृतयः क्षत्रिया।
भूभुजा १४
आदित्यविश्ववसुरुद्रा द्या देवाः पुरन्दरोऽत्र देवेन्द्र ः! १५

वशिष्ठः कश्यपोऽत्रिर्जमदग्निर्गौतम विश्वामित्रभरद्वाजाः सप्तर्षयो।
भवन्ति १६
भविष्याणि मन्वन्तराणि कथ्यन्ते । तद्यथा आदित्यात् सञ्ज्ञायां।
जातो यो मनुः पूर्वोक्तश्छायायामुत्पन्नो मनुर्द्वितीयः स तु ॥
पूर्वजस्य सावर्णस्य मन्वन्तरं सावर्णिकमष्टमं शृणु १७
मनुः।
सावर्णोऽष्टमो भविता तत्र सुतपाद्या देवगणास्तेषां बलिरिन्द्रो भविता।
१८
दीप्तिमान् गालवो नामा कृपद्रौ णिव्यासऋष्यशृङ्गाश्च सप्तर्षयो भवितारः।
। विराजोर्वरीयनिर्मोकाद्याः सावर्णस्य मनोः सुता राजानो भविष्यन्ति १९ नवमो दक्षसावर्णिर्मनुर्भविता । धृतिः कीर्तिदीप्तिः केतुः पञ्चहस्तो।
निरामयः पृथुश्रवाद्या दक्षसावर्णा राजानोऽस्य मनोः।
पुत्राः २०
मरीचि गर्भाः सुधर्माणो हविष्मन्तस्तत्र देवताः । तेषामिन्द्रो ऽद्भुतः २१
सवनः कृतिमान् हव्यो वसुमेधातिथिर्ज्योतिष्मानित्येते सप्तर्षयः २२
दशमो ब्रह्म सावर्णिर्मनुर्भविता । विरुद्धादयस्तत्र देवाः । तेषां शान्तिरिन्द्र ः! । हविष्मान् सुकृति ॥
सत्यस्तपोमूर्तिर्नाभागः प्रतिमोकः।
सप्तरुकेतुरित्येते सप्तर्षयः २३
सुक्षेत्र।
उत्तमो भूरिषेणादयो ब्रह्मसावर्णिपुत्रा राजानो भविष्यन्ति २४ एकादशे मन्वन्तरे धर्मसावर्णिको मनुः २५
सिंहसवनादयो देवगणाः । तेषां।
दिवस्पतिरिन्द्र ः! २६
निर्मोहस्तत्त्वदशीं निकम्पो निरुत्साहो धृतिमान्।
रुच्य इत्येते सप्तर्षयः । चित्रसेन विचित्राद्या धर्मसावर्णिपुत्रा।
भूभृतो भविष्यन्ति २७
रुद्र सावर्णिर्भविता द्वादशो मनुः २८
कृतधामा।
तत्रेन्द्रो हरिता रोहिताः सुमनसः सुकर्माणः सुतपाश्च देवाः २९
तपस्वी।
चारुतपास्तपोमूर्तिस्तपोरतिस्तपोधृति-र्ज्योतिस्तप इत्येते सप्तर्षयः।
३०
देववान देवद्रै ष्ठा द्यास्तस्य मनोः सुता भूपाला भविष्यन्ति ३१ त्रयोदशो रुचिर्नाम मनुः । स्रग्वी बाणः सुधर्मा प्रभृतयो।
देवगणाः । तेषामिन्द्र ऋषभो नाम भविता ३२
निश्चितोऽग्नितेजा वपुष्मान्।
धृष्टो वारुणिर्हविष्मान् नहुषो भव्य इति सप्तर्षयः । सुधर्मा।
देवानीकादयस्तस्य मनोः पुत्राः पृथिवीश्वरा भविष्यन्ति ३३ भौमश्चतुर्दशो मनुर्भविता । सुरुचिस्तत्रेन्द्र ः! । चक्षष्मन्तः।
पवित्राः कनिष्ठाभा देवगणाः ३४ अग्निबाहुशुचिशुक्रमाधवशिवाभीम-जितश्वासा।
इत्येते सप्तर्षयः । उरुगम्भीरब्रह्माद्यास्तस्य मनोः सुता।
राजानः ३५
एवं ते चतुर्दश मन्वन्तराणि कथितानि । राजानश्च।
यैरियं वसुधा पाल्यते ३६

मनुः सप्तर्षयो देवा भूपालाश्च मनोः सुताः।
मन्वन्तरे भवेन्त्येते शक्राश्चैवाधिकारिणः ३७

चतुदशभिरेतैस्तु गतैमन्वन्तरैर्द्विज।
सहस्रयुगपर्यन्तः कालो गच्छति वासरः ३८

तावत्प्रमाणा च निशा ततो भवति सत्तम।
ब्रह्मरूपधरः शेते सर्वात्मा नृहरिः स्वयम् ३९

त्रैलोक्यमखिलं ग्रस्ता भगवानादिकृद्विभुः।
स्वमायामास्थितो विप्र सर्वरूपी जनार्दनः ४०

अथ प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः।
युगव्यवस्थां कुरुते सृष्टिं च पुरुषोत्तम ४१

एते तवोक्ता मनवोऽमराश्च।
पुत्राश्च भूपा पुनयश्च सर्वे ॥
विभूतयस्तस्य स्थितौ स्थितस्य।
तस्यैव सर्वं त्वमवेहि विप्र ४२

इति श्रीनरसिंहपुराणे त्रयोविंशोऽध्यायः २३


चतुर्विंशोऽध्यायः।
श्रीसूत उवाच।
अतः परं प्रवक्ष्यामि वंशानुचरितं शुभम्।
शृण्वतामपि पापघ्नं सूर्यसोमनृपात्मकम् १

सूर्यवंशोद्भवो यो वै मनुपुत्रः पुरोदितः।
इक्ष्वाकुर्नाम भूपालश्चरितं तस्य मे शृणु २

आसीद् भूमौ महाभाग पुरी दिव्या सुशोभना।
सरयूतीरमासाद्य अयोध्या नाम नामतः ३

अमरावत्यतिशया त्रिंशद्योजनजालिनी।
हस्त्यश्वरथषत्त्योवैर्द्रुमैः कल्पद्रुमप्रभैः ४

प्राकाराट्टप्रतोलीभिस्तोरणैः काञ्चनप्रभैः।
विराजमाना सर्वत्र सुविभक्तचतुष्पथा ५

अनेकभूमिप्रासादा बहुभाण्डसुविक्रया।
पद्मोत्पलशुभैस्तोयैर्वापीभिरुपशोभिता ६

देवतायतनैर्दिव्यैर्वेदघोषैश्च शोभिता।
वीणावेणुमृदङ्गैश्च शब्दैरुत्कृष्टकैर्युता ७

शालैस्तालैर्नालिकेरैः पनसामलजम्बुकैः।
तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता ८

आरामैर्विविधैर्युक्ता सर्वत्र फलपादपैः।
मल्लिकामालतीजातिपाटलानागचम्पकैः ९

करवीरैः कर्णिकारैः केतकीभिरलङ्कृता।
कदलीलवलीजातिमातुलुङ्गमहाफलैः।
क्वचिच्चन्दनगन्धाद्यैर्नाङ्गेश्च सुशोभिता १०

नित्योत्सवप्रमुदिता गीतवाद्यविचक्षणैः।
नरनारीभिराढ्याभी रूपद्र विणाप्रेक्षणैः ११

नानाजनपदाकीर्णा पताकाध्वजशोभिता।
देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता १२

रूपाभिर्वरस्त्रीभिर्देवस्त्रीभिरिवावृता।
विप्रैः सरकविभिर्युक्ता बृहस्पतिसमप्रभैः १३

मणिग्जनैस्तथा पौरैः कल्पवृक्षवरैर्युता।
अश्वैरुच्चैः श्रवस्तुल्यैर्दन्तिभिर्दिग्गजैरिव १४

इति नानाविधैर्भावैरयोध्येन्द्र पुरोसमा।
तां दृष्ट्वा नारदः श्लोकं सभामध्ये पुरोक्तवान् १५

स्वर्ग वै सृजमानस्य व्यर्थं स्यात् पद्मजन्मनः।
जातायोध्याधिका स्वर्गात् कामभोगसमन्विता १६

तामावसदयोध्यां तु स्वभिषिक्तो महीपतिः।
जितवान् सर्वभूपालान् धर्मेण स महाबलः १७

माणिक्यमुकुटैर्युक्तै राजभिर्मण्डलाधिपैः।
नमद्भिर्भक्तिभीतिभ्यां पादौ तस्य किणीकृतौ १८

इक्ष्वाकुरक्षतबलः सर्वशास्त्रविशारदः।
तेजसेन्द्रे ण सदृशो मनोः सूनुः प्रतापवान् १९

धर्मतो न्यायतश्चैव वेदज्ञैर्ब्राह्मणैर्युतः।
पालयामास धर्मात्मा आसमुद्रा ं! महीमिमा २०

अस्त्रैर्जिगाय सकलान् संयुगे भूपतीन् बली।
अवजित्य सुतीक्ष्णैस्तु तन्मण्डलमथाहरत् २१

जितवान् परलोकांश्च क्रतुभिर्भूरिदक्षिणैः।
दानैश्च विविधैर्ब्रह्मन् राजेक्ष्वाकुः प्रतापवान् २२

बाहुद्वयेन वसुधां जिह्वग्रेण सरस्वतीम्।
बभार पद्मामुरसा भक्तिं चित्तेन माधवे २३

सन्तिष्ठतो हरे रूपमुपविष्टं च माधवम्।
शयानमप्यनन्तं तु कारयित्वा पटेऽमलम् २४

त्रिकालं त्रयमाराध्य रूपं विष्णोर्महात्मनः।
गन्धपुष्पादिभिर्नित्यं रेमे दृष्ट्वा पटे हरिम् २५

कृष्णं तं कृष्णमेघाभं भुजगेन्द्र निवासिनम्।
पद्माक्षं पीतवासं च स्वप्नेष्वपि स दृष्टवान् २६

चकार मेघे तद्वर्णे बहुमानमतिं नृपः।
पक्षपातं च तन्नाम्नि मृगे पद्मे च तादृशे २७

दिव्याकृति हरेः साक्षाद् द्र ष्टुं तस्य महीभृतः।
अतीव तृष्णा सञ्जाता अपूर्वैव हि सत्तम २८

तृष्णायां तु प्रवृद्धायां मनसैव हि पार्थिवः।
चिन्तयामास मतिमान् राज्यभोगमसारवत् २९

वेश्मदारसुतक्षेत्रं सन्न्यस्तं येन दुःखदम्।
वैराग्यज्ञानपूर्वेण लोकेऽस्मिन्नास्ति तत्समः ३०

इत्येवं चिन्तयित्वा तु तपस्यासक्तचेतनः।
वसिष्ठं परिपप्रच्छ तत्रोपायं पुरोहितम् ३१

तपोबलेन देवेशं नारायणमजं मुने।
द्र ष्टुमिच्छाम्यहं तत्र उपायं तं वदस्व मे ३२

इत्युक्तः प्राह राजानं तपस्यासक्तमानसम्।
वसिष्ठः सर्वधर्मज्ञः सदा तस्य हिते रतः ३३

यदीच्छसि महाराज द्र ष्टुं नारायणं परम्।
तपसा सुकृतेनेह आराधय जनार्दनम् ३४

केनाप्यतप्ततपसा देवदेवो जनार्दनः।
द्र ष्टुं न शक्यते जातु तस्मात्तं तपसार्चय ३५

पूर्वदक्षिणदिग्भागे सरयूतीरगे नृप।
गालवप्रमुखानां च ऋषीणामस्ति चाश्रमः ३६

पञ्चयोजनमध्वानं स्थानमस्मात्तु पावनम्।
नानाद्रुमलताकीर्णं नानापुष्पसमाकुलम् ३७

स्वमन्त्रिणि महाप्राज्ञे नीतिमत्यर्जुने नृप।
स्वराज्यभारं विन्यस्य कर्मकाण्डमपि द्विज ३८

स्तुत्वाऽऽराध्य गणाध्यक्षमितो व्रज विनायकम्।
तपःसिद्ध्यर्थमन्विच्छंस्तस्मात्तत्र तपः कुरु ३९

तापसं वेषमास्थाय शाकमूलफलाशनः।
ध्यायन्नारायणं देवमिमं मन्त्रं सदा जप ४०

ॐ नमो भगवते वासुदेवाय।
एष सिद्धिकरो मन्त्रो द्वादशाक्षरसञ्ज्ञितः।
जप्त्वैनं मुनयः सिद्धिं परां प्राप्ताः पुरातनाः ४१

गत्वा गत्वा निवर्त्तन्ते चन्द्र सूर्यादयो ग्रहाः।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ४२

बाह्येन्द्रि यं हृदि स्थाप्य मनः सूक्ष्मे परात्मनि।
नृप सञ्जय तन्मन्त्रं द्र ष्टव्यो मधुसूदनः ४३

इति ते कथितोपायो हरिप्राप्तेस्तपःकृतौ।
पृच्छतः साम्प्रतं भूयो यदीच्छसि कुरुष्व तत् ४४

इत्येवमुक्तो मुनिना स राजा।
राज्यं भुवो मन्त्रिवरे समर्प्य ॥
स्तुत्वा गणेशं सुमनोभिरर्च्य।
गतः पुरात् स्वात्तपसे धृतात्मा ४५

इति श्रीनरसिंहपुराणे इक्ष्वाकुचरित्रे चतुर्विंशोऽध्यायः २४


पञ्चविंशोऽध्यायः।
भरद्वाज उवाच।
कथं स्तुतो गणाध्यक्षस्तेन राज्ञा महात्मना।
यथा तेन तपस्तपतं तन्मे वद महामते १

सूत उवाच।
चतुर्थीदिवसे राजा स्नात्वा त्रिषवणं द्विज।
रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः २

सुरक्तकुसुमैर्हृद्यैर्विनायकमथार्चयत्।
रक्तचन्दनतोयेन स्नानपूर्वं यथाविधि ३

विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयत्।
ततोऽसौ दत्तवान् धूपमाज्ययुक्तं सचन्दनम्।
नैवेद्यं चैव हारिद्रं गुडखण्डघृतप्लुतम् ४

एवं सुविधिना पूज्य विनायकमथास्तवीत्।
इक्ष्वाकुरुवाच।
नमस्कृत्य महादेवं स्तोष्येऽहं तं विनायकम् ५

महागणपतिं शूरमजितं ज्ञानवर्धनम्।
एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ६

त्र्! यक्षं त्रिशूलहस्तं च रक्तनेत्रं वरप्रदम्।
आम्बिकेयं शूर्पकर्णं प्रचण्डं च विनायकम् ७

आरक्तं दण्डिनं चैव वह्निवक्त्रं हुतप्रियम्।
अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ८

तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम्।
मदमत्तं विरूपाक्षं भक्तविघ्ननिवारकम् ९

सूर्यकोटिप्रतीकाशं भिन्नाञ्जनसमप्रभम्।
बुद्धं सुनिर्मलं शान्तं नमस्यामि विनायकम् १०

नमोऽस्तु गजवक्त्राय गणानां पतये नमः।
मेरुमन्दररूपाय नमः कैलासवासिने ११

विरूपाय नमस्तेऽस्तु नमस्ते ब्रह्मचारिणे।
भक्तस्तुताय देवाय नमस्तुभ्यं विनायक १२

त्वया पुराण पूर्वेषां देवानां कार्यसिद्धये।
गजरूपं समास्थाय त्रासिताः सर्वदानवाः १३

ऋषीणां देवतानां च नायकत्वं प्रकाशितम्।
यतस्ततः सुरैरग्रे पूज्यसे त्वं भवात्मज १४

त्वामाराध्य गणाध्यक्षं सर्वज्ञं कामरूपिणम्।
कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः १५

रक्ताम्बरधरो भूत्वा चतुर्थ्यामर्चयेज्जपेत्।
त्रिकालमेककालं वा पूजयेन्नियताशनः १६

राजानं राजपत्रं वा राजमन्त्रिणमेव वा।
राज्यं च सर्वविघ्नेश वशं कुर्यात् सराष्ट्रकम् १७

अविघ्नं तपसो मह्यं कुरु नौमि विनायक।
मयेत्थं संस्तुतो भक्त्या पूजितश्च विशेषतः १८

यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्।
तत्फलं पूर्णमाप्नोति स्तुत्वा देवं विनायकम् १९

विषमं न भवेत्तस्य न च गच्छेत् पराभवम्।
न च विघ्नो भवेत्तस्य जातो जातिस्मरो भवेत् २०

य इदं पठते स्तोत्रं षड्भिर्मासैर्वरं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशयः २१

सूत उवाच।
एवं स्तुत्वा पुरा राजा गणाध्यक्षं द्विजोत्तम।
तापसं वेषमास्थाय तपश्चर्तुं गतो वनम् २२

उत्सृज्य वस्त्रं नागत्वक्सदृशं बहुमूल्यकम्।
कठिनां तु त्वचं वार्क्षीं कट्यां धत्ते नृपोत्तमः २३

तथा रत्नानि दिव्यानि वलयानि निरस्य तु।
अक्षसूत्रमलङ्कारं फलैः पद्मस्य शोभनम् २४

तथोत्तमाङ्गे मुकुटं रत्नहाटकशोभितम्।
त्यक्त्वा जटाकलापं तु तपोऽर्थे बिभृयान्नृपः २५

कृत्वेत्थं स तपोवेषं वसिष्ठोक्तं तपोवनम्।
प्रविश्य च तपस्तेपे शाकमूलफलाशनः २६

ग्रीष्मे पञ्चाग्निमध्यस्थोऽतपत्काले महातपाः।
वर्षाकाले निरालम्बो हेमन्ते च सरोजले २७

इन्द्रि याणि समस्तानि नियम्य हृदये पुनः।
मनो विष्णौ समावेश्य मन्त्रं वै द्वादशाक्षरम् २८

जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः।
आविर्बभूव भगवान् ब्रह्मा लोकपितामहः २९

तमागतमथालोक्य पद्मयोनिं चतुर्मुखम्।
प्रणम्य भक्तिभावेन स्तुत्या च पर्यतोषयत् ३०

नमो हिरण्यगर्भाय जगत्स्रष्ट्रे महात्मने।
वेदशास्त्रार्थविदुषे चतुर्वक्त्राय ते नमः ३१

इति स्तुतो जगत्स्रष्टा ब्रह्मा प्राह नृपोत्तमम्।
तपस्यभिरतं शान्तं त्यक्तराज्यं महासुखम्।
ब्रह्मोवाच।
लोकप्रकाशको राजन् सूर्यस्तव पितामहः ३२

मुनीनामपि सर्वेषां सदा मान्यो मनुः पिता।
कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ ३३

किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम।
तपः करोषि घोरं त्वं समाचक्ष्व महामते ३४

इत्युक्तो ब्रह्मणा राजा तं प्रणम्याब्रवीद्वचः।
दृष्टुमिच्छंस्तपश्चर्याबलेन मधुसूदनम् ३५

करोम्येवं तपो ब्रह्मन् शङ्खचक्रगदाधरम्।
इत्युक्तः प्राह राजानं पद्मजन्मा हसन्निव ३६

न शक्यस्तपसा द्र ष्टुं त्वया नारायणो विभुः।
मादृशैरपि नो दृश्यः केशवः क्लेशनाशनः ३७

पुरातनीं पुण्यकथां कथयामि निबोध मे।
निशान्ते प्रलये लोकान् निनीय कमलेक्षणः ३८

अनन्तभोगशयने योगनिद्रा ं! गतो हरिः।
सनन्दनाद्यैर्मुनिभिः स्तूयमानो महामते ३९

तस्य सुप्तस्य नाभौ तु महत्पद्मजायत।
तस्मिन् पद्मे शुभे राजन् जातोऽहं वेदवित्पुरा ४०

ततो भूत्वा त्वधोदृष्टिर्दृष्टवान् कमलेक्षणम्।
अनन्तभोगपर्यङ्के भिन्नाञ्जनिभं हरिम् ४१

अतसीकुसुमाभासं शयानं पीतवाससम्।
दिव्यरत्नविचित्राङ्गं मुकुटेन विराजितम् ४२

कुन्देन्दुसदृशाकारमनन्तं च महामते।
सहस्रफणमध्यस्थैमणिभिर्दीप्तिमत्तरम् ४३

क्षणमात्रं तु तं दृष्ट्वा पुनस्तत्र न दृष्टवान्।
दुःखेन महताऽऽविष्टो बभूवाहं नृपोत्तम ४४

ततो न्ववातरं तस्मात् पद्मनालं समाश्रितः।
कौतूहलेन तं द्र ष्टुं नारायणमनामयम् ४५

ततस्त्वन्विष्य राजेन्द्र सलिलान्ते न दृष्टवान्।
श्रीशं पुनस्तमेवाहं पद्ममाश्रित्य चिन्तयन् ४६

तद्रू पं वासुदेवस्य द्र ष्टुं तेपे महत्तपः।
ततो मामन्तरिक्षस्था वागुवाचाशरीरिणी ४७

वृथा किं क्लिश्यते ब्रह्मन् साम्प्रतं कुरु मे वचः।
न दृश्यो भगवान् विष्णुस्तपसा महतापि ते ४८

सृष्टिं कुरु तदाज्ञप्तो यदि द्र ष्टुमिहेच्छसि।
शुद्धस्फटिकसङ्काशनागपर्यङ्कशायिनम् ४९

यद्दृष्टं शार्ङ्गिणो रूपं भिन्नाञ्जनसमप्रभम्।
प्रतिभानियतं रूपं विमानस्थं महामते ५०

भज नित्यमनालस्यस्ततो द्र क्ष्यसि माधवम्।
तयेत्थं चोदितो राजंस्त्यक्त्वा तप्तमनुक्षणम् ५१

सृष्ट्वान् लोकभूतानां सृष्टिं सृष्ट्वा स्थितस्य च।
आविबभूव मनसि विश्वकर्मा प्रजापतिः ५२

अनन्तकृष्णयोस्तेन द्वे रूपे निर्मिते शुभे।
विमानस्थो यथापूर्वं मया दृष्टो जले नृप ५३

तथैव तं ततो भक्त्या सम्पूज्याहं हरिं स्थितः।
तत्प्रसादात्तपः श्रेष्ठं मया ज्ञानमनुत्तमम् ५४

लब्ध्वा मुक्तिं च पश्यामि अविकारक्रियासुखम्।
तदहं ते प्रवक्ष्यामि हितं नृपवरेश्वर ५५

विसृज्यैतत्तपो घोरं पुरीं व्रज निजां नृप।
प्रजानां पालनं धर्मस्तपश्चैव महीभृताम् ५६

विमानं प्रेषयिष्यामि सिद्धद्विजगणान्वितम्।
तत्राराधय देवेशं बाह्यार्थैरखिलैः शुभैः ५७

नारायणमनन्ताख्ये शयानं क्रतुभिर्यजन्।
निष्कामो नृपशार्दूल प्रजा धर्मेण पालय ५८

प्रसादाद्वासुदेवस्य मुक्तिस्ते भविता नृप।
इत्युक्त्वा ते जगामाथ ब्रह्मलोकं पितामहः ५९

इक्ष्वाकुश्चिन्तयन्नास्ते पद्मयोनिवचो द्विज।
आविर्बभूव पुरतो विमानं तन्महीभृतः ६०

ब्रह्मदत्तं द्विजयुतं माधवानन्तयोः शुभम्।
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ६१

ऋषीन् प्रणम्य विप्रांश्च तदादाय ययौ पुरीम्।
पौरैर्जनैश्च नारीभिर्दृष्टः शोभासमन्वितैः ६२

लाजा विनिक्षिपद्भिश्च नीतो राजा स्वकं गृहम्।
स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ६३

संस्थाप्याराधयामास तैर्द्विजैरर्चितं हरिम्।
महिष्यः शोभना यास्तु पिष्ट्वा तु हरिचन्दनम् ६४

मालां कृत्वा सुगन्धाढ्यां प्रीतिस्तस्य ववर्ध ह।
पौराः कर्पूर श्रीखण्डं कुङ्कुमाद्यगुरुं तथा ६५

कृत्स्नं विशेषतो वस्त्रं महिषाख्यं च गुग्गुलम्।
पुष्पाणि विष्णुयोग्यानि ददुरानीय भूपतेः ६६

विमानस्थं हरिं पूज्य गन्धपुष्पादिभिः क्रमात्।
त्रिसन्ध्यं परया भक्त्या जपैः स्तोत्रैश्च वैष्णवैः ६७

गीतैः कोलाहलैः शब्दैः शङ्खवादित्रनादितैः।
प्रेक्षणैरपि शास्त्रोक्तैः प्रीतैश्च निशि जागरैः ६८

कारयामास सुचिरमुत्सवं परमं हरेः।
यागैश्च तोषयित्वा तं सर्वदेवमयं हरिम् ६९

निष्कामो दानधर्मैश्च परं ज्ञानमवाप्तवान्।
यजन् यज्ञं महीं रक्षन् स कुर्वन् केशवार्चनम् ७०

उत्पाद्य पुत्रान् पित्रर्थं ध्यानात्त्यक्त्वा कलेवरम्।
ध्यायन् वै केवलं ब्रह्म प्राप्तवान् वैष्णवं पदम् ७१

अजं विशोकं विमलं विशुद्धं।
शान्तं सदानन्दचिदात्मकं ततः।
विहाय संसारमनन्तदुःखं।
जगाम तद्विष्णुपदं हि राजा ७२

इति श्रीनरसिंहपुराणे इक्ष्वाकुचरिते पञ्चविंशोऽध्यायः २५


षड्विंशोऽध्यायः।
श्रीसूत उवाच।
इक्ष्वाकोर्विकुक्षिनामपुत्रः । स तु सिद्धे पितरि महर्षिभिरभिषिक्तो।
धर्मेण पृथिवीं पालयन् विमानस्थमनन्तभोगशायिनमच्युतमाराध्य।
यागैरपि देवानिष्ट्वा स्वपुत्रं राज्ये सुबाहुमभिषिच्य दिवमारुरोह ॥
सुबाहोर्भ्राजमानादुद्योतोऽभिगीयते । स तु सप्तद्वीपां पृथ्वीं धर्मेण।
पालयित्वा भक्तिं परां नारायणं पितामहवत्कृत्वा।
क्रतुभिर्भूरि-दक्षिणैर्यज्ञेश्वरं।
निष्कामेन मनसेष्ट्वा नित्यं निरञ्जनं निर्विकल्पं परं।
ज्योतिरमृताक्षरं परमात्मरूपं ध्यात्वा हरिमनन्तं च परमाराध्य।
स्वर्गलोकं गतः १
तस्य युवनाश्वो युवनाश्वस्य च मान्धाता पुत्रोऽभवत् । स।
चाभिषिक्तो महर्षिभिर्निसर्गादव विष्णुभक्तोऽनन्तशयनमच्युतं।
भक्त्याऽऽराधयन् यागैश्च विविधैरिष्ट्वा।
सप्तद्वीपवतीं पृथिवीं परिपाल्य।
दिवं गतः २
यस्यैष श्लोको गीयते ॥
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ३

तस्य पुरुकुश्योऽभवद् येन देवा ब्राह्मणाश्च यागदानैः सन्तुष्टाः।

पुरुकुश्याद् दृषदो दृषदादभिशम्भुः । अभिशम्भोर्दारुणो।
दारुणात्सगरः ५
सगराद्धर्यश्वो हर्यश्वाद्धारीतो हारीताद्रो हिताश्वः ॥
रोहिताश्वादंशुमान् ६
अंशुमतो भगीरथः । येन महता तपसा पुरा।
दिवो गङ्गा अशेषकल्मषनाशिनी चतुर्विधपुरुषार्थदायिनी भुवमानीता ॥
अस्थिशर्कराभूताः कपिलमहर्षिनिर्दग्धाश्च गुरवः।
सगराख्या गङ्गातोयसंस्पृष्टा दिवमारापिताः । भगीरथात् सौदासः।
सौदासात् सत्रसवः ७
सत्रसवादनरण्योऽनरण्याद्दीर्घबाहुः ८ दीर्घबाहोर-जोऽजाद्दशरथः । तस्य गृहे।
रावणविनाशार्थं साक्षान्नारायणो-ऽवतीर्णोरामः ९
स तु पितृवचनाद्।
भ्रातृभार्यासहितो दण्डकारण्यं प्राप्य तपश्चार । वने।
रावणापहृतभार्यो भ्रात्रा सह।
दुःखितोऽ-नेककोटिवानरनायकसुग्रीवसहायो।
महोदधौ सेतुं निबध्य तैर्गत्वा लङ्कां रावणं देवकण्टकं सबान्धवं हत्वा।
सीतामादाय पुनरयोध्यां प्राप्य भरताभिषिक्तो विभीषणाय।
लङ्काराज्यं विमानं वा दत्त्वा तं प्रेषयामास । स तु।
परमेश्वरो विमानस्थो विभीषणेन नीयमानो लङ्कायामपि राक्षसपुर्यां।
वस्तुमनिच्छन् पुण्यारण्यं तत्र स्थापितवान् १० तन्निरीक्ष्य तत्रैव महाहिभोगशयने भगवान् शेते । सोऽपि।
विभीषणस्ततस्तद्विमानं नेतुमसमर्थः तद्वचनात् स्वां।
पुरीं जगाम ११

नारायणसन्निधानान्महद्वैष्णवं क्षेत्रमभवदद्यापि दृश्यते । रामाल्लवो।
लवात्पद्मः पद्मादृतुपर्ण ऋतुपर्णादस्त्रपाणिः । अस्त्रपाणेः शुद्धोदनः।
शुद्धोदनाद्बुद्धः । बुद्धाद्वंशो निर्वतते १२

एते महीपा रविवंशजास्तव।
प्राधान्यतस्ते कथिता महाबलाः ॥
पुरातनैर्यैर्वसुधा प्रपालिता।
यज्ञक्रियाभिश्च दिवौकसैर्नृपैः १३

इति श्रीनरसिंहपुराणे सूर्यवंशानुचरितं नाम षड्विंशोऽध्यायः २६


सप्तविंशोऽध्यायः।
सूत उवाच।
अथ सोमवंशोद्भवानां भूभुजां सङ्क्षेपेण चरितमुच्यते १
आदौ।
तावत् समस्तं त्रैलोक्यं कुक्षौ कृत्वा एकार्णवे महाम्भसि नागभोगशयने।

ऋङ् भयो यजुर्मयः साममयोऽथर्वमयो भगवान्नारायणो योगनिद्रा ं! समारेभे । तस्य सुप्तस्य नाभो महापद्मजायत । तस्मिन् पद्मे।
चतुर्मुखो ब्रह्माभवत् ३
तस्य ब्रह्मणो मानसः पुत्रोऽत्रिरभवत् ॥
अत्रेरनसूयायां सोमः । स तु प्रजापतेर्दक्षस्य त्रयस्त्रिंशत्कन्या।
रोहिण्याद्या भार्यार्थं गृहीत्वा प्रियायां ज्येष्ठायां विशेषात्।
प्रसन्नमनाः।
रोहिण्यां बुधं पुत्रमुत्पादयामास ४
बुधोऽपि सर्वशास्त्रज्ञः प्रतिष्ठाने।
पुरेऽवसत् । इलायां पुरूरवसं पुत्रमुत्पादयामास । तस्यातिशयरूपान्वितस्य।
स्वर्गभोगान् विहाय उर्वशी बहुकालं भार्या बभूव ५
पुरूरवसः।
उर्वश्यामायुः पुत्रो जज्ञे । स तु राज्यं धर्मतः।
कृत्वा दिवमारुरोह ६
आयो रूपवत्यां नहुषः पुत्रोऽभवत् ॥
येनेन्द्र त्वं प्राप्तम् । नहुषस्यापि पितृमत्यां।
ययातिः ७
यस्य वंशजा वृष्णषः । ययातेः शर्मिष्ठायां पूरुरभवत्।

पूरोर्वंशदायां संयातिः पुत्रोऽभवत् । यस्य पृथिव्यां सम्पन्नाः सर्वे।
कामाः ९
संयातेर्भानुदत्तायां सार्वभौमः । स तु सर्वां पृथिवीं धर्मेण।
परिपालयन्नरसिंहं भगवन्तमाराध्य यागदानैः सिद्धिमाप १०
तस्य।
सार्वभौमस्य वैदेह्यां भोजः । यस्य वंशे पुरा।
देवासुरसङ्ग्रामे विष्णुचक्रहतः कालनेमिः कंसो भूत्वा।
वृष्णिवंशजेन वासुदेवेन घातितो निधनं गतः ११
तस्य भोजस्य कलिङ्गायां।
दुष्यन्तः । स तु नरसिंहं भगवन्तमाराध्य।
तत्प्रसादा-न्निष्कण्टकं राज्यं।
धर्मेण कृत्वा दिवं प्राप्तवान् । दुष्यन्तस्य।
शकुन्तलायां भरतः । स तु धर्मेण राज्यं कुर्वन् क्रतुभिर्भूरिदक्षिणैः।
सर्वदेवतामयं भगवन्तमाराध्य निवृत्ताधिकारो ब्रह्मध्यानपरो वैष्णवे।
परे ज्योतिषि लयमवाप १२
भरतस्य आनन्दायामजमीढः । स च परमवैष्णवो।
नरसिंहमाराध्य जातपुत्रो धर्मेण कृतराज्यो।
विष्णुपुरमारुरोह १३
अजमीढस्य सुदेव्यां वृष्णिः।
पुत्रोऽभवत् । सोऽपि बहुवर्षं धर्मेण राज्यं कुर्वन्।
दुष्टनिग्रहं शिष्टपरिपालनं सप्तद्वीपां वशे चक्रे ॥
वृष्णेरुग्रसेनायां प्रत्यञ्चः पुत्रो बभूव १४
सोऽपि धर्मेण मेदिनीं।
पालयन् प्रतिसंवत्सरं ज्योतिष्टोमं चकार । निर्वाणमपि लब्धवान् ॥
प्रत्यञ्चस्य बहुरूपायां शान्तनुः १५
तस्य।
देवदत्तस्यन्दनारोहणमशक्यं बभूव पुरतः शक्यं च १६

इति श्रीनरसिंहपुराणे सोमवंशवर्णनं नाम सप्तविंशोऽध्यायः २७


अष्टविंशोऽध्यायः।
भरद्वाज उवाच।
स्यन्दनारोहणे पूर्वमशक्तिः शान्तनोः कथम्।
प्रश्चाच्छक्तिः कथं चासीत् तस्य वै तद्वदस्व नः १

सूत उवाच।
भरद्वाज शृणुष्वैतत् पुरावृत्तं वदामि ते।
सर्वपापहरं तद्धि चरितं शान्तनोर्नृणाम् २

बभूव शान्तनुर्भक्तो नरसिंहतनौ पुरा।
नारदोक्तविधानेन पूजयामास माधवम् ३

नरसिंहस्य देवस्य निर्माल्यं तेन लङ्घितम्।
राज्ञा शान्तनुना विप्र तस्मात् स्यन्दनमुत्तमम् ४

देवदत्तं तदारोढुमशक्तस्तत्क्षणादभूत्।
किमियं मे गतिर्भग्ना सहसा वै रथात्ततः ५

दुःखं चिन्तयतस्तस्य सम्प्राप्तो नारदः किल।
किं विषण्णः स्थितो राजन्निति पृष्टः स शान्तनुः ६

नारदैतन्न जानामि गतभङ्गस्य कारणम्।
इत्युक्तो नारदो ध्यात्वा ज्ञात्वा तत्कारणं ततः ७

शान्तनुं प्राह राजानं विनयेन यतः स्थितः।
यत्र क्वापि त्वया राजन्नरसिंहस्य वै ध्रुवम् ८

निर्माल्यो लङ्घितस्तस्माद्र थारोहणकर्मणि।
गतिर्भग्ना महाराज श्रूयतामत्र कारणम् ९

अन्तर्वेद्यां पुरा राजन्नासीत्कश्चिन्महामतिः।
मालाकारो रविर्नाम्ना तेन वृन्दावनं कृतम् १०

विविधानि च पुष्पार्थं वनानि सुकृतानि वै।
मल्लिकामालतीजातिबकुलादीनि सर्वशः ११

प्राकारमुच्छ्रितं तस्य स्वभूमौ चापि विस्तृतम्।
क्षलङ्घ्यमप्रवेश्यं च कृत्वा चक्रे स्वकं गृहम् १२

गृहं प्रविश्य तद्द्वारं भवेन्नान्यत्र सत्तम।
एवं कृत्वा तु वसतो मालाकारस्य धीमतः १३

पुष्पितं तद्वनं त्वासीद् गन्धामोदितदिङ्मुखम्।
भार्यया सह पुष्पाणि समाहृत्य दिने दिने १४

कृत्वा मालां यथान्यायं नरसिंहस्य नित्यशः।
ददौ काश्चिद् द्विजेभ्यश्च काश्चिद्विक्रीय पोषणम् १५

चक्रे समात्प्रजीवी च भार्यादेरात्मनस्तथा।
अथ स्वर्गादुपागम्य इन्द्र पुत्रो रथेन वै १६

अप्सरोगणसंयुक्तो निशि पुष्पाणि संहरेत्।
तद्गन्धलिप्सुः सर्वाणि विचित्याहृत्य गच्छति १७

दिने दिने हृते पुष्पे मालाकारोऽप्यचिन्तयत्।
नान्यद् द्वारं वनस्यास्यालङ्घ्यप्राकारमुन्नतम् १८

समस्तपुष्पजातस्य हरणे निशि वै नृणाम्।
अहं शक्तिं न पश्यामि किमिदं नु परीक्षये १९

इति सञ्चिन्त्य मेधावी जाग्रदात्रौ वने स्थितः।
तथैवागत्य पुष्पाणि सङ्गृहीत्वा गतः पुमान् २०

तं दृष्ट्वा दुःखितोऽतीव माल्यजीवी वनेऽभवत्।
ततो निद्रा ं! गतः स्वप्ने दृष्टवांस्तं नृकेसरिम् २१

तद्वाक्यं श्रुतवांश्चैवं निर्माल्यं मम पुत्रक।
आनीय क्षिप्यतां क्षिप्रं पुष्पारामसमीपतः २२

इन्द्र पुत्रस्य दुष्टस्य नान्यदस्ति निवारणम्।
इति श्रुत्वा हरेर्वाक्यं नरसिंहस्य धीमतः २३

बुद्ध्वाऽऽनीय तु निर्माल्यं तथा चक्रे यथोदितम्।
सोऽप्यागत्य यथापूर्वं रथेनालक्षितेन तु २४

रथादुत्तीर्य पुष्पाणि विचिन्वस्तद्भुविस्थितम्।
निर्माल्यं लङ्घयामास इन्द्र सूनुरनिष्टकृत् २५

ततस्तस्य न शक्तिः स्याद्र थारोहणकर्मणि।
उक्तः सारर्थिना चैव रथस्यारोहणे तव २६

नरसिंहस्य निर्माल्यलङ्घने नास्ति योग्यता।
गच्छामि दिवमेवाहं त्वं भूम्यां वसमाऽऽरुह २७

तेनैवमुक्तो मतिमांस्तमाह हरिनन्दनः।
पापस्य नोदनं त्वत्र कर्मणा येन मे भवेत् २८

तदुक्त्वा गच्छ नाकं त्वं कर्मास्मान् सारथे द्रुतम्।
सारथिरुवाच।
रामसत्रे कुरुक्षेत्रे द्वादशाब्दे तु नित्यशः २९

द्विजोच्छिष्टापनयनं कृत्वा त्वं शुद्धिमेष्यसि।
इत्युक्त्वासौ गतः स्वर्गं सारथिर्देवसेवितम् ३०

इन्द्र सूनुः कुरुक्षेत्रं प्राप्तः सारस्वतं तटम्।
रामसत्रे तथा कुर्याद्द्विजोच्छिष्टस्य मार्जनम् ३१

पूर्णे द्वादशमे र्वे तमूचुः शङ्किता द्विजाः।
कस्त्वं ब्रूहि महाभाग नित्यमुच्छिष्टमार्जकः ३२

न भुञ्जसे च नः सत्रे शङ्का नो महती भवेत्।
इत्युक्तः कथयित्वा तु यथावृत्तमनुक्रमात् ३३

जगाम त्रिदिवं क्षिप्रं रथेन तनयो हरेः।
तस्मात्त्वमपि भूपाल ब्राह्मणोच्छिष्टमादरात् ३४

मार्जनं कुरु रामस्य सत्रे द्वादशवार्षिके।
ब्राह्मणेभ्यः परं नास्ति सर्वपापहरं परम् ३५

एवं कृते देवदत्तस्यन्दनारोहणे गतिः।
भविष्यति महीपाल प्रायश्चित्ते कृते तव ३६

अत ऊर्ध्वं च निर्माल्यं मा लङ्घय महामते।
नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ३७

इत्युक्तः शान्तनुस्तेन ब्राह्मणोच्छिष्टमार्जनम्।
कृतवान् द्वादशाब्दं तु आरुरोह रथं च तम् ३८

एवं पूर्वमशक्तिः स्याद् रथारोहे महीक्षितः।
पश्चात्तस्यैव विप्रेन्द्र शक्तिरेवमजायत् ३९

एवं ते कथितो विप्र दोषो निर्माल्यलङ्घने।
पुण्यं तथा द्विजानां तु प्रोक्तमुच्छिष्टमार्जने ४०

भक्त्या द्विजोच्छिष्टमिहापमार्जयेच्छुचिर्नरो यः सुसमाहितात्मा ॥
स पापबन्धं प्रविहाय भुङ्क्ते।
गवां प्रदानस्य फलं दिवि स्थितः ४१

इति श्रीनरसिंहपुराणे शन्तनुचरितं नामाष्टविंशोऽध्यायः २८


एकोनत्रिंशोऽध्यायः।
श्रीसूत उवाच।
शन्तनोर्योजनगन्धायां विचित्रवीर्यः । स तु हस्तिनापुरे स्थित्वा।
प्रजाः स्वधर्मेण पालयन् देवांश्च यागैः पितॄंश्च श्राद्धैः सन्तर्प्य।
सञ्जातपुत्रो दिवमारुरोह १
विचित्रवीर्यस्याम्बालिकायां पाण्डुः।
पुत्रो जज्ञे । सोऽपि राज्यं धर्मतः कृत्वा मुनिशापाच्छरीरं विहाय।
देवलोकमवाप । तस्य पाण्डोः कुन्तिदेव्यामर्जुनः २
स तु महता।
तपसा शङ्करं तोषयित्वा पाशुपतमस्त्रमवाप्य त्रिविष्टपाधिपतेः शत्रून्।
निवातकवचान् दानवान् हत्वा खाण्डववनमग्नेर्यथारुचि निवेद्य।
तृप्ताग्नितो दिव्यान् वरानवाप्य सुयोधनेन हृतराज्यो धर्मभीमनकुलसहदेवद्रौ पदीसहितो विराटनगरेऽज्ञातवासं चरित्वा गोग्रहे च भीष्मद्रो णकृपदुर्योधनकर्णादीन् जित्वा समस्तगोमण्डलं निवर्तयित्वा।
भ्रातृभिः सह विराटराजकृतपूजो वासुदेवसहितः कुरुक्षेत्रे धार्तराष्ट्रैर्बहुबलैर्युद्धं कुर्वन् भीष्मद्रो णकृपशल्यकर्णादिभिर्भूरिपराक्रमैः।
क्षत्रियैर्नानादेशागतैरनेकैरपि राजपुत्रैः सह।
दुर्योधनादीन् धार्तराष्ट्रान् हत्वा स्वराज्यं।
प्राप्य धर्मेण राज्यं परिपाल्य भ्रातृभिः सह मुदितो।
दिवमारुरोह ३
अर्जुनस्य सुभद्रा यामभिमन्युः । येन भारतयुद्धे च क्रव्यूहं।
प्रविश्यानेकभूभुजो निधनं प्रापिताः ४
अभिमन्योरुत्तरायां परीक्षितः ॥
सोऽप्यभिषिक्तो वनं गच्छता धमैपुत्रेण राज्यं कृत्वा राजपुत्रो नाकं।
सम्प्राप्य रेमे ५
परीक्षितान्मातृवत्यां जनमेजयः । येन।
ब्रह्महत्यावारणार्थं महाभारतं।
व्यासशिष्याद्वैशम्पायनात् साद्यन्तं श्रुतम् ६
राज्यं च।
धर्मतः कृत्वा दिवमारुरोह । जनमेजयस्य पुष्पवत्यां शतानीकः ७
स तु धर्मेण।
राज्यं कुर्वन् संसारदुःखाद्विरक्तः शौनकोपदेशेन क्रियायोगेन स।
फललोकनाथं विष्णुमाराध्य निष्कामो वैष्णवं पदमवाप । तस्य।
शतानीकस्य फलवत्यां सहस्रानीकः ८
स तु बाल एवाभिषिक्तो नरसिंहेऽत्यन्तं।
भक्तिमानभवत् । तस्य चरितमुपरिष्टाद् भविष्यति ९
सहस्रानीकस्य।
मृगवन्त्यामुदयनः । सोऽपि राज्यं कृत्वा धर्मतो।
नारायणमाराध्य तत्पुरमवाप १०
उदयनस्य वासवदत्तायां नरवाहनः । स तु।
यथान्यायं राज्यं कृत्वा दिवमवाप । नरवाहनस्याश्वमेधदत्तायां।
क्षेमकः ११
स च राज्यस्थः प्रजाः परिपाल्य म्लेच्छाभिभूते जगति ज्ञानबलात्।
कलापग्राममाश्रितः।
१२

यः श्रद्दधानः पठते शृणोति वा।
हरौ च भक्तिं चरितं महीभृताम्।
स सन्ततिं प्राप्य विशुद्धकर्मकृद्।
दिवं समासाद्य वसेच्चिरं सुखी १३

इति श्रीनरसिंहपुराणे शन्तनुसन्तति वर्णनं नाम।
एकोनत्रिंशोऽध्यायः २९


त्रिंशोऽध्यायः।
श्रीसूत उवाच।
अतः परं प्रवक्ष्यामि भूगोलं द्विजसत्तमाः।
सङ्क्षेपात् पर्वताकीर्णं नदीभिश्च समन्ततः १

जम्बुप्लक्षशाल्मलकुशक्रौञ्चशाकपुष्करसञ्ज्ञाः सप्त द्वीपाः ॥
लक्षयोजनप्रमाणाज्जम्बुद्वीपादुत्तरोत्तरद्विगुणाः ॥ लवणेक्षुरससुरासर्पिर्दधिदुग्धस्वच्छोदकसञ्ज्ञैः परस्परं द्विगुणैः सप्तसमुद्रै।
र्वलयाकारैस्ते।
द्वीपाः परिधिष्ठिताः २
योऽसौ मनुपुत्रः प्रियव्रतो नाम स।
सप्तद्वीपाधिपतिर्बभूव । तस्य अग्नीध्रादयो दश पुत्रा बभूवुः ३

त्रयः प्रव्रजिताः । शिष्टानां सप्तानां सप्तद्वीपाः पित्रा दत्ताः । तत्र।
जम्बुद्वीपाधिपतेरग्नीध्रस्य नव पुत्रा जाताः ४

नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः।
रम्यो हिरण्ययश्चैव कुरुर्भद्र श्च केतुमान् ५

नववर्षाः विभज्य पुत्रेभ्यः पित्रा दत्ता वनं प्रविशता । अग्नीध्रीयं।
हिमाह्वयम् । यस्याधिपतिर्नाभः ऋषभः पुत्रो बभूव ६

ऋषभाद् भरतो भरतेन चिरकालं धर्मेण पालितत्वादिदं भारतं।
वर्षमभूत् । इलावृतस्य मध्ये मेरुः सुवर्णमयश्चतुरशीतिसहस्राणि योजनानि।
तस्योच्छ्रायः । षोडशसहस्रमप्यधस्तादवगाढः । तद्द्विगुणो मूर्ध्नि।
विस्तारः ७
तन्मध्ये ब्रह्मणः पुरी । ऐन्द्र या!मिन्द्र स्य चामरावती ॥
आग्नेय्यामग्नेस्तेजोवती । याम्यां यमस्य संयमनी । नैरृत्यां।
निरृतेर्भयङ्करी । वारुण्यां वरुणस्य विश्वावती ॥
वायव्यां वायोर्गन्धवती । उदीच्यां सोमस्य विभावरीति । नववर्षान्वितं।
जम्बूद्वीपं पुण्यपर्वतैः पुण्यनदीभिरन्वितम् ८ किम्पुरुषादीन्यष्टवर्षाणि।
पुण्यवतां भोगस्थानानि साक्षाद् भारतवर्षमेकं कर्मभूमिश्चातुर्वर्ण्ययुतम् ९

तत्रैव कर्मभिः स्वर्गं कृतैः प्राप्स्यन्ति मानवाः।
मुक्तिश्चात्रैव निष्कामैः प्राप्यते ज्ञानकर्मभिः।
अधोगतिमितो विप्र यान्ति वै पापकारिणः १०

ये पापकारिणस्तान् विद्धि पातालतले नरके कोटिसमन्वितान्।
११
अथ सप्त कुलपर्वताः कथ्यन्ते । महेन्द्रो मलयः शुक्तिमान्।
ऋष्यमूकः सह्यपर्वतो विन्ध्यः पारियात्रः । इत्येते भारते कुलपर्वताः।
१२
नर्मदा सुरसा ऋषिकुल्या भीमरथी कृष्णा वेणी चन्द्र भागा।
ताम्रपर्णा इत्येताः सप्त नद्यः । गङ्गा यमुना गोदावरी तुङ्गभद्रा कावेरी।
सरयूरित्येता महानद्यः पापÞयः १३

जम्बुनाम्ना च विख्यातं जम्बुद्वीपमिदं शुभम्।
लक्षयोजनविस्तीर्णमिदं श्रेष्ठं तु भारतम् १४

ऋक्षद्वीपादिपुण्या जनपदाः । निष्कामा ये स्वधर्मेण नरसिंहं।
यजन्ति ते तत्र निवसन्ति । अधिकारक्षयान्मुक्तिं च प्राप्नुवन्ति १५

जम्ब्वाद्याः स्वादूदकान्ताः सप्त पयोधयः । ततः परा हिरण्मयी भूमिः।
। ततो लोकालोकपर्वतः एष भूर्लोकः १६

अस्योपरि अन्तरिक्षलोकः।
खेचराणां रम्यस्तदूर्ध्व स्वर्गलोकः १७

स्वर्गस्थानं महापुण्यं प्रोच्यमानं निबोधत।
भारते कृतपुण्यानां देवानामपि चालयम् १८

मध्ये पृथिव्यामद्री न्द्रो भास्वान् मेरुर्हिरण्मयः।
योजनानां सहस्राणि चतुराशीतिमुच्छ्रितः १९

प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः।
तावत्प्रमाणा पृथिवी पर्वतस्य समन्ततः २०

तस्य शृङ्गत्रयं मूर्ध्नि स्वर्गो यत्र प्रतिष्ठितः।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् २१

मध्यमं पश्चिमं पूर्वं मेरोः शृङ्गाणि त्रीणि वै।
मध्यमं स्फाटिकं शृङ्गं वैदूर्यमणिकामयम् २२

इन्द्र नीलमयं पूर्वं माणिक्यं पश्चिमं स्मृतम्।
योजनानां सहस्राणि नियुतानि चतुर्दश २३

उच्छ्रितं मध्यमं शृङ्गं स्वर्गो यत्र त्रिविष्टपः।
अप्रभान्तरितं शृङ्गं मूर्ध्नि छत्राकृति स्थितम् २४

पूर्वमुत्तरशृङ्गाणामन्तरं मध्यमस्य च।
त्रिविष्टपे नाकपृष्ठे ह्यप्सराः सन्ति निर्वृताः २५

आनन्दोऽथ प्रमोदश्च स्वर्गशृङ्गे तु मध्यमे।
श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ २६

आह्लादः स्वर्गराजा वै स्वर्गशृङ्गे तु पश्चिमे।
निर्ममो निरहङ्कारः सौभाग्यश्चातिनिर्मलः २७

स्वर्गाश्चैव द्विजश्रेष्ठ पूर्वशृङ्गे समास्थिताः।
एकविंशतिः स्वर्गा वै निविष्टा मेरुमूर्द्धनि २८

अहिंसादानकर्तारो यज्ञानां तपसां तथा।
तत्तेषु निवसन्ति स्म जनाः क्रोधविवर्जिताः २९

जलप्रवेशे चानन्दं प्रमोदं वह्निसाहसे।
भृगुप्रपाते सौख्यं च रणं चैवास्य निर्मलम् ३०

अनाशके तु सन्न्यासे मृतो गच्छेत्त्रिविष्टपम्।
क्रतुयाजी नाकृपृष्ठमग्निहोत्री च निर्वृतिम् ३१

तडागकूपकर्त्ता च लभते पौष्टिकं द्विज।
सुवर्णदायी सौभाग्यं लभन्स्वर्गं तपःफलम् ३२

शीतकाले महावह्निं प्रज्वालयति यो नरः।
सर्वसत्त्वहितार्थाय स्वर्गं सोऽप्सरसं लभेत् ३३

हिरण्यगोप्रदाने हि निरहङ्कारमाप्नुयात्।
भूमिदानेन शुद्धेन लभते शान्तिकं पदम् ३४

रौप्यदानेन स्वर्गं तु निर्मलं लभते नरः।
अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ३५

द्विजेभ्यस्तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः।
श्वेतं तु लभते स्वर्गं यत्र गत्वा न शोचते ३६

कपिलागोप्रदानेन परमार्थे महीयते।
गोवृषस्य प्रदानेन स्वर्गं मन्मथामाप्नुयात् ३७

माघमासे सरित्स्नायी तिलधेनुप्रदस्तथा।
छत्रोपानहदाता च स्वर्गं यात्युपशोभनम् ३८

देवतायतनं कृत्वा द्विजशुश्रूषकस्तथा।
तीर्थयात्रापरश्चैव स्वर्गराजे महीयते ३९

एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः।
उपवासी त्रिरात्राद्यैः शान्तः स्वर्गं शुभं लभेत् ४०

सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः।
निर्मलं स्वर्गमाप्नोति यथा भूतहिते रतः।
निद्यादानेन मेधावी निरहङ्कारमाप्नुयात् ४१

येन येन हि भावेन यद्यद्दानं प्रयच्छति।
तत्तत्स्वर्गमवाप्नोति यद्यदिच्छति मानवः ४२

चत्वारि अतिदानानि कन्या गौर्भूः सरस्वती।
नरकादुद्धरन्त्येते जयवाहनदोहनात् ४३

यस्तु सर्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति।
सम्प्राप्य न निवर्तेत स्वर्गं शान्तमनामयम् ४४

शृङ्गे तु पश्चिमे यत्र ब्रह्मा तत्र स्थित स्वयम्।
पूर्वशृङ्गे स्वयं विष्णुः मध्ये चैव शिवः स्थितः ४५

अतः परं तु विप्रेन्द्र स्वर्गाध्वानमिमं शृणु।
विमलं विपुलं शुद्धमुपर्युपरि संस्थितम् ४६

प्रथमे तु कुमारस्तु द्वितीये मातरः स्थिताः।
तृतीये सिद्धगन्धर्वास्तुर्ये विद्याधरा द्विज ४७

पञ्चमे नागराजा च षष्ठे तु विनतासुतः।
सप्तमे दिव्यपितरो धर्मराजस्तथाष्टामे।
नवमे तु तथा दक्ष आदित्यो दशमे पथि ४८

भूर्लोकाच्छतसाहस्रादूर्ध्वं चरति भास्करः।
योजनानां सहस्रे द्वे विष्टम्भनं समन्तः ४९

त्रिगुणं परिणाहेन सूर्यबिम्बं प्रमाणतः।
सोमपूर्यां विभावर्यां मध्याह्ने चार्यमा यदा।
महेन्द्र स्यामरावत्यां तदा तिष्ठति भास्करः ५०

मध्याह्ने त्वमरावत्यां यदा भवति भास्करः।
तदा संयमने याम्ये तत्रोद्यंस्तु प्रदृश्यते ५१

मेरुं प्रदक्षिणं कुर्वन् भात्येव सविता सदा।
ध्रुवाधारस्तथोत्तिष्ठन् वालखिल्यादिभिः स्तुतः ५२

इति श्रीनरसिंहपुराणे भूगोलकथने त्रिंशोऽध्यायः ३०


एकत्रिंशोऽध्यायः।
भरद्वाज उवाच।
कोऽसौध्रुवः कस्य सुतः सूर्याधारोऽभवत्कथम्।
विचिन्त्य कथयाशु त्वं सूत जीव समाः शतम् १

सूत उवाच।
मनोः स्वायम्भुवस्यासीदुत्तानचरणः सुतः।
तस्य क्षितिपतेर्विप्र द्वौ सुतौ सम्बभूवतुः २

सुरुच्यामुत्तमो ज्येष्ठः सुनीयां तु ध्रुवोऽपरः।
मध्येसभं नरपतेरुपविष्टस्य चैकदा ३

सुनीत्या राजसेवायै नियुक्तोऽलङ्कृतः सुतः।
ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः ४

स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह।
दृष्ट्वोत्तमं तदुत्सङ्गे निविष्टं जनकस्य वै ५

प्राप्य सिंहासनस्थं च नृपतिं बालचापलात्।
आरुरुक्षुमवेक्ष्यामुं सुरुचिर्ध्रुवमब्रवीत् ६

सुरुचिरुवाच।
दौर्भगेय किमारोढुमिच्छेरङ्के महीपतेः।
बाल बालिशबुद्धत्वादभाग्याजाठरोद्भवः ७

अस्मिन् सिंहासने स्थातुं सुकृतं किं त्वया कृतम् ८

यदि स्यात्सुकृतं तत्किं दुर्भाग्योदरगोऽभवः।
अनेनैवानुमानेन बुध्यस्व स्वल्पपुण्यताम् ९

भूत्वा राजकुमारोऽपि नालङ्कुर्या ममोदरम्।
सुकुक्षिजममुं पश्य त्वमुत्तममनुत्तमम् १०

अधिजानु धराजानेर्मानेन परिबृंहितम्।
सूत उवाच।
मध्येराजसभं बालस्तयेति परिभर्त्सितः ११

निपतन्नेत्रबाष्पाम्बुर्धैर्यात्किञ्चिन्न चोक्तवान्।
उचितं नोचितं किञ्चिन्नोचिवान् सोऽपि पार्थिवः १२

नियन्त्रितो महिष्याश्च तस्याः सौभाग्यगौरवात्।
विसर्जितसभालोकं शोकं संहृत्य चेष्टितैः १३

शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ।
सुनीतिर्नीन्तिनिलयमवलोक्याथ बालकम् १४

मुखलक्ष्म्यैव चाज्ञासीद् ध्रुवं राज्ञापमानितम्।
अथ दृष्ट्वा सुनीतिं तु रहोऽन्तःपुरवासिनीम् १५

आलिङ्ग्य दीर्घं नि श्वस्य मुक्तकण्ठं रुरोद ह।
सान्त्वयित्वा सुनीतिस्तं वदनं परिमार्ज्य च १६

दुकूलाञ्चलसम्पर्कैर्वीज्य तं मृदुपाणिना।
पप्रच्छ तनयं माता वद रोदनकारणम् १७

विद्यमाने नरपतौ शिशो केनापमानितः।
ध्रुव उवाच।
सम्पृच्छे जननि त्वाहं सम्यक् शंस ममाग्रतः १८

भार्यात्वेऽपि च सामान्ये कथं सा सुरुचिः प्रिया।
कथं न भवती मातः प्रिया क्षितिपतेरसि १९

कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः।
कुमारत्वेऽपि सामान्ये कथं चाहमनुत्तमः २०

कथं त्वं मन्दभाग्यासि सुकुक्षिः सुरुचिः कथम्।
कथन्नृ पासनं योग्यमुत्तमस्य कथं न मे २१

कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम्।
इति श्रुत्वा वचस्तस्य सुनीतिर्नीन्तिमच्छिशोः २२

किञ्चिदुच्छ्वस्य शनकैः शिशुशोकोपशान्तये।
स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे २३

सुनीतिरुवाच।
अयि तात महाबुद्धे विशुद्धेनान्तरात्मना।
निवेदयामि ते सर्वं मावमाने मति कृथाः २४

तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा।
यदि सा महिषी राज्ञो राज्ञीनामतिवल्लभा २५

महासुकृतसम्भारैरुत्तमश्चोत्तमोदरे।
उवास तस्याः पुण्याया नृपसिंहासनोचितः २६

आतपत्रं च चन्द्रा भं शुभे चापि हि चामरे।
भद्रा सनं तथोच्चं च सिन्धुराश्च मदोत्कटाः २७

तुरङ्गमाश्च तुरगा अनाधिव्याधि जीवितम्।
निस्सपत्नं शुभं राज्यं प्राप्यं विष्णुप्रसादतः २९

सूत उवाच।
इत्याकर्ण्य सुनीत्यास्तन्मातुर्वाक्यमनिन्दितम्।
सौनीतेयो ध्रुवो वाचमाददे वक्तुमुत्तरम् २८

ध्रुव उवाच।
जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम्।
उत्तानचरणादन्यन्नास्तीति मे मतिः शुभे ३०

