॥ श्रीरस्तु ॥
श्रीमते नारायणाय नमः
श्रीमते रामानुजाय नमः
श्रीमत्स्यपुराणान्तर्गतश्रीमद्यादवगिरिमाहात्म्यम्
॥ हरिः ओम् ॥
अथ प्रथमोऽध्यायः
शौनककृत–यादवगिरिवैभवविषयकप्रश्नः
श्रीसूतः –
श्रीपुण्यारण्यशरणाः पुण्यशीला महाबुधाः ।
वैभवं क्षेत्रतीर्थानां वर्णितं पापनाशनम् ॥ (१)
युष्मत्सन्निधिमात्रेण चोदितेन मया द्विजाः ।
दयाशीलाः प्रसन्नोऽहं किं भूयश्श्रोतुमर्हथ ॥ (२)
शौनकः –
सा ते धर्मविशेषज्ञ सर्वशास्त्रविशारद ।
गङ्गादिसर्वतीर्थानां क्षेत्राणां पुष्करस्य च ॥ (३)
कुरुक्षेत्रस्य माहात्म्यं मधुरायाश्च वैभवम् ।
वाराणस्याश्च माहात्म्यम् अयोध्यायाश्च वैभवम् ॥ (४)
द्वारकाक्षेत्रमाहात्म्यं वेङ्कटाद्रेश्च वैभवम् ।
यादवाद्रेः प्रभावं च सह्याद्रेर्मलयस्य च ॥ (५)
श्रीमुष्णक्षेत्रमाहात्म्यं रङ्गक्षेत्रस्य वैभवम् ।
अन्येषां क्षेत्रतीर्थानां वैभवं परमाद्भुतम् ॥ (६)
पीतमस्माभिरमृतं त्वन्मुखाम्भोजनिस्सृतम् ।
परावरेषां क्षेत्राणां तीर्थानां च महामते ॥ (७)
श्रुत्वा तु वैभवं तेषामत्यद्भुतमतृप्नुमः ।
तत्र यादवशैलस्य माहात्म्यश्रवणे विभो ॥ (८)
कुतूहलाद्वयं सर्वे वर्णनेति कुतूहलाः ।
तस्मात्पृच्छामहे त्वां हि संशयं छिन्धि सुव्रत ॥ (९)
रहस्यं च प्रकाशं च सर्वं जानासि सर्ववित् ।
पुरा यादवशैलस्य माहात्म्यश्रवणे त्वया ॥ (१०)
प्रोक्तं मानवदेवैश्च दुर्घटं ब्रह्मरुद्रकैः ।
किरीटागमनं विष्णोः क्षीरसागरशायिनः ॥ (११)
किमर्थमागतः कृष्णो द्वारकानिलयोऽच्युतः ।
कृष्णः किरीटं धृत्वा तु किमर्थं वसति प्रभुः ॥ (१२)
द्वारकामपि सन्त्यज्य तत्र नित्यं प्रसन्नधीः ।
प्रह्लादवरदो विष्णुः नृहरिः कथमागतः ॥ (१३)
कति तीर्थानि सन्त्यत्र कति चायतनानि च ।
आगता बदरीवृक्षाः कथं बदरिकाश्रमात् ॥ (१४)
किमर्थमागताश्वेतमृत्तिका पावनी शुभा ।
एतदन्यच्च सर्वं वो वक्तुमर्हसि सुव्रत ॥ (१५)
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ।
श्रीसूतः –
साधु साधु द्विजश्रेष्ठाः कथां सारतरां शुभाम् ॥ (१६)
सर्वपापप्रशमनीं सर्वमङ्गलवर्धिनीम् ।
पुरा कृतयुगे विप्रः धर्मज्ञः संशितव्रतः ॥ (१७)
दीप्तिमानिति विख्यातः तपस्वी कृष्णभक्तिमान् ।
कुमारं परिपप्रच्छ सत्यलोके पुरानघः ॥ (१८)
भवद्भिर्यदहं पृष्ट एतदेव द्विजर्षभाः ।
दीप्तिमान् –
सनत्कुमारसर्वज्ञ वदतां वद नो वर ॥ (१९)
यादवाद्रेः प्रभावं च यत्र सन्निहितो हरिः ।
इत्येवमुक्तः करुणं कुमारो नारायणस्याङ्घ्रिनिविष्टचित्तः ।
दयालुना दीतिमताऽतिहृष्टो व्याहर्तुमद्रेर्महिमानमुत्सुकः॥ (२०)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
शौनककृत–यादवगिरिवैभव–विषयकप्रश्नोनाम
प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः
श्रीकृष्णावतार–कंसादिवधकथनम्
सनत्कुमारः –
दीप्तिमंस्ते प्रवक्ष्यामि यादवाद्रेश्च वैभवम् ।
अत्यद्भुतं महापुण्यं त्वमिहैकमनाः शृणु ॥ (१)
भूमिर्भारेण सन्तप्ता कंसादीनां सुरद्विषाम् ।
गौस्सत्यपाद्रवद्भीता सर्वदेवगणैर्वृता ॥ (२)
ब्रह्मणा चापि शर्वेण तीरं क्षीरपयोनिधेः ।
ब्रह्माऽस्तौद्रुद्रसहितश्श्यामलं शान्तविग्रहम् ॥ (३)
विष्णुं वरेण्यं वरदं प्रभविष्णुमधीश्वरम् ।
प्रेमगद्गदया वाचा सारं सुष्ठु मितं मृदु ॥ (४)
ब्रह्मा –
नमोऽस्तु नारायण विश्वमूर्ते
नमोऽस्तु ते शाश्वत शर्वयोगिन् ।
त्वमेव विश्वं सचराचरात्मकं
त्वय्येव विश्वं प्रवदन्ति सन्तः ॥ (५)
नमोऽस्तु ते कारणकारणाय
नमोऽस्तु कैवल्यफलप्रदाय ।
नमो नमस्तेऽस्तु जगन्मयाय
वेदान्तवेद्याय नमो नमस्ते ॥ (६)
कार्यक्रियाकारणमप्रमेयं
कविं पुराणं कमलायतेक्षणम् ।
कुमारवेद्यं करुणामयं तं
कल्पद्रुमं विष्णुमहं भजामि ॥ (७)
त्रिलोकनाथं सरसीरुहाक्षं
दयानिधिं पद्मभवार्चिताङ्घ्रिम् ।
महाबलं वेदनिधिं सुरेशं
सनातनं विष्णुमहं भजामि ॥ (८)
सनत्कुमारः –
इति स्तुत्वा रमानाथं ब्रह्मा तूष्णीमवस्थितः ।
ततः प्रादुरभूद्विष्णुः श्रीदेवः करुणानिधिः ॥ (९)
ऊचे वाचं सुधाधारां ब्रह्माणं स भवं विभुः ।
अवधारितमेतन्मे भवतां मानसं हि यत् ॥ (१०)
यदोः कुलेऽवतीर्णस्सन्भुवो भारं हराम्यहम् ।
तद्गच्छत महाभागाः कंसशङ्काभयोज्झिताः ॥ (११)
इत्युक्त्वान्तर्दधे विष्णुः ब्रह्मा लोकपितामहः ।
देवीं भूमिं समाश्वास्य कर्तव्यं च निवेद्य च ॥ (१२)
यापयित्वाथ सर्वांश्च स्वलोकमगमद्विभुः ।
अथ विष्णुस्सदानन्दः चिन्तयामास स द्विज ॥ (१३)
जन्मक्षेत्रं शुभं देवः कुत इत्येव निश्चिते ।
यादवस्य शुभे क्षेत्रे वसुदेवस्य धीमतः ॥ (१४)
अवतीर्य भुवो भारं हरिष्यामीति मे मतिः ।
एवं सङ्कल्प्य भगवान् स्वस्थाने पूर्ववत् स्थितः ॥ (१५)
अथ शौरिः कृतोद्वाहः देवकीप्रमुखाः स्त्रियः ।
कंसस्तुष्टमना विप्र बहुमानपुरस्सरम् ॥ (१६)
प्रेषयामास भगिनीं तूर्यघोषपुरस्सरम् ।
तदाह्यभून्नभोवाणी मेघनिर्ह्रादनादिता ॥ (१७)
हन्ताऽस्याष्टमो गर्भः त्वां यां वहसि दुर्मते ।
श्रेयश्चिन्तय शीघ्रं त्वं स्वात्मनः कुमते ध्रुवम् ॥ (१८)
इत्युक्त्वान्तर्दधे वाणी कंसो मूढमतिस्तदा ।
हन्तुमुद्युक्तवान् तां वै स्वार्थोन्मूलितसौहृदः ॥ (१९)
सन्धितो वसुदेवेन निवृत्तस्सारवाक्यवित् ।
अस्याः पुत्रान्प्रदास्यामि मोचयाशु शुभां स्त्रियम् ॥ (२०)
इत्युक्तस्स तु सन्तुष्टः प्रेषयामास दम्पती ।
ततः काले तु संप्राप्ते देवकी सुषुवे प्रजाः ॥ (२१)
कंसः पापमतिर्मोहात् नारदस्योपदेशतः ।
स्वसुस्सुतान् हनन्पापस्तौ च कारागृहे द्विज ॥ (२२)
निगलैः बन्धयामास विष्णुमेव विचिन्तयन् ।
आस्ते गृहे दुर्मतिभिः मन्त्रिभिश्च परीवृतः ॥ (२३)
सप्तमे निर्गते गर्भे भगवान् मधुसूदनः ।
आविरासीच्छुभायास्तु देवक्यास्तु शुभोदरे ॥ (२४)
ताभ्यां स्तुतस्स भगवान् गोकुलं गोविभूषितम् ।
गतो नन्दं नन्दयितुं नन्दनन्दनभावतः ॥ (२५)
कंसस्तु चण्डिकावाक्यं श्रुत्वा विस्मयमागतः ।
पूतना-शकटादींश्च प्रेषयामास तद्वधे ॥ (२६)
आगतानहनत्कृष्णो रमयन् गोकुलं विभुः ।
ततस्समागत्य पुरं स कृष्णोऽ-
प्यक्रूरमित्रस्सबलस्सभाङ्गतः ।
चिकीर्षया शं स्वजनस्य पित्रोः
प्रासादजालैः बहुभिस्समावृतम् ॥ (२७)
बलेन सहितो देवः पुरवीथीषु निर्गतः ॥ (२८)
कुतूहलाद्-द्रष्टुकामो वयस्यैः पुरसंपदः ।
दृष्ट्वाऽतिविस्मितः कृष्णो युद्धलीलाकुतूहली ॥ (२९)
रजकस्य तु धूर्तस्य कं हृत्वातिबलस्य च ।
पर्यधत्त वयस्यैश्च शाटीर्भूपसुभूषिताः ॥ (३०)
सैरन्ध्र्याः कामतप्तायाः कृतवान् प्रीतिमद्भुताम् ।
पाटीरपङ्कसुप्रीतः सर्वकामफलप्रदः॥ (३१)
कृत्वा तु धनुषो भङ्गं तत्रत्यानहनद्बली ।
ततः कुवलयापीडं हत्वा रङ्गं प्रविश्य च ॥ (३२)
चाणूरमुष्टिकारिष्टतौसलादीन् महाबलान् ।
कृत्वा व्याजेन तान् हत्वा तदाचार्यानपि द्विज ॥ (३३)
पुनः कुतूहलात्कृष्णो मञ्चमुत्तुङ्गमारुहत् ।
उत्तुङ्गमञ्चाद्रिपुयूथनाथं
कंसं निपात्याऽतिबलं ह्यधोऽधः ।
परेतमाकृष्य महासभायां
सुसाधुवादस्सुमहानभूत्तदा ॥ (३४)
निगलान्मोचयामास पितरौ स दयानिधिः ।
सान्त्वयामास सान्त्वज्ञः सान्त्ववाक्यैर्विमोहकैः ॥ (३५)
ततः कृष्णश्च रामश्च गायत्रीव्रतमास्थितौ ।
ततः सान्दीपनाद्विप्रात् चतुष्षष्टिकलामगात् ॥ (३६)
दक्षिणां गुरवे दत्त्वा पितृस्थानात्तु पुत्रकम् ।
हतं जामातरं श्रुत्वा जरासंधो महाबलः ॥ (३७)
त्रयो विंशतिभिस्सैन्यैः परिवार्यातिरुष्टधीः ।
अक्षौहिणीभिस्संख्यातैरागतो मधुरां पुरीम् ॥ (३८)
विनिर्जितः कृष्णवलेन संयुगे
जरासुतो विस्मितनम्रकन्धरः ।
कृष्णं विदित्वातिबलं महामतिः
पुरं प्रविश्याथ व्यचिन्तयत्तदा ॥ (३९)
एवं सप्तदशकृत्वस्तावदक्षौहिणीबलैः ।
पराजितस्ससैन्यश्च कृष्णेनाऽद्भुतकर्मणा ॥ (४०)
अष्टादशमसङ्ग्रामो ह्यभवद्रोमहर्षणः ।
जरासन्धेन कृष्णोऽपि बलदेवेन संयुतः ॥ (४१)
लोके चित्रगतिं चित्रकथां चाचिन्तयद्बुधः ।
नैकत्रास्ते जयो वापि ह्यजयो वापि भूतले ॥ (४२)
इति प्रदर्शयन्कृष्णो ह्यपराजितविक्रमः ।
पराजित इव श्रीमान् अपलायत्सतां गतिः ॥ (४३)
दक्षिणाभिमुखस्तूर्णम् अग्रजेन समन्वितः ।
जरासन्धोऽपि सैन्येन तमनुप्रविशत्क्रुधा ॥ (४४)
द्विपमुद्दिश्य गच्छन्तं सिंहं क्षुद्रमृगो यथा ।
कृष्णो गिरिवरक्षेत्रं तुङ्गमारुहदद्भुतम् ॥ (४५)
तमज्ञाय जरासन्धो गिरावग्निं समासृजत् ।
कृष्णरामौ तु तद्धित्वा द्वारका जग्मतुर्द्रतम् ॥ (४६)
जरासुतोऽपि दुर्बुद्धिर्दग्धौ ताविति निश्चितः ।
परं गतस्ससैन्यश्च कृतार्थोऽहममन्यत ॥ (४७)
जगज्जन्मादिलीलस्तु विप्रोद्धारे हितो महान् ।
मर्त्यलीलानुकरणस्सभां प्राविशदद्भुताम् ॥ (४८)
वरासनगतश्श्रीमान् रामेण सहितो हरिः ।
सर्वानाहूय मन्त्रज्ञान्मन्त्रितुं जगदीश्वरः ॥ (४९)
सात्यकिश्चोद्धवश्चैव ह्यरक्रूश्चैव बुद्धिमान् ।
उग्रसेनो महाभागो ये चान्ये यदुपुङ्गवाः ॥ (५०)
समागतास्सभायां वै बुद्धिमन्तो विचक्षणाः ।
सभ्याश्शृण्वन्तु सद्वाचं मम प्रीतिकरां शुभाम् ॥ (५१)
यस्मिन् देशे निवत्स्यामि भ्रातृव्यभयवर्जिते ।
पुण्यवृक्षलतोपेते पुण्यतीर्थसमन्विते ॥ (५२)
पुण्यद्विजगणोपेते पुण्यामलजलाशये ।
तं देशं द्रष्टुकामोऽहं संकर्षणसहायवान् ॥ (५३)
गच्छान्यद्यैव हे सभ्या रक्षध्वं द्वारकां शुभाम् ।
