यादवाद्रिदर्शनम् Part 8

श्रीरस्तु

श्रीमते नारायणाय नमः

श्रीमते रामानुजाय नमः

श्रीनारदपुराणान्तर्गत-श्रीमद्यादवागिरिमाहात्म्यम्

अथ षष्ठोऽध्यायः

श्रीरामस्य नारायणमूर्तिलाभः

मुनयः –

उक्तं हि भवता सर्वं भगवन्मुनिपुङ्गव ।

अस्माकं कर्णयोरासीदमृतस्यन्दिसेचनम् ॥ (१)

तथाऽप्यस्माकमपरं वक्तुं त्वं किञ्चिदर्हसि ।

वासुदेवकथां वक्तुं त्वत्तः कोऽन्यो विशारदः ॥ (२)

नारदः –

मुनयः पृच्छताशेषं यद्युष्माकं विवक्षितम् ।

अविवक्षितवक्तृत्वं विदुषां हि न युज्यते ॥ (३)

मुनयः –

यद्रूपं ब्रह्मणे दत्तं हरिणा पूर्वमद्भुतम् ।

किमास्ते ब्रह्मलोके तत्किं वाऽत्र धरणीतले ॥ (४)

एतदिच्छामहे श्रोतुं महत्कौतूहलं हि नः ।

नारदः –

स्मारितोऽस्मि मुनिश्रेष्ठा मम लोचनपारणाम् ॥ (५)

रूपं तदिह युष्माभिर्युक्तकालानुयोगिभिः ।

पुण्यं किञ्चित्प्रवक्ष्यामि पूर्ववृत्तं मुनीश्वराः ॥ (६)

भवद्भिरवधातव्यं भगवद्भक्तिभाजनैः ।

पत्न्या सह विशालाक्ष्या नित्यं नारायणार्चनम् ॥ (७)

अकरोद्धि पुरा रामश्श्रीमान् काकुत्स्थवंशजः ।

स खल्वरण्यमासाद्य वसन्प्राप कदाचन ॥ (८)

नारायणाचलं देव्या साकं सौमित्रिणापि च ।

निवसन्तं गिरेस्सानौ सीतया सह राघवम् ॥ (९)

उवाच लक्ष्मणः श्रीमानुल्लसद्विस्मयाननः ।

अस्त्येतस्य गिरेरग्रे सरो मानसनिर्मलम् ॥ (१०)

तस्य चास्ति तटे दिव्यं विमानं सुमनोहरम् ।

मध्ये विमानं महती विष्णोर्मूर्तिश्च दृश्यते ॥ (११)

समाभ्यधिकनिर्मुक्तं तस्यास्सौन्दर्यमीक्ष्यते ।

भवता सदृशं तस्य मया रूपं विलोक्यते ॥ (१२)

यदि ते द्रष्टुमिच्छाऽस्ति भवानीक्षितुमर्हति ।

ततः प्रीतमना भूत्वा सहसोत्थाय राघवः ॥ (१३)

जगाम सीतया सार्धं कल्याणसरसस्तटम् ।

तत्रापश्यज्जगन्नाथं नलिनायतलोचनम् ॥ (१४)

राकाचन्द्रमुखाम्भोजं रत्नकुण्डलमण्डितम् ।

किरीटमकुटाद्यैश्च भूषणैः भूषिताकृतिम् ॥ (१५)

अञ्जनाचलसङ्काशं रञ्जकं पश्यतां दृशोः।

सौभाग्यं सर्वलोकनां भूषणानाञ्च भूषणम् ॥ (१६)

आयुधैरद्भुताकारैरभितः परिवारितम् ।

दृष्ट्वा नारायणं देवं ववन्दे रघुनन्दनः ॥ (१७)

विस्मयोत्फुल्लनयना वैदेही तं रमापतिम् ।

आकर्णपूर्णया दृष्टया निर्निमेषं व्यलोकत ॥ (१८)

लक्ष्मणेनोपनीतैश्च कमलैः कमलेक्षणम् ।

अर्चयन्कतिचिन्मासाननैषीत्तत्र राघवः ॥ (१९)

प्राह नारायणश्श्रीमान् राममाहवपुङ्गवम् ।

रक्षो वंशस्य निधनं कृत्वा साकेतमागते ॥ (२०)

त्वयि राघव तत्राहमायास्याम्यंशतो मम ।

इति तेन समादिष्टो रामो रक्षः कुलान्तकः ॥ (२१)

चतुर्दशसु वर्षेषु व्यतीतेषु निजां पुरीम् ।

अविशत्कपिशार्दूलैः अमरांशसमुद्भवैः ॥ (२२)

ततो रघुपतिः श्रीमान् त्राता भक्तिमुपेयुषाम् ।

विभीषणस्य भक्तस्य स्ववियोगासहिष्णुताम् ॥ (२३)

दृष्ट्वा प्रादित रङ्गेशं आत्मनाराधितं तदा ।

मदभ्यर्चितमेनं त्वमर्चयेति महामनाः ॥ (२४)

विभीषणे गते रामो रङ्गनाथे च दूरगे ।

विषीदन्निव तत्रत्यैः पौरैः क्षणमदृश्यत ॥ (२५)

अत्रान्तरे विमानेन ब्रह्मलोकादुपागतः ।

अब्रवीत् रघुशार्दूलं ब्रह्मा लोकपितामहः ॥ (२६)

नारायणाचलस्थेन काकुत्स्थ-कुलनन्दन ।

अर्चितस्य त्वया पूर्वं विष्णोरंशोऽयमद्भुतः ॥ (२७)

मा विषीद गृहाण त्वं रूपमेतन्ममार्पितम् ।

सहसोत्थाय परया भक्त्या कौतूहलान्वितः ॥ (२८)

गृहीत्वा रघुनाथस्तां मूर्ति पद्मासनार्चिताम् ।

अर्चयामास सुचिरं सुमित्रानन्दनान्वितः ॥ (२९)

सस्मितं राघवः प्राह सौमित्रिं सविधस्थितम् ।

तात लक्ष्मण सौमित्रे पुण्यारण्ये मयार्चिताम् ॥ (३०)

मूर्तिमेनाञ्च मन्येऽहमेकामेव न संशयः ।

निशम्य राघवस्यैतद्वचनं पवनात्मजः ॥ (३१)

पप्रच्छ कुत्र सा मूर्तिरिति काकुत्स्थसोदरम् ।

ततो यादवशैलाग्र अब्रवीत् स च लक्ष्मणः ॥ (३२)

आकर्ण्य लक्ष्मणस्यैतद्वचनं पवनात्मजः ।

आजगाम ततो वेगाद्गत्वा दृष्ट्वा च मारुतिः ॥ (३३)

रामं प्राह रघुश्रेष्ठमाञ्जनेयस्ततः परम् ।

एतद्रूपञ्च तद्रूपं त्वां चैकं मन्यते मनः ॥ (३४)

ततो रामश्च तं प्राह पवनस्य सुतं मुदा ।

यथा मां सेवसे वीर तथा तत्रापि सेवय ॥ (३५)

काले काले च लक्ष्मीशं परितोषय मारुते ।

नियोगं रघुनाथस्य धारयन् पवनात्मजः ॥ (३६)

अद्यापि कुरुते सेवाम् आञ्जनेयस्तु तद्गिरौ ।

उपेतकौतुको नित्यमुपचारैस्सहस्रशः ॥ (३७)

सिषेवे रघुनाथस्तां मूर्ति विष्णोर्मुदान्वितः ।

साकं लक्ष्म्या च भूम्या च साकेतकुलदैवतम् ॥ (३८)

चराचरं यदा नैषीद्दिव्यं धाम स राघवः ।

तदा हनुमतो हस्ते प्रादादादिमदैवतम् ॥ (३९)

कुशाय रामपुत्राय ततः पवनसम्भवः ।

अदिशद्दिव्यरूपं तदर्चितं पद्मयोनिना ॥ (४०)

कनकमालिन्युपाख्यानम्

ततः कुशोऽपि तद्राजा राघवेण समर्चितम् ।

रूपमभ्यर्थयामास पित्र्यं धनमिति स्मरन् ॥ (४१)

लक्षणैर्गुणतश्चापि तस्य कन्याभवत्ततः ।

सा च कण्ठस्थया साकं जाता कनकमालया ॥ (४२)

अतस्तां बान्धवाः प्राहुर्नाम्ना कनकमालिनीम् ।

सुकेशीमसितापाङ्गां सुभ्रुवं शुभदर्शनाम् ॥ (४३)

सुनासां सुस्मितां रम्यां सुमध्यां हंसगामिनीम् ।

पद्मपर्यायचरणां तरुणीमरुणाधराम् ॥ (४४)

नतनाभिं वराङ्गीं तां मधुरां मधुरस्वनाम् ।

विष्णुभक्तिपरां नित्यं कन्यकां धन्यरूपिणीम् ॥ (४५)

अवलोक्य कुशः प्रीतमुपलेभे महत्तराम् ।

कुशस्य कुलदैवं तत्कुशेशयविलोचनम् ॥ (४६)

अवलोक्य विशालाक्षी नित्यं परिचचार सा ।

तदा कुशलवौ नित्यं कुशीलवकुलैर्युतौ ॥ (४७)