सिद्धार्थोऽस्म्यम्ब यद्यस्ति कश्चिदाश्रितकामधुक्।
उद्यैव सकलाराध्यं तमाराध्य जगत्पतिम् ३१

तत्तदासादितं विद्धि पदमन्यैर्दुरासदम्।
एकमेव हि साहाय्यं मातर्मे कर्तुमर्हसि ३२

अनुज्ञां देहि मे विष्णुं यथा चाराधयाम्यहम्।
सुनीतिरुवाच।
अनुज्ञातुं न शक्नोमि त्वामुत्तानशयाङ्गज ३३

सप्ताष्टवर्षदेशीयः क्रीडायोग्योऽसि पुत्रक।
त्वदेकतनया तात त्वदाधारैकजीविता ३४

लब्धोऽसि कतिभिः कष्टैरिष्टाः सम्प्रार्थ्य देवताः।
यदा यदा बहिर्यासि रन्तुं त्रिचतुरं पदम्।
तदा तदा मम प्राणस्तात त्वामुपगच्छति ३५

ध्रुव उवाच।
अद्य यावत् पिता माता त्वं चोत्तानपदो विभुः।
अद्य प्रभृति मे माता पिता विष्णुर्न संशयः ३६

सुनीतिरुवाच।
विष्णोराराधने नाहं वारये त्वां सुपुत्रक।
जिह्वा मे शतधा याति यदि त्वां वारयामि भोः ३७

इत्यनुज्ञामिव प्राप्य जननोवरणाम्बुजौ।
परिक्रम्य प्रणम्याथ तपसे च ध्रुवो ययौ ३८

तयापि धैर्यसूत्रेण सुनीत्या परिगुम्फ्य च।
तत्रेन्दीवरजा माला ध्रुवस्योपायनीकृता ३९

मात्रा तन्मार्गरक्षार्थं तदा तदनुगीकृताः।
परैरवार्यप्रसराः स्वाशीर्वादाः परश्शताः ४०

सर्वत्रावतु ते पुत्र शङ्खचक्रगदाधरः।
नारायणो जगद्व्यापी प्रभुः कारुण्यवारिधिः ४१

सूत उवाच।
स्वसौधात् स विनिर्गत्य बालो बालपराक्रमः।
अनुकूलेन मरुता दर्शिताध्वाविशद्वनम् ४२

स मातृदैवतोऽभिज्ञः केवलं राजवर्त्मनि।
न वेद काननाध्वानं क्षणं दध्यो नृपात्मजः ४३

पुरोपवनमासाद्य चिन्तयामास सोऽर्भकः।
किं करोमि क्व गच्छामि को मे साहाय्यदो भवेत् ४४

एवमुन्मील्य नयने यावत्पश्यति स ध्रुवः।
तावद्ददर्श सप्तर्षीन् अतर्कितगतीन् वने ४५

अथ दृष्ट्वा स सप्तर्षीन् सप्तसप्ततितेजसः।
भाग्यसूत्रैरिवाकृष्योपनीतान् प्रमुमोद ह ४६

तिलकाङ्कितसद्भालान् कुशोपग्रहिताङ्गुलीन्।
कृष्णाजिनोपविष्टांश्च ब्रह्मसूत्रैरलङ्कृतान् ४७

उपगम्य विनम्रांसः प्रबद्धकरसम्पुटः।
ध्रुवो विज्ञापयाञ्चक्रे प्रणम्य ललितं वचः ४८

ध्रुव उवाच।
अवैत मां मुनिवराः सुनीत्युदरसम्भवम्।
उत्तानपादतनयं ध्रुवं निर्विण्णमानसम् ४९

सूत उवाच।
तं दृष्ट्वोर्जस्वलं बालं स्वभावमधुराकृतिम्।
अनर्घ्यनयनेपथ्यं मृदुगम्भीरभाषिणम् ५०

उपोपवेश्य शिशुकं प्रोचुस्ते विस्मिता भृशम्।
तवाद्यापि न जानीमो वत्स निर्वेदकारणम् ५१

अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम्।
सप्तद्वीपपते राज्ञः कुमारस्त्वं तथा कथम् ५२

किमस्माभिरहो कार्यं कस्तवास्ति मनोरथः।
ध्रुव उवाच।
मुनयो मम यो बन्धुरुत्तमश्चोत्तमोत्तमः ५३

पित्रा प्रदत्तं तस्यास्तु तद्भद्रा सनमुत्तमम्।
भवत्कृतं हि साहाय्यं एतदिच्छामि सुव्रताः ५४

अनन्यनृपभुक्तं यद् यदन्येभ्यः समुच्छ्रितम्।
इन्द्रा दिदुरवापं यत् कथं लभ्येत तत्पदम् ५५

इति श्रुत्वा वचस्तस्य मुनयो बालकस्य तु।
यथार्थमेव प्रत्यूचुर्मरीच्याद्यास्तदा ध्रुवम् ५६

मरीचिरुवाच।
अनास्वादितगोविन्दपदाम्बुजरजोरसः।
मनोरथपथातीतं स्फीतं नाकलयेत् फलम् ५७

अत्रिरुवाच।
अनर्चिताच्युतपदः पदमासादयेत् कथम्।
इन्द्रा दिदुरवापं यन्मानवैः सुदुरासदम् ५८

अङ्गिरा उवाच।
न हि दूरे पदं तस्य सर्वासां सम्पदामिह।
कमलाकान्तकान्ताङ्घ्रिकमलं यः सुशीलयेत् ५९

पुलस्त्य उवाच।
यस्य स्मरणमात्रेण महापातकसन्ततिः।
परमान्तकमाप्नोति स विष्णुः सर्वदो ध्रुव ६०

पुलह उवाच।
यदाहुः परमं ब्रह्म प्रधानपुरुषात् परम्।
यन्मायया कृतं सर्वं स विष्णुः कीर्तितोऽर्थदः ६१

क्रतुरुवाच।
यो यज्ञपुरुषो विष्णुर्वेदवेद्यो जनार्दनः।
अन्तरात्मास्य जगतः सन्तुष्टः किं न यच्छति ६२

वसिष्ठ उवाच।
यद्भूनर्तनवर्तिन्यः सिद्धयोऽष्टौ नृपात्मज।
तमाराध्य हृषीकेशं चतुर्वर्गौ न दूरतः ६३

ध्रुव उवाच।
सत्यमुक्तं द्विजेन्द्रा वो विष्णोराराधनं प्रति।
कथं स भगवानिज्यः स विधिश्चोपदिश्यताम ६४

प्रभूतदो भवेद्यो वै दुराराध्यतमो भवेत्।
बालोऽहं राजपुत्रोऽहं दुःखं नैव मया क्षमम् ६५

मुनय ऊचुः।
तिष्ठता गच्छता वापि स्वपता जाग्रता तथा।
शयानेनोपविष्टेन वेद्यो नारायणः सदा ६६

पुत्रान् कलत्रं मित्राणि राज्यं स्वर्गापवर्गकम्।
वासुदेवं जपन् मर्त्यः सर्व प्राप्नोत्यसंशयम् ६७

द्वादशाक्षरमन्त्रेण वासुदेवात्मकेन च।
ध्यायंश्चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः ६८

पितामहेन चाप्येष महामन्त्र उपासितः।
मनुना राज्यकामेन वैष्णवेन नृपात्मज ६९

त्वमप्येतेन मन्त्रेण वासुदेवपरो भव।
यथाभिलषितामृद्धिं क्षिप्रं प्राप्स्यसि सत्तम ७०

सूत उवाच।
इत्युक्त्वान्तर्हिताः सर्वे महात्मानो मुनीश्वराः।
वासुदेवमना भूत्वा ध्रुवोऽपि तपसे ययौ ७१

ध्रुवः सर्वार्थदं मन्त्रं जपन् मधुवने तपः।
स चक्रे यमुनातीरे मुनिदिष्टेन वर्त्मना ७२

श्रद्धान्वितेन जपता च तपःप्रभावात्।
साक्षादिवाब्जनयनं ददृशे हृदीशम्।
दिव्याकृतिं सपदि तेन ततः स एव।
हर्षात् पुनः स प्रजजाप नृपात्मभूतः ७३

क्षुत्तर्षवर्षघनवातमहोष्णतादिशारीरदुःखकुलमस्य न किञ्चनाभूत् ॥
मग्ने मनस्यनुपमेयसुखाम्बुराशौ।
राज्ञः शिशुर्न च विवेद शरीरवार्ताम् ७४

विघ्नाश्च तस्य किल शङ्कितदेवसृष्टा।
बालस्य तीव्रतपसो विफला बभूवुः।
शीतातपादिरिव विष्णुमयं मुनिं हि।
प्रादेशिका न खलु धर्षयितुं क्षमन्ते ७५

अथ भक्तजनप्रियः प्रभुः।
शिशुना ध्यानबलेन तोषितः।
वरदः पतगेन्द्र वाहनो।
हरिरागात् स्वजनं तमीक्षितुम् ७६

मणिपिण्डकमौलिराजितो।
विलसद्र त्नमहाघनच्छविः ॥
स बभावुदयाद्रि मत्सराद्धृतबालार्क इवासिताचलः ७७

स राजसूनुं तपसि स्थितं तं।
ध्रुवं ध्रुवस्निग्धदृगित्युवाच।
दन्तांशुसञ्ज्ञैरमितप्रवाहैः।
प्रक्षालयन् रेणुमिवास्य गात्रे ७८

वरं वरं वत्स वृणीष्व यस्ते।
मनोगतस्त्वत्तपसास्मि तुष्टः।
ध्यानेन ते चेन्द्रि यनिग्रहेण।
मनोनिरोधेन च दुष्करेण ३९

शृण्वन् वचस्तत्सकलं गभीरमुन्मीलिताक्षः सहसा ददर्श ॥
स्वे चिन्त्यमानं त्विदमेव मूर्तं।
पुरःस्थितं ब्रह्म चतुर्भुजं सः ८०

दृष्ट्वा क्षणं राजसुतः सुपूज्यं।
पुरस्त्रयीशं किमिह ब्रवीमि।
किं वा करोमीति ससम्भ्रमः स तु।
न चाब्रवीत् किञ्चन नो चकार ८१

हर्षाश्रुपूर्णः पुलकाञ्चिताङ्गस्त्रिलोकनाथेति वदन्नथोच्चैः ॥
दण्डप्रणामाय पपात भूमौ।
प्रवेपमानभ्रु हरेः पुरः स हि ८२

दण्डवत् प्रणिपत्याथ परितः परिलुण्ठ्य च।
रुरोद हर्षेण चिरं दृष्ट्वा तं जगतो गुरुम् ८३

नारदेन सनन्देन सनकेन च संश्रुतम्।
अन्यैः सनत्कुमाराद्यैर्योगिभिर्योगिनां वरम् ८४

कारुण्यबाष्पनीराद्र रं! पुण्डरीकविलोचनम्।
ध्रुवमुत्थापयाञ्चक्रे चक्री धृत्वा करेण तम् ८५

हरिस्तु परिपस्पर्श तदङ्गं धूलिधूसरम्।
कराभ्यां कोमलाभ्यां स परिष्वज्याह तं हरिः ८६

वरं वरय भो बाल यत्ते मनसि वर्त्तते।
तद्ददामि न सन्देहो नादेयं विद्यते तव ८७

ततो वरं राजशिशुर्ययाचे।
विष्णुं वरं ते स्तवशक्तिमेव।
तं मूर्तविज्ञाननिभेन देवः।
पस्पर्श शङ्खेन मुखेऽमलेन ८८

अथ सुरमुनिदत्तज्ञानचन्द्रे ण सम्यग्।
विमलितमिव चित्तं पूर्णमेव ध्रुवस्य ॥
त्रिभुवनगुरुशङ्खस्पर्शजज्ञानभानानुदयति नितरान्तः साधु तुष्टाव हृष्टः ८९

ध्रुव उवाच।
अखिलमुनिजननिवहनमितचरणः । खरकदनकरः । चपलचरितः । देवाराधितपादजलः । सजलजलधरश्यामः शमितसौभपतिशाल्वधामा ॥
अभिरामरामातिविनयकृतनवरसरसापहतेन्द्रि।
यसुररमणीविहितान्तःकरणानन्दः । अनादि-निधनः ॥
अधननिजद्विजमित्रोद्धरणधीरः । अवधीरितसुरनाथना-थितविपक्षपक्षः ॥
ऋक्षराजबिलप्रवेशापहृतस्यमन्तकापमार्जित-निजापवाददुरितहृतत्रैलोक्यभारः।
। द्वारकावासनिरतः । स्वरित-मधुरवेणुवादनश्रवणामृतप्रकटितातीन्द्रि यज्ञानः।
। यमुनातटचरः ॥
द्विजधेनुभृङ्गगणैस्त्यक्तनिजनिजाहारः ॥
संसारदुस्तरपारावारसमुत्ता-रणाङ्घ्रिपोतः।
। स्वप्रतापानलहुतकालयवनः । वनमालाधरवर-मणिकुण्डलालङ्कृतश्रवणः।
नानाप्रसिद्धाभिधानः ॥
निगमविबुध-मुनिजनवचनमनोऽगोचरः।
। कनकपिशङ्गकौशेयवासोभगवान् भृगुपदकौस्तुभविभूषितोरःस्थलः ॥
स्वदयिताक्रूरनिजजननीगो-कुलपालकचतुर्भुञ्जशङ्खचक्रगदापद्मतुलसीनवदलदामहारकेयूरक-टकमुकुटालङ्कृतः।
। सुनन्दनादिभागवतोपासितविश्वरूपः । पुराण-पुरुषोत्तमः । उत्तमश्लोकः ॥
लोकावासोवासुदेवः । श्रीदेवकी-जठरसम्भूतः ॥
भूतपतिविरञ्चिनतचरणारविन्दः।
। वृन्दावनकृत-केलिगोपिकाजनश्रमापहः । सततं सम्पादितसुजनकामः ॥
कुन्दनिभशङ्खधरमिन्दुनिभवक्त्रं।
सुन्दरसुदर्शनमुदारतरहासं विद्वज्जनवन्दितमिदं ये रूपमतिहृद्यमखिलेश्वरं नतोऽस्मि ॥
स्थानाभिकामी तपसि स्थितोऽहं।
त्वां दृष्ट्वान् साधुमुनीन्द्र गुह्यम् ॥
काचं विचिन्वन्निव दिव्यरत्नं।
स्वामिन् कृतार्थोऽस्मि वरान्न याचे ९०

अपूर्वदृष्टे तव पादपद्मे।
दृष्ट्वा दृढं नाथ नहि त्यजामि।
कामान् न याचे स हि कोऽपि मूढो।
यः कल्पवृक्षात् तुषमात्रमिच्छेत् ९१

त्वां मोक्षबीजं शरणं प्रपन्नः।
शक्नोमि भोक्तुं न बहिस्सुखानि ॥
रत्नाकरे देव सति स्वनाथे।
विभूषणं काचमयं न युक्तम् ९२

अतो न याचे वरमीश युस्मत्।
पदाब्जभक्तिं सततं ममास्तु ॥
इमं वरं देववर प्रयच्छ।
पुनः पुनस्त्वामिदमेव या चे ९३

श्रीसूत उवाच।
इत्यात्मसन्दर्शनलब्धदिव्यज्ञानं गदन्तं भगवाञ्जगाद ९४

श्रीभगवानुवाच।
आराध्य विष्णुं किमनेन लब्धं।
मा भूञ्जनेऽपीत्थमसाधुवादः ॥
स्थानं परं प्राप्नुहि यन्मतं ते।
कालेन मां प्राप्स्यसि शुद्धभावः ९५

आधारभूतः सकलग्रहाणां।
कल्पद्रुमः सर्वजनैश्च वन्द्यः।
मम प्रसादात्तव सा च माता।
ममान्तिके या च सुनीतिरार्या ९६

श्रीसूत उवाच।
तं साधयित्वेति वरैर्मुकुन्दः।
स्वमालयं दृश्यवपुर्जगाम।
त्यक्त्वा शनैर्दिव्यवपुः स्वभक्तं।
मुहुः परावृत्त्य समीक्षमाणः ९७

तावच्च सद्यः सुरसिद्धसङ्घः।
श्रीविष्णुतद्भक्तसमागमं तम् ॥
दृष्ट्वाथ वर्षन् सुरपुष्पवृष्टिं।
तुष्टाव हर्षाद् ध्रुवमव्ययं च ९८

श्रियाभिमत्या च सुनीतिसूनुर्विभाति देवैरपि वन्द्यमानः।
योऽयं नृणां कीर्तनदर्शनाभ्यामायुर्यशो वर्धयति श्रियं च ९९

इत्थं ध्रुवः प्राप पदं दुरापं।
हरेः प्रसादान्न च चित्रमेतत् ॥
तस्मिन् प्रसन्ने द्विजराजपत्रे।
न दुर्लभं भक्तजनेषु किञ्चित् १००

सूर्यमण्डलमानात्तु द्विगुणं सोममण्डलम् ॥
पूर्णे शतसहस्रे द्वे तस्मान्नक्षत्रमण्डलम् १०१

द्वे लक्षेऽपिबुधस्यापि स्थानं नक्षत्रमण्डलात्।
तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः १०२

अङ्गारकोऽपि शुक्रस्य तावन्माने व्यवस्थितः।
लक्षद्वयं तु भौमस्य स्थितो देवपुरोहितः १०३

सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे तु व्यवस्थितः।
तस्माच्छनैश्चरादूर्ध्वं लक्षे सप्तर्षिमण्डलम् १०४

सप्तर्षिमण्डलादूर्ध्वमेकं लक्षं ध्रुवः स्थितः।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य सत्तम १०५

स्वभावात् तपति विप्रेन्द्र अधश्चोर्ध्वं च रश्मिभिः।
कालसङ्ख्यां त्रिलोकस्य स करोति युगे युगे १०६

जनस्तपस्तथा सत्यमेतांल्लोकान् द्विजोत्तम।
ब्रह्मणा मुनिशार्दूल विष्णुभक्तिविवर्धितः १०७

ऊर्ध्वङ्गतैर्द्विजश्रेष्ठ रश्मिभिस्तपते रविः।
अधोगतैर्श्च भूर्लोकं द्योतते दीर्धदीधितिः १०८

सर्वपापहरः सूर्यः कर्ता त्रिभुवनस्य च।
छत्रवत् प्रतिपश्येत मण्डलान्मण्डलं परम् १०९

आदित्यमण्डलाधस्ताद् भुवलोकं प्रतिष्ठितम्।
त्रैलोक्यस्येश्वरत्वं च विष्णुदत्तं शतक्रतोः ११०

लोकपालैः स सहितो लोकान् रक्षति धर्मतः।
वसेत् स्वर्गे महाभाग देवेन्द्र ः! स तु कीर्तिमान् १११

ततोऽधस्तानमुने चेदं पातालं विद्धि सप्रभम्।
न तत्र तपते सूर्यो न रात्रिर्न निशाकरः ११२

दिव्यस्वरूपमास्थाय तपन्ति सततं जनाः।
पातालस्या द्विजश्रेष्ठ दीप्यमानाः खतेजसा ११३

स्वर्लोकात्तु महर्लोकः कोटिमात्रे व्यवस्थितः।
ततौ योजनमात्रेण द्विगुणो मण्डलेन तु ११४

जनलोकः स्थितो विप्र पञ्चमो मुनिसेवितः।
तत्रोपरि तपोलोकश्चतुर्भिः कोटिभिः स्थितः ११५

सत्यलोकोऽष्टकोटीभिस्तपोलोकोपरिस्थितः।
सर्वे छत्राकृतिज्ञेया भुवनोपरिसंस्थिताः ११६

ब्रह्मलोकाद्विष्णुलोको द्विगुणश्च व्यवस्थितः।
वाराहे तस्य माहात्म्यं कथितं लोकचिन्तकैः ११७

ततः परं द्विजश्रेष्ठ स्थितः परमपूरुषः।
ब्रह्माण्डात् परमः साक्षान्निर्लेल्पः पुरुषः स्थितः ११८

पशुपाशैर्विमुच्येत तपोज्ञानसमन्वितः।
इति ते संस्थितिः प्रोक्ता भूगोलस्य मयानघ।
यस्तु सम्यगिमां वेत्ति स याति परमां गतिम् ११९

लोकस्य संस्थानकरोऽप्रमेयो।
विष्णुर्नृसिंहो नरदेवपूजितः।
युगे युगे विष्णुरनादिमूर्तिमानास्थाय विश्वं परिपाति दुष्टहा १२०

इति श्रीनरसिंहपुराणे एकत्रिंशोऽध्यायः ३१


द्वात्रिंशोऽध्यायः।
भरद्वाज उवाच।
सहस्रानीकस्य हरेरवतारांश्च शार्ङ्गिणः।
साम्प्रतं श्रोतुमिच्छामि तन्मे वद महामते १

सूत उवाच।
हन्त ते कथयिष्यामि चरितं तस्य धीमतः।
सहस्रानीकस्य हरेरवतारांश्च शे शृणु २

सहस्रानीकोऽभिषिक्तो निजराज्ये द्विजोत्तमैः।
पालयामास धर्मेण राज्यं स तु नृपात्मजः ३

तस्य पालयतो राज्यं राजपुत्रस्य धीमतः।
भक्तिर्बभूव देवेशे नरसिंहे सुरोत्तमे ४

तं द्र ष्टुमागतः साक्षाद्विष्णुभक्तं भृगुः पुरा।
अर्घ्यपाद्यासनै राजा तमभ्यर्च्याब्रवीदिदम् ५

पावितोऽसं मुनिश्रेष्ठ साम्प्रतं तव दर्शनात्।
त्वद्दर्शनमपुण्यानां कलावस्मिन् सुदुर्लभम् ६

नरसिंहं प्रतिष्ठाप्य देवदेवं सनातनम्।
आराधयितुमिच्छामि विधानं तत्र मे वद ७

अवतारानशेषांश्च देवदेवस्य चक्रिणः।
श्रोतुमिच्छामि सकलांस्तान् पुण्यानपि मे वद ८

भृगु उवाच।
शृणु भूपालपुत्र त्वं न हि कश्चित् कलौ युगौ।
हरौ भक्तिं करोत्यत्र नृसिंहे चातिभक्तिमान् ९

स्वभावाद्यस्य भक्तिः स्यान्नरसिंहे सुरोत्तमे।
तस्यारयः प्रणश्यन्ति कार्यसिद्धिश्च याजते १०

त्वमतीव हरेर्भक्तः पाण्डुवंशेऽपि सत्तमः।
तेन ते निखिलं वक्ष्ये शृणुष्वैकाग्रमानसः ११

यः कुर्याच्छोभनं वेश्म नरसिंहस्य भक्तिमान्।
स सर्वपापनिर्मुक्तो विष्णुलोकमवाप्नुयात् १२

प्रतिमां लक्षणोपेतां नरसिंहस्य कारयेत्स सर्वपापनिर्मुक्तो विष्णुलोकमवाप्नुयात् १३

प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि।
निष्कामो नरशार्दूल देहबाधात् प्रमुच्यते १४

नरसिंहं प्रतिष्ठाप्य यः पूजामाचरेन्नरः।
तस्य कामाः प्रसिध्यन्ति परमं पदमाप्नुयात् १५

ब्रह्मादयः सुराः सर्वे विष्णुमाराघ्य ते पुरा।
स्वं स्वं पदमनुप्राप्ताः केशवस्य प्रसादतः १६

ये ये नृपवरा राजन् मान्धातृप्रमुखा नृपाः।
ते ते विष्णुं समाराघ्य स्वर्गलोकमितो गताः १७

यस्तु पूजयते नित्यं नरसिंहं सुरेश्वरम्।
स स्वर्गमोक्षभागी स्यान्नात्र कार्या विचारणा १८

तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया।
अर्चनान्नरसिंहस्य प्राप्स्यसे स्वाभिवाञ्छितम् १९

विधिवत्स्थापयेद्यस्तु कारयित्वा जनार्दनम्।
न तु निर्गमनं तस्य विष्णुलोकाद् भवेन्नृप २०

नरो नृसिंहं तमनन्तविक्रमं।
सुरासुरैरर्चितपादपङ्कजम् ॥
संस्थाप्य भक्त्या विधिवच्च पूजयेत्।
प्रयाति साक्षात् परमेश्वरं हरिम् २१

इति श्रीनरसिंहपुराणे सहस्रानीकचरिते द्वात्रिंशोऽध्यायः ३२


त्रयस्त्रिंशोऽध्यायः।
राजोवाच।
हरेरर्चाविधिं पुण्यां श्रोतुमिच्छामि तत्त्वतः।
त्वत्प्रसादाद्विशेषेण भगवन् प्रब्रवीहि मे १

सम्मार्जनकरो यश्च नरसिंहस्य मन्दिरे।
यत्पुण्यं लभते तद्वदुपलेपनकृन्नरः २

शुद्धोदकेन यत्पुण्यं स्नापिते केशवे भवेत्।
क्षीरस्नानेन यत्पुण्यं दध्ना च मधुना तथा।
घृतस्नानेन यत्पुण्यं पञ्चगव्येन यद् भवेत् ३

क्षालिते चोष्णतोयेन प्रतिमायां च भक्तितः।
कर्पूरागुरुतोयेन मिश्रेण स्नापितेन च ४

अर्घ्यदानेन यत्पुण्यं पाद्याचमनदानके।
मन्त्रेण स्नापिते यच्च वस्त्रदानेन यद्भवेत् ५

श्रीखण्डकुङ्कुमाभ्यां तु अर्चिते किं फलं भवेत्।
पुष्पैरभ्यर्चिते यच्च यत्फलं धूपदीपयोः ६

नैवेद्यैर्यत्फलं प्रोक्तं प्रदक्षिणकृते तु यत्।
नमस्कारकृते यच्च फलं यत्स्तोत्रगीतयोः ७

तालवृन्तप्रदानेन चामरस्य च यद्भवेत्।
ध्वजप्रदाने यद्विष्णोः शङ्खदानेन यद्भवेत् ८

एतच्चान्यच्च यत्किञ्चिदज्ञानान्न प्रचोदितम्।
तत्सर्वं कथय ब्रह्मन् भक्तस्य नम केशवे ९

सूत उवाच।
इति सम्प्रेरितो विप्रस्तेन राज्ञा भृगुस्तदा।
मार्कण्डेयं नियुज्याथ कथने स गतो मुनिः १०

सोऽपि तस्मिन् मुदायुक्तो हरिभक्तया विशेषतः।
राज्ञे प्रवक्तुमारेमे भृगुणा चोदितो मुनिः ११

मार्कण्डेय उवाच।
राजपुत्र शृणुष्वेदं हरिपूजाविधिं क्रमात्।
विष्णुभक्तस्य वक्ष्यामि तवाहं पाण्डुवंशज १२

नरसिंहस्य नित्यं च यः सम्मार्जनमारमेत्।
सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते १३

गोमयेन मृदा तोयैर्यः करोत्युपलेपनम्।
स चाक्षयफलं प्राप्य विष्णुलोके महीयते १४

अत्रार्थे यत्पुरावृत्तमितिहासं पुरातनम्।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तिर्भवति सत्तम १५

पुरा युधिष्ठिरो राजा पञ्चभिर्भ्रातृभिर्युतः।
द्रौ पद्या सह राजेन्द्र काननं विचचार ह १६

शूलकण्टकनिष्क्रान्तास्ततस्ते पञ्च पाण्डवाः।
नारदोऽपि गतो नाकं जुष्ठ्वेदं तीर्थमुत्तमम् १७

ततो युधिष्ठिरो राजा प्रस्थितस्तीर्थमुत्तमम्।
दर्शनं मुनिमुख्यस्य तीर्थधर्मोपदेशिनः १८

चिन्तयति च धर्मात्मा क्रोधपैशुन्यवर्जितः।
दानवो बहुरोमा च तथा स्थूलशिरा नृप १९

पाण्डवान् गच्छतो वीक्ष्य दानवो द्रौ पदीच्छया।
कृत्वा भूप मुने रूपं बहुरोमाऽऽगतस्तदा २०

प्रणिधानं विधायाथ आसीनः कुशविष्टरे।
बिभ्रत् कमण्डलुं पार्श्वे दर्भसूचीं तथा करे २१

अक्षमालां जपन्मन्त्रं स्वनासाग्रं निरीक्षयन्।
स दृष्टः पाण्डवैस्तत्र रेवायां वनचारिभिः २२

ततो युधिष्ठिरो राजा तं प्रणम्य सहानुजः।
जगाद वचनं दृष्ट्वा भाग्येनासि महामुने २३

तीर्थानि रुद्र देहायाः सुगोप्यानि निवेदय।
मुनीनां दर्शनं नाथ श्रुतं धर्मोपदेशकम् २४

यावन्मुनिमुवाचेदं धर्मपुत्रो युधिष्ठिरः।
तावत्स्थूलशिराः प्राप्तो मुनिरूपधरोऽपरः २५

जल्पन्नित्यातुरं वाक्यं को नामास्त्यत्र रक्षकः।
भयातुरं नरो जीवं यो रक्षेच्छरणागतम् २६

तस्यानन्तफलं स्याद्वै किं पुनर्मा द्विजोत्तमम्।
एकतो मेदिनीदानं मेरुभूधरदक्षिणम् २७

अन्यतो ह्यार्तजीवानां प्राणसंशयवारणम्।
द्विजं धेनुं स्त्रियं बालं पीड्यमानं च दुर्जनैः २८

उपेक्षेत नरो यस्तु स च गच्छति रौरवम्।
अथ मां हृतसर्वस्वं प्राणत्यागपरायणम् २९

को रक्षति नरो वीरः पराभूतं हि दानवैः।
गृहीत्वा चाक्षमालां मे तथा शुभकमण्डलुम् ३०

निहतोऽहं कराघातैस्तथा खाटो मनोहरः।
गृहीतं मम सर्वस्वं दानवेन दुरात्मना ३१

इत्याकर्ण्य वचः क्लीबं पाण्डवा जातसम्भ्रमाः।
यान्ति रोमाञ्चिता भूयो विधायाग्निं च तं मुनिम् ३२

विमुच्य द्रौ पदीं तत्र मुनेः पार्श्वै महात्मनः।
ततो दूरतरं प्राप्ताः संरम्भात्ते च पाण्डवाः ३३

ततो युधिष्ठिरोऽवोचत् किं च नो नात्र दृश्यते।
कृष्णासंरक्षणार्थाय व्रज व्यावर्त्य चार्जुन ३४

ततोऽर्जुनो विनिष्क्रान्तो बन्धुवाक्यप्रणोदितः।
ततो युधिष्ठिरो राजा सत्यां वाचमकल्पयत् ३५

निरीक्ष्य मण्डलं भानोस्तदा सुगहने वने।
मम सत्याच्च सुकृताद् धर्मसम्भाषणात् प्रभो ३६

तथ्यं शंसन्तु त्रिदशा मम संशयभाजिनः।
ततोऽम्बरेऽभवद्वाणी तदा भूपाशरीरिणी ३७

दानवोऽयं महाराज मुनिः स्थूलशिराः स्थितः।
नासावुपद्रुतः केन मायैषास्य दुरात्मनः ३८

ततो भीमः कराघातैर्नश्यमानं हि दानवम्।
संरम्भात्कुपितोऽत्यर्थं मौलिदेशे जघान तम् ३९

सोऽपि रूपं निजं प्राप्य रौद्रं भीममताडयत्।
तत्र युद्धं प्रववुते दारुणं भीमदैत्ययोः ४०

कष्टाद्बभञ्ज भीमोऽपि तस्य स्थूलं शिरो वने।
अर्जुनोऽपि समायातो नैव पश्यति तं मुनिम् ४१

तथा च द्रौ पदीं भूयः साध्वीं कान्तां च वल्लभाम्।
ततो वृक्षं समारुह्य यावत्पश्यति चार्जुनः ४२

तावद्विधाय तां स्कन्धे शीघ्रं धावति दानवः।
संहृता याति दुष्टेन रुदती दुररी यथा ४३

कुर्वती भीमभीमेति धर्मपुत्रेति वादिनी।
तां दृष्ट्वा स ययौ वीरः शब्दैः सन्नादयन् दिशः ४४

पादन्यासोरुवेगेन प्रभग्नाः पादपा भृशम्।
ततोदैत्योऽपि तां तन्वीं विहायाशु पलायितः ४५

तथापि चार्जुनो तस्य कोपान्मुञ्चति नासुरम्।
पतितो मेदिनीपृष्ठे तावदेव चतुर्भुजः ४६

पीते च वाससी बिभ्रत् शङ्गचक्रायुधानि च।
ततः स विस्मयाक्रान्तो नत्वा पार्थो वचोऽवदत् ४७

अर्जुन उवाच।
कथं कृतैषा भगवंस्त्वया मायात्र वैष्णवी।
मयाप्यपकृतं नाथ तत्क्षमस्व नमोऽस्तु ते ४८

नूनमज्ञानभावेन कर्मैतद्दारुणं मया।
तत्क्षन्तव्यं जगन्नाथ चैतन्यं मानवे कुतः ४९

चतुर्भुज उवाच।
नाहं कृष्णो महाबाहो बहुरोमास्मि दानवः।
उपयातो हरेर्देहं पूर्वकर्मप्रभावतः ५०

अर्जुन उवाच।
बहुरोमन् पूर्वजातिं कर्म मे शंस तत्त्वतः।
केन कर्मविपाकेन विष्णोः सारूप्यमाप्यमाप्तवान् ५१

चतुर्भुज उवाच।
शृण्वर्जुन महाभाग सहितो भ्रातृभिर्मम।
चरितं चित्रमत्यर्थं शृण्वतां मुदवर्धनम् ५२

अहमासं पुरा राजा सोमवंशसमुद्भवः।
जयध्वज इति ख्यातो नारायणपरायणः ५३

विष्णोर्देवालये नित्यं सम्मार्जनपरायणः।
उपलेपरतश्चैव दीपदाने समुद्यतः ५४

वीतिहोत्र इति ख्यात आसीत् साधुपुरोहितः।
मम तच्चरितं दृष्ट्वा विप्रो विस्मयमागतः ५५

मार्कण्डेय उवाच।
कदाचिदुपविष्टं तं राजानं विष्णुतत्परम्।
अपृच्छद्वीतिहोत्रस्तं वेदवेदाङ्गपारगः ५६

राजन् परमधर्मज्ञ हरिभक्तपरायण।
विष्णुभक्तिमतां पुंसां श्रेष्ठोऽसि पुरुषर्षभ ५७

सम्मार्जनपरो नित्यं उपलेपरतस्तथा।
तन्मे वद महाभाग त्वया किं विदितं फलम् ५८

कर्माण्यन्यानि सन्त्येव विष्णोः प्रियतराणि वै।
तथापि त्वं महाभाग एतयोः सततोद्यतः ५९

सर्वात्मना महापुण्यं जनेश विदितं तव।
तद्ब्रूहि यद्यगुह्यं च प्रीतिर्मयि तवास्ति चेत् ६०

जयध्वज उवाच।
शृणष्व विप्रशार्दूल मवैव चरितं पुरा ६१

जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयावहम्।
पूर्वजन्मनि विप्रेन्द्र रैवतो नाम वाडवः ६२

अयाज्ययाजकोऽहं वै सदैव ग्रामयाजकः।
पिशुनो निष्ठुरश्चैव अपण्यानां च विक्रयी ६३

निषिद्धकर्माचरणात् परित्यक्तः स्वबन्धुभिः।
महापापरतो नित्यं ब्रह्मद्वेषरतस्थता ६४

परदारपरद्र व्यलोलुपो जन्तुहिंसकः।
मद्यपानरतो नित्यं ब्रह्मद्वेषरतस्थता ६५

एवं पापरतो नित्यं बहुशो मार्गरोधकृत्।
कदाचित् कामचारोऽहं गृहीत्वा ब्राह्मणस्त्रियः ६६

शून्यं पूजादिभिर्विष्णोर्मन्दिरं प्राप्तवान्निशि।
स्ववस्त्रप्रान्ततो ब्रह्मन् कियदंशः स मार्जितः ६७

प्रदीपः स्थापितस्तत्र सुरतार्थाद् द्विजोत्तम।
तेनापि मम दुष्कर्म निःशेषं क्षयमागतम् ६८

एवं स्थितं विष्णुगृहे मया भोगेच्छया द्विज।
तदैव दीपकं दृष्ट्वा आगताः पुरपालकाः ६९

चौर्यार्थ परदूतोऽयमित्युक्त्वा मामपातयन्।
खड्गेन तीक्ष्णधारेण शिरश्छित्वा च ते गताः ७०

दिव्यं विमानमारुह्य प्रभुदाससमन्वितम्।
गन्धर्वैर्गीयमानोऽहं स्वर्गलोकं तदा गतः ७१

चतुर्भुज उवाच।
तत्र स्थित्वा ब्रह्मकल्पं शतं साग्रं द्विजोत्तमाः।
दिव्यभोगसमायुक्तो दिव्यरूपसमन्वितः ७२

जातोऽहं पुण्ययोगाद्धि सोमवंशसमुद्भवः।
जयध्वज इति ख्यातो राजा राजीवलोचनः ७३

तत्रापि कालवशतो मृतः स्वर्गमवाप्तवान्।
इन्द्र लोकमनुप्राप्य रुद्र लोकं ततो गतः ७४

रुद्र लोकाद्ब्रह्मलोकं गच्छता नारदो मुनिः।
दृष्टश्च नमितो नैव गर्वान्मे हसितश्च सः ७५

कुपितः शप्तवान् मां स राक्षसो भव भूपते।
इति शापं समाकर्ण्य दत्तं तेन द्विजन्मना ७६

प्रसादितो मया भूप प्रसादं कृतवान् मुनिः।
यदा रेवामठे राजन् धर्मपुत्रस्य धीमतः ७७

भार्यापहारं नयतः शापमोक्षो भविष्यति।
सोऽहमर्जुन भूपाल धर्मपुत्र युधिष्ठिर ७८

विष्णोः सारूप्यमगमं यामि वैकुण्ठमद्य वै।
मार्कण्डेय उवाच।
इत्युक्त्वा गरुडारूढो धर्मपुत्रस्य पश्यतः ७९

गतवान् विष्णुभवनं यत्र विष्णुः श्रिया सह।
सम्मार्जनोपलेपाभ्यां महिमा तेन वर्णितः ८०

अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः।
भक्तिमद्भिः प्रशान्तैश्च किं पुनः सम्यगर्चनात् ८१

सूत उवाच।
मार्कण्डेयवचः श्रुत्वा पाण्डुवंशसमुद्भवः।
सहस्रानीकभूपालो हरिपूजारतोऽभवत् ८२

तस्माच्छृणुत विप्रेन्द्रा देवो नारायणोऽव्ययः।
ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ८३

अर्चयध्वं जगन्नाथं भूयो भूयो वदाम्यहम्।
तर्तुं यदीच्छथ द्विजा दुस्तरं भवसागरम् ८४

येऽर्चयन्ति हरिं भक्ताः प्रणतार्तिहरं हरिम्।
ते वन्द्यास्ते प्रपूज्याश्च नमस्याश्च विशेषतः ८५

इति श्रीनरसिंहपुराणे सहस्रानीकचरिते मार्कण्डेयेनोपदिष्टसम्मार्जनोपफलं नाम त्रयस्त्रिंशोऽध्यायः ३३


चतुस्त्रिंशोऽध्यायः।
श्रीसहस्रनीक उवाच।
पुनरेव द्विजश्रेष्ठ मार्कण्डेय महामते।
निर्माल्यापनयाद्विष्णोर्यत्पुण्यं तद्वदस्व मे १

मार्कण्डेय उवाच।
निर्माल्यमपनीयाथ तोयेन स्नाप्य केशवम्।
नरसिंहाकृतिं राजन् सर्वपापैः प्रमुच्यते २

सर्वतीर्थफलं प्राप्य यानारूढो दिवं व्रजेत्।
श्रीविष्णोः सदनं प्राप्य मोदते कालमक्षयम् ३

आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः।
एतावतापि राजेन्द्र सर्वपापैः प्रमुच्यते ४

दत्त्वाऽऽसनमथार्घ्यं च पाद्यमाचमनीयकम्।
देवदेवस्य विधिना सर्वपापैः प्रमुच्यते ५

स्नाप्य तोयेन पयसा नरसिंहं नराधिप।
सर्वपपविनिर्मुक्तो विष्णुलोके महीयते ६

स्नाप्य दध्ना सकृद्यस्तु निर्मलः प्रियदर्शनः।
विष्णुलोकमवाप्नोति पूज्यमानः सुरोत्तमैः ७

यः करोति हरेरर्चां मधुना स्नापयन्नरः।
अग्निलोके स मोदित्वा पुनर्विष्णुपुरे वसेत् ८

घृतेन स्नपनं यस्तु स्नानकाले विशेषतः।
नरसिंहाकृतेः कुर्याच्छङ्गभेरीनिनादितम् ९

पपकञ्चुकमुन्मुच्य यथा जीर्णामहिस्त्वचम्।
दिव्यं विमानमास्थाय विष्णुलोके महीयते १०

पञ्चगव्येन देवेशं यः स्नापयति भक्तितः।
मन्त्रपूर्व महाराज तस्य पुण्यमनन्तकम् ११

यश्च गोधूमकैश्चूर्णैरुद्वर्त्योष्णेन वारिणा।
प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् १२

पादपीठं तु यो भक्त्या बिल्वपत्रैर्निघर्षितम्।
उष्णाम्बुना च प्रक्षाल्य सर्वपापै प्रमुच्यते १३

कुशपुष्पोदकैः स्नात्वा ब्रह्मलोकमवाप्नुयात्।
रत्नोदकेन सावित्रं कौबेरं हेमवारिणा।
नरसिंहं तु संस्नाप्य कर्पूरागुरुवारिणा १४

इन्द्र लोके स मोदित्वा पश्चाद्विष्णुपुरे वसेत्।
पुण्योदकेन गोविन्दं स्नाप्य भक्त्या नरोत्तम १५

सावित्रं लोकमासाद्य विष्णुलोके महीयते।
वस्त्राभ्यामर्चनं भक्तया परिधाप्य हरिं हरेः १६

सोमलोके रमित्वा च विष्णुलोके महीयते।
कृङ्कुमागुरुश्रीखण्डकर्दमैरच्युताकृतिम् १७

आलिप्य भक्तया राजेन्द्र कल्पकोटिं वसेद्दिवि।
मल्लिकामालतीजातिकेतक्यशोकचम्पकैः १८

पुन्नागनागबकुलैः पद्मरुत्पलजातिभिः।
तुलसीकरवीरैश्च पालाशैः सानुकुम्बकैः १९

एतैरन्यैश्च कुसुमैः प्रशस्तैरच्युतं नरः।
अर्चयेद्दशसुवर्णस्य प्रत्येकं फलमाप्नुयात् २०

मालां कृत्वा यथालाभमेतेषां विष्णुमर्चयेत्।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च २१

दिव्यं विमानमास्थाय विष्णुलोके स मोदते।
नरसिंहं तु यो भक्त्या बिल्वपत्रैरखण्डितैः २२

निश्छिद्रै ः! पूजयेद्यस्तु तुलसीभिः समन्वितम्।
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः २३

काञ्चनेन विमानेन विष्णुलोके महीयते।
माहिषाख्यं गुग्गुलं च आज्य युक्तं सशर्करम् २४

धूपं ददाति राजेन्द्र नरसिंहस्य भक्तिमान्।
धूपितैः सर्वदिग्भ्यस्तु सर्वपापविवर्जितः २५

अप्सरोगणसङ्कीर्णविमानेन विराजते।
वायुलोके स मोदित्वा पश्चाद्विष्णुपुरं व्रजेत् २६

घृतेन वाथ तैलेन दीपं प्रज्वालयेन्नरः।
विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु २७

विहाय पापकलिलं सहस्रादित्यसप्रभः।
ज्योतिष्मता विमानेन विष्णुलोकः स गच्छति २८

हविः शाल्योदनं विद्वानाज्ययुक्तं सशर्करम्।
निवेद्य नरसिंहाय यावकं पायसं तथा २९

समास्तन्दुलसङ्ख्याया यावतीस्तावतीर्नृप।
विष्णुलोके महाभोगान् भुञ्जन्नास्ते स वैष्णवः ३०

बलिना वैष्णवेनाथ तृप्ताः सन्तो दिवौकसः।
शान्तिं तस्य प्रयच्छन्ति श्रियमारोग्यमेव च ३१

प्रदक्षिणेन चैकेन देवदेवस्य भक्तितः।
कृतेन यत्फलं नॄणां तच्छृणुष्व नृपात्मज ३२

पृथ्वीप्रदक्षिणफलं प्राप्य विष्णुपुरे वसेत्।
नमस्कारः कृतो येन भक्त्या वै माधवस्य च ३३

धर्मार्थकाममोक्षाख्यं फलं तेनाप्तमञ्जसा।
स्तोत्रैर्जपैश्च देवाग्रे यः स्तौति मधुसूदनम् ३४

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।
गीतवाद्यादिकं नाट्यं शङ्खतूर्यादिनिःस्वनैः ३२

यः कारयति वै विष्णोः स याति मन्दिरं नरः।
पर्वकाले विशेषेण कामगः कामरूपवान् ३६

सुसङ्गीतविदैश्चैव सेव्यमानोऽप्सरोगणैः।
महार्हमणिचित्रेण विमानेन विराजता ३७

स्वर्गात् स्वर्गमनुप्राप्य विष्णुलोके महीयते।
ध्वजं तु विष्णवे यस्तु गरुडेन समन्वितम् ३८

दद्यात्सोऽपि ध्वजाकीर्णविमानेन विराजता।
विष्णुलोकमवाप्नोति सेव्यमानोऽप्सरोगणैः ३९

सुवर्णाभरणैर्दिव्यैर्हारकेयूरकुण्डलैः।
मुकुटाभरणाद्यैश्च यो विष्णुं पूजयेन्नृप ४०

सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः।
इन्द्र लोके वसेद्धीमान् यावदिन्द्रा श्चतुर्दश ४१

यो गां पयस्विनीं विष्णोः कपिलां सम्प्रयच्छति।
आराध्य तमथाग्रे तु यत्किञ्चिद्दग्धमुत्तमम् ४२

तद्दत्वा नरसिंहाय विष्णुलोके महीयते।
पितरस्तस्य मोदन्ते श्वेतद्वीपे चिरं नृप ४३

एवं यः पजयेद्रा जन् नरसिंहं नरोत्तम।
तस्य स्वर्गापवर्गौ तु भवतो नात्र संशयः ४४

यत्रैवं पूज्यते विष्णुर्नरसिंहो नरैर्नृप।
न तत्र व्यधिदुर्भिक्षराजचौरादिकं भयम् ४५

नरसिंहं समाराध्य विधिनानेन माधवम्।
नानास्वर्गसुखं भुक्त्वा न भूयः स्तनपो भवेत् ४६

नित्यं सर्पिस्तिलैर्होमो ग्रामे यस्मिन् प्रवर्तते।
न भवेत्तस्य ग्रामस्य भयं वा तत्र कुत्रचित् ४७

अनावृष्टिर्महामारी दोषा नो दाहका नृप।
नरसिंहं समाराध्य ब्राह्मणैर्वेदपारगैः ४८

कारयेल्लक्षहोमं तु ग्रामे यत्र पुराधिपः।
कृते तस्मिन्मयोक्ते तु आगच्छति न तद्भयम् ४९

दृष्टोपसर्गमरणं प्रजानामात्मनश्च हि।
सम्यगाराधनीयं तु नरसिंहस्य मन्दिरे ५०

शङ्करायतने चापि कोटिहोमं नराधिप।
कारयेत् संयतैर्विप्रैः सभोजनसदक्षिणैः ५१

कृते तस्मिन्नृपश्रेष्ठ नरसिंहप्रसादतः।
उपसर्गादिमरणं प्रजानामुपशाम्यति ५२

दुःस्वप्नदर्शने घोरे ग्रहपीडासु चात्मनः।
होमं च भोजनं चैव तस्य दोषः प्रणश्यति ५३

अयने विषुवे चैव चन्द्र सूर्यग्रहे तथा।
नरसिंहं समाराध्य लक्षहोमं तु कारयेत् ५४

शान्तिर्भवति राजेन्द्र तस्य तत्स्थानवासिनाम्।
एवमादिफलोपेतं नरसिंहार्चनं नृप ५५

कुरु त्वं भूपतेः पुत्र यदि वाञ्छसि सद्गतिम्।
अतः परतरं नास्ति स्वर्गमोक्षफलप्रदम् ५६

नरेन्द्रै ः! सुकरं कर्तुं देवदेवस्य पूजनम्।
सन्त्यरण्ये ह्यमूल्यानि पत्रपुष्पाणि शाखिनाम् ५७

तोयं नदीतडागेषु देवः साधारणः स्थितः।
मनो नियमयेदेकं विद्यासाधनकर्मणि ५८

मनो नियमितं येन मुक्तिस्तस्य करे स्थिता ५९

मार्कण्डेय उवाच।
इत्येवमुक्तं भृगुचोदितेन।
मया तवेहार्चनमच्युतस्य।
दिने दिने त्वं कुरु विष्णु पूजां।
वदस्व चान्यत्कथयामि किं ते ६०

इति श्रीनरसिंहपुराणे सहस्रानीकचरिते श्रीविष्णोः।
पूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः ३४


पञ्चत्रिंशोऽध्यायः।
राजोवाच।
अहो महत्त्वया प्रोक्तं विष्ण्वाराधनजं फलम्।
सुप्तास्ते मुनिशार्दूल ये विष्णुं नार्चयन्ति वै १

त्वत्प्रसादाच्छ्रुतं ह्येतन्नरसिंहार्चनक्रमम्।
भक्त्या तं पूजयिष्यामि कोटिहोमफलं वद २

मार्कण्डेय उवाच।
इममर्थं पुरा पृष्टः शौनको गुरुणा नृप।
यत्तस्मै कथयामास शौनकस्तद्वदामि ते ३

शौनकं तु सुखासीनं पर्यपृच्छद् बृहस्पतिः।
बृहस्पतिरुवाच।
लक्षहोमस्य या भूमिः कोटिहोमस्य या शुभा ४

तां मे कथय विप्रेन्द्र होमस्य चरिते विधिम्।
मार्कण्डेय उवाच।
इत्युक्तो गुरुणा सोऽथ लक्षहोमादिकं विधिम् ५

शौनको वक्तुमारेभे यथावन्नृपसत्तम।
शौनक उवाच।
प्रवक्ष्यामि यथावत्ते शृणु देवपुरोहित ६

लक्षहोममहाभूमिं तद्विशुद्धिं विशेषतः।
यज्ञकर्मणि शस्ताया भूमेर्लक्षणमुत्तमम् ७

सुसंस्कृतां समां स्निग्धां पूर्वपूर्वमथोत्तमाम्।
ऊरुमात्रं खनित्वा च शोधयेत्तां विशेषतः ८

बहिरच्छतया तत्र मृदाच्छाद्य प्रलेपयेत्।
प्रमाणं बाहुमात्रं तु सर्वतः कुण्डलक्षणम् ९

चतुरस्रं चतुष्कोणं तुल्यसूत्रेण कारयेत्।
उपरि मेखलां कुर्याच्चतुरस्रां सुविस्तराम् १०

चतुरङ्गुलमात्रं तु उच्छ्रितां सूत्रसूत्रिताम्।
ब्राह्मणान् वेदसम्पन्नान् ब्रह्मकर्मसमन्वितान् ११

आमन्त्रयेद् यथान्यायं यजमानो विशेषतः।
ब्रह्मचर्यव्रतं कुर्युस्त्रिरात्रं ते द्विजातयः १२

अहोरात्रमुपोष्याथ गायत्रीमयुतं जपेत्।
ते शुक्लवाससः स्नाता गन्धस्रक्पुष्पधारिणः १३

शुचयश्च निराहाराः सन्तुष्टा संयतेन्द्रि याः।
कौशमासनमासीना एकाग्रमनसः पुनः १४

आरभेयुश्च ते यत्नात्ततो होममतन्द्रि ताः।
भूमिमालिख्य चाभ्युक्ष्य यत्नादग्निं निधापयेत् १५

गृह्योक्तेन विधानेन होमं तत्र च होमयेत्।
आघारावाज्यभागौ च जुहुयात्पूर्वमेव तु १६

यवधान्यतिलैर्मिश्रां गायत्र्! या प्रथमाहुतिम्।
जुहुयादेकचित्तेन स्वाहाकारान्वितां बुधः १७

गायत्री छन्दसां माता ब्रह्मयोनिः प्रतिष्ठिता।
सविता देवता तस्या विश्वामित्रस्तथा ऋषिः १८

ततो व्याहृतिभिः पश्चाज्जुहुयाच्च तिलान्वितम्।
यावत्प्रपूर्यते सङ्ख्या लक्षं वा कोटिरेव वा १९

तावद्धोमं तिलैः कुर्यादच्युतार्चनपूर्वकम्।
दीनानाथजनेभ्यस्तु यजमानः प्रयत्नतः २०

तावच्च भोजनं दद्याद् यावद्धोमं समाचरेत्।
समाप्ते दक्षिणां दद्याद् ऋत्विग्भ्यः श्रद्धयान्वितः २१

यथार्हता न लोमेन ततः शान्त्युदकेन च।
प्रोक्षयेद् ग्राममध्ये तु व्याधितांस्तु विशेषतः २२

एवं कृते तु होमस्य पुरस्य नगरस्य च।
राष्ट्रस्य च महाभाग राज्ञो जनपदस्य च।
सर्वबाधाप्रशमनी शान्तिर्भवति सर्वदा २३

मार्कण्डेय उवाच।
इत्येतच्छौनकप्रोक्तं कथितं नृपनन्दन।
लक्षहोमादिकविधिं कार्यं राष्ट्रे सुशान्तिदम् २४

ग्रामे गृहे वा पुरबाह्यदेशे।
द्विजैरयं यत्नकृतः पुरोविधिः।
तत्रापि शान्तिर्भविता नराणां।
गवां च भृत्यैः सह भूपतेश्च २५

इति श्रीनरसिंहपुराणे लक्षहोमविधिर्नाम।
पञ्चत्रिंशोऽध्यायः ३५


षट्त्रिंशोऽध्यायः।
मार्कण्डेय उवाच।
अवतारानहं वक्ष्ये देवदेवस्य चक्रिणः।
ताञ्शृणुष्व महीपाल पवित्रान् पापनाशनान् १

यथा मत्स्येन रूपेण दत्ता वेदाः स्वयम्भुवे।
मधुकैटभौ च निधनं प्रापितौ च महात्मना २

तथा कौर्मेण रूपेण विष्णुना मन्दरो धृतः।
यथा पृथ्वी धृता राजन् वाराहेण महात्मना ४

तेनैव निधनं प्राप्तोनं यथा राजन् महाबलः।
हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ४

यथा हिरण्यकशिपुस्त्रिदशानामरिः पुरा।
नरसिंहेन देवेन प्रापितो निधनं नृप ५

यथा बद्धो बलिः पूर्वं वामनेन महात्मना।
इन्द्र स्त्रिभुवनाध्यक्षः कृतस्तेन नृपात्मज ६

रामेण भूत्वा च यथा विष्णुना रावणो हतः।
सगणाश्चाद्भुता राजन् राक्षसा देवकण्टकाः ७

यथा परशुरामेण क्षत्रमुत्सादितं पुरा।
बलभद्रे ण रामेण यथा दैत्यः पुरा हतः ८

यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः।
कलौ प्राप्ते यथा बुद्धो भवेन्नारायणः प्रभुः ९

कल्किरूप समास्थाय यथा म्लेच्छा निपातिताः।
समाप्ते तु कलौ भूयस्तथा ते कथयाम्यहम् १०

हरेरनन्तस्य पराक्रमं यः।
शृणोति भूपाल समाहितात्मा ॥
मयोच्यमानं स विमुच्य पापं।
प्रयाति विष्णोः पदमत्युदारम् ११

इति श्रीनरसिंहपुराणे हरेः प्रादुर्भावानुक्रमणे।
षट्त्रिंशोऽध्यायः ३६


सप्तत्रिंशोऽध्यायः।
मार्कण्डेय उवाच।
नानात्वादवताराणामच्युतस्य महात्मनः।
न शक्यं विस्तराद् वक्तुं तान् ब्रवीमि समाततः १

पुरा किल जगत्स्रष्टा भगवान् पुरुषोत्तमः।
अनन्तभोगशयने योगनिद्रा ं! समागतः २

अथ तस्य प्रसुप्तस्य देवदेवस्य शार्ङ्गिणः।
श्रोत्राभ्यामपतत् तोये स्वेदबिन्दुद्वयं नृप ३

मधुकैटभनामानौ तस्माज्जातौ महाबलौ।
महाकायौ महावीर्यौ महाबलपराक्रमौ ४

अच्युतस्य प्रसुप्तस्य महत्पद्ममजायत।
नाभिमध्ये नृपश्रेष्ठ तस्मिन् ब्रह्माभ्यजायत ५

स चोक्तो विष्णुना राजन् प्रजाः सृज महामते।
तथेत्युक्त्वा जगन्नाथं ब्रह्मापि कमलोद्भवः ६

वेदशास्त्रवशाद्यावत् प्रजाः स्रष्टुं समुद्यतः।
तावत्तत्र समायातौ तावुभौ मधुकैटभौ ७

आगत्य वेदशास्त्रार्थविज्ञानं ब्रह्मणः क्षणात्।
अपहृत्य गतौ धोरौ दानवौ बलदर्पितौ ८

ततः पद्मोद्भवो राजन् ज्ञानहीनोऽभवत् क्षणात्।
दुःखितश्चिन्तयामास कथं स्रक्ष्यामि वै प्रजाः ९

चोदितस्त्वं सृजस्वेति प्रजा देवेन तत्कथम्।
स्रक्ष्येऽहं ज्ञानहीनस्तु अहो कष्टमुपस्थितम् १०

इति सञ्चिन्त्य दुःखार्त्तो ब्रह्मा लोकपितामहः।
यत्नतो वेदशास्त्राणि स्मरन्नपि न दृष्टवान् ११

ततो विषण्णचित्तस्तु तं देव पुरुषोत्तमम्।
एकाग्रमनसा सम्यक् शास्त्रेण स्तोतुमारभत् १२

ब्रह्मोवाच।
ॐ नमो वेदनिधये शास्त्राणां निधये नमः।
विज्ञाननिधये नित्यं कर्मणां निधये नमः १३

विद्याधराय देवाय वागीशाय नमो नमः।
अचिन्त्याय नमो नित्यं सर्वज्ञाय नमो नमः १४

अमूर्त्तिस्त्वं महाबाहो यज्ञमूर्तिरधोक्षज।
साम्नां मूर्त्तिस्त्वमेवाद्य सर्वदा सर्वरूपवान् १५

सर्वज्ञानमयोऽसि त्वं हृदि ज्ञानमयोऽच्युत।
देहि मे त्वं सर्वज्ञानं देवदेव नमो नमः १६

मार्कण्डेय उवाच।
इत्थं स्तुतस्तदा तेन शङ्खचक्रगदाधरः।
ब्रह्माणमाह देवेशो दास्ये ते ज्ञानमुत्तमम् १७

इत्युक्त्वा तु तदा विष्णुश्चिन्तयामास पार्थिव।
केनास्य नीतं विज्ञानं केन रूपेण चादधे १८

मधुकैटभकृतं सर्वमिति ज्ञात्वा जनार्दनः।
मात्स्यं रूपं समास्थाय बहुयोजनमायतम्।
बहुयोजनविस्तीर्णं सर्वज्ञानमयं नृप १९

स प्रविश्य जलं तूर्णं क्षोभयामास तद्धरिः।
प्रविश्य च स पातालं दृष्टवान्मधुकैटभौ २०

तौ मोहयित्वा तुमुलं तज्ज्ञानं जगृहे हरिः।
वेदशास्त्राणि मुनिभिः संस्तुतो मधुसूदनः २१

आनीय ब्रह्मणे दत्त्वा त्यक्त्वा तन्मात्स्यकं नृप।
जगद्धिताय स पुनर्योगनिद्रा वशं गतः २२

ततः प्रबुद्धौ सङ्क्रुद्धौ तावुभौ मधुकैटभौ।
आगत्य ददृशाते तु शयानं देवमव्ययम् २३

अयं स पुरुषो धूर्त्त आवां सम्मोह्य मायया।
आनीय वेदशास्त्राणि दत्त्वा शेतेऽत्र साधुवत् २४

इत्युक्त्वा तौ महाघोरौ दानवौ मधुकैटभौ।
बोधयामासतुस्तूर्णं शयानं केशवं नृप २५

युद्धार्थमागतावत्र त्वया सह महामते।
आवयोर्देहि सङ्ग्रामं युध्यस्वोत्थाय साम्प्रतम् २६

इत्युक्तो भगवांस्ताभ्यां देवदेवो नृपोत्तम।
तथेति चोक्त्वा तौ देवः शार्ङ्गं सज्यमथाकरोत् २७

ज्याघोषतलघोषेण शङ्खशब्देन माधवः।
खं दिशः प्रदिशश्चैव पूरयामास लीलया २८

तौ च राजन् महावीर्यौ ज्याघोषं चक्रतुस्तदा।
युयुधाते महाघोरौ हरिणा मधुकैटभौ २९

कृष्णश्च युयुधे ताभ्यां लीलया जगतः पतिः।
समं युद्धमभूदेवं तेषामस्त्राणि मुञ्चताम् ३०

