यादवाद्रिदर्शनम् Part 5

श्रीमते नारायणाय नमः

श्रीमते रामानुजाय नमः

श्रीपद्मपुराणान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम्

* * *

वसिष्ठः –

शृणु राजन्प्रवक्ष्यामि प्रभावं माघमासजम् ।

यमाकर्ण्य नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ (१)

पुरा राधन्तरे कल्पे वर्तमाने कृते युगे ।

कुत्सोऽभूत्समुनिः श्रीमान् ब्रह्मसूनुरकल्मषः ॥ (२)

स कर्दममुतां कन्याम् उपयेमे विधानतः ।

तस्याञ्च तस्य पुत्रोऽभूत् कौत्सो वंशविवर्धनः ॥ (३)

पश्चमेऽब्दे पिता तस्य कुत्सो ब्रह्मोपदिष्टवान् ।

कृतोपनयनः पित्रा ब्रह्मचर्यपरायणः ॥ (४)

वसन गुरुकुले नित्यं अग्निकार्यञ्च सन्ध्ययोः ।

कुर्वन् त्रिषवणस्नानं भिक्षाशी विजितेन्द्रियः ॥ (५)

कृष्णाजिनधरो नित्यं नित्यं स्वाध्यायतत्परः ।

केशान्तमञ्चन् विध्युक्तं पालाशं दण्डमव्रणम् ॥ (६)

कटीतटलसन्मौञ्जी कमण्डलुधरस्सदा ।

शुभ्रकौपीनवान् शुद्धः शुभ्रयज्ञोपवीतवान् ॥ (७)

समिद्भिस्तु लसन्मूर्धा सर्वेषां नयनप्रियः ।

नमस्करोत्यहरहो मातरं पितरं गुरुम् ॥ (८)

आचार्यमन्यान् वृद्धांश्च यतीन्द्रान्ब्रह्मवादिनः ।

ब्रह्मयज्ञरतो धीमान् नित्यानुष्ठानतत्परः ॥ (९)

पवित्रपाणिः कुरुते देवर्षिपितृतर्पणम् ।

पुष्पचन्दनगन्धादि कदाचिदपि न स्पृशेत् ॥ (१०)

मौनधृङ्मधुपिण्याक-लवणक्षारवर्जितः ।

पादुकोपानहारोह-दर्पणालोकवर्जितः ॥ (११)

दन्तधावनताम्बूल-शिरोवेष्टनवर्जितः ।

नीलं पीतं तथा रक्तं वस्त्रकाञ्चनभूषणम् ॥ (१२)

अन्यानि यान्यनर्हाणि ब्रह्मचर्याश्रमस्य च ।

सदाचाररतश्शान्तः तानि सर्वाणि न स्पृशेत् ॥ (१३)

तादृशाचारसम्पन्नो विशेषाब्रह्मचार्यसौ ।

मज्जनं कुरुते भक्त्या मकरस्थे दिवाकरे ॥ (१४)

माघे मासे विशेषेण देहशुद्धिं करोत्यलम् ।

चान्द्रायणादिभिः कृच्छ्रैः स कौत्सः प्रथमाश्रमे ॥ (१५)

चित्तशुद्धिं परां प्राप मकरादित्यमज्जनात् ।

अस्यां पश्चिमवाहिन्यां कावेर्यां दुर्लभं नृणाम् ॥ (१६)

समुद्रगानां सकलापगानां

प्रत्यक् प्रवाहञ्च उदक् प्रवाहम् ।

प्रयागतीर्थादधिकं वदन्ति

मयाद्य लब्धं कृतपूर्वपुण्यैः ॥ (१७)

मज्जनं मकरादित्येहालब्धं भाग्यवानहम् ।

कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोस्मीऽति हृष्टधीः ॥ (१८)

ततस्त्रिषवणस्नानं कुरुते सह्यजाजले ।

तेन माघत्रयं स्नानं कावेरी पश्चिमांभसि ॥ (१९)