रामप्रियस्य तस्याग्रे रामायणमगायताम् ।

अथ राघववंशस्य कर्ता स खलु भूपतिः ॥ (४८)

अलसापाङ्गसन्दर्भाम् अङ्कुरत्कुचकुड्मलाम् ।

अपरां कान्तिमापन्नामधिकारुणिताधराम् ॥ (४९)

अङ्गेष्वाविर्विलासां तामनङ्गस्येव देवतां ।

सम्प्रेक्ष्य तनयामेनां कुशः संज्ञातयौवनाम् ॥ (५०)

भर्तारमुचितं तस्यास्साकं पत्न्या व्यचारयत् ।

तद्गुणानुगुणं किञ्चिन्नोपलेभे रघूद्वहः ॥ (५१)

एवं चिन्तयतस्तस्य निशि निद्रा व्यजायत ।

ददर्श राघवं स्वप्ने कुशस्सौमित्रिणान्वितम् ॥ (५२)

भरतं सहशत्रुघ्नं जननीं चापि जानकीम् ।

ततः परमया भक्त्या कुशः कौतूहलान्वितः ॥ (५३)

सानुजं सहितं देव्या ववन्दे रघुनन्दनम् ।

तं प्राह रघुनाथोऽपि ताराधिपनिभाननः ॥ (५४)

तापापहारिभिः वाक्यैस्सस्मितं चन्द्रिकामलैः ।

कुशाग्रबुद्धे बुध्यस्व हितं च कुरु मद्वचः ॥ (५५)

कन्यां प्रयच्छ ते वत्स तस्मै कल्याणरूपिणी ।

यस्तु नारायणपरो नाम्ना च यदुशेखरः ॥ (५६)

जननी चापि तं प्राह पुत्रं जनकनन्दिनी ।

यदिच्छेत् स्त्रीधनं तन्वी तत्प्रयच्छ कुमारक ॥ (५७)

पित्रा दत्तं हि पुत्रीणां प्रीतेः परमकारणम् ।

अबुध्यत ततस्सद्यः स राजा रघुकुञ्जरः ॥ (५८)

पत्न्यै निवेदयामास तत्सर्वं स्वप्नदर्शनम् ।

सापि सम्फुल्लनयना सर्वं श्रुत्वा पुनः पुनः ॥ (५९)

प्रतिपेदे परां प्रीतिं पार्थिवेन्द्र-कुटुम्बिनी ।

अत्रान्तरे मुनिश्रेष्ठास्सोऽहं कल्याणकौतुकी ॥ (६०)

अगच्छ राजधानीं तां यदुशेखररक्षिताम् ।

स खल्वाराध्य लक्ष्मीशं पुरा नारायणाचले ॥ (६१)

सार्वभौमपदं प्राप सर्वैः मुनिभिरावृतः ।

पिता तस्य च भूपालो नाम्ना यादवभूषणः ॥ (६२)

तद्गुणानुगुणां कन्यामन्वियेष तदा पुनः ।

अहं तस्य च भूषस्य सन्निधिं प्राप्य सादरम् ॥ (६३)

रघुनायककन्यां तामवोच तद्गुणोचिताम् ।

अन्वेषयितुमागच्छदयोध्यां स च भूपतिः ॥ (६४)

अन्विष्यान्विष्य बहवो भूपालाः पूर्वमागताः ।

न लेभिरे च तां कन्यां कुशात्कुशलचेतसः ॥ (६५)

पितोर्वाक्यप्रमाणेन कन्यां कनकमालिनीम् ।

यदुशेखरनाम्ने तां प्रदाद्राघवनन्दनः ॥ (६६)

यौवनं च ततो दातुं प्रमोदादुपचक्रमे ।

शतं रथाणां रम्याणां दासीनां त्रिशतानि च ॥ (६७)

सहस्रं वारणेन्द्राणामयुतं वाजिनामपि ।

नियुतं नवरत्नानां कोटिं जाम्बूनदस्य च ॥ (६८)

शतयोजनविस्तीर्णां वसुधां सस्यशालिनीम् ।

तस्यै कनकमालिन्यै कौतुकाददिशत्कुशः ॥ (६९)

ततः कन्या च तं प्राह वैदहीनन्दनं नृपम् ।

अहं वाञ्छामि नैतानि तात दत्तानि मे त्वया ॥ (७०)

मत्वा नालमिति प्रोक्तमिति तद्द्विगुणं ददौ ।

राजा राघवशार्दूलो धनेन धनदाधिकः ॥ (७१)

सा कन्या पुनरप्याह तात नैतन्ममेप्सितम् ।

किन्ते वाञ्छितमित्याह स राजा कन्यकाञ्च ताम् ॥ (७२)

काङ्क्षितं तु वदिष्यामि यदि मे दास्यसि ध्रुवम् ।

किमदेयं तवेत्याह तां कन्यां जानकीसुतः ॥ (७३)

अयाचत च सा पुत्री पितरं प्रीतमानसा ।

अर्चितं रघुनाथेन रम्यं किमपि तद्धनम् ॥ (७४)

जनकश्च ततस्तस्या जानकीवचनं स्मरन् ।

दिदेश दिव्यां तां मूर्तिं दिनकृद्वंशवर्धनः ॥ (७५)

प्राक्प्रदत्तं च यच्चान्यद्-दातव्यमदिशच्च तत् ।

लब्ध्वा कन्यां ततो राज्ञां शेखरो यदुपुङ्गवः ॥ (७६)

निर्जगाम पुरा तस्मान्निर्जराधिपविक्रमः ।

रुरुधुर्नृपशार्दूलं रुष्टा दुष्टा महीक्षितः ॥ (७७)

वधूरत्नं तदाहर्तुं मध्ये मार्गं मदोद्धताः ।

समराङ्गणदीप्ते न तस्य तेजो दवाग्निना ॥ (७८)

दग्धपक्षा विपक्षास्ते सर्वे शलभतां ययुः ।

अपि चाहवसन्नाहे रक्षन् राघवदैवतम् ॥ (७९)

ताडयामास तान् सर्वान् लङ्कादहनवानरः ।

आसीदासेदुषी तत्र मम लोचनपारणा ॥ (८०)

तद्धि सर्वं मुनिश्रेष्ठास्तस्य विष्णोः प्रभावतः ।

दैवं नारायणो येषां तेषां परिभवः कुतः ॥ (८१)

रत्नान्दोलिकया देवं राजा यादवभूषणः ।

निन्ये धन्यमना भूत्वा दम्पत्योरग्रतस्स्थितः ॥ (८२)

आसेदुरथ सर्वेऽपि मधुरां मधुराकृतिम् ।

ततस्समागमं श्रुत्वा विष्णोरमिततेजसः ॥ (८३)

उद्वाहमङ्गलं चापि निर्ययुः पौरयोषितः ।

कङ्कणध्वनिसम्भिन्नैर्मणिनूपुरशिञ्जितैः ॥ (८४)

स्त्रीणामन्योन्यसल्लापास्तिरोधानं प्रपेदिरे ।

कोणाभिघातसंक्षुब्ध-भेरीकुहरसम्भ्रमैः ॥ (८५)

मर्दलध्वनयो वीणावेणुनिस्वनकर्बुराः ।

विष्णुक्षुश्रुविरे विष्णोरागमोत्सवसम्भवाः ॥ (८६)

वैकुण्ठसेवां कुर्वाणा वैतालिककुलोद्भवाः ।

प्रशशंसुः प्रभावं च रघुयादववंशयोः ॥ (८७)

काहली-चिह्ननिक्वाण-मिलत्कलकलां पुरीम् ।

प्रावेशयत्तदा राजा दम्पतीभ्यां जगत्पतिः ॥ (८८)

ततः कनकमालिन्या सहितो यदुशेखरः ।

अर्चयामास देवेशमर्थिताधिकदायिनम् ॥ (८९)

प्रसादात्तस्य देवस्य प्रभावं जग्मुषोस्तयोः ।

आसीदखण्डमैश्वर्यमभवन्नभिताः सुताः ॥ (९०)

यदुवंशक्रमेणाथ भगवान्भक्तवत्सलः ।

वसुदेवस्य भवने वासं चक्रे ततः परम् ॥ (९१)

देवकीजठरे वासं स्वोदरे विश्वदर्शनम् ।

बन्धच्छेदनमन्येषां स्वबन्धनमुलूखले ॥ (९२)

पुत्रार्थं कुत्रचिद्यानं घण्टाकर्णस्य मोक्षणम् ।

पलायनं च यवनान्मुचुकुन्दस्य मोक्षणम् ॥ (९३)

परिष्वङ्गं च गोपीनां ब्रह्मचर्यस्य पालनम् ।

अपालनं स्वपुत्राणाम् अन्यपुत्राभिरक्षणम् ॥ (९४)

प्रकाशं विश्वरूपस्य पाण्डवस्यन्दने स्थितिम् ।

अनिरुद्धकिरीटस्य पिञ्छस्यापि च धारणम् ॥ (९५)

सत्यप्रतिष्ठारूपत्वं नवनीतस्य मोक्षणम् ।

नित्याव्याहतमैश्वर्यमुग्रसेननियाम्यताम् ॥ (९६)