इत्युक्त्वा नगरात्प्रातः दक्षिणाभिमुखो ययौ ॥ (५४)
बहून्देशानतिक्रम्य वनानि सरितो गिरीन् ।
गोमन्तं भूधरश्रेष्ठं तुङ्गद्रुमलताचितम् ॥ (५५)
करवीरपुरं रम्यं तन्मूले सन्ददर्श ह ।
सृगालं वासुदेवेन रक्षितं बहुदुर्गमम् ॥ (५६)
ददर्श भगवान् कृष्णो बलदेवेन विस्मितः ।
दुर्गद्वारं ततो गत्वा शङ्खमापूरयद्विभुः ॥ (५७)
श्रुत्वा तु शङ्खध्वनिमापतन्तं
सृगालमत्यद्भुतवेषभूषणम् ।
हत्वा तदन्तःपुरमाविशद्धरिः
ततो गिरिं चारुहदद्भुतं द्विज ॥ (५८)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
श्रीकृष्णावतार–कंसादिवधकथनं नाम द्वितीयोऽध्यायः
अथ तृतीयोऽध्यायः
श्रीकृष्णबलरामयोः गोमन्तपर्वतारोहणम्
हत्वा सृगालं कृष्णोऽपि रामश्चाद्भुतविक्रमः ।
गोमन्तं पर्वतश्रेष्ठं तुङ्गमारुहतां विभू ॥ (१)
पारिजातैश्च मन्दारैश्चंपकैश्चैव पाटलैः ।
प्रियालैश्चूतपोतैश्च सालतालैस्समावृतम् ॥ (२)
मधुकैश्च तमालैश्च अर्जुनैर्वकुलैरपि ।
प्लक्षैर्वटैः शिंशुपैश्च ह्यरिष्टौदुंबरैरपि ॥ (३)
चन्दनैः पिचुमन्दैश्च सरलैः कोविदारकैः ।
द्राक्षेक्षुभिश्च जंबूभी रंभाभिस्सुरदारुभिः ॥ (४)
कपित्थैः बिल्वजातीभिः बदर्याक्षौभयामलैः ।
जंबीरैर्नारिकेलैश्च शोभितं तत्र तत्र ह ॥ (५)
नीपैर्वञ्जुलकैश्चैव कदम्बैश्च विराजितम् ।
नलवेतसकुंदैश्च शिरीषाशोकमण्डितम् ॥ (६)
कुब्जकैः कुटजैश्चैव स्वर्णयूधीभिरिङ्गुदैः ।
नागपुन्नागजात्यैश्च मल्लिकाशतपत्रिकैः ॥ (७)
जालकैश्शोभितं विप्र नित्यर्तुभिरलंद्रुमैः ।
सरांसि सरितस्तस्मिन् निर्मलानि महान्ति च॥ (८)
लसत्काञ्चनपद्मैश्च कह्लारैः कुमुदोत्पलैः ।
शोभितानि द्विजश्रेष्ठ तीरजैश्च सुमैरपि ॥ (९)
षट्पदैर्मत्तशकुनैः कलनिस्स्वनमङ्गलैः ।
हंसकारंडचक्राह्वैः जलकुक्कुटसारसैः॥ (१०)
शोभितानि सुपुण्यानि निर्मलोदवहानि च ।
ब्रह्मविद्भिस्सेवितानि महापापहराणि च ॥ (११)
सन्ति तत्र द्विजश्रेष्ठ तस्मिन् शैलवरोत्तमे ।
तस्मिन् ददृशतुर्वीरौ प्रदेशे रामकेशवौ ॥ (१२)
शृङ्गं प्रहर्षणं नाम ह्यतितुङ्गं महाद्भुतम् ।
आरुह्य जगतां नाथौ तत्र शृङ्गाग्रचारिणौ ॥ (१३)
सर्वाश्चर्यतमं चापि पश्यन्तौ च दिशो दश ।
रममाणौ यथा काममूषतुः पर्वतोत्तमे॥ (१४)
क्षीराब्धिनाथकिरीटागमन–कथारंभः
दीप्तिमन् शृणु वक्ष्यामि किरीटागमनं यथा ।
काश्यपो नाम मेधावी तपस्वी बहुपुत्रकः ॥ (१५)
तस्यासन् बहुपत्न्यस्तु तत्रैका च वरानना ।
दितिरित्यभिविख्याता भर्तृशुश्रूषणे रता ॥ (१६)
तस्याः पुत्रास्तु बहवो ह्यासन् बलपराक्रमाः ।
विनिर्जिताः पलायन्त सपत्न्याः पुत्रकैः भृशम् ॥ (१७)
तदा दितिस्तु भर्तारम् इन्द्रहर्तारमाहवे ।
प्रार्थयामास पुत्रं सा स्वार्थसाधनतत्परा ॥ (१८)
सन्ध्याकालमजानन्ती केवलं काममोहिता ।
काश्यपस्तदुपाकर्ण्य विस्मितोऽभूद् द्विजोत्तम ॥ (१९)
काश्यपः –
इदानीं होमकालं तु मुहूर्तं प्रतिपालय ।
ततः पुत्रं प्रदास्यामि सुव्रते धर्मचारिणि ॥ (२०)
दितिः –
इदानीमेव मे पुत्रं दातुमर्हसि सुव्रत ।
सनत्कुमारः –
इत्युक्त्वाकृष्य भर्तारं रहसि प्रविवेश ह॥ (२१)
ततः काश्यपविप्रेन्द्रः स्नात्वा तां कुपितोऽब्रवीत् ।
काश्यपः –
यस्मात् दारुणवेलायाम् आगतासि वरानने ॥ (२२)
असुरौ तौ भवेतां द्वौ दारुणौ लोककण्टकौ ।
सनत्कुमारः –
इति भर्तुर्वचश्श्रुत्वा भयविह्वलमानसा ॥ (२३)
भर्तारं प्रणिपत्याह सत्पुत्रं देहि मे प्रभो ।
इत्येवं याचितः पत्न्या काश्यपो वाक्यमब्रवीत् ॥ (२४)
काश्यपः –
पौत्रस्तु भविता भद्रे साधूनां संमतस्सुधीः ।
प्रह्लाद इति विख्यातो नाम्ना भागवतः कृती ॥ (२५)
प्रार्थ्यमानैः पुण्यगुणैः लोकानाह्लादयिष्यति ।
यस्मिन्विरुध्य जनको नृहरेर्मृत्युमेष्यति ॥ (२६)
प्रह्लादपुत्रो मेधावी विरोचन इति श्रुतः ।
भविष्यति सुधर्मात्मा गोब्राह्मणसुपूजकः ॥ (२७)
त्रैलोक्यलक्ष्मीं बुभुजे बहुदातेति विश्रुतः ।
इन्द्रो ब्राह्मणरूपेण मध्याह्नसमये सति ॥ (२८)
याचयामास तं वीरम् अभीष्टं देहि मे प्रभो ।
विरोचनः –
दास्यामि यदभीष्टं ते ब्रह्मन्वरय वाञ्छितम् ॥ (२९)
काश्यपः –
इत्युक्तस्तेन तस्यैव शिरस्संयाचयिष्यति ।
सोऽपि धीमान् शिरो दत्त्वा ब्रह्मलोकं गमिष्यति ॥ (३०)
तस्य पुत्रो महाभागो महाभागवतो महान् ।
महाबलिरिति ख्यातो भविष्यति सुशोभने ॥ (३१)
सनत्कुमारः-
इत्युक्त्वा विररामाऽथ गृहकर्मणि संस्थितः ।
सापि भर्तृवचश्श्रुत्वा मुमोद सुभृशं दितिः ॥ (३२)
पुत्रौ सा सुषुवे चापि हिरण्याक्षं सुदारुणम् ।
हिरण्यकशिपुं चापि ह्यसुरं घोरदर्शनम् ॥ (३३)
हिरण्यकशिपोः पुत्रः प्रह्लादोऽभून्महामतिः ।
विरोचनस्तु तत्पुत्रः तस्य पुत्रो महाबलः ॥ (३४)
महाबलो महातेजा महाभागवतो महान् ।
अभूत् त्रयाणां लोकानां नाथः स्वाचार्यसेवया ॥ (३५)
सूतः –
इतीदमाकर्ण्य वचस्तु दीप्तिमान्
आनन्दसन्दोहजले निमग्नः ।
पुनस्स पप्रच्छ तदेव पुण्यं
सनत्कुमारं भगवन्तमेव ॥ (३६)
सनत्कुमारः –
साधु पृष्टं त्वया विप्र सारं सारविदां वर ।
अत्याश्चर्यतमं नृणां बलेश्चरितमद्भुतम् ॥ (३७)
शृणु चित्तं समाधाय भक्तस्याद्भुतकर्मणः ।
माहात्म्यं विष्णुलीलाभिर्युतं सर्वफलप्रदम् ॥ (३८)
विरोचनसुतः श्रीमान् पुण्यश्लोकशिखामणिः ।
बलिस्सुपुत्रो मेधावी किंचोदारश्रवा मुने ॥ (३९)
स तु शुक्रं समाराध्य त्रैलोक्यां बुभुजे श्रियं ।
कौशिकप्रमुखान् देवान् विनिर्जित्य मृधेऽसुरः ॥ (४०)
वामनावतारकथा
तदादितिस्तु भर्तारं प्रार्थयामास सुव्रता ।
पुत्रश्रेयांसि सुश्रोणी समाराध्य स्वधर्मतः ॥ (४१)
काश्यपस्तां प्रहृष्टात्मा दुःखितां मोहितां सतीं ।
काश्यपः –
पयोव्रतमिदं भद्रे सर्वकामदमाचर ॥ (४२)
सदा सतामृषीणां च सत्यं विष्णोः प्रसादकम् ।
तदनुष्ठानमात्रेण सर्वान्कामानवाप्नुहि ॥ (४३)
सनत्कुमारः –
इत्युक्त्वा विधिपूर्वं तत्, उपदिश्य महामतिः ।
तया सह व्रतं चक्रे विष्णोः प्रीतिकरं शुभम् ॥ (४४)
साकं महर्षिभिर्विप्र निर्मलैः संशितव्रतैः ।
ब्रह्मघोषाकुलायां हि शालायां सर्वविद्विभुः ॥ (४५)
आविर्भूतो महाविष्णुर्दयानेत्रो दयाकृतिः ।
तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ॥ (४६)
चतुर्भुजं विशालाक्षं गदाशङ्खाद्युदायुधम् ।
श्रीवत्सहारकेयूर-नूपुरादिविराजितम् ॥ (४७)
काश्यपो मुनिभिस्साकं विस्मितो विस्मयाकृतिम् ।
दण्डवत्प्रणिपत्याथ परमानन्दनिर्वृतः ॥ (४८)
उत्थाय प्राञ्जलिर्भूत्वा काश्यपो वाक्यमब्रवीत् ।
सारं सुष्ठु मितं हृद्यं पुण्यं श्रोत्रप्रियं महत् ॥ (४९)
काश्यपः –
जय जय जगतां पतये नमस्ते
मम च जयं कुरु त्वं हि कल्पवृक्षः ।
सततमुरसि यस्य श्रीवधूस्सुखं
वसति तमेव हरिं शरणं व्रजे ॥ (५०)
ऋषयः –
देव देव जगन्नाथ जगदीश जगन्मय ।
पाह्यस्मान्सर्वलोकेश तापत्रयमहानलात् ॥ (५१)
श्रीकृष्ण श्रीकर श्रीश श्रीराम श्रीनिधे हरे ।
श्रीनाथ श्रीमहाविष्णो श्रीनृसिंह कृपानिधे ॥ (५२)
गर्भजन्मजराव्याधिघोरसंसारसागरात् ।
अस्मानुद्धर गोविन्द कृष्ण विष्णो जनार्दन॥ (५३)
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद
तीर्थश्रवश्रवण मङ्गलनामधेय ।
शं नः कृधीश भगवन्नसि दीननाथ
आपन्न लोकवृजिनान्यपनोदयाद्य ॥ (५४)
विश्वाय विश्वभुवनस्थितिसंयमाय
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
स्वस्थाय शश्वदुपबृंहित-पूर्णबोध
व्यापादितात्मतमसे हरये नमस्ते ॥ (५५)
त्वामाश्रित्यैव भगवन् साधवो मृत्युपीडिताः ।
तरन्ति मृत्युं किमुत सपत्नांस्तृणसोदरान् ॥ (५६)
विष्णुः –
देवमातर्भवत्याहं तोषितो व्रतचर्यया ।
अपत्यपालनं कुर्मि तव कल्याणि नित्यदा ॥ (५७)
स्वांशेन तव पुत्रत्वम् उपेत्य च शुभानने ।
शत्रूनिर्जित्य सत्यं हि सदा गोप्तास्मि ते सुतान् ॥ (५८)
इत्युक्त्वान्तर्दधे विष्णुः महाकारुणिकः प्रभुः ।
ततः प्रादुरभूद्देव्याम् अदित्यां विजयी हरिः ॥ (५९)
सोऽपि वामनरूपी स्यात् महामुनिगणैर्हरिः ।
उपमानस्तु विधिवद्देवर्षिगणपूजितः ॥ (६०)
लोकवृत्तान्तश्रवणव्याजेन स हरिस्तदा ।
महाबलिस्तु शुक्रादीनाराध्य यजनोत्सुकः ॥ (६१)
अश्वमेधशतेनैव दीक्षितादारकीर्तिमान् ।
बहुदातेति चाकर्ण्य बलेरद्भुतकर्मणः ॥ (६२)
ऋषीन् विसृज्य चैकाकी दण्डछत्राङ्कितो हरिः ।
तेजस्वी यशसा दीप्तो यज्ञशालामुपाविशत् ॥ (६३)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
श्रीकृष्णबलरामयोः गोमन्तपर्वतारोहणादिकथनं नाम
तृतीयोऽध्यायः
अथ चतुर्थोऽध्यायः
श्रीवामनाय बलिकृतभूमिप्रदानम्
दीप्तिमान् –
ततः किमकरोद्विष्णुः वामनाकृतिरद्भुतम् ।
प्रविष्टो यज्ञशालायां बलेर्भक्तिमतो गुरौ ॥ (१)
श्रद्दधानाय भक्ताय त्वयि चाधोक्षजेपि च ।
ब्रूहि स्निग्धाय शिष्याय चरितं वामनाकृतेः ॥ (२)
सनत्कुमारः –
यदा प्रविष्टो भगवान् यज्ञशालां स वामनः ।
तदा तु साग्नयो विप्रा भृगवो ब्रह्मवादिनः ॥ (३)
यजमानश्च सर्वेपि ऋत्विजो ये समागताः ।
उत्तस्थुर्मुनयस्सर्वे प्राणाः प्राण इवागते ॥ (४)
यजमानः प्रमुदितः कृतार्थोऽसीति चिन्तयन् ।
प्रणनर्त मुहूर्तं तु ह्यात्मविस्मृतिपूर्वकम् ॥ (५)
ततः कृत्वा मनोधैर्यं परिमृज्य च लोचने ।
उवाच मधुरं वाक्यं कृतार्थेनान्तरात्मना ॥ (६)
