श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्रीमते विष्वक्सेनाय नमः
श्रीवेङ्कटाचलमाहात्म्यम्
(श्रीभविष्योत्तरपुराणान्तर्गतम्)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
हरिः ओम्।
—–ठ्—–
प्रथमोऽध्यायः
अथ प्रथमोऽध्यायः
—–ठ्—–
जनकनृपानुभूत शोकातिरेकप्रकारः
शौनकः -
’सूत! सूत! महाभाग! सर्वशास्त्रविशारद!
त्वत्तोऽहं श्रोतुमिच्छामि माहात्म्यं पुण्यवर्धनम् ॥१
कथितं रङ्गमाहात्म्यं त्वया हस्तिगिरीशितुः
जगन्नाथस्य वै विष्णोः माहात्म्यमतुलं मुने!
इदानीं श्रोतुमिच्छामि माहात्म्यं वेङ्कटेशितुः ॥२
श्रीसूतः -
’साधु पृष्टं त्वया ब्रह्मन्! चरितं वेङ्कटेशितुः
यथाश्रुतं मया पूर्वं व्यासादमिततेजसः ॥३
[[302]]
तत्तथाऽहं समाचक्षे सावधानमनाः शृणु
पुरा तु जनको नाम राजा परिमधार्मिकः ॥४
सत्यवाक् सर्वशास्त्रेषु कोविदः कोपवर्जितः
वासुदेवप्रसादस्य मुख्यपात्रमभून्नृपः ॥५
निर्ममो नित्यतृप्तश्च निरहङ्कृतिरात्मधृक्
तस्य भ्राताऽभवत्पूर्वं कुशकेतुरिति स्मृतः ॥६
कुशध्वजस्य तनयाः त्रयस्त्रैलोक्यसुन्दराः
दुहितॄणां त्रयं तस्य कुशकेतोर्महात्मनः ॥७
जनकस्याभवत्पुत्री जानकी नाम सा रमा
भ्रात्रा च कारयामास राज्यं जनकभूपतिः ॥८
स भ्रातुराज्ञया राज्यं चकारार्येषु भक्तिमान्
कदाचित् जनको राजा मनसीत्थमचिन्तयत् ॥९
’सुखमेव सदा मे स्यात् दुःखं मा भूत् कदाचन
दुःखं न वीक्षे नेत्राभ्यां सुखं वीक्षे सदाऽऽत्मनः’ ॥१०
असाधुसम्मतं वाक्यं श्रुत्वेत्थमुदितं हरिः
दुःखं प्रदर्शयामास राज्यमत्तस्य भूपतेः ॥११
कदाचित् दैवयोगेन कुशकेतुरगान्मृतिम्
हतेऽनुजे च तद्भार्या तेन साकं ममार च ॥१२
राज्यं पुत्रांस्ततस्त्यक्त्वा त्वगात्पतिसलोकताम्
तौ दम्पती नृपो दृष्ट्या त्यक्तपुत्रौ सुखोचिता ॥१३
विललाप महाराजो भ्रातरं भ्रातृवत्सलः
’हा भद्रे बालकांस्त्यक्त्वा वृद्धं मां जानकीं तथा ॥१४
क्व गच्छसि वरारोहे? पतिमालिङ्ग्य मङ्गले!
अशीतिवर्षसाहस्रं सम्प्राप्तं मम भामिनि ॥१५
एतावत्कालपर्यन्तं न दृष्टो दुःखसञ्चयः
अद्य दृष्टो वरारोहे! त्वद्वियोगेन केवलम् ॥१६
इति सञ्चिन्त्य मनसि वारंवारं महीपतिः
चकार प्रेतकार्याणि पुत्राणां चैव शैशवात् ॥१७
मातृहीनांस्ततो बालान् आलिङ्ग्याङ्के निधाय च
’भोः पुत्रा! बालभावे तु मातृहीनाश्च कर्शिताः ॥१८
कथं पश्यामि नेत्राभ्यां मातृहीनांश्च बालकान्’
इति चिन्तापरः सोऽभूत् त्यक्तराज्योऽतिदुःखितः ॥१९
त्यक्तान्नः त्यक्तभोगश्च त्यक्तनिद्रोऽतिकर्शितः
तस्य दुःखोपशान्त्यर्थं शतानन्दः पुरोहितः ॥२०
सम्प्राप्तो दैवयोगेन वामदेवानुजो मुनिः
प्राप्तं पुरोहितं दृष्ट्वा राजा पूजामकल्पयत् ॥२१
स पूजितो मुनिवरो निविष्टो मृगचर्मणि
ततः कालोचितां वार्तां कथयामास गौतमीम् ॥२२
शतानन्दं प्रति जनककृतस्वशोकनिवृत्त्युपायप्रार्थना
जनकः -
शतानन्द! महाप्राज्ञ! का गतिः स्यादितो मम!
वृद्धत्वादात्मनश्चैव पुत्राणां चैव शैशवात् ॥२३
कन्यकारत्नबाहुल्यात् हतबन्धोर्महामुने!
बहवः शत्रवः सन्ति रावणेन्द्रजिदादयः ॥२४
[[304305]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
तेभ्यो युद्धं कथं दास्ये ह्यसहायोऽतिजीर्णवान्
दिवानक्तं समायाति रावणः केन हेतुना ॥२५
न जाने मुनिवर्याहं प्रज्ञाचक्षुर्न विद्यते
निमित्तमेकं कथितं द्वितीयं प्रवदामि ते ॥२६
सीतायाश्च सुरूपायाः सुरूपः पुरुषः कथम्
लभ्यते? वद विप्रेन्द्र! तृतीयं प्रवदामि ते ॥२७
दीर्घायुषश्च मे पुत्राः पुत्र्यश्चापि सभर्तृकाः
एकदेशाधिपस्यैव न्नुषास्ताश्च भवन्तु मे ॥२८
जामातरश्च चत्वारः एकराजसुतास्तथा
वर्धितं चैव मे राज्यं स्वयमेव पुरोहित!
केनोपायेन वै भूयात् तदेतत्कारणं वद’ ॥२९
जनकाय शतानन्दोक्तः श्रीवेङ्कटाचलप्रभावः
शतानन्दः -
’अस्ति कश्चिद्विशेषोऽस्ति भूलोके भूमिपालक!
