श्रीरस्तु
श्रीमते नारायणाय नमः
श्रीमते रामानुजाय नमः
श्रीकाशीमाहात्म्यान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम्
* * *
अथ प्रथमोऽध्यायः
पार्वती –
न काशीसदृशं क्षेत्रं वैष्णवं जन्मपावनम् ।
इति श्रुतं मया कान्त तन्मे विस्तरतो वद ॥ (१)
न तेऽस्ति सदृशः कश्चित् विष्णुशास्त्रप्रवर्तकः ।
तद्दासस्तत्परो नित्यं तदीयाराधने रतः ॥ (२)
न तेऽस्त्यविदितं किञ्चित् त्रिषु लोकेषु सर्वतः ।
अतो निस्संशयं ब्रूहि काशी येनाऽधिका पुरी ॥ (३)
श्रीसूतः –
इति पृष्टस्तया देवश्शङ्करो लोकशङ्करः ।
प्रत्याह मुदितः प्रीत्या प्रीणयन्निव पार्वती ॥ (४)
शङ्करः –
विष्णुक्षेत्राणि सर्वाणि रङ्गक्षेत्रमुखानि च ।
स्वांशेन वसतिं तत्र तन्वते वरवर्णिनि ॥ (५)
तेन क्षेत्रमिति ख्यातं काशीक्षेत्रं रसातले ।
पार्वती –
काशीशस्तानि पुण्यानि विष्णोरायतनानि च ॥ (६)
तन्मे ब्रूहि महाबाहो वत्सलोसि कृपानिधे ।
श्रीसूतः –
इत्युक्तः प्रियया प्रीत्या तद्वक्तुमुपचक्रमे ॥ (७)
शङ्करः –
श्रीरङ्गमतुलं क्षेत्रं विष्णोरायतनं महत् ।
यत्रास्ते रङ्गराण्णित्यं रघुवंशविवर्धनः ॥ (८)
श्रीमुष्णश्रीवराहस्य क्षेत्रं प्रेमास्पदं शिवम् ।
यत्रत्यस्तु नरो याति तद्विष्णोः परमं पदम् ॥ (९)
श्रीश्रीनिवासवसतिः वेङ्कटाद्रिर्महीधरः ।
दर्शनाच्चिन्तनाद्यस्य मुच्यते सर्वपातकात् ॥ (१०)
पुलस्त्यशापनिर्विण्णा नदीरूपा सरस्वती ।
यत्रास्ते सरसी भूत्वा स्वामितीर्थाभिधानतः ॥ (११)
स्वामीकुमारस्सुतपस्तप्त्वा यस्यास्तटे पुरा ।
कुष्ठरोगाद्विनिर्मुक्तः सांबजन्मनि भामिनि ॥ (१२)
सालग्रामादिकं चान्यत् क्षेत्रं च वृषभाचलम् ।
गङ्गाचलं महाक्षेत्रं यत्रास्ते वरदस्वराट् ॥ (१३)
घटिकाचलमन्यच्च वैष्णवं सुरसेवितम् ।
तोताद्रिमङ्गलगिरिः नृहरिर्नमुचिं खलम् ॥ (१४)
हत्वा बहुयुगं युद्ध्वा तृणार्दित इव स्वयम् ।
शेते गुहान्तरे नित्यं कृतादिषु युगेषु वै ॥ (१५)
सुधां क्षौद्रं तथा दुग्धं गुडोदं च पिबन् हरिः ।
स शेषं भक्तवर्गेभ्यो दास्यन्नर्धप्रमाणतः ॥ (१६)
विभाति शोभनगिरौ नृहरिर्हतशात्रवः ।
तदेतत् परमं क्षेत्रं नास्ति तत्सदृशं क्वचित् ॥ (१७)
सिंहाचलं च यत्रास्ते वराहनृहरिर्हरिः ।
त्रिनेत्रोष्टभुजो धन्वी यत्रास्ते पञ्चधा सरित् ॥ (१८)