तेन पुण्येन शुद्धात्मा निर्ममो निस्स्पृहो नृप ।

मातापितृभ्यां गुरुणा विसृष्टस्तपसे ययौ ॥ (२०)

एकयोजनमात्रेण कावेर्या उत्तरे तटे ।

नारायणगिरावेषनाम्नैवाघौघनाशने ॥ (२१)

तुङ्गैः शृङ्गैर्दिवस्पृष्टैः सानुभिश्च विराजितम् ।

द्रुमैः फलयुतैश्चापि शोभिते शुभदर्शनैः ॥ (२२)

मृगसर्पमहाव्याल-द्विजयक्षनिषेविते ।

बहुपुष्पलताभिश्च सम्यक्प्रच्छन्नभूतले ॥ (२३)

सुखवातानुचरिते शीतलोदकशोभिते ।

भ्रमरैः गीयमानैश्च पिबद्भिः पुष्पजं मधु ॥ (२४)

शैलकन्दरनिष्णातैः कोकिलैः मधुरस्वनैः ।

सुस्वरं गीयमानैश्च गन्धर्वैश्च निषेविते ॥ (२५)

नृत्यद्भिश्च महाबर्हैः मयूरैरुपशोमिते ॥

किन्नरेन्द्रैश्च गायद्भिः शोभिते धृतकुण्डलैः ॥ (२६)

अश्वत्थप्लक्षबिल्वैश्च शोभिते बहुशाखिभिः ।

तिलकैः पुष्पितैश्चापि कृतमालैश्च पुष्पितैः ॥ (२७)

अशोकैनक्तमालैश्च चन्दनैः स्यन्दनैस्तथा ।

खर्जूरैः पुष्पितैश्चापि भ्राजयद्भिर्महीधरम् ॥ (२८)

पुन्नागनारिकेलाम्र-पनसार्जुनपाटलैः ।

कपित्थतिन्त्रिणीनिम्ब-रंभासकलदाडिमैः ॥ (२९)

शोभमाने गिरौ तस्मिन्नानाश्चर्यसमाकुले ।

तस्मिन् सरोऽस्ति कलिकल्मषहारिवारि

कल्याणतीर्थमभिवाञ्छितसिद्धिदायि ।

कल्लोललोलकमलांतिकसन्निविष्ट-

हंसावलीभिरनिशं परिशोभमानम् ॥ (३०)

निमज्य तस्मिन्नपि माघमेकं

तत्पश्चिमे रोधसि सन्निविष्टः ।

चक्रे तपो निश्चलगात्रयष्टि-

निर्वातनिष्कम्प इव प्रदीपः ॥ (३१)

विस्मृत्य विषयान् जिंहान् स्थितः पाषाणकाष्ठवत् ॥ (३२)

अन्तर्यच्च बहिर्यच्च ऊर्ध्वं यच्चाप्यधश्च यत् ।

निष्ठामवाप्य तत्सर्वम् अहमेवेत्यचिन्तयत् ॥ (३३)

पिपासया समागत्य मृगास्तस्मिन् जलाशये ।

कण्डूयन्ते स्वशृङ्गेण काष्ठबुद्ध्या दिने दिने ॥ (३४)

ततो विष्णुरमोघात्मा जगन्मूर्तिर्जनार्दनः ।

हृदयस्थो यथा सेव्यः तथैवाग्रे स्थितोऽभवत् ॥ (३५)

मृगशृङ्ग महाप्राज्ञ ततः प्रीतोऽस्म्यहं हरिः ।

इत्युक्त्वा ब्रह्मरन्धे तं पस्पर्श पुरुषोत्तमः ॥ (३६)

अतः प्रबुद्धो विरतस्समाधितो

विलोकयामास पुरस्स्थितं हरिम् ।

सहस्रसूर्यप्रतिमेन राजता

महाभिषेकाभरणेन भास्वरम् ॥ (३७)

ससम्भ्रमस्ततो नत्त्वा स्तोतुं समुचक्रमे ।

मृगशृङ्गः –

नारायणाय नलिनायतलोचनाय

नाथाय पत्ररथनायकवाहनाय ।

नालीकपद्मरमणीयभुजान्तराय

नव्याम्बुदाभरुचिराय नमः परस्मै ॥ (३८)