विष्णुं वरेण्यं वरदं वामनं वटुरूपिणम् ।
स दण्ड-च्छत्र-सजल-कमण्डलु-विराजितम् ॥ (७)
बलिः –
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं द्विजसत्तम ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ (८)
अद्य मे सफलं ज्ञानं यज्ञश्च सफलो मम ।
पितृदेवादयो मह्यं सुप्रीतास्तव दर्शनात् ॥ (९)
इत्युक्त्वाऽसनमावेश्य पूजयित्वा यथाविधि ।
तत्पादशौच-सलिलम् आजितालकबन्धनः ॥ (१०)
यत्पादसलिलस्पर्श-विधूताशेषबन्धनाः ।
ब्रह्मरुद्रादयस्सर्वे ऋषयश्च तपस्विनः ॥ (११)
द्विजवर्य महाभाग ह्यर्थिनं त्वां वितर्कये ।
ददामि वाञ्छितं सत्यं वटो कायं प्रतीच्छ मे ॥ (१२)
वामनः-
वाञ्छितं यदि मे राजन् दास्यसि त्वं प्रदीयताम् ।
पदानि त्रीणि राजेन्द्र संमितानि पदा मम ॥ (१३)
तपस्तप्तुमलं तेन सुप्रीतोऽस्मि न संशयः ।
सनत्कुमारः –
वामनाय महीं दातुम् उद्युक्तमसुरर्षभम् ॥ (१४)
बद्धहस्तोऽथ भगवान् ग्रहणे शङ्कितोऽभवत् ।
नेत्रान्तसञ्ज्ञां गुरवे कृतवान् वामनो हरिः ॥ (१५)
तां विलोक्याथ शुक्रोपि शिष्यं प्राह द्विजोत्तम ।
शुक्रः –
महाबले विमूढात्मन् विष्णुरेषस्सनातनः॥ (१६)
कथं दास्यसि सुप्रीतो मामनादृत्य दुर्मते ।
पादेनैकेन भूलोकं द्वितीयेन च खं दिशः ॥ (१७)
क्रमिष्यति न सन्देहो विश्वकायो दुरासदः ।
तार्तीयस्य गतिः कुत्र न तस्माद्देयमन्यथा ॥ (१८)
वक्तव्यं तु त्वया राजन्नात्र दोषो न विद्यते ।
बलिः –
विष्णुश्चेत्पुण्यवानस्मि विप्रो यदि तथैव हि ॥ (१९)
नान्यथा वक्तुमिच्छामि प्रसादं कुरु मे विभो ।
सनत्कुमारः –
शुक्रः क्रुद्ध उवाचेदं शिष्यं धीरं महाबलिम् ॥ (२०)
ततस्त्वमसि दुर्बुद्धे श्रीमदाद्गुरुहेलनात् ।
सद्य एव हि मद्वाक्यादचिराद् भ्रंश्यसे श्रियः ॥ (२१)
इत्युक्त्वा विररामाथ शुक्रो विष्णुप्रभाववित् ।
बलिरुद्युक्तवान्दातुं वामनाय महीं द्विज ॥ (२२)
दत्तवान्विष्णवे भूमिमर्चित्त्वोदकपूर्वकम् ।
तोये तु पतिते हस्ते वामनोऽभूदवामनः ॥ (२३)
एकेन भुवमाक्रम्य द्वितीयेन पदा दिवम् ।
ततश्च वामनो भूत्वा तृतीयमुपकल्पय ॥ (२४)
इत्युक्तो बलिरप्याह शिरसि न्यस्यतां पदम् ।
तस्य मूर्ध्नि पदं न्यस्य ह्यात्मसात्कृत्य तं विभुः ॥ (२५)
उवाच मधुरं वाक्यं प्रहृष्टो बलिमच्युतः ।
वामनः
भो भो वैरोचने त्वं हि भक्तानामग्रणीः मम ॥ (२६)
सुतलं याहि धर्मज्ञ प्रह्लादेन मया सह ।
अहं सदा सन्निहितो दर्शनार्थं तवाऽनघ ॥ (२७)
गदापाणिस्सदा वीर रक्षामि तव पत्तनम् ।
सनत्कुमारः –
इत्यादिश्यामरगणैः ऋषिभिश्च सहेश्वरः ॥ (२८)
नर्मदायाश्शुभजले पुण्ये परमपावने ।
तस्मिन्नवभृथस्नानं चकार सुरसत्तमः ॥ (२९)
ततः प्रह्लादसहितो बलिना चासुरैस्सह ।
सुतलं स्वगिभिः प्रार्थ्य प्रविवेश गदाधरः ॥ (३०)
गदापाणिस्सदा देवस्सान्निध्यं कुरुते हरिः ।
तं पूजयन्महाभागो ह्यसुरो मुदमाप सः ॥ (३१)
सूतः –
अतिचित्रमिदं कुमारमुख्यो
हरिगुणवर्णनतुष्टमानसः ।
हरिचरितमिदं पुनः प्रवक्तुं
ऋषिगणमध्यगतो ह्युपाक्रमत्
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
श्रीवामनाय बलिकृतभूमिप्रदानकथनं नाम
चतुर्थोऽध्यायः
अथ पञ्चमोऽध्यायः
गोमन्तपर्वतं प्रति नारदागमनम्
सनत्कुमारः –
गोमन्ते पर्वते रम्ये पुण्यतीर्थनिषेविते ।
पुण्यद्रुमलताजाले पुण्यामलजलाशये ॥ (१)
पुण्यैर्मुनिगणैर्जुष्टे जुष्टे पुण्यमृगैर्द्विजैः ।
तस्मिन् गिरिवरे कृष्णो बलदेवेन संयुतः ॥ (२)
तत्र तत्र प्रदेशेषु रम्येषूपवनेषु च ।
क्रीडन्नानन्दभरितः परमानन्दमाधवः (३)
अत्रैव वत्स्ये चिरकालमद्भुते
पुण्यैर्द्विजेन्द्रैरभिपूजितोऽहम् ।
देवैश्च नित्यं मुनिभिश्च सात्विकैः
ब्रह्मादिभिश्चापि सनन्दनैर्भुवि ॥ (४)
इति निश्चित्य वैकुण्ठं द्वारकां सूर्यमण्डलम्।
रम्यं विष्णुपदं चापि क्षीराब्धिं सुमनोहरम् ॥ (५)
सर्वमुक्तान्यनुक्तानि क्षेत्राणि च बहूनि च ।
पुण्यानि पुण्यतीर्थानि सर्वं विस्मृतवान् हरिः ॥ (६)
तस्मिन्काले महाभागो लोकतत्त्वविचक्षणः ।
नारदो वरदं द्रष्टुं वैकुण्ठं परमं गतः ॥ (७)
तत्रादृष्ट्वा जगन्नाथं ततो विष्णुपदं गतः ।
तत्राप्यदृष्ट्वा देवेशं मण्डलं भास्करस्य तु ॥ (८)
तत्राप्यदृष्ट्वा क्षीराब्धिं श्वेतद्वीपं गतो मुनिः ।
तत्राप्यदृष्ट्वा दुःखार्तो नारदोभून्महामुनिः ॥ (९)
तदा समीरितां वाणी गगने मेघनिस्वनाम् ।
गोमन्तपर्वते रम्ये क्रीडति स्म हरिर्मुने ॥ (१०)
तत्र द्रक्ष्यसि देवेशं सत्यमेव न संशयः ।
इति प्रघोषितां देवीम् अरूपां श्रुतवान् मुनिः ॥ (११)
श्रुत्वा तु परमानन्दमवाप मुनिसत्तमः ।
तदैव गतवांस्तत्र गोमन्ते पर्वतोऽत्तमे ॥ (१२)
ददर्श यादवश्रेष्ठं कृष्णमत्यद्भुतं हरिम् ।
प्रणिपत्य प्रसन्नात्मा तुष्टाव मधुसूदनम् ॥ (१३)
देव देव नमस्तेऽस्तु जगदीश जगन्मय ।
त्वामहं शरणं यामि प्रपन्नातिहरं हरिम् ॥ (१४)
इति स्तुत्वा मुनिस्तूष्णीं विस्मितोऽभूद्धरिं वरम् ।
तदा हरिस्तु सुग्रीतः प्रोवाच मुनिपुङ्गवम् ॥ (१५)
हरिः –
अत्रैव वसितुमिच्छामि गोमन्तगिरिसानुनि ।
तवागमार्थमेवात्र वैकुण्ठादिस्थलेष्वपि ॥ (१६)
न मया दर्शनं तुभ्यं दत्तं स्वायम्भुवोत्तम ।
श्वेतद्वीपो मुनिश्रेष्ठ किरीटं रत्नभूषितम् ॥ (१७)
क्षीराब्धिश्च महाभाग पुण्यकाननमेव च ।
तेषामागमनेऽप्यत्र कुरूपायं महामते ॥ (१८)
सनत्कुमारः –
तथेति च मुनिर्हृष्टः परिक्रम्य प्रणम्य च ।
घटयामि मम स्वामिन् गतस्सुतलमद्भुतम् ॥ (१९)
बलिना पूजितस्सम्यक् प्रह्लादेन महात्मना ।
उवाच नारदो भक्तं प्रह्लादं सबलिं द्विज ॥ (२०)
नारदः –
धन्यस्त्वमसि लोकेऽस्मिन् पौत्रेण सह सुव्रत ।
यस्माद्धरिगदापाणिः आस्तेऽत्र पुरपालकः ॥ (२१)
बलिः –
धन्योऽस्मि कृतकृत्योऽस्मि देवर्षे तव दर्शनात् ।
कस्मालोकादागतोऽसि किञ्चागमनकारणम् ॥ (२२)
लोकवृत्तञ्च मे ब्रूहि वन्दनं तै करोम्यहम् ।
नारदः –
बहून्लोकान् हि गन्ताहं विष्णुसेवोत्सुको बले ॥ (२३)
क्षीराब्धिं गतवांस्तत्र विष्णुमत्यद्भुताकृतिम् ।
नूपुरैः कटकैः भान्तं कटिसूत्राङ्गुलीयकैः ॥ (२४)
अङ्गदैर्भूषितं रत्नरचितैः पीतवाससम् ।
मुक्ताहारैः हेममयैः मणिभिस्समलङ्कृतम् ॥ (२५)
विनिर्मित-महारत्न-स्फुरन्मकरकुण्डलम् ।
चार्वायतभुजं मन्दस्मितमुन्नतनासिकम् ॥ (२६)
सर्वरत्नसमायुक्तकिरीटवरभूषणम् ।
दृष्ट्वा तं विष्णुमव्यक्तं परमानन्दनिर्वृतः ॥ (२७)
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
तत्किरीटमपि स्मृत्वा मनो याति तदात्मताम् ॥ (२८)
किरीटवरमाहात्म्यं किं वक्ष्यामि महाबले ।
तत्रैव वसितुमिच्छामि गच्छामीति ययौ मुनिः ॥ (२९)
भगवत्किरीटानयनाय बलेः क्षीराब्धिगमनम्
सनत्कुमारः –
बलिः श्रुत्वा मुनेर्वाक्यं किरीटाहरणोत्सुकः ।
ततः प्रह्लादमामन्त्र्य तत्रत्यांश्च सुहृज्जनान् ॥ (३०)
क्षीराब्धिस्थं हरिं दृष्ट्वागच्छामीति त्वरान्वितः ।
इत्युक्त्वामन्त्र्य तान् सर्वान् महाभागवतो महान् ॥ (३१)
सुतलात्स विनिर्गत्य क्षीराब्धिं गतवान्बलिः ।
तत्र दृष्ट्वा महात्मानं देवदेवं वृषाकपिम् ॥ (३२)
नारदोक्तगुणैर्युक्तं नारायणमनामयम् ।
बलिस्तु हृष्टहृदयः स्तोतुं समुपचक्रमे ॥ (३३)
बलिः –
देव देवेश योगेश पुण्यश्रवणकीर्तन ।
भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते ॥ (३४)
परावरगतिज्ञाय नमस्ते कालरूपिणे ।
चतुर्विंशगुणज्ञाय पञ्चविंशात्मने नमः ॥ (३५)
नमः कारणरूपाय परमानन्दमूर्तये ।
भक्ताय मेऽनुरक्ताय दयां कुरु कृपानिधे ॥ (३६)
सनत्कुमारः –
इति स्तुतस्स भगवान् बलिना भक्तवत्सलः ।
उवाच स्मयमानस्तं बलिं भागवतोत्तमम् ॥ (३७)
हरिः –
दास्यामि वाञ्छितं सर्वं त्वया भागवतोत्तम ।
स्तोत्रेणानेन सुप्रीतः त्वद्भक्त्या च विशेषतः ॥ (३८)
बलिः –
देव देव सुरश्रेष्ठ किरीटं रत्नभूषितम् ।
गदाधराय देवेश स्वामिन् मल्लोकवासिने ॥ (३९)
याचे नाथाय नाथस्त्वं लोकनाथ शिखामणे ।
ततः किरीटमादाय दत्त्वा हस्ते महाबलेः ॥ (४०)
प्रेषयामास भगवान् गच्छ गच्छेति सादरम् ।
सनत्कुमारः –
ततः किरीटमादाय त्वरया स विनिर्गतः ॥ (४१)
ततस्तर्क्षसुतो विप्र समीपं गतवान् हरेः ।
सर्वाभरणसंपन्नं किरीटेन विवर्जितम् ॥ (४२)
दृष्ट्वा विस्मयमापन्नः पक्षौ धुन्वन्प्रकोपनः ।
किमिदं किमिदं केन हृतं सर्वे ब्रुवन्तु मे ॥ (४३)
गरुडेन गोमन्तपर्वते श्रीकृष्णाय किरीटसमर्पणम्
इति ब्रुवन्नुत्पपात खं खगेन्द्रस्सवीर्यवान् ।
ऊर्ध्वदेशं ततो गत्वा दिशो दश विलोकयन् ॥ (४४)
विलोक्य दक्षिणामाशां तस्यां दिशि महाद्भुतम् ।
दिव्यं विमानं गच्छन्तं ददर्श गरुडो महान् ॥ (४५)
मनोजवस्तु वेगेन बलेरन्तिकमागमत् ।
तत्र युद्धमभूद्धोरं तुमुलं रोमहर्षणम् ॥ (४६)
जित्वा कथञ्चित्पक्षीन्द्रो ह्यविषह्यं सुरद्विषम् ।
गृहीत्वा रत्ननिचयं किरीटं भास्करोपमम् ॥ (४७)
ददर्श गरुडो मार्गे देवकीनन्दनं हरिम् ।
वसन्तं ऋषिभिस्सार्धं गोमन्ते पर्वतोत्तमे ॥ (४८)
स एव हरिरत्रास्ते यत्र गन्तुं समुद्यतः ।
निश्चित्यैवं हरेः पार्श्वमुपागम्य विहङ्गराट् ॥ (४९)
तस्य मूर्ध्नि निधायाशु किरीटं रत्नभूषितम् ।
इन्द्रनीलसहस्राढ्यं गोमेधिकशताचितम् ॥ (५०)
पद्मरागमहानीलमुक्ताजालविराजितम् ।