दुहितुस्तव कल्याणसुखदं शत्रुनाशनम् ॥३०
वैकुण्ठगिरिमाहात्म्यं सभविष्यं सहोत्तरम्
कलौ तत्कीर्तनं पुण्यं सर्वदुःखहरं शिवम् ॥३१
धनकामस्य धनदं पुत्रकामस्य पुत्रदम्
रोगार्तस्य च रोगघ्नं ज्ञानिनां ज्ञानसाधनम् ॥३२
यच्छ्रुत्वा सर्वलोकेशो ब्रह्मा ब्रह्मपदं गतः
नीलकण्ठस्तु यच्छ्रुत्वा निर्विषः सुखमाप्तवान् ॥३३
वज्री नाकपदं प्राप्तो यत्कथाश्रवणादरात्
पदान्यपुर्लोकपालाः यत्कथाश्रवणेन वै ॥३४
किमुक्तेन विशेषेण तदनन्तफलं शृणु’
इत्युक्तो मुनिना तेन जनको वाक्यमब्रवीत् ॥३५
जनकः -
’वद वैकुण्ठमाहात्म्यं कलौ तच्चरितं कथम्’?
शतानन्दः -
’कृते वृषाद्रिं वक्ष्यन्ति त्रेतायामञ्जनाचलम् ॥३६
द्वापरे शेषशैलेति कलौ श्रीवेङ्कटाचलम्
नामानि युगभेदेन शैलस्यास्य भवन्ति हि’ ॥३७
जनकः -
’चतुर्युगे त्वया प्रोक्तं नाम यद्यद्गिरेर्मुने!
तस्य तस्य च वै हेतुं विस्तराद्वद मे गुरो!
कृते वृषाचल इति कथं नाम भविष्यति ॥३८
वृषभाचलनामनिष्पत्तिः
शतानन्दः -
’पुरा तु वृषभो नाम राक्षसो रूक्षकर्मकृत्
आक्रम्य शेषशैलं च तापसानप्यबाधत ॥३९
तेन सङ्क्लिष्टतपसः तदर्थं शरणं गताः
श्रीनिवासं हृषीकेशं भक्तानामभयङ्करम् ॥४०
तुष्टुवुरछृष्टमनसः स्रष्टारं सर्वचेतसाम्
प्रादुर्बभूव भगवान् मुनीनां पुरतो हरिः
व्यज्ञापयन्मुनिश्रेष्ठाः असकृत्कृतसंस्तवाः’४१
[[306307]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
मुनयः -
भगवन्नरविन्दाक्ष! वृषभो नाम राक्षसः
सम्बोधते सदा क्रूरः तपोभङ्गकरः खलः ॥४२
तस्माद्रक्ष क्षरातीत भयाद्राक्षसकल्पितात्
बाढमित्युक्तवान् कृष्णो दुष्टमभ्यद्रवद्रुषा ॥४३
स राक्षसो महावीर्यः तीर्थे तुम्बुरुसञ्ज्ञके
स्नात्वा त्रिषवणं पुण्यां सालग्रामशिलां नृप! ॥४४
नारसिंहात्मिकां दिव्यां सकरालामधोमुखाम्
’नित्यमाराधयेयाह’ मिति निश्चित्य पूजयन् ॥४५
पूजान्ते स्वशिरःपुष्पं खड्गेनाहृत्य भूपते!
समर्पयामास ततः तच्छिरः पुनरागतम् ॥४६
एवं पञ्चसहस्राणि वर्षाणि विगतानि च
तस्मिन् कालेऽरविन्दाक्षः प्रत्यक्षः समजायत ॥४७
शिलान्तर्यामी भगवान् श्रीनिवासः सतां गतिः
तमालोक्य हृषीकेशं वृषभो दण्डवद्भुवि ॥४८
पपात राजशार्दूल! स विसञ्ज्ञामुपेयिवान्
मुहूर्तान्ते समुत्थाय प्रत्यभाषत केशवम् ॥४९
वृषभः -
’केशवानन्त! गोविन्द! श्रीनिवास! सुरोत्तम!
न च मोक्षं न च स्वर्गं पारमेष्ठ्यपदं हरेः ॥५०
न याचे जगतां नाथ युद्धभिक्षां च देहि मे
दशावतारविभवे श्रुतस्ते विक्रमो हरे! ॥५१
अद्य तं सत्यमाधत्स्व विक्रमं पुरुषोत्तम!
देवस्तद्भारतीं श्रुत्वा किञ्चिद्धास्यमुखो हरिः ॥५२
उवाच वचनं तं हि राक्षसं युद्धदुर्मदम्
श्रुत्वा तदुक्तवान् कृष्णः ’तथाऽस्त्वि’ त्यरिमर्दनः ॥५३
तयोर्युद्धमभूत्तत्र वृषभश्रीनिवासयोः
यत्कृतं श्रीनिवासेन तत्कृतं वृषभेण च ॥५४
तदद्भुतमभूत्तत्र देवानां पश्यतामपि
तद्युद्धकौशलं दृष्ट्वा भगवान् पर्यपूजयत् ॥५५
’भो राक्षसकुलोत्पन्न! पश्य मे पौरुषं बलम्!’
इत्कुक्त्वा दर्शयामास गरुडं विकृताकृतिम् ॥५६
तत्रस्थं वासुदेवं च विश्वरूपिणमव्ययम्
सहस्रभुजसंयुक्तं सहस्रायुधभूषितम् ॥५७
तन्मायां राक्षसो दृष्ट्वा स्वयं च गरुडं हरिम्
दर्शयन् व्यञ्जयामास स्वमायां सुरमोहिनीम् ॥५८
नक्तञ्चरस्य चरितमतिक्रान्तुं क्षमोऽप्ययम्
प्रशंसन् राक्षसं वीरं ’साधु साध्वि’ त्यभाषत ॥५९
’रे रे! राक्षसवर्याद्य चक्रेण शतनेमिना
हरिष्ये ते शिरः कायात् यथा पक्वफलं द्रुमात्’ ॥६०
इत्युक्तो देवराजेन वृषभो दण्डवद्भुवि
प्रणिपत्याह विश्वेशं अस्तुवद्राक्षसेश्वरः ॥६१
[[308309]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
वृषभः -
’चक्रपाणे! नमस्तुभ्यं चक्रस्य चरितं श्रुतम्
यच्चक्रेण प्रतप्तस्तु मुक्तिमेति न संशयः ॥६२
यच्चक्रेण पुरा राजा कीर्तिमान् कीर्तिमाप्तवान्
त्वच्चक्रेण हतो राजन् गच्छामि तव मन्दिरम् ॥६३
एवमुक्त्वा हरेः पादौ पस्पर्श वृषभासुरः
वरं ययाचे वृषभः ’शैलो मदभिधोऽस्त्वि’ ति ॥६४
समालिङ्ग्य ’भवेदेव’ मित्युक्त्वा हरिणाऽथ सः
विसृष्टचक्रसञ्छिन्नः त्यक्तवान् स कलेवरम् ॥६५
तस्माद्वृषभशैलोऽयं कृते ख्यातिव
????y1पेयिवान्’
जनकः -
’कथमञ्जनशैलेति त्रेतायां नाम मे वद’ ॥६६
त्रेतायुगेऽञ्जनाचलनामनिष्पत्तिः
शतानन्दः -
’पुरा केसरिणः पत्नी ह्यञ्जना कञ्जलोचना
अनपत्यत्वदुःखेन मतङ्गमुनिमागमत् ॥६७
आनम्य मुनिशार्दूलं अनपत्यातिकर्शिता
उवाच वचनं नेत्रनीरसिक्तकलेवरा’ ॥६८
अञ्जना -
’अहो तापसशार्दूलापुत्राया मम का गतिः?’
