यादवाद्रिदर्शनम् Part 7

श्रीरस्तु

श्रीमते नारायणाय नमः

श्रीमते रामानुजाय नमः

श्रीनारदपुराणान्तर्गत–श्रीमद्यादवागिरिमाहात्म्यम्

प्रथमोऽध्यायः


व्यासादीनां बदरीस्थ–नारायण–समीपगमनम्

एकदा मुनयः सर्वेऽप्यैकान्त्येन व्यवस्थिताः ।

प्रापुर्नारायणं देवं नरनारायणाश्रमे ॥ (१)

व्यासो वसिष्ठः कपिलो मार्कण्डेयश्च काश्यपः ।

अत्रिर्दक्षो भरद्वाजः विश्वामित्रश्च शौनकः ॥ (२)

गौतमो जमदग्निश्च पुलस्त्यः कुम्भसम्भवः ।

वाल्मीकिर्वामदेवश्च वैशम्पायनभार्गवौ ॥ (३)

एते चान्ये च मुनयः सर्वे विष्णुपरायणाः ।

सर्वे वेदार्थतत्वानां निर्णेतारो युगे युगे ॥ (४)

ते तत्र मुनिरूपेण तिष्ठन्तं मुनिसत्तमाः ।

नारायणं नमश्चक्रुर्नरं चैव ततः परम् ॥ (५)

तुष्टुवुश्च हृषीकेशं ततस्स्तव्यं स्तवप्रियम् ।

श्रुतिसिद्धान्तशुद्धाभिः स्तुतिभिस्तोत्रकोविदाः ॥ (६)

ऋषयः –

भगवन् देवदेवेश नमो नारायणाय ते ।

रक्षकस्त्वं हि विश्वस्य शेषी चासि श्रियःपते ॥ (७)

मातापितृसहस्त्रेभ्यो वत्सलोऽसि च देहिनां ।

अवलम्बनमस्माकं करुणा तव केवलम् ॥ (८)

भवन्तं शरणं प्राप्ता भवसन्तापहारिणम् ।

पश्यन्ति सूरिभिस्सार्ध तद्विष्णोः परमं पदम् ॥ (९)

अग्नौ प्रोतमिषीकाणां तूलं यद्वत्प्रदूयते ।

त्वामाश्रित्य प्रदूयन्ते पाप्मानस्तद्वदेव नः ॥ (१०)

आलोकय कटाक्षैस्त्वम् अनुकम्पाब्धिवीचिभिः ।

अस्मानपि परां भक्तिं वहतस्त्वत्पदाम्बुजे ॥ (११)

इत्थं नानाविधैस्स्तोत्रैः स्तुतस्स पुरुषोत्तमः ।

उवाच मुनिशार्दूलान् गुरुभिर्वाक्यविस्तरैः ॥ (१२)

भगवान् –

स्वागतं भवतामद्य सुखमस्त्वधिकं हि वः ।

युष्माकं दर्शनेनाऽहं परितुष्यामि भूयसा ॥ (१३)

मद्भक्ता हि मम प्राणाः ममात्मा ज्ञानिनां वराः ।

तल्लाभादपरं लाभं न च मन्ये कदाचन । । (१४)

भवदागमने कार्यं ब्रूतं यूयं ममाखिलम् ।

संश्रितत्राणहेतुर्मे सर्वो रूपपरिग्रहः । (१५)

मुनिभिश्चोदितस्तत्र पाराशर्यो मुनिस्ततः ।

सर्वं विज्ञापयामास समागमनकारणम् ॥ । (१६)

व्यासः –

मन्त्राणां परमो मन्त्रः योऽयमष्टाक्षरात्मकः ।

उपदेष्टाऽसि तस्य त्वं तव शिष्यास्ततो वयम् ॥ (१६)

दैवतं त्वं गुरुश्च त्वं माता च त्वं पिता च नः ।

न हि नारायणादन्यः कश्चिद्-बन्धुर्मनीषिणाम् ॥ (१७)

अज्ञातज्ञापनं यत् स्यात् अप्रवृत्तप्रवर्तनम् ।

सर्वं च भवदायत्तम् अस्माकं पुरुषोत्तम ॥ (१८)

कलिरद्य महीं सर्वाम् आक्रम्य खलु वर्तते ।

अतस्तद्दोषनिर्मुक्तं स्थानं त्वं वक्तुमर्हसि ॥ (१९)

यत्रैते परया भक्त्या सेविष्यन्ते भवत्पदम् ।

मुनयः कमलाकान्त-कमलाकरलालितम् ॥ (२०)

इति तद्वचनं श्रुत्वा भगवान् भक्तवत्सलः ।

स्थानं सगुणमाख्यातुं सन्तोषादुपचक्रमे ॥ (२१)

नारायणः –

अस्ति दक्षिणदेशीयः कश्चिदास्तिकसंश्रयः ।

नारायणगिरिः नाम संसारार्णवतारकः ॥ (२२)

सह्याद्रेस्स गिरिः पूर्वः सह्यजायास्तथोत्तरः ।

दूरादालक्ष्यते शृङ्गैः दुःखसागरसेतुभिः ॥ (२३)

तत्रार्चनविधानेन तपसा चाधिदैवतम् ।

अभ्यर्च्य विविधान्कामान् लभते कमलासनः ॥ (२४)

अत्रोपदेष्टृ-रूपेण वर्ते बदरिकाश्रमे ।

उपदेष्टव्य-रूपेण वर्ते तत्र महीधरे ॥ (२५)

हृदयं मम तत्स्थानं श्रुतीनां नयनं शुभम् ।

मुनीनामपि सर्वस्वं मुक्तेश्च प्रथमाधुरम् ॥ (२६)

दक्षिणोत्तरभेदेन द्वावेतौ हि ममाश्रमौ ।

सत्त्वोत्तराणां भूयस्त्वात् स तु सर्वोत्तरो गिरिः ॥ (२७)

गुणस्त्रितयभेदेन प्रकृतिः भिद्यते नृणां ।

नारायणाद्रिनिष्ठानां न रजोऽस्ति कुतस्तमः ॥ (२८)

श्रीरङ्गे वृषभाद्रौ च क्षेत्रे सत्यव्रते मम ।

विष्णुलोके च या प्रीतिस्सा प्रीतिस्तत्र जायते ॥ (२९)

तत्र शेषश्च तनुते शेषवृत्तिं युगे युगे ।

अशेषशेषिणे मह्यं शेषासनमुखैः सह ॥ (३०)

अनन्तः प्रथमं रूपं लक्ष्मणश्च ततः परम् ।

बलभद्रस्तृतीयश्च कलौ कश्चिद्भविष्यति ॥ (३१)

अर्चितः कृष्णरामाभ्यां तत्राऽहं द्वापरे यतः ।

तेन यादवशैलोऽयमिति लोकेषु कथ्यते ॥ (३२)

सहस्रशिखरस्सोऽयं साक्षाच्छेषात्मको गिरिः ।

वैकुण्ठादपि यत्राऽहं रमया सहितो रमे ॥ (३३)

वैकुण्ठाद्यखिलस्थानसारस्य यदुभूभृतः ।

सेवया कृत्स्नमत्स्थानसेवाऽप्यन्तर्भविष्यति ॥ (३४)

वैकुण्ठवासिनस्सर्वे शेषशेषाशनादयः ।

तिर्यक्स्थावरजन्मानि श्रयन्ते यदुभूधरे ॥ (३५)

अहं च बदरी भूत्वा तस्य शैलस्य मूर्धनि ।

वसामि मुनिशार्दूलैः वन्दितस्सनकादिभिः ॥ (३६)

पशवः पक्षिणस्तत्र प्राकृताश्चापि मानवाः ।

दूरतो हि नमस्यन्ते क्रूरैः शमनकिङ्करैः ॥ (३७)

यादवाद्रेः जिगमिषा येषां केषाञ्च विद्यते ।

तेषां देशे यमभटा न गच्छन्ति कदाचन ॥ (३८)

भवन्तस्तत्र गत्त्वैव भवसन्तापशान्तये ।

काले काले च सेवन्तां कल्याणतीर्थमद्भुतम् ॥ (३९)

यत्र तीर्थे निमज्जन्तो यतयः संश्रितव्रताः ।

उन्मज्जन्ति भवान् बोधिकल्लोलकलहान्तरात् ॥ (४०)

पुष्करे न तथा प्रीतिर्न गङ्गायां न यामुने ।

यथा कल्याणतीर्थस्य तीर्थे कल्याणचेतसाम् ॥ (४१)

तीर्थे तत्रामले स्नात्वा मुच्यन्ते सर्वकिल्विषैः ।

नास्तिकश्च कृतघ्नश्च परीवादरतोऽपि च ॥ (४२)

परप्रशंसानिष्ठश्च स्वप्रशंसापरायणः ।

यज्ञविघ्नकरश्चापि वेदाध्ययनदूषकः ॥ (४३)

परदारानुरक्तश्च पाकभेदकरोऽपि च ।

परद्रव्यापहारी च पाषण्डागमतत्परः ॥ (४४)

शूद्रान्नभक्षकश्चापि श्वादीनामुपलालकः ।

धर्मविक्रयशीलश्च श्राद्धभुग्ग्रामयाजकः ॥ (४५)

देवताद्रव्यहारी च दर्पदम्भादिसंयुतः ।

नित्यं नगरवासी च नृपसेवोपजीवकः ॥ (४६)

कन्याविक्रियकारी च काकवत् सर्वभक्षकः ।

गवां क्लेशकरश्चापि ब्राह्मणानाञ्च निन्दकः ॥ (४७)

विष्णुभक्तिविघाती च वृपलीपतिरेव च ।

शौचाचारविनिर्मुक्तः शरणागतघातकः ॥ (४८)

एतैरन्यैश्च मुच्यन्ते पापैः पापरता जनाः ।

नरसिंहगिरिं तत्र दूरे नमत भक्तितः ॥ (४९)

यस्य दर्शनमात्रेण दूरं गच्छति दुष्कृतम् ।

प्रह्लादो हि महाभागः प्रणयं मयि धारयन् ॥ (५०)

प्रतिष्ठां कारयामास तत्र मां सिंहरूपिणम् ।

आरोहन्ति गिरिं ये तु ते च सेवार्थिनो मम ॥ (५१)

नावरोहन्ति संसारसागरावर्तगह्वरे ।

धर्ममर्थञ्च कामञ्च लभन्ते मोक्षमन्ततः ॥ (५२)

अज्ञानवारको नाम कश्चिदश्वत्थपादपः ।

तीर्थस्य पश्चिमे भागे कल्याणस्यावलोक्यते ॥ (५३)

अंबरीषो विकुक्षिश्च पुरा रुक्माङ्गदस्तथा ।

शुकश्च पुण्डरीकश्च यदन्ते मामुपासत ॥ (५४)

पञ्चभागवत-स्थानमतस्तत्स्थानमुच्यते ।

मुच्यन्ते हि च तत्स्थानदर्शनादपि पातकैः ॥ (५५)

अहं हि मम भक्तानां ददामि निखिलं फलम् ।

कल्याणसरसः पूर्वं नरसिंहगिरेरधः ॥ (५६)

क्षेत्रं सिद्धिकरं पुंसां वाराहं स्थानमुच्यते ।

वराहरूपी भगवान् वसुधामवलोकयन् ॥ (५७)

यत्र श्रुतीनामुत्तंसं श्लोकद्वयमुपादिशत् ।

वैकुण्ठवर्धनं नाम क्षेत्रं तत् सत्यमुच्यते ॥ (५८)

प्रमाणं तस्य विज्ञेयं परितो योजनद्वयम् ।

यावद्दृष्टिपथं याति पर्वतोऽयं मुनीश्वराः ॥ (५९)

तावत्प्रमाणकं सर्वं मुक्तिक्षेत्रं तदुच्यते ।

शुद्धसत्वमयं तत्र विमानं मम दृश्यते ॥ (६०)

आनन्दमयमित्येव यस्य नामाऽपि कथ्यते ।

नमस्कारेऽपि किं तस्य कीर्तनादर्शनादपि ॥ (६१)