केशवः शार्ङ्गनिर्मुक्तैः शरैराशीविषोपमैः।
तानि शस्त्राणि सर्वाणि चिच्छेद तिलशस्तदा ३१

तौ युद्ध्वा सुचिरं तेन दानवौ मधुकैटभौ।
हतौ शार्ङ्गविनिर्मुक्तैः शरैः कृष्णेन दुर्मदौ ३२

तयोस्तु मेदसा राजन् विष्णुना कल्पिता मही।
मेदिनीति ततः सञ्ज्ञामवापेयं वसुन्धरा ३३

एवं कृष्णप्रसादेन वेदाँ ल्लब्ध्वा प्रजापतिः।
प्रजाः ससर्ज भूपाल वेददृष्टेन कर्मणा ३४

य इदं शृणुयान्नित्यं प्रादुर्भावं हरेर्नृप।
उषित्वा चन्द्र सदने वेदविद्ब्राह्मणो भवेत् ३५

मात्स्यं वपुस्तन्महदद्रि तुल्यं।
विद्यामयं लोकहिताय विष्णुः।
आस्थाय भीमं जनलोकसंस्थैः।
स्तुतोऽथ यस्तं स्मर भूमिपाल ३६

इति श्रीनरसिंहपुराणे मत्स्यप्रादुर्भावो नाम सप्तत्रिंशोऽध्यायः ३७


अष्टत्रिंशोऽध्यायः।
मार्कण्डेय उवाच।
पुरा देवासुरे युद्धे देवा दैत्यैः पराजिताः।
सर्वे ते शरणं जग्मुः क्षीराब्धितनयापतिम् १

स्तोत्रेण तुष्टुवुः सर्वे समाराध्य जगत्पतिम्।
कृताञ्जलिपुटा राजन् ब्रह्माद्या देवतागणाः २

देवा ऊचुः।
नमस्ते पद्मनाभाय लोकनाथाय शार्ङ्गिणे।
नमस्ते पद्मनाभाय सर्वदुःखापहारिणे ३

नमस्ते विश्वरूपाय सर्वदेवमयाय च।
मधुकैटभनाशाय केशवाय नमो नमः ४

दैत्यैः पराजिता देव वयं युद्धे बलान्वितैः।
जयोपायं हि नो ब्रूहि करुणाकर ते नमः ५

मार्कण्डेय उवाच।
इति स्तुतो तदा देवैर्देवदेवो जनार्दनः।
तानब्रवीद्धरिर्देवांस्तेषामेवाग्रतः स्थितः ६

श्रीभगवानुवाच।
गत्वा तत्र सुराः सर्वं सन्धिं कुरुत दानवैः।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ७

सर्वौषधीः समानीय प्रक्षिप्याब्धौ त्वरान्विताः।
दानवैः सहिता भूत्वा मथ्नध्वं क्षीरसागरम् ८

अहं च तत्र साहाय्यं करिष्यामि दिवौकसः।
भविष्यत्यमृतं तत्र तत्पानाद्बलवत्तराः ९

भविष्यन्ति क्षणाद्देवा अमृतस्य प्रभावतः।
यूयं सर्वे महाभागास्तेजिष्ठां रणविक्रमाः १०

इन्द्रा द्यास्तु महोत्साहास्तल्लब्ध्वामृतमुत्तमम्।
ततो हि दानवाञ्जेतुं समर्था नात्र संशयः ११

इत्युक्ता देवदेवेन देवाः सर्वे जगत्पतिम्।
प्रणम्यागत्य निलयं सन्धिं कृत्वाथ दानवैः १२

क्षीराब्धेर्मन्थने सर्वे चक्ररुद्योगमुत्तमम्।
बलिना चोद्धृतो राजन् मन्दराख्यो महागिरिः १३

क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम।
सर्वौषधींश्च प्रक्षिप्य देवदैत्यैः पयोनिधौ १४

वासुकिश्चागतस्तत्र राजन्नारायणज्ञया।
सर्वदेवहितार्थाय विष्णुश्च स्वयमागतः १५

तत्र विष्णुं समासाद्य ततः सर्वे सुरासुरः।
सर्वे ते मैत्रभावेन क्षीराब्धेस्तटमाश्रिताः १६

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाथ वासुकिम्।
ततो मथितुमारब्धं नृपते तरसामृतम् १७

विष्णुना मुखभागे तु योजिता दानवास्तदा।
देवताः पुच्छभागे तु मथनाय नियोजिताः १८

एवं च मथनात्तत्र मन्दरोऽधः प्रविश्य च।
आधारेण विना राजन् तं दृष्ट्वा सहसा हरिः १९

सर्वलोकहितार्थाय कर्मरूपमधारयत्।
आत्मानं सम्प्रवेश्याथ मन्दरस्य गिरेरधः २०

प्रविश्य धृतवान् शैलं मन्दरं मधुसूदनः।
उपर्याक्रान्तवाञ्शैलं पृथग्रूपेण केशवः २१

चकर्ष नागराजं च देवैः सार्धं जनार्दनः।
ततस्ते त्वरया युक्ता ममन्थुः क्षीरसागरम् २२

यावच्छक्त्या नृपश्रेष्ठ बलवन्तः सुरासुराः।
मथ्यमानात्ततस्तस्मात् क्षीराब्धेरभवन्नृप २३

कालकूटमिति ख्यातं विषमत्यन्तदुस्सहम्।
तं नागा जगृहुः सर्वे तच्छेषं शङ्करोऽग्रहीत् २४

नारायणाज्ञया तेन नीलकण्ठत्वमाप्तवान्।
ऐरावतश्च नागेन्द्रो हरिश्चोच्चैःश्रवाः पुनः २५

द्वितीयावर्तनाद्रा जन्नुत्पन्नाविति नः श्रुतम्।
तृतीयावर्तनाद् राजन्नप्सराश्च सुशोभना २६

चतुर्थात् पारिजातश्च उत्पन्नः स महाद्रुमः।
पञ्चमाद्धि हिमांशुस्तु प्रोत्थितः क्षीरसागरात् २७

तं भवः शिरसा धत्ते नारीवत् स्वस्तिकं नृप।
नानाविधानि दिव्यानि रत्नान्याभरणानि च २८

क्षीरोदधेरुत्थिताश्च गन्धर्वाश्च सहस्रशः।
एतान् दृष्ट्वा तथोत्पन्नानत्याश्चर्यसमन्वितान् २९

अभवञ्जातहर्षास्ते तत्र सर्वे सुरासुराः।
देवपक्षे ततो मेघाः स्वल्पं वर्षन्ति संस्थिताः ३०

कृष्णाज्ञया च वायुश्च सुखं वाति सुरान् प्रति।
विषनिःश्वासवातेन वासुकेश्चापरे हताः ३१

निस्तेजसोऽभवन् दैत्या निर्वीर्याश्च महामते।
ततः श्रीरुत्थिता तस्मात् क्षीरोदाद्धतपङ्कजा ३२

विभ्राजमाना राजेन्द्र दिशः सर्वाः स्वतेजसा।
ततस्तीर्थोदकैः स्नाता दिव्यवस्त्रैरलङ्कृता ३३

दिव्यगन्धानुलिप्ताङ्गी सुमनोभिः सुभूषणैः।
देवपक्षं समासाद्य स्थित्वा क्षणमरिन्दम ३४

हरिवक्षःस्थलं प्राप्ता ततः सा कमलालया।
ततोऽमृतघटं पूर्णं दुग्ध्वा तु पयसो निधेः ३५

धन्वन्तरिः समुत्तस्थौ ततः प्रीताः सुरा नृप।
दैत्याः श्रिया परित्यक्ता दुःखितास्तेऽभवन्नृप ३६

नीत्वामृतघतं पूर्णं ते च जग्मुर्यथासुखम्।
ततः स्त्रीरूपमकरोद् विष्णुर्देवहिताय वै ३७

आत्मानं नृपशार्दूल सर्वलक्षणसंयुतम्।
ततो जगाम भगवान् स्त्रीरूपेणासुरान् प्रति ३८

दिव्यरूपां तु तां दृष्ट्वा मोहितास्ते सुरद्विषः।
सुधापूर्णघटं ते तु मोहैः संस्थाप्य सत्तम ३९

कामेन पीडिता ह्यासन्नसुरास्तत्र तत्क्षणात्।
मोहयित्वा तु तानेवमसुरानवनीपते ४०

अमृतं तु समादाय देवेभ्यः प्रददौ हरिः।
तत्पीत्वा तु ततो देवा देवदेवप्रसादतः ४१

बलवन्तो महावीर्या रणे जग्मुस्ततोऽसुरान्।
जित्वा रणेऽसुरान् देवाः स्वानि राज्यानि चक्रिरे ४२

एतत्ते कथितं राजन् प्रादुर्भावो हरेरयम्।
कूर्माख्यः पुण्यदो नृणां शृन्वतां पठतामपि ४३

आविष्कृतं कौर्ममनन्तवर्चसं।
नारायणेनाद्भुतकर्मकारिणा।
दिवौकसानां तु हिताय केवलं।
रूपं परं पावनमेव कीर्तितम् ४४

इति श्रीनरसिंहपुराणे कूर्मप्रादुर्भावो नामाष्टत्रिंशोऽध्यायः ३८


एकोनचत्वारिंशोऽध्यायः।
मार्कण्डेय उवाच।
अतः परं हरेः पुण्यं प्रादुर्भावं नराधिप।
वाराहं ते प्रवक्ष्यामि समाहितमनाः शृणु १

अवान्तरलये प्राप्ते ब्रह्मणस्तु दिनक्षये।
त्रैलोक्यल्मखिलं व्याप्य तिष्ठन्त्यम्भांसि सत्तम २

त्रैलोक्येऽखिलसत्त्वानि यानि राजेन्द्र तानि वै।
ग्रस्त्वा विष्णुस्ततः शेते तस्मिन्नेकार्णवे जले ३

अनन्तभोगशयने सहस्रफणशोभिते।
रात्रिं युगसहस्रान्तां ब्रह्मरूपी जगत्पतिः ४

दितेः पुत्रो महानासीत् कश्यपादिति नः श्रुतम्।
हिरण्याक्ष इति ख्यातो महाबलपराक्रमः ५

पाताले निवसन् दैत्यो देवानुपरुरोध सः।
यज्विनामपकाराय यतते स तु भूतले ६

अथ भूम्युपरि स्थित्वा मर्त्या यक्ष्यन्ति देवताः।
तेन तेषां बलं वीर्यं तेजश्चापि भविष्यति ७

इति मत्वा हिरण्याक्षः कृते सर्गे तु ब्रह्मणा।
भूमेर्या धारणाशक्तिस्तां नीत्वा सु महासुरः ८

विवेश तोयमध्ये तु रसातलतलं नृप।
विना शक्त्या च जगती प्रविवेश रसातलम् ९

निद्रा वसाने सर्वात्मा क्व स्थिता मेदिनीति वै।
सञ्चिन्त्य ज्ञात्वा योगेन रसातलतलं गताम् १०

अथ वेदमयं रूपं वाराहं वपुरास्थितम्।
वेदपादं यूपदंष्ट्रं चितिवक्त्रं नराधिप ११

व्यूढोरस्कं महाबाहुं पृथुवक्त्रं नराधिप।
अग्निजिह्वं स्रुचं तुण्डं चन्द्रा कन्नयनं महत् १२

पूर्तेष्टिधर्मश्रवणं दिव्यं तं सामनिःस्वनम्।
प्राग्वंशकायं हविर्नासं कुशदर्भतनूरुहम् १३

सर्वं वेदमयं तच्च पुण्यसूक्तमहासटम्।
नक्षत्रताराहारं च प्रलयावर्त्तभूषणम् १४

इत्थं कृत्वा तु वाराहं प्रविवेश वृषाकपिः।
रसातलं नृपश्रेष्ठ सनकाद्यैरभिष्टुतः १५

प्रविश्य च हिरण्याक्षं युद्धे जित्वा वृषाकपिः।
दंष्ट्राग्रेण ततः पृथ्वीं समृद्धृत्य रसातलात् १६

स्तूयमानोऽमरगणैः स्थापयामास पूर्ववत्।
संस्थाप्य पर्वतान् सर्वान् यथास्थानमकल्पयत् १७

विहाय रूपं वाराहं तीर्थे कोकेतिविश्रुते।
वैष्णवानां हितार्थाय क्षेत्रं तद्गुप्तमुत्तमम् १८

ब्रह्मरूपं समास्थाय पुनः सृष्टिं चकार सः।
विष्णुः पाति जगत्सर्वमेवम्भूतो युगे युगे।
हन्ति चान्ते जगत्सर्वं रुद्र रूपी जनार्दनः १९

वेदान्तवेद्यस्य हरेर्वृषाकपेः।
कथामिमां यश्च शृणोति मानवः।
दृढां मतिं यज्ञतनौ विवेश्य वै।
विहाय पापं च नरो हरिं व्रजेत् २०

इति श्रीनरसिंहपुराणे वाराहप्रादुर्भावो नाम।
एकोनचत्वारिंशोऽध्यायः ३९



चत्वारिंशोऽध्यायः।
मार्कण्डेय उवाच।
वाराहः कथितो ह्येवं प्रादुर्भावो हरेस्तव।
साम्प्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे १

दितेः पुत्रो महानासीद्धिरण्यकशिपुः पुरा।
तपस्तेपे निराहारो बहुवर्षसहस्रकम् २

तपतस्तस्य सन्तुष्टो ब्रह्मा तं प्राह दानवम्।
वरं वरय दैत्येन्द्र यस्ते मनसि वर्तते ३

इत्युक्तो ब्रह्मणा दैत्यो हिरण्यकशिपुः पुरा।
उवाच नत्वा देवेशं ब्रह्माणं विनयान्वितः ४

हिरण्यकशिपुरुवाच।
यदि त्वं वरदानाय प्रवृत्तो भगवन्मम।
यद्यद्वृणोम्यहं ब्रह्मं स्तत्तन्मे दातुमर्हसि ५

न शुष्केण न चाद्रे र्ण! न जलेन न वह्निना।
न काष्ठेन न कीटेन पाषाणेन न वायुना ६

नायुधेन न शूलेन न शैलेन न मानुषैः।
न सुरैरसुरैर्वापि न गन्धर्वैर्न राक्षसैः ७

न किन्नरैर्न यक्षैस्तु विद्याधरभुजङ्गमैः।
न वानरैर्मृगैर्वापि नैय मातृगणैरपि ८

नाभ्यन्तरे न बाह्ये तु नान्यैर्मरणहेतुभिः।
न दिने न च नक्तं मे त्वत्प्रसादाद् भवेन्मृतिः ९

इति वै देवदेवेशं वरं त्वत्तो वृणोम्यहम्।
मार्कण्डेय उवाच।
इत्युक्तो दैत्यराजेन ब्रह्मा तं प्राहि पार्थिव १०

तपसा तव तुष्टोऽहं महता तु वरानिमान्।
दुर्लभानापि दैत्येन्द्र ददामि परमाद्भुतान् ११

अन्येषां नेदृशं दत्तं न तैरित्थं तपः कृतम्।
त्वत्प्रार्थितं मया दत्तं सर्वं ते चास्तु दैत्यप १२

गच्छभुङ्क्ष्व महाबाहो तपसामूर्जितं फलम्।
इत्येवं दैत्यराजस्य हिरण्यकशिपोः पुरा १३

दत्त्वा वरान् ययौ ब्रह्मा ब्रह्मलोकमनुत्तमम्।
सोऽपि लब्धवरो दैत्यो बलवान् बलदर्पितः १४

देवान् सिंहान् रणे जित्वा दिवः प्राच्यावयद्भुवि।
दिवि राज्यं स्वयं चक्रे सर्वशक्तिसमन्वितम् १५

देवा अपि भयात्तस्य रुद्रा श्चैवर्षयो नृप।
विचैरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् १६

प्राप्तत्रैलोक्यराज्योऽसौ हिरण्यकशिपुः प्रजाः।
आहूय सर्वा राजेन्द्र वाक्यं चेदमभाषत १७

न यष्टव्यं न होतव्यं न दातव्यं सुरान् प्रति।
युष्माभिरहमेवाद्य त्रैलोक्याधिपतिः प्रजाः १८

ममैव पूजां कुरुत यज्ञदानादि कर्मणा।
ताश्च सर्वास्तथा चक्रुर्दैत्येन्द्र स्य भयान्नृप १९

यत्रैवं क्रियमाणेषु त्रैलोक्यं सचराचरम्।
अधर्मयक्तं सकलं बभूव नृपसत्तम २०

स्वधर्मलोपात् सर्वेषां पापे मतिरजायत।
गते काले तु महति देवाः सेन्द्रा बृहस्पति २१

नीतिज्ञं सर्वशास्त्रज्ञं पप्रच्छुर्विनयान्विताः।
हिरण्यकशिपोरस्य विनाशं मुनिसत्तम २२

त्रैलोक्यहारिणः शीघ्रं वधोपायं वदस्व नः।
बृहस्पतिरुवाच।
शृणुधवं मम वाक्यानि स्वपदप्राप्तये सुराः २३

प्रायो हिरण्यकशिपुः क्षीणभागो महासुरः।
शोको नाशयति प्रज्ञां शोको नाशयति श्रुतम् २४

शोको मतिं नाशयति नास्ति शोकसमो रिपुः।
सोढुं शक्योऽग्निसम्बन्धः शस्त्रस्पर्शश्च दारुणः २५

न तु शोकभवं दुःखं संसोढुं नृप शक्यते।
कालान्निमित्ताच्च वयं लक्ष्यामस्तत्क्षयं सुराः २६

बुधाश्च सर्वे सर्वत्र स्थिता वक्ष्यन्ति नित्यशः।
अचिरादेव दुष्टोऽसौ नश्यत्येव परस्परम् २७

देवानां तु परामृद्धिं स्वपदप्राप्तिलक्षणाम्।
हिरण्यकशिपोर्नाशं शकुनानि वदन्ति मे २८

यत एवमतो देवाः सर्व गच्छत माचिरम्।
क्षीरोदस्योत्तरं तीरं प्रसुप्तो यत्र केशवः २९

युष्माभिः संस्तुतो देवः प्रसन्नो भवति क्षणात्।
स हि प्रसन्नो दैत्यस्य वधोपायं वदिष्यति ३०

इत्युक्तास्तेन देवास्ते साधु साध्वित्यथाब्रुवन्।
प्रीत्या च परया युक्ता गन्तुं चक्रुरथोद्यमम् ३१

पुण्ये तिथौ शुभे लग्ने पुण्यं स्वस्ति च मङ्गलम्।
कारयित्वा मुनिवरैः प्रस्थितास्ते दिवौकसः ३२

नाशाय दुष्टदैत्यस्य स्वभूत्यै च नृपोत्तम।
ते शर्वमग्रतः कृत्वा क्षीराब्धेरुत्तरं तटम् ३३

तत्र गत्वा सुराः सर्वे विष्णुं जिष्णुं जनार्दनम्।
अस्तुवन् विविधैः स्तोत्रैः पूजयन्तः प्रतस्थिरे ३४

भवोऽपि भगवान् भक्त्या भगवन्तं जनार्दनम्।
अस्तुवन्नामभिः पुण्यैरेकाग्रमनसा हरिम् ३५

श्रीमहादेव उवाच।
विष्णुर्जिष्णुर्विभुर्देवो यज्ञेशो यज्ञपालकः।
प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ३६

केशवः केशिहा कल्पः सर्वकारणकारणम्।
कर्मकृद् वामनाधीशो वासुदेवः पुरुष्टुतः ३७

आदिकर्ता वराहश्च माधवो मधुसूदनः।
नारायणो नरो हंसो विष्णुसेनो हुताशनः ३८

ज्योतिष्मान् द्युतिमान् श्रीमानायुष्मान् पुरुषोत्तमः।
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ३९

नरसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः।
आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ४०

गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः।
पद्मनाभो हृषीकेशो विभुर्दामोदरो हरिः ४१

त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः।
वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ४२

भक्तिप्रियोऽच्युतः सत्यः सत्यकीर्तिर्ध्रुवः शुचिः।
कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ४३

सन्न्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः।
बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः ४४

भूतावासो गुहावासः श्रीनिवासः श्रियःपतिः।
तपोवासो दमो वासः सत्यवासः सनातनः ४५

पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः।
पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्द्धनः ४६

शङ्खी चक्रो गदी शार्ङ्गी लाङ्गली मुशली हली।
किरीटी कुण्डली हारी मेखली कवची ध्वजी ४७

विष्णुर्जेता महावीरः शत्रुघ्नः शत्रुतापनः।
शान्तः शान्तिकरः शास्ता शङ्करः शन्तनुस्तुतः अ४८

सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः।
सावनः साहसी सत्त्वः सम्पूर्णांशः समृद्धिमान् ४९

स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः।
मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ५०

स्तुतः सुरासुरैरीश प्रेरकः पापनाशनः।
त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकारस्त्वमग्नयः ५१

त्वं स्वाहा त्वं स्वधा देव त्वं सुधा पुरुषोत्तम।
नमो देवादिदेवाय विष्णवे शाश्वताय च ५२

अनन्तायाप्रमेयाय नमस्ते गरुडध्वज।
मार्कण्डेय उवाच।
इत्येतैर्नामभिर्दिव्यैः संस्तुतो मधुसूदनः ५३

उवाच प्रकटीभूत्वा देवान् सर्वानिदं वचः।
श्रीभगवानुवाच।
युष्माभिः संस्तुतो देवा नामभिः केवलैः शुभैः ५४

अत एव प्रसन्नोऽस्मि किमर्थं करवाणि वः।
देवा ऊचुः।
देवदेव हृषीकेश पुण्डरीकाक्ष माधव ५५

त्वमेव जानासि हरे किं तस्मात् परिपृच्छसि।
श्रीभगवानुवाच।
युष्मदागमनं सर्वं जानाभ्यसुरसूदनाः ५६

हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण तु।
पुण्यनामशतेनैव संस्तुतोऽहं भवेन च ५७

एतेन यस्तु मां नित्यं त्वयोक्तेन महामते।
तेनाहं पूजितो नित्यं भवामीह त्वया यथा ५८

प्रीतोऽहं गच्छ देव त्वं कैलासशिखरं शुभम्।
त्वया स्तुतो हनिष्यामि हिरण्यकशिपुं भव ५९

गच्छध्वमधुना देवाः कालं कञ्चित् प्रतीक्षताम्।
यदास्य तनयो धीमान् प्रह्लादो नाम वैष्णवः ६०

तस्य द्रो हं यदा दैत्यः करिष्यति सुरांस्तदा।
हनिष्यामि वरैर्गुप्तमजेयं देवदानवैः।
इत्युक्त्वा विष्णुना देवा नत्वा विष्णुं ययुर्नृप ६१

इति श्रीनरसिंहपुराणे विष्णोर्नामस्तोत्रं नाम।
चत्वारिंशोऽध्यायः ४०


एकचत्वारिंशोऽध्यायः।
सहस्रानीक उवाच।
मार्कण्डेय महाप्राज्ञ सर्वशास्त्रविशारद।
प्रादुर्भावं नृसिंहस्य यथावद्वक्तुमर्हसि १

वद प्रह्लादचरितं विस्तरेण ममानध।
धन्या वयं महायोगिंस्त्वत्प्रसादान्महामुने २

सुधां पिबामो दुर्लभ्यां धन्याः श्रीशकथाभिधाम्।
श्रीमार्कण्डेय उवाच।
पुरा हिरण्यकशिपोस्तपोऽर्थं गच्छतो वनम् ३

दिग्दाहो भूमिकम्पश्च जातस्तस्य महात्मनः।
वारितो बन्धुभिर्भृत्यैर्मित्रैश्च हितकारिभिः ४

शकुना विगुणा राजञ्जातास्तच्च न शोभनम्।
त्रैलोक्याधिपतिस्त्वं हि सर्वे देवाः पराजिताः ५

तवास्ति न भयं सौम्य किमर्थं तप्यते तपः।
प्रयोजनं न पश्यामो वयं बुद्ध्या समन्विताः ६

यो भवेन्न्यूनकामो हि तपश्चर्यां करोति सः।
एवं तैर्वार्यमाणोऽपि दुर्मदो मदमोहितः ७

यातः कैलासशिखरं द्वित्रैर्मित्रैः परीवृतः।
तस्य सन्तप्यमानस्य तपः परमदुष्करम् ८

चिन्ता जाता महीपाल विरिञ्चेः पद्मजन्मनः।
किं करोमि कथं दैत्यस्तपसो विनिवर्तते ९

इति चिन्ताकुलस्यैव ब्रह्मणोऽङ्गसमुद्भवः।
प्रणम्य प्राह भूपाल नारदो मुनिसत्तमः १०

नारद उवाच।
किमर्थं खिद्यते तात नारायणपरायण।
येषां मनसि गोविन्दस्ते वै नार्हन्ति क्षोचितुम् ११

अहं तं वारयिष्यामि तप्यन्तं दितिनन्दनम्।
नारायणो जगत्स्वामी मति मे सम्प्रदास्यति २२

मार्कण्डेय उवाच।
इत्युक्त्वाऽऽनम्य पितरं वासुदेवं हृदि स्मरन्।
प्रयातः पर्वतेनैव सार्धं स मुनिपुङ्गवः १३

कलविङ्कौ तु तौ भूत्वा कैलाशं पर्वतोत्तमम्।
यत्रास्ते दितिजश्रेष्ठो द्वित्रैर्मित्रैः परीवृतः १४

कृतस्नानो मुनिस्तत्र वृक्षशाखासमाश्रितः।
शृण्वतस्तस्य दैत्यस्य प्राह गम्भीरया गिरा १५

नमो नारायणायेति पुनः पुनरुदारधीः।
त्रिवारं प्रजपित्वा वै नारदो मौनमाश्रितः १६

तच्छ्रुत्वा वचनं तस्य कलविङ्कस्य सादरम्।
हिरण्यकशिपुर्दैत्यः क्रुद्धश्चापं समाददे १७

बाणं धनुषि सन्धाय यावन्मुञ्चति तौ प्रति।
तावदुड्डीय तौ भूप गतौ नारदपर्वतौ १८

सोऽपि क्रोधपरीताङ्गो हिरण्यकशिपुस्तदा।
त्यक्त्वा तमाश्रमं भूयो नगरं नगरं स्वं महीपते १९

तस्यापि भार्या सुश्रोणी कयाधूर्नाम नामतः।
तदा रजस्वला भूत्वा स्नाताभद्दैवयोगतः २०

रात्रावेकान्तसमये तया पृष्टः स दैत्यराट्।
स्वामिन् यदा तपश्चर्यां कर्तुं गेहाद्वनं गतः २१

तदा त्वयोक्तं वर्षाणामयुतं मे तपस्त्विदम्।
तत्किमर्थं महाराज साम्प्रतं त्यक्तवान् व्रतम् २२

तथ्यं कथय मे नाथ स्नेहात्पृच्छामि दैत्यप।
हिरण्यकशिपुरुवाच।
शृणु चार्वङ्गिमे तथ्यां वाचं व्रतविनाशिनीम् २३

क्रोधस्यातीव जननीं देवानां मुदवर्द्धनीम्।
कैलासशिखरे देवि महदानन्दकानने २४

व्याहरन्तौ शुभां वाणीं नमो नारायणेति च।
वारद्वयं त्रयं चेति व्याहृतं वचनं शुभे २५

तेन मे मनसि क्रोधो जातोऽतीव वरानने।
कोदण्डे शरमाधाय यावन्मुञ्चामि भामिनि २६

तावत्तौ पक्षिणौ भीतौ गतौ देशान्तरं त्वहम्।
त्यक्त्वा व्रतं समायातो भाविकार्यबलेन वै २७

मार्कण्डेय उवाच।
इत्युच्यमाने वचने वीर्यद्रा वोऽभवत्तदा।
ऋतुकाले तु सम्प्राप्ते जातो गर्भस्तदैव हि २८

पुनः प्रवर्धमानस्य गर्भे गर्भस्य धीमतः।
नारदस्योपदेशेन वैष्णवः समजायत २९

तदग्र कथयिष्यामि भूप श्रद्धापरो भव।
तस्य सूनुरभूद्भक्तः प्रह्लादो जन्मवैष्णवः ३०

सोऽवर्धतासुरकुले निर्मलो मलिनाश्रये।
यथा कलौ हरेर्भक्तिः पाशसंसारमोचनी ३१

स वर्द्धमानो विरराज बालैः।
सह त्रयीनाथपदेषु भक्त्या।
बालोऽल्पदेहो महतीं महात्मा।
विस्तारयन् भाति स विष्णु भक्तिम् ३२

यथा चतुर्थं युगमाप्तधर्मकामार्थमोक्षं किल कीर्तिदं हि ॥
स बाललीलासु सहान्यडिम्भैः।
प्रहेलिकाक्रीडनकेषु नित्यम् ३३

कथा सङ्गेषु च कृष्णमेव।
प्रोवाच यस्मात् स हि तत्स्वभावः।
इत्थं शिशुत्वेऽपि विचित्रकारी।
व्यवर्द्धतेशस्मरणामृताशः ३४

तं पद्मवक्त्रं दैत्येन्द्र ः! कदाचित्स्त्रीवृतः खलः।
बालं गुरुगृहायातं ददर्श स्वायतेक्षणम् ३५

गृहीत्वा तु करे पुत्रं पट्टिका या सुशोभना।
मूर्ध्नि चक्राङ्किता पट्टी कृष्णनामाङ्किताऽऽदरात् ३६

तमाहूय मुदाविष्टो लालयन् प्राह पुत्रकम्।
पुत्र ते जननो नित्यं सुधीर्मे त्वा प्रशंसति ३७

अथ तद्वद यत्किञ्चिद् गुरुवेश्मानि शिक्षितम्।
विचार्यानन्दजननं सम्यगायाति तद्वद ३८

अथाह पितरं हर्षात् प्रह्लादो जन्मवैष्णवः।
गोविन्दं त्रिजगद्वन्द्यं प्रभुं नत्वा ब्रवीमि ते ३९

इति शत्रोः स्तवं श्रुत्वा पुत्रोक्तं स्त्रीवृतः खलः।
क्रुद्धोऽपि तं वञ्चयितुं जहासोच्चैः प्रहृष्टवत् ४०

आलिङ्ग्य तनयं प्राह शृणु बाल हितं वचः।
राम गोविन्द कृष्णेति विष्णो माधव श्रीपते ४१

एवं वदन्ति ये सर्वे ते पुत्र मम वैरिणः।
शासितास्तु मयेदानीं त्वयेदं क्व श्रुतं वचः ४२

पितुर्वचनमाकर्ण्य धीमानभयसंयुतः।
प्रह्लादः प्राह हे आर्य मैवं ब्रूयाः कदाचन ४३

सर्वैश्वर्यप्रदं मन्त्रं धर्मादिपरिवर्धनम्।
कृष्णेति यो नरो ब्रूयात् सोऽभयं विन्दते पदम् ४४

कृष्णनिन्दासमुत्थस्य अघस्यान्तो न विद्यते।
राममावव कृष्णेति स्मर भक्त्याऽऽत्मशुद्धये ४५

गुरवेऽपि ब्रवीम्येतद्यतो हितकरं परम्।
शरणं व्रज सर्वेशं सर्वपापक्षयङ्करम् ४६

अथाह प्रकटक्रोधः सुरारिर्भर्त्सयन् सुतम्।
केनायं बालको नीतो दशामेतां सुमध्यमाम् ४७

धिग् धिग्घाहेति दुष्पुत्र किं मे कृतमघं महत्।
याहि याहि दुराचार पापिष्ठ पुरुषाधम।
उक्त्वेति परितो वीक्ष्य पुनराह शिशोर्गुरुम् ४८

बद्ध्वा चानीयतां दैत्यैः क्रूरैः क्रूरपराक्रमैः।
इति श्रुत्वा ततो दैत्यास्तमानीय न्यवेदयन्।
धीमानूचे खलं भूपं देवान्तक परीक्षताम् ४९

लीलयैव जितं देव त्रैलोक्यं निखिलं त्वया।
असकृन्न हि रोषेण किं क्रुद्धस्याल्पके मयि ५०

इति सामवचः श्रुत्वा द्विजोक्तं प्राह दैत्यराट्।
विष्णुस्तवं मम सुतं पाप बालमपीपठः ५१

उक्त्वेति तनयं प्राह राजा साम्नामलं सुतम्।
ममात्मजस्य किं जाड्यं तव चैतद्द्विजैः कृतम् ५२

विष्णुपक्षैर्ध्रुवं धूर्तैर्मूढ नित्यं परित्यज।
त्यज द्विजप्रसङ्गं हि द्विजसङ्गो ह्यशोभनः ५३

अस्मत्कुलोचितं तेजो यैर्द्विजैस्तु तिरोहितम्।
यस्य यत्सङ्गतिः पुंसो मणिवत्स्यात्स तद्गुणः ५४

स्वकुलद्धर्यै ततो धीमान् स्वयूथानेव संश्रयेत्।
मत्सुतस्योचितं त्यक्त्वा विष्णुपक्षीयनाशनम् ५५

स्वयमेव भजन् विष्णुं मन्द किं त्वं न लज्जसे।
विश्वनाथस्य मे सूनुर्भूत्वान्यं नाथमिच्छसि ५६

शृणु वत्स जगत्तत्त्वं कश्चिन्नास्ति निजः प्रभुः।
यः शूरः स श्रियं भुङ्क्ते स प्रभुः स महेश्वरः ५७

स देवः सकलाध्यक्षो यथाहं त्रिजगज्जयी।
त्यज जाड्यमतः शौर्यं भजत्व स्वकुलोचितम् ५८

अन्येऽपि त्वां हनिष्यन्ति वदिष्यन्ति जनास्त्विदम्।
असुरोऽयं सुरान् स्तौति मार्जार इव मूषकान् ५९

द्वेष्यान् शिखीव फणिनो दुर्निमित्तमिदं ध्रुवम्।
लब्ध्वापि महदैश्वर्यं लाघवं यान्त्यबुद्धयः ६०

यथायं मत्सुतः स्तुत्यः स्तावकान् स्तौति नीचवत्।
रे मूढ दृष्ट्वाप्यैश्वर्यं मम ब्रूषे पुरो हरिम् ६१

असदृशस्य तू हरेः स्तुतिरेषा विडम्बना।
इत्युक्त्वा तनयं भूप जातक्रोधो भयानकः ६२

जिह्मं निरीक्ष्य च प्राह तद्गुरुं कम्पयन् रुषा।
याहि याहि द्विजपशो साधु शाधि सुतं मम ६३

प्रसाद इत्येष वदन् स विप्रो।
जगाम गेहं खलराजसेवी।
विष्णुं विसृज्यान्वसरच्च दैत्यं।
किं वा न कुर्युर्भरणाय लुब्धाः ६४

इति श्रीनरसिंहपुराणे नृसिंहप्रादुर्भावे एकचत्वारिंशोऽध्यायः ४१


द्विचत्वारिंशोऽध्यायः।
मार्कण्डेय उवाच।
सोऽप्याशु नीतो गुरुवेश्म दैत्यैर्दैत्येन्द्र सूनुर्हरिभक्तिभूषणः।
अशेषविद्यानिवहेन साकं।
कालेन कौमारमवाप योगी १

प्रायेण कौमारमवाप्य लोकः।
पुष्णाति नास्तिक्यमसद्गतिं च।
तस्मिन् वयःस्थस्य बहिर्विरक्तिर्भवत्यभूच्चित्रमजे च भक्तिः २

अथ सम्पूर्णविद्यं तं कदाचिद्दितिजेश्वरः।
आनाय्य प्रणतं प्राह प्रह्लादं विदितेश्वरम् ३

साध्वज्ञाननिधेर्बाल्यान्मुक्तोऽसि सुरसूदन।
इदानीं भ्राजसे भास्वान् नीहारादिव निर्गतः ४

बाल्ये वयं च त्वमिव द्विजैर्जाड्याय मोहिताः।
वयसा वर्धमानेन पुत्रकैव सुशिक्षिताः ५

तदद्य त्वयि धुर्येऽहं संसकण्टकताधुरम्।
विन्यस्य स्वां चिरधृतां सुखी पश्यन् श्रियं तव ६

यदा यदा हि नैपुण्यं पिता पुत्रस्य पश्यति।
तदा तदाऽऽधिं त्यक्त्वा नु महत्सौख्यमवाप्नुयात् ७

गुरुश्चातीव नैपुण्यं ममाग्रेऽवर्णयत्तव।
न चित्रं पुत्र तच्छ्रोतुं किं नु मे वाञ्छतः श्रुती ८

नेत्रयोः शत्रुदारिद्र यं! श्रोत्रयोः सुतसूक्तयः।
युद्धव्रणं च गात्रेषु मायिनां च महोत्सवः ९

श्रुत्वेति निकृतिप्रज्ञं दैत्याधिपवचस्ततः।
जगाद योगी निश्शङ्कं प्रह्लादः प्रणतो गुरुम् १०

सूक्तयः श्रोत्रयोः सत्यं महाराज महोत्सवः।
किन्तु ता वैष्णवीर्वाचो मुक्त्वा नान्या विचारयेत् ११

नीतिः सूक्तिः कथाः श्राव्याः श्राव्यकाव्यं च दद्वचः।
यत्र संसृतिदुःखौघकक्षाग्निर्गीयते हरिः १२

अचिन्त्यः स्तूयते यत्र भक्त्या भक्तेप्सितप्रदः।
अर्थशास्त्रेण किं तात यत्र संसृतिसन्ततिः १३

शास्त्रश्रमेण किं तात येनात्मैव विहंस्यते।
वैष्णवं वाङ्मयं तस्माच्छ्राव्य सेव्यं च सर्वदा १४

मुमुक्षभिर्भवक्लेशान्नो चेन्नैव सुखी भवेत्।
इति तस्य वचः शृण्वन् हिरण्यकशिपुस्तदा १५

जज्वाल दैत्यराट् तप्तसर्पिरद्भिरिवाधिकम्।
प्रह्लादस्य गिरं पुण्यां जनसंसृतिनाशिनीम् १६

नामृष्यतासुरः क्षुद्रो धृको भानुप्रभामिव।
परितो वीक्ष्य सम्प्राह क्रुद्धो दैत्यभटानिदम् १७

हन्यतामेष कुटिलः शस्त्रपातैः सुभीषणैः।
उत्कृत्त्योत्कृत्त्य मर्माणि रक्षितास्तु हरिः स्वयम् १८

पश्यत्विदानीमेवैष हरिसंस्तवजं फलम्।
काकोलकङ्कगृध्रेभ्यो ह्यस्याङ्गं संविभज्यताम् १९

अथोद्धृतास्त्रा दैतेयास्तर्जयन्तः प्रगर्जितैः।
अच्युतस्य प्रियं भक्तं तं जघ्नुः पतिनोदिताः २०

प्रह्लादोऽपि प्रभुं नत्वा ध्यानवज्रं समाददे।
अकृत्रिमरसं भक्तं तमित्थं ध्याननिश्चलम् २१

ररक्ष भगवान् विष्णुः प्रह्लादं भक्तदुःखहृत्।
अथालब्धपदान्यस्य गात्रे शस्त्राणि रक्षसाम् २२

नीलाब्जशकलानीव पेतुश्छिन्नान्यनेकधा।
किं प्राकृतानि शस्त्राणि करिष्यन्ति हरिप्रिये २३

तापत्रयमहास्त्रौधः सर्वोऽष्यस्माद् बिभेति वै।
पीडयन्ति जनांस्तावद् व्याधयो राक्षसा ग्रहाः २४

यावद् गुहाशयं विष्णुं सूक्ष्मं चेतो न विन्दति।
ते तु भग्नास्त्रशकलैः प्रतीपोत्थैरितस्ततः २५

हन्यमाना न्यवर्तन्त सद्यः फलददैरिव।
न चित्रं विबुधानां तदज्ञानां विस्मयावहम् २६

वैष्णवं बलमालोक्य राजा नूनं भयं दधौ।
पुनस्तस्य वधोपायं चिन्तयन् स सुदुर्मतिः २७

समादिशत् समाहूय दन्दशूकान् सुदुर्विषान्।
अशस्त्रवधयोग्योऽयमस्मयो हरितोषकृत् २८

तस्माद् भवद्भिरचिराद् हन्यतां गरलायुधाः।
हिरण्यकशिपोः श्रुत्वा वचनं ते भुजङ्गमाः।
तस्याज्ञां जगृहुर्मूर्ध्ना प्रहर्षाद्देशवर्तिनः २९

अथ ज्वलद्दशनकरालदंष्ट्रिण।
स्फुटस्फुरद्दशनसहस्रभीषणाः ॥
अकर्षका हरिमहिस्वकर्षका –हरिप्रियं द्रुततरमापतन्रुषा ३०

गरायुधास्त्वचमपि भेत्तुमल्पिकां।
वपुष्यजस्मृतिबलदुर्भिदाकृतेः।
अलं न ते हरिवपुषं तु केवलं।
विदश्य तं निजदशनैर्विना कृताः ३१

ततः स्रवत्क्षतजविषण्णमूर्तयो।
द्विधाकृताद्भुतदशना भुजङ्गमाः।
समेत्य ते दितिजपतिं व्यजिज्ञपन्।
विनिःश्वसत्प्रचलफणा भुजङ्गमाः ३२

प्रभो महीध्रानपि भस्मशेषांस्तस्मिन्नशक्तास्तु तदैव वध्याः ॥
महानुभावस्य तवात्मजस्य।
वधे नियुक्त्वा दशनैर्विना कृताः ३३

इत्थं द्विजिह्वाः कठिनं निवेद्य।
ययुर्विसृष्टाः प्रभुणाकृतार्थाः।
विचिन्तयन्तः पृथुविस्मयेन।
प्रह्लादसामर्थ्यनिदानमेव ३४

मार्कण्डेय उवाच।
अथासुरेशः सचिवैर्विचार्य।
निश्चित्य सूनुं तमदण्डसाध्यम्।
आहूय साम्ना प्रणतं जगाद्।
वाक्यं सदा निर्मलपुण्यचित्तम्।
प्रह्लाद दुष्टोऽपि निजाङ्गजातो।
न वध्य इत्यद्य कृपा ममाभूत् ३५

ततस्तूर्णं समागत्य दैत्यराजपुरोहिताः।
मूढाः प्राञ्जलयः प्राहुर्द्विजाः शास्त्रविशारदाः ३६

त्रैलोक्यं कम्पते देव भृशं त्वय्यभिकाङ्क्षिणि।
प्रह्लादस्त्वां न जानाति क्रुद्धं स्वल्पो महाबलम् ३७

तदलं देव रोषेण दयां कर्तुं त्वमर्हसि।
पुत्रः कुपुत्रतामेति न मातापितरौ कदा ३८

उक्त्वेति कुटिलप्रज्ञं दैत्यं दैत्यपुरोहिताः।
आदाय तदनुज्ञातं प्रह्लादं धीधनं ययुः ३९

इति श्रीनरसिंहपुराणे नरसिंहप्रादुर्भावे द्विचत्वारिंशोऽध्यायः ४२


त्रिचत्वारिंशोऽध्यायः।
मार्कण्डेय उवाच।
अथ स गुरुगृहेऽपि वर्तमानः।
सकलविदच्युतसक्तपुण्यचेताः।
जड इव विचचार बाह्यकृत्ये।
सततमनन्तमयं जगत्प्रपश्यन् १

सहगुरुकुलवासिनः कदाचिच्छ्रुतिविरता ह्यवदन् समेत्य बालाः ॥
तव चरितमहो विचित्रमेतत्।
क्षितिपतिपुत्र यतोऽस्य भोगलुब्धः।
हृदि किमपि विचिन्त्य हृष्टरोमा।
भवसि सदा च वदाङ्ग यद्यगुह्यम् २

इति गदितवतः स मन्त्रिपुत्रानवददिदं नृप सर्ववत्सलत्वात् ॥
शृणुत सुमनसः सुरारिपुत्रा।
यदहमनन्यरतिर्वदामि पृष्टः ३

धनजनतरुणीविलासरम्यो।
भवविभवः किल भाति यस्तमेनम्।
विमृशत सुबुधैरुतैष सेव्यो।
द्रुतमथ वा परिवर्ज्य एव दूरात् ४

प्रथममिह विचार्यतां यदम्बाजठरगतैरनुभूयते सुदुःखम् ॥
सुकुटिलतनुभिस्तदग्नितप्तैर्विविधपुराजननानि संस्मरद्भिः ५

कारागृहे दस्युरिवास्मि बद्धो।
जरायुणा विटृकृमिमूत्रगेहे ॥
पश्यामि गर्भेऽपि सकृन्मुकुन्दपादाब्जयोरस्मरणेन कष्टम् ६

तस्मात्सुखं गर्भशयस्य नास्ति।
बाल्ये तथा यौवनवार्धके वा ॥
एवं भवो दुःखमयः सदैव।
सेव्यः कथं दैत्यसुताः प्रबुद्धैः ॥
एवं भवेऽस्मिन् परिमृग्यमाणा।
वीक्षामहे नैव सुखांशलेशम् ७

यथा यथा साधु विचारयामस्तथा तथा दुःखतरं च विद्मः ॥
तस्माद्भवेऽस्मिन् किल चारुरूपे।
दुःखाकरे नैव पतन्ति सन्तः ८

पतन्त्यथोऽतत्त्वविदः सुमूढा।
वह्नौ पतङ्गा इव दर्शनीये ॥
यद्यस्ति नान्यच्छरणं सुखाय।
युक्तं तदैतत्पतनं सुखाभे ९

अविन्दतामन्नमहो कृशानां।
युक्तं हि पिण्याकतुषादिभक्षणम् ॥
अस्ति त्वजं श्रीपतिपादपद्मद्वन्द्वार्चनप्राप्यमनन्तमाद्यम् १०

अक्लेशतः प्राप्यमिदं विसृज्य।
महासुखं योऽन्यसुखानि वाञ्छेत् ॥
राज्यं करस्थं स्वमसौ विसृज्य।
भिक्षामटेद्दीनमनाः सुमूढः ११

तच्चार्च्यते श्रीपतिपादपद्मद्वन्द्वं न वस्त्रैर्न धनैः श्रमैर्न ॥
अनन्यचित्तेन नरेण किन्तु।
उच्चार्यते केशव माधवेति १२

एवं भवं दुःखमयं विदित्वा।
दैत्यात्मजाः साधु हरिं भजध्वम् ॥
एवं जनो जन्मफलं लभेत।
नो चेद्भवाब्धौ प्रपतेदधोऽधः १३

तस्माद्भवेऽस्मिन् हृदि शङ्खचक्रगदाधरं देवमनन्तमीड्यम् ॥
स्मरन्तु नित्यं वरदं मुकुन्दं।
सद्भक्तियोगेन निवृत्तकामाः १४

अनास्तिकत्वात् कृपया भवद्भ्यो।
वदामि गुह्यं भवसिन्धुसंस्थाः ॥
सर्वेषु भूतेषु च मित्रभावं।
भजन्त्वयं सर्वगतो हि विष्णुः १५

दैत्यपुत्रा ऊचुः।
प्रह्लाद त्वं वयं चापि बालभावान्महामते ॥
षण्डामर्कात्परं मित्रं गुरुं चान्यं न विद्महे १६

त्वयैतच्छिक्षितं कुत्र तथ्यं नो वद निस्तुषम्।
प्रह्लाद उवाच।
यदा तातः प्रयातो मे तपोऽर्थं काननं महत् १७

तदा चेन्द्र ः! समागत्य पुरं तस्य रुरोध ह।
मृतं विज्ञाय दैत्येन्द्रं हिरण्यकशिपुं तदा १८

इन्द्रो मे जननीं गृह्य प्रयातो मन्मथाग्निना।
दह्यमानो महाभागां मार्गे गच्छति सत्वरम् १९

तदा मां गर्भगं ज्ञात्वा नारदो देवदर्शनः।
आगत्येन्द्रं जगादोच्चैर्मूढ मुञ्च पतिव्रताम् २०

अस्या गर्भेस्थितो योऽसौ स वै भागवतोत्तमः।
तच्छ्रुत्वा नारदवचो मातरं प्रणिपत्य मे २१

विष्णुभक्त्या प्रमुच्याथ गतः स्वं भुवनं हरिः।
नारदस्तां समानीय आश्रमं स्वं शुभव्रतः २२

मामुद्दिश्य महाभागामेतद्वै कथितं तदा।
तथा मे विस्मृतं नैव बालाभ्यासाद्दनोः सुताः २३

विष्णोश्चानुग्रहेणैव नारदोस्योपदेशतः।
मार्कण्डेय उवाच।
एकदा गुप्तचर्यायां गतोऽसौ राक्षसाधिपः २४

शृणोति रात्रौ नगरे जय रामेति कीर्तनम्।
अवैत्पुत्रकृतं सर्वं बलवान् दानवेश्वरः २५

अथाहूयाह दैत्येन्द्र ः! क्रोधान्धः स पुरोहितान्।
रे रे क्षुद्र द्विजा यूयमतिमुमूर्षतां गताः २६

प्रह्लादोऽयं मृषालापान् वक्त्यन्यान् पाठयत्यपि।
इति निर्भर्त्स्य तान् विप्रान् श्वसन् राजाविशद् गृहम् २७

न च पुत्रवधे चिन्तां जहौ स्ववधकारिणीम्।
आसन्नमरणोऽमर्षात्कृत्यमेकं विमृश्य सः २८

अकृत्यमेव दैत्यादीनाहूयोपादिशद्र हः।
अद्य क्षपायां प्रह्लादं प्रसुप्तं दुष्टमुल्बणैः २९

नागपाशैर्दृढं बद्ध्वा मध्ये निक्षिपताम्बुधेः।
तदाज्ञां शिरसाऽऽदाय ददृशुस्तमुपेत्य ते ३०

रात्रिप्रियं समाधिस्थं प्रबुद्धं सुप्तवत् स्थितम्।
सञ्छिन्नरागलोभादिमहाबन्धं क्षपाचराः ३१

बबन्धुस्तं महात्मानं फल्गुभिः सर्परज्जुभिः।
गरुडध्वजभक्तं तं बद्ध्वाहिभिरबुद्धयः ३२

जलशायिप्रियं नीत्वा जलराशौ निचिक्षिपुः।
बलिनस्तेऽचलान् दैत्या तस्योपरि निधाय च ३३

शशंसुस्तं प्रियं राज्ञे द्रुतं तान् सोऽप्यमानयत्।
प्रह्लादं चाब्धिमध्यस्थं तमौर्वाग्निमिवापरम् ३४

ज्वलन्तं तेजसा विष्णोर्ग्राहा भूरिभियात्यजन्।
न चाभिन्नचिदानन्दसिन्धुमध्ये समाहितः ३५

न वेद बद्धमात्मानं लवणाम्बुधिमध्यगम्।
अथ ब्रह्मामृताम्भोधिमये स्वस्मिन् स्थिते मुनौ ३६

ययौ क्षोभं द्वितीयाब्धिप्रवेशादिव सागरः।
क्लेशात् क्लेशानिवोद्धूय प्रह्लादमथ वीचयः ३७

निन्युस्तीरेऽप्लवाम्भोघेः गुरूक्तय इवाम्बुधेः।
ध्यानेन विष्णुभूतं तं भगवान् वरुणालयः ३८

विन्यस्य तीरे रत्नानि गृहीत्वा द्र ष्टुमाययौ।
तावद् भगवताऽऽदिष्टः प्रहृष्टः पन्नगाशनः ३९

बन्धनाहीन् समभ्येत्य भक्षयित्वा पुनर्ययौ।
अथाबभाषे प्रह्लादं गम्भीरध्वनिरर्णवः ४०

प्रणम्य दिव्यरूपः सन् समाधिस्थं हरेः प्रियम्।
प्रह्लाद भगवद्भक्त पुण्यात्मन्नर्णवोऽस्म्यहम् ४१

चक्षुर्भ्यामथ मां दृष्ट्वा पावयार्थिनमागतम्।
इत्यम्बुधिगिरः श्रुत्वा स महात्मा हरेः प्रियः ४२

उद्वीक्ष्य सहसा देवं तं नत्वाऽऽहासुरात्मजः।
कदाऽऽगतं भगवता तमथाम्बुधिरब्रवीत् ४३

योगिन्नज्ञातवृत्तस्त्वमपराद्धं तवासुरैः।
बद्धस्त्वमहिभिर्दैत्यैर्मयि क्षिप्तोऽद्य वैष्णव ४४

ततस्तूर्णं मया तीरे न्यस्तस्त्वं फणिनश्च तान्।
इदानीमेव गरुडो भक्षयित्वा गतो महान् ४५

महात्मन्ननुगृह्णीष्व त्वं मां सत्सङ्गमार्थिनम्।
गृहाणेमानि रत्नानि पूज्यस्त्वं मे हरिर्यथा ४६

यद्यप्येतैर्न ते कृत्यं रत्नैर्दास्याम्यथाप्यहम्।
दीपान्निवेदयत्येव भास्करस्यापि भक्तिमान् ४७

त्वमापत्स्वपि घोरासु विष्णुनैव हि रक्षितः।
त्वादृशा निर्मलात्मानो न सन्ति बहवोऽर्कवत् ४८

बहुना किं कृतार्थोऽस्मि यत्तिष्ठामि त्वया सह।
आलपामि क्षणमपि नेक्षे ह्येतत्फलोपमाम् ४९

इत्यब्धिना स्तुतः श्रीशमाहात्म्यवचनैः स्वयम्।
ययौ लज्जां प्रहर्षं च प्रह्लादो भगवत्प्रियः ५०

प्रतिगृह्य स रत्नानि वत्सलः प्राह वारिधिम्।
महात्मन् सुतरां धन्यः शेते त्वयि हि स प्रभुः ५१

कल्पान्तेऽपि जगत्कृत्स्नं ग्रसित्वा स जगन्मयः।
त्वय्येवैकार्णवीभूते शेते किल महात्मनि ५२

लोचनाभ्यां जगन्नाथं द्र ष्टुमिच्छामि वारिधे।
त्वं पश्यसि सदा धन्यस्तत्रोपायं प्रयच्छ मे ५३

उक्त्वेति पादावनतं तूर्णमुत्थाप्य सागरः।
प्रह्लादं प्राह योगीन्द्र त्वं पश्यसि सदा हृदि ५४

द्र ष्टुमिच्छस्यथाक्षिभ्यां स्तुहि तं भक्तवत्सलम्।
उक्त्वेति सिन्धुः प्रह्लादमात्मनः स जलेऽविशत् ५५

गते नदीन्द्रे स्थित्वैको हरिं रात्रौ स दैत्यजः।
भक्त्यास्तौदिति मन्वानस्तद्दर्शनमसम्भवम् ५६

प्रह्लाद उवाच।
वेदान्तवाक्यशतमारुतसम्प्रवृद्धवैराग्यवह्निशिखया परिताप्य चित्तम् ॥
संशोधयन्ति यदवेक्षणयोग्यतायै।
धीराः सदैव स कथं मम गोचरः स्यात् ५७

मात्सर्यरोषस्मरलोभमोहमदादिभिर्वा सुदृढैः सुषड्भिः ॥
उपर्युपर्यावरणैः सुबद्धमन्धं मनो मे क्वः हरिः क्व वाहम् ५८

यं धातृमुख्या विबुधा भयेषु।
शान्त्यर्थिनः क्षीरनिधेरुपान्तम् ॥
गत्वोत्तमस्तोत्रकृतः कथञ्चित्।
पश्यन्ति तं द्र ष्टुमहो ममाशा ५९

अयोग्यमात्मानमितीशदर्शने।
स मन्यमानस्तदनाप्तिकातरः ॥
उद्वेगदुःखार्णवमग्नमानसः।
स्रुताश्रुधारो नृप मूर्च्छितोऽपतत् ६०

अथ क्षणात्सर्वगतश्चतुर्भुजः।
शुभाकृतिर्भक्तजनैकवल्लभः ॥
दुःस्थं तमाश्लिष्य सुधामयैर्भुजैस्तत्रैव भूपाविरभूद्दयानिधिः ६१

स लब्धसञ्ज्ञोऽथ तदङ्गसङ्गादुन्मीलिताक्षः सहसा ददर्श ॥
प्रसन्नवक्त्रं कमलायताक्षं।
सुदीर्घबाहुं यमुनासवर्णम् ६२

उदारतेजोमयमप्रमेयं।
गदारिशङ्खाम्बुजचारुचिह्नितम् ॥
स्थितं समालिङ्ग्य विभुं स दृष्ट्वा।
प्रकम्पितो विस्मयभीतिहर्षैः ६३

तत् स्वप्नमेवाथ स मन्यमानः।
स्वप्नेऽपि पश्यामि हरिं कृतार्थम् ॥
इति प्रहर्षार्णवमग्नचेताः।
स्वानन्दमूर्च्छां स पुनश्च भेजे ६४

ततः क्षितावेव निविश्य नाथः।
कृत्वा तमङ्के स्वजनैकबन्धुः ॥
शनैर्विधुन्वन् करपल्लवेन।
स्पृशन् मुहुर्मातृवदालिलिङ्ग ६५

ततश्चिरेण प्रह्लादः सम्मुखोन्मीलितेक्षणः।
आलुलोके जगन्नाथं विस्मयाविष्टचेतसा ६६

ततश्चिरात्तं सम्भाव्य धीरः श्रीशाङ्कशायिनम्।
आत्मानं सहसोत्तस्थौ सद्यः सभयसम्भ्रमः ६७

प्रणामायापतच्चोर्व्यां प्रसीदेति वदन्मुहुः।
सम्भ्रमात् बहुज्ञोऽपि नान्यां पूजोक्तिमस्मरत् ६८

तमथाभयहस्तेन गदाशङ्खारिधृक् प्रभुः।
गृहीत्वा स्थापयामास प्रह्लादं स दयानिधिः ६९

कराब्जस्पर्शनाह्लादगलदश्रुं सवेपथुम्।
भूयोऽथाह्लादयन् स्वामी तं जगादेति सान्त्वयन् ७०

सभयं सम्भ्रमं वत्स मद्गौरवकृतं त्यज।
नैवं प्रियो मे भक्तेषु स्वाधीनप्रणयी भव ७१

नित्यं सम्पूर्णकामस्य जन्मानि विविधानि मे।
भक्तसर्वेष्टदानाय तस्मात् किं ते प्रियं वद ७२

अथ व्यजिज्ञपद्विष्णुं प्रह्लादः प्राञ्जलिर्नमन्।
सलौल्यमुत्फुल्लदृशा पश्यन्नेवं च तन्मुखम् ७३

नाप्ययं वरदानाय कालो नैष प्रसीद मे।
त्वद्दर्शनामृतास्वादादन्तरात्मा न तृप्यति ७४

ब्रह्मादिदेवैर्दुर्लक्ष्यं त्वामेव पश्यतः प्रभो।
तृप्तिं नेष्यति मे चित्तं कल्पायुतशतैरपि ७५

नैवमेतद्ध्यतृप्तस्य त्वां दृष्ट्वान्यद्वृणोति किम्।
ततः स्मितसुधापूरैः पूरयन् स प्रियं प्रियात् ७६

योजयन् मोक्षलक्ष्म्यैव तं जगाद जगत्पतिः।
सत्यं मद्दर्शनादन्यद् वत्स नैवास्ति ते प्रियम् ७७

किञ्चित्ते दातुमिष्टं मे मत्प्रियार्थं वृणीष्व तत्।
प्रह्लादोऽथाब्रवीद्धीमान् देव जन्मान्तरेष्वपि ७८

दासस्तवाहं भूयासं गरुत्मानिव भक्तिमान्।
अथाह नाथः प्रह्लादं सङ्कटं खल्विदं कृतम् ७९

अहं तवात्मदानेच्छुस्त्वं तु भृत्यत्वमिच्छसि।
वरानन्यांश्च वरय धीमन् दैत्येश्वरात्मज ८०

प्रह्लादोऽपि पुनः प्राह भक्तकामप्रदं हरिम्।
प्रसीद सास्तु मे नाथ त्वद्भक्तिः सात्त्विकी स्थिरा ८१

अनयाथ च त्वां नौमि नृत्यामि त्वत्परः सदा।
अथाभितुष्टो भगवान् प्रियमाह प्रियंवदम् ८२

वत्स यद्यदभीष्टं ते तत्तदस्तु सुखी भव।
अन्तर्हिते च मय्यत्र मा खिद त्वं महामते ८३

त्वच्चित्तान्नापयास्यामि क्षीराब्धेरिव सुप्रियात्।
पुनर्द्वित्रिदिनैस्त्वं मां द्र ष्टा दुष्टवधोद्यतम् ८४

अपूर्वाविष्कृताकारं नृसिंहं पापभीषनम्।
उक्त्वेत्यतः प्रणमतः पश्यतश्चातिलालसम् ८५

अतुष्टस्यैव तस्येशो माययान्तर्दधे हरिः।
ततो हठाददृष्ट्वा तं सर्वतो भक्तवत्सलम् ८६

हाहेत्यश्रुप्लुतः प्रोच्य ववन्दे स चिरादिति।
श्रूयमाणेऽथ परितः प्रतिबुद्धजनस्वने ८७

उत्थायाब्धितटाद्धीमान् प्रह्लादः स्वपुरं ययौ ८८

अथ दितिजसुतश्चिरं प्रहृष्टः।
स्मृतिबलतः परितस्तमेव पश्यन्।
हरिमनुजगतिं त्वलं च पश्यन्।
गुरुगृहमुत्पुलकः शनैरवाप ८९