एवमुक्तोऽञ्जनादेव्या मतङ्गो वाक्यमब्रवीत् ॥६९
मतङ्गः -
पम्पायाः पूर्वदिग्भागे पञ्चाशद्योजनान्तरे
नारसिंहाश्रमं देवि! वर्तते वसुधातते ॥७०
तस्य दक्षिणदिग्भागे नारायणगिरेस्तटे
उत्तरे स्वामितीर्थस्य वर्तते क्रोशमात्रके ॥७१
वियद्गङ्गेति विख्याता तत्र गच्छ यथासुखम्
तत्र स्नात्वाऽथ कल्याणि द्वादशाब्दं तपश्चर ॥७२
तेन पुण्येन ते पुत्रो भविष्यति गुणाधिकः’
मतङ्गेनैव मुक्ता सा नारायणगिरिं ययौ ॥७३
कृत्वा स्वामिसरःस्नानं अश्वत्थस्य प्रदक्षिणम्
वराहरूपिणं नत्वा पीत्वा तत्सलिलं शुभम् ॥७४
आकाशगङ्गामासाद्य तपः कर्तुं प्रचक्रमे
मुनींश्चामन्त्र्य भर्तारं व्रतार्थं भक्ष्यवर्जिता ॥७५
उपवासरता बाला बाह्यभक्षगविवर्जिता
काष्ठवत् पर्यवस्थाप्य शरीरं स्वाऽत्मनः शुचि ॥७६
पूर्णे संवत्सरे जाते वायुदेवो महाबलः
फलमाहृत्य भक्ष्यार्थं प्रत्यहं ह्यददान्मरुत् ॥७७
अथैकस्मिन् दिने वायुः फले वीर्यमपूरयत्
वीर्यगर्भं फलं तस्याः प्राक्षिपत्करसम्पुटे ॥७८
फलं सा मन्यमाना हि क्षुधार्ता तदभक्षयत्
ततो गर्भः समुदभूत् अज्ञानायाश्च भूमिप ॥७९
[[310311]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
मुनीनामभवद्धर्षो वायुगर्भसमुद्भवः
अथ सा दशमासान्ते सुषुवे पुत्रमुत्तमम् ॥८०
हनूमन्तमिमं प्राहुः मुनयो वीतकल्मषाः
अञ्जना व्रतमास्थाय पुत्रं प्राप गिरीश्वरे
तस्मादञ्जनशैलोऽयं लोके विख्यातकीर्तिमान् ॥८१
द्वापरयुगे शेषाचलनामनिष्पत्तिः
जनकः -
सन्तोषो ह्यभवन्मह्यं श्रुत्वा तन्नामकारणम्
द्वापरे शेषशैलेति कथं ख्यातिर्भविष्यति ॥८२
शतानन्दः -
पुरा वैकुण्ठनगरे द्वारि शेषं समादिशत्
जानन् भगवतो भावं सोऽतिष्ठत् भाविकर्मणि ॥८३
चिकीर्षिते मारुतेन द्वारि जाग्रत्कुतूहली
देवाधिदेवो भगवान् रेमे च रमया सह ॥८४
तस्मिन् काले महाराज! मारुतस्तु कदाचन
अकस्मात्कारणात् प्राप्तो भगवन्तं जनार्दनम् ॥८५
द्वारे तं रोधयामास रुक्मदण्डेन सर्पराट्
’किमर्थं रुद्ध्यते मूर्खः कार्यस्य महती त्वरा’
इत्युक्ते वायुना शेष उवाच वचनं पुनः ॥८६
शेषः -
’अहमाज्ञाधरो विष्णोर्मा त्वमन्तःपुरं गमः’
इति तस्य वचः श्रुत्वा जगत्प्राणोऽब्रवीदिदम् ॥८७
वायुः -
जयस्तु विजयश्चैव संशप्तौ मुनिभिः पुरा
अहङ्कारेण तः जातौ कुम्भकर्णदशाननौ ॥८८
विस्मृतः किं त्वया मूर्ख! द्वारपत्ये नियोजितौ
तद्वाक्यान्ते च राजेन्द्र! प्रजज्वाल विषोल्बणः
गरछयन् वचनैस्तीक्ष्णैः जगत्प्राणमहीश्वरः ॥८९
शेषः -
’किं गरिष्ठं वचः प्रोक्तं जीवनेच्छा न विद्यते?