गङ्गा महानदी पुण्या गण्डकी सरयूश्च सा ।
दामोदरा हिरण्याख्या स्वर्णरेखा च सुन्दरी ॥ (१९)
यादवाचलसंस्थानि तीर्थान्यायतनानि च ।
वसन्ति स्वांशरूपेण तेन वाराणसी परा ॥ (२०)
बदरी च कुरुक्षेत्रं विशालं यामुनं तथा ।
श्रीकूर्मं वंशधारा च लाङ्गलाख्या महानदी ॥ (२१)
ताम्रपर्णी च कावेरी पुण्यतोया पयस्विनी ।
फल्गुनी च गया पुण्या त्रिवेणी पापहारिणी ॥ (२२)
प्रयागं च महत् क्षेत्रं समुद्रस्सरितां पतिः ।
निवसन्ति यतोंशेन तेन वाराणसी परा ॥ (२३)
श्रीसूतः –
इत्यादिक्षेत्रमहिमाकर्णनाद्धष्टमानसा ।
पप्रच्छ विस्मयोत्फुल्लनयना सा शुभानना ॥ (२४)
पार्वती –
स्वामिन्किञ्चिदिहाख्यातं यादवाचलसञ्ज्ञितम् ।
न वर्णितस्तन्महिमा तं पुनर्वक्तुमर्हसि ॥ (२५)
शङ्करः –
साधु साधु महाभागे विष्णुभक्तगणाधिके ।
यादवाचलमाहात्म्यं श्रोतुमिच्छा तवाधुना ॥ (२६)
जाता लोकोद्धृतकरी तेन पूज्या जगत्त्रये ।
ममापि हर्षस्सुमहाञ्जायते लोकनायके ॥ (२७)
ज्ञातो वक्ष्यामि सुभगे यादवाचलवैभवं ।
यत्रास्ते नृहरिस्साक्षात्प्रणतार्तिनिवारणः ॥ (२८)
नारायणः परो देवो यत्रास्ते भयनाशनः ।
को नु तन्महिमानन्तु वक्तुं शक्तो जगत्त्रये ॥ (२९)
अथाऽपि वक्ष्ये विधिना यथादिष्टोऽस्मि शाम्भवि ।
यदा विधिस्समभवद्विष्णोर्नाभिसरोरुहात् ॥ (३०)
तदासौ तप आतिष्ठद्घोरं श्रीविष्णुतुष्टये ।
महायुगेष्वतीतेषु तप्यमाने चतुर्मुखे ॥ (३१)
श्रीशः कृपानिधिः देवः कल्याणगुणवारिधिः ।
तप्यमानाय सलिले स्वसुतायाविरास वै ॥ (३२)
शङ्ख-चक्र-गदा-पद्मैः अभिव्यक्तभुजोऽच्युतः।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ (३३)
ब्रह्मेशनप्रमुखैः मुक्तैः पार्षदैः सनकादिभिः ।
स्तूयमानः स्तुतिगणैः स्वगुणप्रतिपादकैः ॥ (३४)
पाश्चरात्रमुखैः योगैः साङ्ख्यैः सूत्रगणैरपि ।
भारतीक्तैः महावाक्यैः श्रीमद्रामकथोचितैः ॥ (३५)
अष्टादशापुराणैश्च मन्वादिस्मृतिभिस्तथा ।
एवं विधं हरिं दृष्ट्वा भक्त्या तुष्टश्चतुर्मुखः ॥ (३६)
तुष्टाव विविधैः वाक्यैः वैदिकैः तान्त्रिकैरपि ।
तेन तुष्टो हरिस्साक्षात् भगवान् लोकभावनः ॥ (३७)
प्रजास्सृजेति बहुधा तमुक्त्वान्तर्दधे हरिः ।
ततस्स्रष्टा स्वमनसा समर्ज तनयान्मुदा ॥ (३८)