आजन्ममरणं यत्स्यादघं तदपि नश्यति ।

अवतीर्णं हि वैकुण्ठादाद्ये कृतयुगे च तत् ॥ (६२)

जगतामुपकाराय स्वयं सङ्कल्पतो मम ।

पश्चादपि विमानस्य प्राकारान्तरमध्यतः ॥ (६३)

सुदर्शनं च लक्ष्मीश्च वर्तेते सर्वकामदे ।

ये तत्र मार्जनं चक्रुः ये च तत्रोपलेपनम् ॥ (६४)

दीपप्रदानं ये चाऽपि ये वा स्थण्डिलमण्डनम् ।

चामरस्मेरपार्थास्ते छत्रछायाश्रिताः पुनः ॥ (६५)

चक्रवर्तिपदं प्राप्य मोदन्ते पुत्रपौत्रकैः ।

अधिकारावसाने तु ददाम्यहमनुत्तमम् ॥ (६६)

अविशेषं फलं तेषां शेषशेषाशनादिभिः ।

अशेषचिदचिद्वस्तु शेषिणो मम काङ्क्षितम् ॥ (६७)

भक्तिः केवलमन्यैस्तु परीक्षे भावबन्धनम् ।

विशुद्धां मृत्तिकां तत्र ललाटे धारयन्ति ये ॥ (६८)

अन्येष्वपि यथास्थानमङ्गेषु यतचेतसः ।

सद्यस्संशुद्धरूपेभ्यः तेभ्यो बिभ्यति दानवाः ॥ (६९)

भूतप्रेतपिशाचाश्च तथा वेतालजातयः ।

श्वेतद्वीपात् खगेशेन शुद्धमृद्रव्यमाहृतम् ॥ (७०)

यादवाद्रौ विनिक्षिप्तम् अक्षयं तन्ममाजया ।

सत्त्वस्य प्रकृतिश्शुद्धा शुद्धा तत्रापि मृत्तिका ॥ (७१)

अतस्सत्वमयं स्थानं आदरादधिगच्छत ।

अष्टतीर्थमहिमाननुवर्णनम्

उत्तरत्राऽस्य शैलस्य धारानिर्मलरूपिणी ॥ (७२)

काचित्पतति कल्याणी काङ्क्षितार्थप्रदायिनी ।

यस्या वैकुण्ठगङ्गेति नामधेयं विदुर्बुधाः ॥ (७३)

सा हि विष्णुपदादेव साक्षान्निपतिता भुवि ।

ये पिबन्ति जलं भक्त्या ये वा ततीरवासिनः ॥ (७४)

विज्ञानं प्राप्य मोदन्ते ते वै वैकुण्ठवासिभिः ।

त्रिविक्रमस्य पादाब्जे ब्रह्मणा क्षालिते सति ॥ (७५)

आसीद्धरजटाजूटमाला विष्णुपदी नदी ।

विरजा-तोयमादाय ततो वैकुण्ठवासिनः ॥ (७६)

पुनः प्रक्षालयामासुः पुण्यतीर्थाऽभिलाषिणः ।

तत्तीर्थं पतितं किञ्चित् पार्श्वे यादवभूभृतः ॥ (७७)

सा हि वैकुण्ठगङ्गेति धारा तत्र निगद्यते ।

भक्तिसारो महायोगी मत्पदैकस्तुतव्रतः ॥ (७८)

तत्रत्यो मत्पदं ध्यायन् चिरं वैकुण्ठमाप सः ।

तस्यां वैकुण्ठगङ्गायां प्रोक्षणैर्मम रोधकाः ॥ (७९)

कामादिदोषा नश्यन्ति शमाद्या भान्ति सद्गुणाः ।

नयनादपवर्गस्य नयनं स्थानमुच्यते ॥ (८०)

तत्र केशवसान्निध्यं कृतिनो मन्वते सदा ।

नारायणह्रदं प्राहुर्नयने तीर्थमद्भुतम् ॥ (८१)

अयत्रादेव जायन्ते यदन्ते मन्त्रसिद्धयः ।

क्लेशापहारिणं पुंसां केवलं दर्शनादपि ॥ (८२)

केशवं नयनस्थं तं ध्यात्वैव विबुधोत्तमः ।

विरक्तो विष्णुचित्तस्तु नारायणपदद्वयम् ॥ (८३)

शरणं प्राप्य तत्रैव जगाम परमं पदम् ।

नारायणह्रदस्नानं नरकाङ्गारनाशनम् ॥ (८४)

नारायणाङ्घ्रिस्मरणं जनयेन्मरणे नृणाम् ।

दक्षिणे चास्य सरसः कल्याणस्योत्तरे शुभे ॥ (८५)

तीर्थं पाराशरं पुण्यं भासते मधुरोधकम् ।

मन्नियोगेन मद्भक्तः पुरा तत्र पराशरः ॥ (८६)

पुराणं वैष्णवं चक्रे तटे तीर्थस्य तस्य हि ।

मैत्रेयकुण्डमित्यस्य तीर्थस्य कतिचित् बुधाः ॥ (८७)

दक्षिणापथदेशीया वदन्त्याख्यां पुराविदः ।

उत्तरापरभागेन शैलस्यास्य प्रसर्पति ॥ (८८)

परीता यज्ञवृक्षैश्च यादवीति महानदी ।

खादिरैश्च पलाशैश्च तत्रत्यैरेव पावनैः ॥ (८९)

ये यजन्ति परं धाम लभन्ते ते हि मामकम् ।

यादवेन्द्रो महीपालः तस्यास्तीरे तपश्चरन् ॥ (९०)

रौद्रं पदमवाप्याऽथ क्रमान्मुक्तिं परामगात् ।

तस्य यादवशैलस्य पार्श्वे दक्षिणतः स्थिताम् ॥ (९१)

परिधानशिलां दृष्ट्वा प्रणमन्ति द्विजोत्तमाः ।

यस्याः प्रणामं कुर्वाणाः प्रणम्यन्ते सुरासुरैः ॥ (९२)

सा हि सत्त्वमयी पुंसां सद्यस्सत्वं प्रयच्छति ।

पुरा हि शाक्यपाषण्डकाणादाद्या महीतले ॥ (९३)

त्रैय्यां वैय्याकुलीं चक्रुर्वक्रैर्वचनविस्तरैः ।

अन्तेवासिभिराम्नायैस्साकं मानुषरूपधृत् ॥ (९४)

त्रिदण्डधारी भूत्त्वाऽहं निरास्थमहमीदृशान् ।

दत्तात्रेयस्य मे तत्र तदा कापायसङ्ग्रहः ॥ (९५)

अतो मत्परिधानेन शिलाया नाम कथ्यते ।

ये तत्र परिगृहन्ति नराः काषायशाटिकाम् ॥ (९६)

मद्भावेन नमस्यास्ते मद्भक्तषूत्तमोत्तमाः ।

वेदानुपादिशं तत्र शिष्याणामहमर्थतः ॥ (९७)

तस्मात्पुष्करिणीं तत्र वेदपुष्करिणीं जगुः ।

उपत्यकायां शैलस्य तस्याः पश्चिमभागतः ॥ (९८)

दर्भतीर्थमिति ख्यातं तीर्थमस्ति महत्तरम् ।

मम सन्यासिरूपस्य यत्रासीद्दर्भसङ्ग्रहः ॥ (९९)

शाण्डिल्योऽपि मुनिश्रेष्ठः तत्र मामर्चयत्पुरा ।

पञ्चरात्रस्य कृत्स्नस्य य एवाऽसीत्प्रवर्तकः ॥ (१००)

पाञ्चकालिकधर्मोऽपि येनाऽभूद्विशदीकृतः ।

प्रयाणकाले तत्रत्यैर्दभैर्ये तल्पमाश्रिताः ॥ (१०१)

ते हि संसारदुःखेभ्यो मुक्ता यास्यन्ति मत्पदम् ।

गिरेः पश्चिमतस्तीर्थं दिव्यमन्यच्च दृश्यते ॥ (१०२)

पलाशतीर्थमित्याहुर्यस्य नाम पुराविदः ।

विश्वामित्रेण शप्तानां वसिष्ठकुलजन्मनाम् ॥ (१०३)

यत्रासीन्मत्प्रसादेन पुरा शापविमोक्षणम् ।

तस्य चोत्तरतः किञ्चित्तीर्थस्यास्ति महत्तरम् ॥ (१०४)

पद्मतीर्थमिति ख्यातं तीर्थं पद्मोपलालितम् ।

सनत्कुमारो मुनिभिः सनकाद्यैस्समन्वितः ॥ (१०५)

यत्र पद्ममुपादाय पुरा मामभ्यपूजयत् ।

पद्मतीर्थ-समुद्भूत-पद्माक्ष-मणिमालिकाम् ॥ (१०६)

कण्ठे बिभ्रति ये नित्यं ते हि वैकुण्ठगामिनः ।

इति कल्याणतीर्थस्य परितः पावनोदकाम् ॥ (१०७)

अष्टतीर्थमिमां प्राहुरष्टाक्षरमयीं बुधाः ।

स्मृत्याऽपि यस्याश्शुध्यन्ति किं पुनर्मज्जनादिभिः ॥ (१०८)

सा हि सर्वेषु तीर्थेषु प्रशस्ता कथ्यते बुधैः ।

तत्तीरतुलसीकाष्ठमणिभिर्ये विभूषिताः ॥ (१०९)

शुद्ध्यन्ति तेषां दृष्टयैव महापातकिनो नराः ।

यतयो मां निषेवन्ते यदुशैलस्य मूर्धनि ॥ (११०)

स्थानान्तरे कृतं पुण्यं पुण्यस्थाने दशोत्तरम् ।

पुण्यस्थाने च यत्पुण्यं पुष्करे तच्छतोत्तरम् ॥ (१११)

सहस्रगुणितं तच्च प्रयागे तु कृतं भवेत् ।

सालग्रामे कृतं तच्चेत् भवेत् कोटिगुणं पुनः ॥ (११२)

शतकोटिगुणं तस्मात् कृतं यादवभूधरे ।

तत्रापि मम भक्तानां सन्निधौ क्रियते यदि ॥ (११३)

तद्दृष्टिपरिपूतं तत्कोटिकोटिगुणं भवेत् ।

दुर्दर्शनमरातीनां मामकानां सुदर्शनम् ॥ (११४)

पालनाय गिरेस्तस्य परिभ्रमति तेजसा ।

यस्तु यादवशैलस्थान् मद्भक्तान् पीडयिष्यति ॥ (११५)

सुदर्शन-महाज्वाला-मालाशलभ एव सः ।

द्वापरान्ते कलिस्तत्र प्रवेष्टुं द्रुतमागतः ॥ (११६)

वेत्रदण्डधरैस्सद्यः ताडितो मम किङ्करैः ।

वत्सरं वाऽथ मासं वा पक्षं सप्तदिनानि वा ॥ (११७)

त्रिरात्रमेकरात्रं वा यो वसेद्यदुभूधरे ।

स एव मम भक्तस्यान्नान्यः प्रियतरो मम ॥ (११८)

यस्तु फाल्गुनमासस्य पौर्णमास्यां निषेवते ।

यामं वापि तदर्धं वा मां तत्र यदुभूधरे ॥ (११९)

अनुगच्छामि तं नित्यं जननीव स्तनन्धयम् ।

गत्वा यूयं मुनिश्रेष्ठाः तत्र कृत्वा ममार्चनम् ॥ (१२०)

उपलभ्य परां भक्तिं संसृतिं सन्तरिष्यथ ।

गत्वा गत्वा निवर्तन्ते सर्वे धर्मपरायणाः ॥ (१२१)

मां प्राप्य न निवर्तन्ते यादवाद्रिनिवासिनम् ।

इत्युक्त्वा विरते देवे मुदिता मुनयश्च ते ॥ (१२२)

प्रणम्य पुनरप्याहुः प्रणतोत्तारकं हरिम् ।

मुनयः –

नारायण नमस्तेऽस्तु नराणामयनं भवान् ॥ (१२३)