ब्रह्मरुद्रार्चितत्वं च कुन्त्यादीनां नमस्क्रियाम् ।

एवमादीनि चित्राणि चरितानि विलोकयन् ॥ (९७)

वसुदेवस्य भवने वासं चक्रे रमापतिः ।

मुनयः –

सर्वं जानीमहे ब्रह्मन्निदमेकं त्वयोच्यताम् ॥ (९८)

अनिरुद्धकिरीटस्य कथं कृष्णेन धारणम् ।

अनिरुद्ध किरीटवैभवम्

नारदः –

पुरा प्रह्लादतनयो नाम्ना योऽभूद्विरोचनः ॥ (९९)

स तु क्षीरांबुधेर्मध्ये चकाराच्युतसेवनम् ।

कदाचिद्योगनिद्रायां निर्जग्मुः मुनयः परे ॥ (१००)

प्रह्लादान्वययोगेन प्रभूतां भक्तिमुद्वहन् ।

अन्तरंगत्वमास्थाय सिषेवे स विरोचनः ॥ (१०१)

अवकाशे किरीटश्च विष्णोरपजहार सः ।

पलायिष्ट च वेगेन पातालोदरगह्वरे ॥ (१०२)

प्राबुध्यत ततः पश्चाद्भगवान् रमया सह ।

आजग्मुस्सहसा सर्वे भगवत्सेवका जनाः ॥ (१०३)

ददृशुः पुण्डरीकाक्षं किरीटं नोपलेभिरे ।

भगवन्तं च पप्रच्छुः भक्त्या भीत्या च विह्वलाः ॥ (१०४)

भगवानपि तान् प्राह निद्रालुः किं नु वेद्म्यहम् ।

इति तद्वचनं श्रुत्वा सर्वे ते विष्णुकिङ्कराः ॥ (१०५)

प्रायो विरोचनेनैव लुण्टाकेनात्र भूयते ।

अन्ये वयममी सर्वे वसामो ह्यत्र सेवकाः ॥ (१०६)

स खल्वसुरवंश्योऽभूत् सर्वदा वाममीक्षते ।

अधुना च पलायिष्ट तस्मात् चोरो विरोचनः ॥ (१०७)

इति सर्वेऽपि निश्चित्य वैनतेयं वभाषिरे ।

त्वं हि सर्वेषु चास्मासु वेगवान् बलवत्तरः ॥ (१०८)

गत्वा विरोचनं जित्वा किरीटं सहसानय ।

इति तैश्चोदितः श्रीमान् विनतानन्दनो ययौ ॥ (१०९)

त्रिभिर्मुहूर्तैः वनं पर्यटनं पक्षिपुङ्गवः ।

पातालोदरकोणस्थं ददर्श स विरोचनम् ॥ (११०)

द्वयोरायोधनं तत्र बभूव सुमहत्तरम् ।

तीक्ष्णेन शङ्कुलाकोटिवक्रेण विहगेश्वरः ॥ (१११)

तुण्डाग्रेण शिरस्तस्य ताडयामास वेगतः ।

ततो विरोचनं जित्वा समरे विहगाधिपः ॥ (११२)

आदाय तु किरीटं तदाजगाम नभस्थले ।

अग्रतो ददृशे किञ्चित् धामश्यामलमद्भुतम् ॥ (११३)

आब्रह्मलोकविततं गच्छता हि गरुत्मता ।

विस्मयाविद्धनयनः परितोऽयं व्यलोकयन् ॥ (११३)

अथ बृन्दावने कञ्चित् कर्णोपान्तस्स्वलद्दृशम् ।

व्यत्यस्तन्यस्तचरणं विमलाननपङ्कजम् ॥ (११४)

पिञ्छावतं स सुभगं गुञ्जाहारविभूषणम् ।

लाङ्गलीकर्णपूरन्तं कलितस्मितशालिनम् ॥ (११५)

उत्पलारण्यकान्तीनां उपदेशविधायिमिः ।

अलोकनैश्च गोपीनाम् अधिकश्यामविग्रहम् ॥ (११६)

अश्रान्तमपि सन्तोषादधरामृतपायिनः ।

रन्ध्रे रन्ध्रे च वंशस्य व्यापृताङ्गुलिपल्लवम् ॥ (११७)

अर्धदष्टतृणाङ्गुरैः गोभिरालोकितं मुदा ।

गोपालकुलसम्भूतैः बालैश्च परिवारितम् ॥ (११८)

गायन्तं कुहनागोपं ददर्श विनतासुतः ।

द्विलक्षार्धप्रमाणस्य योजनानां महीयसाम् ॥ (११९)

क्षीराब्धिशायिनो विष्णोः किरीटं तन्महत्तरम् ।

मूर्ध्नि तस्यैव बालस्य मुदितो विनतासुतः ॥ (१२०)

निचिक्षेप ततस्तस्य किरीटं शिरसि स्थितम् ।

समप्रमाणमभवत् सह पिञ्छविभूषणैः ॥ (१२१)

ततः प्रणम्य गरुडो भक्त्या गोपालबालकम् ।

जगाम वेगाद् दुग्धाब्धिं जगाद च कृतं तदा ॥ (१२२)

श्रोतृणां मुनिमुख्यानां मध्ये शंसन्मुरद्विषः ।

श्रुत्वा तत्कलशांभोधिशायी कारुण्यवारिधिः ॥ (१२३)

सस्मितं गरुडं वीक्ष्य सन्तोषं परमं ययौ ।

अनिरुद्धकिरीटं तदद्भुतं यदुकुञ्जरः ॥ (१२४)

समर्प्य कमलाभर्तुः समाराधयदन्वहम् ।

इति नारदवाक्येन श्रुतवृत्ता मुनीश्वराः ॥ (१२५)

उत्फुल्लनयनास्सर्वे सन्तोषं प्रतिपेदिरे ।

कृष्णबलभद्रयोः श्रीनारायणाद्रिगमनम् ॥ (१२६)

नारदः –

कदाचित्तीर्थयात्रार्थं गतस्तीर्थीकृताभिलः ।

रेवतीपतिरद्राक्षीद्रुचिरं यादवाचलम् ॥ (१२७)

तस्य शृङ्गं समासाद्य तीर्थे कल्याणसंज्ञिते ।

स्नात्वा मुनिगणैस्सार्धं कञ्चित्कालमुवास सः ॥ (१२८)

भेजे नारायणं तत्र भेषजं भवरोगिणाम् ।

चक्षुषा मनसा वाचा केवलं सेव्यमद्भुतम् ॥ (१२९)

द्वारकामथ संप्राप्य पोतपात्रीं भवाम्बुधेः ।

बलभद्रो यदुश्रेष्ठं बभाषे बलिनां वरः ॥ (१३०)

अस्ति कृष्णदिशायां हि दक्षिणस्यां महीधरः ।

कश्चिद्विपश्चितामासीद्यत्र धीर्नित्यसङ्गिनी ॥ (१३१)

तस्याग्रे भगवानास्ते भवसन्तापनाशनः ।

तस्य रूपन्तु पश्यामि देवेऽप्यस्मत्कुलार्चिते ॥ (१३२)

तयोरन्योन्यवैषम्यं नैव पश्यामि किंचन ।

एवंवादिनमालोक्य प्राह यादवकुञ्जरः ॥ (१३३)

भगवन् रेवतीजाने मैवं वादीः कदाचन ।

अस्मत्कुलधनस्यास्य को वा तुल्यो भविष्यति ॥ (१३४)

अग्रजाभिनवं वाक्यं किमिदं श्रूयते त्वयि ।

बलभद्रश्च तं प्राह ततो बलवतां वरः ॥ (१३५)

नाहं वदामि वितथं स्पृष्ट्वा कृष्णं त्वया शपे ।

एवं कलहसंयुक्तौ बलभद्रवलानुजौ ॥ (१३६)

द्रक्ष्याव इति तं देवं पुरस्कृत्य कुतूहलात् ।

शैलेन्द्रं प्रापतुर्यस्मिन्नास्ते नारायणश्श्रिया ॥ (१३७)

तस्याग्रतस्स्वयं देवं स्थापयित्वा यदूद्वहौ ।

नापश्यतां तयोर्मत्योर्वैषम्यं कलयापि तौ ॥ (१३८)

ततः प्रशान्तकलहौ मुदितौ यदुपुङ्गवौ ।

अन्योन्यसङ्गमादेवमधिकोर्जितवैभवम् ॥ (१३९)

रूपं तदुभयं विष्णोरन्वभूतां चिराय तौ ।

ततो यादववंश्यास्तं गिरिं सर्वे सिषेविरे ॥ ॥ (१४०)

नारायणगिरिः पूर्व स गिरिमुनिसत्तमाः ।

तदाप्रभृति तस्यासीद्यादवाद्रिरिति प्रथा ॥ (१४१)

यश्चेममागमं विष्णोराकर्णयति वक्ति वा ।

लप्स्यते गुणिनं पुत्रं धनिनं धर्मचारिणम् ॥ (१४२)

उत्तारकश्च पित्रादेर्नारायणपरायणम् ।

तुलया कनकमालिन्या लप्स्यते स च कन्यकाम् ॥ (१४३)