तेह्यूर्धरेतसा भूत्वा सनकाद्याः शिशूपयाः ।
ययुर्हरिं चिन्तयन्तो मत्वा विश्वं हि नश्वरम् ॥ (३९)
ततः क्रोधसमाविष्टो ब्रह्मा कलुषमानसः ।
दुष्प्रेक्ष्य भ्रुकुटीनेत्रललाटः समपद्यत ॥ (४०)
ततः क्रोधमयो रुद्रो ललाटादुदपद्यत ।
तं तु क्रोधमयं दृष्ट्वा विधिः परमविस्मितः ॥ (४१)
अन्यान् ससर्ज स मुनीन्दक्षादीन् सृष्टिकौशलान् ।
आदिष्टा विधिना ते तु प्रजास्सर्वैरभावयन् ॥ (४२)
इति श्रीकाशीमाहात्म्ये पूर्वखण्डे ब्रह्मक्षेत्रवैभवप्रशंसायां गौरीशङ्करसंवादे
यादवाचलप्रसङ्गो नाम प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः
शङ्करः –
नानाविधासु सृष्टासु प्रजासु किल भामिनि ।
सात्विका केचिदभवन् राजसास्तु तथाऽपरे ॥ (१)
तामसास्तु दुराचारास्सदा विष्णुपराङ्मुखाः ।
तेषां तु प्रकृतिं वक्ष्ये प्रसङ्गाच्छृणु पार्वति ॥ (२)
ये सात्त्विकास्सदा शुद्धास्सदा विष्णुपरायणाः ।
सदा विष्णुकथासक्ताः विष्णुक्षेत्रनिवासिनः ॥ (३)
विष्ण्वर्पितान्नभोक्तारः सदा रामार्चने रताः ।
विष्णुवैष्णवपूजासु सदा सङ्गतमानसाः ॥ (४)
पञ्चरात्रोक्तमार्गेण पूजयन्तः परं हरिम् ।
ब्रह्मरुद्रादिदेवांश्च परिचारितया हरेः ॥ (५)
चिन्तयन्तो ब्रह्मसूत्रवेदवेदान्तचोदितैः ।
असंख्यातैश्शुभगुणैः ध्यायन्तस्तं सनातनम् ॥ (६)
निर्दोषं नित्यमव्यक्तं भक्तानुग्रहविग्रहम् ।
सुमुखं सुस्मितं शान्तं पृथुलम्बिमहाभुजम् ॥ (७)
विस्तारवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।
वनमालाधरं देवं वैजयन्त्या च मालया ॥ (८)
श्रीभूम्या शङ्खचक्राद्यैः अङ्कितं नीरदप्रभम् ।
चिन्तयन्तः परात्मानं परस्ताच्च परं हरिम् ॥ (९)
ध्यायन्तस्सततं चित्ते मोक्षमार्गैकतत्पराः ।
अङ्किता शङ्खचक्राद्यैः नित्यनैमित्तिके रताः ॥ (१०)
तापादिसंस्कारयुताः गुरोः पादैकसेवकाः ।
सात्त्विका इति विज्ञेया मोक्षमार्गैककामिनः ॥ (११)
पानभोगैकनिरताः शिश्नोदरपरायणाः ।
विष्णुं विधिं शिवं शक्रमन्यांश्च विबुधादिकान् ॥ (१२)
समत्वेन विजानन्तः सुखदुःखसहिष्णवः ।
कर्म कुर्वन्त्यकुशलाः विधिहीनान्नदक्षिणम् ॥ (१३)
निरयस्वर्गमर्त्येषु गतिमन्तः पुनः पुनः ।
क्वचिद्विष्णुं शिवं रुद्रं क्वचिदन्याश्च देवताः ॥ (१४)
पूजयन्तः फलाकांक्षाः विपरीतेऽसहिष्णवः ।