संक्षेपाद्यदुशैलस्य माहात्म्यं कथितं त्वया ।

तदिदं विस्तराच्छोतुं वाञ्छामो वयमच्युत ॥ (१२४)

त्वं हि नः परमो बन्धुः त्वं हि नः परमा गतिः ।

इत्युक्तस्तैर्मुनिश्रेष्ठैः प्रत्युवाच ततो हरिः ॥ (१२५)

नारायणः –

सनत्कुमारो भगवान् सर्वं श्रुत्वा पितामहात् ।

तस्य शैलस्य माहात्म्यं नारदाय ततोऽब्रवीत् ॥ (१२६)

स एव भवतामेतत् वक्तुमर्हति नारदः ।

इत्युक्त्वाऽन्तर्दधे तत्र मुनीनां भावितात्मनाम् ।

पुरतः पुण्डरीकाक्षः पूर्णषाड्गुण्यलक्षणः ॥ (१२७)

इति किल मुनिमुख्यानीरयित्वा वचोभिः

परिणतमिव लक्ष्म्याः प्रार्थितानां फलानां ।

यदुगिरिगतमन्तर्दशिनां चक्रवर्ती

यदुकुलबहुमान्यं चिन्तयामास देवम् ॥ (१२८)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरि–माहात्म्ये विष्णुमुनिसंवादे संक्षेपतो यादवाद्रिप्रशंसादिकथनं नाम प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः

व्यासादिमहर्षि–सन्निधिं प्रति नारदागमनम्

ततः करतलोल्लासि-वीणावादनलालसः ।

आविर्बभूव भगवानग्रतस्तत्र नारदः ॥ (१)

स मुनिस्तपसां राशिः सत्त्वस्यैकसमुच्चयः ।

भगवान् ज्ञानवैराग्यभक्तीनामेकभाजनम् ॥ (२)

वैकुण्ठचरणाम्भोज-सेवाहेवाकशालिनाम् ।

नासीरे वर्तते नित्यं नारदो हि महामुनिः ॥ (३)

स तत्र श्रुतिसीमन्त-सीमालङ्कारमौक्तिकम् ।

उपवीणयितुं देवं नारायणमुपागमत् ॥ (४)

न यज्ञैर्नापि विज्ञानैः प्रणामैर्न चार्चनैः ।

न च योगैस्तथा तुष्येद्यथा सङ्कीर्तनाद्धरिः ॥ (५)

रसायनं मनुष्याणां रसनायाः परो रसः ।

रक्षा सकललोकानामहो नारायणाक्षरम् ॥ (६)

भक्तिगद्गदया वाचा गायन्तं गरुडध्वजम् ।

ददृशुर्मुनिशार्दूलं मुनयस्तत्र संयताः ॥ (७)

अथ तानरविन्दाक्षपरभक्तिपरिष्कृतान् ।

पप्रच्छ स मुनिश्रेष्ठः प्रणयोत्फुल्लया गिरा ॥ (८)

नारदः –

किं कारणमिति ब्रूत कृतिनामत्र सन्निधौ ।

चरितार्थो भवाम्यद्य भवतामवलोकनात् ॥ (९)

पृष्टास्तेनापि मुनयः सर्ववृत्तमुदैरयन् ।

मुनयः –

वयं कलियुगे प्राप्ते वासं पुण्यं विचिन्महे ॥ (१०)

अस्माकं सर्ववासानां अधिकं गुणवैभवैः ।

नारायणाद्रिं भगवान् प्राह नारायणः स्वयम् ॥ (११)

उक्त्वा संक्षेपतस्तस्य प्रभावं भगवान्पुनः ।

भवान् वक्ष्यति तत्सर्वं विस्तरादिति चाब्रवीत् ॥ (१२)

भवान् कलु महाभागो भगवद्ज्ञानयोगिनाम् ।

मुनीनामग्रगण्योऽभूत्, मूर्तिस्सत्त्वस्य निर्मला ॥ (१३)

अतो यादवशैलस्य माहात्म्यं श्रोतुमिच्छताम् ।

अस्माकमभिलाषस्य पूरकस्त्वं भविष्यसि ॥ (१४)

नारायणः कथं तत्र स्वयं सन्निदधे पुरा ।

कथं वा तस्य शैलस्य कलिदोषनिहन्तृता ॥ (१५)

अर्चितस्तत्र देवेशः केन केनाधिकारिणा ।

तीर्थं वा तत्र कल्याणनाम्ना कथमुदीर्यते ॥ (१६)

तत्रत्यायाश्च मृत्स्नायाः प्राशस्त्यं केन हेतुना ।

कथमासीत्पुरा तत्र नरसिंहस्य सन्निधिः ॥ (१७)

वैकुण्ठवर्धनाभिख्या क्षेत्रस्यास्य कुतोऽभवत् ।

को वा नयनवासेन प्राप विष्णोः परं पदम् ॥ (१८)

तत्रापराधिनां पुंसां किन्नु दुःखं भविष्यति ।

तत्र नारायणः श्रीमान् कथं च परितुष्यति ॥ (१९)

सर्वमेतत् मुनिश्रेष्ठ भवान्नो वक्तुमर्हति ।

इति तद्वचनं श्रुत्वा नारदो मुनिसत्तमः ॥ (२०)

अनुयुक्तमशेषं तदारेभे वक्तुमुत्सुकः ।

नारदोक्तजगत्सृष्ट्यादिः

शृणुध्वमृषयस्सर्वे श्रुतं यत्तन्मया पुरा ॥ (२१)

सनत्कुमारात्सर्वेषां विज्ञानानां च सागरात् ।

अहं हि परिदष्टानाम् अनात्मगुणपन्नगैः ॥ (२२)

औषधं स परं मन्ये गुरोरज्ञानवारणात् ।

पुरा चराचरं विश्वं पुरुषोत्तमलीलया ॥ (२३)

तमोमात्रावशेषेण रूपेणैव व्यवस्थितम् ।

तमोऽपि च परे ब्रह्मण्यविभागेन च स्थितम् ॥ (२४)

प्रधानं पुरुषश्चेति शरीरद्वितयं हरेः ।

आधेयत्वविधेयत्वशेषत्वैरखिलं जगत् ॥ (२५)

धारकस्य नियन्तुश्च शेषिणो हि हरेस्तनुः ।

अतस्तदात्मकत्वेन प्रधानपुरुषावपि ॥ (२६)

विश्वकारणभावेन विश्रुतौ निगमेषु च ।

स्वातन्त्र्येण तयोरस्ति कारणत्वं स कुत्रचित् ॥ (२७)

पुरुषाः खलु तत्काले पुरुषार्थविवर्जिताः ।

अविशेषादचिद्वर्गैरवसादं प्रपेदिरे ॥ (२८)

अवलोक्य विनिर्मुक्तभोगान्प्रकृतिसंश्रयान् ।

पुरुषान्पुण्डरीकाक्षे करुणा काप्यजायत ॥ (२९)

रक्षणार्थं ततस्तेषां सिसृक्षां प्राप माधवः ।

पुराणपुरुषस्यास्य सङ्कल्पात्प्रकृतिः पुनः ॥ (३०)

महदादिप्रभेदेन विचकार गुणैस्ततः ।

महानहङ्कृतिं चक्रे सात्विकादिविभागतः ॥ (३१)

गुणभेदादहङ्कारः स्त्रैविध्यमगमत्ततः ।

इन्द्रियाणां समुत्पत्तिरहङ्काराच्च सात्विकात् ॥ (३२)

तन्मात्रान्तरितत्वेन तामसाद्भूतसंप्लवः ।

द्वयोरुपकृतिं चक्रे राजसाहंकृतिस्तयोः ॥ (३३)

पञ्चानामपि भूतानां शब्दाद्या उत्तरोत्तरम् ।

अधिकत्वेन जायन्ते तस्मात् पञ्चगुणा मही ॥ (३४)

तन्मात्रा भूतभेदोऽयं सूक्ष्मस्थूलविभागतः ।

यथा हि कलिलं पश्चाद्दधिरूपेण जायते ॥ (३५)

तथा तन्मात्ररूपं तद्भूतत्वमधिगच्छति ।

असंहितत्वादेतानि नानावीर्यान्वितानि हि ॥ (३६)

पृथक्भूतानि भूतानि माण्डसृष्टावशक्नुवन् ।

ततः पञ्चसु भूतेषु पञ्चीकरणमातनोत् ॥ (३७)

भगवान् सत्यसङ्कल्पः कर्तुं कार्यपरम्पराम् ।

चतुर्भिः परभागैः स्यादर्धमर्धं स्वभागतः ॥ (३८)

इति पञ्चसु भूतेषु पञ्चीकरणमिष्यते ।

तेषु तेषु च भूतेषु तत्तद्वयवहृतिः पुनः ॥ (३९)

भूयस्त्वात् स्वात्मभावस्य मतिरप्येवमिष्यते ।

दशोत्तरैरावरणैः परीतं परमः पुमान् ॥ (४०)

अण्डमुत्पादयामास ततः कनकपिण्डवत् ।

भूतैर्भूतादिना चैव महता च ततः परम् ॥ (४१)

अण्डं ह्येतदखण्डस्य कारणं परिवार्यते ।

समष्टिसृष्टिम्सर्वेषां व्यष्टिः पश्चाद्भविष्यति ॥ (४२)

अण्डमध्ये नतः पश्चादेष कारणपूरुषः ।

स्तूयमानस्त्रयीभागैः अधिशिष्ये जलाशयम् ॥ (४३)

नारायणशब्दनिर्वचनम्

तदा हि सूयमानस्य शतशस्तस्य नामभिः ।

नाऽन्यत् प्रियं तथा चक्रे नारायणपदं यथा ॥ (४४)

इदं हि शुद्धिर्वचसां श्रुतीनामवलंबनम् ।

सूरीणामपि सर्वेषां कर्णेष्वमृतसेचनम् ॥ (४५)

नारायणपदं यस्य जिह्वाग्रे वर्तते सदा ।

नारायणः श्रिया सार्धं नैव मुञ्चति तं क्षणम् ॥ (४६)

अर्थं विनाऽपि शब्दोऽयं त्रायते महतो भयात् ।

किं पुनर्ज्ञायमानार्थः कृतीनां पादसेवया ॥ (४७)

आपो हि नारशब्दार्थः नारा विष्णोः समुद्भवाः ।

अयनं ता यदस्यासंस्तेन नारायणः स्मृतः ॥ (४८)

नारं सरोरुहं प्रोक्तं ज्वलद्योनिमयं पुरा ।

यस्य नाभौ समुत्पन्नं स वै नारायणः स्मृतः ॥ (४९)

अक्षरत्त्वान्नरा जीवा नारास्तेषां समुच्चयः ।

तेषामयतां याति तेन नारायणस्स्मृतः ॥ (५०)

अथवा नेतृभूतोऽयं नरो नारं चराचरम् ।

वासस्थानमिदं तस्य तेन नारायणस्स्मृतः ॥ (५१)

ज्ञानशक्त्यादयो यद्वा गुणा नारा इति स्मृताः ।

षाड्गुण्यपरिपूर्णोऽयं तेन नारायणस्स्मृतः ॥ (५२)

षाड्गुण्यं वासुदेवस्य यथा व्यूहेऽपि तत् समम् ।

संकर्षणादिभेदस्तु गुणाभिव्यक्तिमात्रतः ॥ (५३)

ज्ञानशत्यादिभिष्षड्भिः तद्भेदैः करुणादिभिः ।

अतो नारायणश्श्रीमान् सर्वत्र परिपूर्यते ॥ (५४)

विश्वान्तर्यामिवालस्य यथा हि जठरे जगत् ।

षाड्गुण्योदरमाश्रित्य वर्तन्ते गुणकोटयः ॥ (५५)

समुद्रशायिनस्तस्य नाभेराभरणात्मकम् ।

आविर्वभूव दिव्यं तत् पङ्कजं यदपङ्कजम् ॥ (५६)