अन्ते च लप्स्यते लक्ष्म्या सह वैकुण्ठदैवतम् ।

बहुना किमिहोक्तेन रघुनायक-कृष्णयोः ॥ (१४४)

कटाक्षैरभिवर्धेरन् सद्यस्तस्य हि सम्पदः ।

तस्माद्भिभ्यति दैतेयाः प्रणमन्ति च देवताः ॥ (१४५)

तस्योपचारः कर्तव्यो नापचारः कथञ्चन ।

स चोद्धरति संसाराद्दशपूर्वान् दशापरान् ॥ (१४६)

इति शिखरिकुलानां शेखरे यादवाद्रौ

कनकरजतमुख्यैः धातुभिः कान्तशृङ्गे ।

उदितविरहमादावुत्सकीकर्तुमस्मान्

उभयमपि च विष्णोदिव्यरूपं चकाशे ॥ (१४७)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरि–माहात्म्ये श्रीरामस्य श्रीनारायणमूर्तिलाभादि–कथनं नाम षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः

हरिरातोपाख्यानम्

मुनयः –

भगवन्नारद त्वत्तः श्रुतो विष्णोरिहागमः ।

अस्माकं चक्षुषोरग्रे भवानिव विलोक्यते ॥ (१)

कृतिनश्चापि धन्याश्च कृतास्त्वद्वाक्यतो वयम् ।

अथापि पृच्छ्यते किञ्चिदभिधातुं त्वमर्हसि ॥ (२)

अकर्तव्यं भवानाह यदुशैलनिवासिनाम् ।

हरिकीर्तिप्रसक्तानामपराधं महात्मनाम् ॥ (३)

अपराद्ध्यन्ति ये लोके यादवाद्रिनिवासिनाम् ।

आकर्णयितुमिच्छामस्तेषां किन्नु भविष्यति ॥ (४)

नारदः –

मुनयः शृणुताशेषमत्रोदन्तं पुरातनम् ।

मुहुरुक्तं गुणैस्सर्वैर्गुरुणा भृगुणा मम ॥ (५)

बभूव हि पुरा प्राज्ञः कश्चिद्राजपुरोहितः ।

चतुर्वेदीति विख्यातः कर्मस्वपि विचक्षणः ॥ (६)

नारायणैकनिष्ठेषु भक्ति नापि चकार सः ।

नानादैवतसङ्कीर्णान् सर्वदा बहुमन्यते ॥ (७)

नित्यं च नियताहारान्निनिन्द धरणीतले ।

सर्वातिथ्य इति ख्यातिमकरोत्सर्वतोऽपि सः ॥ (८)

राजाश्रयेण तस्यासीदैश्वर्यं च महत्तरम् ।

तस्य पुत्रोऽभवत्कश्चिन्मेधावीति च विश्रुतः ॥ (९)

त्रयश्चाप्यपरे पुत्रास्तादृशैरेव नामभिः ।

नामवन्तः पितृगुणैर्गुणवन्तस्ततोऽभवन् ॥ (१०)

राज्ञो राजभटानाञ्च द्रव्यमादाय भूयसा ।

इयाज डम्भमात्रेण वत्सरे वत्सरेऽपि सः ॥ (११)

कदाचित्पैतृकं कर्म कर्तुं स तु कृतोद्यमः ।

स्वगृहे ब्राह्मणैस्तस्थौ स्वगुणानुगुणैस्सह ॥ (१२)

अत्रान्तरे महाभागो विष्णुभक्तिपरायणः ।

नित्यं वर्णाश्रमाचारनिष्ठो नियतमानसः ॥ (१३)

हरिभक्तेषु भक्तिञ्च कुर्वन् सर्वदशास्वपि ।

नारायणाद्रिवासेन नन्तव्यस्त्रिदशैरपि ॥ (१४)

हरिरात इति ख्यातो नामतोऽपि च भूतले ।

मानावमानयोस्तुल्यस्तद्ग्रामं ब्राह्मणोऽविशत् ॥ (१५)

अध्वश्रान्तस्सपुत्रश्च दुर्बलश्च स्वभावतः ।

वृद्धश्चाप्यपरिज्ञानात् तद्गृहं ब्राह्मणोऽविशत् ॥ (१६)

चतुर्वेदिनमालोक्य ब्राह्मणैः परिवारितम् ।

वेषमात्रेण तं मेने वैदिकं स द्विजोत्तमः ॥ (१७)

नारायणपदाम्भोजवासितं तुलसीदलम् ।

करेणादाय तस्मै स दातुं समुपचक्रमे ॥ (१८)

चतुर्वेदी च तं दृष्ट्वा ब्राह्मणं प्राह दुर्मदात् ।

चतुर्वेदी –

अहं स्नातो भवानद्य मार्गदोषेण दूषितः ॥ (१९)

नाहमिच्छामि तुलसीं स्प्रष्टुं तव करे स्थिताम् ।

अथवानुपनीतोऽयं पुत्रो मे तत्करे स्पृश ॥ (२०)

यद्वा तिष्ठतु ते हस्ते तुलसी सुलभा हि नः ।

तवागमनकार्यं मे सद्यो वक्तुमिहार्हसि ॥ (२१)

अहं कर्मणि निष्णातो नानुष्ठानं निरुन्धि मे ।

नारदः –

इत्युक्तो ब्राह्मणस्तेन सडम्भं ब्रह्मबन्धुना ॥ (२२)

बहुदूरादुपेतस्य बालस्य श्रान्तिमालपत् ।

चतुर्वेदी ततः प्राह पैतृकं कर्म वर्तते ॥ (२३)

नान्नं ददामि तस्याहं गच्छ त्वं ब्राह्मणान्यतः ।

ब्राह्मणोऽपि ततः प्राह नान्नमिच्छामि ते गृहे ॥ (२४)

अध्वश्रान्तस्य बालस्य तण्डुलं सम्प्रदीयताम् ।

यत्र कुत्रापि भवने पाचयिष्यति बालकः ॥ (२५)

अवदब्राह्मणं पश्चात् सर्वातिथ्योऽतिगतिः ।

न च तण्डुलमप्यस्मै प्रदास्याम्यद्य भूसुर ॥ (२६)

अब्रवीद्ब्राह्मणस्सीदन्नध्वश्रान्त्या पुनश्च तम् ।

सर्वातिथ्यचतुर्वे दिन्मैवं वक्तुमिहार्हसि ॥ (२७)

विजानासि च धर्म त्वं व्यक्तं चिन्तय चेतसा ।

न प्रयच्छसि चेत्त्वं तु त्वद्गहे तस्य किञ्चन ॥ (२८)

तव बन्धुगृहे वापि दापयैतस्य किञ्चन ।

अस्त्वेव तच्चतुर्वेदिन्नह्यास्था त्वद्गहे मम ॥ (२९)

चतुर्वेदी ततः किञ्चित् क्रुद्धो ब्राह्मणमब्रवीत् ।

निरस्तोऽपि द्विवारं त्वं याचसे किं पिशाचिवत् ॥ (३०)

भवनानि बहून्यत्र नगरे किं न पश्यसि ।

विचारय स्वयं गत्वा गच्छ गच्छ ममान्तिकात् ॥ (३१)

अधिक्षिप्तस्ततस्तेन श्रान्त्या गन्तुमशक्नुवन् ।

असिष्टाङ्गेण भागे तु ब्राह्मणस्सहपुत्रकः ॥ (३२)

ततः क्रोधसमाविष्टश्चतुर्वेदी स्वपुत्रकैः ।

ब्राह्मणं निर्गमय्यैनं बवन्ध च कवाटिकाम् ॥ (३३)

कवाटवेगसम्भ्रान्तः पतितो भुवि बालकः ।

नष्टो भवेति तन्प्राह बाष्पगद्गदया गिरा ॥ (३४)

रुदन्तं पुत्रमुत्थाप्य करेण भृशमामृशन् ।

एवं पुत्रक मावादीरित्यवोचद्विजोत्तमः ॥ (३५)

विष्णुभक्तस्य न क्रोधो न लोभो नातिमानिता ।

न हि प्रदीपमाश्रित्य वर्तन्ते तमसां चयाः ॥ (३६)

ततस्तस्य गृहद्वाराद्ययौ दूरं द्विजोत्तमः ।

वरं सर्पगृहे वासो वरं वह्निशिखास्वपि ॥ (३७)

न वरं विष्णुभक्तानां परिभावि गृहे स्थितिः ।

इत्युक्त्वा सहसा धर्मस्सह तेनैव निर्ययौ ॥ (३८)

पित्रर्थे कल्पितं द्रव्यम् अप्रदेयं विदुर्बुधाः ।

अप्रदानव्रतं ह्येतदहो धर्मव्यतिक्रमः ॥ (३९)

ततश्च पैतृकं कर्म समारेभे द्विजाधमः ।

तस्य ब्राह्मणवर्यस्य निर्याणेन मुदान्वितः ॥ (४०)

विद्यामदान्धचित्तस्य धनिनो राजसेविनः ।

युक्तमेव हि तत्तस्य युक्तायुक्तविचारणम् ॥ (४१)