पुष्यरागप्रवालाढ्यं दिव्यकाञ्चननिर्मितम् ॥ (५१)
प्रणम्य पादयोः मूर्ध्ना स्तोतुं समुपचक्रमे ।
तथैव पद्मोद्भवविष्णुपार्षदा
देवेन्द्रगन्धर्वसुरा महर्षयः ।
समीहिरे चानकशङ्खसंस्तवैः
प्रसूनवर्षैः ववृषुर्मुदान्विताः ॥ (५२)
ब्रह्मादयस्तु तं दृष्ट्वा किरीटवरभूषितम् ॥ (५३)
पृथक् स्तुवन्ति मुनयः सिद्धविद्याधरादयः
भूलोकभूषणं कृष्णं दयापूर्णं सुरेश्वरम् ॥ (५४)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
गोमन्तं प्रति नारदागमनं नाम पञ्चमोऽध्यायः
अथ षष्ठोऽध्यायः
ब्रह्मकृतविष्णुस्तुतिः
ब्रह्मा –
नमो भगवते श्रीमन् नारायण नमोऽस्तु ते ।
नमोऽस्तु तेऽभिरामाय सत्यानन्दचिदात्मने ॥ (१)
नमो देवादिदेवाय पञ्चाशद्वर्णरूपिणे ।
नमश्शान्ताय दान्ताय नमो रुद्रप्रियाय च ॥ (२)
नमो विद्याधिराजाय हयग्रीवाय ते नमः।
देवानामधिराजाय ज्योतिषां पतये नमः ॥ (३)
नमस्सहस्रहस्ताय सहस्रचरणाय च ।
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख ॥ (४)
अनन्ताय नमस्तुभ्यं नमस्ते शेषशायिने ।
नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः ॥ (५)
नमो मूलप्रकृतये देवानां हितकारिणे ।
नमस्ते वेदगर्भाय ज्योतिषां ज्योतिषे नमः ॥ (६)
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन ।
शङ्खचक्रगदापद्म-किरीटवरधारिणे ॥ (७)
नमोऽस्तु वासुदेवाय नमो रामाय ते नमः ।
नमो नमस्ते देवेश सर्वसम्पत्प्रदायक ॥ (८)
नमः कारणरूपाय कैवल्यपतये नमः ।
यज्ञेशाय नमस्तुभ्यं समस्तक्रतुपालक ॥ (९)
नमो नमः केशवाय नमः कृष्णाय शार्ङ्गिणे ।
गोविन्दाय नमस्तुभ्यं वेधसे परमात्मने ॥ (१०)
नमो नमस्ते नाथाय नमस्ते मधुसूदन ।
त्रिविक्रम नमस्तेऽस्तु वामनाय नमो नमः ॥ (११)
अच्युताय नमस्तुभ्यं नमस्ते सेतुरक्षक ।
जनार्दन नमस्तेऽस्तु पुण्यश्लोकशिखामणे ॥ (१२)
नमो वेदान्तसाराय ब्रह्मादिमुनिसेवित ।
नमो नित्याय शुद्धाय बुद्धाय ज्ञानरूपिणे ॥ (१३)
नमो मुक्ताय सत्याय परमानन्दमूर्तये ।
नमो योगरहस्याय सहस्रज्योतिषे नमः ॥ (१४)
सनत्कुमारः –
इति स्तुत्वा हरिं ब्रह्मा तूष्णीमासीत् द्विजोत्तम ।
अतिगुह्यतमं दिव्यं रहस्यमतिदुर्लभम् ॥ (१५)
सर्वबाधापहरणं सर्वविद्याफलप्रदम् ।
अभीष्टफलदं पुण्यं सर्वलोकैकवश्यकम् ॥ (१६)
विज्ञानदं सदा नृणां शृण्वतां पठतां सदा ।
गुरोस्सकाशात्सङ्गृह्य स्तोत्रमेतत्पठेद्विजः ॥ (१७)
एवं रुद्रादयस्सर्वे गन्धर्वा मुनयोऽमलाः ।
पृथक् स्तुत्वा जगन्नाथं मुदमापुः सुरादयः ॥ (१८)
ततः प्रहृष्टो गरुडः उस्थितस्सन्निधौ हरेः ।
प्राञ्जलिः प्रयतो भूत्वा स्तोतुं समुपचक्रमे ॥ (१९)
गरुडः –
नमो नमः कारणपूरुषाय
नारायणायाखिलपूरुषाय ।
सुरारिसंमारणकारणाय
शेषासनायाखिलकर्मसाक्षिणे ॥ (२०)
तं त्वां यदोर्वशकरं सुरेशं
जानेऽवतीर्णं भुवने वृषाकपिम् ।
अहं हि भृत्यस्तव वैनतेयः
ब्रूहि प्रियं किं करवाणि देव ॥ (२१)
गरुडेन श्वेतमृत्तिकाद्याहरणम्
श्रीभगवान् –
अत्रैव वस्तुमिच्छामि भक्तसङ्घसमावृते ।
देशे सुपुण्ये गोमन्तप्रान्ते द्विजवरोत्तम ॥ (२२)
तस्मादानीयतां क्षिप्रं गत्वा तु क्षीरसागरम् ।
क्षीरसागरतीर्थं च मम प्रीतिकरं शुभम् ॥ (२३)
श्वेतद्वीपमृदं चैव कल्पपादपसञ्चयान् ।
एतान् सर्वान् समादाय द्रुतमागच्छ मत्प्रियान् ॥ (२४)
सनत्कुमारः –
इत्युक्तस्सर्वदेवानामृषीणां चापि शृण्वताम् ।
ततो विराट् समुत्थाय सर्वमानीतवान् द्विज ॥ (२५)
ततो मुनिगणा हृष्टा ऊचुः परमधार्मिकाः ।
क्षीरसागरसम्मिश्रश्वेतमृत्पादपा हरे ॥ (२६)
किमर्थं ते समानीता ब्रूहि तत्कारणं विभो ।
अस्माभिः करणीयं किं तैस्सर्वगुणभूषण ॥ (२७)
भगवान्परिपृष्टस्तैः उवाचातिप्रसन्नधीः ।
इतः परन्तु हे विप्रा गोमन्तो गिरिसत्तमः ॥ (२८)
यादवाद्रिरिति ख्यातो भविष्यति न संशयः ।
क्षीराब्धितीर्थोऽतिमहान् कल्याणीति महत्सरः ॥ (२९)
भविष्यति महापुण्या महापुण्यप्रदायिनी ।
एतेषामाश्रितास्सौम्यच्छायां क्षीराब्धिभूरुहाम् ॥ (३०)
ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
विप्रा मन्त्रविदो युक्ताः करिष्यन्ति तपो महत् ॥ (३१)
ऋषीन् प्रति भगवता श्वेतमृत्तिकादिमाहात्म्यकथनम्
धर्मार्थकाममोक्षांश्च प्राप्नुवन्ति न संशयः ।
महिमानं मृदो विप्राः प्रवक्ष्यामि तपोधनाः ॥ (३२)
शृणुध्वमृषयस्सर्वे देवदैत्यादयोऽमलाः ।
कलौ तु विप्राः पापिष्ठे सर्वधर्मविवर्जिते ॥ (३३)
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्चैवान्यजातयः ।
देवासुरादयो वापि ब्रह्मरुद्रपुरस्सराः ॥ (३४)
सर्वे स्नात्वा तु विधिवत्कल्याण्यास्तु शुभे जले ।
पुंड्रं श्वेतमृदा धृत्वा धृत्वा पद्माक्षमालिकाम् ॥ (३५)
तुलसीकासंभूतमणिमालां मनोरमाम् ।
तां च धृत्वा कण्ठपूर्णां शुद्धान्तःकरणामलाः ॥ (३६)
प्रणम्य श्रद्धया विप्राः प्रसादोन्मुखमीश्वरम्।
सन्तं ह्यर्चास्वरूपेण मां प्रसन्नमुखांबुजम्॥ (३७)
अनायासेन मुक्ताश्च भविष्यन्ति न संशयः।
श्वेतमृद्धारणेनैव यत्र कुत्र स्थिता द्विजाः ॥ (३८)
मुक्ता एव न सन्देहो ह्यशक्ता दर्शने मम ।
ब्रह्मरुद्रद्विजश्श्रेष्ठाः मम हार्द्रसुखावहम् ॥ (३९)
शृणुध्वं हि महाभागाः सत्यमेव ब्रवीम्यहम्।
अत्रैव निवसिष्यामि ह्यर्चारूपेण देवताः ॥ (४०)
यूयमत्रैव सान्निध्यं कुरुध्वं यादवे गिरौ ।
इत्युक्त्वा स हरिस्तूष्णीं सर्वदेवर्षिसन्निधौ ॥ (४१)
अर्चाविग्रहरूपेण स्थितः पर्वतसानुनि ।
अतिमानुषरूपेण श्रीकृष्णो द्वारकां गतः ॥ (४२)
तदा ब्रह्मादयस्सर्वे परमानन्दनिर्वृताः ।
चक्रुः कुतूहलं ब्रह्मन् कर्तुमुत्सवमुत्सुकाः ॥ (४३)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादगिरिमाहात्म्ये
ब्रह्मकृतविष्णस्तुत्यादिकथनं नाम षष्ठोऽध्यायः
अथ सप्तमोऽध्यायः
पुरनिर्माण–गङ्गाद्यानयनपूर्वक–ब्रह्मकृतभगवन्महोत्सवः
सनत्कुमारः –
ब्रह्मा तु विश्वकर्माणम् आहूय द्विजपुङ्गव ।
द्रुतमाज्ञापयामास कुरु मन्दिरमद्भुतम् ॥ (१)
प्रासादगीपुरवरं कृष्णप्रीतिकरं शुभम् ।
तदाज्ञां शिरसा कृत्वा विश्वकर्मा महामतिः ॥ (२)
कर्तव्यं श्रद्धया भक्त्या मया सन्तुष्टचेतसा ।
इति निश्चित्य कृतवान् मन्दिरं ह्यद्भुतं महत् ॥ (३)
प्राकारगोपुरं रम्यं ध्वजतोरणशोभितम् ।
विमानं चाद्भुताकारं दिव्यकाञ्चननिर्मितम् ॥ (४)
सर्वरत्नसमायुक्तं मुक्ताजालसुभूषितम् ।
मण्डपानि विचित्राणि हेमस्तंभयुतानि च ॥ (५)
श्रीमद्वज्रकवाटानि वज्रसोपानवन्ति च ।
वाहनानि विचित्राणि हेमरत्नमयानि च ॥ (६)
कृतवान्मन्दिरं दिव्यं क्षणादेव द्विजीतम ।
विश्वकर्मा –
ब्रह्मन्मम च सर्वस्वम् अत्र कार्त्स्न्येन दर्शितम् ॥ (७)
यथेष्टं क्रियतां ब्रह्मन् उत्सवः श्रीहरेर्मुदा ।
सनत्कुमारः –
ब्रह्मा देवगणैस्सार्धं मुनिसङ्घसमावृतः ॥ (८)
ब्राह्मणैः क्षत्रियैर्वेश्यैः शूद्रैस्सद्भिस्समावृतः ।
तदा चतुर्मुखो विप्र गङ्गां पादोदकां हरेः ॥ (९)
विरजातीर्थसंमिश्रां स्मृतवान् लोकपावनीम् ।
पुरा त्रिविक्रमो देवः दिवमाक्रान्तवान् यदा ॥ (१०)
तदा पादाग्रनिर्भिन्ना दण्डाद्बहिरवस्थिता ।
विरजान्तः प्रविष्टा सा कृपया लोकपावनी ॥ (११)
हिमाद्रिकन्या गङ्गेति विधातुः कुण्डिके स्थिता ।
दुष्करं सा तपः कृत्वा ह्यापगा रूपमाश्रिता ॥ (१२)
पूर्वमेवं गता ब्रह्मलोकं सा लोकपावनी ।
त्रिविक्रमपदं दृष्ट्वा खलोके तु पितामहः ॥ (१३)
गङ्गादितीर्थपात्रे तु ह्यादाय विरजाजलम् ।
प्रक्षाल्य विधिवत्पादं त्रिविक्रमहरेर्मुदा ॥ (१४)
मुमोद सुभृशं प्रीतः कमण्डलुगता च या ।
नदीरूपा हरेः पादशौचाद्याभूत्सरिद्दिवः ॥ (१५)
इदानीं स्मृतवांस्तां वा उत्सवार्थं पितामहः ।
स्वर्धुन्याविर्बभूवाथ गोमन्तोत्तरपार्श्वके ॥ (१६)
दृश्यतेऽद्यापि सा गङ्गा धारारूपेण वै द्विज ।
तदा तु मुनयस्सर्वे ब्रह्मलोकनिवासिनः ॥ (१७)
गङ्गाजले निमज्जन्तो ब्रह्मलोकगते शुभे ।
यादवाद्रिस्थगङ्गायाम् उन्मज्जन्तो मुनीश्वराः ॥ (१८)
गङ्गया चाभ्यषिञ्चन्तः विरजातीर्थमिश्रया ।
सुकुमारं तु सुस्नाताः स्वयं शुभजले द्विजाः ॥ (१९)
ब्रह्मापि चोत्सवं कर्तुं चिन्तयामास स हिजैः ।
विना विमानं दिव्यन्तु प्रधानं किं करोम्यहम् ॥ (२०)
तदाऽब्रवीन्नभोवाणी मेघगम्भीरनिस्वना ।
चिन्तां मा कुरु देवेश आगमिष्यति पद्मज ॥ (२१)
वैकुण्ठाद्भूतले दिव्यं विमानं महदद्भुतम् ।
उक्तमाकर्ण्य देव्या तु उन्मुखस्सोऽवलोकयत् ॥ (२२)
ददर्श दिवि देवेशो विद्युत्पुञ्जनिभं महत् ।
सहस्रार्कप्रतीकाशं दिव्यरत्नविभूषितम् ॥ (२३)
तत्क्षणात्स ददर्शाऽथ सुनन्दकुमुदान्विधिः ।
उवाह तर्क्षपुत्रस्तु विमानं महदद्भुतम् ॥ (२४)
श्वेतातपत्रं शेषस्तु दधार परया मुदा ।
वीजाते पार्श्वतो विप्र चन्द्रसूर्यौ तु चामरे ॥ (२५)
दिव्यं विमानं तद्दृष्ट्वा तद्रूपञ्च महर्धिमत् ।
संभ्रमाविष्टहृदयो हृष्टः पुष्टः प्रजापतिः ॥ (२६)
ननाम शिरसा भूमौ नमो नम इति ब्रुवन् ।
पुनः पुनः प्रणम्याऽथ ब्रह्मा पूर्णमनोरथः ॥ (२७)
दिव्ये मुहूर्ते धर्मात्मा स्थापयामास तन्महत् ।
तदा दुन्दुभयो नेदुः तुष्टुवुस्सिद्धचारणाः ॥ (२८)
ववृषुः पुष्पवर्षाणि सर्वे मुमुदिरे जनाः ।