कालेनानुगतो लोको नैव जानाति मोहितः ॥९०
त्वं तादृङ्नरवद्दण्ड्यो वृथा मोहात् प्रभाषसे
बले ज्ञाने विरागे च विष्णुभक्तो न मत्समः ॥९१
सदा मेऽन्तःपुरे वासः पुत्रादप्यधिको हरेः
लोकानां च हितार्थाय हितार्थं जगदीशितुः
स्थापितोऽस्मि द्वारपत्ये लक्ष्म्या नारायणेन च ॥९२
वायुः-
बिडालोऽन्तःस्थितो वापि बहिष्ठेभसमो न हि
शयानं रत्नपर्यङ्के राजानमपि सेवते ॥९३
कश्चिद्दूतो नियुक्तस्तु पर्यङ्काधिष्ठितः स्वयम्
किमाधिक्यं तस्य शेष! पुत्रे का न्यूनता वद ॥९४
तयोर्विवादो ह्यभवत् शेषवाय्वोर्महात्मनोः
लक्ष्म्याऽवबोधितः श्रीमान् उत्तस्थौ गरुडध्वजः ॥९५
[[312313]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
’किमर्थं क्रोशसे शेष! कः पुमानागतः परः’
इत्युक्तो देवदेवेन फणिराजोऽभ्यभाषत ॥९६
शेषः -
मलयाचलवासस्तु वायुरत्यन्तगर्वितः
अकालेऽन्तःपुरं शीफ्रुं प्रवेष्टुं च समुद्यतः ॥९७
अवाच्यवचनं प्रोक्तं अनेनात्यन्तमानिना’
इत्याहूतः फणीन्द्रेण भावज्ञेन तदा हरिः ॥९८
सञ्ज्ञापयन्निजं भावं इङ्गितैः द्वारमाययौ
एतस्मिन्नेव काले तु साष्टाङ्गं प्रणिपत्य तम् ॥९९
वायुस्तुष्टाव पुरुषं पुराणं वेदगोचरम्
वायुमालोक्य वचनं वारिजाक्षोऽब्रवीत्स तम् ॥१००
भगवान् -
’किमर्थं कलहः पुत्र! शेषेणात्यन्तमानिना’
इत्थं हरेर्वागमृतं पीत्वा कर्णपुटद्वयात्
तूष्णीं बभूव नृपते! वायुरत्यन्तभक्तिमान् ॥१०१
शेषः -
अहं समर्थो भगवन्! बले ज्ञाने तव प्रिये
मत्समो नास्ति भूलोके नाके वा ब्रह्मसद्मनि ॥१०२
सरीसृपवचः श्रुत्वा प्रहसन् फणिनं हरिः
’साधुसाध्वि’ ति सम्भाव्य चोवाच फणिनां पतिम् ॥१०३
श्रीभगवान् -
’न वाङ्मात्रेण पारुष्यं क्रिया केवलमुत्तरम्
बलाबले परीक्ष्यन्तां देवाश्चेन्द्रपुरोगमाः ॥१०४
अत्रैवोत्तरदिग्भागे पर्वतं मेरुनन्दनम्
स्वकायरज्जुना बद्ध्वा बलं ते यावदस्ति हि ॥१०५
तावतैव बलेन त्वं संयुक्तः सुस्थिराऽत्मना
तिष्ठ भद्र! महाभाग! विषफूत्कारजृम्भितः’ ॥१०६
हृषीकेशवचः श्रुत्वा हृष्टपुष्टाङ्गविग्रहः
स्वकायरज्जुना बध्नन् आनन्दाद्रिमहीश्वरः ॥१०७
स्थिरो बभूव चामन्त्र्य वायुं वेगवतां वरम्
तमालोक्याग्निदयितः पर्वतं तमुपागतः ॥१०८
आज्ञया वासुदेवस्य देवानां पश्यतां सताम्
स्वस्मिन् भगवतः प्रीतिं मत्वाऽतिशयितां मरुत् ॥१०९
मदोद्धतो महावेगं चक्रे पर्वतचालने
न चकम्पे गिरिः किञ्चित् अपि शेषेण वेष्टितः ॥११०
ततोऽपि सुमहावेगं चक्रे वायुः प्रकोपनः
संस्पर्धमानयोरित्थं शेषवाय्वोर्महात्मनोः ॥१११
हाहाकारो जगत्यासीत् अधरोत्तरिते तदा
ततो ब्रह्मादिभिर्देवैः याचितोऽपि यदा मरुत् ॥११२
प्रपेदे न शमं किञ्चित् तदाऽसौ फणिनां पतिः
जानन् भगवतश्चापि भावं देवांश्च तोषयन् ॥११३
क्वचित्फणान्तरं किञ्चित् श्लथयामास वै विभुः
ततः प्रकुर्वतो वेगं मारुतस्य महात्मनः ॥११४
[[314315]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
कनिष्ठाङ्गुलिमात्रे तु प्रदेशे श्लथबन्धने
महावेगस्य सम्पर्कात् पर्वतो भोगिसंयुतः ॥११५
योजनान्यतिलक्षाणि दक्षिणाभिमुखो ययौ
मेरुस्तुष्टाव नृपते! बलदेवं महाबलम् ॥११६
’त्रायतां त्रायतां स्वामिन्’ पुत्रं बालं भवान्मम’
एवमुक्तो मेरुणाऽयं तत्पुत्रं पर्यपालयत् ॥११७
स्वर्णमुख्या महानद्याः प्रतीरे च तथोत्तरे
स्थापयामास राजेन्द्र! गिरिराजं सपन्नगम् ॥११८
ततो वायुं सुरगणाः बोधयामासुरादरात्
’अयं शेषांशजो वायो! शैलः शैलात्मजेश्वरः ॥११९
हरेः सञ्चोदनेनैव जातः स्वाऽऽवासहेतवे
व्याजेनैव त्वया नीतः तेन स्वर्णमुखीतटम् ॥१२०
त्वत्संवादच्छलेनैषः स्वस्थानोत्खानितोऽहिना
मायावी भगवानित्थं केवलं त्वा व्यपोहयत् ॥१२१
तदद्य फणिराजं त्वं अन्तरङ्गं हरेरिमम्
प्रसादयापराद्धोऽसि वृथा तस्मिन् महात्मनि’ ॥१२२
इति सम्बोधितो देवैः हितकाङ्क्षिभिरादरात्
शेषं गतमदः पश्चात् तुष्टाव मरुतां पतिः ॥१२३
’क्षमस्व मम दौरात्म्यं अज्ञानेनाऽगतं विभो!