विषीदन् ब्राह्मणस्सोऽपि पुत्रश्रान्त्या पुनः पुनः ।

निर्जगाम पुरात् तस्मात् निष्कृपाधिष्ठितात्ततः ॥ (४२)

व्यक्तोर्ध्वपुण्ड्रतिलकं विष्णुचक्रादिमुद्रितम् ।

विलसत्कण्ठभागं तं पद्माक्षमणिमालया ॥ (४३)

गच्छन्तं नगरात्तस्मात् ददर्श ब्राह्मणोत्तमः ।

पप्रच्छ च त्वं कुत्रत्यः को वाऽसौ तव बालकः ॥ (४४)

तव किं नाम कस्माच्च विषीदन्निव लक्ष्यसे ।

पृष्टश्च तेन तत्सर्वं हरिरातोऽब्रवीत्ततः ॥ (४५)

निशम्य वचनं तस्य स सन्तुष्टो महीसुरः ।

अवदच्च शुभं वाक्यम् आदरेण कृताञ्जलिः ॥ (४६)

अहं खलु महाभाग विष्णुभक्ताङ्घिरेणुभिः ।

परिपूतशिरावर्ते त्वमागच्छ गृहं मम ॥ (४७)

मुष्टिमात्रप्रमाणेन याचित्त्वाहं ततस्ततः ॥

पुत्रैः सुखेन जीवामि विष्णुरातोऽस्मि नामतः ॥ (४८)

मम द्वादशपुत्राश्च सन्ति द्वादशनामतः ।

तेषां नामानि लोकेषु प्रथन्ते भूसुरोत्तम ॥ (४९)

अहं नारायणादन्यं देवं नाराधयामि च ।

न जहाति व्रतं चैतत्सहधर्मचरी मम ॥ (५०)

हरिरातस्ततस्तेन विष्णुरातेन याचितः ।

सदनं तस्य संप्राप पुत्रेणापि समन्वितः ॥ (५१)

विष्णुभक्तगृहे वासो विष्णुभक्तस्य युज्यते ।

क्षीरं शर्करया योज्यं न तु निम्बफलैरपि ॥ (५२)

ततश्च सुमुखी नाम विष्णुरातस्य गेहिनी ।

पपाच हरिराताय पात्रैः परमपावनैः ॥ (५३)

सपुत्रो ब्राह्मणश्चापि कृत्वा माध्यन्दिनोचितम् ।

कृत्यं भगवतः प्रीत्यै कृत्वा नियतमानसः ॥ (५४)

नारायणाय पक्वं तत् परभक्त्या न्यवेदयत् ।

एतस्मिन्नन्तरे कश्चिच्चरमाश्रमिणां वरः ॥ (५५)

अन्तेवासिभिरागच्छच्चतुर्भिः परिवारितः ।

गृहस्थश्चातिथिश्चापि तावुभौ पुण्यशालिनौ ॥ (५६)

ववन्दाते मुनिश्रेष्ठं वासुदेवमिवागतम् ।

परिवर्धिततोषौ तौ तं दृष्ट्वा ब्राह्मणावुभौ ॥ (५७)

अहो भाग्यमहो भाग्यमिति चाहतुरग्रतः ।

विष्णुरातस्ततस्तस्य प्रक्षाल्य चरणौ मुनेः ॥ (५८)

प्रददौ हरिराताय तीर्थं पश्चात्स्वयं पपौ ।

स सन्यासीद्विजश्चापि चत्वारस्तेऽपि भूसुराः ॥ (५९)

बालकश्चेति सप्तैते सह पङ्क्तावभुञ्जत ।

भुक्त्वा तेष्वासनस्थेषु विष्णुरातस्य बालकः ॥ (६०)

पितुरन्तिकमासाद्य रुरोद क्षुधितो भृशम् ।

स च तन्मातरं प्राह पुत्रस्य क्षुधितस्य ते ॥ (६१)

पात्रेषु शिष्टमन्नं त्वं प्रयच्छेति द्विजोत्तमः ।

नावशिष्टं किमप्यस्तीत्यवदत्सुमुखी ततः ॥ (६२)

पश्येति तां पुनः प्राह ब्राह्मणो बालपीडया ।

ततस्संप्रेक्षमाणा सा तानि पात्राण्यवैक्षत ॥ (६३)

पूर्ववत्परिपूर्णानि दृष्ट्वाऽभूत्सुमुखी भृशम् ।

ब्राह्मणस्तस्य पत्नी च पुत्रास्ते द्वादशापि च ॥ (६४)

अभुञ्जत भृशं तुष्टा मिष्टमन्नं ततः परम् ।

तस्य ब्राह्मणवर्यस्य भवने सत्वशालिनः ॥ (६५)

तानि स्वयमपूर्यन्त पात्राण्येव दिने दिने ।

सुमुखी विष्णुरातश्च तावुभौ तत्सुताश्चते ॥ (६६)

गतान्यैष्णवान् सर्वान् अप्रयत्नादभोजयन् ।

येषु येषु च पात्रेषु पपाच सुमुखी ततः ॥ (६७)

तानि तानि च पात्राणि राजतान्यभवंस्ततः ।

यत्र सन्यासिना भुक्तं तत्र सद्यो भुवस्स्थले ॥ (६८)

ददृशे विष्णुरातेन विधिर्निरवधिः पुनः ।

सन्यासिवेषमाश्रित्य साक्षान्नारायणः स्वयम् ॥ (६९)

अनुयायिभिराम्नायैः आगतो हि मुनीश्वराः ।

पाषण्डवारणोद्योगात् त्रिदण्डं धारयन्पुरा ॥ (७०)

दत्तात्रेय इति ज्ञेयो युष्माभिस्सतु मस्करी ।

अतो यस्य गृहे भुङ्क्ते नारायणपरायणः ॥ (७१)

तस्यैव भवने भुङ्क्ते साक्षानारायणस्स्वयम् ।

विष्णुभक्तापमानाच्चतुर्वेदिनो यातनाप्राप्तिः

चतुर्वेदी ततः पश्चाद्भोजयामास भूसुरान् ॥ (७२)

तद्गृहे च पयः पात्र्याम् उद्ववाम विषं फणी ।

भोजनानन्तरं सर्वे मरणं प्रतिपेदिरे ॥ (७३)

स्वयं तु पाकभेदेन भुक्तवान् पुत्रकैस्सह ।

न ममार ततस्सोऽयं न मम्रुः पुत्रकाश्च ते ॥ (७४)

द्विजानां पुत्रपौत्राद्याः चक्रुशुस्सर्वतस्ततः ।

न च संप्राप पञ्चत्वं गृहिणी तस्य दुर्मुखी ॥ (७५)

चतुर्वेदी विषेणैव जघानास्मात्पितृनिति ।

ततो राजभटाः केचिद्घोरा घोषेण रूपिताः ॥ (७६)

ताडयामासुरत्यर्थं चतुर्वेदिनमुद्धटाः ।

विगतासुश्चतुर्वेदी तदा मर्मसु ताडितः ॥ (७७)

मायावी च वनं भीत्या गच्छन् व्याघ्रणमारितः ।

तदनन्तरपुत्रश्च त्रासादारुह्य भूरुहम् ॥ (७८)

बभूव शाखा भङ्गेन शतधा शीर्णमस्तकः ।

वनवारणहस्तेन गृहीत्वा चरणद्वयम् ॥ (७९)

अपरोऽपि सुतो वेगादाहन्यत महीतले ।

चतुर्थोऽनुपनीतश्च चरंस्त्रासादितस्ततः ॥ (८०)

पपात पन्नगैर्युक्ते कूपे तृणकुलावृते ।

भर्तृपुत्रमृतिं दृष्ट्वा दुर्मुखी भृशदुर्मुखी ॥ (८१)

बद्ध्वा कवाटं सुदृढमुद्बबन्ध गृहान्तरे ।

राजदण्डभयोद्वेगात्तस्य कन्यायुगं ततः ॥ (८२)

निक्षिप्याग्निं गृहद्वारे सद्यस्स्वयमदह्यत ।

वह्निना तेन दीप्तेन ज्वालाडम्बरशालिना ॥ (८३)

सकलञ्च पुरं दग्धं विष्णुशतगृहं विना ।

ततो नृपभटैरुग्रैः तत्सम्बन्धोपजीविनः ॥ (८४)

बद्धाः कारागृहे गाढं तत्रैव मरणं ययुः ।

त्रिदिनाभ्यन्तरे चैतत्सर्वमासीन्मुनीश्वराः ॥ (८५)

अमानाद्गुरुभूतानामतिमानाच्च चेतसि ।

हरिभक्तावमानाच्च नश्यन्त्येव हि सम्पदः ॥ (८६)

विष्णुभक्तिपराणाञ्च यः करोति विमाननाम् ।

तस्यैहिकं फलं प्रोक्तं शृणुतामुष्मिकं फलम् ॥ (८७)

क्रूरै : कालभटैर्बद्ध्वा पादयोश्चर्मरज्जुभिः ।

आकृष्यत चतुर्वेदी सहपुत्रैरधोमुखः ॥ (८८)

तत्सम्बधा मृतास्सर्वे तथाकृष्यन्त किङ्करैः ।

सर्वातिथ्य–यमसंवादः

वैवस्वतं ततो दृष्ट्वा सर्वातिथ्यस्तु दूरतः ॥ (८९)