इति श्रीनरसिंहपुराणे नरसिंहप्रादुर्भावे।
त्रिचत्वारिंशोऽध्यायः ४३


चतुश्चत्वारिंशोऽध्यायः।
मार्कण्डेय उवाच।
अथागतं ते प्रह्लादं दृष्ट्वा दैत्याः सुविस्मिताः।
शशंसुर्दैत्यपतये यैः क्षिप्तः स महार्णवे १

स्वस्थं तमागतं श्रुत्वा दैत्यराड्विस्मयाकुलः।
आहूयतां च इत्याह क्रोधान्मृत्युवशे स्थितः २

तथासुरैर्दुरानीतः समासीनं स दिव्यदृक्।
आसन्नमृत्युं दैत्येन्द्रं ददर्शात्यूर्जितश्रियम् ३

नीलांशुमिश्रमाणिक्यद्युतिच्छन्नविभूषणम्।
सधूमाग्निमिव व्याप्तमुच्चासनचितिस्थितम् ४

दंष्ट्रोत्कटैर्घोरतरैर्धनच्छविभिरुद्भटैः।
कुमार्गदर्शिभिर्दैत्यैर्यमदूतैरिवावृतम् ५

दूरात् प्रणम्य पितरं प्राञ्जलिस्तु व्यवस्थितः।
अथाहाकारणक्रोधः स खलो भर्त्सयन् सुतम् ६

भगवत्प्रियमत्युच्चैर्मृत्युमेवाश्रयन्निव।
मूढ रे शृणु मद्वाक्यमेतदेवान्तिमं ध्रुवम् ७

इतो न त्वां प्रवक्ष्यामि श्रुत्वा कुरु यथेप्सितम्।
उक्त्वेति द्रुतमाकृष्य चन्द्र हासासिमद्भुतम् ८

सम्भ्रमाद्वीक्षितः सर्वैश्चालयन्नाह तं पुनः।
क्व चास्ति मूढ ते विष्णुः स त्वामद्य प्ररक्षतु ९

त्वयोक्तं स हि सर्वत्र कस्मात्स्तम्भे न दृश्यते।
यदि पश्यामि तं विष्णुमधुना स्तम्भमध्यगम् १०

तर्हि त्वां न बधिष्यामि भविष्यसि द्विधान्यथा।
प्रह्लादोऽपि तथा दृष्ट्वा दध्यौ तं परमेश्वरम् ११

पुरोक्तं तद्वचः स्मृत्वा प्रणनाम कृताञ्जलि।
तावत्प्रस्फुटितस्तम्भो वीक्षितो दैत्यसूनुना १२

आदर्शरूपो दैत्यस्य खङ्गतो यः प्रतिष्ठितः।
तन्मध्ये दृश्यते रूपं बहुयोजनमायतम् १३

अतिरौद्रं महाकायं दानवानां भयङ्करम्।
महानेत्रं महावक्त्रं महादंष्ट्रं महाभुजम् १४

महानखं महापादं कालाग्निसदृशाननम्।
कर्णान्तकृतविस्तारवदनं चातिभीषणम् १५

कृत्वेत्थं नारसिंहं तु ययौ विष्णुस्त्रिविक्रमः।
नरसिंहः स्तम्भमध्यान्निर्गत्य प्रणनाद च १६

निनादश्रवणादैत्या नरसिंहमवेष्टयन्।
तान् हत्वा सकलांस्तत्र स्वपौरुषपराक्रमात् १७

बभञ्ज च सभां दिव्यां हिरण्यकशिपोर्नृप।
वारयामासुरभ्येत्य नरसिंहं महाभटाः १८

ते तु राजन् क्षणादेव नरसिंहेन वै हताः।
ततः शस्त्राणि वर्षन्ति नरसिंहे प्रतापिनि १९

स तु क्षणेन भगवान् हत्वा तद्बलमोजसा।
ननाद च महानादं दिशः शब्देन पूरयन् २०

तान्मृतानपि विज्ञाय पुनरन्यान्महासुरः।
अष्टाशीतिसहस्राणि हेतिहस्तान् समादिशत् २१

तेऽप्यागत्य च तं देवं रुरुधुः सर्वतोदिशम्।
हत्वा तानखिलान् युद्धे युध्यमानो ननाद सः २२

पुनः सभां बभञ्जासौ हिरण्यकशिपोः शुभाम्।
तान् हतानपि विज्ञाय क्रोधसंरक्तलोचनः २३

ततो हिरण्यकशिपुर्निश्चक्राम महाबलः।
उवाच च महीपाल दानवान् बलदर्पितान् २४

हन्यतां हन्यतामेष गृह्यतां गृह्यतामयम्।
इत्येवं वदतस्तस्य प्रमुखे तु महासुरान् २५

युध्यमानान् रणे हत्वा नरसिंहो ननाद च।
ततोऽतिदुद्रुवुर्दैत्या हतशेषा दिशो दश २६

तावद्धता युध्यमाना दैत्याः कोटिसहस्रशः।
नरसिंहेन यावच्च नभोभागं गतो रविः २७

शस्त्रास्त्रवर्षचतुरं हिरण्यकशिपुं जवात्।
प्रगृह्य तु बलाद्रा जन् नरसिंहो महाबलः २८

सन्ध्याकाले गृहद्वारि स्थित्वोरौ स्थाप्य तं रिपुम्।
वज्रतुल्यमहोरस्कं हिरण्यकशिपुं रुषा।
नखैः किसलयमिव दारयत्याह सोऽसुरः २९

यत्राखण्डलदन्तिदन्तमुसलान्याखण्डितान्याहवे।
धारा यत्र पिनाकपाणिपरशोराकुण्ठतामागमत्।
तन्मे तावदुरो नृसिंहकरजैर्व्यादीर्यते साम्प्रतं।
दैवे दुर्जनतां गते तृणमपि।
प्रायोऽप्यवज्ञायते ३०

एवं वदति दैत्येन्द्रे ददार नरकेसरी।
हृदयं दैत्यराजस्य पद्मपत्रमिव द्विपः ३१

शकले द्वे तिरोभूते नखरन्ध्रे महात्मनः।
ततः क्व यातो दुष्टोऽसाविति देवोऽतिविस्मितः ३२

निरीक्ष्य सर्वतो राजन् वृथैतत्कर्म मेऽभवत्।
इति सञ्चिन्त्य राजेन्द्र नरसिंहो महाबलः ३३

व्यधूनयत्करावुच्चैस्ततस्ते शकले नृप।
नखरन्ध्रान्निपतिते भूमौ रेणसमे हरेः ३४

दृष्ट्वा व्यतीतसंरोषो जहास परमेश्वरः।
पुष्पवर्षं च वर्षन्तो नरसिंहस्य मूर्धनि ३५

देवाः सब्रह्मकाः सर्वे आगताः प्रीतिसंयुताः।
आगत्य पूजयामासुर्नरसिंहं परं प्रभुम् ३६

ब्रह्मा च दैत्यराजानं प्रह्लादमभिषेचयत्।
धर्मे रतिः समस्तानां जनानामभवत्तदा ३७

इन्द्रो ऽपि सर्वदेवैस्तु हरिणा स्थापितो दिवि।
नरसिंहोऽपि भगवान् सर्वलोकहिताय वै ३८

श्रीशैलशिखरं प्राप्य विश्रुतः सुरपूजितः।
स्थितो भक्तहितार्थाय अभक्तानां क्षयाय च ३९

इत्येतन्नरसिंहस्य माहात्म्यं यः पठेन्नरः।
शृणोति वा नृपश्रेष्ठ मुच्यते सर्वपातकैः ४०

नरो वा यदि वा नारी शृणोत्याख्यानमुत्तमम्।
वैधव्याद्दुःखशोकाच्च दुष्टसङ्गात्प्रमुच्यते ४१

दुश्शीलोऽपि दुराचारो दुष्प्रजो दोषकर्मकृत्।
अधर्मिष्ठोऽनभोगी च शृण्वन् शुद्धो भवेन्नरः ४२

हरिः सुरेशो नरलोकपूजितो।
हिताय लोकस्य चराचरस्य।
कृत्वा विरूपं च पुरात्ममायया।
हिरण्यकं दुःखकरं नखश्छिनत् ४३

इति श्रीनरसिंहपुराणे नरसिंहप्रादुर्भावो नाम।
चतुश्चत्वारिंशोऽध्यायः ४४


पञ्चचत्वारिंशोऽध्यायः।
मार्कण्डेय उवाच।
शृणु राजन् समासेन वामनस्य पराक्रमम्।
बलियागे हता येन पुरा दैत्याः सहस्रशः १

विरोचनसुतः पूर्वं महाबलपराक्रमः।
त्रैलोक्यं बुभुजे जित्वा देवानिन्द्र पुरोगमान् २

ततः कृशतरा देवा बभूवुस्तेन खण्डिताः।
इन्द्रं कृशतरं दृष्ट्वा नष्टराज्यं नृपोत्तम ३

अदितिर्देवमाता या सातप्यत्परमं तपः।
तुष्टाव वाग्भिरिष्टाभिः प्रणिपत्य जनार्दनम् ४

ततः स्तुत्याभिसन्तुष्टो देवदेवो जनार्दनः।
स्थित्वा तत्पुरतो वाचमुवाच मधुसूदनः ५

तव पुत्रो भविष्यामि सुभगे बलिबन्धनः।
इत्युक्त्वा तां गतो विष्णुः स्वगृहं सा समाययौ ६

ततः कालेन सा गर्भमवाप नृप कश्यपात्।
अजायत स विश्वेशो भगवान् वामनाकृतिः ७

तस्मिञ्जाते समागत्य ब्रह्मा लोकपितामहः।
जातकर्मादिकाः सर्वाः क्रियास्तत्र चकार वै ८

कृतोपनयनो देवो ब्रह्मचारी सनातनः।
अदितिं चाप्यनुज्ञाप्य यज्ञशालां बलेर्ययौ ९

गच्छतः पादविक्षेपाच्चचाल सकला मही।
यज्ञभागान्न गृह्णन्ति दानवाश्च बलेर्मखात् १०

प्रशान्ताश्चाग्नयस्तत्र ऋत्विजो मन्त्रतश्च्युताः।
विपरीतमिदं दृष्ट्वा शुक्रमाह महाबलः ११

न गृह्णन्ति मुने कस्माद्धविर्भागं महासुराः।
कस्माच्च वह्नयः शान्ताः कस्माद्भूश्चलति द्विज १२

कस्माच्च मन्त्रतो भ्रष्टा ऋत्विजः सकला अमी।
इत्युक्तो बलिना शुक्रो दानवेन्द्रं वचोऽब्रवीत् १३

शुक्र उवाच।
हे बले शृणु मे वाक्यं त्वया देवा निराकृताः।
तेषां राज्यप्रदानाय आदित्यामच्युतोऽपुर १४

देवदेवो जगद्योनिः सञ्जातो वामनाकृतिः।
स त्वागच्छति ते यज्ञं तत्पादन्यासकम्पिता १५

चलतीयं मही सर्वा तेनाद्यासुरभूपते।
तत्सन्निधानादसुरा न गृह्णन्ति हविर्मखे १६

तवाग्नयोऽपि वै शान्ता वामनागमनाद्धि भोः।
ऋत्विजश्च न भासन्ते होममन्त्रो बलेऽधुना १७

असुराणां श्रियो हन्ति सुराणां भूतिरुत्तमा।
इत्युक्तः स बलिः प्राह शुक्रं नीतिमतां वरम् १८

शृणु ब्रह्मन् वचो मे त्वमागते वामने मखे।
यन्मया चाद्य कर्तव्यं वामनास्यास्य धीमतः १९

तन्मे वद महाभाग त्वं हि नः परमो गुरुः।
मार्कण्डेय उवाच।
इति सञ्चोदितः शुक्रः स राज्ञा बलिना नृप २०

तमुवाच बलिं वाक्यं ममापि शृणु साम्प्रतम्।
देवानामुपकाराय भवतां सङ्क्षयाय च २१

स नूनमायाति बले तव यज्ञे न संशयः।
आगते वामने देवे त्वया तस्य महात्मनः २२

प्रतिज्ञा नैव कर्तव्या ददाम्येतत्तवेति वै।
इति श्रुत्वा वचस्तस्य बलिर्बलवतां वरः २३

उवाच तां शुभां वाणीं शुक्रमात्मपुरोहितम्।
आगते वामने शुक्र यज्ञे मे मधुसूदने २४

न शक्यते प्रतिख्यातुं दानं प्रति मया गुरो।
अन्येषामपि जन्तूनामित्युक्तं ते मयाधुना २५

किं पुनर्वासुदेवस्य आगतस्य तु शार्ङ्गिणः।
त्वया विघ्नो न कर्तव्यो वामनेऽत्रागते द्विज २६

यद्यद्द्रव्यं प्रार्थयते तत्तद्द्रव्यं ददाम्यहम्।
कृतार्थोऽहं मुनिश्रेष्ठ यद्यागच्छति वामनः २७

इत्येवं वदतस्तस्य यज्ञशालां स वामनः।
आगत्य प्रविवेशाथ प्रशशंस बलेर्मखम् २८

तं दृष्ट्वा सहसा राजन् राजा दैत्याधिपो बलिः।
उपचारेण सम्पूज्य वाक्यमेतदुवाच ह २९

यद्यत्प्रार्थयसे मां त्वं देवदेव धनादिकम्।
तत्सर्वं तव दास्यामि मां याचस्वाद्य वामन ३०

इत्युक्तो वामनस्तत्र नृपेन्द्र बलिना तदा।
याचयामास देवेशो भूमेर्देहि पदत्रयम् ३१

ममाग्निशरणार्थाय न मेऽर्थेऽस्ति प्रयोजनम्।
इत्युक्तो वामनेनाथ बलिः प्राह च वामनम् ३२

पदत्रयेण चेत्तृप्तिर्मया दत्तं पदत्रयम्।
एवमुक्ते तु बलिना वामनो बलिमब्रवीत् ३३

दीयतां मे करे तोयं यदि दत्तं पदत्रयम्।
इत्युक्तो देवदेवेन तदा तत्र स्वयं बलिः ३४

सजलं हेमकलशं गृहीत्वोत्थाय भक्तितः।
यावत्स वामनकरे तोयं दातुमुपस्थितः ३५

तावत्त्छुक्रः कलशगो जलधारां रुरोध ह।
ततश्च वामनः क्रुद्धः पवित्राग्रेण सत्तम ३६

उदके कलशद्वारि तच्छुक्राक्षिमवेधयत्।
ततो व्यपगतः शुक्रो विद्धैकाक्षो नरोत्तम ३७

तोयधारा निपतिता वामनस्य करे पुनः।
करे निपतिते तोये वामनो ववृधे क्षणात् ३८

पादेनैकेन विक्रान्ता तेनैव सकला मही।
अन्तरिक्षं द्वितीयेन द्योस्तृतीयेन सत्तम ३९

अनेकान् दानवान् हत्वा हृत्वा त्रिभुवनं बलेः।
पुरन्दराय त्रैलोक्यं दत्त्वा बलिमुवाच ह ४०

यस्मात्ते भक्तितो दत्तं तोयमद्य करे मम।
तस्मात्ते साम्प्रतं दत्तं पातालतलमुत्तमम् ४१

तत्र गत्वा महाभाग भुङ्क्ष्व त्वं मत्प्रसादतः।
वैवस्वतेऽन्तरेऽतीते पुनरिन्द्रो भविष्यसि ४२

प्रणम्य च ततो गत्वा तलं भोगमवाप्तवान् ४३

शुक्रोऽपि स्वर्गमारुह्य प्रसादाद्वामनस्य वै।
समागतास्त्रिभुवनं राजन् देवसमन्वितः ४४

यः स्मरेत्प्रातरुत्थाय वामनस्य कथामिमाम्।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ४५

इत्थं पुरा वामनरूपमास्थितो।
हरिर्बलेर्हृत्य जगत्त्रयं नृप।
कृत्वा प्रसादं च दिवौकसाम्पतेर्दत्त्वा त्रिलोकं स ययौ महोदधिम् ४६

इति श्रीनरसिंहपुराणे वामनप्रादुभावे पञ्चचत्वारिंशोऽध्यायः ४५


षट्चत्वारिंशोऽध्यायः।
मार्कण्डेय उवाच।
अतः परं प्रवक्ष्यामि प्रादुर्भावं हरेः शुभम्।
जामदग्न्यं पुरा येन क्षत्रमुत्सादितं शृणु १

पुरा देवगणैर्विष्णुः स्तुतः क्षीरोदधौ नृप।
ऋषिभिश्च महाभागैर्जमदग्नेः सुतोऽभवत् २

पर्शुराम इति ख्यातः सर्वलोकेषु स प्रभुः।
दुष्टानां निग्रहं कर्तुमवतीर्णो महीतले ३

कृतवीर्यसुतः श्रीमान् कार्तवीर्योऽभवत् पुरा।
दत्तात्रेयं समाराध्य चक्रवर्त्तित्वमाप्तवान् ४

स कदाचिन्महाभागो जमदग्न्याश्रमं ययौ।
जमदग्निस्तु तं दृष्ट्वा चतुरङ्गबलान्वितम् ५

उवाच मधुरं वाक्यं कार्तवीर्यं नृपोत्तमम्।
मुच्यतामत्र ते सेना अतिथिस्त्वं समागतः।
वन्यादिकं मया दत्तं भुक्त्वा गच्छ महामते ६

प्रमुच्य सेनां मुनिवाक्यगौरवात्।
स्थितो नृपस्तत्र महानुभावः।
आमन्त्र्! य राजानमलङ्घ्यकीर्त्तिर्मुनिः स धेनुं च दुदोह दोग्ध्रीम् ७

हस्त्यश्वशाला विविधा नराणां।
गृहाणि चित्राणि च तोरणानि ॥
सामन्तयोग्यानि शुभानि राजन्।
समिच्छतां यानि सुकाननानि ८

गृहं वरिष्ठं बहुभूमिकं पुनः।
समन्वितं साधुगुणैरुपस्करैः ॥
दुग्ध्वा प्रकल्पन् मुनिराह पार्थिवं।
गृहं कृतं ते प्रविशेह राजन् ९

इमे च मन्त्रिप्रवरा जनास्ते।
गृहेषु दिव्येषु विशन्तु शीघ्रम्।
हस्त्यश्वजात्यश्च विशन्तु शालां।
भृत्याश्च नीचेषु गृहेषु सन्तु १०

इत्युक्तमात्रे मुनिना नृपोऽसौ।
गृहं वरिष्ठं प्रविवेश राजा।
अन्येषु चान्येषु गृहेषु सत्सु।
मुनिः पुनः पार्थिवमाबभाषे ११

स्नानप्रदानार्थमिदं मया ते।
प्रकल्पितं स्त्रीशतमुत्तमं नृप।
स्नाहि त्वमद्यात्र यथाप्रकामं।
यथा सुरेन्द्रो दिवि नृत्यगीतैः १२

स स्नातवांस्तत्र सुरेन्द्र वन्नृपो।
गीत्यादिशब्दैर्मधुरैश्च वाद्यैः।
स्नातस्य तस्याशु शुभे च वस्त्रे।
ददौ मुनिर्भूप विभूषिते द्वे १३

परिधाय वस्त्रं च कृतोत्तरीयः।
कृतक्रियो विष्णुपूजां चकार।
मुनिश्च दुग्ध्वान्नमयं महागिरिं।
नृपाय भृत्याय च दत्तवानसौ १४

यावत्स राजा बुभुजे सभृत्यस्तावच्च सूर्यो गतवान् नृपास्तम्।
रात्रौ च गीतादिविनोदयुक्तः।
शेते स राजा मुनिनिर्मिते गृहे १५

ततः प्रभाते विमले स्वप्नलब्धमिवाभवत्।
भूमिभागं ततः कञ्चिद् दृष्ट्वासौ चिन्तयन्नृपः १६

किमियं तपसः शक्तिर्मुनेरस्य महात्मनः।
सुरभ्या वा महाभाग ब्रूहि मे त्वं पुरोहित १७

इत्युक्तः कार्तवीर्येण तमुवाच पुरोहितः।
मुनेः सामर्थ्यमप्यस्ति सिद्धिश्चेयं हि गोर्नृप १८

तथापि सा न हर्तव्या त्वया लोभान्नराधिप।
यस्त्वेतां हर्तमिच्छेद् वै तस्य नाशो ध्रुवं भवेत् १९

अथ मन्त्रिवरः प्राह ब्राह्मणो ब्राह्मणप्रियः।
राजकार्यं न वश्येद्वै स्वपक्षस्यैव पोषणात् २०

हे राजंस्त्वयि तिष्ठन्ति गृहाणि विविधानि च।
तथा सुवर्णपात्राणि शयनादीनि च स्त्रियः २१

तां धेनुं प्राप्य राजेन्द्र लीयमानानि तत्क्षणात्।
अस्माभिस्तत्र दृष्टानि नीयतां धेनुरुत्तमा २२

तवेयं योग्या राजेन्द्र यदीच्छसि महामते।
गत्वाहमानयिष्यामि आज्ञां मे देहि भूभुज २३

इत्युक्तो मन्त्रिणा राजा तथेत्याह नृपोत्तम।
सचिवस्तत्र तत्वाथ सुरभिं हर्तुमारभत् २४

वारयामास सचिवं जमदग्निः समन्ततः।
राजयोग्यामिमां ब्रह्मन् देहि राज्ञे महामते २५

त्वं तु शाकफलाहारी किं धेन्वा ते प्रयोजनम्।
इत्युक्त्वा तां बलाद्धृत्वा नेतुं मन्त्री प्रचक्रमे २६

पुनः सभार्यः स मुनिर्वारयामास तं नृपम्।
ततो मन्त्री सुदुष्टात्मा मुनिं हत्वा तु तं नृप २७

ब्रह्महा नेतुमारेभे वायुमार्गेण सा गता।
राजा च क्षुब्धहृदयो ययौ माहिष्मतीं पुरीम् २८

मुनिपत्नी सुदुःखार्ता रोदयन्ती भृशं तदा।
त्रिस्सप्तकृत्वः स्वां कुक्षिं ताडयामास पार्थिव २९

तच्छृण्वन्नागतो रामो गृहीतपरशुस्तदा।
पुष्पादीनि गृहीत्वा तु वनान्मातरमब्रतीत् ३०

अलमम्ब प्रहारेण निमित्ताद् विदितं मया।
हनिष्यामि दुराचारमर्जुनं दुष्टमन्त्रिणम् ३१

त्वयैकविंशवारेण यस्मात्कुक्षिश्च ताडिता।
त्रिस्सप्तकृत्वस्तस्मात्तु हनिष्ये भुवि पार्थिवान् ३२

इति कृत्वा प्रतिज्ञां स गृहीत्वा परशुं ययौ।
माहिष्मतीं पुरीं प्राप्य कार्तवीर्यमथाह्वयत् ३३

युद्धार्थमागतः सोऽथ अनेकाक्षौहिणीयुतः।
तयोर्युद्धमभूत्तत्र भैरवं लोमहर्षणम् ३४

पिशिताशिजनानन्दं शस्त्रास्त्रशतसङ्कुलम्।
ततः परशुरामोऽभून्महाबलपराक्रमः ३५

परं ज्योतिरचिन्त्यात्मा विष्णुः कारणमूर्तिमान्।
कार्तवीर्यबलं सर्वमनेकैः क्षत्रियैः सह ३६

हत्वा निपात्य भूमौ तु परमाद्भुतविक्रमः।
कार्तवीर्यस्य बाहुनां वनं चिच्छेद रोषवान्।
छिन्ने बाहुवने तस्य शिरश्चिच्छेद भार्गवः ३७

विष्णुहस्ताद्वधं प्राप्य चक्रवर्ती स पार्थिवः।
दिव्यरूपधरः श्रीमान् दिव्यगन्धानुलेपनः ३८

दिव्यं विमानमारुह्य विष्णुलोकमवाप्तवान्।
क्रोधात्परशुरामोऽपि महाबलपराक्रमः ३९

त्रिस्सप्तकृत्वो भूम्यां वै पार्थिवान्निजघान सः।
क्षत्रियाणां वधात्तेन भूमेर्भारोऽवतारितः ४०

भूमिश्च सकला दत्ता कश्यपाय महात्मने।
इत्येष जामदग्न्याख्यः प्रादुर्भावो मयोदितः ४१

यश्च तच्छृणयाद्भक्त्या सर्वपापैः प्रमुच्यते ४२

अवतीर्य भूमौ हरिरेष साक्षात्।
त्रिस्सप्तकृत्वः क्षितिपान्निहत्य स।
क्षात्रं च तेजो प्रविभज्य राजन्।
रामः स्थितोऽद्यापि गिरौ महेन्द्रे ४३

इति श्रीनरसिंहपुराणे परशुरामप्रादुर्भावो नाम।
षट्चत्वारिंशोऽध्यायः ४६

सप्तचत्वारिंशोऽध्यायः।
श्रीमार्कण्डेय उवाच।
शृणु राजन् प्रवक्ष्यामि प्रादुर्भावं हरेःशुभम्।
निहतो रावणो येन सगणो देवकण्टकः १

ब्रह्मणो मानसः पुत्रः पुलस्त्योऽभून्महामुनिः।
तस्य वै विश्रवा नाम पुत्रोऽभूत्तस्य राक्षसः २

तस्माज्जातो महावीरो रावणो लोकरावणः।
तपसा महता युक्तः स तु लोकानुपाद्र वत् ३

सेन्द्रा देवा जितास्तेन गन्धर्वाः किन्नरास्तथा।
यक्षाश्च दानवाश्चैव तेन राजन् विनिर्जिताः ४

स्त्रियश्चैव सुरूपिण्यो हृतास्तेन दुरात्मना।
देवादीनां नृपश्रेष्ठ रत्नानि विविधानि च ५

रणे कुबेरं निजित्य रावणो बलदर्पितः।
तत्पुरीं जगृहे लङ्कां विमानं चापि पुष्पकम् ६

तस्यां पुर्यां दशग्रीवो रक्षसामधिपोऽभवत्।
पुत्राश्च बहवस्तस्य बभूवुरमितौजसः ७

राक्षसाश्च तमाश्रित्य महाबलपराक्रमाः।
अनेककोटयो राजन् लङ्कायां निवसन्ति ये ८

देवान् पितॄन् मनुष्यांश्च विद्याधरगणानपि।
यक्षांश्चैव ततः सर्वे घातयन्ति दिवानिशम् ९

सन्त्रस्तं तद्भयादेव जगदासीच्चराचरम्।
दुःखाभिभूतमत्यर्थं सम्बभूव नराधिप १०

एतस्मिन्नेव काले तु देवाः सेन्द्रा महर्षयः।
सिद्धा विद्याधराश्चैव गन्धर्वाः किन्नरास्तथा ११

गुह्यका भुजगा यक्ष ये चान्ये स्वर्गवासिनः।
ब्रह्माणमग्रतः कृत्वा शङ्करं च नराधिप १२

ते ययुर्हतविक्रान्ताः क्षीराब्धेस्तटमुत्तमम्।
तत्राराध्य हरिं देवास्तस्थुः प्राञ्जलयस्तदा १३

ब्रह्मा च विष्णुमाराध्य गन्धपुष्पादिभिः शुभैः।
प्राञ्जलिः प्रणतो भूत्वा वासुदेवमथास्तुवत् १४

ब्रह्मोवाच।
नमः क्षीराब्धिवासाय नागपर्यङ्कशायिने।
नमः श्रीकरसंस्पृष्टदिव्यपादाय विष्णवे १५

नमस्ते योगनिद्रा य योगान्तर्भाविताय च।
तार्क्ष्यासनाय देवाय गोविन्दाय नमो नमः १६

नमः क्षीराब्धिकल्लोलस्पृष्टमात्राय शार्ङ्गिणे।
नमोऽरविन्दपादाय पद्मनाभाय विष्णवे १७

भक्तार्चितसुपादाय नमो योगप्रियाय वै।
शुभाङ्गाय सुनेत्राय माधवाय नमो नमः १८

सुकेशाय सुनेत्राय सुललाटाय चक्रिणे।
सुवक्त्राय सुकर्णाय श्रीधराय नमो नमः १९

सुवक्षसे सुनाभाय पद्मनाभाय वै नमः।
सुभ्रुवे चारुदेहाय चारुदन्ताय शार्ङ्गिणे २०

चारुजङ्घाय दिव्याय केशवाय नमो नमः।
सुनखाय सुशान्ताय सुविद्याय गदाभृते २१

धर्मप्रियाय देवाय वामनाय नमो नमः।
असुरघ्नाय चोग्राय रक्षोघ्नाय नमो नमः २२

देवानामार्तिनाशाय भीमकर्मकृते नमः।
नमस्ते लोकनाथाय रावणान्तकृते नमः २३

मार्कण्डेय उवाच।
इति स्तुतो हृषीकेशस्तुतोष मरमेष्ठिना।
स्वरूपं दर्शयित्वा तु पितामहमुवाचह २४

किमर्थं तु सुरैः सार्धमागतस्त्वं पितामह ॥
यत्कार्यं ब्रूहि मे ब्रह्मन् यदर्थं संस्तुतस्त्वया २५

इत्युक्तो देवदेवेन विष्णुना प्रभविष्णुना।
सर्वदेवगणैः सार्धं ब्रह्मा प्राह जनार्दनम् २६

ब्रह्मोवाच।
नाशितं तु जगत्सर्वं रावणेन दुरात्मना।
सेन्द्रा ः! पराजितास्तेन बहुशो रक्षसा विभो २७

राक्षसैर्भक्षिता मर्त्या यज्ञाश्चापि विदूषिताः।
देवकन्या हृतास्तेन वलाच्छतसहस्रशः २८

त्वामृते पुण्डरीकाक्ष रावणस्य वधं प्रति।
न समर्था यतो देवास्त्वमतस्तद्वधं कुरु २९

इत्युक्तो ब्रह्मणा विष्णुर्ब्रह्माणमिदमब्रवीत्।
शृणुष्वावहितो ब्रह्मन् यद्वदामि हित वचः ३०

सूर्यवंशोद्भवः श्रीमान् राजासीद्भुवि वीर्यवान्।
नाम्ना दशरथख्यातस्तस्य पुत्रो भवाम्यहम् ३१

रावणस्य वधार्थाय चतुर्धांशेन सत्तम।
स्वांशैर्वानररूपेण सकला देवतागणाः ३२

वतार्यन्तां विश्वकर्तः स्यादेवं रावणक्षयः।
इत्युक्तो देवदेवेन ब्रह्मा लोकपितामहः ३३

देवाश्च ते प्रणम्याथ मेरुपृष्ठं तदा ययुः।
स्वांशैर्वानररूपेण अवतेरुश्च भूतले ३४

अथापुत्रो दशरथो मुनिभिर्वेदपारगैः।
इष्टिं तु कारयामास पुत्रप्राप्तिकरीं नृपः ३५

ततः सौवर्णपात्रस्थं हविरादाय पायसम्।
वह्निः कुण्डात् समुत्तस्थौ नूनं देवेन नोदितः ३६

आदय मुनयो मन्त्राच्चक्रुः पिण्डद्वयं शुभम्।
दत्ते कौशल्यकैकेय्योर्द्वे पिण्डे मन्त्रमन्त्रिते ३७

ते पिण्डप्राशने काले सुमित्राया महामते।
पिण्डाभ्यामल्पमल्पं तु सुभागिन्याः प्रयच्छतः ३८

ततस्ताः प्राशयामासू राजपत्न्यो यथाविधि।
पिण्डान् देवकृतान् प्राश्य प्रापुर्गर्भाननिन्दितान् ३९

एवं विष्णुर्दशरथाज्जातस्तत्पत्निषु त्रिषु।
स्वांशैर्लोकहितायैव चतुर्धा जगतीपते ४०

रामश्च लक्ष्मणश्चैव भरतः शत्रुघ्न एव च।
जातकर्मादिकं प्राप्य संस्कारं मुनिसंस्कृतम् ४१

मन्त्रपिण्डवशाद्योगं प्राप्य चेरुर्यथार्भकाः।
रामश्च लक्ष्मणश्चैव सह नित्य विचेरतुः ४२

जन्मादिकृतसंस्कारौ पितुः प्रीतिकरौ नृप।
ववृधाते मकावीर्यौ श्रुतिशब्दातिलक्षणौ ४३

भरतः कैकयो राजन् भ्रात्रा सह गहेऽवसत्।
वेदशास्त्राणि बुबुधे शस्त्रशास्त्रं नृपोत्तम ४४

एतस्मिन्नेव काले तु विश्वामित्रो महातपः।
यागेन यष्टुमारेभे विधिना मधुसूदनम् ४५

स तु विघ्नेन यागोऽभूद्रा क्षसैर्वहुशः पुरा।
नेतुं स यागरक्षार्थं सम्प्राप्तो रामलक्ष्मणौ ४६

विश्वामित्रो नृपश्रेष्ठ तत्पितुर्मन्दिरं शुभम्।
दशरथस्तु तं दृष्ट्वा प्रत्युत्थाय महामतिः ४७

अर्घ्यपाद्यादिविधिना विश्वामित्रपूजयत्।
स पूजितो मुनिः प्राह राजानं राजसन्निधौ ४८

शृणु राजन् दशरथं यदर्थमहमागतः।
तत्कार्यं नृपशार्दूल कथयामि तवाग्रतः ४९

राक्षसैर्नाशितो यागो बहुशो मे दुरासदैः।
यज्ञस्य रक्षणार्थं मे देहि त्वं रामलक्ष्मणौ ५०

राजा दशरथः श्रुत्वा विश्वामित्रवचो नृप।
विषण्णवदनो भूत्वा विश्वामित्रमुवाच ह ५१

बालाभ्यां मम पुत्राभ्यां किं ते कार्यं भविष्यति।
अहं त्वया सहागत्य शक्त्या रक्षामि ते मखम् ५२

राज्ञस्तु वचनं श्रुत्वा राजानं मुनिरब्रवीत्।
रामोऽपि शक्नुते नूनं सर्वान्नाशयितुं नृप ५३

रामेणैव हि ते शक्या न त्वया राक्षसा नृप।
अतो मे देहि रामं च न चिन्तां कर्तुमर्हसि ५४

इत्युक्तो मुनिना तेन विश्वामित्रेण धीमता।
तृष्णीं स्थित्वा क्षणं राजा मुनिवर्यमुवाच ह ५५

यद्ब्रवीमि मुनिश्रेष्ठ प्रजन्नस्त्वं निबोध मे।
राजीवलोचनं राममहं दास्ये सहानुजम् ५६

किं त्वस्य जननी ब्रह्मन् अदृष्ट्वैनं मरिष्यति।
अतोऽहं चतुरङ्गेण बलेन सहितो मुने ५७

आगत्य राक्षसान् हन्मीत्येवं मे मनसि स्थितम्।
विश्वामित्रः पुनः प्राह राजानममितौजसम् ५८

नाज्ञो रामो नृपश्रेष्ठ स सर्वज्ञः समः क्षमः।
शेषनारायणावेतौ तव पुत्रौ न संशयः ५९

दुष्टानां निग्रहार्थाय शिष्टानां पालनाय च।
अवतीर्णौ न सन्देहो गृहे तव नराधिप ६०

न मात्रा न त्वया राजन् शोकः कार्योऽत्र चाण्वपि।
निःक्षेपे च महाराज अर्पयिष्यामि ते सुतौ ६१

इत्युक्तो दशरथस्तेन विश्वामित्रेण धीमता।
तच्छापभीतो मनसा नौयतामित्यभाषत ६२

कृच्छ्रात्पित्रा विनिर्मुक्तं राममादाय सानुजम्।
ततः सिद्धाश्रमं राजन् सम्प्रतस्थे स कौशिकः ६३

तं प्रस्थितमथालोक्य राजा दशरथस्तदा।
अनुव्रज्याब्रवीदेतद् वचो दशरथस्तदा ६४

अपुत्रोऽहं पुरा ब्रह्मन् बहुभिः काम्यकर्मभिः।
मुनिप्रसादादधुना पुत्रवानस्मि सत्तम ६५

मनसा तद्वियोगं तु न शक्ष्यामि विशेषतः।
त्वमेव जानासि मुने नीत्वा शीघ्रं प्रयच्छ मे ६६

इत्येवमुक्तो राजानं विश्वामित्रोऽब्रवीत्पुनः।
समाप्तयज्ञश्च पुनर्नेष्ये रामं च लक्ष्मणम् ६७

सत्यपूर्वं तु दास्यामि न चिन्तां कर्तुमर्हसि।
इत्युक्तः प्रषयामास रामं लक्ष्मणसंयुतम् ६८

अनिच्छन्नपि राजासौ मुनिशापभयान्नृपः।
विश्वामित्रस्तु तौ गृह्य अयोध्याया ययौ शनैः ६९

सरय्वास्तीरमासाद्य गच्छन्नेव स कौशिकः।
तयोः प्रीत्या स राजेन्द्र द्वे विद्ये प्रथमं ददौ ७०

बलामतिबलां चैव समन्त्रे च ससङ्ग्रहे।
क्षुत्पिपासापनयने पुनश्चैव महामतिः ७१

अस्त्रग्राममशेषं तु शिक्षयित्वा तु तौ तदा।
आश्रमाणि च दिव्यानि मुनीनां भावितात्मनाम् ७२

दर्शयित्वा उषित्वा च पुण्यस्थानेषु सत्तमः।
गङ्गामुत्तीर्य शोणस्य तीरमासाद्य पश्चिमम् ७३

मुनि धार्मिकसिद्धांश्च पश्यन्तौ रामलक्ष्मणौ।
ऋषिभ्यश्च वरान् प्राप्य तेन नीतौ नृपात्मजौ ७४

ताटकाया वनं घोरं मृत्योर्मुखमिवापरम्।
गते तत्र नृपश्रेष्ठ विश्वामित्रो महातपाः ७५

राममक्लिष्टकर्माणमिदं वचनमब्रवीत्।
राम राम महाबाहो ताटका नाम राक्षसी ७६

रावणस्य नियोगेन वसत्यस्मिन् महाबने।
तया मनुष्या बहवो मुनिपुत्रा मृगास्तथा ७७

निहता भक्षिताश्चैव तस्मात्तां वध सत्तम।
इत्येवमुक्तो मुनिना रामस्तं मुनिमब्रवीत् ७८

कथं हि स्त्रीवधं कुर्यामहमद्य महामुने।
स्त्रीवधे तु महापापं प्रवदन्ति मनीषिणः ७९

इति रामवचः श्रुत्वा विश्वामित्र उवाच तम्।
तस्यास्तु निधनाद्रा म जनाः सर्वे निराकुलाः ८०

भवन्ति सततं तस्मात्तस्याः पुण्यप्रदोवधः।
इत्येवं वादिनि मुनौ विश्वामित्रे निशाचरी ८१

आगता सुमहाघोरा ताटका विवृतानना।
मुनिना प्रेरितो रामस्तां दृष्ट्वा विवृताननाम् ८२

उद्यतैकभुजयष्टिमायतीं।
श्रोणिलम्बिपुरुषान्त्रमेखलाम्।
तां विलोक्य वनितावधे घृणां।
पत्रिणा सह मुमोच राघवः ८३

शरं सन्धाय वेगेन तेन तस्या उरःस्थलम्।
विपाटितं द्विधा राजन् सा पपात ममार च ८४

घातयित्वा तु तामेवं तावानीय मुनिस्तु तौ।
प्रापयामास तं तत्र नानाऋषिनिषेवितम् ८५

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्।
नानानिर्झरतोयाढ्यं विन्ध्यशैलान्तरस्थितम् ८६

शाकमूलफलोपेतं दिव्यं सिद्धाश्रमं स्वकम्।
रक्षार्थं तावुभौ स्थाप्य शिक्षयित्वा विशेषतः ८७

ततश्चारब्धवान् यागं विश्वामित्रो महातपाः।
दीक्षां प्रविष्टे च मुनौ विश्वामित्रे महात्मनि ८८

यज्ञे तु वितते तत्र कर्म कुर्वन्ति ऋत्विजः।
मारीचश्च सुबाहुश्च बहवाश्चान्यराक्षसाः ८९

आगता यागनाशाय रावणेन नियोजिताः।
तानागतान् स विज्ञाय रामः कमललोचनः ९०

शरेण पातयामास सुबाहुं धरणीतले।
असृक्प्रवाहं वर्षन्तं मारीचं भल्लकेन तु ९१

प्रताड्य नीतवानब्धिं यथा पर्णं तु वायुना।
शेषांस्तु हतवान् रामो लक्ष्मणाश्च निशाचरान् ९२

रामेण रक्षितमखो विश्वामित्रो महायशाः।
समाप्य यागं विधिवत् पूजयामास ऋत्विजान् ९३

सदस्यानपि सम्पूज्य यथार्हं च ह्यरिन्दम।
रामं च लक्ष्मणं चैव पूजयामास भक्तितः ९४

ततो देवगणस्तुष्टो यज्ञभागेन सत्तम।
ववर्ष पुष्पवर्षं तु रामदेवस्य मूर्धनि ९५

निवार्य राक्षसभयं कारयित्वा तु तन्मखम्।
श्रुत्वा नानाकथाः पुण्या रामो भ्रातृसमन्वितः ९६

तेन नीतो विनीतात्मा अहल्या यत्र तिष्ठति।
व्यभिचारान्महेन्द्रे ण भर्त्रा शप्ता हि सा पुरा ९७

पाषाणभूता राजेन्द्र तस्य रामस्य दर्शनात्।
अहल्या मुक्तशापा च जगाम गौतमं प्रति ९८

विश्वामित्रस्ततस्तत्र चिन्तयामास वै क्षणम्।
कृतदारो मया नेयो रामः कमललोचनः ९९

इति सञ्चिन्त्य तौ गृह्य विश्वामित्रो महातपाः।
शिष्यैः परिवृतोऽनेकैर्जगाम मिथिलां प्रति १००

नानादेशादथायाता जनकस्य निवेशनम्।
राजपुत्रा महावीर्याः पूर्वं सीताभिकाङ्क्षिणः १०१

तान् दृष्ट्वा पूजयित्वा तु जनकश्च यथार्हतः।
यत्सीतायाः समुत्पन्नं धनुर्माहेश्वरं महत् १०२

अर्चितं गन्धमालाभी रम्यशोभासमन्विते।
रङ्गे महति विस्तीर्णे स्थापयामास तद्धनुः १०३

उवाच च नृपान् सर्वास्तदोच्चैर्जनको नृपः।
आकर्षणादिदं येन धनुर्भग्नं नृपात्मजाः १०४

तस्येयं धर्मतो भार्या सीता सर्वाङ्गशोभना।
इत्येयं श्राविते तेन जनकेन महात्मना १०५

क्रमादादाय ते तत्तु सज्यीकर्तुमथाभवन्।
धनुषा ताडिताः सर्वे क्रमात्तेन महीपते १०६

विधूय पतिता राजन् विलज्जास्तत्र पार्थिवाः।
तेषु भग्नेषु जनकस्तद्धनुस्त्र्! यम्बकं नृप १०७

संस्थाप्य स्थितवान् वीरो रामागमनकाङ्क्षया।
विश्वामित्रस्ततः प्राप्तो मिथिलाधिपतेर्गृहम् १०८

जनकोऽपि च तं दृष्ट्वा विश्वामित्रं गृहागतम्।
रामलक्ष्मणसंयुक्तं शिष्यैश्चाभिगतं तदा १०९

तं पूजयित्वा विधिवत्प्राज्ञं विप्रानुयायिनम्।
रामं रघुपतिं चापि लावण्यादिगुणैर्युतम् ११०

शीलाचारगुणोपेतं लक्ष्मणं च महामतिम्।
पूजयित्वा यथान्यायं जनकः प्रीतमानसः १११

हेमपीठे सुखासीनं शिष्यैः पूर्वापरैवृतम्।
विश्वामित्रमुवाचाथ किं कर्तव्यं मयेति सः ११२

मार्कण्डेय उवाच।
इति श्रुत्वा वचस्तस्य मुनिः प्राह महीपतिम्।
एष रामो महाराज विष्णुः साक्षान्महीपतिः ११३

रक्षार्थं विष्टपानां तु जातो दशरथात्मजः।
अस्मे सीतां प्रयच्छ त्वं देवकन्यामिव स्थिताम् ११४

अस्या विवाहे राजेन्द्र धनुर्भङ्गमुदीरितम्।
तदानय भवधनुरर्चयस्व जनाधिप ११५

तथेत्युक्त्वा च राजा हि भवचापं तदद्भुतम्।
अनेकभूभुजां भङ्गि स्थापयामास पूर्ववत् ११६

ततो दशरथसुतो विश्वामित्रेण चोदितः।
तेषां मध्यात्समुत्थाय रामः कमललोचनः ११७

प्रणम्य विप्रान् देवांश्च धनुरादाय तत्तदा।
सज्यं कृत्वा महाबाहुर्ज्याघोषमकरोत्तदा ११८

आकृष्यमाणं तु बलात्तेन भग्नं महद्धनुः।
सीता च मालमादाय शुभां रामस्य मूर्धनि ११९

क्षिप्त्वा संवरयामास सर्वक्षत्रियसन्निधौ।
ततस्ते क्षत्रियः क्रुद्धा राममासाद्य सर्वतः १२०

मुमुचुः शरजालानि गर्जयन्तो महाबलाः।
तान्निरीक्ष्य ततो रामो धनुरादाय वेगवान् १२१

ज्याघोषतलघोषेण कम्पयामास तान्नृपान्।
चिच्छद शरजालानि तेषां स्वास्त्रै रथांस्ततः १२२

धनूंषि च पताकाश्च रामश्चिच्छेद लीलया।
सन्नह्य स्वबलं सर्वं मिथिलाधिपतिस्ततः १२३

जामातरं रणे रक्षन् पार्ष्णिग्राहो बभूव ह।
लक्ष्मणश्च महावीरो विद्रा व्य युधि तान्नृपान् १२४

हस्त्यश्वाञ्जगृहे तेषां स्यन्दनानि बहूनि च।
वाहनानि परित्यज्य पलायनपरान्नृपान् १२५

तान्निहन्तुं च धावत्स पृष्ठतो लक्ष्मणस्तदा।
मिथिलाधिषतिस्तं च वारयामास कौशिकः १२६

जितसेनं महावीरं रामं भ्राता समन्वितम्।
आदाय प्रतिवेशाथ जनकः स्वगृहं शुभम् १२७

दूतं च प्रेषयामास तदा दशरथाय सः।
श्रुत्वा दूतमुखात् सर्वं विदितार्थः स पार्थिवः १२८

सभार्यः ससुतः श्रीमान् हस्त्यश्वरथवाहनः।
मिथिलामाजगामाशु स्वबलेन समन्वितः १२९

जनकोऽप्यस्य सत्कारं कृत्वा स्वां च सुतां ततः।
विधिवत्कृतशुल्कां तां ददौ रामाय पार्थिव १३०

अपराश्च सुतास्तिस्रो रूपवत्यः स्वलङ्कृताः।
त्रिभ्यस्तु लक्ष्मणादिभ्यः स्वकन्या विधिवद्ददौ १३१

एवं कृतविवाहोऽसौ रामः कमललोचनः।
भ्रातृभिर्मातृभिः सार्धं पित्रा बलवता सह १३२

दिनानि कतिचित्तत्र स्थितो विविधभोजनैः।
ततोऽयोध्यापुरीं गन्तुमुत्सुकं ससुतं नृपम्।
दृष्ट्वा दशरथं राजा सीतायाः प्रददौ वसु १३३

रत्नानि दिव्यानि बहूनि दत्त्वा।
रामाय वस्त्राण्यतिशोभनानि।
हस्त्यश्वदासानपि कर्मयोग्यान्।
दासीजनांश्च प्रवराः स्त्रियश्च १३४

सीतां सुशीलां बहुरत्नभूषितां।
रथं समारोप्य सुतां सुरूपाम्।
वेदादिघोषैर्बहुमङ्गलैश्च।
सम्प्रेषयामास स पार्थिवो बली १३५

प्रेषयित्वा सुतां दिव्यां नत्वा दशरथं नृपम्।
विश्वामित्रं नमस्कृत्य जनकः सन्निवृत्तवान् १३६

तस्य पत्न्यो महाभागाः शिक्षयित्वा सुतां तदा।
भर्तृभक्तिं कुरु शुभे श्वश्रूणां श्वशुरस्य च १३७

श्वश्रूणामर्पयित्वा तां निवृत्ता विविशुः पुरम्।
ततस्तु रामं गच्छन्तमयोध्यां प्रबलान्वितम् १३८

श्रुत्वा परशुरामो वै पन्थानं संरुरोध ह।
तं दृष्ट्वा राजपुरुषाः सर्वे ते दीनमानसाः १३९

आसीद्दशरथश्चापि दुःखशोकपरिप्लुतः।
सभार्यः सपरीवारो भार्गवस्य भयान्नृप १४०

ततोऽब्रवीज्जनान् सर्वान् राजानं च सुदुःखितम्।
वसिष्ठश्चोर्जिततपा ब्रह्मचारी महामुनिः १४१

वसिष्ठ उवाच।
युष्माभिरत्र रामार्थं न कार्यं दुःखमण्वपि १४२

पित्रा वा मातृभिर्वापि अन्यैर्भृत्यजनरपि।
अयं हि नृपते राम साक्षाद्विष्णुस्तु ते गृहे १४३

जगतः पालनार्थाय जन्मप्राप्तो न संशयः।
यस्य सङ्कीर्त्य नामापि भवभीतिः प्रणश्यति १४४

ब्रह्म मूर्तं स्वयं यत्र भयादेस्तत्र का कथा।
यत्र सङ्कीर्त्यते रामकथामात्रमपि प्रभो १४५

नोपसर्गभयं तत्र नाकालमरणं नृणाम्।
इत्युक्ते भार्गवो रामो राममाहाग्रतः स्थितम् १४६

त्यज त्वं रामसञ्ज्ञां तु मया वा सङ्गरं कुरु।
इत्युक्ते राघवः प्राह भार्गवं तं पथि स्थितम् १४७

रामसञ्ज्ञां कुतस्त्यक्ष्ये त्वया योत्स्ये स्थिरो भव।
इत्युक्त्वा तं पृथक् स्थित्वा रामो राजीवलोचनः १४८

ज्याघोषमकरोद्वीरो वीरस्यैवाग्रतस्तदा।
ततः परशुरामस्य देहान्निष्क्रम्य वैष्णवम् १४९

पश्यतां सर्वभूतानां तेजो राममुखेऽविशत्।
दृष्ट्वा तं भार्गवो रामः प्रसन्नवदनोऽब्रवीत् १५०

राम राम महाबाहो रामस्त्वं नात्र संशयः।
विष्णुरेव भवाञ्जातो ज्ञातोऽस्यद्य मया विभो १५१

गच्छ वीर यथाकामं देवकार्यं च वै कुरु।
दुष्टानां निधनं कृत्वा शिष्टांश्च परिपालय १५२

याहि त्वं स्वेच्छया राम अहं गच्छे तपोवनम्।
इत्युक्त्वा पूजितस्तैस्तु मुनिभावेन भार्गवः १५३

महेन्द्रा द्रिं जगामाथ तपसे धृतमानसः।
ततस्तु जातहर्षास्ते जना दशरथश्च ह १५४

पुरीमयोध्यां सम्प्राप्य रामेण सह पार्थिवः।
दिव्यशोभां पुरीं कृत्वा सर्वतो भद्र शालिनीम् १५५

प्रत्युत्थाय ततः पाराः शङ्खतूर्यादिभिः स्वनैः।
विशन्तं राममागत्य कृतदारं रणेऽजितम् १५६

तं वीक्ष्य हर्षिताः सन्तो विविशुस्तेन वै पुरीम्।
तौ दृष्ट्वा स मुनिः प्राप्तौ रामं लक्ष्मणमन्तिके १५७

दशरथाय तत्पित्रे मातृभ्यश्च विशेषतः।
तौ समर्प्य मुनिश्रेष्ठस्तेन राज्ञा च पूजितः।
विश्वामित्रश्च सहसा प्रतिगन्तुं मनो दधे १५८

समर्प्य रामं स मुनिः सहानुजं।
सभार्यमग्रे पितुरेकवल्लभम्।
पुनः पुनः श्राव्य हसन्महामतिर्जगाम सिद्धाश्रममेवमात्मनः १५९

इति श्रीनरसिंहपुराणे रामप्रादुर्भावे सप्तचत्वारिंशोऽध्यायः ४७


अष्टचत्वारिंशोऽध्यायः।
मार्कण्डेय उवाच।
कृतदारो महातेजा रामः कमललोचनः।
पित्रे सुमहतीं प्रीतिं जनानामुपपादयन् १

अयोध्यायां स्थितो रामः सर्वभोगसमन्वितः।
प्रीत्या नन्दत्ययोध्यायां रामे रघुपतौ नृप २

भ्राता शत्रुघ्नसहितो भरतो मातुलं ययौ।
ततो दशरथो राजा प्रसमीक्ष्य सुशोभनम् ३

युवानं बलिनं योग्यं भूपसिद्ध्यै सुतं कविम्।
अभिषिच्य राज्यभारं रामे संस्थाप्य वैष्णवम् ४

पदं प्राप्तुं महद्यत्नं करिष्यामीत्यचिन्तयत्।
सञ्चिन्त्य तत्परो राजा सर्वदिक्षु समादिशत् ५

प्राज्ञान् भृत्यान् महीपालान्मन्त्रिगणश्च त्वरान्वितः।
रामाभिषेकद्र व्याणि ऋषिप्रोक्तानि यानि वै ६

तानि भृत्याः समाहृत्य शीघ्रमागन्तुमर्हथ।
दूतामात्याः समादेशात्सर्वदिक्षु नराधिपान् ७

आहूय तान् समाहृत्य शीघ्रमागन्तुमर्हथ।
अयोध्यापुरमत्यर्थं सर्वशोभासमन्वितम् ८

जनाः कुरुत सर्वत्र नृत्यगीतादिनन्दितम्।
पुरवासिजनानन्दं देशवासिमनःप्रियम् ९

रामाभिषेकं विपुलं श्वो भविष्यति जानथ।
श्रुत्वेत्थं मन्त्रिणः प्राहुस्तं नृपं प्रणिपत्य च १०

शोभनं ते मतं राजन् यदिदं परिभाषितम्।
रामाभिषेकमस्माकं सर्वेषां च प्रियङ्करम् ११

इत्युक्तो दशरथस्तैस्तान् सर्वान् पुनरब्रवीत्।
आनीयन्तां द्रुतं सर्वे सम्भारा मम शासनात् १२

सर्वतः सारभूता च पुरी चेयं समन्ततः।
अद्य शोभान्विता कार्या कर्तव्यं यागमण्डलम् १३

इत्येवमुक्ता राज्ञा ते मन्त्रिणः शीघ्रकारिणः।
तथैव चक्रुस्ते सर्वे पुनःपुनरुदीरिताः १४

प्राप्तहर्षः स राजा च शुभं दिनमुदीक्षयन्।
कौशल्या लक्ष्मणश्चैव सुमित्रा नागरो जनः १५

रामाभिषेकमाकर्ण्य मुदं प्राप्यातिहर्षितः।
श्वश्रुश्वशुरयोः सम्यक् शुश्रूषणपरा तु सा १६

मुदान्विता सिता सीता भर्तुराकर्ण्य शोभनम्।
श्वोभाविन्यभिषेके तु रामस्य विदितात्मनः १७

दासी तु मन्थरानाम्नी कैकेय्याः कुब्जरूपिणी।
स्वां स्वामिनीं तु कैकेयीमिदं वचनमब्रवीत् १८

शृणु राज्ञि महाभागे वचनं मम शोभनम्।
त्वत्पतिस्तु महाराजस्तव नाशाय चोद्यतः १९

रामोऽसौ कौशलीपुत्रः श्वो भविष्यति भूपतिः।
वसुवाहनकोशादि राज्यं च सकलं शुभे २०

भविष्यत्यद्य रामस्य भरतस्य न किञ्चन।
भरतोऽपि गतो दूरं मातुलस्य गृहं प्रति २१

हा कष्टं मन्दभाग्यासि सपत्न्याद्दुःखिता भृशम्।
सैवमाकर्ण्य कैकेयी कुब्जामिदमथाब्रवीत् २२

पश्य मे दक्षतां कुब्जे अद्यैव त्वं विचक्षणे।
यथा तु सकलं राज्यं भरतस्य भविष्यति २३

रामस्य वनवासश्च तथा यत्नं करोम्यहम्।
इत्युक्त्वा मन्थरां सा तु उन्मुच्य स्वाङ्गभूषणम् २४

वस्त्रं पुष्पाणि चोन्मुच्य स्थूलवासोधराभवत्।
निर्माल्यपुष्पधृक्कष्टा कश्मलाङ्गी विरूपिणी २५

भस्मधूल्यादिनिर्दिग्धा भस्मधूल्या तथा श्रिते।
भूभागे शान्तदीपे सा सन्ध्याकाले सुदुःखिता २६

ललाटे श्वेतचैलं तु बद्ध्वा सुष्वाप भामिनी।
मन्त्रिभिः सह कार्याणि सम्मन्त्र्! य सकलानि तु २७

पुण्याहः स्वस्तिमाङ्गल्यैः स्थाप्य रामं तु मण्डले।
ऋषिभिस्तु वसिष्ठाद्यैः सार्धं सम्भारमण्डपे २८

वृद्धिजागरणीयैश्च सर्वतस्तूर्यनादिते।
गीतनृत्यसमाकीर्णे शङ्खकाहलनिःस्वनैः २९

स्वयं दशरथस्तत्र स्थित्वा प्रत्यागतः पुनः।
कैकेय्या वेश्मनो द्वारं जरिद्भः परिरक्षितम् ३०

रामाभिषेकं कैकेयीं वक्तुकामः स पार्थिवः।
कैकेयीभवनं वीक्ष्य सान्धकारमथाब्रवीत् ३१

अन्धकारमिदं कस्मादद्य ते मन्दिरे प्रिये।
रामाभिषेकं हर्षाय अन्त्यजा अपि मेनिरे ३२

गृहालङ्करणं कुर्वन्त्यद्य लोका मनोहरम्।
त्वयाद्य न कृतं कस्मादित्युक्त्वा च महीपतिः ३३

ज्वालयित्वा गृहे दीपान् प्रविवेश गृहं नृपः।
अशोभनाङ्गीं कैकेयीं स्वपन्तीं पतितां भुवि ३४

दृष्ट्वा दशरथः प्राह तस्याः प्रियमिदं त्विति।
आश्लिष्योत्थाय तां राजा शृणु मे परमं वचः ३५

स्वमातुरधिकां नित्यं यस्ते भक्तिं करोति वै।
तस्याभिषेकं रामस्य श्वो भविष्यति शोभने ३६

इत्युक्ता पार्थिवेनापि किञ्चिन्नोवाच सा शुभा।
मुञ्चन्ती दीर्घमुष्णं च रोषोच्छ्वासं मुहुर्मुहुः ३७

तस्थावाश्लिष्य हस्ताभ्यां पार्थिवः प्राह रोषिताम्।
किं ते कैकेयि दुःखस्य कारणं वद शोभने ३८

वस्त्राभरणरत्नादि यद्यदिच्छसि शोभने।
तत्त्वं गृह्णीष्व निश्शङ्कं भाण्डारात् सुखिनी भव ३९

भाण्डारेण मम शुभे श्वोऽर्थसिद्धिर्भविष्यति।
यदाभिषेकं सम्प्राप्ते रामे राजीवलोचने ४०

भाण्डागारस्य मे द्वारं मया मुक्तं निरर्गलम्।
भविष्यति पुनः पूर्णं रामे राज्यं प्रशासति ४१

बहु मानय रामस्य अभिषेकं महात्मनः।
इत्युक्ता राजवर्य्येण कैकेयी पापलक्षणा ४२

कुमतिर्निर्घृणा दुष्टा कुब्जया शिक्षिताब्रवीत्।
राजानं स्वपतिं वाक्यं क्रूरमत्यन्तनिष्ठुरम् ४३

रत्नादि सकलं यत्ते तन्मनैव न संशयः।
देवासुरमहायुद्धे प्रीत्या यन्मे वरद्वयम् ४४

पुरा दत्तं त्वया राजंस्तदिदानीं प्रयच्छ मे।
इत्युक्तः पार्थिवः प्राह कैकेयीमशुभां तदा ४५

अदत्तमप्यहं दास्ये तव नान्यस्य वा शुभे।
किं मे प्रतिश्रुतं पूर्वं दत्तमेव मया तव ४६

शुभाङ्गी भव कल्याणि त्यज कोपमनर्थकम्।
रामाभिषेकजं हर्षं भजोत्तिष्ठ सुखी भव ४७

इत्युक्ता राजवर्येण कैकेयी कलहप्रिया।
उवाच पुरुषं वाक्यं राज्ञो मरणकारणम् ४८

वरद्वयं पूर्वदत्तं यदि दास्यसि मे विभो।
श्वोभूते गच्छतु वनं रामोऽयं कोशलात्मजः ४९

द्वादशाब्दं निवसतु त्वद्वाक्याद्दण्डके वने।
अभिषेकं च राज्यं च भरतस्य भविष्यति ५०

इत्याकर्ण्य स कैकेय्या वचनं घोरमप्रियम्।
पपात भुवि निस्सञ्ज्ञो राजा सापि विभूषिता ५१