त्वयीह भगवान् साक्षात् आगमिष्यति वै हरिः ॥१२४
मयाऽपचरितं मौर्ख्यात् महाभागे वृथा त्वयि’
इत्थं प्रसादयामास फणिराजं तदा मरुत् ॥१२५
निर्वैरत्वात् प्रसादं स चकार मरुति स्वयम्
इत्थं शेषांशजं शैलं शेषेण परिवेष्टितम् ॥१२६
स्वावासहेतोरछरिणा वाहितं वायुना छलात्
राज! शेषनिमित्तेन शेषाचलमिमं विदुः’ ॥१२७
कलियुगे श्रीवेङ्कटाचलनामनिष्पत्तिप्रकारः
जनकः -
’कलौ वेङ्कटशैलेति कथं नाम महामुने’ ॥१२८
शतानन्दः -
’पुरा पुरन्दरो नाम सोमयाजी दृढव्रतः
कालहस्त्याख्यनगरे सत्यवाक् ब्राह्मणोऽभवत् ॥१२९
अपुत्रस्यापि विप्रस्य नाभूद्दुःखं सुताप्तये
दैवेन पूर्वपुण्येन वृद्धस्यास्य सुतोऽभवत् ॥१३०
चकार नाम्ना स सुतं माधवं विप्रसंसदि
पित्रोपनीतो बालस्तु ववृधे चन्द्रवन्नृप!१३१
वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः
ततः कालान्तरे पुत्रं सदारं तं चकार ह ॥१३२
स चन्द्रलेखया रेमे बहुकालं च माधवः
पञ्चयज्ञपरो नित्यं पञ्चाननसमद्युतिः ॥१३३
त्रिःसप्तवर्षो रेजे स द्वितीय इव भास्करः
सा कन्या पाण्ड्यदेशीया पाण्ड्यानां च तथा प्रियाः ॥१३४
पत्यौ सुप्ते स्वयं शिष्ये पत्यौ भुक्ते त्वभुङ्क्त च
कदाचिद्विप्रपुत्रस्तु दिवासङ्गमतत्परः ॥१३५
[[316317]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
राजपुत्रीं समासाद्य राजन्! कामातुरोऽब्रवीत्
ममेच्छा वर्तते भद्रे सङ्गमे तव भामिनि
पतिवाक्यमुपाकर्ण्य पतिं प्राह प्रजापते ॥१३६
चन्द्रलेखा -
’शरीरमस्थिमांसाद्यैः पूरितं पुरुषर्षभ
शरीरेण शरीरस्य सङ्गमः साध्वसम्मतः ॥१३७
तत्रापि दिवसक्रीडामयुक्तां मुनयो विदुः
निकेतने पिता माता चाग्निहोत्रश्च देवराट् ॥१३८
प्रभाकरप्रभां पश्य त्यज कामं द्विजात्मज!’
वधूवचनमाकर्ण्य माधवो वाक्यमब्रवीत् ॥१३९
माधवः -
’भव भामिनि! सौख्ये मे पूरयाद्य मनोरथम्
तदा स्यात् पुत्रसौभाग्यं परं पतिसलोकता’ ॥१४०
भर्तुर्वचनमाकर्ण्य भर्तारं वाक्यमब्रवीत् ॥१४१
चन्द्रलेखा -
’गच्छामि जलहेतोस्तु गच्छ त्वं पुरतो मम’
तदा जगाम राजेन्द्र! कुशार्थं स स्वभावतः ॥१४२
सा जगामाथ पानीयपात्रमादाय भामिनी
तामन्वगान्माधवोऽपि वटकूटमभिद्रुतः ॥१४३
तत्रान्तरे विप्रपुत्रो ददर्शान्यां स्त्रियं पुनः
वनान्तरे वसन्ते च पसन्तीं द्रुममूलगाम् ॥१४४
धवलाम्बरसम्बद्धां कटिमेखलयाऽन्विताम्
सुनासां सुभगां सुभ्रूं सुभ्रूं नीलालकविराजिताम् ॥१४५
मुमोह विप्रस्तां दृष्ट्वा सुवर्णां सुपयोधराम्
स्निग्धकञ्चुकसम्बद्धां कोकिलस्वरररीञ्जिताम् ॥१४६
अञ्जनाऽलिप्तनयनां अन्त्यजां नाम कुन्तलाम्
पादेन विलिखन्तीं गां जानुस्थितशिरोरुहाम् ॥१४७
दृष्ट्वा खिन्नमना भूत्वा चिन्तयन् ब्रह्मनिर्मितम्
स भार्यां प्रत्युवाचेदं ’गच्छ प्राणप्रिये! गृहम्
इच्छा मे पूर्णतां प्राप्ता त्वद्भक्त्या परितुष्यतः’ ॥१४८
चन्द्रलेखा -
’युक्तमुक्तं त्वया भद्र! गच्छामि भवनं स्वकम्’
भर्तुराज्ञामुपानीय चन्द्रलेखा गृहं गता ॥१४९
यावद्गच्छति सा भार्या तावत्तत्र स्थितोऽभवत्
गतायां स्वप्रियायां तु तां बालां परिचिन्तयन् ॥१५०
शनैर्जगाम राजेन्द्र! स्मरेण हृतचेतनः
समीपस्थं मुनिं प्रेक्ष्य सा राजन्! पृथुलोचना
स्वरभेदं प्रकुर्वन्ती वाक्यमूचेऽथ माधवम् ॥१५१
कुन्तला -
मा याहि मुनिशार्दूल! मत्समीपं महामते’
स च तद्वचनं श्रुत्वा सहसा वाक्यमब्रवीत् ॥१५२
[[318319]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
माधवः -
’का त्वं कल्याणि! भद्रं ते जननी जनिता च कः?
आवासस्तव भद्रं ते कस्मिन् राष्ट्रे वरानने!’
सा चेत्थमुक्ता मुनिना जातिमाह मनस्विनी ॥१५३
कुन्तला -
’किं मां पृच्छसि पापिष्ठां व्यभिचारकुलोद्भवाम्
अन्त्यजान्त्यजयोर्जातां सुरामांसाशिनीं खलाम् ॥१५४
मध्यदेशे निवासो मे किं त्वं पृच्छसि भूसुर!
वेदवेदान्तवेदिंस्त्वं न मां द्रष्टुमिहारछसि ॥१५५
मां स्प्रष्टुं क्रीडितुं वासि कथमिच्छसि मूढधीः’
एवमादि प्रजल्पन्तीं माधवस्तामथाब्रवीत् ॥१५६
माधवः -
’वृथा नारायणाज्जातो ब्रह्मा लोकपितामहः
अन्धमेनं महाराजं मन्यते मे मतिः सदा ॥१५७
वृथा यज्जनयामास वनितां वनहेतवे
तथाऽपि मम बुद्धिस्तु त्वय्येव रमते सदा ॥१५८
यतस्त्वय्येव निरतं मनो मे कृतवानजः
अतो मनो मे सम्पूर्य जीवयाद्य शुचिस्मिते!’ ॥१५९
कुन्तला -
’कुलाटनं प्रकुर्वाणाः कुलमाशतमाकुलम्
दहन्तीति वदन्ति स्म कुलजा वरमानिनः’ ॥१६०
माधवः -
’लवणोदकजातानि रत्नानि विविधानि च
अङ्गीकुर्वन्ति देवाश्च तेजःप्राधान्यकारणात् ॥१६१
तस्मादहं सुरूपत्वात् त्वयि भोगं करोमि च
नरकं वा मृतो यास्ये पितृभिः सह सुस्मिते’ ॥१६२
इत्येवमुक्ता द्विजबालकेन रुरोद कन्या तरुणाऽरुणाभा ।
कुन्तला -
’दिवौकसो विप्रवरो विमोच्यो दोषादमुष्मादसतीप्रसङ्गात् ॥१६३
दिग्देवता याश्च गणाधिपा ये
भान्विन्दुपूर्वाश्च नवग्रहा ये!