राजसास्ते तु विज्ञेयाः तामसास्तु तथा परे ॥ (१५)
एवं हि त्रिविधो लोकः तत्र यस्सात्विको नरः ।
सर्वक्षेत्रेषु निवसन् सदा सद्गुणसागरम् ॥ (१६)
निदोषं वेदसं वेद्यं भजन्नित्यमतन्द्रितः ।
प्रयाति परमां सिद्धिं तद्विष्णोः परमं पदम् ॥ (१७)
अतो वराङ्गि शृणु मे वाचं शुद्धेन चेतसा ।
श्रीरङ्गे वेङ्कटाद्रौ च श्रीमुष्णे यादवाचले ॥ (१८)
निवसन्ति नरा ये वै ते नरा मुक्तिभागिनः ।
तत्रापि यादवगिरौ देवसङ्घसमाकुले ॥ (१९)
नारायणं नरसखं ये पश्यन्त्यलसा अपि ।
तेषां मुक्तिः करस्था हि नात्र कार्या विचारणा ॥ (२०)
शृणुष्वावहिता देवि महिमानं धरेशितुः ।
श्वेतद्वीपपुरोभागे विशाले विमले गिरौ ॥ (२१)
निवासितेन रङ्गौघैस्ताडिते क्षीरवारिधेः ।
सन्तानपारिजाताद्यैः चम्पकैर्वकुलैश्शुभैः ॥ (२२)
शिरीषैः पटलैः लोर्ध्रैः कुटजैः कुन्दबृन्दकैः ।
सुन्दरैः रमणीवर्गैः मन्दिरैरिन्दिरालयैः ॥ (२३)
चन्दनद्रव्यसंसिक्तनिजाङ्गैः पुरुषोत्तमैः ।
रममाणैरनुद्वेगैः नित्यतृप्तैः निरामयैः ॥ (२४)
कूजद्विहङ्गमिथुनैः सरसीभिस्समन्ततः ।
भ्रमद्धमरसङ्घातैः झेङ्कुर्वद्भिस्समन्ततः ॥ (२५)
नादिते विविधैर्नादैः श्रवणानन्ददायिभिः।
गन्धर्वैः किन्नरैः यक्षैर्गीयमानैरनारतम् ॥ (२६)
जुष्टे वेणुमृदङ्गादीन् वादयद्भिर्हरिप्रियैः ।
मुनिभिर्वालखिल्याद्यैः श्रमणैर्वातवृत्तिभिः ॥ (२७)
परितो वेदघोषैश्च ब्रह्मानन्दप्रदायिभिः ।
तत्रास्ते भगवान् साक्षात् कदाचित्क्रीडनेच्छया ॥ (२८)
श्वेतद्वीपादिहागत्य रमया प्राकृतैस्सुरैः ।
स्तूयमानो जगद्धाता जगत्कारणकारणम् ॥ (२९)
तत्र ब्रह्मा समुत्पत्य सत्यलोकात्सहामरैः।
प्रार्थयामास विधिवत् स्तुत्वा नत्त्वा च तं प्रभुम् ॥ (३०)
ब्रह्मा –
स्वामिन्भुवि दयासिन्धो दीनबन्धो कलौ जनाः ।
निर्दया निष्ठुराः क्रूराः शिश्नोदरपरायणाः ॥ (३१)
ज्ञानमार्गपरिभ्रष्टा गुरुभक्तिपराङ्मुखाः ।
तेषां त्वत्सृष्टजन्तूनां सुखैकनिलयात्मनाम् ॥ (३२)
तत्साधनापरिज्ञानात् अदुःखोपायानुवर्तिनाम् ।
उद्धाराय जगन्नाथ ह्यनेन तव रूपतः ॥ (३३)
मुक्तिदानधुरीणेन धरायां स्थातुमर्हसि ।
प्राचीनकुलजा चीर्णपुण्यलेशेन ये विभुम् ॥ (३४)
त्वां ये सकृन्निषेवन्ते भक्ता भक्त्त्याल्पमेधसः ।