उद्बभूव ततस्तस्मात् उद्गताञ्जलिबन्धनः ।

भक्त्या नम्रशिराः कश्चित् भृशमुल्लसिताननः ॥ (५७)

स चतुर्वदनो जातो युक्तं तस्मात् चतुर्भुजात् ।

इति श्रुतिभिरष्टासु दिशास्वाभाषि भाषितम् ॥ (५८)

तमेनं वर्धयामास कारुण्यस्तन्यदायिनी ।

करुणैवापरा विष्णोः कमला कमलालया ॥ (५९)

पारलौकिकमैश्वर्यम् ऐहलौकिकमेव वा ।

सर्वं सम्पद्यते लक्ष्म्याः करुणापरिणामतः ॥ (६०)

ततो विज्ञापयामास विष्णोरेषानपायिनी ।

वेदोपदेशं बालस्य भगवन्कर्तुमर्हसि ॥ (६१)

सहधर्मचरीवाक्यात्स च सन्तोषदायिनः ।

एवं विज्ञापितः पश्चात् ओमित्याह श्रियःपतिः ॥ (६२)

श्रुत्वा तद्वचनं बाल्यात् ओमोमोमित्युदीरयन् ।

हसितं दिव्यदम्पत्योः पित्रोश्चक्रे पितामहः ॥ (६३)

आश्चर्येण हसन् पश्चादित्याह स च माधवः ।

पितामहोऽपि तच्छ्रुत्त्वा तदेवावर्तयत्पुनः ॥ (६४)

प्रणवं प्रणवाद्यं च द्वयमक्षरमालपन् ।

कमला कमलेशाभ्यां लालितः कमलासनः ॥ (६५)

वेदादिः प्रणवश्चासीत् अकारस्तस्य कारणम् ।

तस्यार्थश्च परं ब्रह्म नारायण इति श्रुतिः ॥ (६६)

बहुशः प्रणवालाप-बन्धुराननमात्मजम् ।

दृष्ट्वा तुतोष भगवान् दयानिर्भरया दृशा ॥ (६७)

उपादिक्षत्ततश्श्रीमान् स्वयमष्टाक्षरं विधेः ।

तद्धि सर्वस्य वेदस्य कारणं भवतारणम् ॥ (६८)

चतुरोऽपि ततो वेदानध्यैष्ट चतुराननः ।

साक्षान्नारायणादेव सर्वरक्षापरायणात् ॥ (६९)

अर्थानपि च वेदानामनर्थविनिवारकान् ।

तस्मै प्रथमपुत्राय प्रोवाच परमः पुमान् ॥ (७०)

ज्येष्ठाय खलु पुत्राय वक्तव्यं मनसि स्थितम् ।

शिष्याय वा प्रणयिने तत्त्वविज्ञानचेतसे ॥ (७१)

शरीरं स्यन्दनं विद्धि विद्धि धुर्यांश्च पूरुषान् ।

मद्गुणांश्च गुणान्विद्धि मां च त्वं विद्धि सारथिम् ॥ (७२)

सर्वेष्वपि च धर्मेषु पारतन्त्र्यमिति स्मरन् ।

मामेव साधनं विद्धि विद्धि मामेव तत्फलम् ॥ (७३)

एवं प्रबोधितस्तेन ब्रह्मा सर्वज्ञतां ययौ ।

न खल्वस्मात् परं किञ्चित् ज्ञातव्यमवशिष्यते ॥ (७४)

ततः प्रसादसंफुल्ललोचनः पद्मलोचनः ।

अष्टाक्षरस्य मन्त्रस्य प्रभावमपि चाब्रवीत् ॥ (७५)

अष्टाक्षरमहिमानुवर्णनम्

ब्रह्मन् अष्टाक्षरो मन्त्रः श्रुतीनां दृष्टिरिष्यते ।

धर्मार्थकाममोक्षाणां चतुर्णामपि साधनम् ॥ (७६)

कृतं बहुविधैर्मन्त्रैः कृतं यन्त्रैः नियन्त्रितैः ।

कृतं च कर्मणां तन्त्रैः यस्त्वष्टाक्षरसन्निधिः ॥ (७७)

साधारणो ह्ययं मन्त्रः सर्वास्वपि च मूर्तिषु ।

अन्यानुकूलतां यान्ति मूर्तिमन्त्रास्सहस्रशः ॥ (७८)

व्यापकेषु च मन्त्रेषु त्रिष्वप्येष परो मतः ।

व्याप्यव्यापकयोरत्र विशेषेणाववोधनात् ॥ (७९)

ततो हि विष्णुगायत्र्यामाद्योऽयं मन्त्र उच्यते ।

मन्त्रोऽयं सद्गुरोरेव श्रोतव्यो नान्यतोऽपि च ॥ (८०)

न खल्वन्धस्य जात्यन्धः प्रदातुं यष्टिमर्हति ।

यथा मे श्रीनिवासत्वम् असाधारणमिष्यते ॥ (८१)

तथा नारायणपदं त्रय्यन्तेषु निगद्यते ।

नारायणपदं लोके नाम यस्य प्रकीर्त्यते ॥ (८२)

अपवर्गो हि तन्मातुः अयत्नादेव सिद्ध्यति ।

आसने शयने याने भोजनादौ च कर्मणि ॥ (८३)

मन्त्रमष्टाक्षरं ब्रह्मन् मध्ये चित्तं निवेशय ।

मन्त्रस्यास्य प्रभावेन विश्वं सृक्ष्यसि पद्मज ॥ (८४)

अधिकारावसाने च मामेव प्राप्स्यसि ध्रुवम् ।

अथ प्रणम्य स हि तं पद्मया पद्मलोचनम् ॥ (८५)

सन्तोषोत्फुल्लवदनः सर्वलोकपितामहः ।

मनसा वर्तयन्नेव मन्त्रमष्टाक्षरं परम् ॥ (८६)

ससर्ज सकलं विश्वं जङ्गमाजङ्गमात्मकम् ।

तस्य ज्येष्ठोऽभवत्पुत्रो विरूपाक्षो महामतिः ॥ (८७)

विष्णुभक्तिपराणां यः प्रथमः परिकीर्तितः ।

पुरन्दरमुखैस्सर्वैः सदा सेवाविधायिभिः ॥ (८८)

स हि देवैः स्तुतो नित्यं देव देव इतीर्यते ।

उपदिश्य ततस्तारमुत्तारकमनुत्तमम् ॥ (८९)

वेदानध्यापयामास शम्भुमम्भोजसम्भवः ।

वेदानधीत्य विधिवत् सोऽपि विष्णुपरायणः ॥ (९०)

अवाप्य सम्पदं दिव्यामखिलैरपि पूज्यते ।

अदिशत्सर्वभूतानामैहिकं वाप्यनैहिकम् ॥ (९१)

पुरुषार्थं ततस्सर्वमर्थितः पुरशासनः ।

सर्वे वेदास्समस्ताश्च ऋषयः पद्मसम्भवात् ॥ (९२)

बभूवुर्बहुधा तस्माद्यद्विस्तारोऽखिलं जगत् ।

सृष्टिं पितामहश्चक्रे चक्रे रक्षां हरिस्स्वयम् ॥ (९३)

संहारमपि सर्वेषां शङ्करश्च करिष्यति ।

प्रसादक्रोधजौ विष्णोः प्रथमौ तौ दिवौकसाम् ॥ (९४)

अभूतां तन्नियोगेन सृष्टिसंहारकारकौ ।

ततो दक्षादिभिः पुत्रैस्सेवितश्चतुराननः ॥ (९५)

विष्णोरभ्यर्चनं कर्तुं चिन्तयामास चेतसा ।

इयेष च ततः पश्चादर्चारूपमवेक्षितम् ॥ (९६)

यस्मिंश्च परया भक्त्या परिचर्यां विधास्यति ।

फलप्रदः स्वयं विष्णुः फलश्च स्वयमेव हि ।

लप्स्ये तस्मात्तमेवाहमिति मेने पितामहः ॥ (९७)

पुलकितनिखिलाङ्गः पूर्वदृष्टं पुमांसं

फणिपति-शयनन्तं पद्मनाभं पयोधौ ।

नियमितमतिरन्तर्निनिमेषं निदध्याद्-

उपनिषदवतंसं मन्त्रमुच्चारयन्सः ॥ (९८)

शमितनिखिलतापं शङ्खचक्रादिचिह्नं

शरणमुपगतानां शाश्वतं भागधेयम् ।

अपि च हसितलेशैरादरं व्याहरन्तं

पुरुषमभजदन्तः पुण्डरीकायताक्षम् ॥ । (९९)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरि–माहात्म्ये नारदागमनादिकथनं नाम द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः

ब्रह्मणः पुरो भगवदाविर्भावः

ततः कलकलैस्सार्धं काहलीनादमेदुरः ।

अश्रूयत नभो मध्ये दिव्यदुन्दुभिनिस्वनः ॥ (१)

ध्वनिश्च पाञ्चजन्यस्य निगमान्तैरनुद्रुतः ।

शुश्रुवे शुभकोटीनां कारणं वैरिदारणम् ॥ (२)

शरण्यस्सर्वलोकानां नारायण उपागतः ।

शङ्खचक्रगदापाणिः नारायण उपागतः ॥ (३)

इति काहलिनादेन कर्णध्वमृतसेचनं ।

कुर्वता सहसा योगाद्विरराम पितामहः ॥ (४)

अष्टाभिः दृष्टिभिः पश्चादष्टाक्षरमहातपाः ।

ददर्श मुख्यमालोकं दिशास्वष्टासु विस्तृतम् ॥ (५)

गच्छ गच्छेति रभसाद्वदन्तस्ते चकाशिरे ।

वेत्रदण्डधराः केचित्ततो वैकुण्ठवासिनः ॥ (६)

वीणादण्डधरैः विष्णोः गाथागानपरायणैः ।

नभोमण्डलमावव्रे नव्यैरपि च गायकैः ॥ (७)

ततः करतलोल्लासि हेमवेत्रविभूषितम् ।

ददर्श सम्भ्रमोपेतं देवं सूत्रवतीसखम् ॥ (८)

तस्य पार्श्वस्थिताश्चण्डप्रचण्डाद्याः प्रपेदिरे ।

पुण्डरीकासनस्याक्ष्णाम् अष्टानामष्टपात्रताम् ॥ (९)

गजामनादिकानन्यान् गजसिंहगतिक्रमान् ।

शेषासनस्य सचिवान् सविशेषं व्यलोकयत् ॥ (१०)

रुद्रासुकीर्त्योर्भूषाभिरङ्कितं भुजदण्डयोः ।

तमप्यण्डजषण्डेशं ददर्शाग्रे स चाण्डजः ॥ (११)

फणामणिसहस्रेण नीराजितरमापतिम् ।

भक्तिसम्भ्रान्तमूर्धानम् अपश्यद्भुजगोत्तमम् ॥ (१२)

रमाया विभ्रमांभोजं राकाचन्द्रस्य मातृकम् ।

अदृश्यत नभो मध्ये विष्णोरातवारणम् ॥ (१३)

विरजापवनोद्धूतपट्टिकामण्डितस्ततः ।

अलक्षि गरुडारूढो वैकुण्ठविजयध्वजः ॥ (१४)

अथ माला परिभ्रान्तैर्विपुलैः भृङ्गमण्डलैः ।

तटित्पटलसङ्कीर्ण-कालमेघैरिवावृतम् ॥ (१५)

दिवाकरसहस्राणां दैन्यदानविनोदिभिः ।

सुवर्णकलशैः दूरात् सूचितैश्चर्यवैभवम् ॥ (१६)

मुहुश्शिञ्जितनादेन मुक्तिमार्गप्रदर्शकान् ।

आम्नायानुद्गिरन्तीभिः किङ्किणीभिरलङ्कृतम् ॥ (१७)

आयुधैः पञ्चभिर्दिव्यैः बद्धाञ्जलिपुटैरपि ।

उदारध्वनिभिर्छ्रव्यैः उदीरितजयस्वनम् ॥ (१८)