धर्मराजमहाराजसमवर्तिंस्त्वदग्रतः ।

अन्याय्यमिदमन्याय्यम् इति चुक्रोश भूयसा ॥ (९०)

दारुणं तद्वचश्श्रुत्वा शमनस्समदर्शनः ।

मोचयित्वा तमाहूय वचनं चेदमब्रवीत् ॥ (९१)

अन्याय्यमत्र किं ब्रह्मन् यद्यस्ति वद तन्मम ।

प्राञ्जलिः ब्राह्मणः प्राह प्रेतनाथाय सन्नतः ॥ (९२)

चतुर्वेदी –

अध्यैषं चतुरो वेदान् अर्थानश्रौषमप्यतः ।

आश्रावयं च मीमांसामकार्षं कर्म वैदिकम् ॥ (९३)

इमेऽपि मत्सुता राजन्मत्तोऽप्यधिकवेदिनः ।

एषा मद्गृहिणी चापि नित्यं मद्धर्मधर्मिणी ॥ (९४)

नाहमर्हामि धर्मज्ञ नानानरकयातनाम् ।

कुरु तद्रोचते यत्ते परतन्त्रा हि ते वयम् ॥ (९५)

नारदः –

इति तद्वचनं श्रुत्वा धर्मराजस्ततोऽब्रवीत् ।

यमः –

सत्यं ब्राह्मण ते वाक्यं तथापि शृणु मद्वचः ॥ (९६)

नारायण परं दान्तं श्रान्तं नारायणाचलात् ।

आगतं त्वमविज्ञातं दुर्मते वेत्सि वा न वा ॥ (९७)

पद्मारमणपादाब्जवासितं तुलसीदलम् ।

अवजानन्तमात्मानं पातकिन्वेत्सि वा न वा ॥ (९८)

प्रदश्र्य बालकं श्रान्तं याचमाने द्विजोत्तमे ।

पिशाचवचनं प्रोक्तं दुर्मते वेत्सि वा न वा ॥ (९९)

परे च विष्णुभक्तानां वन्दनीये ममापि च ।

प्रतिक्षेपणवाक्यानि पाप त्वं वेत्सि वा न वा ॥ (१००)

अङ्कणे तव कुब्रह्मन् अनुत्सादितकश्मले ।

अध्वश्रान्तिपरीतं तम् आसीनं वेत्सि वा न वा ॥ (१०१)

निर्गमय्य गृहात् कस्मान्निष्ठुरैर्ब्राह्मणं सुतैः ।

बध्यमानकवाटं त्वां दुर्बुद्धे वेत्सि वा न वा ॥ (१०२)

कवाटवेगपतितं बाष्पपर्याकुलेक्षणम् ।

दुर्ब्रह्मन् हरिरातस्य बालं त्वं वेत्सि वा न वा ॥ (१०३)

निष्क्राम्य तं महाभागं निष्कृषैस्तव चेष्टितैः ।

परिहासकथामिष्टैर्दुष्ट त्वं वेत्सि वा न वा ॥ (१०४)

तथा च राजवाल्लभ्याद्विहितां भवता मुहुः ।

चक्रादिधारिणां निन्दां निन्द्यत्वं वेत्सि वा न वा ॥ (१०५)

मुक्तिमार्गोपदेष्टृणां मुनीनां वचनेष्वपि ।

मुहुरप्यप्रमाणोक्तिं मूढ त्वं वेत्सि वा न वा ॥ (१०६)

वेदैर्नारायणस्यैव पारम्ये प्रतिपादिते ।

वदने तव वैवर्ण्यं दुरात्मन् वेत्सि वा न वा ॥ (१०७)

नित्यं च नृपगोष्ठीषु नास्तिकानां प्रशंसनं ।

अधिक्षेपञ्च साधूनाम् असाधो वेत्सि वा न वा ॥ (१०८)

बहुना किमिहोक्तेन ब्रह्मबन्धो नृपाग्रतः ।

शरणागतिधर्मस्य दूषणं वेत्सि वा न वा ॥ (१०९)

नारदः –

इत्युक्तो ब्राह्मणस्तेन धर्मराजेन तत्वतः ।

सत्यमेतन्महाराज मूढस्य मम चेष्टितम् ॥ (११०)

कथमस्मान्महापापादुत्तरेयमिति ब्रुवन् ।

तस्य पादयुगं मूर्ध्ना प्रणनाम पुनः पुनः ॥ (१११)

प्रणतं वेपमानं तं व्याहरच्छमनस्ततः ।

सर्वेषामेव पापानामहं जानामि निष्कृतिम् ॥ (११२)

विष्णुभक्तापराधस्य नाहं जानामि निष्कृतिम् ।

चतुर्वेदी ततस्तस्य पादं शिरसि धारयन् ॥ (११३)

त्वामहं शरणं प्राप्तो या रक्षेति तमब्रवीत् ।

अथ तं प्राह शमनो विप्रं विह्वलचेष्टितम् ॥ (११४)

सकुटुम्बस्य चतुर्वेदिनो ब्रह्मरक्षस्त्वसंप्राप्तिः ।

यमः –

त्वत्प्रमापणकाले तु हरिराती दयान्वितः ॥ (११५)

गोविन्देति वचः प्राह सप्तकृत्यो महामतिः ।

तव तत्कृपया माभूत्क्रूरा नारकयातना ॥ (११६)

कर्मणा तव घोरेण भव त्वं ब्रह्मराक्षसः ।

अरण्ये निर्जले देशे वासस्तव भविष्यति ॥ (११७)

भवित्री तव भार्या च महती ब्रह्मराक्षसी ।

इमे भवन्तु पुत्राच तत्रापि तव पुत्रकाः ॥ (११८)

ततो गृध्रा भविष्यन्ति विप्रास्त्वद्गृहमोजिनः ।

त्वया हतानां सत्त्वानां मांसच्छेदोपजीविनः ॥ (११९)

नारदः –

इत्युक्त्वा विरते तस्मिन् धर्मराजे द्विजस्ततः ।

संभ्रान्तचेतास्तं प्राह दृष्ट्वा दैन्यं प्रकाशयन् ॥ (१२०)

चतुर्वेदी –

अवधिर्जन्मनस्तस्य कदा मम भविष्यति ।

दयालो धर्मराज त्वं वक्तुमर्हसि तन्मम ॥ (१२१)

यमः –

चतुर्वेदिन् महापापिन् ब्रह्मराक्षसरूपिणः ।

केषांचिद्विष्णुभक्तानां दर्शनादवधिस्तव ॥ (१२२)

नारदः –

चतुर्वेदिनमित्युक्त्वा प्राहैषीप्रेतनायकः ।

ततस्स किंकरैर्मुक्तस्सपत्नीकस्सपुत्रकः ॥ (१२३)

ब्रह्मराक्षसरूपेण विन्ध्यारण्यं विवेश ह

हरिरातस्य वृत्तान्तं ये शृण्वन्ति पठन्ति वा ॥ (१२४)

तेषां हरिस्सदा भुङ्क्ते भवने स्वयमागतः ।

धनञ्च वर्धते तेषां ते भवन्त्यन्नदायिनः ।

तेषां विरोधिनश्चैव नश्यन्त्येव न संशयः ॥ (१२५)

मधुरिपुपदसेवापक्त्रिमस्वान्तवृत्ते

यदुगिरितटभाजो यस्य कस्यापि पुंसः ।

अवमतिमिति कृत्वा यश्चतुर्वेदवेदी

समजनि स च सद्यो यातनाचक्रवर्ती ॥ (१२६)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये हरिरातोपाख्यानं नाम सप्तमोऽध्यायः

अथ अष्टमोऽध्यायः

विष्णुभक्तसन्दर्शनाच्चतुर्वेदिनो ब्रह्मरक्षस्त्वनिवृत्तिः

ततस्ते मुनयस्सर्वे सन्तोषोत्फुल्लचेतसः ।

पप्रच्छुर्मुनिशार्दूलं नारदं परितस्स्थिताः ॥ (१)

मुनयः –

कथं तस्य मुनिश्रेष्ठ ब्रह्मराक्षसरूपिणः ।

ब्राह्मणस्याभवन्मोक्षस्तत्सर्वं वक्तुमर्हसि ॥ (२)

नारदः –

अरण्ये कण्टकैर्युक्ते फलमूलविवर्जिते ।

प्रतप्तवालुकामध्ये क्षुधादाहेन पीडितः ॥ (३)

सिरालस्सर्वतो गात्रे सततं करदर्शनः ।

केशैरग्निशिखाकारैः परितः कीर्णमस्तकः ॥ (४)

कालाकृतिः कृशो गण्डे दग्धद्रुम इवाचलः ।

जिह्वापन्नगभीमश्च पातालप्रतिमाननः ॥ (५)

दंष्ट्राकरालासृक्कान्तर्लग्नमांसं लिहन्मुहुः ।

लम्बोष्ठो निम्नदृष्टिश्च शूर्पकर्णश्शुभेतरः ॥ (६)

दन्तुरो वक्रनासश्च धिष्ण्योन्नतललाटकः ।

तिर्यक्प्रेक्षणशीलश्च कुक्कुटोरस्थलस्तथा ॥ (७)