शृण्वन्तु वाक्यं मम ते वृथाऽयं
विप्रो मृतिं यास्यति पापनङ्गात् ॥१६४
विल्लाप महाराज! ब्राह्मणार्थं सुमध्यमा
’मा स्पृशाद्य महीदेव! पापिनीं व्यभिचारिणीम् ॥१६५
कः स्पृशेदग्निमार्तः सन् सर्पं व्याफ्रुं गजं द्विज!
परपत्न्यो हि तत्तुल्याः किमु चण्डालकन्यका ॥१६६
उत्तमं पदमास्थाय नीचा इच्छन्त्यधोगतिम्
ज्ञानिनो न तथा विप्राः तव बुद्धिस्तु तादृशी ॥१६७
जाती द्वे निर्मिते पूर्वं विष्णुना द्विजसत्तम!
स्त्रीत्वं पुंस्त्वं यथा तद्वत् चातुर्वर्ण्यं च भूसुर ॥१६८
[[320321]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
ब्राह्मणस्य ब्रह्मयोन्यां रन्तुमिच्छा प्रशस्यते
तथान्येषां च वर्णानां स्वस्वजातौ प्रशस्यते ॥१६९
विपरीतमिमं मन्ये धर्मत्यागं द्विजन्मनाम्
शरीरं तव विप्रेन्द्र! वेदपूतं विशेषतः ॥१७०
ऋतुकाले च यन्मातुः तव पित्रा समागमे
रेतः स्पष्टं वेदपूतं गर्भाधानमिदं विदुः! ॥१७१
सीमन्तं कल्पयामासुः मन्त्रैर्वेदमयैर्द्विज !
दशमे मासि सम्प्राप्ते प्रासूत जननी तव ॥१७२
तदा पित्रा जातकर्म कृतं नाम च मन्त्रवत्
अन्नप्राशनचौलादि ब्रह्मवाचनपूर्वकम् ॥१७३
अग्निसाक्षिविधानेन प्राप्तदारः कृतो भवान्
अधीतवेदशास्त्रः सन् आहिताग्निव्रते स्थितः ॥१७४
एतादृशस्य देहस्य मया सङ्गः कथं भवेत्?
कर्णौ हरिकथा, श्रुत्वा पावितौ नासिका तव ॥१७५
हर्यर्पितसुगन्धेन पाविता जठरं तव
वासुदेवार्पितान्नेन पवित्रं पुरुषर्षभ! ॥१७६
कृष्णार्चनप्रसङ्गेन करौ पावनतां गतौ
हरिनामकलापेन जिह्वा ते पावनात्मिका ॥१७७
पुण्यक्षेत्रानुचारेण पादौ ते पावनीकृतौ
एतादृशेन देहेन कथं सङ्गं प्रशंससि? ॥१७८
ममापि शृणु माहात्म्यं देहस्यामितदोषिणः
आवाच्यवचनैः क्रूरैः जिह्वा मे दह्यते सदा ॥१७९
सुरामांसाशनेनैव जठरे गुल्ममागतम्
व्यभिचारकथाऽऽलापात् कर्णौ मे शिथिलीकृतौ ॥१८०
पादौ जारगृहं गत्वा पाषाणसदृशौ मम
गोवधान्मे करौ क्रूरौ यमदण्डसमप्रभौ ॥१८१
एतादृशस्य देहस्य त्वया सङ्गः कथं भवेत्?
उत्तमो नीचतां प्राप्य कथं स्वर्गं गमिष्यति? ॥१८२
परस्त्रीसङ्गदोषेण बहवो नरकान् गताः
तस्मादुत्तिष्ठ भद्रं ते तव दासी भवामि भोः’
वनितावचनं श्रुत्वा वाक्यमूचे द्विजात्मजः ॥१८३
माधवः -
’त्वधीयसङ्गो बहुकालपुण्य -
प्रभावजो मुक्तिकरः शुभावहः
दैवेन योगेन हरेः प्रसादात्
पुण्येन लब्धः पुरुषार्थहेतुः ॥१८४
तस्माद्भजस्वानुगतोऽस्मि भामिनि!
त्यजाद्य लज्जां कुरु मे मनोगतम् ॥१८५
गच्छन्त्यद्य मम प्राणाः त्वद्वियोगेन केवलम्
तस्माज्जीवय भद्रं ते मरणाभिमुखं च माम्’ ॥१८६
एवमुक्ता द्विजेन्द्रेण पृथुश्रोणी समुत्थिता
पलायनायाऽशु मतिं चक्रे चण्डालकन्यका ॥१८७
धावमानामनुद्रुत्य माधवस्तामुपास्पृशत्
रौरवं जनकस्यापि जनन्याः कुलयोः ध्रुवम् ॥१८८
[[322323]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
स्यादिति क्रोशमानां तां माधवो मन्मथाऽहतः
बलात्कारेण सङ्गृह्य बुभुजे भोगमुत्तमम्
भोगात्यये द्विजं बाला वाक्यमूचे मनस्विनी ॥१८९
कुन्तला -
’अद्यप्रभृति भो विप्र! पतिस्त्वं मम भूसुर!