इति विभ्राजितं व्योम्नि विस्फारितविलोचनः ।

विष्णोः विमानमद्राक्षीदुन्मुखः कमलासनः ॥ (१९)

सम्भ्रान्तास्सत्यलोकस्थास्सर्वेपि सनकादयः ।

गरुडध्वजिनं दृष्ट्वा विस्मयं परमं गताः ॥ (२०)

जगाम परमाश्चर्यमासनादुज्जगाम च ।

तुतोष च ततो ब्रह्मा बभ्राम च ननर्त च ॥ (२१)

भूषणं भुवनानां तद्विमानं वैष्णवं विधेः ।

अग्रतस्स्थापयामास ततस्सैन्यधुरन्धरः ॥ (२२)

उवाच च शुभं वाक्यम् उद्वमन्नमृताम्बुधिम् ।

सन्तोषोत्फुल्लवदनं सरसीसहसम्भवम् ॥ (२३)

पृतनानाथः –

तव भक्त्या प्रसन्नोऽयं कमलारमणः पुमान् ।

आजगाम पदाद्दिव्यादाश्चर्यकरुणानिधिः ॥ (२४)

तुलसीमालिकामोद-वासनावासितोरसम् ।

आराधय जगन्नाथमानन्दैकार्णवस्स्वयम् ॥ (२५)

अयं हि तव सर्वस्वं तारको भववारिधेः ।

अद्य यावत्कृतानां ते तपसां चरमं फलम् ॥ (२६)

नारदः –

प्रणम्य पृतनानाथं प्रथमस्त्रिदिवौकसाम् ।

अद्राक्षीदरविन्दाक्षमक्ष्णामनुपमं फलम् ॥ (२७)

अन्योन्यालापशलिभ्यां मणिभूषणशिञ्जितैः ।

लक्ष्मीकरसरोजाभ्यां लालिताङ्घ्रिसरोरुहम् ॥ (२८)

स्फुरत्किरीटमकुट-हार-केयूर-नूपुरैः ।

अन्यैरपि यथारूपमनुरूपैः विभूषणैः ॥ (२९)

आयुधैरपि चक्राद्यैरलङ्कारप्रयोजनैः ।

भूषितं भुवनोद्भासि वैजयन्त्या च मालया ॥ (३०)

श्रीवत्सेन च पद्माया मणिपीठेन मण्डितम् ।

पुण्डरीकदलाम्नाय-पण्डितेक्षणपद्धतिम् ॥ (३१)

राकाशशाङ्कसौभाग्यपरिभाविमुखाम्बुजम् ।

कम्बुग्रीवं सुविस्तीर्णकवाट-घटितोरसम् ॥ (३२)

चतुर्भुजमुदाराङ्गं पीतकौशेयवाससम् ।

सदा समस्त-जगतां शरण्यपदपङ्कजम् ॥ (३३)

अनुभूयैवमापादम् अतिसौन्दर्यविग्रहम् ।

तुष्टाव पुण्डरीकाक्षं पङ्केरुहसमुद्भवः ॥ (३४)

प्रणमन्तं स्तुवन्तं च नृत्यन्तं च पितामहम् ।

वल्गन्तं चापि तिष्ठन्तं वहन्तं शिरसा पदम् ॥ (३५)

धावन्तं दूरतो दूरादाधावन्तं पुनः पुनः ।

वल्कलं चोत्क्षिपन्तं तं गायन्तं गद्गदस्वनैः ॥ (३६)

इत्थमन्यैश्च सन्तोषसन्तान-कलिकायितैः ।

सुरभीकृतसर्वाङ्गं सम्भ्रमैः भगवान् हरिः ॥ (३७)

दृष्ट्वा तुतोष कारुण्यदीर्घिका-दीर्घलोचनः ।

अथाजग्गुस्तुरास्सर्वे सह गन्धर्वकिन्नरैः ॥ (३८)

ननृतुः प्रीतियोगेन विष्वगप्सरसां गणाः ।

तालैरुत्तालनादैश्च मर्दलैः दलितांभरैः ॥ (३९)

विकसद्रणितैश्चापि नर्तकीकरकङ्कणैः ।

गीतैरपि च सङ्गीतवेदिनां श्रुतिसङ्गतैः ॥ (४०)

हाहाकारैश्च गन्धर्व-सार्वभौम-मुखोद्गतैः ।

प्रतिशब्दैर्ध्वनीनां च विमानोदरसम्भवैः ॥ (४१)

जयोक्त्या च जगत्सर्वं शब्दात्मकमिवाभवत् ।

प्रशान्तसम्भ्रमो ब्रह्मा ततः परमपूरुषम् ॥ (४२)

तुष्टाव परया भल्या साकं जयजयोक्तिभिः ।

वाक्यैरपौरुषेयैश्च संप्रहृष्टतनूरुहः ॥ (४३)

ब्रह्मकृतभगवद्–स्तुतिः

नारायण नमस्तुभ्यं वासुदेव नमोऽस्तु ते ।

नमस्समस्तलोकानां विष्णवे प्रभविष्णवे ॥ (४४)

अच्युताय नमस्तुभ्यं अनन्ताय नमो नमः ।

गोप्त्रे समस्तलोकानां गोविन्दाय नमो नमः ॥ (४५)

पराय व्यूहरूपाय विभवाय च ते नमः ।

अन्तर्यन्त्रे समस्तानाम् अर्चारूपाय ते नमः ॥ (४६)

कारणाय नमस्तुभ्यं रक्षकाय च ते नमः ।

नमस्संहरते तुभ्यं नमो वैकुण्ठदायिने ॥ (४७)

नमस्ते श्रीनिवासाय शरणागतवत्सल ।

नमस्तुभ्यं नमस्तुभ्यं पुनस्तुभ्यं नमो नमः ॥ (४८)

धारकोऽसि समस्तानां जगताञ्च जगत्पते ।

अजायमानो बहुधा जायमानो विराजसे ॥ (४९)

न हि कर्मनिमित्तं तत्प्राकृतं वा न चेतरत् ।

देवोऽसि त्वं मनुष्योऽसि तिरश्चां बन्धुरप्यसि ॥ (५०)

तद्वत् त्रिमूर्तिष्वेकोऽसि त्वमेव त्वं वयं वयम् ।

ईक्षणध्मानसंस्पर्शैः प्रजानां पालनाय हि ॥ (५१)

मत्स्य-कूर्म-वराहादिरूपैः विहरते भवान् ।

कारुण्यरूपया लक्ष्म्या सहितस्त्वं युगे युगे ॥ (५२)

विश्वं पालयसे नान्यः कश्चित् पालयिता सताम् ।

दासोऽहं तव लक्ष्मीश मम वश्याश्च देवताः ॥ (५३)

तस्मात्सर्वस्य लोकस्य नाथोऽसि मधुसूदन ।

वैदिकेषु च सर्वेषु कर्मस्वाराध्यते भवान् ॥ (५४)

अपरे कञ्चुकप्रायाः पितृदेवादयस्तव ।

त्वत्पादे पर्यवस्यन्ति नमोवाकाश्च वैदिकाः ॥ (५५)

क्रियन्ते वारवाणाय न हि राज्ञां नमस्क्रियाः ।

न त्वदन्यं निषेवन्ते नाथ मोक्षाभिलाषिणः ॥ (५६)

व्यत्यस्तेष्वधिकारेषु ततः कर्मफलान्यपि ।

प्रतिभूरिव लक्ष्मीश स्वयमेव प्रयच्छसि ॥ (५७)

अतोऽहं शङ्करश्चापि ये चान्ये मद्वशङ्गताः ।

सर्वे देवास्त्वदायत्ता भवामो मधुसूदन ॥ (५८)

शरणं त्वां प्रपन्नोऽस्मि शरण्यं शरणार्थिनाम् ।

आत्मसात्कुरु सर्वञ्च मां मदीयं च माधव ॥ (५९)

त्वामर्चयितुमिच्छामि वाञ्छां मे पूरय स्वयम् ।

नारदः –

इति विज्ञापयामास विज्ञानजलधिर्विधिः ॥ (६०)

प्रसन्नवदनश्श्रीमान् प्रत्युवाच पितामहम् ।

भगवान् –

अभ्यर्च्य मामिह ब्रह्मन् युगानामयुतं भवान् ॥ (६१)

कारयिष्यति पुत्राद्यैर्वसुधायां ममार्चनम् ।

ततस्सनत्कुमाराद्यैस्सत्पुत्रैः परिवारितः ।

अर्चयामास गोविन्दमरविन्दायतेक्षणम् ॥ (६२)

इति सह सनकाद्यैरिन्दिरालोचनेन्दोः

परिचरणविधाने पण्डितः पद्मयोनिः ।

पदकमललतानां पारिजातस्य विष्णोः

अकृत-चरणसेवामर्चनानां सहस्त्रैः ॥ (६३)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये भगवदाविर्भावादिकथनं नाम तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः

भूलोकं प्रति भगवदागमनम्

मुनयः –

आविर्भावं मुनिश्श्रेष्ठ श्रुत्वा भगवतो वयम् ।

धन्या भवामस्त्वद्वाक्यात् श्रुतिसन्तोषकारणात् ॥ (१)

कथमेतन्महाभाग कथं प्राप्य वसुन्धराम् ।

जगदानन्दयामास भगवान् भक्तवत्सलः ॥ (२)

नारदः –

कदाचित् कलशाम्बोधेरागतो मुनिसत्तमः ।

सनत्कुमारो भगवान् सनकाद्यैस्समन्वितः ॥ (३)

नारायणपरो भक्त्या प्रणिपत्य कृताञ्जलिः ।

विनयावनतो भूत्वा ब्रह्माणमिदमब्रवीत् ॥ (४)

सनत्कुमारः –

अहं पुत्रश्च शिष्यश्च तवाऽस्मि कमलासन ।

कषायमृदितास्सर्वे हृदये मे दयालुना ॥ (५)

भवता भगवद्ज्ञानभक्तिवैराग्यदायिना ।

वेदानध्यापयत्पूर्वं भवान्वेदान्तसंयुतान् ॥ (६)

कर्मब्रह्मविचाराभ्यां संशयांश्च न्यवारयत् ।

रहस्यं च प्रकाशं च सर्वं सर्वविदां वरात् ॥ (७)

अवगच्छामि भवतो नाऽन्यो गुरुरिहास्ति मे ।

अद्य खल्वहमिच्छामि भगवन्तं सनातनम् ॥ (८)

देवं नारायणं भक्त्या भवतार्चितमर्चितुम् ।

अतो मे देहि दिव्यं तद्विमानमतुलं प्रभो ॥ (९)

यत्र नारायणश्श्रीमान् रमया सह वर्तते ।

नारदः –

इति तद्वचनं श्रुत्वा चिन्तापरवशः क्षणम् ॥ (१०)

स्थित्वा पितामहः पश्चाद्दातुं तस्मै मनो दधे ।

अब्रवीदथ सन्तोषादात्मपुत्रं पितामहः ॥ (११)

ब्रह्मा –

सनत्कुमार मे पुत्रा बहवस्सन्ति सात्विकाः ।

प्रियोऽसि भगवद्ज्ञानभक्तिभ्यां त्वं विशेषतः ॥ (१२)

पुत्रस्स एवं ज्ञातव्यो नान्ये पुत्रा मनीषिणाम् ।

यस्य नारायणश्श्रीमान् आजन्ममरणं धनम् ॥ (१३)

नारदः –

इत्युक्त्वा प्रियपुत्राय विष्णोरमिततेजसः ।

विप्रयोगासहत्वेन विधावन्तर्विषीदति ॥ (१४)

भगवान् पुण्डरीकाक्षो भक्तवात्सल्यवारिधिः ।

अमृतस्यन्दिभिर्वाक्यैराह पङ्कजसम्भवम् ॥ (१५)

भगवान् –

मा विषीद महाभाग शेखराय प्रयच्छ माम् ।

इदं मे रूपमन्यत्ते ददामि हृदयोद्भवम् ॥ (१६)