रात्रिशेषं नयित्वा तु प्रभाते सा मुदावती।
दूतं सुमन्त्रमाहैवं राम आनीयतामिति ५२

रामस्तु कृतपुण्याहः कृतस्वस्त्ययनो द्विजैः।
यागमण्डपमध्यस्थः शङ्खतूर्यरवान्वितः ५३

तमासाद्य ततो दूतः प्रणिपत्य पुरःस्थितः।
राम राम महाबाहो आज्ञापयति ते पिता ५४

द्रुतमुत्तिष्ठ गच्छ त्वं यत्र तिष्ठति ते पिता।
इत्युक्तस्तेन दूतेन शीघ्रमुत्थाय राघवः ५५

अनुज्ञाप्य द्विजान् प्राप्तः कैकेय्या भवनं प्रति।
प्रविशन्तं गृहं रामं कैकेयी प्राह निर्घृणा ५६

पितुस्तव मतं वत्स इदं ते प्रव्रवीम्यहम्।
वने वस महाबाहो गत्वा त्वं द्वादशाब्दकम् ५७

अद्यैव गम्यतां वीर तपसे धृतमानसः।
न चिन्त्यमन्यथा वत्स आदरात् कुरु मे वचः ५८

एतच्छ्रुत्वा पितुर्वाक्यं रामः कमललोचनः।
तथेत्याज्ञां गृहीत्वासौ नमस्कृत्य च तावुभौ ५९

निष्क्रम्य तद्गृहाद्रा मो धनुरादाय वेश्मतः।
कौशल्यां च नमस्कृत्य सुमित्रां गन्तमुद्यतः ६०

तच्छ्रुत्वा तु ततः पौरा दुःखशोकपरिप्लुता।
विव्यथुश्चाथ सौमित्रिः कैकेयीं प्रति रोषितः ६१

ततस्तं राघवो दृष्ट्वा लक्ष्मणं रक्तलोचनम्।
वारयामास धर्मज्ञो धर्मवाग्भिर्महामतिः ६२

ततस्तु तत्र ये वृद्धास्तान् प्रणम्य मुनींश्च सः।
रामो रथं खिन्नसूतं प्रस्थानायारुरोह वै ६३

आत्मीयं सकलं द्र व्यं ब्राह्मणेभ्यो नृपात्मजः।
श्रद्धया परया दत्त्वा वस्त्राणि विविधानि च ६४

तिस्रः श्वश्रूः समामन्त्र्! य श्वशुरं च विसञ्ज्ञितम्।
मुञ्चन्तमश्रुधाराणि नेत्रयोः शोकजानि च ६५

पश्यती सर्वतः सीता चारुरोह तथा रथम्।
रथमारुह्य गच्छन्तं सीतया सह राघवम् ६६

दृष्ट्वा सुमित्रा वचनं लक्ष्मणं चाह दुःखिता।
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ६७

अयोध्यामटवीं विद्धि व्रज ताभ्यां गुणाकर।
मात्रैवमुक्तो धर्मात्मा स्तनक्षीरार्द्र देहया ६८

तां नत्वा चारुयानं तमारुरोह स लक्ष्मणः।
गच्छतो लक्ष्मणो भ्राता सीता चैव पतिव्रता ६९

रामस्य पृष्ठतो यातौ पुराद्धीरो महामते।
विधिच्छिन्नाभिषेकं तं रामं राजीवलोचनम् अ७०

अयोध्याया विनिष्क्रान्तमनुयाताः पुरोहिताः।
मन्त्रिणः पौरमुख्याश्च दुःखेन महतान्विताः ७१

तं च प्राप्य हि गच्छन्तं राममूचुरिदं वचः।
राम राम महाबाहो गन्तुं नार्हसि शोभन ७२

राजन्नत्र निबर्तस्व विहायास्मान् क्व गच्छसि।
इत्युक्तो राघवस्तैस्तु तानुवाच दृढव्रतः ७३

गच्छध्वं मन्त्रिणः पौरा गच्छध्वं च पुरोधसः।
पित्रादेशं मया कार्यमभियास्यामि वै वनम् ७४

द्वादशाब्दं व्रतं चैतन्नीत्वाहं दण्डके वने।
आगच्छामि पितुः पादं मातॄणां द्र ष्टुमञ्जसा ७५

इत्युक्त्वा ताञ्जगामाथ रामः सत्यपरायणः।
तं गच्छन्तं पुनर्याताः पृष्ठतो दुःखिता जनाः ७६

पुनः प्राह स काकुत्स्थो गच्छध्वं नगरीमिमाम्।
मातॄश्च पितरं चैव शत्रुघ्नं नगरीमिमाम् ७७

प्रजाः समस्तास्तत्रस्था राज्यं भरतमेव च।
पालयध्वं महाभागास्तपसे याम्यहं वनम् ७८

अथ लक्ष्मणमाहेदं वचनं राघवस्तदा।
सीतामर्पय राजानं जनकं मिथिलेश्वरम् ७९

पितृमातृवशे तिष्ठ गच्छ लक्ष्मण याम्यहम्।
इत्युक्तः प्राह धर्मात्मा लक्ष्मणो भ्रातृवत्सलः ८०

मैवमाज्ञापय विभो मामद्य करुणाकर।
गन्तुमिच्छसि यत्र त्वमवश्यं तत्र याम्यहम् ८१

इत्युक्तो लक्ष्मणेनासौ सीतां तामाह राघवः।
सीते गच्छ ममादेशात्पितरं प्रति शोभने ८२

सुमित्राया गृहे चापि कौशल्यायाः सुमध्यमे।
निवर्तस्व हि तावत्त्वं यावदागमनं मम ८३

इत्युक्ता राघवेनापि सीता प्राह कृताञ्जलिः।
यत्र गत्वा वने वासं त्वं करोषि महाभुज ८४

तत्र गत्वा त्वया सार्धं वसाम्यहमरिन्दम।
वियोगं नो सहे राजंस्त्वया सत्यवता क्वचित् ८५

अतस्त्वां प्रार्थयिष्यामि दयां कुरु मम प्रभो।
गन्तुमिच्छसि यत्र त्वमवश्यं तत्र याम्यहम् ८६

नानायानैरुपगताञ्जनान् वीक्ष्य स पृष्ठतः।
योषितां च गणान् रामो वारयामास धर्मवित् ८७

निवृत्त्य स्थीयतां स्वैरमहोध्यायां जनाः स्त्रियः।
गत्वाहं दण्डकारण्यं तपसे धृतमानसः ८८

कतिपयाब्दादायास्ये नान्यथा सत्यमीरितम्।
लक्ष्मणेन सह भ्राता वैदेह्या च स्वभार्यया ८९

जनान्निवर्त्य रामोऽसौ जगाम च गुहाश्रमम्।
गुहस्तु रामभक्तोऽसौ स्वभावादेव वैष्णवः ९०

कृताञ्जलिपुटो भूत्वा किं कर्तव्यमिति स्थितः।
महता तपसाऽऽनीता गुरुणा या हि वः पुरा ९१

भागीरथेन या भूमिं सर्वपापहरा शुभा।
नानामुनिजनैर्जुष्टा कूर्ममत्स्यसमाकुला ९२

गङ्गा तुङ्गोर्मिमालाढ्या स्फटिकाभजलावहा।
गुहोपनीतनावा तु तां गङ्गां स महाद्युतिः ९३

उत्तीर्य भगवान् रामो भरद्वाजाश्रमं शुभम्।
प्रयागे तु ततस्तस्मिन् स्नात्वा तीर्थे यथाविधि ९४

लक्ष्मणेन सह भ्रात्रा राघवः सीतया सह।
भारद्वाजाश्रमे तत्र विश्रान्तस्तेन पूजितः ९५

ततः प्रभाते विमले तमनुज्ञाप्य राघवः।
भरद्वाजोक्तमार्गेण चित्रकूटं शनैर्ययौ ९६

नानाद्रुमलताकीर्णं पुण्यतीर्थमनुत्तमम्।
तपसं वेषमास्थाय जह्नुकन्यामतीत्य वै ९७

गते रामे सभार्ये तु सह भ्रात्रा ससारथौ।
अयोध्यामवसन् भूप नष्टाशोभां सुदुःखिताः ९८

नष्टसञ्ज्ञो दशरथः श्रुत्वा वचनमप्रियम्।
रामप्रवासजननं कैकेय्या मुखनिस्सृतम् ९९

लब्धसञ्ज्ञः क्षणाद्रा जा रामरामेति चुक्रुशे।
कैकेय्युवाच भूपालं भरतं चाभिषेचय १००

सीतालक्ष्मणसंयुक्तो रामचन्द्रो वनं गतः।
पुत्रशोकाभिसन्तप्तो राजा दशरथस्तदा १०१

विहाय देहं दुःखेन देवलोकं गतस्तदा।
ततस्तस्य महापुर्य्यामयोघ्यायामरिन्दम १०२

रुरुदुर्दुःखशोकार्त्ता जनाः सर्वे च योषितः।
कौशल्या च सुमित्रा च कैकेयी कष्टकारिणी १०३

परिवार्य मृतं तत्र रुरुदुस्ताः पतिं ततः।
ततः पुरोहितस्तत्र वसिष्ठः सर्वधर्मवित् १०४

तैलद्रो ण्यां विनिक्षिप्य मृतं राजकलेवरम्।
दूतं वै प्रेषयामास सहमन्त्रिगणैः स्थितः १०५

स गत्वा यत्र भरतः शत्रुघ्नेन सह स्थितः।
तत्र प्राप्य तथा वार्ता सन्निवर्त्य नृपात्मजौ १०६

तावानीय ततः शीघ्रमयोध्यां पुनरागतः।
क्रूराणि दृष्ट्वा भरतो निमित्तानि च वै पथि १०७

विपरीतं त्वयोध्यायामिति मेने स पार्थिवः।
निश्शोभां निर्गतश्रीकां दुःखशोकान्वितां पुरीम् १०८

कैकेय्याग्निविनिर्दग्धामयोध्यां प्रविवेश सः।
दुःखान्विता जनाः सर्वे तौ दृष्ट्वा रुरुदुर्भृशम् १०९

हा तात राम हा सीते लक्ष्मणेति पुनः पुनः।
रुरोद भरतस्तत्र शत्रुघ्नश्च सुदुःखितः ११०

कैकेय्यास्तत्क्षणाच्छ्रुत्वा चुक्रोध भरतस्तदा।
दुष्टा त्वं दुष्टचित्ता च यया रामः प्रवासितः १११

लक्ष्मणेन सह भ्रात्रा राघवः सीतया वनम्।
साहसं किं कृतं दुष्टे त्वया सद्योऽल्पभाग्यया ११२

उद्वास्य सीतया रामं लक्ष्मणेन महात्मना।
ममैव पुत्रं राजानं करोत्विति मतिस्तव ११३

दुष्टाया नष्टभाग्यायाः पुत्रोऽहं भाग्यवर्जितः।
भ्रात्रा रामेण रहितो नाहं राज्यं करोमि वै ११४

यत्र रामो नरव्याघ्रः पद्मपत्रायतेक्षणः।
धर्मज्ञ सर्वशास्त्रज्ञो मतिमान् बन्धुवत्सलः ११५

सीता च यत्र वैदेही नियमव्रतचारिणी।
पतिव्रता महाभागा सर्वलक्षणसंयुता ११६

लक्ष्मणश्च महावीर्यो गुणवान् भ्रातृवत्सलः।
तत्र यास्यामि कैकेयि महत्पापं त्वया कृतम् ११७

राम एव मम भ्राता ज्येष्ठो मतिमतां वरः।
स एव राजा दुष्टात्मे भृत्योऽहं तस्य वै सदा ११८

इत्युक्त्वा मातरं तत्र रुरोद भृशदुःखितः।
हा राजन् पृथिवीपाल मां विहाय सुदुःखितम् ११९

क्व गतोऽस्यद्य वै तात किं करोमीह तद्वद।
भ्राता पित्रा समः क्वास्ते ज्येष्ठो मे करुणाकरः १२०

सीता च मातृतुल्या मे क्व गतो लक्ष्मणश्च ह।
इत्येवं विलपन्तं तं भरतं मन्त्रिभिः सह १२१

वसिष्ठो भगवानाह कालकर्मविभागवित्।
उत्तिष्ठोत्तिष्ठ वत्स त्वं न शोकं कर्तुम्मर्हसि १२२

कर्मकालवशादेव पिता ते स्वर्गमास्थितः।
तस्य संस्कारकार्याणि कर्माणि कुरु शोभन १२३

रामोऽपि दुष्टनाशाय शिष्टानां पालनाय च।
अवतीर्णो जगत्स्वामी स्वांशेन भुवि माधवः १२४

प्रायस्तत्रास्ति रामेण कर्तव्यं लक्ष्मणेन च।
यत्रासौ भगवान् वीरः कर्मणा तेन चोदितः १२५

तत्कृत्वा पुनरायाति रामः कमललोचनः।
इत्युक्तो भरतस्तेन वसिष्ठेन महात्मना १२६

संस्कारं लम्भयामास विधिदृष्टेन कर्मणा।
अग्निहोत्राग्निना दग्ध्वा पितुर्देहं विधानतः १२७

स्नात्वा सरय्वाः सलिले कृत्वा तस्योदकक्रियाम्।
शत्रुघ्नेन सह श्रीमान्मातृभिर्वान्धवैः सह १२८

तस्यौर्ध्वदेहिकं कृत्वा मन्त्रिणा मन्त्रिनायकः।
हस्त्यश्वरथपत्तीभिः सह प्रायान्महामतिः १२९

भरतो राममन्वेष्टुं राममार्गेण सत्तमः।
तमायान्तं महासेनं रामस्यानुविरोधिनम् १३०

मत्वा तं भरतं शत्रुं रामभक्तो गुहस्तदा।
स्वं सैन्यं वर्तुलं कृत्वा सन्नद्धः कवची रथी १३१

महाबलपरीवारो रुरोध भरतं पथि १३२

सभ्रातृकं सभार्यं मे रामं स्वामिनमुत्तमम्।
प्रापयस्त्वं वनं दुष्ट साम्प्रतं हन्तुमिच्छसि १३३

गमिष्यसि दुरात्मंस्त्वं सेनया सह दुर्मते।
इत्युक्तो भरतस्तत्र गुहेन नृपनन्दनः १३४

तमुवाच विनीतात्मा रामायाथ कृताञ्जलिः।
यथात्वं रामभक्तोऽसि तथाहमपि भक्तिमान् १३५

प्रोषिते मयि कैकेय्या कृतमेतन्महामते।
रामस्यानयनार्थाय व्रजाम्यद्य महामते १३६

सत्यपूर्वं गमिष्यामि पन्थानं देहि मे गुह।
इति विश्वासमानीय जाह्नवीं तेन तारितः १३७

नौकावृन्दैरनेकैस्तु स्नात्वासौ जाह्नवीजले।
भरद्वाजाश्रमं प्राप्तो भरतस्तं महामुनिम् १३८

प्रणम्य शिरसा तस्मै यथावृत्तमुवाच ह।
भरद्वाजोऽपि तं प्राह कालेन कृतमीदृशम् १३९

दुःखं न तावत् कर्तव्यं रामार्थेऽपि त्वयाधुना।
वर्तते चित्रकूटेऽसौ रामः सत्यपराक्रमः १४०

त्वयि तत्र गते वापि प्रायोऽसौ नागमिष्यति।
तथापि तत्र गच्छ त्वं यदसौ वक्ति तत्कुरु १४१

रामस्तु सीतया सार्धं वनखण्डे स्थितः शुभे।
लक्ष्मणस्तु महावीर्यो दुष्टालोकनतत्परः १४२

इत्युक्तो भरतस्तत्र भारद्वाजेन धीमता।
उत्तीर्य यमुनां यातश्चित्रकूटं महानगम् १४३

स्थितौऽसौ दृष्टवान्दूरात्सधूलीं चोत्तरां दिशम्।
रामाय कथयित्वाऽऽस तदादेशात्तुलक्ष्मणः १४४

वृक्षमारुह्य मेधावी वीक्षमाणः प्रयत्नतः।
स ततो दृष्टवान् हृष्टामायान्तीं महतीं चमूम् १४५

हस्त्यश्वरथसंयुक्तां दृष्ट्वा राममथाब्रवीत्।
हे भ्रातस्त्वं महाबाहो सीतापार्श्वे स्थिरो भव १४६

भूपोऽस्ति बलवान् कश्चिद्धस्त्यश्वरथपत्तिभिः।
इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः १४७

रामस्तमब्रवीद्वीरो वीरं सत्यपराक्रमः।
प्रायेण भरतोऽस्माकं द्र ष्टुमायाति लक्ष्मण १४८

इत्येवं वदतस्तस्य रामस्य विदितात्मनः।
आरात्संस्थाप्य सेनां तां भरतो विनयान्वितः १४९

ब्राह्मणैर्मन्त्रिभिः सार्धं रुदन्नागत्यपादयोः।
रामस्य निपपाताथ वैदेह्या लक्ष्मणस्य च १५०

मन्त्रिणो मातृवर्गश्च स्निग्धबन्धुसुहृज्जनाः।
परिवार्य ततो रामं रुरुदुः शोककातराः १५१

स्वर्यातं पितरं ज्ञात्वा ततो रामो महामतिः।
लक्ष्मणन सह भ्रात्रा वैदेह्याथ समन्वितः १५२

स्नात्वा मलापहे तीर्थे दत्त्वा च सलिलाञ्जलिम्।
मात्रादीनभिवाद्याथ रामो दुःखसमन्वितः १५३

उवाच भरतं राजन् दुःखेन महतान्वितम्।
अयोध्यां गच्छ भरत इतः शीघ्रं महामते १५४

राज्ञा विहीनां नगरीं अनाथां परिपालय।
इत्युक्तो भरतः प्राह रामं राजीवलोचनम् १५५

त्वामृते पुरुषव्याघ्र न यास्येऽहमितो ध्रुवम्।
यत्र त्वं तत्र यास्यामि वैदेही लक्ष्मणो यथा १५६

इत्याकर्ण्य पुनः प्राह भरतं पुरतः स्थितम्।
नृणां पितृसमो ज्येष्ठः स्वधर्ममनुवर्तिनाम् १५७

यथा न लङ्घ्यं वचनं मया पितृमुखेरितम्।
तथा त्वया न लङ्घ्यं स्याद्वचनं मम सत्तम १५८

मत्समीपादितो गत्वा प्रजास्त्वं परिपालय।
द्वादशाब्दिकमेतन्मे व्रतं पितृमुखेरितम् १५९

तदरण्ये चरित्वा तु आगमिष्यामि तेऽन्तिकम्।
गच्छ तिष्ठ ममादेशे न दुःखं कर्तुमर्हसि १६०

इत्युक्तो भरतः प्राह बाष्पपर्याकुलेक्षणः।
यथा पिता तथा त्वं मे नात्र कार्या विचारणा १६१

तवादेशान्मया कार्यं देहि त्वं पादुके मम।
नन्दिग्रामे वसिष्येऽहं पादुके द्वादशाब्दिकम् १६२

त्वद्वेषमेव मद्वेषं त्वद्व्रतं मे महाव्रतम्।
त्वं द्वादशाब्दिकादूर्ध्वं यदि नायासि सत्तम १६३

ततो हविर्यथा चाग्नौ प्रवक्ष्यामि कलेवरम्।
इत्येवं शपथं कृत्वा भरतो हि सुदुःखितः १६४

बहु प्रदक्षिणं कृत्वा नमस्कृत्य च राघवम्।
पादुके शिरसा स्थाप्य भरतः प्रस्थितः शनैः १६५

स कुर्वन् भ्रातुरादेशं नन्दिग्रामे स्थितो वशी।
तपस्वी नियताहारः शाकमूलफलाशनः १६६

जटाकलापं शिरसा च बिभ्रत्।
त्वचश्च वार्क्षीः किल वन्यभोजी।
रामस्य वाक्यादरतो हृदि स्थितं।
बभार भूभारमनिन्दितात्मा १६७

इति श्रीनरसिंहपुराणे श्रीरामप्रादुर्भावे अष्टचत्वारिंशोऽध्यायः ४८


एकोनपञ्चाशोऽध्यायः।
मार्कण्डेय उवाच।
गतेऽथ भरते तस्मिन् रामः कमललोचनः।
लक्ष्मणेन सह भ्रात्रा भार्यया सीतया सह १

शाकमूलफलाहारो विचचार महावने।
कदाचिल्लक्ष्मणमृते रामदेवः प्रतापवान् २

चित्रकूटवनोद्देशे वैदेह्य त्सङ्गमाश्रितः।
सुष्वाप स मुहूर्तं तु ततः काको दुरात्मवान् ३

सीताभिमुखमभ्येत्य विददार स्तनान्तरम्।
विदार्य वृक्षमारुह्य स्थितोऽसौ वायसाधमः ४

ततः प्रबुद्धो रामोऽसौ दृष्ट्वा रक्तं स्तनान्तरे।
शोकाविष्टां तु सीतां तामुवाच कमलेक्षणः ५

वद स्तनान्तरे भद्रे तव रक्तस्य कारणम्।
इत्युक्ता सा च तं प्राह भर्तारं विनयान्विता ६

पश्य राजेन्द्र वृक्षाग्रे वायसं दुष्टचेष्टितम्।
अनेनैव कृतं कर्म सुप्ते त्वयि महामते ७

रामोऽपि दृष्टवान् काकं तस्मिन् क्रोधमथाकरोत्।
इषीकास्त्रं समाधाय ब्रह्मास्त्रेणाभिमन्त्रितम् ८

काकमुद्दिश्य चिक्षेप सॐऽप्यधावद्भयान्वितः।
स त्विन्द्र स्य सुतो राजन्निन्द्र लोकं विवेश ह ९

रामास्त्रं प्रज्वलद्दीप्तं तस्यानु प्रविवेश वै।
विदितार्थश्च देवेन्द्रो देवैः सह समन्वितः १०

निष्क्रामयच्च तं दुष्टं राघवस्यापकारिणम्।
ततोऽसौ सर्वदेवैस्तु देवलोकाद्बहिः कृतः ११

पुनः सोऽप्यपतद्रा मं राजानं शरणं गतः।
पाहि राम महाबाहो अज्ञानादपकारिणम् १२

इति ब्रुवन्तं तं प्राह रामः कमललोचनः।
अमोघं च ममैवास्त्रमङ्गमेकं प्रयच्छ वै १३

ततो जीवसि दुष्ट त्वमपकारो महान् कृतः।
इत्युक्तोऽसौ स्वकं नेत्रमेकमस्त्राय दत्तवान् १४

अस्त्रं तन्नेत्रमेकं तु भस्मीकृत्य समाययौ।
ततः प्रभृति काकानां सर्वेषामैकनेत्रता १५

चक्षुषैकेन पश्यन्ति हेतुना तेन पार्थिव।
उषित्वा तत्र सुचिरं चित्रकूटे स राघवः १६

जगाम दण्डकारण्यं नानामुनिनिषेवितम्।
सभ्रातृकः सभार्यश्च तपसं वेषमास्थितः १७

धनुःपर्वसुपाणिश्च सेषुधिश्च महाबलः।
ततो ददर्श तत्रस्थानम्बुभक्षान्महामुनीन् १८

अश्मकुट्टाननेकांश्च दन्तोलूखलिनस्तथा।
पञ्चाग्निमध्यगानन्यानन्यानुग्रतपश्चरान् १९

तान् दृष्ट्वा प्रणिपत्योच्चै रामस्तैश्चाभिनन्दितः।
ततोऽखिलं वनं दृष्ट्वा रामः साक्षाज्जनार्दनः २०

भ्रातृभार्यासहायश्च सम्प्रतस्थे महामतिः।
दर्शयित्वा तु सीतायै वनं कुसुमितं शुभम् २१

नानाश्चर्यसमायुक्तं शनैर्गच्छन् स दृष्टवान्।
कृष्णाङ्गं रक्तनेत्रं तु स्थूलशैलसमानकम् २२

शुभ्रदंष्ट्रं महाबाहुं सन्ध्याघनशिरोरुहम्।
मेघस्वनं सापराधं शरं सन्धाय राघवः २३

विव्याध राक्षसं क्रोधाल्लक्ष्मणेन सह प्रभुः।
अन्यैरवध्यं हत्वा तं गिरिगर्ते महातनुम् २४

शिलाभिश्छाद्ये गतवाञ्शरभङ्गाश्रमं ततः।
तं नत्वा तत्र विश्रम्य तत्कथातुष्टमानसः २५

तीक्ष्णाश्रममुपागम्य दृष्टवांस्तं महामुनिम्।
तेनादिष्टेन मार्गेण गत्वागस्त्यं ददर्श ह २६

खङ्गं तु विमलं तस्मादवाप रघुनन्दनः।
इषुधिं चाक्षयशरं चापं चैव तु वैष्णवम् २७

ततोऽगस्त्याश्रमाद्रा मो भ्रातृमार्यासमन्वितः।
गोदावर्याः समीपे तु पञ्चवट्यामुवास सः २८

ततो जटायुरभ्येत्य रामं कमललोचनम्।
नत्वा स्वकुलमाख्याय स्थितवान् गृध्रनायकः २९

रामोऽपि तत्र तं दृष्ट्वा आत्मवृत्तं विशेषतः।
कथयित्वा तु तं प्राह सीतां रक्ष महामते ३०

इत्युक्तोऽसौ जटायुस्तु राममालिङ्ग्य सादरम्।
कार्यार्थं तु गते रामे भ्रात्रा सह वनान्तरम् ३१

अहं रक्ष्यामि ते भार्यां स्थीयतामत्र शोभन।
इत्युक्त्वा गतवान्रामं गृध्रराजः स्वमाश्रमम् ३२

समीपे दक्षिणे भागे नानापक्षिनिषेविते।
वसन्तं राघवं तत्र सीतया सह सुन्दरम् ३३

मन्मथाकारसदृशं कथयन्तं महाकथाः।
कृत्वा मायामयं रूपं लावण्यगुणसंयुतम् ३४

मदनाक्रान्तहृदया कदाचिद्रा वणानुजा।
गायन्ती सुस्वरं गीतं शनैरागत्य राक्षसी ३५

ददर्श राममासीनं कानने सीतया सह।
अथ शूर्पणखा घोरा मायारूपधरा शुभा ३६

निश्शङ्का दुष्टचित्ता सा राघवं प्रत्यभाषत।
भज मां कान्त कल्याणीं भजन्तीं कामिनीमिह ३७

भजमानां त्यजेद्यस्तु तस्य दोषो महान् भवेत्।
इत्युक्तः शूर्पणखया रामस्तामाह पार्थिवः ३८

कलत्रवानहं बाले कनीयांसं भजस्व मे।
इति श्रुत्वा ततः प्राह राक्षसी कामरूपिणी ३९

अतीव निपुणा चाहं रतिकर्मणि राघव।
त्यक्त्वैनामनभिज्ञां त्वं सीतां मां भज शोभनाम् ४०

इत्याकर्ण्य वचः प्राह रामस्तां धर्मतत्परः।
परस्त्रियं न गच्छेऽहं त्वमितो गच्छ लक्ष्मणम् ४१

तस्य नात्र वने भार्या त्वामसौ सङ्ग्रहीष्यति।
इत्युक्ता सा पुनः प्राह रामं राजीवलोचनम् ४२

यथा स्याल्लक्ष्मणो भर्ता तथा त्वं देहि पत्रकम्।
तथैवमुक्त्वा मतिमान् रामः कमललोचनः ४३

छिन्ध्यस्या नासिकामिति मोक्तव्या नात्र संशयः।
इति रामो महाराजो लिख्य पत्रं प्रदत्तवान् ४४

सा गृहीत्वा तु तत्पत्रं गत्वा तस्मान्मुदान्विता।
गत्वा दत्तवती तद्वल्लक्ष्मणाय महात्मने ४५

तां दृष्ट्वा लक्ष्मणः प्राह राक्षसीं कामरूपिणीम्।
न लङ्घ्यं राघववचो मया तिष्ठात्मकश्मले ४६

तां प्रगृह्य ततः खङ्गमुद्यम्य विमलं सुधीः।
तेन तत्कर्णनासां तु विच्छेद तिलकाण्डवत् ४७

छिन्ननासा ततः सा तु रुरोद भृशदुःखिता।
हा दशास्य मम भ्रातः सर्वदेवविमर्दक ४८

हा कष्टं कुम्भकर्णाद्यायाता मे चापदा परा।
हा हा कष्टं गुणनिधे विभीषण महामते ४९

इत्येवमार्ता रुदती सा गत्वा खरदूषणौ।
त्रिशिरसं च सा दृष्ट्वा निवेद्यात्मपराभवम् ५०

राममाह जनस्थाने भ्रात्रा सह महाबलम्।
ज्ञात्वा ते राघवं क्रुद्धाः प्रेषयामासुरूर्जितान् ५१

चतुर्दशसहस्राणि राक्षसानां बलीयसाम्।
अग्रे निजग्मुस्तेनैव रक्षसां नायकास्त्रयः ५२

रावणेन नियुक्तास्ते पुरैव तु महाबलाः।
महाबलपरीवारा जनस्थानमुपागताः ५३

क्रोधेन महताऽऽविष्टा दृष्ट्वा तां छिन्ननासिकाम्।
रुदतीमश्रुदिग्धाङ्गीं भगिनीं रावणस्य तु ५४

रामोऽपि तद्बलं दृष्ट्वा राक्षसानां बलीयसाम्।
संस्थाप्य लक्ष्मणं तत्र सीताया रक्षणं प्रति ५५

गत्वा तु प्रहितैस्तत्र राक्षसैर्बलदर्पितैः।
चतुर्दशसहस्रं तु राक्षसानां महाबलम् ५६

क्षणेन निहतं तेन शरैरग्निशिखोपमैः।
खरश्च निहतस्तेन दूषणश्च महाबलः ५७

त्रिशिराश्च महारोषाद् रणे रामेण पातितः।
हत्वा तान् राक्षसान्दुष्टान् रामश्चाश्रममाविशत् ५८

शूर्पणखा च रुदती रावणान्तिकमागता।
छिन्ननासां च तां दृष्ट्वा रावणो भगिनीं तदा ५९

मारीचं प्राह दुर्बुद्धिः सीताहरणकर्मणि।
पुष्पकेण विमानेन गत्वाहं त्वं च मातुल ६०

जनस्थानसमीपे तु स्थित्वा तत्र ममाज्ञया।
सौवर्णमृगरूपं त्वमास्थाय तु शनैः शनैः ६१

गच्छ त्वं तत्र कार्यार्थं यत्र सीता व्यवस्थिता।
दृष्ट्वा सा मृगपोतं त्वां सौवर्णं त्वयि मातुल ६२

स्पृहां करिष्यते रामं प्रेषयिष्यति बन्धने।
तद्वाक्यात्तत्र गच्छन्तं धावस्व गहने वने ६३

लक्ष्मणस्यापकर्षार्थं वक्तव्यं वागुदीरणम्।
ततः पुष्पकमारुह्य मायारूपेण चप्यहम् ६४

तां सीतामहमानेष्ये तस्यामासक्तमानसः।
त्वमपि स्वेच्छया पश्चादागमिष्यसि शोभन ६५

इत्युक्ते रावणेनाथ मारीचो वाक्यमब्रवीत्।
त्वमेव गच्छ पापिष्ठ नाहं गच्छामि तत्र वै ६६

पुरैवानेन रामेण व्यथितोऽहं मुनेर्मखे।
इत्युक्तवति मारीचे रावणः क्रोधमूर्च्छितः ६७

मारीचं हन्तुमारेभे मारीचोऽप्याह रावणम्।
तव हस्तवधाद्वीर रामेण मरणं वरम् ६८

अहं गमिष्यामि तत्र यत्र त्वं नेतुमिच्छसि।
अथ पुष्पकमारुह्य जनस्थानमुपागतः ६९

मारीचस्तत्र सौवर्णं मृगमास्थाय चाग्रतः।
जगाम यत्र सा सीता वर्तते जनकात्मजा ७०

सौवर्णं मृगपोतं तु दृष्ट्वा सीता यशस्विनी।
भाविकर्मवशाद्रा ममुवाच पतिमात्मनः ७१

गृहीत्वा देहि सौवर्णं मृगपोतं नृपात्मज।
अयोध्यायां तु मद्गेहे क्रीडनार्थमिदं मम ७२

तयैवमुक्तो रामस्तु लक्ष्मणं स्थाप्य तत्र वै।
रक्षणार्थं तु सीताया गतोऽसौ मृगपृष्ठतः ७३

रामेण चानुयातोऽसौ अभ्यधावद्वने मृगः।
ततः शरेण विव्याध रामस्तं मृगपोतकम् ७४

हा लक्ष्मणेति चोत्तवासो निपपात महीतले।
मारीचः पर्वताकारस्तेन नष्टो बभूव सः ७५

आकर्ण्य रुदतः शब्दं सीता लक्ष्मणमब्रवीत्।
गच्छ लक्ष्मण पुत्र त्वं यत्रायं शब्द उत्थितः ७६

भ्रातुर्ज्येष्ठस्य तत्त्वं वै रुदतः श्रूयते ध्वनिः।
प्रायो रामस्य सन्देहं लक्षयेऽहं महात्मनः ७७

इत्युक्तः स तथा प्राह लक्ष्मणस्तामनिन्दिताम्।
न हि रामस्य सन्देहो न भयं विद्यते क्वचित् ७८

इति ब्रुवाणं तं सीता भाविकर्मबलाद्भृतम्।
लक्ष्मणं प्राह वैदेही विरुद्धवचनं तदा ७९

मृते रामे तु मामिच्छन्नतस्त्वं न गमिष्यसि।
इत्युक्तः स विनीतात्मा असहन्नप्रियं वचः ८०

जगाम राममन्वेष्टुं तदा पार्थिवनन्दनः।
सन्न्यासवेषमास्थाय रावणोऽपि दुरात्मवान् ८१

स सीतापार्श्वमासाद्य वचनं चेदमुक्तवान्।
आगतो भरतः श्रीमानयोध्याया महामतिः ८२

रामेण सह सम्भाष्य स्थितवांस्तत्र कानने।
मां च प्रेषितवान् रामो विमानमिदमारुह ८३

अयोध्यां याति रामस्तु भरतेन प्रसादितः।
मृगबालं तु वैदेहि क्रीडार्थं ते गृहीतवान् ८४

क्लेशितासि महारण्ये बहुकालं त्वमीदृशम्।
सम्प्राप्तराज्यस्ते भर्ता रामः स रुचिराननः ८५

लक्ष्मणश्च विनीतात्मा विमानमिदमारुह।
इत्युक्ता सा तथा गत्वा नीता तेन महात्मना ८६

आरुरोह विमानं तु छद्मना प्रेरिता सती।
तज्जगाम ततः शीघ्रं विमानं दक्षिणां दिशम् ८७

ततः सीता सुदुःखार्ता विललाप सुदुःखिता।
विमाने खेऽपि रोदन्त्याश्चक्रे स्पर्शं न राक्षसः ८८

रावणः स्वेन रूपेण बभूवाथ महातनुः।
दशग्रीवं महाकायं दृष्ट्वा सीता सुदुःखिता ८९

हा राम वञ्चिताद्याहं केनापिच्छद्मरूपिणा।
रक्षसा घोररूपेण त्रायस्वेति भयार्दिता ९०

हे लक्ष्मण महाबाहो मां हि दुष्टेन रक्षसा।
द्रुतमागत्य रक्षस्व नीयमानामथाकुलाम् ९१

एवं प्रलपमानायाः सीतायास्तन्महत्स्वनम्।
आकर्ण्य गृध्रराजस्तु जटायुस्तत्र चागतः ९२

तिष्ठ रावण दुष्टात्मन्मुञ्च मुञ्चात्र मैथिलीम्।
इत्युक्त्वा युयुधे तेन जटायुस्तत्र वीर्यवान् ९३

पक्षाभ्यां ताडयामास जटायुस्तस्य वक्षसि।
ताडयन्तं तु तं मत्वा बलवानिति रावणः ९४

तुण्डचञ्चुप्रहारैस्तु भृशं तेन प्रपीडितः।
तत उत्थाप्य वेगेन चन्द्र हासमसिं महत् ९५

जघान तेन दुष्टात्मा जटायुं घर्मचारिणम्।
निपपात महीपृष्ठे जटायुः क्षीणचेतनः ९६

उवाच च दशग्रीवं दुष्टात्मन्न त्वया हतः।
चन्द्र हासस्य वीर्येण हतोऽहं राक्षसाधम ९७

निरायुधं को हनेन्मूढ सायुधस्त्वामृते जनः।
सीतापहरणं विद्धि मृत्युस्ते दुष्ट राक्षस ९८

दुष्ट रावण रामस्त्वां वधिष्यति न संशयः।
रुदती दुःखशोकार्ता जटायुं प्राह मैथिली ९९

मत्कृते मरणं यस्मात्त्वया प्राप्तं द्विजोत्तम।
तस्माद्रा मप्रसादेन विष्णुलोकमवाप्स्यसि १००

यावद्रा मेण सङ्गस्ते भविष्यति महाद्विज।
तावत्तिष्ठन्तु ते प्राणा इत्युक्त्वा तु खगोत्तमम् १०१

ततस्तान्यर्पितान्यङ्गाद्भूषणानि विमुच्य सा।
शीघ्रं निबध्य वस्त्रेण रामहस्तं गमिष्यथ १०२

इत्युक्त्वा पातयामास भूमौ सीता सुदुःखिता।
एवं हृत्वा स सीतां तु जटायुं पात्य भूतले १०३

पुष्पकेण गतः शीघ्रं लङ्कां दुष्टनिशाचरः।
अशोकवनिकामध्ये स्थापयित्वा स मैथिलीम् १०४

इमामत्रैव रक्षध्वं राक्षस्यो विकृताननाः।
इत्यादिश्य गृहं यातो रावणो राक्षसेश्वरः १०५

लङ्कानिवासिनश्चोचुरेकान्तं च परस्परम्।
अस्याः पुर्या विनाशार्थं स्थापितेयं दुरात्मना १०६

राक्षसीभिर्विरूपाभी रक्ष्यमाणा समन्ततः।
सीता च दुःखिता तत्र स्मरन्ती राममेव सा १०७

उवास सा सुदुःखार्ता दुःखिता रुदती भृशम्।
यथा ज्ञानखले देवी हंसयाना सरस्वती १०८

सुग्रीवभृत्या हरयश्चतुरश्च यदृच्छया।
वस्त्रबद्धं तयोत्सृष्टं गृहीत्वा भूषणं द्रुतम् १०९

स्वभर्त्रे विनिवेद्योचुः सुग्रीवाय महात्मने।
अरण्येऽभून्महायुद्धं जटायो रावणस्य च ११०

अथ रामश्च तं हत्वा मारीचं माययाऽऽगतम्।
निवृत्तो लक्ष्मणं दृष्ट्वा तेन गत्वा स्वमाश्रमम् १११

सीतामपश्यन्दुःखार्तः प्ररुरोद स राघवः।
लक्ष्मणश्च महातेजा रुरोद भृशदुःखितः ११२

बहुप्रकारमस्वस्थं रुदन्तं राघवं तदा।
भूतले पतितं धीमानुत्थाप्याश्वास्य लक्ष्मणः ११३

उवाच वचनं प्राप्तं तदा यत्तच्छृणुष्व मे।
अतिवेलं महाराज न शोकं कर्तुमर्हसि ११४

उत्तिष्ठोत्तिष्ठ शीघ्रं त्वं सीतां मृगयितुं प्रभो।
इत्येवं वदता तेन लक्ष्मणेन महात्मना ११५

उत्थापितो नरपतिर्दुःखितो दुःखितेन तु।
भ्रात्रा सह जगामाथ सीतां मृगयितुं वनम् ११६

वनानि सर्वाणि विशोध्य राघवो।
गिरीन् समस्तान् गिरिसानुगोचरान्।
तथा मुनीनामपि चाश्रमान् बहूंस्तृणादिवल्लीगहनेषु भूमिषु ११७

नदीतटे भूविवरे गुहायां।
निरीक्षमाणोऽपि महानुभावः ॥
प्रियामपश्यन् भृशदुःखितस्तदा।
जटायुषं वीक्ष्य च धातितं नृपः ११८

अहो भवान् केन हतस्त्वमीदृशीं।
दशामवाप्तोऽसि मृतोऽसि जीवसि।
ममाद्य सर्वं समदुःखितस्य भोः।
पत्नीवियोगादिह चागतस्य वै ११९

इत्युक्तमात्रे विहगोऽथ कृच्छ्रादुवाच वाचं मधुरां तदानीम् ॥
शृणुष्व राजन् मम वृत्तमत्र।
वदामि दृष्टं च कृतं च सद्यः १२०

दशाननस्तामपनीय मायया।
सीतां समारोप्य विमानमुत्तमम्।
जगाम खे दक्षिणदिङ्मुखोऽसौ।
सीता च माता विललाप दुःखिता १२१

आकर्ण्य सीतास्वनमागतोऽहं।
सीता विमुक्तुं स्वबलेन राघव ॥
युद्धं च तेनाहमतीव कृत्वा।
हतः पुनः खङ्गबलेन रक्षसा १२२

वैदेहिवाक्यादिह जीवता मया।
दृष्टो भवान् स्वर्गमितो गमिष्ये ॥
मा राम शोकं कुरु भूमिपाल।
जह्यद्य दुष्टं सगणं तु नैरृतम् १२३

रामो जटायुषेत्युक्तः पुनस्तं चाह शोकतः।
स्वस्त्यस्तु ते द्विजवर गतिस्तु परमास्तु ते १२४

ततो जटायुः स्वं देहं विहाय गतवान्दिवम्।
विमानेन तु रम्येण सेव्यमानोऽप्सरोगणैः १२५

रामोऽपि दग्ध्वा तद्देहं स्नातो दत्त्वा जलाञ्जलिम्।
भ्रात्रा स गच्छन् दुःखार्तो राक्षसीं पथि दृष्टवान् १२६

उद्वमन्तीं महोल्काभां विवृतास्यां भयङ्करीम्।
क्षयं नयन्तीं जन्तून् वै पातयित्वा गतो रुषा १२७

गच्छन् वनान्तरं रामः स कबन्धं ददर्श ह।
विरूपं जठरमुखं दीर्घबाहुँ धनस्तनम् १२८

रुन्धानं राममार्गं तु दृष्ट्वा तं दग्धवाञ्शनैः।
दग्धोऽसौ दिव्यरूपा तु खस्थो राममभाषत १२९

राम राम महाबाहो त्वया मम महामते।
विरूपं नाशितं वीर मुनिशापाच्चिरागतम् १३०

त्रिदिवं यामि धन्योऽस्मि त्वत्प्रसादान्न संशयः।
त्वं सीताप्राप्तये सख्यं कुरु सूर्यसुतेन भोः १३१

वानरेन्द्रे ण गत्वा तु सुग्रीवे स्वं निवेद्य वै।
भविष्यति नृपश्रेष्ठ ऋष्यमूकगिरिं व्रज १३२

इत्युक्त्वा तु गते तस्मिन् रामो लक्ष्मणसंयुतः।
सिद्धैस्तु मुनिभिः शून्यमाश्रमं प्रविवेश ह १३३

तत्रस्थां तापसीं दृष्ट्वा तया संलाप्य संस्थितः।
शबरीं मुनिमुख्यानां सपर्याहतकल्मषाम् १३४

तया सम्पूजितो रामो बदरादिभिरीश्वरः।
साप्येनं पूजयित्वा तु स्वामवस्थां निवेद्य वै १३५

सीतां त्वं प्राप्स्यसीत्युक्त्वा प्रविश्याग्निं दिवङ्गता।
दिवं प्रस्थाप्य तां चापि जगामान्यत्र राघवः १३६

ततो विनीतेन गुणान्वितेन।
भ्रात्रा समेतो जगदेकनाथः ॥
प्रियावियोगेन सुदुःखितात्मा।
जगाम याम्यां स तु रामदेवः १३७

इति श्रीनरसिंहपुराणे रामप्रादुर्भावे एकोनपञ्चाशोऽध्यायः ४९


पञ्चाशोऽध्यायः।
मार्कण्डेय उवाच।
वालिना कृतवैरोऽथ दुर्गवर्ती हरीश्वरः।
सुग्रीवो दृष्टवान् दूराद्दृष्ट्वाऽऽह पवनात्मजम् १

कस्येमौ सुधनुःपाणी चीरवल्कलधारिणौ।
पश्यन्तौ सरसीं दिव्यां पद्मोत्पलसमावृताम् २

नानारूपधरावेतौ तापसं वेषमास्थितौ।
वालिदूताविह प्राप्ताविति निश्चित्य सूर्यजः ३

उत्पपात भयत्रस्तः ऋष्यमूकाद्वनान्तरम्।
वानरैः सहितः सर्वैरगस्त्याश्रममुत्तमम् ४

तत्र स्थित्वा स सुग्रीवः प्राह वायुसुतं पुनः।
हनूमन् पृच्छ शीघ्रं त्वं गच्छ तापसवेषधृक् ५

कौ हि कस्य सुतौ जातौ किमर्थं तत्र संस्थितौ।
ज्ञात्वा सत्यं मम ब्रूहि वायुपुत्र महामते ६

इत्युक्तो हनुमान् गत्वा पम्पातटमनुत्तमम्।
भिक्षुरूपी स तं प्राह रामं भ्रात्रा समन्वितम् ७

को भवानिह सम्प्राप्तस्तथ्यं ब्रूहि महामते।
अरण्ये निर्जने घोरे कुतस्त्वं किं प्रयोजनम् ८

एवं वदन्तं तं प्राह लक्ष्मणो भ्रातुराज्ञया।
प्रवक्ष्यामि निबोध त्वं रामवृत्तान्तमादितः ९

राजा दशरथो नाम बभूव भुवि विश्रुतः।
तष्य पुत्रो महाबुद्धे रामो ज्येष्ठो ममाग्रजः १०

अस्याभिषेक आरब्धः कैकेय्या तु निवारितः।
पितुराज्ञामयं कुर्वन् रामो भ्राता ममाग्रजः ११

मया सह विनिष्क्रम्य सीतया सह भार्यया।
प्रविष्टो दण्डकारण्यं नानामुनिसमाकुलम् १२

जनस्थाने निवसतो रामस्यास्य महात्मनः।
भार्या सीता तत्र वने केनापि पाप्मना हृता १३

सीतामन्वेषयन् वीरो रामः कमललोचनः।
इहायातस्त्वया दृष्ट इति वृत्तान्तमीरितम् १४

श्रुत्वा ततो वचस्तस्य लक्ष्मणस्य महात्मनः।
अव्यञ्जितात्मा विश्वाद्धनूमान् मारुतात्मजः १५

त्वं मे स्वामी इति वदन् रामं रघुपतिं तदा।
आश्वास्यानीय सुग्रीवं तयोः सख्यमकारयत् १६

शिरस्यारोप्य पादाब्जं रामस्य विदितात्मनः।
सुग्रीवो वानरेन्द्र स्तु उवाच मधुराक्षरम् १७

अद्यप्रभृति राजेन्द्र त्वं मे स्वामी न संशयः।
अहं तु तव भृत्यश्च वानरैः सहितः प्रभो १८

त्वच्छत्रुर्मम शत्रुः स्यादद्यप्रभृति राघव।
मित्रं ते मम सन्मित्रं त्वद्दुःखं तन्ममापि च १९

त्वत्प्रीतिरेव मत्प्रीतिरित्युक्त्वा पुनराह तम्।
बाली नाम मम ज्येष्ठो महाबलपराक्रमः २०

भार्यापहारी दुष्टात्मा मदनासक्तमानसः।
त्वामृते पुरुषव्याघ्र नास्ति हन्ताद्य वालिनम् २१

युगपत्सप्ततालांस्तु तरून् यो वै वधिष्यति।
स तं वधिष्यतीत्युक्तं पुराणज्ञैर्नृपात्मज २२

तत्प्रियार्थं हि रामोऽपि श्रीमांश्छित्त्वा महातरून्।
अर्धाकृष्टेन बाणेन युगपद्र घुनन्दनः २३

विद्ध्वा महातरून् रामः सुग्रीवं प्राह पार्थिवम्।
बालिना गच्छ युध्यस्व कृतचिह्नो रवेः सुत २४

इत्युक्तः कृतचिह्नोऽयं युद्धं चक्रेऽथ वालिना।
रामोऽपि तत्र गत्वाथ शरेणैकेन वालिनम् २५

विव्याध वीर्यवान् वाली पपात च ममार च।
वित्रस्तं वालिपुत्रं तु अङ्गदं विनयान्वितम् २६

रणशौण्डं यौवराज्ये नियुक्त्वा राघवस्तदा।
तां च तारां तथा दत्त्वा रामश्च रविसूनवे २७

सुग्रीवं प्राह धर्मात्मा रामः कमललोचनः।
राज्यमन्वेषय स्वं त्वं कपीनां पुनराव्रज २८

त्वं सीतान्वेषणे यत्नं कुरु शीघ्रं हरीश्वर।
इत्युक्तः प्राह सुग्रीवो रामं लक्ष्मणसंयुतम् २९

प्रावृट्कलो महान् प्राप्तः साम्प्रतं रघुनन्दन।
वानराणां गतिर्नास्ति वने वर्षति वासवे ३०

गते तस्मिंस्तु राजेन्द्र प्राप्ते शरदि निर्मले।
चारान् सम्प्रेषयिष्यामि वानरान्दिक्षु राघव ३१

इत्युक्त्वा रामचन्द्रं स तं प्रणम्य कपीश्वरः।
पम्पापुरं प्रविश्याथ रेमे तारासमन्वितः ३२

रामोऽपि विधिवद्भ्रात्रा शैलसानौ महावने।
निवासं कृतवान् शैले नीलकण्ठे महामतिः ३३

प्रावृट्काले गते कृच्छ्रात् प्राप्ते शरदि राघवः।
सीतावियोगाद्व्यथितः सौमित्रिं प्राह लक्ष्मणम् ३४

उल्लङ्घितस्तु समयः सुग्रीवेण ततो रुषा।
लक्ष्मणं प्राह काकुत्स्थो भ्रातरं भ्रातृवत्सलः ३५

गच्छ लक्ष्मण दुष्टोऽसौ नागतः कपिनायकः।
गते तु वर्षाकालेऽहमागमिष्यामि तेऽन्तिकम् ३६

अनेकैर्वानरैः सार्धमित्युक्त्वासौ तदा गतः।
तत्र गच्छ त्वरायुक्तो यत्रास्ते कपिनायकः ३७

तं दुष्टमग्रतः कृत्वा हरिसेनासमन्वितम्।
रमन्तं तारया सार्धं शीघ्रमानय मां प्रति ३८

नात्रागच्छति सुग्रीवो यद्यसौ प्राप्तभूतिकः।
तदा त्वयैवं वक्तव्यः सुग्रीवोऽनृतभाषकः ३९

वालिहन्ता शरो दुष्ट करे मेऽद्यापि तिष्ठति।
स्मृत्वैतदाचर कपे रामवाक्यं हितं तव ४०

इत्युक्तस्तु तथेत्युक्त्वा रामं नत्वा च लक्ष्मणः।
पम्पापुरं जगामाथ सुग्रीवो यत्र तिष्ठति।
दृष्ट्वा स तत्र सुग्रीवं कपिराजं बभाष वै ४१

ताराभोगविषक्तस्त्वं रामकार्यपराङ्मुखः।
किं त्वया विस्मृतं सर्वं रामाग्रे समयं कृतम् ४२

सीतामन्विष्य दास्यामि यत्र क्वापीति दुर्मते।
हत्वा तु वालिनं राज्यं येन दत्तं पुरा तव ४३

त्वामृते कोऽवमन्येत कपीन्द्र पापचेतस।
प्रतिश्रुत्य च रामस्य भार्याहीनस्य भूपते ४४

सहाय्यं ते करोमीति देवाग्निजलसन्निधौ।
ये ये च शत्रवो राजंस्ते ते च मम शत्रवः ४५

मित्राणि यानि ते देव तानि मित्राणि मे सदा।
सीतामन्वेषितुं राजन् वानरैर्बहुभिर्वृतः ४६

सत्यं यास्यामि ते पार्श्वमित्युक्त्वा कोऽन्यथाकरोत्।
त्वामृते पापिनं दुष्टं रामदेवस्य सन्निधौ ४७

कारयित्वा तु तेनैवं स्वकार्यं दुष्टवानर।
ऋषीणां सत्यवद्वाक्यं त्वयि दृष्टं मयाधुना ४८

सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ४९

जनवृत्तविदां लोके सर्वज्ञानां महात्मनाम्।
न तं पश्यामि लोकेऽस्मिन् कृतं प्रतिकरोति यः ५०

शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि।
कृतघ्नस्य कपे दुष्ट न दृष्ट्वा निष्कृतिः पुरा ५१

कृतघ्नता न कार्या ते त्वत्कृतं समयं स्मर।
एह्येह्यागच्छ शरणं काकुत्स्थं हितपालकम् ५२

यदि नायासि च कपे रामवाक्यमिदं शृणु।
नयिष्ये मृत्युसदनं सुग्रीवं वालिनं यथा ५३

स शरो विद्यतेऽस्माकं येन वाली हतः कपिः।
लक्ष्मणेनैवमुक्तोऽसौ सुग्रीवः कपिनायकः ५४

निर्गत्य तु नमश्चक्रे लक्ष्मणं मन्त्रिणोदितः।
उवाच च महात्मानं लक्ष्मणं वानराधिपः ५५

अज्ञानकृतपापानामस्माकं क्षन्तुमर्हसि।
समयः कृतो मया राज्ञा रामेणामिततेजसा ५६

यस्तदानीं महाभाग तमद्यापि न लङ्घये।
यास्यामि निखिलैरद्य कपिभिर्नृपनन्दन ५७

त्वया सह महावीर रामपार्श्वं न संशयः।
मां दृष्ट्वा तत्र काकुत्स्थो यद्वक्ष्यति च मां प्रति ५८

तत्सर्वं शिरसा गृह्य करिष्यामि न संशयः।
सन्ति मे हरयः शूराः सीतान्वेषणकर्मणि ५९

तान्यहं प्रेषयिष्यामि दिक्षु सर्वासु पार्थिव।
इत्युक्तः कपिराजेन सुग्रीवेण स लक्ष्मणः ६०

एहि शीघ्रं गमिष्यामो रामापार्श्वमितोऽधुना।
सेना चाहूयतां वीर ऋक्षाणां हरिणामपि ६१

यां दृष्ट्वा प्रीतिमभ्येति राघवस्ते महामते।
इत्युक्तो लक्ष्मणेनाथ सुग्रीवः स तु वीर्यवान् ६२

पार्श्वस्थं युवराजानमङ्गदं सञ्ज्ञयाब्रवीत्।
सोऽपि निर्गत्य सेनानीमाह सेनापतिं तदा ६३

तेनाहूताः समागत्य ऋक्षवानरकोटयः।
गृहास्थाश्च गिरिस्थाश्च वृक्षस्थाश्चैव वानराः ६४

तैः सार्धं पर्वताकारैर्वानरैर्भीमविक्रमैः।
सुग्रीवः शीघ्रमागत्य ववन्दे राघवं तदा ६५

लक्ष्मणोऽपि नमस्कृत्य रामं भ्रातरमब्रवीत्।
प्रसादं कुरु सुग्रीवे विनीते चाधुना नृप ६६

इत्युक्तो राघवस्तेन भ्राता सुग्रीवमब्रवीत्।
आगच्छात्र महावीर सुग्रीव कुशलं तव ६७

श्रुत्वेत्थं रामवचनं प्रसन्नं च नराधिपम्।
शिरस्यञ्जलिमाधाय सुग्रीवो राममब्रवीत् ६८

तदा मे कुशलं राजन् सीतादेवी तव प्रभो।
अन्विष्य तु यदा दत्ता मया भवति नान्यथा ६९

इत्युक्ते वचने तेन हनूमान्मारुतात्मजः।
नत्वा रामं बभाषैनं सुग्रीवं कपिनायकम् ७०

शृणु सुग्रीव मे वाक्यं राजायं दुःखितो भृशम्।
सीतावियोगेन च सदा नाश्नाति च फलादिकम् ७१

अस्य दुःखेन सततं लक्ष्मणोऽयं सुदुःखितः।
एतयोरत्र यावस्था तां श्रुत्वा भरतोऽनुजः ७२

दुःखी भवति तद्दुःखाद्दुःखं प्राप्नोति तञ्जनः।
यत एवमतो राजन् सीतान्वेषणमाचरः ७३

इत्युक्ते वचने तत्र वायुपुत्रेण धीमता।
जाम्बवानतितेजस्वी नत्वा रामं पुरःस्थितः ७४

स प्राह कपिराजं तं नीतिमान्नीतिमद्वचः।
यदुक्तं वायुपुत्रेण तत्तथेत्यवगच्छ भोः ७५

यत्र क्वापि स्थिता सीता रामभार्या यशस्विनी।
पतिव्रती महाभागा वैदेही जनकात्मजा ७६

अद्यापि वृत्तसम्पन्ना इति मे मनसि स्थितम्।
न हि कल्याणचित्तायाः सीतायाः केनचिद्भुवि ७७

पराभवोऽस्ति सुग्रीव प्रेषयाद्यैव वानरान्।
इत्युक्तस्तेन सुग्रीवः प्रीतात्मा कपिनायकः ७८

पश्चिमायां दिशि तदा प्रेषयामास तान् कपीन्।
अन्वेष्टुं रामभार्यां तां महाबलपराक्रमः ७९

उत्तरस्यां दिशि तदा नियुतान् वानरानसौ।
प्रेषयामास धर्मात्मा सीतान्वेषणकर्मणि ८०

पूर्वास्यां दिशि कपींश्च कपिराजः प्रतापवान्।
प्रेषयामास रामस्य सुभार्यान्वेषणाय वै ८१

इति तान् प्रेषयामास वानरान् वानराधिपः।
सुग्रीवो बालिपुत्रं तमङ्गदं प्राह बुद्धिमान् ८२

त्वं गच्छ दक्षिणं देशं सीतान्वेषणकर्मणि।
जाम्बवांश्च हनूमांश्च मैन्दो द्विविद एव च ८३

नीलाद्याश्चैव हरयो महाबलपराक्रमाः।
अनुयास्यन्ति गच्छन्तं त्वामद्य मम शासनात् ८४

अचिरादेव यूयं तां दृष्ट्वा सीतां यशस्विनीम्।
स्थानतो रूपतश्चैव शीलतश्च विशेषतः ८५

केन नीता च कुत्रास्ते ज्ञात्वात्रागच्छ पुत्रक।
इत्युक्तः कपिराजेन पितृव्येण महात्मना ८६

अङ्गदस्तूर्णमुत्थाय तस्याज्ञां शिरसा दधे।
इत्युक्ते दूरतः स्थाप्य वानरानश्च जाम्बवान् ८७

रामं च लक्ष्मणं चैव सुग्रीवं मारुतात्मजम्।
एकतः स्थाप्य तानाह नीतिमान्नीतिमद्वचः ८८

श्रूयतां वचनं मेऽद्य सीतान्वेषणकर्मणि।
श्रुत्वा च तद्गृहाण त्वं रोचते यन्नृपात्मज ८९

रावणेन जनस्थानान्नीयमाना तपस्विनी।
जटायुषा तु सा दृष्ट्वा शक्त्या युद्धं प्रकुर्वता ९०

भूषणानि च दृष्टानि तथा क्षिप्तानि तेन वै।
तान्यस्माभिः प्रदृष्टानि सुग्रीवायार्पितानि च ९१

जटायुवाक्याद्रा जेन्द्र सत्यमित्यवधारय।
एतस्मात्कारणात्सीता नीता तेनैव रक्षसा ९२

रावणेन महाबाहो लङ्कायां वर्तते तु सा।
त्वां स्मरन्ती तु तत्रस्था त्वद्दुःखेन सुदुःखिता ९३

रक्षन्ती यत्नतो वृत्तं तत्रापि जनकात्मजा।
त्वद्ध्यानेनैव स्वान् प्राणान्धारयन्ती शुभानना ९४

स्थिता प्रायेण ते देवी सीता दुःखपरायणा।
हितमेव च ते राजन्नुदधेर्लङ्घने क्षमम् ९५

वायुपुत्रं हनूमन्तं त्वमत्रादेष्टुमर्हसि।
त्वं चाप्यर्हसि सुग्रीव प्रेषितुं मारुतात्मजम् ९६

तमृते सागरं गन्तुं वानराणां न विद्यते।
बलं कस्यापि वा वीर इति मे मनसि स्थितम् ९७

क्रियतां मद्वचः क्षिप्रं हितं पथ्यं च नः सदा।
उक्ते जाम्बवतैवं तु नीतिस्वल्पाक्षरान्विते ९८

वाक्ये वानरराजोऽसौ शीघ्रमुत्थाय चासनात्।
वायुपुत्रसमीपं तु तं गत्वा वाक्यमब्रवीत् ९९

शृणु मद्वचनं वीर हनुमन्मारुतात्मज।
अयमिक्ष्वाकुतिलको राजा रामः प्रतापवान् १००

पितुरादेशमादाय भ्रातृभार्यासमन्वितः।
प्रविष्टो दण्डकारण्यं साक्षाद्धर्मपरायणः १०१

सर्वात्मा सर्वलोकेशो विष्णुर्मानुषरूपवान्।
अस्य भार्यां हृता तेन दुष्टेनापि दुरात्मना १०२