अशिवाभिश्शिवाभिश्च परीतः पललाशया ।

तालप्रमाणपादश्च शूलखड्गधरस्तथा ॥ (८)

प्रेतचीवरवासी च कर्णालन्वितपालकः ।

कङ्कालमालाधारी च भस्मना भृशधूसरः ॥ (९)

प्रकृत्या धूम्रवर्णश्च पापिनां दृष्टिगोचरः ।

आन्त्रमालोपवीतश्च धमनीकटिबन्धनः ॥ (१०)

भैरवस्वननादी च भग्नसर्वसुखोचितः ।

इत्थं दुःखशतैस्तप्तस्सपुत्रो ब्रह्मराक्षसः ॥ (११)

पञ्चवर्षसहस्राणि स तस्थौ भार्यया सह ।

हत्वा हत्वा च भूतानि जघास क्रूरचेष्टितः ॥ (१२)

गृध्ररूपैस्स्थितास्ते च ब्राह्मणास्तस्य पार्श्वतः ।

तत्खादितावशिष्टानि खादन्ति स्म दिने दिने ॥ (१३)

न हीदृशं फलं तेषां पर्याप्तं मुनिपुङ्गवाः ।

ब्रह्मविद्वेषिणां नित्यं निरयः खलु युज्यते ॥ (१४)

तस्मिन्काले महाभागावागतौ ब्राह्मणावुभौ ।

सत्यनिष्ठ इति ख्यातस्तयोरेको महीतले ॥ (१५)

वैकुण्ठप्रिय इत्युक्तः परोऽप्यन्वर्थनामवान् ।

तौ हि नारायणाद्रिस्थं देवं नारायणं प्रभुम् ॥ (१६)

आराध्यागच्छतां तत्र द्विजौ परमपावनौ ।

गन्तुकामौ च काश्मीरं तद्देशादागतौ पुरा ॥ (१७)

साकं ताभ्यां परे केचित्समाजग्मुः द्विजोत्तमाः ।

हरिभक्तिसमायुक्ता हरिक्षेत्रनिवासिनः ॥ (१८)

सर्वे च विष्णुभक्तास्ते हरिकीर्तनतत्पराः ।

तौ तत्र वासं चक्राते चक्रपाणेः प्रियौ द्विजौ ॥ (१९)

दूरागमपरिश्रान्तैः साकमन्यैर्द्विजोत्तमैः ।

तटाके कुत्रचित्स्नात्वा कृत्वा वेदविधानतः ॥ (२०)

स्वाधिकारोचितं कर्म देवमाराध्य केशवम् ।

स्वीकृत्य तत्प्रसादं च सुखं तत्रासने स्थितौ ॥ (२१)

तौ च ताभ्यां सहायातास्सर्वे तदनुतोषितः ।

हरिकीर्तनमालाभिः कालक्षेपं वितेनिरे ॥ (२२)

ततस्स राक्षसस्तत्र पर्यटन्परितो वनम् ।

सर्वेषामपि पापानां प्रायश्चित्तमितीरितम् ॥ (२३)

श्रुत्या स्मृत्या पुराणैश्च सेतिहासमुहुर्मुहुः ।

शुश्राव दूरतस्स्थित्वा हरिसङ्कीर्तनाक्षरम् ॥ (२४)

सहितो भार्यया पुत्रैर्गृध्रैरपि सहागतैः ।

दर्शनाद्धरिभक्तानां तेषां सङ्कीर्तनादपि ॥ (२५)

प्रसन्नमभवच्चेतस्तस्य ब्राह्मणरक्षसः ।

विष्णुभक्तपदाम्भोजसङ्गपूतं जलं ततः ॥ (२६)

रक्षो दृष्टिपथं प्राप तत्पषौ स च राक्षसः ।

ततो वैकुण्ठतद्भक्तभुक्तशिष्टानि यानि च ॥ (२७)

पात्रक्षालनतोयेन परिकीर्णानि सर्वतः ।

जग्ध्वा सर्वाणि गृध्रास्ते पर्यटन्तस्ततस्ततः ॥ (२८)

जातिस्मरत्वमापन्नास्सर्वे ते सहसा ततः ।

वैवस्वतेन कथितं सस्मार स च राक्षसः ॥ (२९)

विष्णुभक्ताङ्घ्रितीर्थेन पूतानां मुनिसत्तमाः ।

अकृष्टपच्यतां याति मुक्तिः किमु फलान्तरम् ॥ (३०)

ततः प्रीतमना भूत्वा तादृशस्मृतियोगतः ।

प्रायेणामी भविष्यन्ति धर्मराजसीरिताः ॥ (३१)

धरणीतलसौभाग्यसञ्चया भगवत्पराः ।

अन्नवत्स्मरणं जातेरन्यथा कथमद्य मे ॥ (३२)

इति सञ्चिन्तयामास स तु ब्राह्मणराक्षसः ।

महानुभावौ दृश्यते द्वावेतौ भगवत्परौ ॥ (३३)

प्रसादादेतयोरेव मम पापं विनङ्क्ष्यति ।

इति निश्चित्य सहसा दूरतः प्रणनाम सः ॥ (३४)

तं दृष्ट्वा प्रणतं तौ च ब्राह्मणौ भगवत्परौ ।

आहतुः को भवान्के च तवैते राक्षसा इति ॥ (३५)

अब्रवीदादितस्सर्वं प्राञ्जलिर्विनयान्वितः ।

तयोर्ब्राह्मणयोरग्रे चरितं ब्रह्मराक्षसः ॥ (३६)

उत्तरिष्यामि कथमित्युवाच प्रणतः पुनः ।

करुणापरिणामेन कलितौ तौ द्विजोत्तमौ ॥ (३७)

अस्योत्तारं करिष्याव इति चक्रतुराशयम् ।

सत्यनिष्ठस्ततः प्राह तमेन ब्रह्मराक्षसम् ॥ (३८)

सत्यनिष्ठः –

सङ्कीर्तनं तवालम्बस्सत्यं राक्षस दृश्यते ।

पश्चापि कीर्तनाद्विष्णोः पातकान्याशु बिभ्यति ॥ (३९)

उपपातकमुख्यानामन्येषां तु कुतस्स्थितिः ।

नारायणकथां मुक्त्वा यः कथान्तरमिच्छति ॥ (४०)

अवमत्य पयः पानमारनालं स वाञ्छति ।

मथ्ना मन्दररूपेण मथनादभवत्सुधा ॥ (४१)

लभ्यते रसनाग्रस्थं हरिकीर्तिरसायनम् ।

संसारमरुकान्तार-सञ्चारमलिनात्मनाम् ॥ (४२)

पुंसां प्रक्षालनं युक्तं पुण्यैर्हरिकथामृतैः ।

दुष्टसर्पेण दष्टानां गाढं दुरितरूपिणा ॥ (४३)

औषधं परमं पुंसामाहुः केशवकीर्तनम् ।

दुःखवारिधिकल्लोलमुल्लचयितुमिच्छताम् ॥ (४४)

नामानि विष्णोर्दिव्यानि पोतपात्री खलु स्थिरा ।

तापत्रयमहाज्वाला-मालाशमनकर्मणि ॥ (४५)

वासुदेवगुणालापपरीवाहाः परंक्षमाः ।

नारायणाक्षरं पुण्यं न कदाप्युच्चरन्ति ये ॥ (४६)

वल्मीकं वदनं प्राहुस्तेषां जिह्वाञ्च पन्नगीम् ।

उचितं पापिनां पुंसामुपेक्षा हरिकीर्तने ॥ (४७)

खादन्ति मुक्त्वा माकन्दं निम्बपत्रं क्रमेलकाः ।

विमुखा ये हरेः कीर्तौ तेषां हि यमकिङ्कराः ॥ (४८)

अनालोक्य मुखं कुर्वन्त्यहो नरकयातनाः ।

अच्युतानन्तगोविन्देत्यावर्तनपरायणाः ॥ (४९)

नावर्तन्ते हि संसारसिन्धोरावर्तगह्वरे ।

श्रुतिभिः कर्मभिः ज्ञानैर्योगैर्वा तन्न लभ्यते ॥ (५०)

लभ्यते हरिकीर्त्यैव यत्फलं ब्रह्मराक्षस ।

अतस्त्वं तव सर्वेषामंहसामपनुत्तये ॥ (५१)

नारायणेति जिह्वाग्रे निधिवन्निक्षिपाक्षरम् ।

नारदः –

इत्युक्त्वा सत्यनिष्ठे तु विरते सत्यवादिनि ॥ (५२)

वैकुण्ठप्रियनामापि व्याहरद्विबुधोत्तमः ।

वैकुण्ठप्रियः –

ब्रह्मराक्षस मद्वाक्यं शृणु सत्यं समाहितः ॥ (५३)

त्वत्पापपरिहाराय गत्वा नारायणाचलमं ।

विबुधानां शिरोधार्यैः विष्णुभक्ताङ्घ्रिरेणुभिः ॥ (५४)

परिपूतं जलं मूर्ध्ना धृत्वा पिब च भक्तितः ।

पादतीर्थेन पूतात्मा पर्यटन्नभितो गिरिम् ॥ (५५)