तेषां तु तव सायुज्यं यथैतदनुमन्यताम् ॥ (३५)
शङ्करः –
इति विज्ञापितो देवो ब्रह्मणा परमेष्ठिना ।
प्रहस्य भावगंभीरं श्रियं वीक्ष्येदमब्रवीत् ॥ (३६)
इति श्रीकाशीमाहात्म्ये पूर्वखण्डे ब्रह्मक्षेत्रवैभवप्रशंसायां गौरीशङ्करसंवादे
यादवाचलप्रसङ्गो नाम द्वितीयोऽध्यायः
अथ तृतीयोऽध्यायः
भगवान् –
शृणु कान्ते प्रवक्ष्यामि रहस्यं पूर्वनिश्चितम् ।
त्वमहं च सदा देवि नित्यानित्यावियोगिनौ ॥ (१)
ज्ञानकान्तिबलैश्वर्यतेजःप्रभवपौरुषैः ।
वैभवेन महाभूत्या सन्ततौ सर्वकालिकौ ॥ (२)
मां विना त्वं न लोके श्रीस्त्वां विनाहं न च प्रभुः ।
त्वं माता सर्वलोकानां पिताहं जगदीश्वरि ॥ (३)
अतो विधानेन नुता ब्रह्मणा ब्रह्मवेदिना ।
रममाणा मया साध धरायां स्थातुमर्हसि ॥ (४)
शङ्करः –
इत्युक्त्वा सुस्मितमुखी ओमित्याहेन्दिरा प्रभुम् ।
ततो ब्रह्माणमाहूय हरिर्वचनमब्रवीत् ॥ (५)
भगवान् –
धरायां सन्ति तीर्थानि क्षेत्राण्यायतनानि च ।
तानि क्रमेण नश्यन्ति कलौ तु कलिबाधया ॥ (६)
न तेषु वासो मनसे रोचते मम पद्मज ।
अतो मया पुरा सृष्टश्शैलो मद्वदचञ्चलः ॥ (७)
मद्रूपैः पापरहितैः पुण्यैकनिलयस्सदा ।
पद्मकूट इति ख्यातः सज्जनैकसमाश्रयः ॥ (८)
कावेर्या उत्तरे तीरे योजने विनिवेशितः ।
त्रिक्रोशकृतविस्तारः क्रोशेनैकेन चोन्नतः ॥ (९)
क्षीरोदसलिलप्रायैः सरोभिः परिमण्डितः ।
मुनीनां पुण्यविभवैः गङ्गासान्निध्यमेष्यति ॥ (१०)
अस्य नामानि ख्यातानि पुराणेषु पृथक् पृथक् ।
पुष्करस्तु कृते ब्रह्मन् त्रेतायां पद्मशेखरः ॥ (११)
द्वापरे च महाभाग ह्यानन्दमयनामवान् ।
कलौ च यादवगिरिः कस्मिँचित्कारणान्तरात् ॥ (१२)
एवं विधे गिरिश्रेष्ठे वैकुण्ठालयसन्निभे ।
निवसामि त्वया नित्यं पूज्यमानो महर्षिभिः ॥ (१३)
शङ्करः –
इत्युक्त्वा रमया सार्धम् अहीशद्विजनायकैः ।
रमया गरुडस्कन्धमधिरुह्य जनार्दनः ॥ (१४)
तं प्राप तद्गिरिवरं यत्रासीच्चित्तविश्रमः ।
एतस्मिन्नन्तरे तत्र कृतवासो महासुरः ॥ (१५)
अहिर्नाम महादेवि तीर्थान्याहत्य सर्वतः ।
स्नातुं पातुं मुनीनाञ्च नावकाशमकल्पयत् ॥ (१६)
आयान्तं रमया सार्धं वीक्ष्य विष्णुं महासुरः ।
रमाभुजोरसि श्रीमान्मुसुचे स शिलीमुखान् ॥ (१७)
ततस्सा कुपिता देवी सृष्टिस्थित्यन्तकारिणी ।