नारदः –

इत्युक्त्वा कमलाकण्ठभूषणाङ्कनशालिना ।

करेण कान्तं रूपं तद्ददौ पुत्राय वेधसे ॥ (१७)

ततः प्रीतमतिर्ब्रह्मा तरुणं रूपमद्भुतम् ।

सहितं पद्मया भूम्या समुत्थाय समाददे ॥ (१८)

भक्त्या परमया युक्तस्तद्रूपं पद्मसम्भवः ।

असेवत सरस्वत्या सावित्र्या च निषेवितः ॥ (१९)

सनत्कुमारमालोक्य प्राह पङ्कजसम्भवः ।

ब्रह्मा –

अस्ति सह्यगिरेः पूर्वः पुण्यः कश्चन भूधरः ॥ (२०)

शुद्धसत्त्वमयी तत्र दृश्यते शुभमृत्तिका ।

तत्रैतत् स्थापयित्वा त्वं विमानं वत्स वैष्णवम् ॥ (२१)

नारायणपदाम्भोजपरिचर्यापरो भव ।

विमानं ह्येतदतुलं वैकुण्ठात्स्वयमागतम् ॥ (२२)

विष्णुभक्ति-विनिर्मुक्तैः वेदनिन्दापरायणैः ।

नास्तिकैश्च दुराचारैः भगवद्भक्तदूषकैः ॥ (२३)

त्यक्तवर्णाश्रमाचारैः न स्पृष्टव्यं कदाचन ।

नारदः –

ततस्सनत्कुमारस्तु भगवन्तं सनातनम् ॥ (२४)

लब्ध्वा पितामहात्प्रीतो मेरुशृङ्गमुपागमत् ।

अथ तस्य विमानस्य प्रकारैरवकुण्ठिता ॥ (२५)

कनकाचलशृङ्गाणां द्युतिरासीत्समन्ततः ।

अवलोक्य विमानं तत्सुरलोकसुलोचनाः ॥ (२६)

चक्षुषामनिमेषाणां साफल्यं प्रतिपेदिरे ।

ततस्तद्दर्शनोदीर्णसन्तोषाश्रुतरङ्गिताः ॥ (२७)

अग्रे ववन्दिरे दूरादमराः स्तुतिशालिनः ।

तदा जग्मुस्सुरास्साकं प्रमोदं प्रमदाजनैः ॥ (२८)

परमब्रह्मभूतस्य पद्मनाभस्य दर्शनात् ।

अन्वगच्छन्विमानं तदधिरुह्य स्ववाहनम् ॥ (२९)

बृन्दारकवरास्सर्वे पुरन्दरपुरोगमाः ।

गन्धर्वाप्सरसस्सिद्धाः साद्ध्याश्च पुरतो ययुः ॥ (३०)

शरदम्बुदसन्तान-निकुरुम्ब-मनोहरैः ।

अग्रतो ददृशे शृङ्गैः पुरमर्दनभूधरः ॥ (३१)

विमानं वैष्णवं दृष्ट्वा विष्णुभक्तिपरायणः ।

ननर्त सहसा तोषात् शम्भुः कल्पान्तनर्तकः ॥ (३२)

तुष्टाव देवदेवेशम् अर्धचन्द्रशिखामणिः ।

रुद्रकृतभगवद्स्तुतिः

अहो नु खलु सौभाग्यम् अक्ष्णां यैरवलोक्यसे ॥ (३३)

अरविन्दाक्षलक्ष्म्या त्वम् आराधितपदाम्बुज ।

गण्यन्ते सिकतास्सिन्धौ गण्यन्ते वर्षबिन्दवः ॥ (३४)

न गण्यन्ते भवन्नाभि-सरो-नलिनसम्भवाः ।

आहुः षाड्गुण्यसर्वस्वमाहुर्विश्वस्य कारणम् ॥ (३५)

आहुर्मुक्तिप्रदातारं आहुस्त्वामस्त्रिलोचनम् ।

अन्तयन्तासि सर्वेषाम् अरविन्दविलोचन ॥ (३६)

आब्रह्मकीटपर्यन्तं क्रीडा पुत्रायते तव ।

नमस्ते जगदीशाय नारायण नमोऽस्तु ते ॥ (३७)

लक्ष्मीवक्षोरुहामोद-वासितांसाय ते नमः ।

नमः कमलनेत्राय नमः कारुण्यशालिने ॥ (३८)

शरणागतसर्वस्वचरणाय च ते नमः ।

नारदः –

इति स्तुत्वा जगन्नाथमिन्दिरारमणं भवः ॥ (३९)

अन्वगच्छदशेषाणां नाथं वृषभवाहनः ।

आजगाम भगवानलकामभितः पुरीम् ॥ (४०)

विश्रवस्तनयेनापि स्तुतस्स पुरुषोत्तमः ।

अथाससाद भगवानैहिकं परमं पदम् ॥ (४१)

मुनिभिश्च समाकीर्णं रम्यं बदरिकाश्रमम् ।

नरनारायणौ यत्र वर्तेते मुनिरूपतः ॥ (४२)

सनत्कुमारप्रमुखाः सनकाद्या मुनीश्वराः ।

तत्र संस्थापयामासुः विमानं विमलप्रभम् ॥ (४३)

उषितं खल्विहाशेषजगतां पतिना पुरा ।

सनकाद्यैरुपेतेन सादरं मुनिपुङ्गवैः ॥ (४४)

ततो नारायणः श्रीमानाराध्यत दिनत्रयम् ।

मुनिना मुनिशार्दूलैरनुयातमिह स्थितैः ॥ (४५)

अथ सर्वैस्सुरैस्सार्धम् अब्जयोनिसुतो मुनिः ।

ददर्श पर्वतं दिव्यं दक्षिणाशाविभूषणम् ॥ (४६)

अपश्यद्विधिना प्रोक्तं तुलसीपरिवारितम् ।

स मुनिः पर्वतस्सोऽयं सत्वोत्तर इतीरितः ॥ (४७)

इति निश्चित्य सहसा सन्तोषं परमं ययौ ।

विष्वक्सेनाभिवन्द्यन्तं तं शेषं साक्षात् श्रियःपतेः ॥ (४८)

ववन्दे भक्तिभारेण पङ्कजासननन्दनः ।

अथ तस्य मुनिश्श्रेष्ठो मध्ये शृङ्गं महीभृतः ॥ (४९)

दिव्यमालोकयामास तीर्थं तीर्थैर्निषेवितम् ।

सनत्कुमारो भगवान् सदसत्प्रविवेचकः ॥ (५०)

इदं खलु महत्स्थानम् इह सर्वेश्वरं हरिम् ।

आराधयिष्ये गोविन्दम् अशेषार्थप्रदायिनम् ॥ (५१)

इति मत्वा तटे तस्य सरसस्समुनीश्वरः ।

विमानं स्थापयामास विधिनाभ्यर्चितं पुरा ॥ (५२)

पञ्चलक्षप्रमाणं यद्योजनानां पुराभवत् ।

पितामहस्य भवने पूजितं सुरपुङ्गवैः ॥ (५३)

पारे कल्याणतीर्थस्य विमानं विपुलं हि तत् ।

पञ्चपूरुषमात्रेण रूपेण ददृशे जनैः ॥ (५४)

भगवानपि भक्तानां परतन्त्रस्स्वलीलया ।

तदन्तः प्रमितेनैव रूपेण ददृशे जनैः ॥ (५५)

आयुधान्यपि दिव्यानि भूषणान्यपि विस्तृतम् ।

रूपं विहाय तद्रूपस्वरूपं रूपमाप्नुवन् ॥ (५६)

आश्चर्यमिदमाश्चर्यमहो नारायणः पुमान् ।

अप्रमेयप्रमेयाभ्यां रूपाभ्यामवलोक्यते ॥ (५७)

इति वल्कलमुत्क्षिप्य मुनयो विस्मिताशयाः ।

ननृतुश्च ववल्गुश्च नन्दनश्च वितेनिरे ॥ (५८)

अहो नु खलु कल्याणं अहो कल्याणमद्य नः ।

अत्र नारायणश्श्रीमान् वैकुण्ठात्स्वयमागतः ॥ (५९)

इति सर्वेऽपि तत्रत्यास्सन्तोषेण बभाषिरे ।

तस्मात्कल्याणतीर्थं तदभवन्मुनिपुङ्गवाः ॥ (६०)

स्थापयित्वा विमानस्थं प्राङ्मुखं पुरुषोत्तमम् ।

पाञ्चरात्रविधानेन समभ्यर्च्य च भक्तितः ॥ (६१)

सर्वेषां सुरमुख्यानां वितेने मुनिसत्तमः ।

भगवच्चरणाम्भोजतीर्थतोयनिषेवणम् ॥ (६२)

ववन्दिरे ततस्सर्वे वासुदेवपदाम्बुजम् ।

साष्टाङ्गेन प्रणामेन सन्तस्सन्तोषसन्नताः ॥ (६३)

ततस्सुराश्च कोटीररत्नकोटिमरीचिभिः ।

भक्त्या नीराजयामासुः भगवत्पादपीठिकाम् ॥ (६४)

सनकादीन्प्रति भगवदुक्त–कल्याणतीर्थमहिमा

भगवानपि तान्सर्वान् भक्तिपूजान् विलोकयन् ।

अपाङ्गैरमृतासार-सम्पातसुमनोहरैः ॥ (६५)

उवाच मधुरं वाक्यं औदार्यकरुणानिधिः ।

भगवान् –

पुरा वराहरूपेण वसुधां विभ्रता मया ॥ (६६)

उषितं खलु तीर्थस्य कल्याणस्यास्य पूर्वतः ।

मग्नोत्थितस्य जलधौ ममाङ्गाद्गलितं जलम् ॥ (६७)

तेन पूर्णमिदं तीर्थं तस्मात्पुण्यं पुरातनम् ।

तस्मादेतस्य तीर्थस्य तीर्थं वहत मूर्धनि ॥ (६८)

तथोर्ध्वगतिकामानां मुनीनामूर्ध्वरेतसाम् ।

वाञ्छा वराहरूपस्य मम सेवाविधायिनाम् ॥ (६९)

ऊर्ध्वपुण्ड्र-विधानार्थं चोदितो गरुडो मया ।

शुद्धामुपाहरद्दिव्यां श्वेतद्वीपस्य मृत्तिकाम् ॥ (७०)

भागे कल्याणतीर्थस्य निचिक्षेप च पश्चिमे ।

तस्माच्छ्रेष्ठा समस्तानामेषा शुद्धा मृदामभूत् ॥ (७१)

स्नात्वा कल्याणतीर्थेऽस्मिन्धृत्वा शुद्धाञ्च मृत्तिकाम् ।

इमा मद्भक्तियोगेन मत्सायुज्यमवाप्स्यथ ॥ (७२)

अधिकारानुरूपेण भजन्ते ये च मामिह ।

तेऽपि कामानभीष्टान् स्वान् लप्स्यन्ते मत्प्रसादतः ॥ (७३)

यस्तु कल्याणतीर्थस्य तीरे पिण्डोदकक्रियाम् ।

पितृणां कुरुते तस्य पितरः प्रीतचेतसः ॥ (७४)

पुत्रान्पौत्रान्प्रदास्यन्ति पुण्येषु निरतान् सदा ।

अध्यात्मगुणसम्पन्नान् अपवर्गपरायणान् ॥ (७५)

अस्य तीर्थस्य तीरेऽस्मिन्ये यजन्ति द्विजोत्तमाः ।

फलं सहस्रगुणितं लभन्ते ते हि वाञ्छितम् ॥ (७६)

अपवर्गमवाप्स्यन्ति मत्प्रसादादतः परम् ।

ये तु निष्कामभावेन यजन्ते मामिह स्थितम् ॥ (७७)

अहं फलप्रदस्तेषाम् अहमेवोत्तमं फलम् ।

तीरे कल्याणतीर्थस्य दानं कुर्वन्ति ये नराः ॥ (७८)