अहो ब्रह्मविमानं तत् अहो यादवभूधरः ॥ (२९)
अहोऽतिसुकुमारोऽसौ देवो नारायणः प्रभुः ।
अहो नारायणक्षेत्रं कल्याण्याश्च शुभोदकम् ॥ (३०)
अहो गङ्गा महापुण्या कल्पभूरुह एव च ।
इति कोलाहलश्शब्दो देवमानवघोषितः ॥ (३१)
अभूत्त्रयाणां लोकानां मङ्गलं समभूत्ततः ।
ततस्तुष्टो द्विजश्रेष्ठ ब्रह्मा देवद्विजैर्वृतः ॥ (३२)
फाल्गुनस्यामले पक्षे नवम्यामथ कर्कटे ।
आरभन्नुत्सवं ब्रह्मा दशरात्रं समागताः ॥ (३३)
ब्रह्मघोषैः घोषयन्तः पुराणैः प्राकृतैरपि ।
कृत्वा दशदिनं धीरा महोत्सवमहो बुधाः ॥ (३४)
श्वेतमृद्धारिणस्सर्वे सर्वे पद्माक्षमालिनः ।
तुलसीकाष्ठसंभूतमालाभिश्च सुभूषिताः ॥ (३५)
शुभवस्त्राश्शुभाचाराः शुद्धान्तःकरणा द्विजाः ।
सर्वेष्ववभृथं चक्रुः कल्याण्यास्तु शुभे जले ॥ (३६)
सुप्रसन्नोऽथ भगवान् सर्वान् देवान् द्विजोत्तमान् ।
भगवान् –
गमिष्यथ महाभागा ब्रह्मरुद्रेन्द्रदेवताः॥ (३७)
प्रतिवर्षोत्सवार्थन्तु आगमिष्यथ सुव्रताः ।
सनत्कुमारः –
तथेति जग्मुस्ते सर्वे देवास्साग्निपुरोगमाः ॥ (३८)
ब्रह्माणमग्रतः कृत्वा सभवं स्वं स्वमालयम् ।
एवं गतेषु सर्वेषु बलिश्चलितमानसः ॥ (३९)
गन्तुं नैच्छत विप्रेन्द्र सकाशादद्भुताकृतेः ।
किरीटिनो हरेर्विप्र सर्वाभरणभूषितात् ॥ (४०)
तदा नारायणो देवो बलिमाहातिविस्मितः ।
भगवान् –
बले गच्छ महाभाग सुतलं स्वर्गिवांच्छितम् ॥ (४१)
किरीटिनं सदा मां हि तत्र पश्यसि सन्मते ।
प्रह्लादो मेऽतिदयितो महाभागवतोऽसुर ॥ (४२)
तेन मां भज भृत्यैश्च पुत्रपौत्रादिमिर्वृतः ।
लसच्छ्वेतोर्ध्वपुण्ड्रा वै वैष्णवा मोक्षभागिनः ॥ (४३)
त्वमपि श्रद्धया भक्त्या धृत्वा श्वेतमृदं शुभाम् ।
गच्छागच्छ महाभाग ह्युत्सुकः प्रतिवत्सरम् ॥ (४४)
सनत्कुमारः –
इत्युक्त्वा प्रेषयामास हरिस्सर्वगुहाशयः ।
बलिभंगवता विन कथंचिद्विनिवर्तितः ॥ (४५)
बलिश्चाऽपि गतश्श्रीमान् तत्रापि च किरीटिनम् ।
दृष्ट्वाऽतिहर्षाद्विप्रेन्द्र मुतले न्यवसत्सुखम् ॥ (४६)
करवीरपुरं विप्र नारायणपदाश्रयात् ।
नारायणपुरं ख्यातं भविष्यति न संशयः ॥ (४७)
अहो तीर्थस्य माहात्म्यं कल्याण्या भूधरस्य च ।
श्वेतद्वीपमृदश्चैव पादपानाञ्च वैभवम् ॥ (४८)
विप्रवर्य गमिष्यामस्तत्रैव निवसामहे ।
अहो देवर्षयो धन्या अहो बलिरहो महान् ॥ (४९)
शौनकः –
इतीव चित्रं हरिचेष्टितं भुवि
श्रुत्वातिहृद्यं खलु दीप्तिमान्महान् ।
ततः किमन्यत्तमपृच्छदग्रणीः
कुमारमुख्यं सुमहाप्रभावम् ॥ (५०)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
पुरनिर्माणगङ्गाद्यानयनपूर्वक–ब्रह्मकृतभगवन्महोत्सवो नाम
सप्तमोऽध्यायः
अथ अष्टमोऽध्यायः
पिप्पलादोऽपाख्यानपूर्वकं कल्याणीतीर्थ-वैभवकथनम्
सूतः –
श्रुत्वा सनत्कुमारोक्तं हरेश्चरितमद्भुतम् ।
पुनः पप्रच्छ संहृष्टो दीप्तिमान् ब्रह्मपुत्रकम् ॥ (१)
दीप्तिमान् –
सनत्कुमार सर्वज्ञ न तृप्यति मनो मम ।
यादवाद्रेः प्रभावं तु शृण्वतश्श्रद्धया गुरौ ॥ (२)
कल्याणीति कथं जातं क्षीरकुण्डं दयानिधे ।
हरिर्नृसिंहरूपेण किमर्थं तत्र तिष्ठति ॥ (३)
कति तीर्थानि तिष्ठन्ति किमन्यद्वैभवं मुने ।
तत्र सर्वं च मे ब्रूहि दयालुं त्वां नमाम्यहम् ॥ (४)
सूतः –
इति पुत्रस्स आपृष्टो ब्रह्मणो ब्रह्मवित्तमः ।
प्रत्याह तं प्रीतमनाः कुमारस्तीर्थवैभवम् ॥ (५)
सनत्कुमारः –
कल्याणीति यथा जातः श्रीमान् क्षीरसरोवरः ।
तद्रहस्यमपि ब्रूहि शृणु ते श्रद्धया द्विज ॥ (६)
पिप्पलादो महाभागो भृगुवंश्यस्तपोधनः ।
हिमाद्रेरुत्तरे भागे पुष्पभद्रानदीतटे ॥ (७)
अयुतायुतवर्षाणि तपः कुर्वन् स आस्थितः ।
बहुशिष्यो ब्रह्मविद्यापूर्णः पूर्णमनोरथः ॥ (८)
तस्य प्रसन्नो भगवान् शङ्खचक्रधरो हरिः ।
तं दृष्ट्वा मेघसङ्काशं गरुडोपरि संस्थितम् ॥ (९)
पिप्पलादस्तु संहृष्टः सहसोत्थाय दण्डवत् ।
प्रणिपत्याह धन्योऽस्मि कृतकृत्योऽस्मि सांप्रतम् ॥ (१०)
प्रपन्नो यदि मे देव मुक्तिर्मे संप्रदीयताम् ।
भगवान् –
पिप्पलाद महाभाग भृगुवंशविवर्धन ॥ (११)
इतः परं त्वं कल्याण इति ख्यातो भविष्यसि ।
अस्ति दक्षिणदिग्भागे यादवाद्रिर्द्रुमाकुलः ॥ (१२)
प्रख्यातस्त्रिषु लोकेषु महर्षिगणसेवितः ।
अस्ति क्षीरसरो नाम तन्मूले निर्मलोदकम् ॥ (१३)
अनेकमुनिभिर्जुष्टं देवगन्धर्वसेवितम् ।
तत्र गच्छ महाभाग सच्छिष्यगणसंवृतः ॥ (१४)
तत्रापि द्रक्ष्यसे मां तु बहुभक्तसमावृतम् ।
स्नात्वा सरोवरजले नित्यमर्चय मां जि ॥ (१५)
कालेनाल्पेन विप्रर्षे मुक्तिं दास्यामि नान्यथा ।
सङ्गात् क्षीरसरश्चापि तव कल्याण नित्यदा ॥ (१६)
कल्याणीति समाख्याता भविष्यति न संशयः ।
सनत्कुमारः –
इत्युक्त्वान्तर्दधे विष्णुस्सोपि तत्र द्रुतं ययौ ॥ (१७)
शिष्यैः परिवृतो गत्वा स्नात्वा तत्र सरोवरे ।
श्वेतमृत्तिकया चोर्ध्वपुंडूं धृत्वा सशिष्यका ॥ (१८)
द्वादशाङ्गेषु मेधावी शुचिः पद्माक्षमालया ।
तुलसीकाष्ठसंभूतमालाभिः सुविभूषितः ॥ (१९)
अर्चयामास देवेशं नित्यं विष्णुजनप्रियः ।
सुकुमारमभिख्यातं विष्णु भक्तजनप्रियम् ॥ (२०)
एवं बहुतिथं काले तत्रैव न्यवसत्सुखम् ।
कल्याणगुणशीलत्वात् कल्याणमुनिसंश्रयात् ॥ (२१)
कल्याणीति च विख्याता ह्यासीत्क्षीरसरोवरः ।
तदा प्रभृति विप्रेन्द्र कल्याणोऽपि यथाश्रुतः ॥ (२२)
अपि मुक्तिमनादृत्य कल्याण्या तीरमाश्रितः ।
पुण्यं नारायणक्षेत्रं गन्तव्यं वैष्णवैर्द्विजैः ॥ (२३)
शुभे जले च कल्याण्याः स्नातव्यं मुक्तिदं द्विज ।
सुकुमारस्सेवनीयो वैष्णवैः भक्तिसंयुतैः ॥ (२४)
एकरात्रोषितो मर्त्यः क्षेत्रे नारायणाह्वये ।
मुक्त्वा शुभाऽशुभे याति तद्विष्णोः परमं पदम् ॥ (२५)
महापुण्यप्रदे क्षेत्रे किं भूयो नित्यवासिनाम् ।
अशक्तः कीर्तयेत्क्षेत्रं कल्याणीति च कीर्तयेत् ॥ (२६)
तस्यास्तीरे तु कल्याण्याः पुण्यवृक्षोऽतिविस्तरः ।
पिप्पलो नाम वृक्षेन्द्रः श्वेतद्वीपस्थितः पुरा ॥ (२७)
गन्धच्छदोऽस्ति सुच्छायो देवगन्धर्वसेवितः ।
तं दृष्ट्वा मुच्यते पापैः स्पृष्ट्वा लक्ष्मीमवाप्नुयात् ॥ (२८)
ज्ञानवान् स्यात्तदाश्लिष्य विद्यावांस्तु प्रदक्षिणात् ।
तच्छायायां कृतं होमं दानमर्चनमेव च ॥ (२९)
पितॄणां पिण्डदानं च महदक्षयमुच्यते ।
कल्याणस्तु सदा तत्रैवास्ते मुनिकुलाग्रणीः ॥ (३०)
चण्डः प्रचण्डोऽथ जयो विजयो विष्णुपार्षदाः ।
पुण्यशीला महाभागाः तीर्थं रक्षन्ति सर्वदा ॥ (३१)
कृष्णो देव इति प्रोक्तो देवता तु प्रशस्यते ॥
गणनाथं नमस्कृत्य स्नात्वाचम्य यथाविधि ॥ (३२)
कीर्तयित्वा तु कृष्णं तं मन्त्रमेतमुदाहरेत् ।
अशेषजगदाधार शङ्खचक्रगदाधर ॥ (३३)
अनुज्ञां देहि मे देव युष्मत्तीर्थनिषेवणे ।
इत्युक्त्वा मूलमन्त्रेण सूक्तेन पुरुषस्य वा ॥ (३४)
स्नात्वा सन्तर्पयेत्कृष्णम् ऋषिं कल्याणनामकम् ।
गणनाथं च चण्डादींस्तर्पयेत् तीर्थपालकान् ॥ (३५)
दद्याच्च शक्तितो दानं सर्वपापापनुत्तये ।
तिलधेनुगुडाज्यानि धान्यवासोऽन्नकम्बलान् ॥ (३६)
तिलदानं विशेषेण तस्मिन् क्षेत्रे प्रशस्यते ।
वक्तुं तीर्थस्य माहात्म्यं को वा शक्नोति भूतले ॥ (३७)
संक्षेपेण मया प्रोक्तं तीर्थवैभवमद्भुतम् ।
किं वक्ष्यामि महाभाग दीप्तिमंस्तीर्थवैभवम् ॥ (३८)
कल्याणीसरसः स्नानात् को वा पुण्यमिहेच्छति ।
दुश्शीलो दुर्भगो मूढः कदर्यो दुर्मतिर्द्विजः ॥ (३९)
मूखोपि पुत्रकैर्भृत्यैः यज्जलस्पर्शमात्रतः ।
विशुद्धकरणश्शान्तो हरेः पादमवाप सः ॥ (४०)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
पिप्पलादोपाख्यानपूर्वकं कल्याणीतीर्थ–वैभवकथनं नाम अष्टमोऽध्यायः
अथ नवमोऽध्यायः
सत्यकामोपाख्यानम्
दीप्तिमान् –
आश्चर्यमेतच्छ्रोतव्यं पुण्यतीर्थस्य वैभवम् ।
यज्जलस्पर्शमात्रेण मुक्तो मूखोऽपि स द्विजः ॥ (१)
द्विजः को वाथ कुत्रत्यः कस्य पुत्रोऽस्य नाम किम् ।
कीदृशी तस्य भार्या वा कति पुत्राश्च पापिनः ॥ (२)
ब्रूहि तच्चरितं मह्यं स्वायंभुवगुरो मुने ।
सनत्कुमारः –
अग्रहारो महानासीन् नाम्ना कन्यापुरं स्मृतम् ॥ (३)
पुण्ये सारस्वते देशे ब्राह्मणैर्बहुभिर्वृतः ।
तस्मिन् ग्रामे तु धर्मात्मा सत्यव्रत इति श्रुतः ॥ (४)
तस्य भार्या विशालाक्षी गौतमी लोकविश्रुता ।
तया सहाचरत् धर्मान् गृहिणां निगमोदितान् ॥ (५)
खधर्माचरणाद्विप्रः प्राप्तवांश्च धनं बहु ।
सत्यव्रतो महाभागो देवब्राह्मणपूजकः ॥ (६)
तस्यासीत्तनुजो नाम्ना सत्यकाम इति श्रुतः ।
स तु स्वभावादारभ्य दुश्शीलोऽह्यजितेन्द्रियः ॥ (७)
उपकुर्वन् हि योग्यानि कर्माणि सुखवन्ति च ।
तस्यापि ग्राहयामास दुर्विनीतस्य स द्विजः ॥ (८)
विवाहं कारयामास कुलवृद्धीच्छया द्विजः ।
स्नुषा परमकल्याणी पतिव्रतपरायणा ॥ (९)
नाम्ना कुमुद्वती देवी कुलधर्मपरायणा ।
दुश्शीलं शमितुं शक्तो नाभूत् सत्यव्रतो महान् ॥ (१०)
भार्यया सह धर्मात्मा वनमेव जगाम ह ।
सत्यकामस्तु दुष्टात्मा धर्मकामविवर्जितः ॥ (११)
पितरि प्रस्थिते तस्मिन् ग्राम एव स्वभार्यया ।
पुत्रषट्कैर्द्विजश्रेष्ठ भृत्यैर्बहुभिरावृतः ॥ (१२)
वार्तावृत्तिः कदर्यश्च मत्तो ह्याढ्यतमश्श्रिया ।
लुब्धः कामी च दुर्बुद्धिः धर्मश्रवणवर्जितः ॥ (१३)
धर्मज्ञावमतोत्साहः दुराचारोऽतिकोपनः ।