ओं नमो वासुदेवाय लोकानुग्रहकारिणे ।

धर्मसंस्थापनार्थाय यथेच्छावपुषे नमः ॥ (३९)

सृष्टिस्थित्युपसंहारान्मनसा कुर्वते नमः ।

संहत्य सकलान्लोकान् शायिने वटपल्लवे ॥ (४०)

सदानन्दाय शान्ताय चित्स्वरूपाय विष्णवे ।

स्वेच्छाधीनचरित्राय निरीशायेश्वराय च ॥ (४२)

मुक्तिप्रदायिने सद्यो मुमुक्षूणां महात्मनाम् ।

वसते पक्वचित्तानां हृदये योगिनामपि ॥ (४३)

चराचरमिदं कृत्स्नं तेजसा व्याप्य तिष्ठते ।

विश्वाधिकाय महते महतोऽणोरणीयसे ॥ (४४)

स्तूयमानपदाब्जाय वाक्यैरुपनिषद्भवैः ।

अपारघोरसंसारसागरोतारहेतवे ॥ (४५)

नमस्ते लोकनाथाय लोकातीताय ते नमः ।

नमः परमकल्याणनिधये परमात्मने ॥ (४६)

अच्युतायाऽप्रमेयाय निर्गुणाय नमो नमः ।

नमस्सहस्रशिरसे नमस्सततभास्वते ॥ (४७)

नमः कमलनेत्राय नमोऽनन्ताय विष्णवे

नमस्त्रिमूर्तये धात्रे नमस्त्रियुगशक्तये ॥ (४८)

नमस्समस्तसुहृदे नमस्सततविष्णवे

शङ्खचक्रगदापद्मधारिणे लोकधारिणे ॥ (४९)

स्फुरत्किरीटकेयूरमकुटाङ्गदधारिणे ।

निर्द्वन्द्वाय निराशाय निर्विकाराय ते नमः ॥ (५०)

त्राहि मां पुण्डरीकाक्ष शरण्यशरणागतम् ।

त्वमेव सर्षभूतानां आश्रयः परमा गतिः ॥ (५१)

त्वयि स्थितं यथाचित्तं न मे चञ्चलतां व्रजेत् ।

तथा प्रसीद देवेश शरणं त्वां गतोऽस्म्यहं ॥ (५२)

नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमो नमः ।

वसिष्ठः –

इति स्तुत्वा हृषीकेशं नमस्कृत्वा पुनःपुनः ॥ (५३)

आनन्दबाष्पनयनः पुलकीकृतविग्रहः ।

शिरस्यञ्जलिमाधाय तूष्णीं तत्पुरतस्स्थितः ॥ (५४)

इति श्रीपद्मपुराणे माघमाहात्म्ये यादवाचलवैभवो नाम चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः

भगवान् –

मृगशृङ्गानया स्तुत्या पराग्रीतिरजायत ।

माघमासे परे ह्यस्मिन् तवैतन्मजनेन च ॥ (१)

तपसा च प्रहृष्टोऽस्मि श्रान्तोसि नितरां मुने ।

यज्ञैस्सदक्षिणैरन्यैः दानैश्च नियमैर्यमैः ॥ (२)

अहं तथा न तुष्यामि यथा माघनिमज्जनात् ।

इत्युक्त्वा तं पुनः प्राह मोक्षेच्छु मुदिताननम् ॥ (३)

वरं वरय पश्चात्तद्दास्यामि तव वाञ्छितम् ।

मृगशृङ्ग मम प्रीत्यै मदाज्ञां परिपालय ॥ (४)

ब्रह्मचर्येण ऋषयो यथा तुष्टास्तथाधुना ।

यज्ञेन देवास्सन्तोष्याः प्रजया पितरः पुनः ॥ (५)

अतो भवान् विवाहस्य प्रयत्नं कुरु सर्वदा ।

एतदिष्टतमं मह्यं एतदेव परं प्रियम् ॥ (६)