तद्वियोगजदुःखार्तो विचिन्वंस्तां वने वने।
त्वया दृष्टो नृपः पूर्वमयं वीरः प्रतपवान् १०३

एतेन सह सङ्गम्य समयं चापि कारितम्।
अनेन निहतः शत्रुर्मम वालिर्महाबलः १०४

अस्य प्रसादेन कपे राज्यं प्राप्तं मयाधुना।
मया च तत्प्रतिज्ञातमस्य साहाय्यकर्मणि १०५

तत्सत्यं कर्तुमिच्छामि त्वद्बलान्मारुतात्मज।
उत्तीर्य सागरं वीर दृष्ट्वा सीतामनिन्दिताम् १०६

भूयस्तर्तुं बलं नास्ति वानराणां त्वया विना।
अतस्त्वमेव जानासि स्वामिकार्यं महामते १०७

बलवान्नीतिमांश्चैव दक्षस्त्वं दौत्यकर्मणि।
तेनैवमुक्तो हनुमान् सुग्रीवेण महात्मना १०८

स्वामिनोऽर्थं न किं कुर्यामीदृशं किं नु भाषसे।
इत्युक्तो वायुपुत्रेण रामस्तं पुरतः स्थितम् १०९

प्राह वाक्यं महाबाहुर्वाष्पसम्पूर्णलोचनः।
सीतां स्मृत्वा सुदुःखार्तः कालयुक्तममित्रजित् ११०

त्वयि भारं समारोप्य समुद्र तरणादिकम्।
सुग्रीवः स्थाप्यते ह्यत्र मया सार्धं महामते १११

हनूमंस्तत्र गच्छ त्वं मत्प्रीत्यै कृतनिश्चयः।
ज्ञातीनां च तथा प्रीत्यै सुग्रीवस्य विशेषतः ११२

प्रायेण रक्षसा नीता भार्या मे जनकात्मजा।
तत्र गच्छ महावीर यत्र सीता व्यवस्थिता ११३

यदि पृच्छति सादृश्यं मदाकारमशेषतः।
अतो निरीक्ष्य मां भूयो लक्ष्मणं च ममानुजम् ११४

ज्ञात्वा सर्वाङ्गगं लक्ष्म सकलं चावयोरिह।
नान्यथा विश्वसेत्सीता इति मे मनसि स्थितम् ११५

इत्युक्तो रामदेवेन प्रभञ्जनसुतो बली।
उत्थाय तत्पुरः स्थित्वा कृताञ्जलिरुवाच तम् ११६

जानामि लक्षणं सर्वं युवयोस्तु विशेषतः।
गच्छामि कपिभिः सार्धं त्वं शोकं मां कुरुष्व वै ११७

अन्यच्च देह्यभिज्ञानं विश्वासो येन मे भवेत्।
सीतायास्तव देव्यास्तु राजन् राजीवलोचन ११८

इत्युक्तो वायुपुत्रेण रामः कमललोचनः।
अङ्गुलीयकमुन्मुच्य दत्तवान् रामचिह्नितम् ११९

तद्गृहीत्वा तदा सोऽपि हनूमान्मारुतात्मजः।
रामं प्रदक्षिणीकृत्य लक्ष्मणं च कपीश्वरम् १२०

नत्वा ततो जगामाशु हनूमानञ्जनीसुतः।
सुग्रीवोऽपि च ताञ्छ्रुत्वा वानरान् गन्तुमुद्यतान् १२१

आज्ञेयानाज्ञापयति वानरान् बलदर्पितान्।
शृण्वन्तु वानराः सर्वे शासनं मम भाषितम् १२२

विलम्बनं न कर्तव्यं युष्माभिः पर्वतादिषु।
द्रुतं गत्वा तु तां वीक्ष्य आगन्तव्यमनिन्दिताम् १२३

रामपत्नीं महाभागां स्थास्येऽहं रामसन्निधौ।
कर्तनं वा करिष्यामि अन्यथा कर्णनासयोः १२४

एवं तान् प्रेषयित्वा तु आज्ञापूर्वं कपीश्वरः।
अथ ते वानरा याताः पश्चिमादिषु दिक्षु वै १२५

अते सानुषु समस्तेषु गिरीणामपि मूर्धसु।
नदीतीरेषु सर्वेषु मुनीनामाश्रमेषु च १२६

कन्दरेषु च सर्वेषु वनेषूपवनेषु च।
वक्षेषु वृक्षगुल्मेषु गुहासु च शिलासु च १२७

सह्यपर्वतपार्श्वेषु विन्ध्यसागरपार्श्वयोः।
हिमवत्यपि शैले च तथा किम्पुरुषादिषु १२८

मनुदेशेषु सर्वेषु सप्तपातालकेषु च।
मध्यदेशेषु सर्वेषु कश्मीरेषु महाबलाः १२९

पूर्वदेशेषु सर्वेषु कामरूपेष कोशले।
तीर्थस्थानेषु सर्वेषु सप्तकोङ्कणकेषु च १३०

यत्र तत्रैव ते सीतामदृष्ट्वा पुनरागताः।
आगत्य ते नमस्कृत्य रामलक्ष्मणपादयोः १३१

सुग्रीवं च विशेषेण नास्माभिः कमलेक्षणा।
दृष्टा सीता महाभागेत्युक्त्वा तांस्तत्र तस्थिरे १३२

ततस्तं दुःखितं प्राह रामदेवं कपीश्वरः।
सीता दक्षिणदिग्भागे स्थिता द्र ष्टुं वने नृप १३३

शक्या वानरसिंहेन वायुपुत्रेण धीमता।
दृष्ट्वा सीतामिहायाति हनूमान्नात्र संशयः १३४

स्थिरो भव महाबाहो राम सत्यमिदं वचः।
लक्ष्मणोऽप्याह शकुनं तत्र वाक्यमिदं तदा १३५

सर्वथा दृष्टसीतस्तु हनुमानागमिष्यति।
इत्याश्वास्य स्थितौ तत्र रामं सुग्रीवलक्ष्मणौ १३६

अथाङ्गदं पुरस्कृत्य ये गता वानरोत्तमाः।
यत्नादन्वेषणार्थाय रामपत्नीं यशस्विनीम् १३७

अदृष्ट्वा श्रममापन्नाः कृच्छ्रभूतास्तदा वने।
भक्षणेन विहीनास्ते क्षुधया च प्रपीडिताः १३८

भ्रमद्भिर्गहनेऽरण्ये क्वापि दृष्टा च सुप्रभा।
गुहानिवासिनी सिद्धा ऋषिपत्नी ह्यनिन्दिता १३९

सा च तानागतादृष्ट्वा स्वाश्रमं प्रति वानरान्।
आगताः कस्य यूयं तु कुतः किं नु प्रयोजनम् १४०

इत्युक्ते जाम्बवानाह तां सिद्धां सुमहामतिः।
सुग्रीवस्य वयं भृत्या आगता ह्यत्र शोभने १४१

रामभार्यार्थमनघे सीतन्वेषणकर्मणि।
कान्दिग्भूता निराहारा अदृष्ट्वा जनकात्मजाम् १४२

इत्युक्ते जाम्बवत्यत्र पुनस्तानाह सा शुभा।
जानासि रामं सीतां च लक्ष्मणं च कपीश्वरम् १४३

भुञ्जीध्वमत्र मे दत्तमाहारं च कपीश्वराः।
रामकार्यागतास्त्वत्र यूयं रामसमा मम १४४

इत्युक्त्वा चामृतं तेषां योगाद्दत्वा तपस्विनी।
भोजयित्वा यथाकामं भूयस्तानाह तापसी १४५

सीतास्थानं तु जानाति सम्पातिर्नाम पक्षिराट्।
आस्थितो वै वने सोऽपि महेन्द्रे पर्वते द्विजः १४६

मार्गेणानेन हरयस्तत्र यूयं गमिष्यथ।
स वक्ति सीतां सम्पातिर्दूरदर्शी तु यः खगः १४७

तेनादिष्टं तु पन्थानं पुनरासाद्य गच्छथ।
अवश्यं जानकीं सीतां द्र क्ष्यते पवनात्मजः १४८

तयैवमुक्ताः कपयः परां प्रीतिमुपागताः।
हृष्टास्तेजनमापन्नास्तां प्रणम्य प्रतस्थिरे १४९

महेन्द्रा द्रिं गता वीरा वानरास्तद्दिदृक्षया।
तत्र सम्पातिमासीनं दृष्टवन्तः कपीश्वराः १५०

तानुवाचाथ सम्पातिर्वानरानागतान्द्विजः।
के यूयमिति सम्प्राप्ताः कस्य वा ब्रूत मा चिरम् १५१

इत्युक्ते वानरा ऊचुर्यथावृत्तमनुक्रमात्।
रामदूता वयं सर्वे सीतान्वेषणकर्मणि १५२

प्रेषिता कपिराजेन सुग्रीवेण महात्मना।
त्वां द्र ष्टुमिह सम्प्राप्ताः सिद्धाया वचनाद्द्विज १५३

सीतास्थानं महाभाग त्वं नो वद महामते।
इत्युक्तो वानरैः श्येनो वीक्षाञ्चक्रे सुदक्षिणाम् १५४

सीतां दृष्ट्वा स लङ्कायामशोकाख्ये महावने।
स्थितेति कथितं तेन जटायुस्तु मृतस्तव १५५

भ्रातेति चोचुः स स्नात्वा दत्त्वा तस्योदकाञ्जलिम्।
योगमास्थाय स्वं देहं विससर्ज महामतिः १५६

ततस्तं वानरा दग्ध्वा दत्त्वा तस्योदकाञ्जलिम्।
गत्वा महेन्द्र शृङ्गं ते तमारुह्य क्षणं स्थिताः १५७

सागरं वीक्ष्य ते सर्वे परस्परमथाब्रुवन्।
रावणेनैव भार्या सा नीता रामस्य निश्चितम् १५८

सम्पातिवचनादद्य सञ्ज्ञातं सकलं हि तत्।
वानराणां तु कश्चात्र उत्तीर्य लवणोदधिम् १५९

लङ्कां प्रविष्य दृष्ट्वा तां रामपत्नीं यशस्विनीम्।
पुनश्चोदधितरणे शक्तिं ब्रूत हि शोभनाः १६०

इत्युक्तो जाम्बवान् प्राह सर्वे शक्तास्तु वानराः।
सागरोत्तरणे किन्तु कार्यमन्यस्य सम्भवेत् १६१

तत्र दक्षोऽयमेवात्र हनूमानिति मे मतिः।
कालक्षेपो न कर्तव्यो मासार्धमधिकं गतम् १६२

यद्यदृष्ट्वा तु गच्छामो वैदेहीं वानरर्षभाः।
कर्णनासादि नः स्वाङ्गं निकृन्तति कपीश्वरः १६३

तस्मात् प्रार्थ्यः स चास्माभिर्वायुपुत्रस्तु मे मतिः।
इत्युक्तास्ते तथेत्यूचुर्वानरा वृद्धवानरम् १६४

ततस्ते प्रार्थयामासुर्वानराः पवनात्मजन्।
हनूमन्तं महाप्राज्ञं दक्षं कार्येषु चाधिकम् १६५

गच्छ त्वं रामभृत्यस्त्वं रावणस्य भयाय च।
रक्षस्व वानरकुलमस्माकमञ्जनीसुत।
इत्युक्तस्तांस्तथेत्याह वानरान् पवनात्मजः १६६

रामप्रयुक्तश्च पुनः स्वभर्तृणा।
पुनर्महेन्द्रे कपिभिश्च नोदितः।
गन्तुं प्रचक्रे मतिमञ्जनीसुतः।
समुद्र मुत्तीर्य निशाचरालयम् १६७

इति श्रीनरसिंहपुराणे रामप्रादुर्भावे पञ्चाशोऽध्यायः ५०


एकपञ्चाशोऽध्यायः।
मार्कण्डेय उवाच।
स तु रावणनीतायाः सीतायाः परिमार्गणम्।
इयेष पदमन्वेष्टुं चारणाचरिते पथि १

अञ्जलिं प्राङ्मुखं कृत्वा सगणायात्मयोनये।
मनसाऽऽवन्द्य रामं च लक्ष्मणं च महारथम् २

सागरं सरितश्चैव प्रणम्य शिरसा कपिः।
ज्ञातींश्चैव परिष्वज्य कृत्वा चैव प्रदक्षिणाम् ३

अरिष्टं गच्छ पन्थानं पुण्यवायुनिषेवितम्।
पुनरागमनायेति वानरैरभिपूजितः ४

अञ्जसा स्वं तथा वीर्यमाविवेशाथ वीर्यवान्।
मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः ५

सम्पूर्णमिव चात्मानं भावयित्वा महाबलः।
उत्पपात गिरेः शृङ्गान्निष्पीड्य गिरिमम्बरम् ६

पितृर्मार्गेण यातस्य वायुपुत्रस्य धीमतः।
रामकार्यपरस्यास्य सागरेण प्रचोदितः ७

विश्रामार्थं समुत्तस्थौ मैनाको लवणोदधेः।
तं निरीक्ष्य निपीड्याथ रयात्सम्भाष्य सादरम् ८

उत्पतंश्च वने वीरः सिंहिकास्यं महाकपिः।
आस्यप्रान्तं प्रविश्याथ वेगेनान्तर्विनिस्सृतः ९

निस्सृत्य गतवाञ्शीघ्रं वायुपुत्रः प्रतापवान्।
लङ्घयित्वा तु तं देशं सागरं पवनात्मजः १०

त्रिकूटशिखरे रम्ये वृक्षाग्रे निपपात ह।
तस्मिन् स पर्वतश्रेष्ठे दिनं नीत्वा दिनक्षये ११

सन्ध्यामुपास्य हनुमान् रात्रौ लङ्कां शनैर्निशि।
लङ्काभिधां विनिर्जित्य देवतां प्रविवेश ह १२

लङ्कामनेकरत्नाढ्यां बह्वाश्चर्यसमन्विताम्।
राक्षसेषु प्रसुप्तेषु नीतिमान् पवनात्मजः १३

रावणस्य ततो वेश्म प्रविवेशाथ ऋद्धिमत्।
शयानं रावणं दृष्ट्वा तल्पे महति वानरः १४

नासापुटैर्घोरकारैर्विशिद्भिर्वायुमोचकैः।
तथैव दशभिर्वक्त्रैर्दंष्ट्रोपेतैस्तु संयुतम् १५

स्त्रीसहस्थैस्तु दृष्ट्वा तं नानाभरणभूषितम्।
तस्मिन् सीतामदृष्ट्वा तु रावणस्य गृहे शुभे १६

तथा शनानं स्वगृहे राक्षसानां च नायकम्।
दुःखितो वायुपुत्रस्तु सम्पातेर्वचनं स्मरन् १७

अशोकवनिकां प्राप्तो नानापुष्पसमन्विताम्।
जुष्टां मलयजातेन चन्दनेन सुगन्धिता १८

प्रविश्य शिंशपावृक्षमाश्रितां जनकात्मजाम्।
रामपत्नी समद्रा क्षीद् राक्षसीभिः सुरक्षिनाम् १९

अशोकवृक्षमारुह्य पुष्पितं मधुपल्लवम्।
आसाञ्चक्रे हरिस्तत्र सेयं सीतेति संस्मरन् २०

सीतां निरीक्ष्य वृक्षाग्रे यावदास्तेऽनिलात्मजः।
स्त्रीभिः परिवृतस्तत्र रावणस्तावदागतः २१

आगत्य सीतां प्राहाथ प्रिये मां भज कामुकम्।
भूषिता भव वैदेहि त्यज रामागतं मनः १२२

इत्येवं भाषमाणं तमन्तर्धाय तृणं ततः।
प्राह वाक्यं शनैः सीता कम्पमानाथ रावणम् २३

गच्छ रावण दुष्ट त्वं परदारपरायण।
अचिराद्रा मबाणास्ते पिवन्तु रुधिरं रणे २४

तथेयुक्तो भर्त्सितश्च राक्षसीराह राक्षसः।
द्विमासाभ्यन्तरे चैनां वशीकुरुत मानुषीम् २५

यदि नेच्छति मां सीता ततः खादत मानुषीम्।
इत्युक्त्वा गतवान् दुष्टो रावणः स्वं निकेतनम् २६

ततो भयेन तां प्राहू राक्षस्यो जनकात्मजाम्।
रावणं भज कल्याणि सघनं सुखिनी भव २७

इत्युक्ता प्राह ताः सीता राघवोऽलघुविक्रमः।
निहत्य रावणं युद्धे सगणं मां नयिष्यति २८

नाहमन्यस्य भार्या स्यामृते रामं रघूत्तमम्।
स ह्यागत्य दशग्रीवं हत्वा मां पालयिष्यति २९

इत्याकर्ण्य वचस्तस्या राक्षस्यो ददृशुर्भयम्।
हन्यतां हन्यतामेषा भक्ष्यतां भक्ष्यतामियम् ३०

ततस्तास्त्रिजटा प्राह स्वप्ने दृष्टमनिन्दिता।
शृणुध्वं दुष्टराक्षस्यो रावणस्य विनाशनः ३१

रक्षोभिः सह सर्वैस्तु रावणस्य मृतिप्रदः।
लक्ष्मणेन सह भ्रात्रा रामस्य विजयप्रदः ३२

स्वप्नः शुभो मया दृष्टः सीतायाश्च पतिप्रदः।
त्रिजटावाक्यमाकर्ण्य सीतापार्श्वं विसृज्य ताः ३३

राक्षस्यस्ता ययुः सर्वाः सीतामाहाञ्जनीसुतः।
कीर्तयन् रामवृत्तान्तं सकलं पवनात्मजः ३४

तस्यां विश्वासमानीय दत्त्वा रामाङ्गुलीयकम्।
सम्भाष्य लक्षणं सर्वं रामलक्ष्मणयोस्ततः ३५

महत्या सेनया युक्तः सुग्रीवः कपिनायकः।
तेन सार्धमिहागत्य रामस्तव पति प्रभुः ३६

लक्ष्मणश्च महावीरो देवरस्ते शुभानने।
रावणं सगणं हत्वा त्वामितोऽऽदाय गच्छति ३७

इत्युक्ते सा तु विश्वस्ता वायुपुत्रमथाब्रवीत्।
कथमत्रागतो वीर त्वमुत्तीर्य महोदधिम् ३८

इत्याकर्ण्य वचस्तस्याः पुनस्तामाह वानरः।
गोष्पदवन्मयोत्तीर्णः समुद्रो ऽयं विरानने ३९

जपतो रामरामेति सागरो गोष्पदायते।
दुःखमग्नासि वैदेहि स्थिरा भव शुभानने ४०

क्षिप्रं पश्यहि रामं त्वं सत्यमेतद्ब्रवीमि ते।
इत्याश्वास्य सतीं सीतां दुःखितां जनकामजाम् ४१

ततश्चूडामणि प्राप्य श्रुत्वा काकपराभवम्।
नत्वा तां प्रस्थितो वीरो गन्तुं कृतमतिः कपिः ४२

ततो विमृश्य तद्भङ्क्त्वा क्रीडावनमशेषतः।
तोरणस्थो नुनादोच्चै रामो जयति वीर्यवान् ४३

अनेकान् राक्षसान् हत्वा सेनाः सेनापतींश्च सः।
तदा त्वक्षकुमारं तु हत्वा रावणसैनिकम् ४४

साश्वं ससारथिं हत्वा इन्द्र जित्तं गृहीतवान्।
रावणस्य पुरः स्थित्वा रामं सङ्कीर्त्य लक्ष्मणम् ४५

सुग्रीवं च महावीर्यं दग्ध्वा लङ्कामशेषतः।
निर्भर्त्स्य रावणं दुष्टं पुनः सम्भाष्य जानकीम् ४६

भूयः सागरमुत्तीर्य ज्ञातीनासाद्य वीर्यवान्।
सीतादर्शनमावेद्य हनूमांश्चैव पूजितः ४७

वानरैः सार्धमागत्य हनुमान्मधुवनं महत्।
निहत्य रक्षपालांस्तु पाययित्वा च तन्मधु ४८

सर्वे दधिमुखं पात्य हर्षितो हरिभिः सह।
खमुत्पत्य च सम्प्राप्य रामलक्ष्मणपादयोः ४९

नत्वा तु हनुमांस्तत्र सुग्रीवं च विशेषतः।
आदितः सर्वमावेद्य समुद्र तरणादिकम् ५०

कथयामास रामाय सीता दृष्टा मयेति वै।
अशोकवनिकामध्ये सीता देवो सुदुःखिता ५१

राक्षसीभिः परिवृता त्वां स्मरन्ती च सर्वदा।
अश्रुपूर्णमुखी दीना तव पत्नी वरानना ५२

शीलवृत्तसमायुक्ता तत्रापि जनकात्मजा।
सर्वत्रान्वेषमाणेन मया दृष्टा पतिव्रता ५३

मया सम्भाषिता सीता विश्वस्ता रघुनन्दन।
अलङ्कारश्च सुमणिस्तया ते प्रेषितः प्रभो ५४

इत्युक्त्वा दत्तवांस्तस्मै चूडामणिमनुत्तमम्।
इदं च वचनं तुभ्यं पत्न्या सम्प्रेषितं शृणु ५५

चित्रकूटे मदङ्के तु सुप्ते त्वयि महाव्रत।
वायसाभिभवं राजस्तत्किल स्मर्तुमर्हसि ५६

अल्पापराधे राजेन्द्र त्वया बलिभुजि प्रभो।
यत्कृतं तन्न कर्तुं च शक्यं देवासुरैरपि ५७

ब्रह्मास्त्रं तु तदोत्सृष्टं रावणं किं न जेष्यसि।
इत्येवमादि बहुशः प्रोक्त्वा सीता रुरोद ह।
एवं तु दुःखिता सीता तां मोक्तुं यत्नमाचर ५८

इत्येवमुक्ते पवनात्मजेन।
सीतावचस्तच्छुभभूषणं च।
श्रुत्वा च दृष्ट्वा च रुरोद रामः।
कपिं समालिङ्ग्य शनैः प्रतस्थे ५९

इति श्रीनरसिंहपुराणे रामप्रादुर्भावे एकपञ्चासोऽध्यायः ५१


द्विपञ्चाशोऽध्यायः।
मार्कण्डेय उवाच।
इति श्रुत्वा प्रियावार्तां वायुपुत्रेण कीर्तिताम्।
रामो गत्वा समुद्रा न्तं वानरैः सह विस्तृतैः १

सागरस्य तटे रम्ये तालीवनविराजिते।
सुग्रीवो जाम्बवांश्चाथ वनरैरतिहर्षितैः २

सङ्ख्यातीतैवृतः श्रीमान्नक्षत्रैरिव चन्द्र माः।
अनुजेन च धीरेण वीक्ष्य तस्यौ सरित्पतिम् ३

रावणेनाथ लङ्कायां स सूक्तौ भर्त्सितोऽनुजः।
विभीषणो महाबद्धिः शास्त्रज्ञैर्मन्त्रिभिः सह ४

नरसिंहे महादेवे श्रीधरे भक्तवत्सले।
एवं रामेऽचलां भक्तिमागत्य विनयात्तदा ५

कृताञ्जलिरुवाचेदं राममक्लिष्टकारिणम्।
राम राम महाबाहो देवदेव जनार्दन ६

विभीषणोऽस्मि मां रक्ष अहं ते शरणं गतः।
इत्युक्त्वा निपपाताथ प्राञ्जली रामपादयोः ७

विदितार्थोऽथ रामस्तु तमुत्थाप्य महामतिम्।
समुद्र तोयैस्तं वीरमभिषिच्य विभीषणम् ८

लङ्काराज्यं तवैवेति प्रोक्तः सम्भाष्य तस्थिवान्।
ततो विभीषणेनोक्तं त्वं विष्णुर्भुवनेश्वरः ९

अब्धिर्ददातु मार्गं ते देव तं याचयामहे।
इत्युक्तो वानरैः सार्धं शिश्ये तत्र स राघवः १०

सुप्ते रामे गतं तत्र त्रिरात्रममितद्युतौ।
ततः क्रुद्धो जगन्नाथो रामो राजीवलोचनः ११

संशोषणमपां कर्तुमस्त्रमाग्नेयमाददे।
तदोत्याय वचः प्राहः लक्ष्मणश्च रुषान्वितम् १२

क्रोधस्ते लयकर्ता हि एनं जहि महामते।
भूतानां रक्षगार्थाय अवतारस्त्वया कृतः १३

क्षन्तव्यं देवदेवेश इत्युक्त्वा धृतवान् शरम्।
ततो रात्रित्रये याते क्रुद्धं राममवेक्ष्य सः १४

आग्नेयास्त्राच्च सन्त्रस्तः सागरोऽभ्येत्य मूर्तिमान्।
आह रामं महादेवं रक्ष मामपकारिणम् १५

मार्गो दत्तो मया तेऽद्य कुशलः सेतुकर्मणि।
नलश्च कथितो वीरस्तेन कारय राघव १६

यावदिष्टं तु विस्तीर्णं सेतुबन्धनमुत्तमम्।
ततो नलमुखैरन्यैर्वानरैरमितौजसैः १७

बन्धयित्वा महासेतुं तेन गत्वा स राघवः।
सुवेलाख्यं गिरिं प्राप्तः स्थितोऽसौ वानरैर्वृतः १८

हर्म्यस्थलस्थितं दुष्टं रावणं वीक्ष्य चाङ्गदः।
रामादेशादथोत्प्लुत्य दूतकर्मसु तत्परः १९

प्रादात्पादप्रहारं तु रोषाद्रा वणमूर्धनि।
विस्मितं तैः सुरगणैर्वीक्षितः सोऽतिवीर्यवान् २०

साधयित्वा प्रतिज्ञां तां सुवेलं पुनरागतः।
ततो वानरसेनाभिः सङ्ख्यातीताभिरच्युतः २१

रुरोध रावणपुरीं लङ्कां तत्र प्रतापवान्।
रामः समन्तादालोक्य प्राह लक्ष्मणमन्तिके २२

तीर्णोऽर्णवः कबलितेव कपीश्वरस्य।
सेनाभटैर्झटिति राक्षसराजधानी।
यत्पौरुषोचितमिहाङ्कुरितं मया तद्।
दैवस्य वश्यमपरं धनुषोऽथ वास्य २३

लक्ष्मणः प्राह–कातरजनमनोऽबलम्बिना किं दैवेन।
यावल्ललाटशिखरं भ्रुकुटिर्न याति।
यावन्न कार्मुकशिखामधिरोहति ज्या ॥
तावन्निशाचरपतेः पटिमानमेतु।
त्रैलोक्यमूलविभुजेषु भुजेषु दर्पः २४

तदा लक्ष्मणः रामस्य कर्णे लगित्वा पितृवधवैरस्मरणे अथ।
तद्भक्तिवीर्यपरीक्षणाय लक्षणविज्ञानायादिश्यतामङ्गदाय दूत्यम् ॥
रामः साधु इति भणित्वा अङ्गदं सबहुमानमवलोक्य आदिशति २५

अङ्गद -पिता ते यद्वाली बलिनि दशकण्ठे कलितवान्न शक्तास्तद्वक्तुं वयमपि मुदा तेन पुलकः ॥
स एव त्वं व्यावर्त्तयसि तनुजत्वेन पितृतां।
ततः किं वक्तव्यं तिलकयति सृष्टार्थपदवीम् २६

अङ्गदो मौलिमण्डलमिलत्करयुगलेन प्रणम्य यदाज्ञापयति।
देवः । अवधार्यताम् २७

किं प्राकारविहारतोरणवतीं लङ्कामिहैवानये।
किं वा सैन्यमहं द्रुतं रघुपते तत्रैव सम्पादये ॥
अत्यल्पं कुलपर्वतैरविरलैर्बध्नामि वा सागरं।
देवादेशय किं करोमि सकलं दोर्द्दण्डसाध्यं मम २८

श्रीरामस्तद्वचनगात्रेणैव तद्भक्तिं सामर्थ्यं चावेक्ष्य वदति २९

अज्ञानादथवाधिपत्यरभसा वास्मत्परोक्षे हृता।
सीतेयं प्रविमुच्यतामिति वचो गत्वा दशास्यं वद ॥
नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणितच्छत्रच्छन्नदिगन्तमन्तकपुरीं पुत्रैर्वृतो यास्यसि ३०

अङ्गदः ३१
देव -सन्धौ वा विग्रहे वापि मयि दूते दशाननी ॥
अक्षता वाक्षता वापि क्षितिपीठे लुठिष्यति ३२

तदा श्रीरामचन्द्रे ण प्रशस्य प्रहितोऽङ्गदः।
उक्तिप्रत्युक्तिचातुर्यैः पराजित्यागतो रिपुम् ३३

राघवस्य बलं ज्ञात्वा चारैस्तदनुजस्य च।
वानराणां च भीतोऽपि निर्भीरिव दशाननः ३४

लङ्कापुरस्य रक्षार्थमादिदेश स राक्षसान्।
आदिश्य सर्वतो दिक्षु पुत्रानाह दशाननः ३५

धूम्राक्षं धूम्रपानं च राक्षसा यात मे पुरीम्।
पाशैर्बध्नीत तौ मर्त्यौ अमित्रान्तकवीर्यवान्।
कुम्भकर्णोऽपि मद्भ्राता तुर्यनादैः प्रबोधितः ३६

राक्षसाश्चैव सन्दिष्टा रावणेन महाबलाः।
तस्याज्ञां शिरसाऽऽदाय युयुधुर्वानरैः सह ३७

युध्यमाना यथाशक्त्या कोटिसङ्ख्यास्तु राक्षसाः।
वानरैर्निधनं प्राप्ताः पुनरन्यान् यथाऽऽदिशत् ३८

पूर्वद्वारे दशग्रीवो राक्षसानमितौजसः।
ते चापि युध्य हरिभिर्नीलाद्यैर्निधनं गताः ३९

अथ दक्षिणदिग्भागे रावणेन नियोजिताः।
ते सर्वे वानरवरैर्दारितास्तु यमं गताः ४०

पश्चिमेऽङ्गदमुख्यैश्च वानरैरतिगर्वितैः।
राक्षसाः पर्वताकाराः प्रापिता यमसादनम् ४१

तदुत्तरे तु दिग्भागे रावणेन निवेशिताः।
पेतस्ते राक्षसाः क्रूरा मैन्दाद्यैर्वानरैर्हताः ४२

ततो वानरसङ्घास्तु लङ्काप्राकारमुच्छ्रितम्।
उत्प्लुत्याभ्यन्तरस्थांश्च राक्षसान् बलदर्पितान् ४३

हत्वा शीघ्रं पुनः प्राप्ताः स्वसेनामेव वानराः।
एवं हतेषु सर्वेषु राक्षसेषु दशाननः ४४

रोदमानासु तत्स्त्रीषु निर्गतः क्रोधमूर्च्छितः।
द्वारे स पश्चिमे वीरो राक्षसैर्बहुभिर्वृतः ४५

क्वासौ रामेति च वदन् धनुष्पाणिः प्रतापवान्।
रथस्थः शरवर्षं च विसृजन् वानरेषु सः ४६

ततस्तद्बाणच्छिन्नाङ्गा वानरा दुद्रुवुस्तदा।
पलायमानांस्तान् दृष्ट्वा वानरान् राघवस्तदा ४७

कस्मात्तु वानरा भग्नाः किमेषां भयमागतम्।
इति रामवचः श्रुत्वा प्राह वाक्यं विभीषणः ४८

शृणु राजन्महाबाहो रावणो निर्गतोऽधुना।
तद्बाणछिन्ना हरयः पलायन्ते महामते ४९

इत्युक्तो राघवस्तेन धनुरुद्यम्य रोषितः।
ज्याधोषतलघोषाभ्यां पूरयामास खं दिशः ५०

युयुधे रावणेनाथ रामः कमललोचनः।
सुग्रीवो जाम्बवांश्चैव हनूमानङ्गदस्तथा ५१

विभीषणो वानराश्च लक्ष्मणश्चापि वीर्यवान्।
उपेत्य रावणीं सेनां वर्षन्तीं सर्वसायकान् ५२

हस्त्यश्वरथसंयुक्तां ते निजध्नुर्महाबलाः।
रामरावणयोर्युद्धमभूत् तत्रापि भीषणम् ५३

रावणेन विसृष्टानि शस्त्रास्त्राणि च यानि वै।
तानि छित्त्वाथ शस्त्रैस्तु राघवश्च महाबलः ५४

शरेण सारथिं हत्वा दशभिश्च महाहयान्।
रावणस्य धनुश्छित्त्वा भल्लेनैकेन राघवः ५५

मुकुटं पञ्चदशभिश्छित्त्वा तन्मस्तकं पुनः।
सुवर्णपुङ्खैर्दशभिः शरैर्विव्याध वीर्यवान् ५६

तदा दशास्यो व्यथितो रामबाणैर्भृशं तदा।
विवेश मन्त्रिभिर्नीतः स्वपुरीं देवमर्दकः ५७

बोधितस्तूर्यनादैस्तु गजयूथक्रमैः शनैः।
पुनः प्राकारमुल्लङ्घ्य कुम्भकर्णो विनिर्गतः ५८

उत्तुङ्गस्थूलदेहोऽसौ भीमदृष्टिर्महाबलः।
वानरान् भक्षयन् दुष्टो विचचार क्षुधान्वितः ५९

तं दृष्ट्वोत्पत्य सुग्रीवः शूलेनोरस्यताडयत्।
कर्णद्वयं कराभ्यां तुच्छित्त्वा वक्रेण नासिकाम् ६०

सर्वतो युध्यमानांश्च रक्षोनाथान् रणेऽधिकान्।
राघवो घातयित्वा तु वानरेन्द्रै ः! समन्ततः ६१

चकर्त विशिखैस्तीक्ष्णैः कुम्भकर्णस्य कन्धराम्।
विजित्येन्द्र जितं साक्षाद्गरुडेनागतेन सः ६२

रामो लक्ष्मणसंयुक्तः शुशुभे वानरैर्वृतः।
व्यर्थं गते चेन्द्र जिति कुम्भकर्णे निपातिते ६३

लङ्कानाथस्ततः क्रुद्धः पुत्रं त्रिशिरसं पुनः।
अतिकायमहाकायौ देवान्तकनरान्तकौ ६४

यूयं हत्वा तु पुत्राद्या तौ नरौ युधि निध्नत।
तान्नियुज्य दशग्रीवः पुत्रानेवं पुनर्ब्रवीत् ६५

महोदरमहापार्श्वौ सार्धमेतैर्महाबलैः।
सङ्ग्रामेऽस्मिन् रिपून् हन्तुं युवां व्रजतमुद्यतौ ६६

दृष्ट्वा तानागतांश्चैव युध्यमानान् रणे रिपून्।
अनयल्लक्ष्मणः षड्भिः शरैस्तीक्ष्णैर्यमालयम् ६७

वानराणां समूहश्च शिष्टांश्च रजनीचरान्।
सुग्रीवेण हतः कुम्भो राक्षसो बलदर्पितः ६८

निकुम्भो वायुपुत्रेण निहतो देवकण्टकः।
विरूपाक्षं युध्यमानं गदया तु विभीषणः ६९

भीममैन्दौ च श्वपतिं वानरेन्द्रौ निजघ्नतुः।
अङ्गदो जाम्बवांश्चाथ हरयोऽन्यान्निशाचरान् ७०

युध्यमानस्तु समरे महालक्षं महाचलम्।
जघान रामोऽथ रणे बाणवृष्टिकरं नृप ७१

इन्द्र जिन्मन्त्रलब्धं तु रथमारुह्य वै पुनः।
वानरेषु च सर्वेषु शरवर्षं ववर्ष सः ७२

रात्रौ तद्बाणभिन्नं तु बलं सर्वं च राघवम्।
निश्चेष्टमखिलं दृष्ट्वा जाम्बवत्प्रेरितस्तदा ७३

वीर्यादौषधमानीय हनूमान् मारुतात्मजः।
भूम्यां शयानमुत्थाप्य रामं हरिगणांस्तथा ७४

तैरेव वानरैः सार्धं ज्वलितोल्काकरैर्निशि।
दाहयामास लङ्कां तां हस्त्यश्वरथरक्षसाम् ७५

वर्षन्तं शरजालानि सर्वदिक्षु घनो यथा।
स भ्रात्रा मेघनादं तं घातयामास राघवः ७६

घातितेष्वथ रक्षस्सु पुत्रमित्रादिबन्धुषु।
कारितेष्वथ विघ्नेषु होमजप्यादिकर्मणाम् ७७

ततः क्रुद्धो दशग्रीवो लङ्काद्वारो विनिर्गतः।
क्वासौ राम इति ब्रूते मानुषस्तापसाकृतिः ७८

योद्धा कपिबलीत्युच्चैर्व्याहरद्रा क्षसाधिपः।
वेगवद्भिर्विनीतैश्च अश्वैश्चित्ररथे स्थितः ७९

अथायान्तं तु तं दृष्ट्वा रामः प्राह दशाननम्।
रामोऽहमत्र दुष्टात्मन्नेहि रावणं मां प्रति ८०

इत्युक्ते लक्ष्मणः प्राह रामं राजीवलोचनम्।
अनेन राक्षसा योत्स्ये त्वं तिष्ठेति महाबलः ८१

ततस्तु लक्ष्मणो गत्वा रुरोध शरवृष्टिभिः।
विंशद्बाहुविसृष्टैस्तु शस्त्रास्त्रैर्लक्ष्मणं युधि ८२

रुरोध स दशग्रीवः तयोर्युद्धमभून्महत्।
देवा व्योम्नि विमानस्था वीक्ष्य तस्थुर्महाहवम् ८३

ततो रावणशस्त्राणिच्छित्त्वा स्वैस्तीक्ष्णसायकैः।
लक्ष्मणः सारथिं हत्वा तस्याश्वानपि भल्लकैः ८४

रावणस्य धनुश्छित्त्वा ध्वजं च निशितैः शरैः।
वक्षःस्थलं महावीर्यो विव्याध परवीरहा ८५

ततो रथान्निपत्याधः क्षिप्रं राक्षसनायकः।
शक्तिं जग्राह कुपितो घण्टानादविनादिनीम् ८६

अग्निज्वालाज्वलज्जिह्वां महोल्कासदृशद्युतिम्।
दृढमुष्ट्या तु निक्षिप्ता शक्तिः सा लक्ष्मणोरसि ८७

विदार्यान्तःप्रविष्टाथ देवास्त्रस्तास्ततोऽम्बरे।
लक्ष्मणं पतितं दृष्ट्वा रुदद्भिर्वानरेश्वरैः ८८

दुःखितः शीघ्रमागम्य तत्पार्श्वं प्राह राघवः।
क्व गतो हनुमान् वीरो मित्रो मे पवनात्मजः ८९

यदि जीवति मे भ्राता कथञ्चित्पतितो भुवि।
इत्युक्ते हनुमान् राजन् वीरो विख्यातपौरुषः ९०

बद्ध्वाञ्जलिं बभाषेदं देह्यनुज्ञां स्थितोऽस्मि भोः।
रामः प्राह महावीर विशल्यकरणी मम ९१

अनुजं विरुजं शीघ्रं कुरु मित्र महाबल।
ततो वेगात्समुत्पत्य गत्वा द्रो णगिरिं कपिः ९२

बद्ध्वा च शीघ्रमानीय लक्ष्मणं नीरुजं क्षणात्।
चकार देवदेवेशं पश्यतां राघवस्य च ९३

ततः क्रुद्धो जगन्नाथो रामः कमललोचनः।
रावणस्य बलं शिष्टं हस्त्यश्वरथराक्षसम् ९४

हत्वा क्षणेन रामस्तु तच्छरीरं तु सायकैः।
तीक्ष्णैर्जर्जरितं कृत्वा तस्थिवान् वानरैर्वृतः ९५

अस्तचेष्टो दशग्रीवः सञ्ज्ञां प्राप्य शनैः पुनः।
उत्थाय रावणः क्रुद्धः सिंहनादं ननाद च ९६

तन्नादश्रवणैर्व्योम्नि वित्रस्तो देवतागणः।
एतस्मिन्नेव काले तु रामं प्राप्य महामुनिः ९७

रावणे बद्धवैरस्तु अगस्त्यो वै जयप्रदम्।
आदित्यहृदयं नाम मन्त्रं प्रादाज्जयप्रदम् ९८

रामोऽपि जप्त्वा तन्मन्त्रमगस्त्योक्तं जयप्रदम्।
तद्दत्तं वैष्णवं चापमतुलं सद्गुणं दृढम् ९९

पूजयित्वा तदादाय सज्यं कृत्वा महाबलः।
सौवर्णपुङ्खैस्तीक्ष्णैस्तु शरैर्मर्मविदारणैः १००

युयुधे राक्षसेन्द्रे ण रघुनाथः प्रतापवान्।
तयोस्तु युध्यतोस्तत्र भीमशक्त्योर्महामते १०१

परस्परविसृष्टस्तु व्योम्नि संवर्द्धितोऽनलः।
समुत्थितो नृपश्रेष्ठ रामरावणयोर्युधि १०२

सङ्गरे वर्तमाने तु रामो दाशरथिस्तदा।
पदातिर्युयुधे वीरो रामोऽनुक्तपराक्रमः १०३

सहस्राश्वयुतं दिव्यं रथं मातलिमेव च।
प्रेषयामास देवेन्द्रो महान्तं लोकविश्रुतम् १०४

रामस्तं रथमारुह्य पूज्यमानः सुरोत्तमैः।
मातल्युक्तोपदेशस्तु रामचन्द्र ः! प्रतापवान् १०५

ब्रह्मदत्तवरं दुष्टं ब्रह्मास्त्रेण दशाननम्।
जघान वैरिणं क्रूरं रामदेवः प्रतापवान् १०६

रामेण निहते तत्र रावणे सगणे रिपौ।
इन्द्रा द्यां देवताः सर्वाः परस्परमथाब्रुवन् १०७

रामो भूत्वा हरिर्यस्मादस्माकं वैरिणं रणे।
अन्यैरवध्यमप्येनं जघान युधि रावणम् १०८

तस्मात्तं रामनामानमनन्तमपराजितम्।
पूजयामोऽवतीर्यैनमित्युक्त्वा ते दिवौकसः १०९

नानाविमानैः श्रीमद्भिरवतीर्य महीतले।
रुद्रे न्द्र वसुचन्द्रा द्या विधातारं सनातनम् ११०

विष्णुं जिष्णुं जगन्मूर्तिं सानुजं राममव्ययम्।
तं पूजयित्वा विधिवत्परिवार्योपतस्थिरे १११

रामोऽयं दृश्यतां देवा लक्ष्मणोऽयं व्यवस्थितः।
सुग्रीवो रविपुत्रोऽयं वायुपुत्रोऽयमास्थितः ११२

अङ्गदाद्या इमे सर्वे इत्यूचुस्ते दिवौकसः।
गन्धामोदितदिक्पाला भ्रमरालिपदानुसा ११३

देवस्त्रीकरनिर्मुक्ता राममूर्धनि शोभिता।
पपात पुष्पवृष्टिस्तु लक्ष्मणस्य च मूर्धनि ११४

ततो ब्रह्मा समागत्य हंसयानेन राघवम्।
अमोघाख्येन स्तोत्रेण स्तुत्वा राममवोचत ११५

ब्रह्मोवाच।
त्वं विष्णुरादिर्भूतानामनन्तो ज्ञानदृक्प्रभुः।
त्वमेव शाश्वतं ब्रह्म वेदान्ते विदितं परम् ११६

त्वया यदद्य निहतो रावणो लोकरावणः।
तदाश्रु सर्वलोकानां देवानां कर्म साधितम् ११७

इत्युक्ते पद्मयोनौ तु शङ्करः प्रीतिमास्थितः।
प्रणम्य रामं तस्मै तं भूयो दशरथं नृपम् ११८

दर्शयित्वा गतो देवः सीता शुद्धेति कीर्तयन्।
ततो बाहुबलप्राप्तं विमानं पुष्पकं शुभम् ११९

पूतामारोप्य सीतां तामादिष्टः पवनात्मजः।
ततस्तु जानकीं देवीं विशोकां भूषणान्विताम् १२०

वन्दितां वानरेन्द्रै स्तु सार्धं भ्राता महाबलः।
प्रतिष्ठाप्य महादेवं सेतुमध्ये स राघवः १२१

लब्धवान् परमां भक्तिं शिवे शम्भोरनुग्रहात्।
रामेश्वर इति ख्यातो महादेवः पिनाकधृक् १२२

तस्य दर्शनमात्रेण सर्वहत्यां व्यपोहति।
रामस्तीर्णप्रतिज्ञोऽसौ भरतासक्तमानसः १२३

ततोऽयोध्यां पुरीं दिव्यां गत्वा तस्यां द्विजोत्तमैः।
अभिषिक्तो वसिष्ठाद्यैर्भरतेन प्रसादितः।
अकरोद्धर्मतो राज्यं चिरं रामः प्रतापवान् १२४

यज्ञादिकं कर्म निजं च कृत्वा।
पौरैस्तु रामो दिवमारुरोह ॥
राजन्मया ते कथितं समासतो।
रामस्य भूम्यां चरितं महात्मनः।
इदं सुभक्त्या पठतां च शृण्वतां।
ददाति रामः स्वपदं जगत्पतिः १२५

इति श्रीनरसिंहपुराणे रामप्रादुर्भावे द्विपञ्चाशोऽध्यायः ५२


त्रिपञ्चाशोऽध्यायः।
मार्कण्डेय उवाच।
अतः परं प्रवक्ष्यामि प्रादुर्भावद्वयं शुभम्।
तृतीयस्य तु रामस्य कृष्णस्य तु सामसतः १

पुरा ह्यसुरभारार्ता महो प्राह नृपोत्तम।
आसीनं देवमध्ये तु ब्रह्माणं कमलासनम् २

देवासुरे हता ये तु विष्णुना दैत्यदानवाः।
ते सर्वे क्षत्रिया जाताः कंसाद्याः कमलोद्भव ३

तद्भूरिभारसम्प्राप्ता सीदन्ती चतुरानन।
मम तद्भारहानिः स्याद्यथा देव तथा कुरु ४

तयैवमुक्तो ब्रह्माथ देवैः सह जगाम ह।
क्षीरोदस्योत्तरं कूलं विष्णुं भक्तिविबोधितम् ५

तत्र गत्वा जगत्स्रष्टा देवैः सार्धं जनार्दनम्।
नरसिंहं महादेवं गन्धपुष्पादिभिः क्रमात् ६

अभ्यर्च्य भक्त्या गोविन्दं वाक्पुष्पेण च केशवम्।
पूजयामास राजेन्द्र तेन तुष्टो जगत्पतिः ७

राजोवाच।
वाक्पुष्पेण कथं ब्रह्मन् ब्रह्माप्यर्चितवान् हरिम्।
तन्मे कथय विप्रेन्द्र ब्रह्मोक्तं स्तोत्रमुत्तमम् ८

मार्कण्डेय उवाच।
शृणु राजन् प्रवक्ष्यामि स्तोत्रं ब्रह्ममुखेरितम्।
सर्वपापहरं पुण्यं विष्णुतुष्टिकरं परम् ९

तमाराध्य जगन्नाथमूर्ध्वबाहुः पितामहः।
भूत्वैकाग्रमना राजन्निदं स्तोत्रमुदीरयत् १०

ब्रह्मोवाच।
नमामि देवं नरनाथमच्युतं।
नारायणं लोकगुरुं सनातनम्।
अनादिमव्यक्तमचिन्त्यमव्ययं।
वेदान्तवेद्यं पुरुषोत्तमं हरिम् ११

आनन्दरूपं परमं परात्परं।
चिदात्मकं ज्ञानवतां परां गतिम्।
सर्वात्मकं सर्वगतैकरूपं।
ध्येयास्वरूपं प्रणमामि माधवम् १२

भक्तप्रियं कान्तमतीव निर्मलं।
सुराधिपं सूरिजनैरभिष्टुतम्।
चतुर्भुजं नीरजवर्णमीश्वरं।
रथाङ्गपाणिं प्रणतोऽस्मि केशवम् १३

गदासिशङ्खाब्जकरं श्रियः पतिं।
सदाशिवं शार्ङ्गधरं रविप्रभम्।
पीताम्बरं हारविराजितोदरं।
नमामि विष्णुं सततं किरीटिनम् १४

गण्डस्थलाशक्तसुरक्तकुण्डलं।
सुदीपिताशेषदिशं निजत्विषा ॥
गन्धर्वसिद्धैरुपगीतमृग्ध्वनिं।
जनार्दनं भूतपतिं नमामि तम् १५

हत्वासुरान् पाति युगे युगे सुरान्।
स्वधर्मसंस्थान् भुवि संस्थितो हरिः।
करोति सृष्टिं जगतः क्षयं यस्तं वासुदेवं प्रणतोऽस्मि केशवम् १६

यो मत्स्यरूपेण रसातलस्थितान्।
वेदान् समाहृत्य मम प्रदत्तवान् ॥
निहत्य युद्धे मधुकैटभावभौ।
तं वेदवेद्यं प्रणतोऽस्म्यहं सदा १७

देवासुरैः क्षीरसमुद्र मध्यतो।
न्यस्तो गिरिर्येन धृतः पुरा महान्।
हिताय कौर्मं वपुरास्थितो यस्तं विष्णुमाद्यं प्रणतोऽस्मि भास्करम् १८

हत्वा हिरण्याक्षमतीव दर्पितं।
वराहरूपी भगवान् सनातनः ॥
यो भूमिमेतां सकलां समुद्धरंस्तं वेदमूर्तिं प्रणमामि सूकरम् १९

कृत्वा नृसिंहं वपुरात्मनः परं।
हिताय लोकस्य सनातनो हरिः ॥
जघान यस्तीक्ष्णनखैर्दितेः सुतं।
तं नारसिंहं पुरुषं नमामि २०

यो वामनोऽसौ भगवाञ्जनार्दनो।
बलिं बबन्ध त्रिभिरूर्जितैः पदैः ॥
जगत्त्रयं क्रम्य ददौ पुरन्दरे।
तदेवमाद्यं प्रणतोऽस्मि वामनम् २१

यः कार्तवीर्य निजधान रोषात्।
त्रिस्सप्तकृत्वः क्षितिपात्मजानपि ॥
तं जामदग्न्यं क्षितिभारनाशकं।
नतोऽस्मि विष्णुं पुरुषोत्तमं सदा २२

सेतुं महान्तं जलधौ बबन्ध यः।
सम्प्राप्य लङ्कां सगणं दशाननम्।
जघान भृत्यै जगतां सनातनं।
तं रामदेवं सततं नतोऽस्मि २३

यथा तु वाराहनृसिंहरूपैः।
कृतं त्वया देव हितं सुराणाम् ॥
तथाद्य भूमेः कुरु भारहानिं।
प्रसीद विष्णो भगवन्नमस्ते २४

श्रीमार्कण्डेय उवाच।
इति स्तुतो जगन्नाथः श्रीधरः पद्मयोनिना।
आविर्बभूव भगवाञ्शङ्खचक्रगदाधरः २५

उवाच च हृषीकेशः पद्मयोनिं सुरानपि।
स्तुत्यानयाहं सन्तुष्टः पितामह दिवौकसः २६

पठतां पापनाशाय नॄणां भक्तिमतामपि।
यतोऽस्मि प्रकटीभूतो दुर्लभोऽपि हरिः सुराः २७

देवैः सेन्द्रै ः! सरुद्रै स्तु पृथ्व्या च प्रार्थितो ह्यहम्।
पद्मयोने बदाद्य त्वं श्रुत्वा तत्करवाणि ते २८

इत्युक्ते विष्णुना प्राह ब्रह्मा लोकपितामहः।
दैत्यानां गुरुभारेण पीडितेयं मही भृशम् २९

लध्वीमिमां कारयितुं त्वयाहं पुरुषोत्तम।
तेनागतः सुरैः सार्धं नान्यदस्तीति कारणम् ३०

इत्युक्तो भगवान् प्राह गच्छध्वममराः स्वकम्।
स्थानं निरामयाः सर्वे पद्मयोनिस्तु गच्छतु ३१

देवक्यां वसुदेवाच्च अवतीर्य महीतले।
सितकृष्णे च मच्छक्ती कंसादीन् घातयिष्यतः ३२

इत्याकर्ण्य हरेर्वाक्यं हरिं नत्वा ययुः सुराः।
गतेषु त्रिदिवौकस्सु देवदेवो जनार्दनः ३३

शिष्टानां पालनार्थाय दुष्टनिग्रहणाय च।
पेषयामास ते शक्ती सितकृष्णे स्वके नृप ३४

तयोः सिता च रोहिण्यां वसुदेवाद्बभूव ह।
तद्वत्कृष्णा च देवक्यां वसुदेवाद्बभूव ह ३५

रौहिणेयोऽथ पुण्यात्मा रामनामाश्रितो महान्।
देवकीनन्दनः कृष्णस्तयोः कर्म शृणुष्व मे ३६

गोकुले बालकाले तु राक्षसी शकुनी निशि।
रामेण निहता राजन् तथा कृष्णेन पूतना ३७

धेनुकः सगणस्तालवने रामेण घातितः।
शकटश्चार्जुनौ वृक्षौ तद्वत्कृष्णेन घातितौ ३८

प्रलम्बो निधनं नीतो दैत्यो रामेण मुष्टिना।
कालियो दमितस्तोये कलिन्द्यां विषपन्नगः ३९

गोवर्द्धनश्च कृष्णेन धृतो वर्षति वासवे।
गोकुलं रक्षता तेन अरिष्टश्च निपातितः ४०

केशी च निधनं नीतो दुष्टवाजी महासुरः।
अक्रूरेण च तौ नीतौ मथुरायां महात्मना ४१

ददर्श तु निमग्नश्च रामकृष्णौ महामते।
स्वं स्वं रूपं जले तस्य अक्रूरस्य विभूतिदम् ४२

अनयोर्भावमतुलं ज्ञात्वा दृष्ट्वा च यादवाः।
बभूवुः प्रीतमनसो ह्यक्रूरश्च नृपात्मज ४३

दुर्वचश्च प्रजल्पन्तं कंसस्य रजकं ततः।
कृष्णो जघान रामश्च तद्वस्त्रं ब्रह्मणे ददौ ४४

मालाकारेण भक्त्या तु सुमनोभिः प्रपूजितौ।
ततस्तस्य वरान्दत्त्वा दुर्लभान् रामकेशवौ ४५

गच्छन्तौ राजमार्गं तु कुब्जया पूजितौ ततः।
तत्कौटिल्यमपानीय विरूपं कार्मुकं ततः ४६

बभञ्ज कृष्णो बलवान् कंसस्याकृष्य तत्क्षणात्।
रक्षपालान् जघानाथ रामस्तत्र खलान् बहून्।
हत्वा कुवलयाख्यं च गजं रामजनार्दनौ ४७

प्रविश्य रङ्गं गजदन्तपाणी।
मदानुलिप्तौ वसुदेवपुत्रौ ॥
युद्धे तु रामो निजघान मल्लं।
शैलोपमं मुष्टिकमव्ययात्मा ४८

कृष्णोऽपि चाणूरमतिप्रसिद्धं।
बलेन वीर्येण च कंसमल्लकम् ॥
युद्ध्वा तु तेनाथ चिरं जघान।
तं दैत्यमल्लं जनसंसदीशः ४९

मृतस्य मल्लस्य च मुष्टिकस्य।
मित्रं पुनः पुष्करकं स रामः।
युद्धार्थमुत्थाय कृतक्षणं तं।
मुष्टिप्रहारेण जघान वीरः ५०

कृष्णः पुनस्तान् सकलान्निहत्य।
निगृह्य कंसं विनिपात्य भूमौ।
स्वयं च देहे विनिपत्य तस्य।
हत्वा तथोर्व्यां निचकर्ष कृष्णः ५१

हते त कंसे हरिणातिक्रुद्धो।
भ्रातापि तस्यातिरुषेण चोत्थितः।
सुनाभसञ्ज्ञो बलवीर्ययुक्तो।
रामेण नीतो यमसादनं क्षणात् ५२

तौ वन्द्य मातापितरौ सुहृष्टौ।
जनैः समस्तैर्यदुभिः सुसंवृतौ।
कृत्वा नृपं चोग्रसेनं यदूनां।
सभां सुधर्मां ददतुर्महेन्द्री म् ५३

सर्वज्ञभावावपि रामकृष्णौ।
सम्प्राप्य सान्दीपनितोऽस्त्रविद्याम्।
गुरोः कृते पञ्चजनं निहत्य।
यमं च जित्वा गुरवे सुतं ददौ ५४

निहत्य रामो मगधेश्वरस्य।
बलं समस्तं बहुशः समागतम्।
दिव्यास्त्रपूरैरमराविमावुभौ।
शुभां पुरीं चक्रतुः सागरान्ते ५५

तस्यां विधायाथ जनस्य वासं।
हत्वा शृगालं हरिरव्ययात्मा ॥
दग्ध्वा महान्तं यवनं ह्युपायाद्वरं च दत्त्वा नृपतेर्जगाम ५६

रामोऽथ संशान्तसमस्तविग्रहः।
सम्प्राप्य नन्दस्य पुनः स गोकुलम् ॥
वृन्दावने गोपजनैः सुभाषितः।
सीरेण रामो यमुनां चकर्ष ५७

सम्प्राप्य भार्याम्मथ रेवतीं च।
रेमे तया द्वारवतीं स लाङ्गली ॥
क्षात्रेण सम्प्राप्य तदा स रुक्मिणीं।
कृष्णोऽपि रेमे पुरुषः पुराणः ५८

द्यूते कलिङ्गराजस्य दन्तानुत्पाट्य लाङ्गली ॥
जघानाष्टापदेनैव रुक्मिणं चानृतान्वितम् ५९

कृष्णः प्राग्ज्योतिषोदैत्यान् हयग्रीवादिकान् बहून्।
हत्वा तु नरकं चापि जग्राह च महद्घनम् ६०

अदित्यै कुण्डले दत्त्वा जित्वेन्द्रं दैवतैः सह ॥
गृहीत्वा पारिजातं तु ततो द्वारावतीं पुरीम् ६१

कुरुभिश्च धृतं साम्बं राम एको महाबलः।
कुरूणां भयमुत्पाद्य मोचयामास वीर्यवान् ६२

बाणबाहुवनं छिन्नं कृष्णेन युधि धीमता।
रामेण तद्बलं नीतं क्षयं कोटिगुणं क्षणात् ६३

देवापकारी रामेण निहतो वानरो महान्।
ततोऽर्जुनस्य साहाय्यं कुर्वता कंसशत्रुणा ६४

सर्वभूतवधाद्रा जन् भुवो भारोऽवरोपितः ॥
तीर्थयात्रा कृता तद्वद्रा मेण जगतः कृते ६५

रामेण निहता ये तु तान्न सङ्ख्यातुमुत्सहे।
एवं तौ रामकृष्णौ तु कृत्वा दुष्टवधं नृप ६६

अवतार्य भुवो भारं जग्मतुः स्वेच्छया दिवम्।
इत्येतौ कथितौ दिव्यौ प्रादुर्भावौ मया तव।
सङ्क्षेपाद्रा मकृष्णस्य काल्क्यं शृणु ममाधुना ६७

इत्थं हि शक्ती सितकृष्णरूपे।
हरेरनन्तस्य महाबलाढ्ये।
कृत्वा तु भूमेर्नृप भारहानिं।
पुनश्च विष्णुं प्रतिजग्मतुस्ते ६८

इति श्रीनरसिंहपुराणे कृष्णप्रादुर्भावोनाम त्रिपञ्चाशोऽध्यायः ५३


चतुःपञ्चाशोऽध्यायः।
मार्कण्डेय उवाच।
अतः परं प्रवक्ष्यामि शृणु राजन् समाहितः।
प्रादुर्भावं हरेः पुण्यं कल्क्याख्यं पापनाशनम् १

कलिकालेन राजेन्द्र नष्टे धर्मे महीतले।
वृद्धिङ्गते तथा पापे व्याधिसम्पीडिते जने २

देवैः सम्प्रार्थितो विष्णुः क्षीराब्धौ स्तुतिपूर्वकम्।
साम्भलाख्ये महाग्रामे नानाजनसमाकुले ३

नाम्ना विष्णुयशः पुत्रः कल्की राजा भविष्यति।
अश्वमारुह्य खङ्गेन म्लेच्छानुत्सादयिष्यति ४

म्लेच्छान् समस्तान् क्षितिनाशभूतान्।
हत्वा स कल्की पुरुषोत्तमांशः ॥
कृत्वा च यागं बहुकाञ्चनाख्यं।
संस्थाप्य धर्मे दिवमारुरोह ५

दशावताराः कथितास्तवैव।
हरेर्मया पार्थिव पापहन्तुः ॥
इमं सदा यस्तु नृसिंहभक्तः।
शृणोति नित्यं स तु याति विष्णुम् ६

राजोवाच।
तव प्रसादाद्विप्रेन्द्र प्रादुर्भावाः श्रुता मया।
नारायणस्य देवस्य शृण्वतां कल्मषापहाः ७

कलिं विस्तरतो ब्रूहि त्वं हि सर्वविदां वरः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा श्च मुनिसत्तम ८

किमाहाराः किमाचाराः भविष्यन्ति कलौ युगे।
सूत उवाच।
शृणुध्वमृषयः सर्वे भरद्वाजेन संयुताः ९

सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते।
तस्मात्कलिर्महाघोरः सरवपापस्य साधकः १०

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः।
घोरे कलियुगे प्राप्ते द्विजदेवपराङ्मुखाः ११

व्याजधर्मरताः सर्वे दम्भाचारपरायणाः।
असूयानिरताश्चैव वृथाहङ्कारदूषिताः १२

सर्वे सङ्क्षिप्यते सत्यं नरैः पण्डितगर्वितैः।
अहमेवाधिक इति सर्व एव वदन्ति वै १३

अधर्मलोलुपाः सर्वे तथान्येषां च निन्दकाः।
अतः स्वल्पायुषः सर्वे भविष्यन्ति कलौ युगे १४

अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विजाः।
विद्याग्रहणशून्यत्वादधर्मो वर्त्तते पुनः १५

ब्राह्मणाद्यास्तथा वर्णाः सङ्कीर्यन्ते परस्परम्।
कामक्रोधपरा मूढा वृथा सन्तापपीडिताः १६

बद्धवैरा भविष्यन्ति परस्परवधेप्सवः।
ब्राह्मणाः क्षत्रिया वैश्याः सर्वे धर्मपराङ्मुखाः १७

शूद्र तुल्या भविष्यन्ति तपस्सत्यविवर्जिताः।
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा १८

राजानो द्र व्यनिरतास्तथा लोभपरायणाः।
धर्मकञ्चुकसवीता धर्मविध्वंसकारिणः १९

घोरे कलियुगे प्राप्ते सर्वाधर्मसमन्विते।
यो योऽश्वरथनागाढ्यः स राजा भविष्यति २०

पितॄन् पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश्च कर्मसु।
पतीन् पुत्रान् वञ्चयित्वा गमिष्यन्ति स्त्रियोऽन्यतः २१

पुरुषाल्पं बहुस्त्रीकं श्वबाहुल्यं गवां क्षयः।
धनानि श्लाघनीयानि सतां वृत्तमपूजितम्।
खण्डवर्षी च पर्जन्यः पन्थानस्तस्करावृताः।
सर्वः सर्वं च जानाति वृद्धाननुपसेव्य च २२

न कश्चिदकविर्नाम सुरापा ब्रह्मवादिनः।
किङ्कराश्च भविष्यन्ति शूद्रा णां च द्विजातयः २३

द्विषन्ति पितरं पुत्रा गुरुं शिष्या द्विषन्ति च।
पतिं च वनिता द्वेष्टि कलौ घोरे समागते २४

लोभाभिभूतमनसः सर्वे दुष्कर्मशीलिनः।
परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः २५

परस्त्रीनिरताः सर्वे परद्र व्यपरायणाः।
घोरे कलियुगे प्राप्ते नरं धर्मपरायणम् २६

असूयानिरताः सर्वे उपहासं प्रकुर्वते।
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः २७

न यक्ष्यन्ति न होष्यन्ति हेतुवादैर्विकुत्सिताः।
द्विजाः कुर्वन्ति दम्भार्थं पितृयज्ञादिकाः क्रियाः २८

न पात्रेष्वेव दानानि कुर्वन्ति च नरास्तथा।
क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते २९

वघ्नन्ति च द्विजानेव धनार्थं राजकिङ्कराः।
दानयज्ञजपादीनां विक्रीणन्ते फलं द्विजाः ३०

प्रतिग्रहं प्रकुर्वन्ति चण्डालादेरपि द्विजाः।
कलेः प्रथमपादेऽपि विनिन्दन्ति हरिं नराः ३१

युगान्ते च हरेर्नाम नैव कश्चित् स्मरिष्यति।
शूद्र स्त्रीसङ्गनिरता विधवासङ्गलोलुपाः ३२

शूद्रा न्नभोगनिरता भविष्यन्ति कलौ द्विजाः।
न च द्विजातिशुशूषां न स्वधर्मप्रवर्त्तनम् ३३

करिष्यन्ति तदा शूद्रा ः! प्रव्रज्यालिङ्गिनोऽधमाः।
सुखाय परिवीताश्च जटिला भस्मधूर्धराः ३४

शूद्रा धर्मान् प्रवक्ष्यन्ति कूटबुद्धिविशारदाः।
एते चान्ये च बहवः पाषण्डा विप्रसत्तमाः ३५

ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति कलौ युगे।
गीतवाद्यरता विप्रा वेदवादपराङ्मुखाः ३६

भविष्यन्ति कलौ प्राप्ते शूद्र मार्गप्रवर्तिनः।
अल्पद्र व्या वृथालिङ्गा वृथाहङ्कारदूषिताः ३७

हर्तारो न च दातारो भविष्यन्ति कलौ युगे।
प्रतिग्रहपरा नित्यं द्विजाः सन्मार्गशीलिनः ३८

आत्मस्तुतिपराः सर्वे परनिन्दापरास्तथा।
विश्वासहीनाः पुरुषा देववेदद्विजातिषु ३९

असंश्रुतोक्तिवक्तारो द्विजद्वेपरतास्तथा।
स्वधर्मत्यागिनः सर्वे कृतघ्ना भिन्नवृत्तयः ४०

याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे।
पराववादनिरता आत्मस्तुतिपरायणाः ४१

परस्वहरणोपायचिन्तकाः सर्वदा जनाः।
अल्पाह्लादपरास्तत्र भुञ्जानाः परवेश्मनि ४२

तस्मिन्नेव दिने प्रायो देवतार्चनतत्पराः।
तत्रैव निन्दानिरता भुक्त्वा चैकत्र संस्थिताः ४३

द्विजाश्च क्षत्रिया वैश्याः शूद्रा श्चान्ये च जातयः।
अत्यन्तकामिनश्चैव सङ्कीर्यन्ते परस्परम् ४४

न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा।
न भार्या न पतिश्चैव भविता तत्र सङ्करे ४५

शूद्र वृत्त्यैव जीवन्ति द्विजा नरकभोगिनः।
अनावृष्टिभयप्राया गगनासक्तदृष्टयः ४६

भविष्यन्ति जनाः सर्वे तदा क्षुद्भयकातराः।
अन्नोपाधिनिमित्तेन शिष्यान् गृह्णन्ति भिक्षवः ४७

उभाभ्यामपि पाणिभ्यां शिरःकण्डूयनं स्त्रियः।
कुर्वन्त्यो गुरुभतृणामाज्ञा भेत्स्यन्ति ता हिताः ४८

यदा यदा न यक्ष्यन्ति न होष्यन्ति द्विजातयः।
तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ४९

सर्वधर्मेषु नष्टेषु याति निःश्रीकतां जगत्।
सूत उवाच।
एवं कलेः स्वरूपं तत्कथितं विप्रसत्तमाः ५०

हरिभक्तिपरानेव न कलिर्बाधते द्विजाः।
तपः परं कृतयुगे त्रेतायां ध्यानमेव हि ५१

द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे।
यतते दशभिर्वर्षैस्त्रेतायां हयनेन तत् ५२

द्वापरे तच्च मासेन अहोरात्रेण तत्कलौ।
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ५३

यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम्।
समस्तजगदाधारं परमार्थस्वरूपिणम् ५४

घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति।
अहोऽतीव महाभाग्याः सकृद्ये केशवार्चकाः ५५

घोरे कलियुगे प्राप्ते सर्वकर्मबहिष्कृते।
न्यूनातिरिक्ता न स्यात्कलौ वेदोक्तकर्मणाम् ५६

हरिस्मरणमेवात्र सम्पूर्णफलदायकम्।
हरे केशव गोविन्द वासुदेव जगन्मय ५७

जनार्दन जगद्धाम पीताम्बरधराच्युत।
इतीरयन्ति ये नित्यं न हि तान् बाधते कलिः ५८

अहो हरिपरा ये तु कलौ सर्वभयङ्करे।
ते सभाग्या महात्मानस्तत्सङ्गतिरता अपि ५९

हरिनामपरा ये च हरिकीर्त्तनतत्पराः।
हरिपूजारता ये च ते कृतार्था न संशयः ६०

इत्येतद्वः समाख्यातं सर्वदुःखनिवारणम्।
समस्तपुण्यफलदं कलौ विष्णोः प्रकीर्त्तनम् ६१

इति श्रीनरसिंहपुराणे कलिलक्षणकीर्त्तनं नाम।
चतुःपञ्चाशोऽध्यायः ५४


पञ्चपञ्चाशोऽध्यायः।
राजोवाच।
मार्कण्डेय कथं शुक्रः पुरा बलिमखे गुरुः।
वामनेन स विद्धाक्षः स्तुत्वा तल्लब्धवान् कथम् १

मार्कण्डेय उवाच।
वामनेन स विद्धाक्षो बहुतीर्थेषु भार्गवः।
जाह्नवीसलिले स्थित्वा देवमभ्यर्च्य वामनम् २

ऊर्ध्वबाहुः स देवेशं शङ्खचक्रगदाधरम्।
हृदि सञ्चिन्त्य तुष्टाव नरसिंहं सनातनम् ३

शुक्र उवाच।
नमामि देवं विश्वेशं वामनं विष्णुरूपिणम्।
बलिदर्पहरं शान्तं शाश्वतं पुरुषोत्तमम् ४

वीरं शूरं महादेवं शङ्खचक्रगदाधरम्।
विशुद्धं ज्ञानसम्पन्नं नमामि हरिमच्युतम् ५

सर्वशक्तिमयं देवं सर्वगं सर्वभावनम्।
अनादिमजरं नित्यं नमामि गरुडध्वजम् ६

सुरासुरैर्भक्तिमद्भिः स्तुतो नारायणः सदा।
पूजितं च हृषिकेशं तं नमामि जगद्गुरुम् ७

हृदि सङ्कल्प्य यद्रू पं ध्यायन्ति यतयः सदा।
ज्योतीरूपमनौपम्यं नरसिंहं नमाम्यहम् ८

न जानन्ति परं रूपं ब्रह्माद्या देवतागणाः।
यस्यावताररूपाणि समर्चन्ति नमामि तम् ९

एतत्समस्तं येनादौ सृष्टं दुष्टवधात्पुनः।
त्रातं यत्र जगल्लीनं तं नमामि जनार्दनम् १०

भक्तैरभ्यर्चितो यस्तु नित्यं भक्तप्रियो हि यः।
तं देवममलं दिव्यं प्रणमामि जगत्पतिम् ११

दुर्लभं चापि भक्तानां यः प्रयच्छति तोषितः।
तं सर्वसाक्षिणं विष्णुं प्रणमामि सनातनम् १२

श्रीमार्कण्डेय उवाच।
इति स्तुतो जगन्नाथः पुरा शुक्रेण पार्थिव।
प्रादुर्बभूव तस्याग्रे शङ्खचक्रगदाधरः १३

उवाच शुक्रमेकाक्षं देवो नारायणस्तदा।
किमर्थं जाह्नवीतीरे स्तुतोऽहं तद्व्रीहि मे १४

शुक्र उवाच।
देवदेव मया पूर्वमपराधो महान् कृतः।
तद्दोषस्यापनुत्त्यर्थं स्तुतवानस्मि साम्प्रतम् १५

श्रीभगवानुवाच।
ममापराधान्नयनं नष्टमेकं तवाधुना।
सन्तुष्टोऽस्मि ततः शुक्र स्तोत्रेणानेन ते मुने १६

इत्युक्त्वा देवदेवेशस्तं मुनिं प्रहसन्निव।
पाञ्चजन्येन तच्चक्षुः पस्पर्श च जनार्दनः १७

स्पृष्टमात्रे तु शङ्खेन देवदेवेन शार्ङ्गिणा।
बभूव निर्मलं चक्षुः पूर्ववन्नृपसत्तम १८

एवं दत्त्वा मुनेश्चक्षुः पूजितस्तेन माधवः।
जगामादर्शनं सद्यः शुक्रोऽपि स्वाश्रमं ययौ १९

इत्येतदुक्तं मुनिना महात्मना।
प्राप्तं पुरा देववरप्रसादात् ॥
शुक्रेण किं ते कथयामि राजन्।
पुनश्च मां पृच्छ मनोरथान्तः २०

इति नरसिंहपुराणे शुक्रवरप्रदानो नाम पञ्चपञ्चाशोऽध्यायः ५५


षट्पञ्चाशोऽध्यायः।
राजोवाच।
साम्प्रतं देवदेवस्य नरसिंहस्य शार्ङ्गिणः।
श्रोतुमिच्छामि सकलं प्रतिष्ठायाः परं विधिम् १

श्रीमार्कण्डेय उवाच।
प्रतिष्ठाया विधिं विष्णोर्देवदेवस्य चक्रिणः।
प्रवक्ष्यामि यथाशास्त्रं शृण भूपाल पुण्यपदम् २

कर्तुं प्रतिष्ठां यश्चात्र विष्णोरिच्छति पार्थिव।
स पूर्वं स्थिरनक्षत्रे भूमिशोधनमारभेत् ३

खात्वा पुरुषमात्रं तु बाहुद्वयमथापि वा।
पूरयेच्छुद्धमृद्भिस्तु जलाक्तैः शर्करान्वितैः ४

अधिष्ठानं ततो बुद्ध्वा पाषाणोष्टकमृण्मयम्।
प्रासादं कारयेत्तत्र वास्तुविद्याविदा नृप ५

चतुरस्रं सूत्रमार्गे चतुःकोणं समन्ततः।
शिलाभित्तिकमुत्कृष्टं तदलाभेष्टकामयम् ६

तदलाभे तु मृत्कुड्यं पूर्वद्वारं सुशोभनम्।
जातिकाष्ठमयैः स्तम्भैरतल्लग्नैः कलदान्वितैः ७

उत्पलैः पद्मपत्रैश्च पातितैश्चित्रशिल्पिभिः।
इत्थ तु कारयित्वा हि हरेर्वेश्म सुशोभनम् ८

पूर्वद्वारं नृपश्रेष्ठ सुकपाटं सुचित्रितम्।
अतिवृद्धातिबालैस्तु कारयेन्नाकृतिं हरेः ९

कुष्ठाद्युपहतैर्वापि अन्यैर्वा दीर्घरोगिभिः।
विश्वकर्मोक्तमार्गेण पुराणोक्तां नृपोत्तम १०

कारयेत्प्रतिमां दिव्यां पुष्टाङ्गेन तु धीमता।
सौम्याननां सुश्रवणां सुनासां च सुलोचनाम् ११

नाधोदृष्टिं नोर्ध्वदृष्टिं तिर्यग्दृष्टिं न कारयेत्।
कारयेत् समदृष्टिं तु पद्मपत्रायतेक्षणाम् १२

सुभ्रुवं सुललाटां च सुकपोलां समां शुभाम्।
बिम्बोष्ठीं सुष्ठुचिबुकां सुग्रीवां कारयेद्बुधः १३

उपबाहुकरे देयं दक्षिणे चक्रमर्कवत्।
नाभिसंलग्नदिव्यारं परितो नेमिसंयुतम् १४

वामपार्श्वेत्युपभुजे देयं शङ्खं शशिप्रभम्।
पाञ्चजन्यमिति ख्यातं दैत्यदर्पहरं शुभम् १५

हारार्पितवरां दिव्यां कण्ठे त्रिवलिसंयुताम्।
सुस्तनीं चारुहृदयां सुजठरां समां शुभाम् १६

कटिलग्नवामकरां पद्मलग्नां च दक्षिणाम्।
केयूरबाहुकां दिव्यां सुसाभिवलिभङ्गिकाम् १७

सुकटीं च सुजङ्घोरूं वस्त्रमेखलभूषिताम्।
एवं तां कारयित्वा तु प्रतिमां राजसत्तम १८

सुवर्णवस्त्रदानेन तत्कतॄन् पूज्य सत्तम।
पूर्वपक्षे शुभे काले प्रतिमां स्थापयेद्बुधः १९

प्रासादस्याग्रतः कृत्वा यागमण्डपमुत्तमम्।
चतुर्द्वारं चतुर्दिक्षु चतुर्भिस्तोरणैर्युतम् २०

सप्तधान्याङ्कुरैर्युक्तं शङ्खभेरीनिनादितम्।
प्रतिमां क्षाल्य विद्वद्भिः षट्त्रिंशद्भिर्घटोदकैः २१

प्रविश्य मण्डपे तस्मिन् ब्राह्मनैर्वेदपारगैः।
तत्रापि स्नापयेत्पश्चात् पञ्चगव्यैः पृथक्पृथक् २२

तथोष्णवारिणा स्नाप्य पुनः शीतोदकेन च।
हरिद्रा कुङ्कुमाद्यैस्तु चन्दनैश्चोपलेपयेत् २३

पुष्पमाल्यैरलङ्कृत्य वस्त्रैसच्छाद्य तां पुनः।
पुण्याहं तत्र कृत्वा तु ऋग्भिस्ता प्रोक्ष्य वारिभिः २४

स्नात्वा तां ब्राह्मणैर्भक्तैः शङ्खभेरीस्वनैर्युतम्।
वासयेत्सप्तरात्रं तु त्रिरात्रं वा नदीजले २५

हृदे तु विमले शुद्धे तडागे वापि रक्षयेत्।
अधिवास्य जले देवमेवं पार्थिवपुङ्ङ्गव २६

तत उत्थाप्य विप्रैस्तु स्थाप्यालङ्कृत्य पूर्ववत्।
ततो भेरीनिनादैस्तु वेदघोषेश्च केशवम् २७

आनीय मण्डपे शुद्धे पद्माकारविनिर्मिते।
कृत्वा पुनस्ततः स्नाप्य विष्णुभक्तरलक्रियात् २८

ब्राह्मणान् भोजयित्वा तु विधिवत् षोडशर्त्विजः।
चतुर्भिरध्ययनं कार्यं चतुर्भिः पालनं तथा २९

चतुर्भिस्तु चतुर्दिक्षु होमः कार्यो विचक्षणैः।
पुष्पाक्षतान्नमिश्रेण दद्याद्दिक्षु बलीन् नृप ३०

एकेन दापयेत्तेषामिन्द्रा द्याः प्रीयन्तामिति।
प्रत्येकं सायंसन्ध्यायां मध्यरात्रे तथोषसि ३१

उदिते च ततो दद्यान्मातृविप्रगणाय वा।
जपन् पुरुषसूक्तं तु एकतस्तु पुनः पुनः ३२

एकतो मनसा राजन् विष्णोर्मन्दिरमध्यगः।
अहोरात्रोषितो भूत्वा यजमानो द्विजैः सह ३३

प्रविश्य प्रतिमाद्वारं शुभलग्ने विचक्षणः।
देवसूक्तं द्विजैः सःर्धमुपस्थाप्य च तां दढम् ३४

संस्थाप्य विष्णुसूक्तेन पवमानेन वा पुनः।
प्रोक्षयेद्देवदेवेशमाचार्यः कुशवारिणा ३५

तदग्रे चाग्निमाधाय सम्परिस्तीर्य यत्नतः।
जुहुयाज्जातकर्मादि गायत्र्! या वैष्णवेन तु ३६

चतुर्भिराज्याहुतिभिरेकामेकां क्रियां प्रति।
आचार्यस्तु स्वयं कुर्यादस्त्रैर्बन्धं च कारयेत् ३७

त्रातारमिति चैन्द्र यां! तु कुर्यादाज्यप्रणुन्नकम्।
परोदिवेति याम्यायां वारुण्यां निषसेति च ३८

या ते रुद्रे ति सौम्यां तु हुवेदाज्याहुतीर्नृप।
परोमात्रेति सूक्ताभ्यां सर्वत्राज्याहुतीर्नृप ३९

हुत्वा जपेच्च विधिवद्यदस्येति च स्विष्टकृत्।
ततः स दक्षिणां दद्यादृत्विग्भ्यश्च यथार्हतः ४०

वस्त्र द्वे कुण्डले चैव गुरवे चाङ्गुलीयकम्।
यजमानस्ततो दद्याद्विभवे सति काञ्चनम् ४१

कलशाष्टसहस्रेण कलशाष्टशतेन वा।
एकविंशतिना वापि स्नपनं कारयेद् बुधः ४२

शङ्खदुन्दुभिनिर्घोषर्वेदघोषैश्च मङ्गलैः।
यवव्रीहियुतैः पात्रैरुद्धृतैरुच्छ्रिताङ्कुरैः ४३

दीपयष्टिपताकाभिश्छत्रचामरतोरणैः।
स्नपनं कारयित्वा तु यथाविभवस्तरेम् ४४

तत्रापि दद्याद्विप्रेभ्यो यथाशक्त्या तु दक्षिणाम्।
एवं यः कुरुते राजन् प्रतिष्ठां देवचक्रिणः ४५

सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः।
विमानेन विचित्रेण त्रिस्सतकुलजैर्वृतः ४६

पूजां सम्प्राय महतीमिन्द्र लोकादिषु क्रमात्।
बान्धवांस्तेषु संस्थाप्य विष्णुलोके महीयते ४७

तत्रैव ज्ञानमासाद्य वैष्णवं पदमाप्नुयात्।
प्रतिष्ठाविधिरयं विष्णोर्मयैवं ते प्रकीर्तितः ४८

पठतां शृण्वतां चैव सर्वपापप्रणाशनः ४९

यदा नृसिंहं नरानाथ भूमौ।
संस्थाप्य विष्णुं विधिना ह्यनेन।
तदा ह्यसौ याति हरेः पदं तु।
यत्र स्थितोऽयं न निवर्तते पुनः ५०

इति श्रीनरसिंहपुराणे प्रतिष्ठाविधिर्नाम षट्पञ्चाशोऽध्यायः ५६


सप्तपञ्चाशोऽध्यायः।
राजोवाच।
भक्तानां लक्षणं ब्रूहि नरसिंहस्य मे द्विज।
येषां सङ्गतिमात्रेण विष्णुलोको न दूरतः १

श्रीमार्कण्डेय उवाच।
विष्णुभक्ता महोत्साहा विष्ण्वर्चनविधौ सदा।
संयता धर्मसम्पन्नाः सर्वार्थान् साधयन्ति ते २

परोपकारनिरता गुरुशुश्रूषणे रताः।
वर्णाश्रमाचारयुताः सर्वेषां सुप्रियंवदाः ३

वेदवेदार्थनत्त्वज्ञा गतरोषा गतस्पृहाः।
शान्ताश्च सौम्यवदना नित्यं धर्मपरायणाः ४

हितं मितं च वक्तारः काले शक्त्यातिथिप्रियाः।
दम्भमायाविनिर्मुक्ताः कामक्रोधविवर्जिताः ५

ईदृग्विधा नरा धीराः क्षमावन्तो बहुश्रुताः।
विष्णुकीर्तनसञ्जातहर्षा रोमाञ्चिता जनाः ६

विष्ण्वर्चापूजने यत्तास्तत्कथायां कृतादराः।
ईदृग्विधा महात्मानो विष्णुभक्ताः प्रकीर्तिताः ७

राजोवाच।
ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रति।
इति प्रोक्तं त्वया विद्वन् भृगुवर्यं गुरो मम ८

वर्णानामाश्रमाणां च धर्म मे वक्तुमर्हसि।
यैः कृतैस्तुष्यते देवो नरसिंहः सनातनः ९

श्रीमार्कण्डेय उवाच।
अत्र ते वर्णयिष्यामि पुरावृत्तमनुत्तमम्।
मुनिभिः सह संवादं हारीतस्य महात्मनः १०

हारीतं धर्मतत्त्वज्ञमासीनं बहुपाठकम्।
प्रणिपत्याब्रुवन् सर्वे मुनयो धर्मकाङ्क्षिणः ११

भगवन् सर्वधर्मज्ञ सर्वधर्मप्रवर्त्तक।
वर्णानामाश्रमाणां च धर्मं प्रब्रूहि शाश्वतम् १२

हारीत उवाच।
नारायणः पुरा देवो जगत्स्रष्टा जलोपरि।
सुष्वाप भोगिपर्यङ्के शयने तु श्रिया सह १३

तस्य सुप्तस्य नाभौ तु दिव्यं पद्ममभूत् किल।
तन्मध्ये चाभवद्ब्रह्मा वेदवेदाङ्गभूषणः १४

स चोक्तस्तेन देवेन ब्राह्मणान्मुखतोऽसृजत्।
असृजत्क्षत्रियान् वाह्वोर्वैश्यांस्तु ऊरुतोऽसृजत् १५

शूद्रा स्तु पादतः सृष्टास्तेषां चैवानुपूर्वशः।
धर्मशास्त्रं च मर्यादां प्रोवाच कमलोद्भवः १६

तद्वत्सर्वं प्रवक्ष्यामि शृणुत द्विजसत्तमाः।
धन्यं यशस्यमायुष्यं स्वर्गमोक्षफलप्रदम् १७

ब्राह्मण्यां ब्राह्मणेनैव चोत्पन्नो ब्राह्मणः स्मृतः।
तस्य धर्मं प्रवक्ष्यामि तद्योग्यं देशमेव च १८

कृष्णसारो मृगो यत्र स्वभावात्तु प्रवर्त्तते।
तस्मिन् देशे वसेर्धर्मं कुरु ब्राह्माणपुङ्गव १९

षट्कर्माणि च यान्याहुर्ब्राह्मणस्य मनीषिणः।
तैरेव सततं यस्तु प्रवृत्तः सुखमेधते २०

अध्ययनाध्यापनं च यजनं यजनं तथा।
दानं प्रतिग्रहश्चेति कर्मषट्कमिहोच्यते २१

अध्यापनं च त्रिविधं धर्मस्यार्थस्य कारणम्।
शुश्रूषाकारणं चैव त्रिविधं परिकीर्तितम् २२

योग्यानध्यापयेच्छिष्यान् याज्यानपि च याजयेत्।
विधिना प्रतिगृह्णंश्च गृहधर्मप्रसिद्धये २३

वेदमेवाभ्यसेन्नित्यं शुभे देशे समाहितः।
नित्यन्नैमित्तिकं काम्यं कर्म कुर्यात् प्रयत्नतः २४

गुरुशुश्रूषणं चैव यथान्यायमतन्द्रि तः।
सायं प्रातरुपासीत विधिनाग्निं द्विजोत्तमः २५

कृतस्नानस्तु कुर्वीत वैश्वदेवं दिने दिने।
अतिथिं चागतं भक्तया पूजयेच्छक्तितो गृही २६

अन्यानथागतान् दृष्टवा पूजयेदविरोधतः।
स्वदारनिरतो नित्यं परदारविवर्जितः २७

सत्यवादी जितक्रोधः स्वधर्मनिरतो भवेत्।
स्वकर्मणि च सम्प्राप्ते प्रमादं नैव कारयेत् २८

प्रियां हितां वदेद्वाचं परलोकाविरोधिनीम्।
एवं धर्मः समुद्दिष्टो ब्राह्मणस्य समासतः।
धर्ममेवं तु यः कुर्यात्स याति ब्रह्मणः पदम् २९

इत्येष धर्मः कथितो मया वै।
विप्रस्य विप्रा अखिलाधहारी।
वदामि राजादिजनस्य धर्मं।
पृथक्पृथग्बोधत विप्रवर्याः ३०

इति श्रीनरसिंहपुराणे ब्राह्मणधर्मकथनं नाम।
सप्तपञ्चाशोऽध्यायः ५७


अष्टपञ्चाशोऽध्यायः।
हारीत उवाच।
क्षत्त्रादीनां प्रवक्ष्यामि यथावदनुपूर्वशः।
येन येन प्रवर्तन्ते विधिना क्षत्त्रियादयः १

राज्यस्थः क्षत्त्रियश्चैव प्रजा धर्मेण पालयेत्।
कुर्यादध्ययनं सम्यग्यजेद्यज्ञान् यथाविधि २

दद्याद्दानं द्विजाग्र्येभ्यो धर्मबुद्धिसमन्वितः।
स्वदारनिरतो नित्यं परदारविवर्जितः ३

नीतिशास्त्रार्थकुशलः सन्धिविग्रहतत्त्ववित्।
देवब्राह्मणभक्तश्च पितृकार्यपरस्तथा ४

धर्मेणैव जयं काङ्क्षेदधर्मं परिवर्जयेत्।
उत्तमां गतिमाप्नोति क्षत्रियोऽथैवमाचरन् ५

गोरक्षाकृषिवाणिज्यं कुर्याद्वैश्यो यथाविधि।
दानधर्मं यथाशक्त्या गुरुशुश्रूषणं तथा ६

लोभदम्भविनिर्मुक्तः सत्यवागनसूयकः।
स्वदारनिरतो दान्तः परदारविवर्जितः ७

धनैर्विप्रान् समर्चेत यज्ञकाले त्वारान्वितः।
यज्ञाध्ययनदानानि कुर्यान्नित्यमतन्द्रि तः ८

पितृकार्यं च तत्काले नरसिंहार्चनं तथा।
एतद्वैश्यस्य कर्मोक्तं स्वधर्ममनुतिष्ठतः ९

एतदासेवमानस्तु स स्वर्गी स्यान्न संशयः।
वर्णत्रयस्य शुश्रूषां कुर्याच्छूद्र ः! प्रयत्नतः १०

दासवद्ब्राह्मणानां च विशेषेण समाचरेत्।
अयाचितं प्रदातव्यं कृषिं वृत्त्यर्थमाचरेत् ११

ग्रहाणां मासिकं कार्यं पूजनं न्यायधर्मतः।
धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टमार्जनम् १२

स्वदारेषु रतिं कुर्यात् परदारविवर्जितः।
पुराणश्रवणं विप्रान्नरसिंहस्य पूजनम् १३

तथा विप्रनमस्कारं कार्यं श्रद्धासमन्वितम्।
सत्यसम्भाषणं चैव रागद्वेषविवर्जनम् १४

इत्थं कुर्वन् सदा शूद्रो मनोवाक्कायकर्मभिः।
स्थानमैन्द्र मवाप्नोति नष्टपापस्तु पुण्यभाक् १५

वर्णेषु धर्मा विविधा मयोक्ता।
यथाक्रमं ब्राह्मणवर्यसाधिताः।
शृणुघ्वमत्राश्रमधर्ममाद्यं।
मयोच्यमानं क्रमशो मुनीन्द्रा ः! १६

हारीत उवाच।
उपनीतो माणवको वसेद्गुरुकुले सदा।
गुरोः प्रियहितं कार्यं कर्मणा मनसा गिरा १७

ब्रह्मचर्यमधश्शय्या तथा वह्नेरुपासनम्।
उदकुम्भं गुरोर्दद्यात्तथा चेन्धनमाहरेत् १८

कुर्यादघ्ययनं पूर्वं ब्रह्मचारी यथाविधि।
विधिं हित्वा प्रकुर्वाणो न स्वाध्यायफलं लभेत् १९

यत्किञ्चित्कुरुते कर्म विधिं हित्वा निरात्मकः।
न तत्फलमवाप्नोति कुर्वाणो विधिविच्युतः २०

तस्मादेवं व्रतानीह चरेत्स्वाध्यायसिद्धये।
शौचाचारमशेषं तु शिक्षयेद्गुरुसन्निधौ २१

अजिनं दण्डकाष्ठं च मेखलां चोपवीतकम्।
धारयेदप्रमत्तस्तु ब्रह्मचारी समाहितः २२

सायं प्रातश्चरेद्भैक्षं भोजनं संयतेन्द्रि यः।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु २३

अलाभे त्वन्यगेहानां पूर्वपूर्वं च वर्जयेत्।
आचम्य प्रयतो नित्यमश्नीयाद्गुर्वनुज्ञया २४

शयनात् पूर्वमुत्थाय दर्भमृद्दन्तशोधनम्।
वस्त्रादिकमथान्यच्च गुरवे प्रतिपादयेत् २५

स्नाने कृते गुरौ पश्चात्स्नानं कुर्वीत यत्नवान्।
ब्रह्मचारी व्रती नित्यं न कुर्याद्दन्तशोधनम् २६

छत्रोपानहमभ्यङ्गं गन्धमाल्यानि वर्जयेत्।
नृत्यगीतकथालापं मैथुनं च विशेषतः २७

वर्जयेन्मधु मांसं च रसास्वादं तथा स्त्रियः।
कामं क्रोधं च लोभं च परिवादं तथा नृणाम् २८

स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च।
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् २९

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः।
स्नात्वार्कमर्चयित्वाग्निं पुनर्मामित्यृचं जपेत् ३०

आस्तिकोऽहरहः सन्ध्यां त्रिकालं संयतेन्द्रि यः।
उपासीत यथान्यायं ब्रह्मचारिव्रते स्थितः ३१

अभिवाद्य गुरोः पादौ सन्ध्याकर्मावसानतः।
यथायोगं प्रकुर्वीत मातापित्रोस्तु भक्तितः ३२

एतेषु त्रिषु तुष्टेषु तुष्टाः स्युः सर्वदेवताः।
तदेषां शासने तिष्ठेद्ब्रह्मचारी विमत्सरः ३३

अधीत्य चतुरो वेदान् वेदौ वेदमथापि वा।
गुरवे दक्षिणां दत्त्वा तदा स्वस्वेच्छया वसेत् ३४

विरक्तः प्रव्रजेद्विद्वान् संरक्तस्तु गृही भवेत्।
सरागो नरकं याति प्रव्रजन् हि ध्रवं द्विजः ३५

यस्यैतानि सुशुद्धानि जिह्वोपस्थोदरं गिरः।
सन्न्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ३६

एवं यो विधिमास्थाय नयेत्कालमतन्द्रि तः।
तेन भूयः प्रजायेत ब्रह्मचारी दृढव्रतः ३७

यो ब्रह्मचारी विधिमेतमास्थितश्चरेत्पृथिव्यां गुरुसेवने रतः ॥
सम्प्राप्य विद्यामपि दुर्लभां तां।
फलं हि तस्याः सकलं हि विन्दति ३८

हारीत उवाच।
गृहीतवेदाध्ययनः श्रुतिशास्त्रार्थतत्त्ववित्।
गुरोर्दत्तवरः सम्यक् समावर्तनमारभेत् ३९

असमाननामगोत्रां कन्यां भ्रातृयुतां शुभाम्।
सर्वावयवसंयुक्तां सद्वृत्तामुद्वहेत्ततः ४०

नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम्।
वाचालामतिलोमां च न व्यङ्गां भीमदर्शनाम् ४१

नर्क्षवृक्षनदीनाम्नीं नान्तपर्वतनामिकाम्।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ४२

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्।
तन्वोष्ठकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम् ४३

ब्राह्मेण विधिना कुर्यात्प्रशस्तेन द्विजोत्तमः।
यथायोगं तथा ह्येवं विवाहं वर्णधर्मतः ४४

उषः काले समुत्थाय कृतशौचो द्विजोत्तमः।
कुर्यात्स्नानं ततो विद्वान्दन्तधावनपूर्वकम् ४५

मुखे पर्युषिते नित्यं यतोऽपूतो भवेन्नरः।
तस्माच्छुष्कमथाद्र रं! वा भक्षयेद्दन्तधावनम् ४६

खदिरं च कदम्बं च करञ्जं च वटं तथा।
अपामार्गं च विल्व च अर्कश्चोदुम्बरस्तथा ५७

एते प्रशस्ताः कथिता दन्तधावनकर्मणि।
दन्तधावनकाष्ठं च वक्ष्यामि तत्प्रशस्तताम् ४८

सर्वे कण्टकिनः पुण्याः क्षीरिणस्तु यशस्विनः।
अष्टाङ्गुलेन मानेन तत्प्रमाणमिहोच्यते ४९

प्रादेशमात्रमथवा तेन दन्तान् विशोधयेत्।
प्रतिपद्दर्शषष्ठीषु नवम्यां चैव सत्तमाः ५०

दन्तानां काष्ठसंयोगाद् दहत्यासप्तमं कुलम्।
अलाभे दन्तकाष्ठस्य प्रतिषिद्धे च तद्दिने ५१

अपां द्वादशगण्डूषैर्मुखपैशुद्धिविधीयते।
स्नात्वां मन्त्रवदाचम्य पुनराचमनं चरेत् ५२

मन्त्रवान् प्रोक्ष्य चात्मानं प्रक्षिपेदुदकाञ्जलिम्।
आदित्येन सह प्रातर्मन्देहा नाम राक्षसाः ५३

युध्यन्ति वरदानेन ब्रह्मणोऽव्यक्तजन्मनः।
उदकाञ्जलिविक्षेपो गायत्र्! या चाभिमन्त्रितः ५४

तान् हन्ति राक्षसान् सर्वान् मन्देहान् रविवैरिणः।
ततः प्रयाति सविता ब्राह्मणै रक्षितो दिवि ५५

मरीच्याद्यैर्महाभागैः सनकाद्यैश्च योगिभिः।
तस्मान्न लङ्घयेत्सन्ध्यां सायं प्रातर्द्विजः सदा ५६

उल्लङ्घयति यो मोहात्स याति नरकं ध्रुवम्।
सायं मन्त्रवदाचम्य प्रोक्ष्य सूर्यस्य चाञ्जलिम् ५७

दत्त्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्वा विशुध्यति।
पूर्वां सन्ध्यां सनक्षत्रामुपक्रम्य यथाविधि ५८

गायत्रीमभ्यसेत्तावद्यावदृक्षाणि पश्यति।
ततस्त्वावसथं प्राप्य होमं कुर्यात्स्वयं बुधः ५९

सञ्चिन्त्य भृत्यवर्गस्य भरणार्थं विचक्षणः।
ततः शिष्यहितार्थाय स्वाध्यायं किञ्चिदाचरेत् ६०

ईश्वरं चैव रक्षार्थमभिगच्छेद्द्विजोत्तमः।
कुशपुष्पेन्धनादीनि गत्वा दूरात्समाहरेत् ६१

माध्याह्निकीं क्रियां कुर्याच्छुचौ देशे समाहितः।
विधिं स्नानस्य वक्ष्यामि समासात्पापनाशनम् ६२

स्नात्वा येन विधानेन सद्यो मुच्येत किल्बिषात्।
सुधीः स्नानार्थमादाय शुक्लां कुशतिलैः सह ६३

सुमनाश्च ततो गच्छेन्नदीं शुद्धां मनोरमाम्।
नद्यां तु विद्यमानायां न स्नायादल्पवारिषु ६४

शुचौ देशे समभ्युक्ष्य स्थापयेत्कुशमृत्तिकाम्।
मृत्तोयेन स्वकं देहमभिप्रक्षाल्य यत्नतः ६५

स्नानाच्छरीरं संशोध्य कुर्यादाचमनं बुधः।
शुभे जले प्रविश्याथ नमेद्वरुणमप्पतिम् ६६

हरिमेव स्मरंश्चिते निमज्जेच्च बहूदके।
ततः स्नानं समासाद्या अप आचम्य मन्त्रतः ६७

प्रोक्षयेद्वरुणं देवं तैर्मन्त्रैः पावमानिभिः।
कुशाग्रस्थेन तोयेन प्रोक्ष्यात्मानं प्रयत्नतः ६८

आलभेन्मृत्तिकां गात्रे इदं विष्णुरिति त्रिधा।
ततो नारायणं देवं संस्मरन् प्रविशेञ्जलम् ६९

निमज्ज्यान्तर्जले सम्यक्तिः पठेदघमर्षणम्।
स्नात्वा कुशतिलैस्तद्वद्देवर्षीन् पितृभिः सह ७०

तर्पयित्वा जलात्तस्मान्निष्क्रम्य च समाहितः।
जलतीरं समाद्य धौते शुक्ले च वाससी ७१

परिधायोत्तरीयं च न कुर्यात्केशधूननम्।
न रक्तमुल्बणं वासो न नीलं तत्प्रशस्यते ७२

मलाक्तं तु दशाहीनं वर्जयेदम्बरं बुधः।
ततः प्रक्षालयेत्पादौ मृत्तोयेन विचक्षणः ७३

त्रिः पिबेद्वीक्षितं तोयमास्यं द्विः परिमार्जयेत्।
पादौ शिरसि चाभ्युक्षेत्त्रिराचम्य तु संस्पृशेत् ७४

अङ्गुष्ठेन प्रदेशिन्या नासिकां समुपस्पृशेत्।
अङ्गुष्ठकनिष्ठिकाभ्यां नाभौ हृदि तलेन च ७५

शिरश्चाङ्गुलिभिः सर्वैर्बाहुं चैव ततः स्पृशेत्।
अनेन विधिनाऽऽचम्य ब्राह्मणः शुद्धमानसः ७६

दर्भे तु दर्भपाणिः स्यात् प्राङ्मुखः सुसमाहितः।
प्राणायामांस्तु कुर्वीत यथाशास्रमतन्द्रि तः ७७

जपयज्ञं ततः कुर्याद्गायत्रीं वेदमातरम्।
त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत ७८

वाचिकश्च उपांशुश्च मानसस्त्रिविधः स्मृतः।
त्रयाणां जपयज्ञानां श्रेयः स्यादुत्तरोत्तम ७९

यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः।
शब्दमुच्चारायेद्वाचा जपयज्ञः स वाचिकः ८०

शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत्।
किञ्चिन्मन्त्रं स्ययं विन्द्यादुपांशुः स जपः स्मृतः ८१

धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम्।
शब्दार्थचिन्तनं ध्यानं तदुक्तं मानसं जपः ८२

जपेन देवता नित्यं स्तूयमाना प्रसीदति।
प्रसन्ना विपुलान् भोगान्दद्यान्मुक्ति च शाश्वतीम् ८३

यक्षरक्षः पिशाचाश्च ग्रहाः सूर्यादिदूषणाः।
जापिनं नोपसर्पन्ति दूरादेवापयान्ति ते ८४

ऋक्षादिकं परिज्ञाय जपयज्ञमतन्द्रि तः।
जपेद्हरहः स्नात्वा सावित्रीं तन्मना द्विजः ८५

सहस्रपरमां देवीं शतमध्यां दशावराम्।
गायत्रीं यो जपेन्नित्यं न स पापैर्हि लिप्यते ८६

अथ पुष्पाञ्जलिं दत्त्वा भानवे चोर्ध्वबाहुकः।
उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि ८७

प्रदक्षिणमुपावृत्य नमस्कुर्याद्दिवाकरम्।
स्वेन तीर्थेन देवादीनद्भिः सन्तर्पयेद्बुधः ८८

देवान्देवगणांश्चैव ऋषीनृषिगणांस्तथा।
पितॄन् पितृगणांश्चैव नित्यं सन्तर्पयेद्बुधः ८६

स्नानवस्त्रं ततः पीड्य पुनराचमनं चरेत्।
दर्भेषु दर्भपाणिः स्याद्ब्रह्मयज्ञविधानतः ९०

प्राङ्मुखो ब्रह्मयज्ञं तु कुर्याद्बुद्धिसमन्वितः।
ततोऽर्घं भानवे दद्यात्तिलपुष्पजलान्वितम् ९१

उत्थाय मूर्धपर्यन्तं हंसः शुचिषदित्यृचा।
जले देवं नमस्कृत्य ततो गृहगतः पुनः ९२

विधिना पुरुषसूक्तेन तत्र विष्णुं समर्चयेत्।
वैश्वदेवं ततः कुर्याद्बलिकर्म यथाविधि ९३

गोदोहमात्रमतिथिं प्रतिवीक्षेत वै गृही।
अदृष्टपूर्वमतिथिमागतं प्राक् समर्चयेत् ९४

आगत्य च पुनर्द्वारं प्रत्युत्थानेन साधुना।
स्वागतेनाग्नयस्तुष्टा भवन्ति गृहमेधिनाम् ९५

आसनेन तु दत्तेन प्रीतो भवति देवराट्।
पादशौचेन पितरः प्रीतिमायान्ति तस्य च ९६

अन्नाद्येन च दत्तेन तृप्यतीह प्रजपतिः।
तस्मदतिथये कार्यं पूजनं गृहमेधिना ९७

भक्त्या च भक्तिमान्नित्यं विष्णुमभ्यर्च्य चिन्तयेत्।
भिक्षां च भिक्षवे दद्यात्परिव्राड्ब्रह्मचारिणे ९८

आकल्पितान्नादुद्धृत्य सर्वव्यञ्जनसंयुतम्।
दद्याच मनसा नित्यं भिक्षां भिक्षोः प्रयत्नतः ९९

अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते।
अवश्यमेव दातव्यं स्वर्गसोपानकारकम् १००

उद्धृत्य वैश्वदेवान्नं भिक्षां दत्त्वा विसर्जयेत्।
वैश्वदेवाकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् १०१

सुवासिनीः कुमारीश्च भोजयित्वाऽऽतुरानपि।
बालवृद्धांस्ततः शेषं स्वयं भुञ्जीत वै गृही १०२

प्राङ्मुखोदङ्मुखो वापि मौनी च मितभाषणः।
अन्नं पूर्वं नमस्कृत्य प्रहृष्टेनान्तरात्मना १०३

पञ्च प्राणहुतीः कुर्यात्स मन्त्रेण पृथक् पृथक्।
ततः स्वादुकरं चान्नं भुञ्जीत सुसमाहितः १०४

आचम्य देवतामिष्टां संस्मरेदुदरं स्पृशन्।
इतिहासपुराणाभ्यां कञ्चित्कालं नयेद्बुधः १०५

ततः सन्ध्यामुपासीत बहिर्गत्वा विधानतः।
कृतहोमश्च भुञ्जीत रात्रावतिथिमर्चयेत् १०६

सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम्।
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः १०७

शिष्यानध्यापयेत्तद्वदनध्यायं विवर्जयेत्।
स्मृत्युक्तान् सकलान् पूर्वपुराणोक्तानपि द्विजः १०८

महानवम्यां द्वादश्यां भरण्यामपि चैव हि।
तथाक्षय्यतृतीयायां शिष्यान्नाध्यापयेद्बुधः १०९

माघमासे तु सप्तम्यां रथ्यामध्ययनं त्यजेत्।
अध्यापनमथाभ्यज्य स्नानकाले विवर्जयेत् ११०

दानं च विधिना देयं गृहस्थेन हितैषिणा।
हिरण्यदानं गोदानं भूमिदानं विशेषतः १११

एतानि यः प्रयच्छेत श्रोत्रियेभ्यो द्विजोत्तमः।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ११२

मङ्गलाचारयुक्तश्च शुचिः श्रद्धापरो गृही।
श्राद्धं च श्रद्धया कुर्यात्स याति ब्रह्मणः पदम् ११३

जातावुत्कर्षमायाति नरसिंहप्रसादतः।
स तस्मान्मुक्तिमाप्नोति ब्रह्मणा सह सत्तमाः ११४

एवं हि विप्राः कथितो मया वः।
समासतः शाश्वतधर्मराशिः।
सम्यग्गृहस्थस्य सतो हि धर्मं।
कुर्वन् प्रयत्नाद्धरिमेति मुक्तः ११५

इति श्रीनरसिंहपुराणे गृहस्थधर्मो नामाष्टपञ्चाशोऽध्यायः ५८


एकोनषष्टितमोऽध्यायः।
हारीत उवाच।
अतः परं प्रवक्ष्यामि वानप्रस्थस्य लक्षणम्।
धर्ममग्यं महाभागाः कथ्यमानं निबोधत १

गृहस्थः पुत्रपौत्रादीन्दृष्ट्वा पलितमात्मनः।
स्वभार्यां तनये स्थाप्य स्वशिष्यैः प्रविशेद्वनम् २

जटाकलापचीराणि नखगात्ररुहाणि वा।
धारयञ्जुहुयादग्नौ वैतानविधिना स्थितः ३

भृतपर्णैर्मृत्सम्भूतैर्नीवाराद्यैरतन्द्रि तः।
कन्दमूलफलैर्वापि कुर्यान्नित्यक्रियां बुधः ४

त्रिकालं स्नानयुक्तस्तु कुर्यात्तीव्रं तपः सदा।
पक्षे गते वा अश्नीयान्मासान्ते व पराककृत् ५

चतुःकालेऽपि चाश्नीयात्कालेऽप्युत तथाष्टमे।
षष्ठाह्नकाले ह्यथवा अथवा वायुभक्षकः ६

धर्मे पञ्चाग्निमध्यस्थो धारावर्षासु वै नयेत्।
हैमन्तिके जले स्थित्वा नयेत्कालं तपश्चरन् ७

एवं स्वकर्म भोगेन कृत्वा शुद्धिमथात्मनः।
अग्निं चात्मनि वै कृत्वा व्रजेद्बाथोत्तरां दिशम् ८

आदेहपाताद्धनगो मौनमास्थाय तापसः।
स्मरन्नतीन्द्रि यं ब्रह्म ब्रह्मलोके महीयते ९

तपो हि यः सेवति काननस्थो।
वसेन्महत्सत्त्वसमाधियुक्तः ॥
विमुक्तपापो हि मनःप्रशान्तः।
प्रयाति विष्णोः सदनं द्विजेन्द्र ः! १०

इति श्रीनरसिंहपुराणे वानप्रस्थधर्मो नाम एकोनषष्टितमोऽध्यायः ५९


षष्टितमोऽध्यायः।
हारीत उवाच।
अत ऊर्ध्वं प्रवक्ष्यामि यतिधर्ममनुत्तमम्।
श्रद्धया यदनुष्ठाय यतिर्मुच्येत बन्धनात् १

एवं वनाश्रमे तिष्ठंस्तपसा दग्धकिल्बिषः।
चतुर्थमाश्रमं गच्छेत्सन्न्यस्य विधिना द्विजः २

दिव्यं ऋषिभ्यो देवेभ्यः स्वपितृभ्यश्च यत्नतः।
दत्त्वा श्राद्धमृषिभ्यश्च मनुजेभ्यस्तथाऽऽत्मने ३

इष्टिं वैश्वानरीं कृत्वा प्राजापत्यमथापि वा।
अग्निं स्वात्मनि संस्थाप्य मन्त्रवत्प्रव्रजेत् पुनः ४

ततः प्रभृति पुत्रादौ सुखलोभादि वर्जयेत्।
दद्याच्च भूभावुदकं सर्वभूताभयङ्करम् ५

त्रिदण्डं वैणवं सौम्यं सत्वचं समपर्वकम्।
वेष्टितं कृष्णगोवालरज्ज्वा च चतुरङ्गलम् ६

ग्रन्थिभिर्वा त्रिभिर्युक्तं जलपूतं च धारयेत्।
गृह्णीयाद्दक्षिणे हस्ते मन्त्रेणैव तु मन्त्रवित् ७

कौपीनाच्छादनं वासः कुथां शीतनिवारिणीम्।
पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य सङ्ग्रहम् ८

एतानि तस्य लिङ्गानि यतेः प्रोक्तानि धर्मतः।
सङ्गृह्य कृतसन्न्यासो गत्वा तीर्थमनुत्तमम् ९

स्नात्वा ह्याचम्य विधिवज्जलयुक्तांशुकेन वै।
वारिणा तर्पयित्वा तु मन्त्रवद्भास्करं नमेत् १०

आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत्।
गायत्रीं च यथाशक्ति जप्त्वा ध्यायेत्परं पदम् ११

स्थित्यर्थमात्मनो नित्यं भिक्षाटनमथाचरेत्।
सायाह्नकाले विप्राणां गृहाणि विचरेद्यतिः १२

स्यादर्थी यावतान्नेन तावद्भैक्षं समाचरेत्।
ततो निवृत्त्य तत्पात्रमभ्युक्ष्याचम्य संयमी १३

सूर्यादिदैवतेभ्यो हि दत्त्वान्नं प्रोक्ष्य वारिणा।
भुञ्जीत पर्णपुटके पात्रे वा वाग्यतो यतिः १४

वटकाश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः।
कोविदारकरञ्जेषु न भुञ्जीत कदाचन १५

भुक्त्वाऽऽचम्य निरुद्धासुरुपतिष्ठेत भास्करम्।
जपध्यानेतिहासैस्तु दिनशेषं नयेद्यतिः १६

पलाशाः सर्व उच्यन्ते यतयः कांस्यभोजिनः।
कांस्यस्येव तु यत्पात्रं गृहस्थस्य तथैव च।
कांस्यभोजी यति सर्वं प्राप्नुयात्किल्बिषं पुनः।
भुक्तपात्रे यतिर्नित्यं भक्षयेन्मन्त्रपूर्वकम्।
न दुष्येत्तस्य तत्पात्रं यज्ञेषु चमसा इव।
कृतसन्ध्यास्ततो रात्रिं नयेदेवगृहादिषु।
हृत्पुण्डरीकनिलये ध्यायन्नारायणं हरिम्।
तत्पदं समवाप्नोति यत्प्राप्य न निवर्तते १७

इति श्रीनरसिंहपुराणे यतिधर्मो नाम षष्टितमोऽध्यायः ६०


एकषष्टितमोऽध्यायः।
हारीत उवाच।
वर्णानामाश्रमाणां च कथितं धर्मलक्षणम्।
यतः स्वर्गापवर्गौ तु प्राप्नुयुस्ते द्विजादयः १

योगशास्त्रस्य वक्ष्यामि सङ्क्षेपात्सारमुत्तमम्।
यस्याभ्यासबलाद्यान्ति मोक्षं चेह मुमुक्षवः २

योगाभ्यासरतस्येह नश्येयुः पातकानि च।
तस्माद्योगपरो भूत्वा ध्यायेन्नित्यं क्रियान्तरे ३

प्राणायामेन वचनं प्रत्याहारेण चेन्द्रि यम्।
धारणाभिर्वशीकृत्य पुनर्दुर्धर्षणं मनः ४

एकं कारणमानन्दबोधं च तमनामयम्।
सूक्ष्मात्सूक्ष्मतरं ध्यायेज्जगदाधारमच्युतम् ५

आत्मानमरविन्दस्थं तप्तचामीकरप्रभम्।
रहस्येकान्तमासीत ध्यायेदात्महृदि स्थितम् ६

यः सर्वप्राणचित्तज्ञो यः सर्वेषां हृदि स्थितः।
यश्च सर्वजनैर्ज्ञेयः सोऽहमस्मीति चिन्तयेत् ७

आत्मलाभसुखं यावत्तावद्ध्यानमुदाहृतम्।
श्रुतिस्मृत्युदितं कर्म तत्तदूर्ध्वं समाचरेत् ८

यथाश्वा रथहीनाश्च रथाश्चाश्वैर्विना यथा।
एवं तपश्च विद्या च उभावपि तपस्विनः ९

यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम्।
एवं तपश्च विद्या च संयुक्ते भेषजं महत् १०

द्वाभ्यामेव हि पक्षाभ्यां यथा वै पक्षिणां गतिः।
तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ११

विद्यातपोभ्यां सम्पन्नो ब्राह्मणो योगतत्परः।
देहद्वन्द्वं विहायाशु मुक्तो भवति बन्धनात् १२

न देवयानमार्गेण यावत्प्राप्तं परं पदम्।
न तावद्देहलिङ्गस्य विनाशो विद्यते क्वचित् १३

मया वः कथितः सर्वो वर्णांश्रमविभागशः।
सङ्क्षेपेण द्विजश्रेष्ठा धर्मस्तेषां सनातनः १४

मार्कण्डेय उवाच।
श्रुत्वैवमृषयो धर्म स्वर्गमोक्षभलप्रदम्।
प्रणम्य तमृषिर्जग्मुर्मुन्दितास्ते स्वमालयम् १५

धर्मशास्त्रमिदं यस्तु हारीतमुखनिस्सृतम्।
श्रुत्वा च कुरुते धर्मं स याति परमां गतिम् १६

मुखजस्य तु यत्कर्म कर्म यद्बाहुजस्य तु।
ऊरुजस्य तु यत्कर्म पादजस्य तथा नृप १७

स्वं स्वं कर्म प्रकुर्वाणा विप्राद्या यान्ति सद्गतिम्।
अन्यथा वर्तमानो हि सद्यः पतति यात्यधः १८

यस्य येऽभिहिता धर्माः स तु तैस्तैः प्रतिष्ठितः।
तस्मात्स्वधर्म कुर्वीत नित्यमेवमनापदि १९

चतुवर्णाश्च राजेन्द्र चत्वारश्चापि चाश्रमाः।
स्वधर्मं येऽनुतिष्ठन्ति ते यान्ति परमां गतिम् २०

स्वधर्मेण यथा नृणां नरसिंह प्रतुष्यति।
वर्णधर्मानुसारेण नरसिंहं तथार्चयेत् २१

उत्पन्नवैराग्यवलेन योगाद्।
ध्यायेत्परं ब्रह्म सदा क्रियावान्।
सत्यात्मकं चित्युखरूपमाद्यं।
विहाय देहं पदमेति विष्णोः २२

इति श्रीनरसिंहपुराणे योगाध्यायो नामैकषष्टितमोऽध्यायः ६१


द्विषष्टितमोऽध्यायः।
श्रीमार्कण्डेय उवाच।
वर्णानामाश्रमाणां च कथितं लक्षणं तव।
भूयः कथय राजेन्द्र शुश्रूषा तत्र का नृप १

सहस्रानीक उवाच।
स्नात्वा वेश्मनि देवेशमर्चयेदच्युतं त्विति।
त्वयोक्तं मम विप्रेन्द्र तत्कथं पूजनं भवेत् २

यैर्मन्त्रैरर्च्यते विष्णुर्येषु स्थानेषु वै मुने।
तानि स्थानानि तान्मन्त्रांस्त्वमाचक्ष्व महामुने ३

श्री मार्कण्डेय उवाच।
अर्चनं सम्प्रवक्ष्यामि विष्णोरमितितेजसः।
यत्कृत्वा मुनयः सर्वे परं निर्वाणमाप्नुयुः ४

अग्नौ क्रियावतां देवो हृदि देवो मनीषिणाम्।
प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ५

अतोऽग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च।
एतेषु च हरेः सम्यगर्चनं मुनिभिः स्मृतम् ६

तस्य सर्वमयत्वाच्च स्थण्डिले प्रतिमासु च।
अनुष्टुभस्य सूक्तस्य विष्णुस्तस्य च देवतः ७

पुरुषो यो जगद्बीजं ऋषिर्नारायणः स्मृतः।
दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव च ८

अर्चितं स्याञ्जगत्सर्वं तेन वै सचराचरम्।
आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम् ९

द्वितीययाऽऽसनं दद्यात्पाद्यं दद्यात्तृतीयया।
चतुर्थ्यार्घ्यः प्रदातव्यः पञ्चम्याऽऽचमनीयकम् १०

षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च।
यज्ञोपवीतमष्टम्या नवम्या गन्धमेव च ११

दशम्या पुष्पदानं स्यादेकादश्या च धूपकम्।
द्वादश्या च तथा दीपं त्रयोदश्यार्चनं तथा १२

चतुर्दश्या स्तुतिं कृत्वा पञ्चदश्या प्रदक्षिणम्।
षोडश्योद्वासनं कुर्याच्छेषकर्माणि पूर्ववत् १३

स्नानं वस्त्रं च नैवेद्यं दद्यादाचमनीयकम्।
षण्मासात्सिद्धिमाप्नोति देवदेवं समर्चयन् १४

संवत्सरेण तेनैव सायुज्यमधिगच्छति।
हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् १५

अर्चन्ति सूरयो नित्यं जपेन रविमण्डले।
आदित्यमण्डले दिव्यं देवदेवमनामयम्।
शङ्खचक्रगदापाणिं ध्यात्वा विष्णुमुपासते १६

ध्येयः सदा सवितृमण्डलमध्यवर्ती।
नारायणः सरसिजासनसन्निविष्टः।
केयूरवान्मकरकुण्डलवान् किरीटी।
हारी हिरण्मयवपुर्धृतशङ्खचक्रः १७

एतत्पठन् केवलमेवं सूक्तं।
दिने दिने भावितविष्णुबुद्धिः ॥
स सर्वपापं प्रविहाय वैष्णवं।
पदं प्रयात्यच्युततुष्टिकृन्नरः १८

पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु ॥
भक्तयैकलभ्ये पुरुषे पुराणे।
मुक्त्यै किमर्थं क्रियते न यत्नः १९

इत्येवमुक्तः पुरुषस्य विष्णोरर्चाविधिस्तेऽद्य मया नृपेन्द्र ॥
अनेन नित्यं कुरु विष्णुपूजां।
प्राप्तुं तदिष्टं यदि वैष्णवं पदम् २०

इति श्रीनरसिंहपुराणे विष्णोरर्चाविधिर्नाम द्विषष्टितमोऽध्यायः ६२


त्रिषष्टितमोऽध्यायः।
सहस्रानीक उवाच।
सत्यमुक्तं त्वया ब्रह्मन् वैदिकः परमो विधिः।
विष्णोर्देवातिदेवस्य पूजनं प्रति मेऽधुना १

अनेन विधिना ब्रह्मन् पूज्यते मधुसूदनः।
वेदज्ञैरेव नान्यैस्तु तस्मात्सर्वहितं वद २

श्री मार्कण्डेय उवाच।
अष्टाक्षरेण देवेशं नरसिंहम नामयम्।
गन्धपुष्पादिभिर्नित्यमर्चयेदच्युतं नरः ३

राजन्नष्टाक्षरो मन्त्रः सर्वपापहरः परः।
समस्तयज्ञफलदः सर्वशान्तिकरः शुभः ४

ॐ नमो नारायणाय।
गन्धपुष्पादिसकलमनेनैव निवेदयेत्।
अनेनाभ्यर्चितो देवः प्रीतो भवति तत्क्षणात् ५

किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः।
ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ६

इमं मन्त्रं जपेद्यस्तु शुचिर्भूत्वा समाहितः।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ७