लब्ध्वा वसुमतीं सर्वां चतुरर्णवमेखलाम् ।

पुत्रपौत्रपरीतास्ते मोदन्ते चक्रवर्तिनः ॥ (७९)

व्रतानि यानि पुण्यानि तान्यत्रैवाचरन्नरः ।

संप्राप्य ब्रह्मणो लोकं ब्रह्मणा सह मोदते ॥ (८०)

ऐश्वर्यं वापि पुत्रान्वा तथाऽरोग्यादिकं फलम् ।

सहसा यत्प्रसादेन सर्वमत्र भविष्यति ॥ (८१)

फाल्गुनी पौर्णमासी या तस्यामहमिहागतः ।

तस्मात्पौर्णमासीनां पौर्णमासी प्रशस्यते ॥ (८२)

अतस्सर्वेषु वर्षेषु तस्यां यूयमिहागताः ।

मम तीर्थेन पूताङ्गा गच्छथ त्रिदशाधिपाः ॥ (८३)

नारदः –

श्रुत्वा भगवतो वाक्यम् इति सर्वे सुराधिपाः ।

पुरमर्दनमुख्यास्ते स्वं स्वं स्थानम् प्रपेदिरे ॥ (८४)

मया च सनकाद्यैश्च युक्तस्स मुनिपुङ्गवः ।

सनत्कुमारस्तत्रैव भगवन्तमथार्चयत् ॥ (८५)

चिरमिति परदैवं चिन्तयन्निन्दिरायाः

स्तनतटमकरीभिः स्थापिताङ्कं भुजेषु ।

परिमितफलचिन्तावर्जितः पर्यचारीत्

परिणतपरभक्तिः पद्मयोनिः कुमारः ॥ (८६)

अधिपतिरमराणामञ्जनं वा रमायाः

त्रिभुवनसुकृतानां तादृशं वा विपाकम् ।

अकृतकवचनानामप्यदृश्यं पुमांसं

यदुगिरितटभाजां लोचनान्यन्वभूवन् ॥ (८७)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये भगवदागमनादिकथनं नाम चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः

सुचरितोपाख्यानम्

ततस्ते मुनयस्सर्वे स्थित्वा बदरिकाश्रमे ।

श्रुत्वा नारदवाक्यं तदब्रुवन्नारदं पुनः ॥ (१)

मुनयः –

धन्या वयं भगवतस्समागमनकीर्तनात् ।

प्राशस्त्यं मृत्तिकायाश्च प्रत्यपाद्यत भूयसा ॥ (२)

विशुद्धाया मुनिश्रेष्ठ मुक्तिहेतोः विशेषतः ।

नाम कल्याणतीर्थस्य प्रतिपन्नं भवद्गिरा ॥ (३)

वराहरूपिणो विष्णोः सन्निधिस्सम्यगीरिता ।

अवशिष्टं तथान्यन्नः स्वयं वक्तुमिहार्हसि ॥ (४)

गङ्गा हि सर्वतीर्थेषु प्रशस्ता भुवि कथ्यते ।

कथं कल्याणतीर्थस्य भवताधिक्यमुच्यते ॥ (५)

नारदः –

शृणुध्वं मुनिशार्दूला वृत्तं किञ्चित्पुरातनम् ।

आधिक्यं तस्य तीर्थस्य दृश्यते येन सर्वतः ॥ (६)

पुरा सुचरितो नाम ब्राह्मणोऽभून्महातपाः ।

सुशीला नाम तस्यासीत्पत्नी काचित्पतिव्रता ॥ (७)

सुमतिश्च सुवृत्तिश्च तस्य पुत्रौ बभूवतुः ।

स तु सर्वाणि तीर्थानि सकुटुम्बो जगाम च ॥ (८)

स्थानान्यपि च दिव्यानि पुण्यान्यायतनानि च ।

कावेरीं तुङ्गभद्राञ्च ताम्रपर्णीं सरस्वतीम् ॥ (९)

शोणां गोदावरीं कृष्णां नर्मदाञ्च पयस्विनीम् ।

कृतमालां प्रतीचीञ्च रामसेतुं तथैव च ॥ (१०)

पाण्डुरङ्गं कुरुक्षेत्रं पुण्यं च पुरुषोत्तमम् ।

अनन्तशयनं रम्यं श्रीकूर्मं सिंहभूधरम् ॥ (११)

इत्थं गोकर्णमुख्यानि स्थानान्यन्यानि पर्यटन् ।

न जगाम कदाचिच्च नारायणगिरेस्तटम् ॥ (१२)

न च कल्याणतीर्थस्य तीर्थे चक्रे निमज्जनम् ।

कदाचित्पर्यटन्नेव गङ्गातीरमुपागमत् ॥ (१३)

उपागतोऽपि नापश्यद्गङ्गां सुचरितोऽपि सन् ।

पप्रच्छ गङ्गा कुत्रेति तत्रत्यान् पुरतस्स्थितान् ॥ (१४)

अग्रतः प्रवहत्येषा हरचूडाविभूषणम् ।

इति तैरुच्यमानोऽपि नापश्यदमरापगाम् ॥ (१५)

अद्य मे खलु दौर्भाग्यमग्रतस्तिष्ठति ध्रुवम् ।

आगतोऽपि न पश्यामि हरिपादतरङ्गिणीम् ॥ (१६)

इति सञ्चिन्तयन्नन्तः सन्तापकलुषीकृतः ।

विषण्णवदनो भूत्वा तुष्टाव सुरनिम्नगाम् ॥ (१७)

गङ्गे विष्णुपदाम्भोज-सङ्गमङ्गलरूपिणि ।

प्रकाशय स्वरूपं ते मम सन्तापशान्तये ॥ (१८)

इत्युक्तवति विप्रेन्द्रे कन्या काचिददृश्यत ।

अन्यया कन्यया सार्धमसितोत्पलशोभया ॥ (१९)

विषण्णं ब्राह्मणं दृष्ट्वा किं ब्राह्मण विषीदसि ।

इति प्रोवाच सा कन्या मधुरं मधुराकृतिः ॥ (२०)

ब्राह्मणः –

अहमद्य विषीदामि सुरसिन्धोरदर्शनात् ।

कृतप्रयासवैफल्यात् किं दुःखं प्राणिनां शुभे ॥ (२१)

कन्या –

न हि पापकृतां पुंसां सा दृष्टिमधिगच्छति ।

ब्राह्मणः –

यद्यहं पापकर्माऽस्मि सैव मे क्षालयत्वघम् ॥ (२२)

हरिपादनदीं मुक्त्वा कुतस्स्यादघसङ्क्षयः ।

कन्या –

अहं भवामि वैकुण्ठपादाम्बुरुहवाहिनी ॥ (२३)

इयं मम वयस्या सा यमुनां यमिनां प्रिया ।

पुरा हि दुरितं किञ्चित्कृतं सुचरितं त्वया ॥ (२४)

तेषु तेषु च देशेषु पर्यटन् दक्षिणापथे ।

भवान् सर्वेषु तीर्थेषु स्नात्वा नारायणाचलम् ॥ (२५)

नागच्छन्नापि कल्याणतीर्थे चक्रे निमज्जनम् ।

पापमन्यत्किमधिकं पुण्यतीर्थव्यतिक्रमात् ॥ (२६)

तत्तीर्थं सर्वतीर्थेभ्यः प्रभावैरतिरिच्यते ।

अहं हरिपदाम्भोज-संश्लेषात्सर्वतोधिका ॥ (२७)

वराहरूपिणो विष्णोस्सर्वाङ्गीणं तु तज्जलम् ।

सन्निधत्ते च तत्तीरे सदा नारायणः स्वयम् ॥ (२८)

न मुञ्चन्ति च तन्नित्यं नारायणपरायणाः ।

यत्र स्नानं वितन्वन्ति नारायणपरायणाः ॥ (२९)

पुण्यनद्यस्समस्ताश्च सन्निधिं तत्र तन्वते ।

अहं वसामि चैत्रे हि मासे चान्द्रे सरोवरे ॥ (३०)

अनन्तसरसस्तीर्थे वैशाखे तु वसाम्यहम् ।

आषाढे तुङ्गभद्रायामापगानां शिरोमणौ ॥ (३१)

मासे प्रोष्ठपदे स्वामिपुष्करिण्यां तु मे स्थितिः ।

तुलायामागते सूर्ये कावेर्यां तु वसाम्यहम् ॥ (३२)

फाल्गुने मासि संप्राप्ते मासानामुत्तमोत्तमे ।

अहं कल्याणतीर्थस्य मध्ये वर्ते मनोरमे ॥ (३३)

तदा सर्वनदीनां च सन्निधिस्तत्र जायते ।

ये तदा तत्र मज्जन्ति हरिभक्त्या समन्विताः ॥ (३४)

फलन्ते सर्वतीर्थानां लभन्ते नात्र संशयः ।

अतस्त्वं गच्छ तत्रैव स्नात्वा पश्चान्ममाकृतिम् ॥ (३५)

वीक्षसे वाहिनीरूपां मधुजित्पदवाहिनीम् ।

नारदः –

इत्युक्तस्स तया तत्र कन्यया धन्यरूपया ॥ (३६)

उवाच विनयोपेतस्तां विष्णुपदवाहिनीम् ।

सुचरितः –

दूरदेशपरिभ्रान्त्या परिश्रान्तोऽस्मि भूयसा ॥ (३७)

अहं गन्तुं न शक्रोमि पुत्रौ मे बालकाविमौ ।

तस्मात्त्वमेव कल्याणतीर्थं गङ्गे भव स्वयम् ॥ (३८)

नारदः

इत्युक्त्वा सादरं भक्तिनम्रेण ब्राह्मणेन सा ।

यमुनावक्त्रमालोक्य किञ्चिदुत्स्मितकारिणी ॥ (३९)

रूपं प्रकाशयामास दयया दिव्यवाहिनी ।

तुतोष ब्राह्मणस्तेन तुष्टाव च पुनः पुनः ॥ (४०)

उवाच मधुरं वाक्यं गङ्गा सुचरितं ततः ।

गङ्गा –

कल्याणतीर्थनाम त्वं त्रिरावर्त्य ममान्तरे ॥ (४१)

सकुटुम्बो निमज्ज त्वं सर्वं प्राप्स्यसि वाञ्छितम् ।

नारदः –

ब्राह्मणोऽपि ततः प्रीतः तन्नामावर्तयन्मुहुः ॥ (४२)

ममज्ज जाह्नवीतोये मधुजित्पदसम्भवे ।

उन्ममज्ज ततः पश्चादुल्लसत्पद्ममण्डले ॥ (४३)

कल्याणतीर्थकल्लोलमध्ये सुचरितद्विजः ।

सकुटुम्बस्समुत्थाय तीर्थतोयात् सविस्मयम् ॥ (४४)

सर्वमालोकयामास यदुशैलस्य वैभवम् ।

तटे कल्याणतीर्थस्य तापसा ममुपस्थिताः ॥ (४५)

तीर्थोत्थितममुं दृष्ट्वा विस्मयं प्रतिपेदिरे ।

अन्वयुञ्जत को ब्रह्मन् भवान् कस्माच्च कारणात् ॥ (४६)

इहागमनमासीत्ते सर्वं कथय तत्वतः ।

इति तेषां वचः श्रुत्वा ब्राह्मणस्सर्वमेव तत् ॥ (४७)

वृत्तमावेदयामास तेषां कौतुकशालिनाम् ।

स च पप्रच्छ तान् सर्वान् किमेतत्स्थानमित्युत ॥ (४८)

ते पुनर्विस्मयाविष्टास्तस्य सर्वं बभाषिरे ।

कल्याणतीर्थं तच्छ्रैष्ठ्यं माहात्म्यं यदुभूभृतः ॥ (४९)

ततः स्नानं तदङ्गञ्च तथान्यानपि कृत्स्नशः ।

कालोचितानि कर्माणि कृत्वा ब्राह्मणपुङ्गवः ॥ (५०)