सर्वदा मम तुष्ट्यर्थं करणीयमिदं त्वया ।

भाविजन्मनि विप्रत्वं जीवन्मुक्तो भविष्यसि ॥ (७)

ब्रह्मसूनुर्महाज्ञानी ऋभुर्नाम जनिष्यसि ।

वेदान्तवाक्यजं ज्ञानं निदाघायोऽपदिश्य च ॥ (८)

पुनस्त्वं परमं धाम समेष्यसि न संशयः

वसिष्ठः –

इति विष्णोर्वचश्श्रुत्वा मृगशृङ्गो महामतिः ॥ (९)

पुनरन्यं वरं प्राह देवदेवं कृपानिधिम्।

मृगशृङ्गः –

देव देव जगन्नाथ सर्वदेव नमस्कृत ॥ (१०)

अत्र सन्निहितो नित्यं सर्वेषां सर्वकामदः ।

सर्वदा सर्वजन्तूनां सर्वसम्पत्प्रदो भव ॥ (११)

इममेकं वरं देहि यद्यनुग्रहभागहम् ।

प्रसिद्धं पुण्डरीकाक्ष प्रणतातिहराच्युत ॥ (१२)

वसिष्ठः –

इति ब्रुवाणमाहेदं कृपया गरुडध्वजः

भगवान् –

तथास्तु मृगशृङ्गात्र सर्वदा निवसाम्यहम् ॥ (१३)

येर्चयन्ति नरास्तेषां करस्था सर्वसम्पदः ।

विशेषेण सरस्यस्मिन् मकरस्थे दिवाकरे ॥ (१४)

निमज्ज्य निखिलैः पापैः विमुक्ता यान्ति मत्पदम्।

व्यतीपातेऽयने वापि सङ्क्रमे विषुवेऽपि वा ॥ (१५)

पूर्णिमायाममायाञ्च ग्रहणे चन्द्रसूर्ययोः ।

स्नात्वा दत्त्वा यथाशक्ति मम लोके महीयते ॥ (१६)

वसिष्ठः –

एवं ब्रुवति गोविन्दे प्रणम्य स पुनर्द्विजः।

अवदत्पुनरप्येवं भक्तवश्यं हरिं तदा ॥ (१७)

मृगशृङ्गः –

कुत्सस्य पुत्रः कौत्सोऽहं कथं मे मृगशृङ्गता ।

एतदाचक्ष्व देवेश त्वद्भक्तस्य कृपानिधे ॥ (१८)

भगवान् –

कल्याणसरसस्तीरे त्वय्यत्र तपसि स्थिते ।

मृगाः पिबन्तः पानीयं प्रतिवासरमत्र वै ॥ (१९)

अकण्डूयन्त शृङ्गेण शरीरं तव निर्भयाः ।

तथा त्वां मृगशृङ्गाख्यं वदन्ति परमर्षयः ॥ (२०)

अद्य प्रभृति लोकोऽयं मृगशृङ्गेति वक्ष्यति

वसिष्ठः –

इति व्याहृत्य सर्वेशः सर्वेषां सर्वदो नृणाम् ॥ (२१)

नारायणगिरौ तस्मिन् हरिरद्यापि दृश्यते।

अथ स मृगविषाणस्तत्र सम्पूज्य देवं

निरगमदथ तस्मात्तन्निदेशेन शैलात् ।

जगदुपकृतिहेतौ गार्हपत्ये धृतात्मा

कमलनयनमाद्यं भावयन्नन्तरङ्गे ॥ (२२)

मौञ्जीकृष्णमृगचर्मदण्डधृक्

पाणिपल्लवलसत्कमण्डलुः ।

जन्मभूमिमगमज्जितेन्द्रियो

भोजराजपुटभेदनं निजम् ॥ (२३)

मृगशृङ्ग मुनिर्यावदायाति निजमन्दिरम् ॥ (२४)

तत्पर्वमेव तन्नाम प्रथितं भुवि केवलम् ।

प्रणामं विदधे सम्यग्जनन्यै भुवि दण्डवत् ॥ (२५)