त्यज यज्ञोपवीतं त्वं मुण्डयित्वा शिरस्तथा ॥१९०
अब्राह्मण्यमुपागम्य भुङ्क्ष्व गोमांसमुत्तमम्
पिब मद्योदकं शीफ्रुं चण्डालत्वमुपाश्रितः’ ॥१९१
तद्वाक्यमाकर्ण्य तदा तयोक्तं सर्वमाचरन्
चण्डालाचरिताचारं जगाम विधिचोदितः ॥१९२
विप्रस्तया समेतस्तु कृष्णवेणीनदीतटम्
द्वादशाब्दं वसन् विप्रः तत्सङ्गपरिमोहितः ॥१९३
अनित्यत्वाच्छरीराणां कालपाशेन यन्त्रिता
जगाम मरणं राजन्! कुन्तला नीलकुन्तला ॥१९४
तया विरहितः श्रीमान् माधवो दुःखकातरः
अचरद्भुवनं सर्वं उन्मादेनोद्भ्रमन्निव ॥१९५
अकस्माद्दैवयोगेन राजानश्चौत्तरास्तदा
यात्रार्थं समुपाजग्मुः वराहस्य च पर्वतम् ॥१९६
मार्गमध्ये ददर्शासौ माधवस्तान् महीपतीन्
गच्छन्नेव च तैः सार्धं तदुच्छिष्टान्नभोजनः ॥१९७
प्राप सर्पगिरिं राज! देवयोगेन कर्मणा
ते राजानस्तत्र गत्वा तीर्थे कपिलसञ्ज्ञिके ॥१९८
स्नात्वा भक्तिभरोपेताः वपनं चक्रुरादरात्
माधवः स्वयमप्येत्य वापयामास वै शिरः ॥१९९
पार्वणानि प्रकुर्वन्तः तत्र राजन्! क्षितीश्वराः
पिण्डानि च सुसंहृष्टाः श्राद्धीयानि ददुस्तदा ॥२००
माधवोऽपि शुभे तीर्थे स्नात्वा तद्वच्च पार्वणम्
कुर्वन् पिण्डान् मृदा कृत्वा पितृभ्यः श्रद्धया ददौ ॥२०१
दैवात्तत्कर्मणैवासौ तदाऽभूद्गतकल्मषः
तस्माद्यो मानवो भक्त्या कुर्यात्तीर्थावगाहनम् ॥२०२
पितृश्राद्धं पिण्डदानं मुक्तिस्तस्य न संशयः
मृत्पिण्डं कृतवान् विप्रः पुण्यक्षेत्रे पुरातने ॥२०३
किं वर्णयामः पुरुषोत्तमस्य
क्षेत्रस्य तीर्थस्य च पुण्यशक्तिम् ।
मृत्पिण्डदानात्पितरश्च तस्य
मुक्तिं प्रपन्नाः मुरवैरिशासनात् ॥२०४
प्रभाते विमले जाते राजानो राजसत्तम!
समारोहन् गिरिश्रेष्ठं सपुत्राश्च सबान्धवाः ॥२०५
तेषामनुपदं राज! प्राप शेषगिरिं च सः
विश्राम्यन्तः सर्व एव ते तस्थुस्तत्र तत्र च ॥२०६
सोऽपि तस्थौ महाराज! माधवो गिरिमस्तके
भूधरस्पर्शमात्रेण तदघं पर्यकम्पत ॥२०७
माधवस्याभवत्कष्टं यथा वै मक्षिकाशिनः
वमन्तमेनं स्वं पापं समावृण्वन् समन्ततः ॥२०८
[[324325]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
तदङ्गजातः कोऽप्यग्निः अद्रिमाहात्म्यतस्तदा
प्रजज्वाल दहन् पापं सुरामांसाशनोद्भवम् ॥२०९
तस्य दुर्गन्धधूमेन वासिताः सर्वदेवताः
तद्भावं वेदितुं देवाः ब्रह्मरुद्रपुरोगमाः ॥२१०
विमानानि विचित्राणि भासयन्तः समागताः
खमार्गे संस्थिताः सर्वे दृष्ट्वा तच्चरितं नृप! ॥२११
ववृषुः पुष्पवर्षाणि माधवस्योत्तमाङ्गके
दृष्ट्वा पितामहः श्रीमान् विमानादवरुह्य सः ॥२१२
माधवं गतपाप्मानं यथा हरिरजामिलम्
कृपयोद्धृतवानेनं कृपालुर्द्विजपुङ्गवम् ॥२१३
इति सञ्चिन्तयंस्तस्य निकटं प्राप सादरम्
जिफ्रुंश्च तच्छिरः श्रीमान् ब्रह्मा वाणीमथाब्रवीत् ॥२१४
’भो भो माधव विप्रेन्द्र! गतपापोऽसि केवलम्
स्वामितीर्थस्य निकटं गत्वा स्नात्वा च तज्जले ॥२१५
वराहवदनं नत्वा त्यज देहं महीसुर!
महीपालोऽथ भूत्वाऽत्र कुरु राज्यमकण्टकम् ॥२१६
पाण्डवानां च दौहित्रकुले जातोऽसि कीर्तिमान्
सुधर्मस्य सुतो भूत्वाऽऽकाशनामाथ दक्षिणे ॥२१७
नारायणपुरे वीर! तॊण्डदेशाधिपो भव
तव पुत्री जगन्माता जामाता च जगत्पतिः ॥२१८
भविष्यति महाराज! पश्चाद्वै कुण्डमाप्नुहि’
इति तस्य वरं दत्त्वा चतुरश्चतुराननः ॥२१९
तदा नाम चकाराद्रेः ’वेङ्कटाचल’ इत्यपि
सर्वपापानि ’वें’ प्राहुः ’कटः’ तद्दाह उच्यते ॥२२०
तस्माद्वेङ्कटशैलोऽयं लोके विख्यातकीर्तिमान्
प्रभातकाले राजेन्द्र! यः कीर्तयति भूधरम् ॥२२१
तस्य पुण्यफलं वक्ष्ये शृणु राज! यथास्थितम्
फलं भवेत् ध्रुवं गङ्गासेतुयात्रासहस्रजम् ॥२२२
इतिहासमिदं प्रोक्तं गौतमेनोदितं हि मे
पुण्यं परमकल्याणं श्रवणाद्भद्रदायकम् ॥२२३
इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये
भगवत्क्रीडाद्रेर्युगभेदेन वृषभाद्रिनामभेदवर्णनं नाम
प्रथमोऽध्यायः
—–ठ्—–
[[326327]]
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः
—–ठ्—–
भगवतः श्रीवैकुण्ठाद्वेङ्कटाचलागमनम्
जनकः -
’मरुत्प्राहाहिराजं तं भगवानागमिष्यति’
इति त्वयोदितं पूर्वं तन्ममाचक्ष्व विस्तरात् ॥१
कथं नारायणः प्राप्तः केन वा कारणेन भोः ।