सर्वतीर्थफलं ह्येतत् सर्वतीर्थवरं नृप।
हरेरर्चनमव्यग्रं सर्वयज्ञफलं नृप ८

तस्मात्कुरु नृपश्रेष्ठ प्रतिमादिषु चार्चनम्।
दानानि विप्रमुखेभ्यः प्रयच्छ विधिना नृप।
एवं कृते नृपश्रेष्ठ नरसिंहप्रसादतः।
प्राप्नोति वैष्णवं तेजो यत्काङ्क्षन्ति मुमुक्षवः ९

पुरा पुरन्दरो राजन् स्त्रीत्वं प्राप्तोऽपधर्मतः।
तृणबिन्दुमुनेः शापान्मुक्तो ह्यष्टाक्षराञ्जपात् १०

सहस्रानीक उवाच।
एतत्कथय भूदेव देवेन्द्र स्याघमोचनम्।
कोऽपधर्मः कथं स्त्रीत्वं प्राप्तो मे वद कारणम् ११

श्रीमार्कण्डेय उवाच।
राजेन्द्र महदाख्यानं शृणु कौतूहलान्वितम्।
विष्णुभक्तिप्रजननं शृण्वतां पठतामिदम् १२

पुरा पुरन्दरस्यैव देवराज्यं प्रकुर्वतः।
वैराग्यस्यापि जननं सम्भूतं वाह्यवस्तुषु १३

इन्द्र स्तदाभूद्विषमस्वभावो।
राज्येषु भोगेष्वपि सोऽप्यचिन्तयत्।
ध्रुवं विरागीकृतमानसानां।
स्वर्गस्य राज्यं न च किञ्चिदेव १४

राज्यस्य सारं विषयेषु भोगो।
भोगस्य चान्ते न च किञ्चिदस्ति ॥
विमृश्य चैतन्मुनयोऽप्यजस्रं।
मोक्षाधिकारं परिचिन्तयन्ति १५

सदैव भोगाय तपःप्रवृत्तिर्भोगावसाने हि तपो विनष्टम्।
मैत्र्! यादिसंयोगपराङ्मुखानां।
विमुक्तिभाजां न तपो न भोगः १६

विमृश्य चैतत् स सुराधिनाथो।
विमानमारुह्य सकिङ्किणीकम्।
नूनं हराराधनकारणेन।
कैलासमभ्येति विमुक्तिकामः १७

स एकदा मानसमागतः सन्।
संवीक्ष्य तां यक्षपतेश्च कान्ताम्।
समर्चयन्तीं गिरिजाङ्घ्रियुग्मं।
ध्वजामिवानङ्गमहारथस्य १८

प्रधानजाम्बूनदशुद्धवर्णां।
कर्णान्तसंलग्नमनोज्ञनेत्राम् ॥
सुसूक्ष्मवस्त्रान्तरदृश्यगात्रां।
नीहारमध्यादिव चन्द्र लेखाम् १९

तां वीक्ष्य वीक्षणसहस्रभरेण कामं।
कामाङ्गमोहितमतिर्न ययौ तदानीम् ॥
दूराध्वगं स्वगृहमेत्य सुसञ्चितार्थस्तस्थौ तदा सुरपतिर्विषयाभिलाषी २०

पूर्वं वरं स्यात् सुकुलेऽपि जन्म।
ततो हि सर्वाङ्गशरीररूपम् ॥
ततो धनं दुर्लभमेव पश्चाद्धनाधिपत्यं सुकृतेन लभ्यम् २१

स्वर्गाधिपत्यं च मया प्रलब्धं।
तथापि भोगाय न चास्ति भाग्यम्।
यः स्वं परित्यज्य विमुक्तिकामस्तिष्ठामि मे दुर्मतिरस्ति चित्ते २२

मोक्षोऽमुना यद्यपि मोहनीयो।
मोक्षेऽपि किं कारणमस्ति राज्ये ॥
क्षेत्रं सुपक्वं परिहृत्य द्वारे।
किं नाम चारण्यकृषिं करोति २३

संसारदुःखोपहता नरा ये।
कर्तुं समर्था न च किञ्चिदेव ॥
अकर्मिणो भाग्यविवर्जिताश्च।
वाञ्छन्ति ते मोक्षपथं विमूढाः २४

एतद्विमृश्य बहुधा मतिमान् प्रवीरो।
रूपेण मोहितमना धनदाङ्गनायाः ॥
सर्वाधिराकुलमतिः परिमुक्तधैर्यः।
सस्मार मारममराधिपचक्रवर्ती २५

समागतोऽसौ परिमन्दमन्दं।
कामोऽतिकामाकुलचित्तवृत्तिः ॥
पुरा महेशेन कृताङ्गनाशो।
धैर्याल्लयं गच्छति को विशङ्कः २६

आदिश्यतां नाथ यदस्ति कार्यं।
को नाम ते सम्प्रति शत्रुभूतः ॥
शीघ्रं महादेशय मा विलम्बं।
तस्यापदम् सम्प्रति भो दिशामि २७

श्रुत्वा तदा तस्य वचोऽभिरामं।
मनोगतं तत्परमं तुतोष ॥
निष्पन्नमर्थं सहसैव मत्वा।
जगाद वाक्यं स विहस्य वीरः २८

रुद्रो ऽपि येनार्धशरीरमात्रश्चक्रेऽप्यनङ्गत्वमुपागतेन ॥
सोढुं समर्थोऽथ परोऽपि लोके।
को नाम ते मार शराभिवातिम् २९

एकाग्रचित्ता गिरिजार्चनेऽपि।
या मोहयत्येव ममात्र चित्तम् ॥
एतामनङ्गायतलोचनाख्यां।
मदङ्गसङ्गैकरसां विधेहि ३०

स एवमुक्तः सुरवल्लभेन।
स्वकार्यभावाधिकगौरवेण ॥
सन्धाय वाणं कुसुमायुधोऽपि।
सस्मार मारः परिमोहनं सुधीः ३१

सम्मोहिता पुष्पशरेण बाला।
कामेन कामं मदविह्वलाङ्गी ॥
विहाय पूजां हसते सुरेशं।
कः कामकोदण्डरवं सहेत ३२

विलोलनेत्रे अयि कासि बाले।
सुराधिपो वाक्यमिदं जगाद ॥
सम्मोहयन्तीव मनांसि पुंसां।
कस्येह कान्ता वद पुण्यभाजः ३३

उक्तापि बाला मदविह्वलाङ्गीं।
रोमाञ्चसंस्वेदसकम्पगात्रा ॥
कृताकुला कामशिलीमुखेन।
सगद्गदं वाक्यमुवाच मन्दम् ३४

कान्ता धनेशस्य च यक्षकन्या।
प्राप्ता च गौरीचरणार्चनाय ॥
प्रब्रूहि कार्यं च तवास्ति नाथ।
कस्त्वं वदेस्तिष्ठसि कामरूपः ३५

इन्द्र उवाच।
सा त्वं समागच्छ भजस्व मां चिरान्मदङ्गसङ्गोत्सुकतां ब्रजाशु ॥
त्वया विना जीवितमप्यनल्पं।
स्वर्गस्य राज्यं मम निष्फलं स्यात् ३६

उक्ता च सैवं मधुरं च तेन।
कन्दर्पसन्तापितचारुदेहा ॥
विमानमारुह्य चलत्पताकं।
सुरेशकण्ठग्रहणं चकार ३७

जगाम शीघ्रं स हि नाकनाथः।
साकं तया मन्दरकन्दरासु ॥
अदृष्टदेवासुरसञ्चरासु।
विचित्ररत्नाङ्कुरभासुरासु ३८

रेमे तया साकमुदारवीर्यश्चित्रं सुरैश्वर्यगतादरोऽपि ॥
स्वयं च यस्या लघुपुष्पशय्यां।
चकार चातुर्यनिधिः सकामः ३९

जातः कृतार्थोऽमरवृन्दनाथः।
सकामभोगेषु सदा विदग्धः ॥
मोक्षाधिकं स्नेहरसातिसृष्टं।
पराङ्गनालिङ्गनसङ्गसौख्यम् ४०

अथागता यक्षपतेः समीपं।
नार्योऽनुवर्ज्यैव च चित्रसेनाम् ॥
ससम्भ्रमाः सम्भ्रमखिन्नगात्राः।
सगद्गदं प्रोचुरसाहसज्ञाः ४१

नूनं समाकर्णंय यक्षनाथ।
विमानमारोप्य जगाम कश्चित् ॥
संवीक्षमाणः ककुभोऽपि कान्तां।
विगृह्य वेगादिह सोऽपि तस्करः ४२

वचो निशम्याथ धनाधिनाथो।
विषोपमं जातमषीनिभाननः ॥
जगाढ भूयो न च किञ्चिदेव।
बभूव वै वृक्ष इवाग्निदग्धः ४३

विज्ञापितार्थो वरकन्यकाभिर्यश्चित्रसेनासहचारिणीभिः ॥
मोहापनोदाय मतिं दधानः।
स कण्ठकुब्जोऽपि समाजगाम ४४

श्रुत्वाऽऽगतं वीक्ष्य स राजराज।
उन्मीलिताक्षो वचनं जगाद ॥
विनिःश्वसन् गाढसकम्पगात्रः।
स्वस्थं मनोऽप्याशु विधाय दीनः ४५

तद्यौवनं यद्युवतीविनोदो।
धनं तु चैवत्स्वजनोपयोगि ॥
तञ्जीवितं यत्क्रियते सुधर्मस्तदाधिपत्यं यदि नष्टविग्रहम् ४६

धिङ्मे धनं जीवितमत्यनल्पं।
राज्यं बृहत्सम्प्रति गुह्यकानाम् ॥
विशामि चाग्निं न च वेद कश्चित्।
पराभवोऽस्तीति च को मृतानाम् ४७

पार्श्वे स्थितस्यापि च जीवितो मे।
गता तडागं गिरिजार्चनाव।
हृता च केनापि वयं न विद्मो।
ध्रुवं न तस्यास्ति भयं च मृत्योः ४८

जगाद वाक्यं स च कण्ठकुब्जो।
मोहापनोदाय विभोः स मन्त्री ॥
आकर्ण्यतां नाथ न चास्ति योग्यः।
कान्तावियोगे निजदेहघातः ४९

एका पुरा रामवधूर्हृता च।
निशाचरेणापि मृतो न सोऽपि ॥
अनेकशः सन्ति तवात्र नार्यः।
को नाम चित्ते क्रियते विषादः ५०

विमुच्य शोकं कुरु विक्रमे मति।
धैर्यं समालम्बय यक्षराज ॥
भृशं न जल्पन्ति रुदन्ति साधवः।
पराभवं बाह्यकृतं सहन्ते ५१

कृतं हि कार्यं गुरु दर्शयन्ति।
सहायवान् वित्तप कातरोऽसि किम् ॥
सहायकार्यं कुरुते हि सम्प्रति।
स्वयं हि यस्यावरजो विभीषणः ५२

धनद उवाच।
विभीषणो मे प्रतिपक्षभूतो।
दायादभावं न विमुञ्चतीति ॥
ध्रुवं प्रसन्ना न भवन्ति दुर्जनाः।
कृतोपकारा हरिवज्रनिष्ठुराः ५३

न चोपकारैर्न गुणैर्न सौहृदैः।
प्रसादमायाति मनो हि गोत्रिणः।
उवाच वाक्यं स च कण्ठकुब्जो।
युक्तं त्वयोक्तं च धनाधिनाथ ५४

परस्परं ध्नन्ति च ते विरुद्धास्तथापि लोके न पराभवोऽस्ति।
पराभवं नान्यकृतं सहन्ते।
नोष्णं जलं ज्वालयते तृणानि ५५

तस्मात्समागच्छ धनाधिनाथ।
पार्श्वं च वेगेन विभीषणस्य ॥
स्वबाहुवीर्यार्जितवित्तभोगिनां।
स्वबन्धुवर्गेषु हि को विरोधः ५६

इत्युक्तः स तदा तेन कण्ठकुब्जेन मन्त्रिणा।
विभीषणस्य सामीप्यं जगामाशु विचारयन् ५७

ततो लङ्काधिपः श्रुत्वा बान्धवं पूर्वजं तदा।
प्राप्तं प्रत्याजगामाशु विनयेन समन्वितः ५८

ततो विभीषणो दृष्ट्वा तदा दीनं च बान्धवम्।
सन्तप्तमानसो भप जगादेदं वचो महत् ५९

विभीषण उवाच।
कथं दीनोऽसि यक्षेश किं कष्टं तव चेतसि।
निवेदयाधुनास्माकं निश्चयान्मार्जयामि तत् ६०

तदैकान्तं समासाद्य कथयामास वेदनाम्।
धनद उवाच।
गृहीता किं स्वयं याता निहता केनचिद्द्विषा ६१

भ्रातः कान्तां न पश्यामि चित्रसेनां मनोरमाम्।
एतद्बन्धो महत्कष्टं मम नारीसमुद्भवम् ६२

प्राणान् वै घातयिष्यामि अनासाद्य च वल्लभाम्।
विभीषण उवाच।
आनयिष्यामि ते कान्तां यत्र तत्र स्थितां विभो ६३

कः समर्थोऽधुनास्माकं हर्तुं नाथ तृणस्य च ॥
ततो विभीषणस्तत्र नाडीगङ्घां निशाचरीम् ६४

भृशं सञ्जल्पयामास नानामायागरीयसीम्।
धनदस्य च या कान्ता चित्रसेनाविधानतः ६५

सा च केन हृता लोके मानसे सरसि स्थिता।
तां च जानीहि संवीक्ष्य देवराजादिवेश्मसु ६६

ततो निशाचरी भूप कृत्वा मायामयं वपुः।
जगाम त्रिदिवं शीघ्रं देवराजादिवेश्मसु ६७

यया दृष्ट्या क्षणं दृष्टो मोहं यास्यति चोपलः।
यस्याः समं ध्रुवं रूपं विद्यते न चराचरे ६८

एतस्मिन्नेव काले च देवराजोऽपि भूपते।
सम्प्राप्तो मन्दराच्छीघ्रं प्रेरितश्चित्रसेनया ६९

ग्रहीतुं दिव्यपुष्पाणि नन्दनप्रभवाणि च।
तत्र पश्यन् स तां तन्वीं निजस्थाने सभागताम् ७०

अतीवरूपसम्पन्नां गीतगानपरायणाम्।
तां वीक्ष्य देवराजोऽपि स कामवशगोऽभवत् ७१

ततः सम्प्रेरयामास देववैद्यौ सुराधिपः।
तस्याः पार्श्वे समानेतुं ध्रुवं चान्तः पुरे तदा ७२

देववैद्यौ तदाऽगत्य जल्पतश्चाग्रतः स्थितौ।
आगच्छ भव तन्वङ्गिदेवराजसमीपगा ७३

इत्युक्ता सा तदा ताभ्यां जगाद मधुराक्षरम्।
नाडीजङ्घोवाच।
देवराजः स्वयं यन्मे पार्श्व चात्रागमिष्यति ७४

तस्य वाच्यं च कर्तव्यं नान्यथा सर्वथा मया।
तौ तदा वासवं गत्वा ऊचतुर्वचनं शुभम् ७४

वासव उवाच।
समादेशय तन्वङ्गि किं कर्तव्यं मयाधुना।
सर्वदा दासभूतस्ते याचसे तद्ददाम्यहम् ७६

तन्वङ्ग्युवाच।
याचितं यदि मे नाथ दास्यसीति न संशयः।
ततोऽहं वशगा देव भविष्यामि न संशयः ७७

अद्य त्वं दर्शयास्माकं सर्वः कान्तापरिग्रहः।
मम रूपसमा रामा कान्ता ते चास्ति वा न वा ७८

तया चोक्ते च वचने स भूयो वासवोऽवदत्।
दर्शयिष्यामि सर्वं ते देवि कान्तापरिग्रहम् ७९

स सर्वं दर्शयामास वासवोऽन्तः पुरं तदा।
ततो जगाद भूयः स किञ्चिद्गूमम स्थितम् ८०

विमुच्यैकां च युवतीं सर्वं ते दर्शितं मया।
इन्द्र उवाच।
सा रामा मन्दरे चास्ति अविज्ञाता सुरासुरैः ८१

तां च ते दर्शयिष्यामि नाख्येयं कस्यचित्त्वया।
ततः स देवराजोऽपि तया सार्ध च भूपते ८२

गच्छन्नेवाम्बरे भूप मन्दरं प्रति भूधरम्।
तस्य वै गच्छमानस्य विमानेनार्कवर्चसा ८३

दर्शनं नारदस्यापि तस्य जातं तदाम्बरे।
तं वीक्ष्य नारदं वीरो लज्जमानोऽपि वासवः ८४

नमस्कृत्य जगादोच्चैः क्व यास्यसि महामुने।
ततः कृताशीः स मुनिरवदत्त्रिदिवेश्वरम् ८५

गच्छामि मानसे स्नातुं देवराज सुखी भव।
नाडीजङ्घेऽस्ति कुशलं राक्षसानां महात्मनाम् ८६

विभीषणोऽपि ते भ्राता सुखी तिष्ठति सर्वदा।
एवमुक्ता च मुनिना सा कृष्णवदनाभवत् ८७

विस्मितो देवराजोऽपि छलितो दुष्टयानया।
नारदोऽपि गतः स्नातुं कैलासे मानसं सरः ८८

इन्द्र स्तां हन्तुकामोऽपि आगच्छन्मन्दराचलम्।
यत्राश्रमोऽस्ति वै नूनं तृणबिन्दोर्महात्मनः ८९

क्षणं विश्रम्य तत्रैव धृत्वा केशेषु राक्षसीम्।
हन्तुमिच्छति देवेशो नाडोजङ्घां निशाचरीम् ९०

तावत्तत्र समायातस्तृणबिन्दुर्निजाश्रमात्।
धृता क्रन्दति सा राजन्निद्रे णापि निशाचरी ९१

मा मां रक्षति पुण्यात्मा हन्यमानां च साम्प्रतम्।
तदाऽऽगत्य मुनिश्रेष्ठस्तृणबिन्दुर्महातपाः ९२

जगाद पुरतः स्थित्वा मुञ्चेमां महिलां वने।
जल्पत्येवं मुनौ तस्मिन् महेन्द्रे ण निशाचरी ९३

वज्रेण निहता भूयः कोपयुक्तेन चेतसा।
स चुकोप मुनिश्रेष्ठ प्रेक्षमाणो मुहुर्मुहुः ९४

यदेषा युवती दुष्ट निहता मे तपोवने।
ततस्त्वं मम शापेन निश्चयात्स्री भविष्यसि ९५

इन्द्र उवाच।
एषा नाथ महादुष्टा राक्षसी निहता मया।
अहं स्वामी सुराणां च शापं मा देहि मेऽधुना ९६

मुनिरुवाच।
नूनं तपोवनेऽस्माकं दुष्टास्तिष्ठन्ति साधवः।
ममात्र तपसो भावान्न निध्नन्ति परस्परम् ९७

इत्युक्तो हि तदा चेन्द्र ः! प्राप्तः स्त्रीत्वं न संशयः।
जगाम त्रिदिवं भूप हतशक्तिपराक्रमः ९८

नासीनो हि भवत्येव सर्वदा देवसंसदि।
देवा दुःखं समापन्ना दृष्ट्वा स्त्रीत्वं गतं हरिम् ९९

ततो देवगणाः सर्वे वासवेन समन्विताः।
जग्मुश्च ब्रह्मसदनं तथा दीना शची तदा १००

ब्रह्मा भग्नसमाधिश्च तावत्तत्रैव संस्थिताः।
देवा ऊचुश्च ते सर्वे वासवेन समन्विताः १०१

तृणबिन्दोर्मुनेः शापाद्यातः स्त्रीत्वं सुराधिपः।
स मुनिः कोपवान् ब्रह्मन्नैव गच्छत्यनुग्रहम् १०२

पितामह उवाच।
न मुनेरपराधः स्यात्तृणबिन्दोर्महात्मनः।
स्वकर्मणोपयातोऽसौ स्त्रीत्वं स्त्रीवधकारणात् १०३

चकार दुर्नयं देवा देवराजोऽपि दुर्मदः।
जहार चित्रसेनां च सुगुप्तां धनदाङ्गनाम् १०४

तथा जघान युवतीं तृणबिन्दोस्तपोवने।
तेन कर्मविपाकेन स्त्रीभावं वासवो गतः १०५

देवा ऊचुः।
यदसौ कृतवाञ्शम्भोदुर्नयं नाथ दुर्मतिः।
तत्सर्वं साधयिष्यामो वयं शच्या समन्विताः १०६

कान्ता धनाधिनाथस्य गूढा तिष्ठति या विभो।
तां च तस्मै प्रदास्यामः सर्वे कृत्वा परां मतिम् १०७

त्रयोदश्यां चतुर्दश्यां देवराजः शचीयुतः।
नन्दने चार्चनं कर्ता सर्वदा यक्षरक्षसाम् १०८

ततः शची तदा गूढं चित्रसेनां विगृह्य च।
मुमोच यक्षभवनं प्रियकष्टानुवर्त्तिनीम् १०९

एतस्मिन्नन्तरे दूतोऽकाले लङ्कां समागतः।
धनेशं कथयामास चित्रसेनासमागमम् ११०

शच्या साकं समायाता तव कान्ता धनाधिप।
सखीं स्वामतुलां प्राप्य चरितार्था बभूव सा १११

धनेशोऽपि कृतार्थोऽभूज्जगाम निजवेश्मनि।
सर्वमेतत्कृतं ब्रह्मन् प्रसादात्ते न संशयः ११२

पतिहीना यथा नारी नाथहीनं यथा बलम्।
गोकुलं कृष्णहीनं तु तथेन्द्रे णामरावती ११३

जपः क्रिया तपो दानं ज्ञानं तीर्थं च वै प्रभो।
वासवस्य समाख्याहि यतः स्त्रीत्वाद्विमुच्यते ११४

ब्रह्मोवाच।
निहन्तु न मुनेः शापं समर्थोऽहं न शङ्करः।
तीर्थं चान्यन्न पश्यामि मुक्त्वैकं विष्णुपूजनम् ११५

अष्टाक्षरेण मन्त्रेण पूजनं च तथा जपम्।
करोतु विधिवच्छक्रः स्त्रीत्वाद्येन च मुच्यते ११६

एकाग्रमनसा शक्र स्नात्वा श्रद्धासमन्वितः।
ऊँ नमो नारायणायेति जप त्वमात्मशुद्धये ११७

लक्षद्वये कृते जाप्ये स्त्रीभावान्मुच्यसे हरे।
इति श्रुत्वा तथाकार्षीद्ब्रह्मोक्तं वचनं हरिः।
स्त्रीभावाच्च विनिर्मुक्तस्तदा विष्णोः प्रसादतः ११८

मार्कण्डेय उवाच।
इति ते कथितं सर्वं विष्णुमाहात्म्यमुत्तमम्।
मया भृगुनियुक्तेन कुरु सर्वमतन्द्रि तः ११९

शृण्वन्ति ये विष्णुकथामकल्मषा।
वीर्यं हि विष्णोऽखिलकारणस्य ॥
ते मुवतपापाः परदारगामिनो।
विशन्ति विष्णोः परमं पदं ध्रुवम् १२०

सूत उवाच।
इति सम्बोधितस्तेन मार्कण्डेयेन पार्थिवः।
नरसिंहं समाराध्य प्राप्तवान् वैष्णवं पदम् १२१

एतत्ते कथितं सर्वं भरद्वाज मुने मया।
सहस्रानीकचरितं किमन्यत् कथयामि ते १२२

कथामिमां यस्तु शृणोति मानवः।
पुरातनीं सर्वविमुक्तिदां च ॥
सम्प्राप्य स ज्ञानमतीव निर्मलं।
तेनैव विष्णुं प्रतिपद्यते जनः १२३

इति नरसिंहपुराणे सहस्रानीकचरितेऽष्टाक्षरमन्त्रकथनं।
नाम त्रिषष्टितमोऽध्यायः ६३


चतुःषष्टितमोऽध्यायः।
श्रीभरद्वाज उवाच।
सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे।
साङ्ख्यं केचित्प्रशंसन्ति योगमन्ये प्रचक्षते १

ज्ञानं केचित्प्रशंसन्ति समलोष्टाश्मकाञ्चनाः।
क्षमां केचित्प्रशंसन्ति तथैव च दयार्जवम् २

केचिद्दानं प्रशंसन्ति केचिदाहुः परं शुभम्।
सम्यग्ज्ञानं परं केचित्केचिद्वैराग्यमुत्तमम् ३

अग्निष्टोमादिकर्माणि तथा केचित्परं विदुः।
आत्मध्यानं परं केचित्साङ्ख्यतत्त्वार्थवेदिनः ४

धर्मार्थकाममोक्षाणां चतुर्णामिह केवलम्।
उपायः पदभेदेन बहुधैवं प्रचक्ष्यते ५

एवं चावस्थिते लोके कृत्याकृत्यविधौ नराः।
व्यामोहमेव गच्छन्ति विमुक्ताः पापकर्मभिः ६

यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः।
वक्तुमर्हसि सर्वज्ञ मम सर्वार्थसाधकम् ७

सूत उवाच।
श्रूयतामिदमत्यन्तं गूढं संसारमोचनम्।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ८

पुण्डरीकस्य संवादं देवर्षेर्नारदस्य च।
ब्राह्मणः श्रुतसम्पन्नः पुण्डरीको महामतिः ९

आश्रमे प्रथमे तिष्ठन् गुरूणां वशगः सदा।
जितेन्द्रि यो जितक्रोधः सन्ध्योपासनधिष्ठितः १०

वेदवेदाङ्गनिपुणः शास्त्रेषु च विचक्षणः।
समिद्भिः साधुयत्नेन सायं प्रातर्हुताशनम् ११

ध्यात्वा यज्ञपतिं विष्णुं सम्यगाराधयन् विभुम्।
तपस्स्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा १२

उदकेन्धनपुष्पार्थैरसकृत्तर्पयन् गुरून्।
मातापितृभ्यां शुश्रूषुर्भिक्षाहारी जनप्रियः १३

ब्रह्मविद्यामधीयानः प्राणायामपरायणः।
तस्य सर्वार्थभूतस्य संसारेऽत्यन्तनिःस्पृहा १४

बुद्धिरासीन्महाराज संसारार्णबतारणी।
पितरं मातरं चैव भ्रातृनथ पितामहान् १५

पितृव्यान्मातुलांश्चैव सखीन् सम्बन्धिबान्धवान्।
परित्यज्य महोदारस्तृणानीव यथासुखम् १६

विचचार महीमेतां शाकमूलफलाशनः।
अनित्यं यौवनं रूपमायुष्यं द्र व्यसञ्चयम् १७

इति सञ्चिन्तयानेन त्रैलोक्यं लोष्ठवत्स्मृतम्।
पुराणोदितमार्गेण सर्वतीर्थानि वै मुने १८

गमिष्यामि यथाकालमिति निश्चितमानसः।
गङ्गां च यमुनां चैव गोमतीमथ गण्डकीम् १९

शतद्रं ऊ! च पयोष्णीं च सरयूं च सरस्वतीम्।
प्रयागं नर्मदां चैव महानद्यो नदानपि २०

गयां च विन्ध्यतीर्थानि हिमवत्प्रभवाणि च।
अन्यानि च महातेजास्तीर्थानि स महाव्रतः २१

सञ्चचार महाबाहुर्यथाकालं यथाविधि।
कदाचित्प्राप्तवान् वीरः शालग्रामं तपोधनः २२

पुण्डरीको महाभागः पुण्यकर्मवशानुगः।
आसेव्यमानमृषिभिस्तत्त्वविद्भिस्तपोधनैः २३

मुनीनामाश्रमं रम्यं पुराणेषु च विश्रुतम्।
भूषितं चक्रनद्या च चक्राङ्कितशिलातलम् २४

रम्यं विविक्तं विस्तीर्णं सदा चित्तप्रसादकम्।
केचिच्चक्राङ्कितास्तस्मिन् प्राणिनः पुण्यदर्शनाः २५

विचरन्ति यथाकामं पुण्यतीर्थप्रसङ्गिनः।
तस्मिन् क्षेत्रे महापुण्ये शालग्रामे महामतिः २६

पुण्डरीकः प्रसन्नात्मा तीर्थानि समसेवत।
स्नात्वा देवहृदे तीर्थे सरस्वत्यां च सुव्रतः २७

जातिस्मर्यां चक्रकुण्डे चक्रनद्यामृतेष्वपि।
तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः २८

ततः क्षेत्रप्रभावेण तीर्थानां चैव तेजसा।
मनः प्रसादमगमत्तस्य तस्मिन्महात्मनः २९

सोऽपि तीर्थे विशुद्धात्मा ध्यानयोगपरायणः।
तत्रैव सिद्धिमाकाङ्क्षन् समाराध्य जगत्पतिम् ३०

शास्त्रोक्तेन विधानेन भक्त्या परमया युतः।
उवास चिरमेकाकी निर्द्वन्द्वः संयतेन्द्रि यः ३१

शाकमूलफलाहारः सन्तुष्टः समदर्शनः।
यमैश्च नियमैश्चैव तथा चासनबन्धनैः ३२

प्राणायामैः सुतीक्ष्णैश्च प्रत्याहारैश्च सन्ततैः।
धारणाभिस्तथा ध्यानैः समाधिभिरतन्द्रि तः ३३

योगाभ्यासं तदा सम्यक् चक्रे विगतकल्मषः।
आराध्य देवदेवेशं तद्गतेनान्तरात्मना ३४

पुण्डरीको महाभागः पुरुषार्थविशारदः।
प्रसादं परमाकाङ्क्षन् विष्णोस्तद्गतमानसः ३५

तस्य तस्मिन्निवसतः शालग्रामे महात्मनः।
पुण्डरीकस्य राजेन्द्र कालोऽगच्छन्महांस्ततः ३६

मुने कदाचित्तं देशं नारदः परमार्थवित्।
जगाम सुमहातेजाः साक्षादादित्यसन्निभः ३७

तं द्र ष्टुकामो देवर्षिः पुण्डरीकं तपोनिधिम्।
विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ३८

स दृष्ट्वा नारदं प्राप्तं सर्वतेजः प्रभान्वितम्।
महामतिं महाप्राज्ञं सर्वागमविशारदम् ३९

प्राञ्जलिः प्रणतो भूत्वा प्रहृष्टेनान्तरात्मना।
अर्धं दत्त्वा यथायोग्यं प्रणाममकरोत्ततः ४०

कोऽयमत्यद्भुताकारस्तेजस्वी हद्यवेषधृक्।
आतोद्यहस्तः सुमुखा जटामण्डलभूषणः ४१

विवस्वानथ वा वह्निरिन्द्रो वरुण एव वा।
इति सञ्चिन्तयन् विप्रः पप्रच्छ परमद्युतिः ४२

पुण्डरीक उवाच।
को भवानिह सम्प्राप्तः कुतो वा परमद्युते।
त्वद्दर्शनं ह्यपुण्याना प्रायोण भुवि दुर्लभम् ४३

नारद उवाच।
नारदोऽहमनुप्राप्तस्त्वद्दर्शनकुतूहलात्।
पुण्डरीक हरेर्भक्तस्त्वादृशः सततं द्विज ४४

स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तम।
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ४५

दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः।
इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना ४६

प्रावोच मधुरं विप्रस्तद्दर्शनसुविस्मितः।
पुण्डरीक उवाच।
धन्योऽहं देहिनामद्य सुपूज्योऽहं सुरैरपि ४७

कृतार्थाः पितरो मेऽद्य सम्प्राप्तं जन्मनः फलम्।
अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः ४८

किं किं करोम्यहं विद्वन् भ्राम्यमाणः स्वकर्मभिः।
कर्तव्यं परमं गुह्यमुपदेष्टुं त्वमर्हसि ४९

त्वं गतिः सर्वलोकानां वैष्णवानां विशेषतः।
नारद उवाच।
अनेकानीह शास्त्राणि कर्माणि च तथा द्विज ५०

धर्ममार्गाश्च बहवस्तथैव प्राणिनः स्मृताः।
वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम ५१

अव्यक्ताज्जायते सर्वं सर्वात्मकमिदं जगत्।
इत्येवं प्राहुरपरे तत्रैव लयमेव च ५२

आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा।
अन्यैर्मतिमतां श्रेष्ठ तत्त्वालोकनतत्परैः ५३

एवमाद्यनुसञ्चिन्त्य यथामति यथाश्रुतम्।
वदन्ति ऋषयः सर्वे नानामतविशारदाः ५४

शृणुष्वावहितो ब्रह्मन् कथयामि तवानघ।
परमार्थमिदं गुह्यं घोरसंसारमोचनम् ५५

अनागतमतीतं च विप्रकृष्टमतीव यत्।
न गृह्णाति नृणां दृष्टिर्वर्तमानार्थनिश्चिता ५६

शृणुष्वावहितं तात कथयामि तवानघ।
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ५७

कदाचिद्ब्रह्मलोकस्य पद्मयोनिं पितामहम्।
प्रणिपत्य यथान्यायं पृष्टवानहमव्ययम् ५८

नारद उवाच।
किं तज्ज्ञानं परं देव कश्च योगः परस्तथा।
एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ५९

ब्रह्मोवाच।
यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः।
स एव सर्वभूतानां नर इत्यभिधीयते ६०

नराज्जातानि तत्त्वानि नाराणीति ततो विदुः।
तान्येव चायनं तस्य तेन नारायणः स्मृतः ६१

नारायणाज्जगत्सर्वं सर्गकाले प्रजायते।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ६२

नारायणः परं ब्रह्म तत्त्वं नारायणः परम्।
नारायणः परं ज्योतिरात्मा नारायणः परः ६३

परादपि परश्चासौ तस्मान्नातिपरं मुने।
यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ६४

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः।
एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ६५

नमो नारायणायेति ध्यात्वा चानन्यमानसाः।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ६६

यो नित्यं ध्यायते देवं नारायणमनन्यधीः।
एतज्ज्ञानं वरं नातो योगश्चैव परस्तथा ६७

परस्परविरुद्धार्थैः किमन्यैः शास्त्रविस्तरैः।
बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ६८

तथा ज्ञानानि सर्वाणि प्रविशन्ति तमीश्वरम्।
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ६९

जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः।
विष्णुर्विभुरचिन्त्यात्मा नित्यः सदसदात्मकः ७०

वासुदेवो जगद्वासः पुराणः कविरव्ययः।
यस्मात्प्राप्तं स्थितिं कृत्स्नं त्रैलोक्यं सचराचरम् ७१

तस्मात्स भगवान्देवो विष्णुरित्यभिधीयते।
यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ७२

तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः।
तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ७३

विज्ञानमात्रं केचिच्च केचिद्ब्रह्म परं तथा।
केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ७४

केचिच्च परमात्मानं केचिच्चैवमनामयम्।
केचित्क्षेत्रज्ञमित्याहुः केचित्षड्विंशकं तथा ७५

अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम्।
एते चान्ये च मुनिभिः सञ्ज्ञाभेदाः पृथग्विधाः ७६

शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः।
एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ७७

बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम्।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ७८

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा।
त्यक्त्वा व्यामोहकान् सर्वान् तस्माच्छास्त्रार्थविस्तरान्।
अनन्यचेता ध्यायस्व नारायणमतन्द्रि तः।
एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ८०

क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः।
श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ८१

ततोऽहमासं विप्रेन्द्र नारायणपरायणः।
नमो नारायणायेति ये विदुर्ब्रह्म शाशवतम् ८२

अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम्।
तस्मान्नारायणस्तात परमात्मा सनातनः ८३

अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः।
नारायणो जगद्व्यापी परमात्मा सनातनः ८४

जगतां सृष्टिसंहारपरिपालनतत्परः।
श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ८५

आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा।
निःस्पृहा नित्यसन्तुष्टा ज्ञानिनः संयतेन्द्रि याः ८६

निर्ममा निरहङ्कारा रागद्वेषविवर्जिताः।
अपक्षपतिताः शान्ताः सर्वसङ्कल्पवर्जिताः ८७

ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम्।
त्यक्तत्रया महात्मानो वासुदेवं हरिं गुरुम् ८८

कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम्।
तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ९६

तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः।
हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ९०

अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च।
तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रि तः ९१

किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ९२

चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा।
भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ९३

ये नृशंसा दुरात्मानः पापाचारस्ताः सदा।
तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ९४

जन्मान्तरसहस्रेषु यस्य स्याद्बुद्धिरीदृशी।
दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः ९५

प्रयाति विष्णुसालोक्यं पुरुषो सात्र संशयः।
किं पुनस्तद्गतप्राणः पुरुषः संयतेन्द्रि यः ९६

मूत उवाच।
इत्युक्त्वा देवदेवर्षिस्तत्रैवान्तरधीयत।
परोपकारनिरतस्त्रैलोक्यस्यैकभूषणः ९७

पुण्डरीकोऽपि धर्मात्मा नारायणपरायणः।
नमोऽस्तु केशवायेति पुनः पुनरुदीरयन् ९८

प्रसीदस्व महायोगिन्निदमुच्चार्य सर्वदा।
हृत्पुण्डरीके गोविन्दं प्रतिष्ठाप्य जनार्दनम् ९९

तपस्सिद्धकरेऽरण्ये शालग्रामे तपोधनः।
उवास चिरमेकाकी पुरुषार्थविचक्षणः १००

स्वप्नेऽपि केशवादन्यन्न पश्यति महातपाः।
निद्रा पि तस्य नैवासीत्पुरुषार्थविरोधिनी १०१

तपसा ब्रह्मचर्येण शौचेन च विशेषतः।
जन्मजन्मान्तरारूढसंस्कारेण च स द्विजः १०२

प्रसादाद्देवदेवस्य सर्वलोकैकसाक्षिणः।
अवाप परमां सिद्धिं वैष्णवीं वीतकल्मषः १०३

सिंहव्याघ्रास्तथान्येऽपि मृगाः प्राणिविहिंसकाः।
विरोधं सहजं हित्वा समेतास्तस्य सन्निधौ।
निवसन्ति द्विजश्रेष्ठ प्रशान्तेन्द्रि यवृत्तयः १०४

ततः कदाचिद्भगवान् पुण्डरीकस्य धीमतः।
प्रादुरासीज्जगन्नाथः पुण्डरीकायतेक्षणः १०५

शङ्खचक्रगदापाणिः पीतवासाः स्रगुज्ज्वलः।
श्रीवत्सवक्षाः श्रीवासः कौस्तुभेन विभूषितः १०६

आरुह्य गरुडं श्रीमानञ्जनाचलसन्निभः।
मेरुशृङ्गमिवारूढः कालमेघस्तडिद्द्युतिः १०७

राजतेनातत्रेण मुक्तादामविलम्बिना।
विराजमानो देवेशश्चामरव्यजनादिभिः १०८

तं दृष्ट्वा देवदेवेशं पुण्डरीकः कृताञ्जलि।
पपात शिरसा भूमौ साध्वसावनतो द्विजः १०९

पिबन्निव हृषीकेशं नयनाभ्यां समाकुलः।
जगाम महतीं तृप्तिं पुण्डरीकस्तदानवः ११०

तमेवलोकयन् वीरश्चिरप्रार्थितदर्शनः।
ततस्तमाह भगवान् पद्मनाभस्त्रिविक्रमः १११

प्रीतोऽस्मि वत्स भद्रं ते पुण्डरीक महामते।
वरं वृणीष्व दास्यामि यत्ते मनसि वर्तते ११२

सूत उवाच।
एतच्छ्रुत्वा तु वचनं देवदेवेन भाषितम्।
इदं विज्ञापयामास पुण्डरीको महामतिः ११३

पुण्डरीक उवाच।
क्वाहमत्यन्तदुर्बुद्धिः क्व चात्महितवीक्षणम्।
यद्धितं मम देवेश तदाज्ञापय माधवः ११४

एवमुक्तोऽथ भगवान् सुप्रीतः पुनरब्रवीत्।
पुण्डरीकं महाभागं कृताञ्जलिमुपस्थितम् ११५

श्रीभगवानुवाच।
आगच्छ कुशलं तेऽस्तु मयैव सह सुव्रत।
मद्रू पधारी नित्यात्मा ममैव पार्षदो भव ११६

सूत उवाच।
एवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ११७

देवाः सेन्द्रा स्तथा सिद्धाः साधु साध्वित्यथाब्रुवन्।
जगुश्च सिद्धगन्धर्वाः किन्नराश्च विशेषतः ११८

अथैनं समुपादाय वासुदेवो जगत्पतिः।
जगाम गरुडारूढः सर्वदेवनमस्कृतः ११९

तस्मात्त्वमपि विप्रेन्द्र विष्णुभक्तिसमन्वितः।
तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः १२०

अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम्।
शृणुष्व तत्कथाः पुण्याः सर्वपापप्रणाशिनीः १२१

येनोपायेन विप्रेन्द्र विष्णुः सर्वेश्वरेश्वरः।
प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् १२२

अश्वमेधसहस्रेण वाजपेयशतैरपि।
नाप्नुवन्ति गतिं पुण्यां नारायणपराद्मुखाः १२३

अजरममरमेकं ध्येयमाद्यन्तशून्यं।
सगुणविगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम्।
निरुपममुपमेयं योगिनां ज्ञानगम्यं।
त्रिभुवनगुरुमीशं त्वां प्रपन्नोऽस्मि विष्णो १२४

इति श्रीनरसिंहपुराणे पुण्डरीकनारदसंवादे।
चतुःषष्टितमोऽध्यायः ६४


पञ्चषष्टितमोऽध्यायः।
भारद्वाज उवाच।
त्वत्तो हि श्रोतुमिच्छामि गुह्यक्षेत्राणि वै हरेः।
नामानि च सुगुह्यानि वद पापहराणि च १

सूत उवाच।
मन्दरस्थं हरिं देवं ब्रह्मा पृच्छति केशवम्।
भगवन्तं देवदेवं शङ्खचक्रगदाधरम् २

ब्रह्मोवाच।
केषु केषु च क्षत्रेषु द्र ष्टाव्योऽसि मया हरे।
भक्तैरन्यैः सुरश्रेष्ठ मुक्मिकामैर्विशेषतः ३

यानि ते गुह्यनामानि क्षेत्राणि च जगत्पते।
तान्यहं श्रोतुमिच्छामि त्वत्तः पद्मायतेक्षण ४

किं जपन् सुगतिं याति नरो नित्यमतन्द्रि तः।
त्वद्भक्तानां हितार्थाय तन्मे वद सुरेश्वर ५

श्रीभगवानुवाच।
शृणुष्वावहितो ब्रह्मन् गुह्यनामानि मेऽधुना।
क्षेत्राणि चैव गुह्यानि तव वक्ष्यामि तत्त्वतः ६

कोकामुखे तु वाराहं मन्दरे मधुसूदनम्।
अनन्तं कपिलद्वीपे प्रभासे रविवन्दनम् ७

माल्योदपामे वैकुण्ठं महेन्द्रे तु नृपात्मजम्।
ऋषभे तु महाविष्णुं द्वारकायां तु भूपतिम् ८

पाण्डुसह्ये तु देवेशं वासुरूढे जगत्पतिम्।
वल्लीवटे महायोगं चित्रकूटे नराधिपम् ९

निमिषे पीतवासं च गवां निष्क्रमणे हरिम्।
शालग्रामे तपोवासमचिन्त्य गन्धमादनं १०

कुब्जागारे हृषीकेशं गन्धद्वारे पयोधरम्।
गरुडध्वजं तु सकले गोविन्दं नाम सायके ११

वृन्दावने तु गोपालं मथुरायां स्वयम्भुवम्।
केदारे माधवं विन्द्याद्वाराणस्यां तु केशवम् १२

पुष्करे पुष्कराक्षं तु धृष्टद्युम्ने जयध्वजम्।
तृणबिन्दुवने वीरमशोकं सिन्धुसागरे १३

कसेरटे महाबाहुममृतं तैजसे वने।
विश्वासयूपे विश्वेशं नरसिंहं महावने १४

हलाङ्गरे रिपुहरं देवशालां त्रिविक्रमम्।
पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः १५

विद्याधरं वितस्तायां वाराहे धरणीधरम्।
देवदारुवने गुह्यं कावेर्यां नागशायिनम् १६

प्रयागे योगमूर्तिं च पयोष्ण्यां च सुदर्शनम्।
कुमारतीर्थे कौमारं लोहिते हयशीर्षकम् १७

उज्जयिन्यां त्रिविक्रमं लिङ्गकूटे चतुर्भुजम्।
हरिहरं तु भद्रा यां दृष्ट्वा पापात्प्रमुच्यते १८

विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम्।
लोकनाथमयोध्यायां कुण्डिने कुण्डिनेश्वरम् १९

भाण्डारे वासुदेवं तु चक्रतीर्थे सुदर्शनम्।
आढ्ये विष्णुपदं विद्याच्छूकरे शूकरं विदुः २०

ब्रह्मेशं मानसे तीर्थे दण्डके श्यामलं विदुः।
त्रिकूटे नागमोक्षं च मेरुपृष्ठे च भास्करम् २१

विरजं पुष्पभद्रा यां बालं केरलके विदुः।
यशस्करं विपाशायां माहिष्मत्यां हुताशनम् २२

क्षीराब्धौ पद्मनाभं तु विमले तु सनातनम्।
शिवनद्यां शिवकरं गयायां च गदाधरम् २३

सर्वत्र परमात्मानं यः पश्यति स मुच्यते।
अष्टषष्टिश्च नामानि कथितानि मया तव २४

क्षेत्राणि चैव गुह्यानि कथितानि विशेषतः।
एतानि मम नामानि रहस्यानि प्रजापते २५

यः पठत् प्रातरुत्थाय शृणुयाद्वापि नित्यशः।
गवां शतसहस्रस्य दत्तस्य फलमाप्नुयात् २६

दिने दिने शुचिर्भूत्वा नामान्येतानि यः पठेत्।
दुःस्वप्नं न भवेत्तस्य मत्प्रसादान्न संशयः २७

अष्टषष्टिस्तु नामानि त्रिकालं यः पठेन्नरः।
विमुक्तः सर्वपापेभ्यो मम लोके स मोदते २८

द्र ष्टव्यानि यथाशक्त्या क्षेत्राण्येतानि मानवैः।
वैष्णवैस्तु विशेषेण तेषां मुक्तिं ददाम्यहम् २९

सूत उवाच।
हरिं समभ्यर्च्य तदग्रसंस्थितो।
हरिं स्मरन् विष्णुदिने विशेषतः।
इमं स्तवं यः पठते स मानवः।
प्राप्नोति विष्णोरमृतात्मकं पदम् ३०

इति श्रीनरसिंहपुराणे आद्ये धर्मार्थमोक्षदायिनि।
विष्णुबल्लभे पञ्चषष्टितमोऽध्यायः ६५


षट्षष्टितमोऽध्यायः।
सूत उवाच।
उक्तः पुण्यः स्तवो ब्रह्मन् हरेरेभिश्च नामभिः।
पुनरन्यानि नामानि यानि तानि निबोध मे १

गङ्गा तु प्रथमं पुण्या यमुना गोमती पुनः।
सरयूः सरस्वती च चन्द्र भागा चर्मण्वती २

कुरुक्षेत्रं गया चैव पुष्कराणि तथार्बुदम्।
नर्मदा च महापुण्या तीर्थान्येतानि चोत्तरे ३

तापी पयोष्णी पुण्ये द्वे तत्सङ्गात्तीर्थमुत्तमम्।
तथा ब्रह्मगिरेश्चापि मेखलाभिः समन्विताः ४

विरजं च तथा तीर्थं सर्वपापक्षयङ्करम्।
गोदावरी महापुण्या सर्वत्र चतुरानन् ५

तुङ्गभद्रा महापुण्या यत्राहं कमलोद्भव।
हरेण सार्धं प्रीत्या तु वसामि मुनिपूजितः ६

दक्षिणगङ्गा कृष्णा तु कावेरी च विशेषतः।
सह्ये त्वामलकग्रामे स्थितोऽहं कमलोद्भव ७

देवदेवस्य नाम्ना तु त्वया ब्रह्मन् सदार्चितः।
तत्र तीर्थान्यनेकानि सर्वपापहराणि वै।
येषु स्नात्वा च पीत्वा च पापान्मुच्यति मानवः ८

सूत उवाच।
इत्येवं कथयित्वा तु तीर्थानि मधुसूदनः।
ब्रह्मणे गतवान् ब्रह्मन् ब्रह्मापि स्वपुरं गतः ९

भरद्वाज उवाच।
तस्मिन्नामलकग्रामे पुण्यतीर्थानि यानि वै।
तानि मे वद धर्मज्ञ विस्तरेण यथार्थतः १०

क्षेत्रोत्पत्तिं च माहात्म्यं यात्रापर्व च यत्र तत्।
तत्रासौ देवदेवेशः पूज्यते ब्रह्मणा स्वयम् ११

सूत उवाच।
शृणु विप्र प्रवक्ष्यामि पुण्यं पापप्रणाशनम्।
सह्यामलकतीर्थस्य उत्पत्त्यादि महामुने १२

पुरा सह्यवनोद्देशे तरुरामलको महान्।
आसीद्ब्रह्मन् महोग्रोऽयं नाम्नायं चोच्यते बुधैः १३

फलानि तस्य वृक्षस्य महान्ति सुरसानि च।
दर्शनीयानि दिव्यानि दुर्लभानि महामुने १४

परेषां ब्राह्मणानां तु परेण ब्रह्मणा पुरा।
स दृष्टस्तु महावृक्षो महाफलसमन्वितः १५

किमेतदिति विपेन्द्र ध्यानदृष्टिपरोऽभवत्।
ध्यानेन दृष्टवांस्तत्र पुनरामलकं तरुम् १६

तस्योपरि तु देवेशं शङ्खचक्रगदाधरम्।
उत्थाय च पुनः पश्येत्प्रतिमामेव केवलाम् १७

तत्पादं भूतले देवः प्रविवेश महातरुः।
ततस्त्वाराधयामास देवदेवेशमव्ययम् १८

गन्धपुष्पादिभिर्नित्यं ब्रह्मा लोकपितामहः।
द्वादशभिः सप्तभिस्तु सङ्ख्याभिः पूजितो हरिः १९

तस्मिन् क्षेत्रे मुनिश्रेष्ठ माहात्म्यं तस्य को वदेत्।
श्रीसह्यामलकग्रामे देवदेवेशमव्ययम् २०

आराध्यतीर्थे सम्प्राप्ता द्वादश प्रति चतुर्मुखम्।
तस्य पादतले तीर्थं निस्सृतं पश्चिमामुखम् २१

तच्चक्रतीर्थमभवत्पुण्यं पापप्रणाशनम्।
चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते २२

बहुवर्षसहस्राणि ब्रह्मलोके महीयते।
शङ्खतीर्थे नरः स्नात्वा वाजपेयफलं लभेत् २३

पौषे मासें तु पुष्यार्के तद्यात्रादिवसं मुने।
ब्रह्मणः कुण्डिका पूर्वं गङ्गातोयप्रपूरिता २४

तस्याद्रौ पतिता ब्रह्मंस्तत्र तीर्थेऽशुभं हरेत्।
नाम्ना तत्कुण्डिकातीर्थं शिलागृहसमन्वितम् २५

तत्तीर्थे मनुजः स्नात्वा तदानीं सिद्धिमाप्नुयात्।
त्रिरात्रोपोषितो भूत्वा यस्तत्र स्नाति मानवः २६

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते।
कुण्डिकातीर्थादुत्तरे पिण्डस्थानाच्च दक्षिणे २७

ऋणमोचनतीर्थं हि तीर्थानां गुह्यमुत्तमम्।
त्रिरात्रमुषितो यस्तु तत्र स्नानं समाचरेत् २८

ऋणैस्त्रिभिरसौ ब्रह्मन् मुच्यते नात्र संशयः।
श्राद्धं कृत्वा पितृभ्यश्च पिण्डस्थानेषु यो नरः २९

पितॄनुद्दिश्य विधिवत्पिण्डान्निर्वापयिष्यति।
सुतृप्ताः पितरो यान्ति पितृलोकं न संशयः ३०

पञ्चरात्रोषितस्नायी तीर्थे वै पापमोचने।
सर्वपापक्षयं प्राप्य विष्णुलोके स मोदते ३१

तत्रैव महतीं धारां शिरसा यस्तु धारयेत्।
सर्वक्रतुफलं प्राप्य नाकपृष्ठे महीयते ३२

धनुःपाते महातीर्थे भक्त्या यः स्नानमाचरेत्।
आयुर्भोगफलं प्राप्य स्वर्गलोके महीयते ३३

शरविन्दौ नरः स्नात्वा शतक्रतुपुरं व्रजेत्।
वाराहतीर्थे विप्रेन्द्र सह्येयः स्नानमाचरेत् ३४

अहोरात्रोषितो भूत्वा विष्णुलोके महीयते।
आकाशगङ्गानाम्ना च सह्याग्रे तीर्थमुत्तमम् ३५

शिलातलात्ततो ब्रह्मन्निर्गता श्वेतमृत्तिका।
तस्यां भक्त्या तु यः स्नाति नरो द्विजवरोत्तम् ३६

सर्वक्रतुफलं प्राप्य विष्णुलोके महीयते।
ब्रह्मन्नमलसह्याद्रे र्यद्यत्तोयविनिर्गमः ३७

तत्र तीर्थं विजानीहि स्नात्वा पापात्प्रमुच्यते।
सह्याद्रिं गतवान्नित्यं स्नात्वा पापात्प्रमुच्यते ३८

एतेषु तीर्थेषु नरो द्विजेन्द्र।
पुण्येषु सह्याद्रि समुद्भवेषु।
दत्त्वा सुपुष्पाणि हरिं स भक्त्या।
विहाय पापं प्रविशेत्स विष्णुम् ३९

सकृत्तीर्थाद्रि तोयेषु गङ्गायां तु पुनः पुनः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ४०

सर्वशास्त्रमयी गीता सर्वधर्मो दयापरः।
एवं ते कथितं विप्र क्षेत्रमाहात्म्यमुत्तमम् ४१

श्रीसह्यामलकग्रामे तीर्थ स्नात्वा फलानि च।
तीर्थानामपि यत्तीर्थं तत्तीर्थं द्विजसत्तम।
देवदेवस्य पादस्य तलाद्भुवि विनिस्सृतम् ४२

अम्भोयुगं तुरगमेधसहस्रतुल्यं।
तच्चक्रतीर्थमिति वेदविदोवदन्ति ॥
स्नानाच्च तत्र मनुजा न पुनर्भवन्ति।
पादौ प्रणम्य शिरसा मधुसूदनस्य ४३

गङ्गाप्रयागगमनैमिषपुष्कराणि।
पुण्यायुतानि कुरुजाङ्गलयामुनानि ॥
कालेन तीर्थसलिलानि पुनन्ति पापात्।
पादोदकं भगवतस्तु पुनाति सद्यः ४४

इति श्रीनरसिंहपुराणे तीर्थप्रशंसायां षट्षष्टितमोऽध्यायः ६६


सप्तषष्टितमोऽध्यायः।
सूत उवाच।
तीर्थानि कथितान्येवं भौमानि द्विजसत्तम।
मानसानि हि तीर्थानि फलदानि विशेषतः १

मनोनिर्मलता तीर्थं रागादिभिरनाकुला।
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रि यनिग्रहः २

गुरुशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा।
स्वधर्माचरणं तीर्थं तीर्थमग्नेरुपासनम् ३

एतानि पुण्यतीर्थानि व्रतानि शृणु मेऽधुना।
एकभुक्तं तथा नक्तमुपवासं च वै मुने ४

पूर्णमास्याममावास्यामेकभुक्तं समाचरेत्।
तत्रैकभुक्तं कुर्वाणः पुण्यां गतिमवाप्नुयात् ५

चतुर्थ्यां तु चतुर्दश्यां सप्तम्यां नक्तमाचरेत्।
अष्टम्यां तु त्रयोदश्यां स प्रप्नोत्यभिवाञ्छितम् ६

उपवासो मुनिश्रेष्ठ एकादश्यां विधीयते।
नरसिंहं समभ्यर्च्य सर्वपापैः प्रमुच्यते ७

हस्तयुक्तेऽर्कदिवसे सौरनक्तं समाचरेत्।
स्नात्वार्कमध्ये विष्णुं च ध्यात्वा रोगात्प्रमुच्यते ८

आत्मनो द्विगुणां छायां यदा सन्तिष्ठते रविः।
सौरनक्तं विजानीयान्न नक्तं निशि भोजनम् ९

गुरुवारे त्रयोदश्यामपराह्णे जले ततः।
तर्पयित्वा पितृन्देवानृषींश्च तिलतन्दुलैः १०

नरसिंहं समभ्यर्च्य यः करोत्युपवासकम्।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ११

यदागस्त्योदये प्राप्ते तदा सप्तसु रात्रिषु।
अर्घ्यं दद्यात् समभ्यर्च्य अगस्त्याय महामुने १२

शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम्।
मन्त्रेणानेन वै दद्याच्छितपुष्पादिनार्चिते १३

काशपुष्पप्रतीकाश अग्निमारुतसम्भव।
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते १४

आतापी भक्षितो येन वातापी च महासुरः।
समुद्र ः! शोषितो येन सोऽगस्त्यः प्रीयतां मम १५

एवं तु दद्याद्यो सर्वमगस्त्ये वै दिशं प्रति।
सर्वपापविनिर्मुक्तस्तमस्तरति दुस्तरम् १६

एवं ते कथितं सर्वं भरद्वाज महामुने।
पुराणं नरसिंहं च मुनीनां सन्निधौ मया १७

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं चैव सर्वमेव प्रकीर्तितम् १८

ब्रह्मणैव पुरा प्रोक्तं मरीच्यादिषु वै मुने।
तेभ्यश्च भृगुणा प्रोक्तं मार्कण्डेयाय वै ततः १९

मार्कण्डेयेन वै प्रोक्तं राज्ञो नागकुलस्य ह।
प्रसादान्नरसिंहस्य प्राप्तं व्यासेन धीमता २०

तत्प्रसादान्मया प्राप्तं सर्वपापप्रणाशिनम्।
पुराणं नरसिंहस्य मया च कथितं तव २१

मुनीनां सन्निधौ पुण्यं स्वस्ति तेऽस्तु व्रजाम्यहम्।
यः शृणोति शुचिर्भूत्वा पुराणं ह्येतदुत्तमम् २२

माघे मासि प्रयागे तु स स्नानफलमाप्नुयात्।
यो भक्त्या श्रावयेद्भक्तान्नित्यं नरहरेरिदम् २३

सर्वतीर्थफलं प्राप्य विष्णुलोके महीयते।
श्रुत्वैवं स्नातकैः सार्धं भरद्वाजो महामतिः २४

सूतमभ्यर्च्य तत्रैव स्थितवान् मुनयो गताः।
सर्वपापहरं पुण्यं पुराणं नृसिंहात्मकम् २५

पठतां शृण्वतां नृणां नरसिंह प्रसीदति।
प्रसन्ने देवदेवेशे सर्वपापक्षयोः भवेत् २६

प्रक्षीणपापबन्धास्ते मुक्तिं यान्ति नरा इति २७

इति श्रीनरसिंहपुराणे मानसतीर्थव्रतं नाम सप्तषष्टितमोऽध्यायः ६७


अष्टषष्टितमोऽध्यायः।
सूत उवाच।
इत्येतत् सर्वमाख्यातं पुराणं नारसिंहकम्।
सर्वपापहरं पुण्यं सर्वदुःखनिवारणम् १

समस्तपुण्यफलदं सर्वयज्ञफलप्रदम्।
ये पठन्त्यपि शृण्वन्ति श्लोकं श्लोकार्धमेव वा २

न तेषां पापबन्धस्तु कदाचिदपि जायते।
विष्ण्वर्पितमिदं पुण्यं पुराणं सर्वकामदम् ३

भक्त्या च वदतामेतच्छृण्वतां च फलं शृणु।
शतजन्मार्जितैः पापैः सद्य एव विमोचिताः ४

सहस्रकुलसंयुक्ताः प्रयान्ति परमं पदम्।
किं तीर्थैर्गोप्रदानैर्वा तपोभिर्वा किमध्वरैः ५

अहन्यहनि गोविन्दं तत्परत्वेन शृण्वताम्।
यः पठेत्प्रातरुत्थाय यदस्य श्लोकविंशतिम् ६

ज्योतिष्टोमफलं प्राप्य विष्णुलोके महीयते।
एतत्पवित्रं पूज्यं च न वाच्यमकृतात्मनाम् ७

द्विजानां विष्णुभक्तानां श्राव्यमेतन्न संशयः।
एतत्पुराणश्रवणमिहामुत्र सुखप्रदम् ८

वदतां शृण्वतां सद्यः सर्वपापप्रणाशनम्।
बहुनात्र किमुक्तेन भूयो भूयो मुनीश्वराः ९

श्रद्धयाश्रद्धया वापि श्रोतव्यमिदमुत्तमम्।
भारद्वाजमुखाः सर्वे कृतकृत्वा द्विजोत्तमाः १०

सूतं हृष्टाः प्रपूज्याथ सर्वे स्वस्वाश्रमं ययुः ११

इति श्रीनरसिंहपुराणे सूतभरद्वाजादिसंवादे।
सर्वदुःखोपहरं श्रीनरसिंहपुराणस्य माहात्म्यं समाप्तम्।
शुभम्भवतु।





Reference: The NarasiµhapurŒnam, Nag Publishers, Delhi: 1987.(383 pp.)।