त्रिनेत्राऽष्टभुजा भूत्वा शार्ङ्गमादाय सत्वरम् ॥ (१८)
जोषमास्वेति भर्तारमुक्त्वाथ युयुधे पुनः ।
ततोऽहिस्तां समुद्वीक्ष्य क्रोधादरुणविग्रहः ॥ (१९)
शस्त्रैरस्त्रैश्शिलावर्षैः द्रुमवर्षैः अवाकिरत् ।
श्रीर्वार्यमाणा दुष्टेन रक्षसा सा क्षपाचरम् ॥ (२०)
उद्वीक्ष्य घूर्णयामास नेत्राण्यसुरघातिनी ।
उवाच क्रोधताम्राक्षी राक्षसं रूक्षया गिरा ॥ (२१)
भो भो राक्षसदायाद दर्शयाद्य पराक्रमम् ।
स्वयम्भूशम्भुमुख्यानां वरेण किल गर्जसे ॥ (२२)
सर्वेषां पश्यतामद्य त्वां गतासुं करोम्यहम् ।
तं सङ्गरं निरीक्ष्याथ देवश्श्रीरमणो हरिः ॥ (२३)
ब्रह्माद्यैस्सह सन्तस्थौ कान्ताबलपरीक्षकः ।
तस्मिन् क्षणे महाकायो राक्षसः क्रोधमूर्च्छितः ॥ (२४)
माययान्तर्हितो भूत्वा ब्रह्माद्यं मोहयन् जगत् ।
सागरान्सप्त सद्वीपान् तथा सप्तकुलाचलान् ॥ (२५)
ववर्ष स रमामूर्ध्नि कुर्वन्नन्धं जगत्रयम् ।
तदीयमायया च्छन्नां नापश्यन्देवतां श्रियम् ॥ (२६)
तदा विष्णुरपि श्रीशः किमिति व्याकुलोऽभवत् ।
तथाविधं हरिं दृष्ट्वा देवी देवगणानपि ॥ (२७)
मायाविहारिणीं विद्यां मन्त्ररत्नमयीं तदा ।
चिन्तयन्ती महामायं विष्णुं हृदि सनातनम् ॥ (२८)
ध्यायन्ती सहसोत्पत्य व्यधुनोद्राक्षसीं तदा ।
मायां सा वैष्णवी लक्ष्मीस्तदा विद्योतिता दिशः ॥ (२९)
तदा विष्णुकराच्छीघ्रं चक्रमादाय चर्म च ।
संयम्य च शिरः केशान् गर्जन्ती केसरी यथा ॥ (३०)
यत्रास्ते राक्षसस्तत्र समुपेत्य कचेऽग्रहीत् ।
तथा कृतान्तां तद्रक्षश्श्रियं जग्राह पाणिना ॥ (३१)
जगामाम्बरमाविश्य विस्रस्तां च तदा जगत् ।
हा हा कृते तदा लोके गले जग्राह राक्षसम् ॥ (३२)
निरुच्छ्वासो निरालम्बो म्रियमाणो रुराव ह ।
पपात यदुशैलस्य पृष्ठे कृष्णशिलातले ॥ (३३)
रमा तदा पराक्रम्य शिरः कायादपाहरत् ।
ह्रीयमाणेऽस्य शिरसि ब्रह्माण्डं विस्मितं जगत् ॥ (३४)
पश्य पश्येति देवेशमब्रवीत्परमं हरिम् ।
तदा श्रीविक्रमं दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥ (३५)
हतं च राक्षसं दृष्ट्वा ह्यालिलिङ्ग श्रियं हरिः ।
उवाच सहसा कान्तां साहसं तु कृतं त्वया ॥ (५६)
मया विदितमेवेदं मानिनि श्रान्तिमाव्रज ।
इत्युक्त्वा गरुडस्कन्धादवरुह्य जनार्दनः ॥ (५७)
यदुभूधरपृष्ठे तु निवासमकरोत्ततः ।