पित्रे च विधिवन्नत्वा स्वमुदन्तं न्यवेदयत् ।

गाढमालिङ्गितो मूर्ध्नि समाघ्रातो मुहुर्मुहुः ॥ (२६)

आनन्दाश्रुपरीताभ्यां पितृभ्यामभिनन्दितः ।

गुरुं तमभिवाद्याथ पुनस्स्वाध्यायतत्परः ॥ (२७)

पितुर्मातुर्गुरोर्नित्यं शुश्रूषणपरायणः ।

अधीताखिलवेदोऽयं गुरुणानुमतः तदा ॥ (२८)

व्रतस्नानं तथोत्सर्गं समाप्य विधिपूर्वकम् ।

अवोचत् पितरं कुत्सं मृगशृङ्गो महामनाः ॥ (२९)

मृगशृङ्गः –

सुतस्य सम्भवे क्लेशं सहेते पितरौ भृशम् ।

शक्ता वर्षशतेनापि मोकर्तुं तस्य निष्कृतिम् ॥ (३०)

अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा ।

त्रिषु तेषु सुतुष्टेषु ततस्सर्वमवाप्यते ॥ (३१)

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।

तान्व्यतिक्रम्य यत्कुर्यात्तन्न सिद्ध्येत्कदाचन ॥ (३२)

त्रीनेतान् सुसमाराध्य त्रीन् लोकान् विजयेत्सुधीः ।

एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम् ॥ (३३)

यदेतेषां हि सन्तोषः उपधर्मोऽन्य उच्यते ।

अधीत्य वेदान् वेदौ वा वेदं वा क्रमतः पितुः ॥ (३४)

अतोस्खलब्रह्मचर्यो गृहस्थाश्रममाविशेत् ।

गृहाश्रमात्परो नास्ति यदि पत्नी वशंवदा ॥ (३५)

आनुकूल्यं हि दम्पत्योः त्रिवर्गोदयहेतवे ।

अनुकूलं कलत्रञ्चेत् त्रिदिवेन समं भवेत् ॥ (३६)

प्रतिकूलं कलत्रं चेत् नरकेण हि किं ततः ।

गृहाश्रमस्सुखार्थाय भार्यामूलं हि तत्सुखम् ॥ (३७)

स्वभार्यायां विनीतायां त्रिवर्गोऽपि भवेद्ध्रुवम् ।

जलूकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः ॥ (३८)

मृगीदृशां जलूकानां विचारे महदन्तरम् ।

जलूकाः केवलं रक्तं गृह्णन्ति पुनरङ्गनाः ॥ (३९)

गृह्णन्ति सर्वमप्युग्राश्चित्तं वित्तं बलं सुखम् ।

दक्षा प्रजावती साध्वी पटुवाक्या प्रियंवदा॥ (४०)

गुणैरमीभिस्संयुक्ता सा स्त्री श्रीरूपधारिणी ।

उपयेमे ततो भार्यां सवर्णां साधुलक्षणाम् ॥ (४१)

जनकस्यासगोत्रा या मातुरप्यसपिण्डिका ।

दारकर्मणि योग्या सा द्विजानां धर्मवृत्तये ॥ (४२)

स्त्रीसम्बन्धेप्यपस्मारक्षयश्वित्रिकुलं त्यजेत् ।

अभिशस्तसमायुक्तां तथा कन्यां प्रसूं त्यजेत् ॥ (४३)

रोगहीनां भ्रातृमतीं सुमुखीं चलधीयसीम् ।

उद्वहेत हिजो भार्यां सोमास्यां मृदुभाषिणीम् ॥ (४४)

न पर्वतर्क्षवृक्षाभ्यां न नदीसर्पनामिकाम् ।

न परप्रेष्यनाम्नीञ्च प्रेतभूताह्वयाञ्च न ॥ (४५)