तत्रानन्दमयाख्यस्य विमानस्यान्तरे स्थितम् ।

भक्त्या नारायणं देवं सिषेवे भक्तवत्सलम् ॥ (५१)

अपरिग्रहशीलोऽयं यावल्लब्धोपजीवनः ।

चकार नियतं वासं नारायणगिरेस्तटे ॥ (५२)

विष्णोनिवेदितेनैव देहधारणमातनोत् ।

अनिवेदितमन्नाद्यं भुक्तवान्न कदाचन ॥ (५३)

तस्य पुत्रोऽभवत्तत्र तृतीयोऽपि महामतिः ।

स तस्य जातकर्माद्यं चक्रे वेदविधानतः ॥ (५४)

अकरोत्तस्य नामापि नारायण इति द्विजः ।

हरिभुक्तावशिष्टेन वर्धितस्स च बालकः ॥ (५५)

अवाप पित्रोरधिकां विष्णुभक्तिं दिने दिने ।

कदाचिदभवद् देशः सर्वो दुर्भिक्षपीडितः ॥ (५६)

अश्मवृष्टिनिपातेन नष्टौषधिफलोदयः ।

तदा कुटुम्बसंश्लेषात् सुशीला पतिमब्रवीत् ॥ (५७)

सुशीला –

भगवन् रक्षणीयास्ते बालाः पुत्रास्सती वधूः ।

अकार्यकरणेनापि नः त्वं रक्षितुमर्हसि ॥ (५८)

वदामि चापलादेतद्वनिताजनसंश्रयात् ।

सर्वधर्मविदे तुभ्यम् अथवा किं वदाम्यहम् ॥ (५९)

दारिद्र्यवारणो नाम वर्तते द्रमिडेश्वरः ।

स ते दास्यति सर्वस्वं वाञ्छितादधिकप्रदः ॥ (६०)

नारदः –

इति तस्या वचश्श्रुत्वा पुत्राभ्यां सहितो द्विजः ।

प्रतस्थे भवनात्स्वस्मात् प्राज्ञः प्राप्तुं नृपालयम् ॥ (६१)

व्याक्षिप्ते राजकार्येण स च राज्ञि स पुत्रकः ।

राजधानीनिवासेन यातनाशतमन्वभूत् ॥ (६२)

ततो लब्ध्वा धनं किञ्चिन्मार्गे चोरैर्निपीडितः ।

ताडितो लगुडैश्चापि चिरादेवागमद्द्विजः ॥ (६३)

त्यक्त्वा नारायणं देवं दूरं यातस्य मे फलम् ।

नालमेतदिति प्राह पुत्रयोस्स च भूसुरः ॥ (६४)

सुचरितपुत्रस्य रत्नभिक्षाप्रदानम्

गते पितरि तत्काले मातुरन्तिकसंश्रयः ।

नारायणः क्षुधायुक्तस्तामेवान्नमयाचत ॥ (६५)

अन्नं पात्रे निधायाऽथ ददौ पुत्राय सा वधूः ।

अब्रवीच्च तदा मात्रा दत्तेऽन्ने स तु बालकः ॥ (६६)

अनिवेदितमेतद्धि मातर्भोक्ष्ये कथन्त्विति ।

निवेदय त्वमेवैतदिति माता तमब्रवीत् ॥ (६७)

ततो निवेदयामास विष्णोः विश्वजगत्पतेः ।

भुङ्क्ष्व नारायणेत्युक्त्वा बालो नारायणाह्वयः ॥ (६८)

प्रणनाम च साष्टाङ्गं प्रसन्नहृदयः परम् ।

चतुर्मुखमुखैर्दत्तं नैवेद्यं च चतुर्विधम् ॥ (६९)

अनादरेण स्वीकुर्वन्नवलोकनमात्रतः ।

बालस्य भक्त्या भगवान् बुभुजे तच्छ्रिया सह ॥ (७०)

शिष्टमन्नं च तत्पात्रे नैव किञ्चिदभूत्तदा ।

सर्वं भगवता भुक्तम् इति प्रीतस्स बालकः ॥ (७१)

मातुरन्तिकमासाद्य ययाचेऽनं ततः परम् ।

पूर्व दत्तं क्व पुत्रेति मात्रा पृष्टश्च बालकः ॥ (७२)

सर्वं भगवता भुक्तम् इत्याह जननीं प्रति ।

भक्षितं तच्च मन्वाना मार्जाराद्यैः क्रुधा च सा ॥ (७३)

सन्तर्जयन्ती वचसा पुत्रं तं पुण्यचेष्टितम् ।

भिक्षित्वा पुत्र जीवेति भिक्षापात्रं ददौ ततः ॥ (७४)

स तु नारायणः प्रीतो मिक्षार्थं यान् गृहानगात् ।

तान् गृहान् अगमल्लक्ष्मीस्तदा वैकुण्ठवल्लभा ॥ (७५)

माता सर्वस्य लोकस्य मधुसूदनमानिनी ।

दर्वीमादाय बालस्य ददौ भिक्षां गृहे गृहे ॥ (७६)

यद्दत्तं रमया तद्धि सर्वं रत्नमभूत्ततः ।

अतिभारादशक्तस्सन् वोढुमेकेन पाणिना ॥ (७७)

उभाभ्यामपि पाणिभ्याम् उद्वहन् शिरसापि च ।

सुवर्णरत्नपूर्णं तत्पात्रं मात्रे न्यवेदयेत् ॥ (७८)

बालो नारायणश्श्रीमान् कौतूहलसमन्वितः ।

आदाय तच्च हस्ताभ्यां माता पुनरभाषत ॥ (७९)

गृहाण पात्रं भिक्षां त्वं पुनः पुत्रक कुर्विति ।

स तथैव पुनश्चक्रे पुनः प्रादात्तथा रमा ॥ (८०)

सप्तकृत्वश्च सा माता पुत्रं भिक्षामकारयत् ।

पद्मा तथैव पात्रं तत् सप्तकृत्वोऽप्यपूरयत् ॥ (८१)

अष्टमे त्वथ पर्याये माता पात्रं ददौ महत् ।

विहसन्ती विलोक्यैतत् भिक्षान्नमदिशद्रमा ॥ (८२)

ततो माता तदादाय दत्वा पुत्रस्य शेषतः ।

स्वयं च बुभुजे तुष्टा सुशीला वृत्तशालिनी ॥ (८३)

प्रातर्वृत्तमशेषं च पृच्छन्ती तनयं निशि ।

पालयन्ती धनं लब्धमाप्रभातमजागरीत् ॥ (८४)

ततस्तु ताडितश्चोरैः क्षीणशक्तिः कृशाकृतिः ।

क्षुत्क्षामोदरनेत्राभ्यां पुत्राभ्यामन्वितः पिता ॥ (८५)

अतिलङ्घ्य चिरान्मार्गमाजगामातिविह्वलः ।

ततस्सा लज्जिता पत्नी सर्वाङ्गीणव्रणान्वितम् ॥ (८६)

उपाचरच्च भर्तारमुदन्तं च न्यवेदयत् ।

ब्राह्मणस्स च बालस्य वृत्तमाकर्ण्य सर्वशः ॥ (८७)

विचिन्त्य पद्मां तां मेने यासीद्भिक्षाप्रदायिनी ।

अहो नु खलु मे मौढ्यमशेषार्थोपलम्भनम् ॥ (८८)

समस्तफलदायिन्या लक्ष्म्या सततसेवितम् ।

पत्रैः पुष्पैः फलैश्चापि पुंसां सर्वस्वदायिनम् ॥ (८९)

मुक्त्वा नारायणं देवमन्यः कस्मान्मयाश्रितः ।

कृष्णमेघे कृपापूर्णे तिष्ठत्येवान्यभिक्षवे ॥ (९०)

अपत्रपाविहीनाय मह्यमस्तु नमो नमः ।

इति सञ्चिन्त्य मनसा भेजे नारायणं सदा ॥ (९१)

ततो नारायणं बालं वेदानध्यापयद्द्विजः ।

शास्त्राण्यपि च सर्वाणि स्वयमावेदयन्मुदा ॥ (९२)

लक्ष्म्या दत्तं धनं लब्ध्वा तेन ब्राह्मणपुङ्गवः ।

सन्तुष्टः प्रियया सार्धं सदाचारान्वितः सदा ॥ (९३)

तटे कल्याणतीर्थस्य तपसा तोषिताच्युतः ।

सहस्रगुणितं नित्यं भोजयामास भासुरान् ॥ (९४)

ब्राह्मणं धनिनं श्रुत्वा तद्धनं हर्तुमिच्छया ।

लुण्टाकाः केचिदाजग्गुः छन्नवेषधरास्ततः ॥ (९५)

ममज्जुस्तत्र कल्याणतीर्थे ते च मनोरमे ।

अङ्गेष्वपि ललाटायेष्वाबभ्रश्शुद्धमृत्तिकाम् ॥ (९६)

आवर्तयन्तोऽनुपदं नाम नारायणस्य च ।

प्रणेमुर्विष्णुभक्तांश्च प्रसन्नहृदयान्मुहुः ॥ (९७)

दृष्ट्वा तान्प्रार्थयामास भोक्तुं सुचरितस्ततः ।

ततो बुभुजिरे तस्य गृहे विष्णुनिवेदितम् ॥ (९८)

नारायणपदाम्भोजतीर्थं चाप्यपिबन्मुदा ।

ततस्तेषां च सर्वेषां सत्चोत्तरमभून्मनः ॥ (९९)

दृष्ट्या सुचरितस्यास्य शुद्धान्नेन ततः परम् ।

कल्याणतीर्थतोयस्य पानेनापि मुहुर्मुहुः ॥ (१००)

अब्रुवन्ब्राह्मणं पश्चात्सर्वे ते सत्वशालिनः ।

वयं चोरा भवद्द्रव्यहरणाय समागताः ॥ (१०१)

अस्मानुपाचरस्त्वं च वेषमात्रेण भक्तितः ।

ब्राह्मणोऽपि च तान्प्राह नित्यं ब्रह्मणि निष्ठितः ॥ (१०२)

अहार्यं हि मम द्रव्यं नारायणपदद्वयम् ।

इति तद्वचनं श्रुत्वा सन्तोषाश्रुतरङ्गिताः ॥ (१०३)

पुलकाञ्चितगात्रास्ते सहसा तं ववन्दिरे ।

उपायं वद निश्चित्य सद्यः प्राप्तुं हरेः पदम् ॥ (१०४)

इति तैरञ्जलिं बध्वा प्रार्थ्यमानो मुहुर्मुहुः ।

स च तेषामुपादिक्षच्चरणौ शरणं हरेः ॥ (१०५)

सद्यो विमुक्तिकामानां संसारोद्वेगशालिनाम् ।

नान्यः कश्चिदुपायोऽस्ति भगवच्चरणादृते ॥ (१०६)

चरणौ शरणं प्राप्य ततो नारायणस्य ते ।

तदानीमेव सम्प्रापुः सर्वे विष्णोः परं पदम् ॥ (१०७)

ततस्सुचरितैः पुत्रैः पौत्रैः पत्न्या समन्वितः ।

तत्र नारायणं देवमाराध्य च यथेप्सितम् ॥ (१०८)

अन्ते तस्यैव चरणौ प्राप वैकुण्ठवासिनः ।

इदं सुचरिताख्यानं ये शृण्वन्ति पठन्ति च ॥ (१०९)

नारायणोपमं पुत्रं लभन्ते पुण्यशालिनम् ।

धनञ्च वर्धते तेषां ते भवन्त्यन्नदायिनः ।

भुञ्जते ये च तद्गेहे तेऽपि यास्यन्ति सद्गतिम् ॥ (११०)

सुचरित इति सेवां कल्पयन्यादवाद्रौ

सुखमलभत पुत्रैस्साकमव्याहतं तत् ।

उपरि च परमं तद्धाम गत्वा मुरारेः

उपधिविरहवर्यं किङ्करैश्वर्यमाप ॥ (१११)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरि–माहात्म्ये सुचरितोपाख्यानं नाम पञ्चमोऽध्यायः (Continued)