दुश्शीलस्यास्य दुर्बुद्धेः द्रुह्यन्ते पुत्रबान्धवाः ॥ (१४)
दाराः पुत्राश्च भृत्याश्च ब्राह्मणा ह्यन्यलिप्सवः ।
देवाश्च यज्ञभोक्तारो वाङ्मात्रेणाप्यनर्चिताः ॥ (१५)
पतिव्रता पतिं प्राह धर्ममेव कुमुद्वती ।
कुमुद्वती –
भर्तः पिता ते धर्मात्मा सर्वधर्मविदां वरः ॥ (१६)
असंख्येयधनं कीर्तिं प्राप्तवांश्च स्वधर्मतः ।
त्वमपि श्रद्धया भर्तस्सर्वधर्मपरो भव ॥ (१७)
धर्मे नष्टेऽखिलं नष्टं भवत्येव धनादिकम् ।
तस्मात्सर्वात्मना धर्मं चर संपद्विवृद्धये ॥ (१८)
अग्न्यर्कातिथि-गो-विप्र-पितृ-देवार्चनं तथा ।
सनत्कुमारः –
बहुमानं सतां चापि धनकीर्तिविवर्धनम् ॥ (१९)
एवमुक्तोऽथ दुर्बुद्धिस्सत्या पुत्रैश्च कोपनः ।
वाक्छरैस्ताडयामास धनलोभेन पुत्रकान् ॥ (२०)
एवं निर्भर्त्स्य दुष्टात्मा पीडयामास बान्धवान् ।
शून्यावसथ आत्मापि काले कामैरनर्चितः ॥ (२१)
धर्मकामविहीनोऽयमिति मत्वा तु बान्धवाः ।
विषण्णा नाचरन्प्रीतिं किं कुर्म इति चावसन् ॥ (२२)
एकदा नारदोऽभ्यागाद् गृहं तस्य दुरात्मनः ।
कृपालुः कृपणं मत्वा सुखं बोधयितुं च तम् ॥ (२३)
स तु विस्मित उत्थाय मत्वा तं नारदं मुनिम् ।
निष्प्रतिग्रहमद्वन्द्वं निरपेक्षं धनादिषु ॥ (२४)
इति मत्वा ननामाथ किमागमनकारणम् ।
ब्रूहि मे मुनिशार्दूल वन्दनं ते करोम्यहम् ॥ (२५)
नारदः –
शृणु विप्र प्रवक्ष्यामि विप्रैः कर्तव्यमेव हि ।
धनं च धर्मैकफलं यतो ज्ञानमवाप्नुयात् ॥ (२६)
धनवान् धर्ममाप्नोति धर्मान्मुक्तिमवाप्नुयात् ।
सत्यव्रतसुतस्त्वं हि धनवान् बुद्धिमान् भव ॥ (२७)
पित्रा पितामहेनापि लब्धं बहुधनं द्विज ।
धर्मेणैव कुलं श्रेष्ठं तस्माद्धर्मं समाचर ॥ (२८)
देवद्विजगवां पूजा भूतेषु परमा दया ।
यस्माद्धरिर्न तुष्येत्तु तत्सर्वं व्यर्थमेव हि ॥ (२९)
धर्मे नष्टे धनं नष्टं भवत्येव न संशयः ।
इत्युक्तस्स खलः पापस्सत्यकामस्स दुर्मतिः ॥ (३०)
सत्यकामः –
भो भो नारद जानामि धर्मान्विष्णुप्रसादकान् ।
धनक्षयकरो धर्मो न कर्तव्यस्त्वया मुने ॥ (३१)
न कर्तव्यं न कर्तव्यं मम प्राणहरं वचः ।
स्वभावोऽयं ब्राह्मणानां उपदेशो धनक्षयः ॥ (३२)
भवत्येव न सन्देहो गच्छ गच्छ महामुने ।
इत्युक्त्वा गच्छ गच्छेति नारदं प्राह दुर्मतिः ॥ (३३)
यदा विप्रकृतो विप्र देवर्षिः विस्मितोऽब्रवीत् ।
धनकामेष्वसङ्ग्रहः पुंसां यन्मायया कृतः ॥ (३४)
विमोहितधियां दृष्टः तस्मै भगवते नमः ।
सनत्कुमारः –
इत्युक्त्वा प्रययौ देवमुनिः कारुण्यमेत्तवान् ॥ (३५)
धर्मकामविहीनस्य मूढस्य धनकामिनः ।
किञ्चिज्जगृहुश्चोराः किञ्चित् ज्ञातय एव च ॥ (३६)
दग्धं चैवाग्निना किञ्चिद्राज्ञा किञ्चित्तथैव हि ।
एवं नष्टं धनं सर्वं ब्रह्मबन्धोर्दुरात्मनः ॥ (३७)
स एवं द्रविणे नष्टे चिन्तामाप दुरत्ययाम् ।
अहो कष्टं धनं नष्टं किं करोमीति चाब्रवीत् ॥ (३८)
बन्धुभिश्च परित्यक्तो भार्यया चापि पुत्रकैः ।
यदा चोपेक्षितस्सद्भिर्मन्तुं स उपचक्रमे ॥ (३९)
तदा महाकारुणिको महामुनिः
महानुभावो दयया सुविस्मितः ।
हरेरनन्तस्य हि मायया वृतं
संबोधितुं चाविरभूत्तदेव हि ॥ (४०)
सत्यकामस्तु तं दृष्ट्वा संबोधयितुमागतम् ।
सत्यकामः –
कस्त्वं विप्र किमर्थं मां निर्धनं दुःखयस्यलम् ॥ (४१)
किमागमनकार्यं ते बन्धुभिस्त्याजितोस्म्यहम् ।
येषां श्रियो विवृध्यर्थं धनं सञ्चितवानहम् ॥ (४२)
तैरहं त्याजितो मूढः पुण्यलेशविवर्जितः ।
किं करोमि क्व गच्छामि ब्रह्महेव मृतश्श्वसन् ॥ (४३)
पुरापि नारदेनोक्तं नागृहीषमसत्तमः ।
कामं चरन्त्यवनौ ब्राह्मणा भगवत्प्रियाः ॥ (४४)
कृपार्द्रनयनाश्शान्ताः विष्णुपादाश्रयाश्शुभाः ।
बोधाय ग्राम्यबुद्धीनां मादृशां विगतसस्पृहाः ॥ (४५)
ऋभुः कुमारो देवर्षिः अङ्गिरा देवलादयः ।
अन्ये च बहवो भक्ताः चरन्ति ज्ञानहेतवः ॥ (४६)
यदिह्येकस्तेषु मध्ये मम ज्ञानमुदीर्यताम् ।
सनत्कुमारः –
सत्यव्रतस्य पुत्रेण दीक्षितस्य हरेर्मुने ॥ (४७)
पादाश्रये तदीयानामेवमुक्तस्स नारदः ।
बोधयेतमितीवाशु निश्चित्य प्राह विस्मितः ॥ (४८)
नारदः –
नारदोऽहमिह प्राप्तो दुःखान्मोचयितुं द्विज ।
इत्थं त्वां धनलोभेन मग्नं तमसि दुस्तरे ॥ (४९)
अतदर्हमनुस्मृत्य महापुरुषगोचरम् ।
अनुग्रहाय भवतः प्राप्तोऽहं ब्रह्मनन्दनः ॥ (५०)
तदैव त्वं मयोक्तं तु श्रुतवान्नहि मोहितः ।
धनिनामधुना तापो भवतैवानुभूयते ॥ (५१)
एवं रायश्च दाराश्च गृहाश्च सपरिच्छदाः ।
शब्दादयश्च विषयाश्चला राजविभूतयः ॥ (५२)
अयं हि देहिनो द्रव्यज्ञानदेहक्रियात्मनः ।
आत्मनो विविधक्लेशसन्तापकृदुदाहृतः ॥ (५३)
तस्माच्छुद्धेन मनसा विमृश्य मतिमात्मनः ।
देहेऽध्रुवार्थे विस्रंभं त्यजोपशममाविश ॥ (५४)
सत्यकामः –
त्वत्पादपद्मयोरेव करोम्यात्मनिवेदनम् ।
गुरो ब्रूहि मम ज्ञानं वैतृष्ण्यं च दयानिधे ॥ (५५)
विज्ञानं तत्त्वमार्गांश्च चेतनाऽचेतनात्मकान् ।
सनत्कुमारः –
एवं मुनिवरः पृष्टस्तुष्टो हृष्टं द्विजं मुने ॥ (५६)
कृपया प्राह मुनिराट् जीवेश्वरगतिं यथा ।
अचेतनस्वरूपं च वैराग्यं च महामुनिः ॥ (५७)
नारदः –
शृणु वत्स प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ।
स्वरूपं तत्त्वतो वक्ष्ये सावधानमनाश्शृणु ॥ (३८)
पुरा नारायणो देवः पूर्वसृष्टं स्वमायया ।
संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ (३९)
एक एवावशिष्टस्तु सर्वशेषीति कथ्यते ।
अनिर्विण्णो निशान्ते स स्रष्टुं समुपचक्रमे ॥ (४०)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
सत्यकामोपाख्यानं नाम नवमोऽध्यायः
अथ दशमोऽध्यायः
जगत्सृष्ट्यादिक्रमः
नारदः –
विष्णुप्रधानपुरुषः सत्यसङ्कल्प ईश्वरः ।
कालेन क्षोभयामास प्रकृतिं त्रिगुणात्मिकाम् ॥ (१)
सत्वं रजस्तम इति प्रकृतेरभवन्गुणाः ।
तेभ्यस्समभवत्सूत्रं महत्तत्वं हिरण्मयम् ॥ (२)
महत्तत्वादहङ्कारः क्रियाशक्तिरजायत ।
वैकारिकतैजसश्च तामसश्चेत्यहं त्रिधा ॥ (३)
वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत ।
देवाश्च जज्ञिरे तस्माद्दश वैकारिकाश्च ये ॥ (४)
तैजसाक्षुभिताद् ब्रह्मन्निन्द्रियाणि दशाभवन् ।
तामसादपि शब्दोऽभून्नमस्तस्मादजायत ॥ (५)
अभवत्कालसंक्षोभात् ततस्स्पर्शगुणोऽनिलः ।
अनिलाद्रूपवत्तेजस्ततो रसगुणं जलम् ॥ (६)
तस्माद्गन्धवती चेयं पृथिवी समजायत ।
नानात्वात्पौरुषान् स्रष्टुमनीशा हरिमब्रुवन् ॥ (७)
देवाः –
देव देव जगद्व्यापिन् सर्वशक्तिधराव्यय ।
स्रष्टुं विराजं त्वत्स्थानमनीशा वयमच्युत ॥ (८)
कुर्महे सर्वभूतात्मन्नाज्ञां तव यथा वयम् ।
तथा प्रसीद देवेश नमस्ते पुरुषोत्तम ॥ (९)
नारदः –
एवं संप्रार्थितो विष्णुः कार्यकारणकारणः ।
चतुर्विंशतितत्त्वानां गणं युगपदादिशत् ॥ (१०)
भिन्नं संयोजयामास गुप्तं कर्म प्रबोधयन् ।
ततो विनिमयं प्राप्य हरिणा ते परस्परम् ॥ (११)
अण्डमुत्पादयामासुः यस्मिन् लोकाश्चराचराः ।
तस्मिन् शेते महाविष्णुः शेषभोगसुखासने ॥ (१२)
तस्य नाभेरभूत्पद्मं विश्वाख्यं तत्र चात्मभूः ।
जातो देवमनुष्यारिः पशुपक्षिद्रुमादयः ॥ (१३)
जातास्तस्माद्वेदशास्त्रपुराणानि च सर्वशः ।
एवं प्रवर्तते सर्गः पौवीपर्येण नित्यशः ॥ (१४)
अतो देहादिकं सर्वं प्रकृतेः कार्यमद्भुतम् ।
तस्मात्स्नेहं द्विजश्रेष्ठ देहादौ मोहजं त्यजेत् ॥ (१५)
जन्मान्तरप्रतीक्षा तु कर्तव्या न कदाचन ।
मोक्षाय तत्त्वविद्भिस्तु तस्मादाशु भजाव्ययम् ॥ (१६)
देहिनो जन्मादिदुःखनिरूपणम्
देहप्राप्तिं च वक्ष्यामि दुर्लभां दुःखसङ्कुलाम् ।
पापिष्ठाः खलु गच्छन्ति नरकं दुःखसङ्कुलम् ॥ (१७)
यावन्तो निरयाः क्रूरास्तामिस्राद्यास्सुदारुणाः।
तावन्तस्समनुक्रम्य पुनरत्र व्रजेच्छुचिः ॥ (१८)
दयालुः धर्मराजोपि पापिनः पुण्यवर्जितान् ।
भुञ्जन्तु भुवि तान्किञ्चित् शेषपापान्विसर्जयेत् ॥ (१९)
श्वविड्वराहोष्ट्रखरक्रिमिकीटा भवन्त्विति ।
ते तु भूतलमासाद्य क्रिमिकीटा भवन्ति वै ॥ (२०)
तान्दृष्ट्वा भीतभीतास्तु मनुजाः पापभीरवः ।
सन्तु धर्मरताश्चैव धर्मराजो दयानिधिः ॥ (२१)
एवं व्यवस्य पापिष्ठान् लोकद्वयहितेच्छया ।
निर्गमय्य स्वलोकस्थान् सुखं वसति धर्मराट् ॥ (२२)
भूलोकवासिनस्सर्वे धनकामविमोहिताः ।
श्वविड्वराहान् दृष्ट्वापि न न्यवर्तन्त कश्मलात् ॥ (२३)
पुण्यवान् स्वर्गलोके तु चिरं भुक्त्वा स्वकर्मजम् ।
क्षीणपुण्यः पतत्यर्वाङ्मूढः कालविचालितः ॥ (२४)
पततीन्दुपदाद्भूमिं ततो नीहारसंयुतः ।
तिलमाषादिरूपेण भवत्येव न संशयः ॥ (२५)
ततः पुरुषदेहे तु रेतोरूपो भविष्यति ।
ततः स्त्रियाः कुक्षिगतः पुंसः रेतः कणाश्रयः ॥ (२६)
एकरात्रेण कलिलं पञ्चरात्रेण बुद्बुदम् ।
कर्कशश्च दशाहेन मासेन त्वङ्कुरादयः ॥ (२७)
नखादीनि त्रिभिर्मासैः चतुर्भिः धातवोऽभवन् ।
षड्भिर्जरायुना वीतः सप्तमे रोमभिर्युतः ॥ (२८)
अष्टमे देहसम्पूर्णः कुक्षौ भ्राम्यति दक्षिणे ।
नवमे जन्मकर्माणि गतानि स्मरते ऋषिः ॥ (२९)
गर्ते विण्मूत्रयोश्शेते स जन्तुः जन्तुसोदरः ।
क्रिमिभिर्भक्ष्यते मूढः सौकुमार्यात् सुदुःखितः ॥ (३०)
स एवं दुस्सहं दुःखं सहते पापकर्मकृत् ।
गर्भान्तरकृतं स्वेन सङ्कल्पं हरिसन्निधौ ॥ (३१)