प्रदक्षिणनमस्कार-कीर्तनादिपरो भव ।

ततः प्रीतस्स भगवान् पापात्वां मोचयिष्यति ॥ (५६)

नारदः –

इत्युक्त्वा ब्रह्मरक्षस्तौ ब्राहाणौ भगवत्परौ ।

काश्मीरदेशमुद्दिश्य जग्मतुर्जातकौतुकौ ॥ (५७)

चतुर्वेदिनो नारायणगिरिगमनान्मोक्षः

ब्रह्मरक्षश्च तद्भार्या तत्पुत्राश्च सगृध्रकाः ।

नारायणगिरिं प्राप्य ततश्चक्रुः प्रदक्षिणम् ॥ (५८)

तीर्थं च विष्णुभक्तानां पपुः पर्यन्तवर्तिनाम् ।

एवं तु वर्तमानैस्तैर्नीता मासास्तु पञ्चषाः ॥ (५९)

ततो नारायणश्श्रीमान्करुणाकलशाम्बुधिः ।

प्रदक्षिणैः प्रणामैश्च पारतन्त्रमुपेयिवान् ॥ (६०)

विसस्मार पुरा तेन पातकं कृतमुत्कटम् ।

जयश्च विजयश्चैव जयशब्दाभिधायिनौ ॥ (६१)

ततस्सञ्चोदयामास वाचा मधुरशीलया ।

भगवान् –

हरिरातापचारेण चतुर्वेदी पुराभवत् ॥ (६२)

पुत्रैश्च भार्यया सार्धं बन्धुभिः ब्रह्मराक्षसः ।

स चाद्य मम भक्तानां पादतीर्थ-निषेवणात् ॥ (६३)

पूतः पर्वतपार्श्वेषु सर्वतः परिवर्तते ।

अनिशं तेन मद्भक्तपादोदकनिषेवणम् ॥ (६४)

कीर्तनानि च मन्नाम्नां कृतान्यवशयन्ति माम् ।

मम तीर्थेषु सर्वत्र स्नापयित्वा क्रमेण तम् ॥ (६५)

तत्सुतानपि सर्वांस्तांत्समानयतमाशु वै ।

मद्भक्तपादतीर्थाम्बुपूतानामग्रतो नृणाम् ॥ (६६)

न हि तिष्ठन्ति पापानि सिंहस्याग्रे यथा गजाः ।

ये च तेनागतास्सर्वे तस्य बन्धुजनाश्च ते ॥ (६७)

साकमायान्तु मत्तीर्थस्नानाद्यैः पूतमूर्तयः ।

नारदः –

जयश्च विजयश्चापि ततो निर्गत्य कौतुकात् ॥ (६८)

ब्राह्मणं तं बभाषाते ब्रह्मराक्षसरूपिणम् ।

जय-विजयौ –

विष्णुभक्तपदाम्भोजतीर्थे विगतकल्मषः ॥ (६९)

त्वं हि नारायणं देवं स्तोत्रैर्दिव्यैरतूतुषः ।

स प्रसीदति ते लक्ष्म्या साकं कारुण्यरूपया ॥ (७०)

न हि सङ्कीर्तनालाषात्परं विष्णोः प्रसादनम् ।

अष्टतीर्थ्यां तु दिव्यायामादौ स्नातुं त्वमर्हसि ॥ (७१)

ततः कल्याणतीर्थे च स्नात्वा शुद्धो भविष्यसि ।

नारदः –

इत्युक्तो द्वारपालाभ्यां चतुर्वेदी मुदान्वितः ॥ (७२)

तद्दर्शितेषु तीर्थेषु स्नानं चक्रे यथाक्रमम् ।

वेदपुष्करिणीतीर्थ प्रथमं स्नानमातनोत् ॥ (७३)

दर्भतीर्थे ततः पश्चात् पालाशे च ततः परम् ।

यादव्यामथ दिव्यायां पद्मतीर्थे ततः परम् ॥ (७४)

तीर्थे पाराशरस्याथ ततो नारायणह्रदे ।

अथ वैकुण्ठगङ्गायाम् इत्येवं दर्शितः क्रमः ॥ (७५)

सर्वत्र स्नानकाले तु सत्त्वनिष्ठेन चेतसा ।

त्रिस्त्रिरावर्तयामास नाम नारायणस्य सः ॥ (७६)

स्नाने चैवं कृते सद्यो ब्रह्मराक्षसरूपतः ।

मुक्तो ब्राह्मणरूपेण ददृशे सानुगश्च सः ॥ (७७)

यद्यद्राह्मणरूपाङ्गं तत्सर्वञ्च तदाभवत् ।

शिखी यज्ञोपवीती च दण्डी धृतकमण्डलुः ॥ (७८)

कुण्डली सपवित्रश्च कुशासनसमन्वितः ।

धौतोत्तरीयधारी च भृशं धर्मपरायणः ॥ (७९)

मृदुभाषी मृदुगतिः काममार्द्रीकृताशयः ।

जपशीलः प्रशान्तात्मा मन्त्राणामपि भक्तितः ॥ (८०)

प्रियवादी समन्तानां सत्त्वशाली च सर्वदा ।

एवं ब्राह्मगुणैर्युक्तस्स च सौम्यस्तदाभवत् ॥ (८१)

ये च पुत्रादयस्ते च सर्वे ब्राह्मणतां ययुः ।

इत्थं ब्राह्मणरूपस्य तस्य पुत्रादिभिस्सह ॥ (८२)

स्नातुं कल्याणतीर्थेऽपि क्रमादासीदधिक्रिया ।

स्नात्वा तत्रोत्थिते तस्मिंत्सहसा पौर्वदैहिकम् ॥ (८३)

विद्याजातमशेषञ्च हस्तामलकतां ययौ ।

कल्याणीतीर्थ-माहात्म्यमन्यत्खलु मुनीश्वराः ॥ (८४)

स्नाति यस्तत्र तत्पादतीर्थं वाञ्छन्ति निर्जराः ।

तुलसीमणिमालाभिर्युक्तां पद्माक्षमालिकाम् ॥ (८५)

स कण्ठे धारयामास सर्वपापविनाशिनीम् ।

स्थानेषु केशवादीनां धारयामासुतश्च तम् ॥ (८६)

जयश्च विजयश्चापि द्वारपालावूर्ध्वपुण्ड्रकम् ।

तप्तचक्राङ्कनं तस्य चकार विजयः पुनः ॥ (८७)

न हि विष्णोः प्रियः कश्चिद्विना चक्रादिधारणात् ।

ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैश्च नियतात्मभिः ॥ (८८)

चक्रादिलाञ्छनं धार्यमिति हि श्रूयते श्रुतौ ।

लक्ष्मत्वादात्मनां भर्तुः कर्मणामङ्गभावतः ॥ (८९)

प्रकृतिग्रन्थिदाहत्वाद्धितत्वादपि चात्मनाम् ।

स्वस्य च प्रियरूपत्वात् संस्काराद्देहदेहिनोः ॥ (९०)

हेतुत्वात्सद्गृहीतेश्च तदन्यैरपवारणात् ।

द्रावणात् किङ्करादीनां धार्य चक्रादिलाञ्छनम् ॥ (९१)

कृतभिश्चेतरैश्चापि श्रेयसे मुक्तयेऽपि च ।

रहितः शङ्खचक्राद्यैः भोजनादिषु कर्मसु ॥ (९२)

विष्णुभक्तिपराणां तु पङ्क्तौ न स्थातुमर्हति ।

हरिभक्तिसमेतानां तप्तचक्रादिधारिणाम् ॥ (९३)

निन्दां यः कुरुते नित्यं स वै पाषण्ड उच्यते ।

ततोऽयं तप्तचक्राद्यैर्भूषितस्सोर्ध्वपुण्ड्रकः ॥ (९४)

नारायणपदाम्भोजं सिषेवे ब्राह्मणोत्तमः ।

अथायं विष्णुभक्तानां सेवया पूतमानसः ॥ (९५)

विष्णोराराधनं कृत्वा सपुत्रस्सहबान्धवः ।

ऐहिकं वाञ्छितं सर्वं फलं तस्य प्रसादतः ॥ (९६)

लब्ध्वा तदनु दिव्यं तन्निरपायं पदं ययौ ।

य इदं शृणुयान्नित्यमाख्यानं सुमनोहरम् ।

मुच्यते पाप्मभिस्सर्वैर्मुक्तिं याति च निर्मलः ॥ (९७)

अमृतमतिशयानात् कीर्तनाद्दिव्यनाम्नाम्

अपि च हरिपराणां पादतीर्थप्रभावात् ।

इति गतपरितापः कश्चिदाश्चर्यशाली

कमपि यदुगिरिस्थं कान्तिस्सिन्धुं ददर्श ॥ (९८)

किमपि किमपि कृत्वा व्याजमव्याजबन्धुः

सकलभुवनरक्षासावधानैः कटाक्षैः ।

स खलु यदुगिरिस्थः पक्षिणो वा पशून्वा

शमितनिखिलतापस्त्रायते चक्रपाणिः ॥ (९९)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये चतुर्वेदिमोक्षणकथनं नाम अष्टमोऽध्यायः (Continued)