न चातिरिक्तहीनाङ्गीं नातिदीर्घां न वा कृशाम् ।

नालोमिकां नातिरोम्णीं न स्निग्धीं स्थूलमूर्धजाम् ॥ (४६)

मोहात्समुपयमेत्कुलहीनां च कन्यकाम् ।

हीनोपयमनाद्यातिसन्तानस्य विहीनताम् ॥ (४७)

लक्षणानि परीक्ष्यैव ततः कन्यां समुद्वहेत् ।

सुलक्षणां सदाचारां पत्युरायुर्विवृद्धये ॥ (४८)

इति प्राह मनुःपूर्वं अगस्त्योपि तथाब्रवीत् ।

अन्ये च मुनयस्सर्वेप्येवमाहुर्विपश्चितः ॥ (४९)

ईदृशी कुत्र भार्या सा लभ्यते जनकाधुना ।

वसिष्ठः –

मृगशृङ्गस्य तद्वाक्यं मधुरं वेदसम्मितम् ॥ (५०)

श्रुत्वा कुत्सः प्रहृष्टात्मा पुनः पुत्रमभाषत ।

कुत्सः –

मा विचारं कुरुष्वात्र मृगशृङ्ग महामते ॥ (५१)

ईदृशाचारयुक्तस्य तवाप्राप्यं न विद्यते ।

अनाचारवतां नृणाम् आलस्योपहतात्मनाम् ॥ (५२)

अमाघस्नायिनां नृणां तादृशा दुर्लभास्स्त्रियः ।

अकृतातिथिपूजानाम् अनैकादश्युपोषिणाम् ॥ (५३)

अमहीदेवभक्तानां तादृशा दुर्लभास्स्त्रियः ।

अमातृपितृभक्तानाम् अगुरुप्रीतिकारिणाम् ॥ (५४)

अगोशुश्रूषकाणां च तादृशा दुर्लभास्स्त्रियः।

अदैवपितृकार्याणाम् अदत्त्वा भुञ्जतामपि ॥ (५५)

अदानधर्मशीलानाम् अहुत्वा चान्नमश्नताम् ।

अगोपीचन्दनाङ्कानां अमौलितुलसीभृताम् ॥ (५६)

गङ्गादिस्नानहीनानाम् अमाघव्रतचारिणाम् ।

अमाघमहिमज्ञानां तादृशाः दुर्लभास्स्त्रियः ॥ (५७)

अकावेरीजलस्नानपूतानां ज्ञानमानिनाम् ।

वृथाहङ्कारिणां नृणां दुर्लभास्तादृशास्त्रियः ॥ (५८)

ददाति विद्याममलां च कीर्तिं-

आरोग्यमायुर्धनमक्षयं च ।

समस्तपापक्षयमिन्द्रलोकं

किं किं न दद्यात्सुत माघमासः ॥ (५९)

सौभाग्यमाचारमपत्यभोगं

सत्संगतिं सत्यमुदारभावम् ।

ख्यातिञ्च शौर्यञ्च बलं ददाति

किं किं न दद्यात्सुत माघमासः ॥ (६०)

पुष्टिं पशूनुत्तमवाग्विभूतिं

ददाति विष्णावचलां च भक्तिम् ।

कलत्रभाग्यं कमनीयरूपं

किं किं न दद्यात्सुत माघमासः ॥ (६१)

माघस्नानेन सुप्रीतो माधवस्ते मनोरथम् ।

पूरयिष्यति पुण्यात्मन् पुण्डरीकायतेक्षणः ॥ (६२)

वसिष्ठः –

इति पितृवचनं निशम्य सत्यं

मुदितमना मृगशृङ्गनामधेयः ।

पुनरपि पितरं प्रणम्य मूर्ध्ना

हृदि हरिमेव दिवानिषं सन्दध्यौ ॥ (६३)

इति श्रीपद्मपुराणे माघमाहात्म्ये यादवाचलप्रसङ्गो नाम पञ्चमोऽध्यायः


इत्थं श्रीपद्मपुराणान्तर्गतः श्रीमद्यादवगिरिमाहात्म्य–परपुराणभागः समाप्तिमगमत्