स्मृत्वा च दुःखसन्तप्तो लब्धबोधोऽतिवेषितः ।
अहो कष्टं पुनः प्राप्तं गर्भदुःखं महत्तरम् ॥ (३२)
स्मरामि जन्मकर्माणि पापः पूर्वकृतानि च ।
अकर्माण्येव कृतवान् अकृतं ह्यात्मनो हितम् ॥ (३३)
मया हि नाश्रितो विष्णुः तत्पराश्च कृपालवः ।
इतः परं पदं विष्णोः तत्पराणां समाश्रये ॥ (३४)
कदा निर्गमनं मे स्यात् गर्भान्निरयसन्निभात् ।
इत्येवं चिन्तयन्नास्ते दशमे सूतिवायुना ॥ (३५)
स्पृष्टो नष्टस्मृतिर्जीवो निरस्तो बहिरेव हि ।
ततो बाल्यादिदुःखानि युववार्धिक्ययोरपि ॥ (३६)
प्रलये करणाभावात् सृष्टाविन्द्रियकर्षणात् ।
कुतो भवेन्मतिस्तेषां विष्णोः पादोपसर्पणे ॥ (३७)
अनेनैव तु देहेन विष्णुपादाश्रयो भवेत् ।
सम्यक्संप्रार्थयेत्सङ्गं तत्परेषु मुमुक्षुभिः ॥ (३८)
तत्त्वत्रयनिरूपणम्
अथातश्शृणु वक्ष्यामि ह्यात्मानात्मपरात्मनाम् ।
परमात्माव्ययश्शुद्धः सर्वाधारोऽखिलाश्रयः ॥ (३९)
नारायणोऽव्यक्तगतिः भक्तानुग्रहविग्रहः ।
जीवोऽप्यविद्ययोत्पन्नदेहादिगुणवर्जितः ॥ (४०)
नित्यशुद्धस्सदामुक्तः शुद्धतत्त्वमयः पुमान् ।
भगवन्मायया बद्धः पुत्रपौत्रधनादिमान् ॥ (४१)
जन्ममृत्युजराव्याधिशोकमोहैश्च शोचति ।
यदा पुण्यविशेषेण महत्सङ्गो भवेद्द्विज ॥ (४२)
तदा तु कृपया नामकीर्तने श्रवणे रतिः ।
ततो नवविधा भक्तिर्जायते दुर्लभापि सा ॥ (४३)
यदा ह्येवंविधा भक्तिर्जायते ह्यम्बुजेक्षणे ।
किमन्यद्विष्णुभक्तानां दासानामवशिष्यते ॥ (४४)
अनात्मा तु विकारी च परिणामी जडस्सदा ।
देवादिसकलान् जीवान्विमोहयति सर्वदा ॥ (४५)
एतद्विज्ञाय सद्भक्तो मुच्यते नात्र संशयः।
सद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ॥ (४६)
न ज्ञानं न च मोक्षस्स्यात् तेषां जन्मशतैरपि ।
इदं रहस्यं परमार्थलक्षणं
मयैव साक्षात्कथितं तवानघ ।
सद्भक्तिहीनाय शठाय न त्वया
दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ (४७)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
जगत्सृष्ट्यादिकथनं नाम दशमोऽध्यायः
अथ एकादशोऽध्यायः
सत्यकामस्य नारदकृत–मेधातिथ्युपाख्यानकथनपूर्वक–यदुगिरिगमनोपदेशः
नारदः –
इतो गच्छ महाभाग त्यक्त्वा मोहं धनादिषु ।
सह्याद्रेः पूर्वदिग्भागे कावेर्या उत्तरे तटे ॥ (१)
यादवाद्रिरिति ख्यातः पुण्यर्धिः पुण्यभूधरः ।
पुण्यद्रुमलताजालैः पुण्यामलजलाशयैः ॥ (२)
पुण्यद्विजमृगैश्चापि संवृतः पुण्यतीर्थकैः ।
अस्ति तत्कटके तीर्थं कल्याणं पुण्यवर्धनम् ॥ (३)
षट्षष्टिकोटितीर्थैश्च संवृतं मुक्तिदं द्विज ।
बहुभिर्विष्णुभक्तैश्च शरणागतरक्षकैः ॥ (४)
सुकुमार इति श्रीमान् हरिर्नारायणोऽव्ययः ।
आस्ते दयानिधिर्ब्रह्मन् क्षेत्रे वैकुण्ठवर्धने ॥ (५)
तत्र गत्वा जगन्नाथम् आराधय विशुद्धये ।
ख्यातं नारायणक्षेत्रमिति वैकुण्ठवर्धनम् ॥ (६)
इति चासीद् द्विजश्रेष्ठ विमानं ब्रह्मनामकम् ।
आनन्दमिति चाप्युक्तं तीर्थं कल्याणनामकम् ॥ (७)
कल्याणीति च विख्यातं तत्र गच्छ महामुने ।
तत्तीरवासिनां पुण्यं किं वक्ष्यामि कियानहम् ॥ (८)
वैकुण्ठवर्धनक्षेत्रवासी कश्चिद् द्विजोत्तमः ।
नाम्ना मेधातिथिः धीमान् पुत्रवान्स गृहाश्रमी ॥ (९)
विष्णोनामानि लीलाश्च कीर्तयन्श्रावयन्मुदा ।
नर्तयन्नर्तनं कुर्वन्नुत्सुको ह्युत्सवोन्मुखः ॥ (१०)
एकदा पर्यटन्विप्रो लोकानुग्रहकाम्यया ।
कुटुम्बरक्षणार्थाय नित्यं तण्डुलयाचकः ॥ (११)
देशाद् देशान्तरं गच्छन् ग्रामाद् ग्रामान्तरं गतः ।
कीर्तयन्श्रद्धया विष्णोः नामानि च कथाश्शुमाः ॥ (१२)
विष्णौ सद्भक्तिभरिता बहवो वैष्णवाभवन् ।
सत्सङ्गाद् बहवो मुक्ता मुखबाहूरुपादजाः ॥ (१३)
सौवीरदेशनृपतिः नाम्ना वीरव्रतो महान् ।
स्वदेशवासिभिः सद्भिः श्रुतवान् विप्रमागतम् ॥ (१४)
वीरव्रतः –
हे सन्तः श्रूयतां श्रेष्ठाः कुतः कुत्रत्य एव वा।
आनीयतामतदशीघ्रम् अभिप्रायविदो मम ॥ (१५)
ततो मेधातिथिं शान्तं सन्तं सन्तस्समानयन् ।
नृपस्तूर्णं समुत्थाय प्रणनाम स दण्डवत् ॥ (१६)
रत्नसिंहासने वेश्य सभार्यं च सपुत्रकम् ।
पूजयामास विधिवत्पादौ प्रक्षाल्य पूर्वतः ॥ (१७)
तदपश्शिरसा धृत्वा सकुटुम्बो मुदं ययौ ।
क्षणान्मनस्समाधाय विप्रं प्राह नृपेश्वरः ॥ (१८)
द्विजवर्य महाभाग जाने त्वां हरिमीश्वरम् ।
दर्शनात्तव विप्रेन्द्र विमुक्तोऽहं भवार्णवात् ॥ (१९)
ब्रूहि भागवतान् धर्मान् कृपालुरसि मे द्विज ।
मेधातिथिः –
नृपवर्य निबोधेदं तावकैस्सह सद्गुण ॥ (२०)
दुर्लभं मानुषं जन्म ह्यध्रुवं चार्थदं नृप ।
शीघ्रं यतेत कुशलं सदा मृत्युवशं गतः ॥ (२१)
कुशलेषु च सर्वेषु सापायेषु द्विजोत्तमाः ।
उपायद्वयमेवेह नृणां श्रेयःप्रदं नृप ॥ (२२)
नामसङ्कीर्तनं त्वेकं लीलाश्रवणमेव च ।
एतद्द्वयं गुरोर्भक्त्या लब्ध्वा भक्तो भवेन्नृप ॥ (२३)
अत्र ते वर्णयिष्यामि कथां पुण्यां सुपावनीम् ।
यस्य श्रवणमात्रेण कीर्तनश्रवणे रतिः ॥ (२४)
भवत्येव न सन्देहः सत्यं सत्यं वदाम्यहम् ।
इदं भक्तप्रियं चित्रं शृणुष्व सुसमाहितः ॥ (२५)
नारदेन कृतं पूर्वं मम लोकेऽतिकौतुकम् ।
एकदा नारदमुनिः विष्णुलोकमुपागतः ॥ (२६)
अश्रौषीत्पुण्यनामानि हरेः भक्तिसमन्वितः ।
हरे मुकुन्द गोविन्द नारायण जनार्दन ॥ (२७)
पाहि मां कृष्ण वाराह नारसिंह नमोस्तु ते ।
वासुदेवाच्युतानन्त शङ्ख-चक्र-गदाधर ॥ (२८)
त्रिविक्रम त्रिलोकेश त्राहि मां विश्वरक्षक ।
अनादिमायाविध्वंसिन् संसारार्णवतारण ॥ (२९)
तमोभञ्जन सर्वत्र पाहि पाहि जगद्गुरो ।
एकं नामामृतं पीत्वा सद्भक्तमुखनिस्सृतम् ॥ (३०)
परमानन्दमापेदे नारदो मुनिसत्तमः ।
प्रदक्षिणीकृत्य हरेः प्रणम्य च पदं शुभम् ॥ (३१)
मनसा चिन्तयन् कार्यं ययौ संयमनीपुरम् ।
निरीक्ष्य रौरवान् घोरान् नरकान् चातिभीषणान् ॥ (३२)
नारकाणां कृपां चक्रे मनसा विस्मितो मुनिः ।
दृष्ट्वाद्रिप्रवरं शीघ्रं शतयोजनमुच्छ्रितम् ॥ (३३)
तत्रोन्नतं शृङ्गमेकमारुह्य मुनिसत्तमः ।
भुजमुद्यम्य सन्तुष्टो वाक्यमेतदुवाच ह ॥ (३४)
नारायणाच्युतानन्त वासुदेव जनार्दन ।
त्राहि पाहि जगन्नाथ शरणागतवत्सल ॥ (३५)
एतच्छ्रुत्वा नारकास्ते सद्यो विगतकल्मषाः ।
समस्ता नरकात्सद्यो निर्जग्मुः नृपसत्तम ॥ (३६)
पुण्यलोकाल्लब्धवन्तो दिव्यज्ञानसमन्विताः ।
तैः सर्वे हरिनामानि जल्पन्तो नारदं मुनिम् ॥ (३७)
स्तुत्वा विमानान्यास्थाय जग्मुश्च सहसा दिवम् ।
वैकुण्ठलोकमासाद्य पपुर्नामामृतं नृप ॥ (३८)
गतेषु तेषु सर्वेषु निर्जने पत्तने यमः ।
स्वकीयैश्च भटैस्सार्धं तस्थौ विस्मितमानसः ॥ (३९)
पापिनां नरकस्थानामपि श्रवणमात्रतः ।
लीलायाश्चापि नाम्नां च ह्यञ्जसा मुक्तिसम्भवात् ॥ (४०)
तस्मात्सङ्कीर्तनं विष्णोः कर्तव्यं लब्धजन्मभिः ।
त्वमपि श्रद्धया राजन् मुक्तिहेतोर्भजाव्ययम् ॥ (४१)
नारायणं नृणां बन्धवारणं करुणार्णवम् ।
नारदः –
इत्युक्त्वा प्रययौ विप्रो नारायणपुरं प्रति ॥ (४२)
वीरवरस्तु नृपतिः सङ्गान्मेधातिथेरभूत् ।
महाभागवतश्श्रीमान् स्वजनैः भृत्यपुत्रकैः ॥ (४३)
शिक्षयन्मन्त्रिभिर्विप्रैः स्वदेशस्थाञ्जनान्विभुः।
हरिभक्ताद् द्विजश्रेष्ठ सर्वे युक्ता बभूविरे ॥ (४४)
तत्क्षेत्रवासिनामेवं महिमानं महामते ।
को वा वर्णयितुं शक्तः सहस्रवदनोपि वा ॥ (४५)
सत्यकामाशु गच्छ त्वं क्षेत्रं वैकुण्ठवर्धनम् ।
कल्याणतीर्थे गङ्गायां स्नात्वा देवं समर्चय ॥ (४६)
भविष्यति परं श्रेयो भूयो भूयो वदामि ते ।
सनत्कुमारः –
इत्युक्त्वान्तर्दधे तस्य शृण्वतो नारदो महान् ॥ (४७)
ततस्स सत्यकामोपि त्यक्त्वा मोहं धनादिषु ।
यादवाद्रिं गतो विप्र स्नात्वा कल्याणतीर्थके ॥ (४८)
सुकुमारं च संपूज्य महामोदमवाप्तवान् ।
स्वाध्यायस्तुतिशीलानां तपश्शीलदयावताम् ॥ (४९)
भक्तानां परिपूर्णानाम् आचार्योऽभून्महामतिः।
पुत्रस्स्वल्पेन कालेन भार्या चैव तु तस्य वै ॥ (५०)
चरन्तस्सकलान्देशान् यादवाद्रिमुपागमन् ।
पित्रा च सङ्गताः पुत्राः सङ्गता पतिना सती ॥ (५१)
सत्यकामस्तु सन्तुष्टो भार्यापुत्रैर्मुमोद ह ।
श्रियं सुरवरैः प्रार्थ्यां ज्ञानं वैराग्यमेव च ॥ (५२)
भक्तिं च परमां पुण्यां भक्तसङ्गरुचिं तथा ।
बहूंस्तनुभृतश्श्रीमान् उद्धरन्पुण्यकर्ममिः ॥ (५३)
तत्रैव चिरकालं हि वासं चक्रे महामुनिः ।
देहावसाने काले तु तस्य प्रीतो हरिस्स्वयम् ॥ (५४)
विष्णुः –
एकस्त्वं गच्छ विप्रेन्द्र भार्यया पुण्यशीलया ।
पुत्रास्तिष्ठन्तु लोकेस्मिन् कञ्चित्कालं कृपालवः ॥ (५५)
एतैर्जीवाश्च बहवो भविष्यन्ति विमोहिताः ।
तेषां तदाश्रयाणां च तत्पादाश्रयशालिनाम् ॥ (५६)
मुक्तिं दास्याम्यसन्देहो गच्छ त्वं मत्पदं द्विज ।
सनत्कुमारः –
इत्युक्त्वा द्विजमुख्येन साकं धाम ययौ हरिः ॥ (५७)
उक्तं पुण्यतमं विप्र यत्पृष्टोहमिह त्वया ।
सत्यकामस्य मूर्खस्य चरितं परमाद्भुतम् ॥ (५८)
कल्याणीतीर्थमाहात्म्यं वक्तुं वर्षशतैरपि ।
कश्शक्तश्श्रोतुमपि वा सहस्रवदनोऽपि वा ॥ (५९)
मयाप्युक्तो यथाशक्ति महिमा च तवानघ ।
कल्याणमुनियुक्तायाः कल्याण्या द्विजसत्तम ॥ (६०)
श्रीसूतः –
कल्याणतीर्थमाहात्म्यम् अन्येषामपि वैभवम् ।
चक्रशङ्खादितीर्थानां वर्णितं भृगुनन्दन ।