नारायणो नरसखः सर्वयन्ता जगत्पतिः ॥ (३८)
जगज्जीवनमापेदे निहते ह्यहिराक्षसे ।
तीर्थानि सुगमान्यासंस्तदा प्रभृति मानिनि ॥ (३९)
तदा प्रभृति तत्क्षेत्रे इन्दिरा सन्निधिं दधे ।
ये वसन्ति नरास्तत्र तेषां लक्ष्मीस्तु शाश्वती ॥ (४०)
अहिसंहरणोद्भूतश्रांतिशान्तिमवाप्य सा ।
फुल्लाशोककदम्बाब्ज नागपुन्नागवायुना ॥ (४१)
जुष्टं सङ्गीतषट्पादं सिद्धगन्धर्वसेवितं ।
अरण्यैर्नर्मदनिभैः सरोभिरभिरञ्जितम् ॥ (४२)
कूजद्विहङ्गमिथुनं रममाणैस्सुरोरगैः ।
रञ्जितं वीक्ष्य हृष्टा श्रीः माधवेनानुमोदिता ॥ (४३)
निवासं विदधे तत्र प्रार्थितं विधिना यथा ।
ततो विधिः प्रसन्नात्मा प्रसन्नां वीक्ष्य मातरम् ॥ (४४)
विष्णुं च यदुशैलाग्रनिवासकृतनिश्चयम् ।
हृष्टो विज्ञापयामास विधिर्भक्त्या नताकृतिः ॥ (४५)
ब्रह्मा –
स्वामिन् रमाऽवधीद्रक्षस्सर्वासाध्यं जगत्पते ।
यदुभूधरमाश्रित्य तेनैतत्क्षेत्रमुत्तमम् ॥ (४६)
इन्दिराक्षेत्रमुद्दिष्टं सर्वसंपत्प्रवर्धनम् ।
अनेनैव हि रूपेण सान्निध्यं सर्वमस्तु ते ॥ (४७)
शङ्करः –
इति विज्ञापितो विष्णुः तथेत्युक्त्वा च सादरम् ।
शङ्खचक्रगदापाणिः तस्थौ श्रीरमया सह ॥ (४८)
स्वयं व्यक्तं महादेवं नारायणमनामयम् ।
सेवन्ते यदुशैलाग्रे ते नरा मुक्तिभागिनः ॥ (४९)
प्रयागस्तीर्थराजाख्यः क्षेत्रराड्यदुभूधरः ।
पशवः पक्षिणस्तत्र देहं त्यक्त्वा शिलोच्चये ॥ (५०)
भजन्ति विष्णुसारूप्यं तत्रैव निवसन्ति च ।
अन्यत्र विष्णुभक्तानां मरणे सति पार्वति ॥ (५१)
विना वैकुण्ठगमनान्मुक्तिर्नास्तीति निश्चितम् ।
यदुभूधरसंस्थानां मृतानामत्र मानिनि ॥ (५२)
हरिरत्रैव वैकुण्ठसुखं यच्छति नान्यथा ।
अत्र मुक्तास्सुबहुशी निवसन्तस्समन्ततः ॥ (५३)
महाप्रलयकालेपि नाशो नान्योस्ति भामिनि ।
अतः क्षेत्रमिदं श्रेष्ठं षोडशेनांशकेन हि ॥ (५४)
वाराणस्यां सन्निहितं तेन वाराणसी वरा ।
क्षेत्राण्यन्यानि भागेन तुरीयेणेति निश्चितः ॥ (५५)
इति श्रीकाशीमाहात्म्ये पूर्वखण्डे ब्रह्मक्षेत्रवैभवप्रशंसायां गौरीशङ्करसंवादे
यादवाचलप्रसङ्गो नाम तृतीयोऽध्यायः
इत्थं श्रीकाशीमाहात्म्यान्तर्गतः प्रथमप्रभृति–तृतीयपर्यन्तः
अध्यायत्रयात्मकः श्रीमद्यादवगिरिमाहात्म्य–परपुराणभागः समाप्तिमगमत्