दीप्तिमांस्तु कुमारेण श्रुत्वा हर्षमवाप सः ॥ (६१)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
सत्यकामस्य नारदकृत मेधातिथ्युपाख्यानपूर्वक–यदुगिरिगमनोपदेशो नाम एकादशोऽध्यायः
अथ द्वादशोऽध्यायः
यदुगिरौ बदरीनारायणसान्निध्यम्
शौनकः –
सूत सूत कुमारेण तीर्थमाहात्म्यमद्भुतम् ।
यथा दीप्तिमते प्रोक्तं तथा ब्रूहि क्रमान्मम ॥ (१)
श्रीसूतः –
साधु पृष्टं त्वया ब्रह्मन् तीर्थमाहात्म्यमादरात् ।
अतोन्येषां प्रवक्ष्यामि कुमारोक्तक्रमादहम् ॥ (२)
दीप्तिमान् –
कथं श्रीबदरीवृक्षा आगताः केन हेतुना ।
बृन्दावनान्महापुण्याः पुण्यभूसुरसेविताः ॥ (३)
सनत्कुमारः –
पुरा कृतयुगे विप्र पुण्ये यादवभूधरे ।
आसीद् द्विजवरश्रेष्ठः शाण्डिल्य इति विश्रुतः ॥ (४)
दर्भतीर्थे तपः कुर्वन् विष्णुव्रतपरायणः ।
आसीद्बहुतिथे काले गते नारायणः स्वयम् ॥ (५)
आविर्बभूव सन्तुष्टः शाण्डिल्याग्रे महापतिः ।
नारायणः –
उत्तिष्ठोत्तिष्ठ भद्रं ते तपस्सिद्धोऽसि मे प्रियः ॥ (६)
शाण्डिल्यः –
द्रष्टुमिच्छामि भो स्वामिन् नरनारायणाश्रयम् ।
तत्रैव बहुकालं वै नेतुमुत्सहते मनः ॥ (७)
नारायणः –
स एवाहं मुनिश्रेष्ठ नरनारायणो हरिः ।
तत्र गन्तुमशक्ताश्च कलौ जीवा हिमार्दिताः ॥ (८)
तस्मादत्रैव वत्स्यामि त्वमप्यत्र वसानघ ।
आराधय महायोगिन् सर्वकामवरप्रदम् ॥ (९)
नयिष्यामि क्षणादेव बृन्दावनलतास्तरून् ।
सनत्कुमारः –
इत्युक्त्वान्तर्दधे विष्णुः बदरीनिलयो हरिः ॥ (१०)
यादवाद्रिस्थ – उत्सवबेरमाहात्म्यम्
ऋषिरत्रैव निवसन् शाण्डिल्यो मुनिसत्तमः ।
दीप्तिमान् –
वर्णयोत्सवबेरस्य माहात्म्यं कृपया मुने ॥ (११)
कैः कैश्चाराधितः पूर्वं कस्मादत्र समागतः ।
सनत्कुमारः –
पुरा नारायणो देवः पूर्वसृष्टं स्वमायया ॥ (१२)
संहृत्य कालकलया कल्पान्त इदमीश्वरः ।
आसीदेकस्तदा विष्णुः नान्यत्किञ्चन वस्तु च ॥ (१३)
ततो निश्वाससम्भूतैः निगमैस्संस्तुतो हरिः ।
स्रष्टुं प्रचक्रमे विप्र ब्रह्माण्डं चेतनाश्रयम् ॥ (१४)
प्रकृत्यादीनि तत्त्वानि सृष्ट्वा तैरसृजत्प्रभुः ।
अण्डं तदन्तरा ब्रह्मन् पौरुषं चासृजत्प्रभुः ॥ (१५)
स्वसृष्टगर्भसलिले ह्यशयिष्ट कृपानिधिः ।
तस्य नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः ॥ (१६)
मरीचिस्तस्य पुत्रोभूत्तत्पुत्रोपि च काश्यपः ।
विवस्वांस्तस्य पुत्रोऽभूत्तस्य पुत्रो मनुर्महान् ॥ (१७)
तस्यापि तु महाभागा दशपुत्राः प्रजज्ञिरे ।
इक्ष्वाकुरिति विख्यातो ज्येष्ठश्श्रेष्ठगुणो महान् ॥ (१८)
तपः कुर्वन्महातेजा आसीद् बदरिकाश्रमे ।
आविरासीन्महाभागो ब्रह्मलोकपितामहः ॥ (१९)
ससंभ्रमस्समुत्थाय ननामाङ्गेन दण्डवत् ।
तमुत्थाप्य महातेजा ब्रह्मा भूपतिमब्रवीत् ॥ (२०)
ब्रह्मा –
किमर्थं कृतवान् भूप तपः परमदारुणम् ।
इत्याह तं चतुर्वक्त्रम् इक्ष्वाकुरपि हृष्टधीः ॥ (२१)
याचते स्म चतुर्वक्त्रं वरदानोन्मुखं विभुम् ।
इक्ष्वाकुः –
विष्णोराराधनार्थाय प्रतिमा दीयतां शुभा ॥ (२२)
ब्रह्मा –
बहुकालं तपस्तप्त्वा लब्धवान् परमाद्भुताम् ।
प्रतिमां पद्मनाभाद्धि तपसा तोषिताद्धरेः ॥ (२३)
तां ददामि महायोगिन् मम प्राणात्प्रियङ्कराम् ।
सनत्कुमारः –
इत्युक्त्वा सुकुमाराख्यां प्रतिमां सुन्दराकृतिम् ॥ (२४)
दत्त्वा तु प्रेषयामास सादरं स चतुर्मुखः ।
तपस्तप्तुं पुनर्विप्रगतवान् क्षीरसागरम् ॥ (२५)
तत्र तप्त्वा पुनर्लब्ध्वा विमानं रङ्गसञ्ज्ञितम् ।
सत्यलोकं गतो ब्रह्मा मनुपुत्रः पुरं ययौ ॥ (२६)
तद्वंशैरर्चितो विप्र सुकुमारस्सुपुण्यकैः ।
इक्ष्वाकुवंश्यश्चरमः सुमित्रो नाम विश्रुतः ॥ (२७)
तत्र ब्रह्मा तु तं विप्र सुकुमारं द्विजोत्तमैः ।
आनीय यादवगिरौ स्थापयित्वातिसुन्दरम् ॥ (२८)
उत्सवं कृतवान्ब्रह्मा देवर्षिपितृमानवैः ।
तदारभ्य तु तं देवं सुकुमारं द्विजोत्तमाः ॥ (२९)
आराध्याभिमतान्कामान् लभन्ते च सुरोत्तमाः।
उक्तं तु परमाश्चर्यं श्रुत्वा हर्षाश्रुसंप्लतः ॥ (३०)
सनत्कुमारः –
अथान्यान्यपि तीर्थानि प्रवक्ष्यामि द्विजोत्तम ।
परितो यादवगिरेः सप्ततीर्थानि सन्ति वै ॥ (३१)
कल्याण्यास्तु पुरोभागे चक्रतीर्थमिति श्रुतम् ।
प्लक्षस्तिष्ठति तीरे तु ऋषिर्वेदशिरास्तथा ॥ (३२)
महाबलस्तीर्थपालः केशवो नाम देवता ।
तिलान्न दानं शंसन्ति पितृणामक्षयं हि तत् ॥ (३३)
शङ्खतीर्थमिति ख्यातमाग्नेय्यां दिशि तिष्ठति ।
आम्रो बोध्यो ऋषिस्तत्र बलस्तत्तीर्थपालकः ॥ (३४)
देवो नारायणः प्रोक्तो ह्यन्नदानं प्रशस्यते ।
अस्ति दक्षिणदिग्भागे कापिलं तीर्थमुत्तमम् ॥ (३५)
बिल्वो महीरुहस्तत्र ऋषिः कपिल एव च ।
कुमुदस्तीर्थपालश्च देवता माधवो हरिः ॥ (३६)
भूमिदानं प्रशंसन्ति माधवप्रीतये मुने ।
आस्ते पुलहतीर्थं तु प्रतीचीं दिशमाश्रितम् ॥ (३७)
वटो महीरुहस्तत्र ऋषिः पुलह एव च ।
देवो गोविन्द एवासीत् पालकः कुमुदेक्षणः ॥ (३८)
शय्यादानं प्रशंसन्ति गोविन्दप्रीतये मुने ।
पुण्यं सुदासतीर्थं तु वायव्यां दिशमाश्रितम् ॥ (३९)
शिंशुपो नाम वृक्षस्तु सुदासो नाम वै मुनिः ।
देवो विष्णुरिति ख्यातो वस्त्रदानं प्रशम्यते ॥ (४०)
गोतीर्थं पुण्यसलिलसुदीचीं दिशमाश्रितम् ।
चन्दनो भूरुहस्तत्र गालवो नाम वै मुनिः ॥ (४१)
मधुसूदनदेवोत्र विष्वक्सेनस्तु पालकः ।
गोदानं स्वर्णदानं च प्रशंसन्ति द्विजोत्तम ॥ (४२)
गोतीर्थस्य पुरोमागे मनुतीर्थमनुत्तमम् ।
पलाशवृक्षस्तत्रापि भरद्वाजो महामुनिः ॥ (४३)
गरुडः पालकस्तत्र देवता तु त्रिविक्रमः।
घृतं रजतधान्यादि दानं तत्र प्रशस्यते ॥ (४४)
चक्रं शङ्खं च कपिलं सुदासं बभ्रुतीर्थकम् ।
मनुतीर्थं महापुण्यं पुण्यं पुलहनामकम् ॥ (४५)
वेदयादवगर्भञ्च पालाशं पद्मतीर्थकम् ।
नारायणं च मैत्रेयं चतुर्दशं समीरितम् ॥ (४६)
पुण्यां वैकुण्ठगङ्गां च धनुष्कोटीं तथैव च ।
कल्याणीति च विख्याता सर्वतीर्थसमन्विता ॥ (४७)
एतानि पुण्यतीर्थानि यादवाद्रिस्थितानि च ।
तानि स्मृत्वा नरः पापान्मुच्यते नात्र संशयः ॥ (४८)
एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् ।
पितृभूतनृदेवेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ (४९)
उक्तानि सर्वतीर्थानि पुण्यानि च महामते ।
नृसिंहागमनं वक्ष्ये शृणु त्वं सावधानतः ॥ (५०)
याववाद्रिस्थ–नृसिंहवैभवम्
काश्यपस्य सुतो वीरो हिरण्यकशिपुः पुरा ।
तपस्तप्त्वा वरं लेभे ह्यवध्यत्वं सुरासुरैः ॥ (५१)
तस्य पुत्रास्तु चत्वारस्तेपा ज्येष्ठो महामतिः ।
प्रह्लाद इति विख्यातः सर्वाह्लादकरो महान् ॥ (५२)
सत्सङ्गाभिरुचिर्नित्यं धृतिमान् सद्गुणालयः ।
तस्य भक्तिं दृढां दृष्ट्वा हरौ सर्वेश्वरेश्वरे ॥ (५३)
हिरण्यकशिपुः द्वेषमकरोदात्मजे मुने ।
कदाचित्सुतमाहूय मामनादृत्य दुर्मते ॥ (५४)
अन्यं भजसि शत्रुं स कुत्र तिष्ठति पुत्रक ।
इत्युक्तस्स तु हृष्टात्मा पितरं वाक्यमब्रवीत् ॥ (५५)
प्रह्लादः –
योऽसौ सर्वगतो विष्णुः सर्वेषां बलिनां बली ।
त्वां च मां चाथ सर्वांश्च सदा रक्षति वै हरिः ॥ (५६)
सर्वत्रास्ते सदा तात तं भजाम्यसुरोत्तमम् ।
त्वमपि श्रद्धया राजन्भज क्षेमाय कल्पसे ॥ (५७)
सनत्कुमारः –
इत्युक्त्वोपरतं पुत्रं हन्तुमृद्युक्तवान्पिता ।
हिरण्यकशिपुः –
हे मूढ मन्द दुर्बुद्धे कं हरामि तवात्मज ॥ (५८)
गोपायेत्स हरिस्त्वाद्य यं त्वं शरणमिच्छसि ।
सनत्कुमारः –
इत्युक्त्वा खड्गमुद्यम्य रुषा प्रस्फुरिताधरः ॥ (५९)
विष्णुर्नृहरिरूपेण स्तम्भं निर्भिद्य निर्गतः ।
हिरण्यकशिपुं युद्धे गृहीत्वोत्सङ्गमात्मनः ॥ (६०)
ददार करजैरेनमेरकान्कटकृद्यथा ।
तदा देवर्षिगन्धर्वा ब्रह्मरुद्रपुरस्सराः ॥ (६१)
वाद्यं चक्रुस्तुष्टुवुश्च ववर्षुः कुसुमैस्सुराः ।
गन्धर्वा ननृतुर्हृष्टा अप्सरोभिः समन्ततः ॥ (६२)
तैरयं प्रार्थितो देवो नृहरिः भक्तवत्सलः ।
गोमन्ते पर्वतश्रेष्ठ वसन्नित्यं कृपानिधिः ॥ (६३)
नृहरिस्तैर्गिरिश्रेष्ठमागतो भक्तवत्सलः ।
कुर्वन्ननुग्रहं विष्णुरास्तेऽद्यापि द्विजोत्तम ॥ (६४)
उक्तं नृसिंहागमनं द्विजश्रेष्ठ मयानघ ।
दीप्तिमान् –
धन्योऽस्मि कृतकृत्योऽस्मि श्रुतं त्वन्मुखनिस्सृतम् ॥ (६५)
यादवाद्रेः प्रभावं तु अनुज्ञां दातुमर्हसि ।
गच्छामि यादवाद्रिं ते नमः कुर्यां मुनीश्वर ॥ (६६)
श्रीसूतः –
इत्युक्त्वा दीप्तिमान्विप्रः तं प्रणम्य गतो मुनिः ॥ (६७)
य एतच्यावयेन्नित्यं शृणुयाच्छूद्धयान्वितः ।
नन्दयेद्वन्दनं कुर्यात्सर्वपापैः प्रमुच्यते ॥ (६८)
य एतत्क्षेत्रमाहात्म्यं वैष्णवेष्वमिधास्यति ।
स विष्णुं प्रीणयत्याशु सर्वकामफलप्रदम् ॥ (६९)
वैष्णवानां समाजे वा कीर्तयित्वा सुखी भवेत् ।
नास्तिकाय न वक्तव्यं नाभागवतसन्निधौ ॥ (७०)
नालसाय प्रडंभाय न वक्तव्यमसूयवे ।
न वक्तव्यं न वक्तव्यं न वक्तव्यं द्विजोत्तम ॥ (७१)
शृण्वन् पठन् लिखन् बिभ्रन् क्षेत्रमाहात्म्यमद्भुतम् ।
मुक्त्वा शुभाशुभे याति तद्विष्णोः परमं पदम् ॥ (७२)
इति श्री मत्स्यपुराणे क्षेत्रखण्डे श्रीमद्यादवगिरिमाहात्म्ये
बदरीनारायणसान्निध्यादिकथनं नाम द्वादशोऽध्यायः
इत्थं श्रीमत्स्यपुराणान्तर्गतः प्रथमप्रभृति–द्वादशपर्यन्त
द्वादशाध्यायात्मकः श्रीमद्यादवगिरिमाहात्म्य– परपुराणभागस्समाप्तिमगमत्