तत्रागत्य कृतं किं तु तन्ममाचक्ष्व विस्तरात् ॥२
कथं वैकुण्ठलोकं तु त्यक्तवान् पुरुषोत्तमः
चरितं तस्य माहात्म्यं तीर्थानां पर्वतस्य च ॥३
वराहरूपिणो विष्णोः माहात्म्यं वद विस्तरात्
आकाशनाम्नश्चरितं राज्ञस्तस्य महात्मनः ॥४
यस्य पुत्री रमादेवी जामाता च जगत्पतिः
देवानां च ऋषीणां च देवस्त्रीणां समागमम् ॥५
सात्त्विकदेवतात्वपरीक्षार्थं भृगोः सत्यलोकादिगमनम्
शतानन्दः -
’पुरा तु ऋषयः सर्वे कश्यपाद्या मुनीश्वराः
सन्मखं जाह्नवीतीरे सन्तोषात् चक्रिरे द्विजाः ॥६
तस्मिन् काले मुनिश्रेष्ठो नारदो मुनिसत्तमः
उवाच वचनं विप्रा किमर्थोऽयं क्रतूत्तमः ॥७
को वा भुङ्क्ते यज्ञफलं को वा ध्येयः सुरोत्तमः
कृतयज्ञफलं कस्य चार्प्यते मुनिसत्तमाः’ ॥८
इति नारदवाक्यं तु श्रुत्वा ते मुनिपुङ्गवाः
संशयार्थं समापन्नाः कथमत्र विचार्यताम् ॥९
सम्मिलित्वा तदा सर्वे भृगुं ब्रह्मविदां वरम्
तमूचुर्भक्तिनव्रूङ्गाः कृताञ्जलिपुटाः स्थिताः ॥१०
’गच्छ शीफ्रुं महाबुद्धे! परीक्षार्थं सुरोत्तमान्’
इति तेषां वचः श्रुत्वा ययौ कञ्जजमन्दिरम् ॥११
तत्र दृष्ट्वाऽष्टबाहुं तं साक्षाद्ब्रह्माणमग्रजम्
चतुर्मुखमुदाराङ्गं सरस्वत्या सुसेवितम् ॥१२
चतुरास्यसमुद्भूतवेदघोषविराजितम्
दिक्पालकगणैः सार्धं किरीटमकुटोज्ज्वलम् ॥१३
स्तुवन्तं जगदीशानं नारायणमनामयम्
प्रणमन् भक्तिभावेन मददीप्तिविराजितम् ॥१४
पातयामास कायं स्वं पुरतः कञ्जजन्मनः
पतितं स भृगुं दृष्ट्वा नोवाच वचनं विधिः ॥१५
तं मत्वा किञ्चिदज्ञानात् अपूज्यं मुनिपुङ्गवः
अलब्ध्वा स्वात्मनः कार्यं कैलासं स ऋषिर्ययौ ॥१६
कैलासगिरिमासाद्य तत्राद्राक्षीत् त्रिलोचनम्
कामुकं पार्वतीदेव्या क्रीडन्तं निजमन्दिरे ॥१७
तस्मिन् काले तमायातं नाजानात्कामुको हरः
आगतं सा मुनिं दृष्ट्वा पार्वती लज्जयाऽवदत् ॥१८
’त्यज शीफ्रुं महाबाहो ह्यागतो मुनिपुङ्गवः’
इति तस्या वचः श्रुत्वा क्रोधात्ताव्रुविलोचनः१९
[[328329]]
श्रीभविष्योत्तरपुराणे द्वितीयोऽध्यायः
तं हन्तुमद्रवच्छीफ्रुं ऋषिः शापान्निराकरोत्
शशाप स ऋषिः शम्भुं ’लोके त्वं नैव पूज्यसे ॥२०
त्वं शेफः पूजनेनैव लोके ख्यातिं गमिष्यसि’
इत्युक्त्वा स ऋषिश्चागात् वैकुण्ठं हरिमन्दिरम् ॥२१
प्राकारगोपुरद्वारनवतोरणभूषितम्
चतुर्दिक्षु चतुर्द्वारपालकैरुपशोभितम् ॥२२
तत्र शय्यागृहे रम्ये शेषमञ्चकशायिनम्
लक्ष्म्या समेतं देवेशं ददर्श स भृगुस्तदा ॥२३
तताडोरसि गोविन्दं भृगुः पादतलेन तम्
ताड्यमानो हरिः साक्षात् उत्थाय विनयान्वितः ॥२४
पपात भगवान् भक्त्या ऋषिपादसरोरुहे
आलिलिङ्गेऽथ भक्त्यैव चोवाच ऋषिपुङ्गवम् ॥२५
भृगुं प्रति श्रीवैकुण्ठनाथोक्तविनीतवचनम्
श्रीभगवान् -
’किमर्थं त्वमृषिश्रेष्ठ! मच्छरीरं कठोरकम्
अताडयोऽजरायुक्तमभेद्यं देवमानवैः ॥२६
वज्रादष्टगुणां विद्धि मच्छरीरे कठोरताम्
किमर्थं ताडितं विप्र! कोमलाम्फ्रिुतलेन तत् ॥२७
पादौ ते कोमलौ दिव्यौ मच्छरीरसमागमात्
कियद्दुःखं समापन्नौ न जानामि द्विजोत्तम!’ ॥२८
इत्युक्त्वा द्विजपादौ तौ प्रक्षाल्योष्णोदकेन वै
दधार शिरसा भक्त्या विप्रपादोदकं शुभम् ॥२९
जगृहे सकुटुम्बश्च सर्वलोकं विडम्बयन्
’विबुधा दर्शनेनैन पुनन्ति च जगत्त्रयम्’
इत्युक्तो देवदेवेन ऋषिश्चागाद्धरातलम् ॥३०
भगवतो भृगुकृतसात्त्विकदेवतात्वसमर्थनम्
ऋषीणामग्रजातीनां सभायां स ऋषिस्तदा
बोधयामास ताः सर्वा ’हरिः सर्वोत्तमः स्वयम् ॥३१
हरिः सर्वोत्तमः साक्षाद्रमा देवी तदन्तरा
तदधो विधिवाण्यौ च तदधः शर्वपूर्वकाः ॥३२
एवं तरतमा ज्ञेयाः सुरदैत्यनरेषु च’
इत्येनं बोधिता विप्राः भृगुणा तत्त्ववेदिना
हरिं निश्चित्य सर्वेशं चक्रुस्तस्मै मखार्पणम् ॥३३
भृगुपादाहतिकुपितायाः ल्क्ष्म्याः करवीरपुरगमनम्
ततस्तु भगवान् देवः एकान्ते निजमन्दिरे
सार्धं च रमयाऽतिष्ठत् तदोवाच रमा हरिम् ॥३४
श्रीरामा -
’गच्छामि देवदेवेश! त्यक्त्वा त्वां जगदीश्वर!
ताडितोऽसि जगन्नाथ! ऋषिणा त्वं जगन्मयः ॥३५
मदालिङ्गस्थले देव! पादेनैव जगत्पते!
करवीरपुरं दिव्यं गच्छामि गरुडध्वज’ ॥३६
इति प्रेम्णा च कलहं कृत्वा तु हरिणा सह
रमा जगाम ततेक्ष्त्रं करवीरपुराह्वयम् ॥३७
[[330331]]
श्रीभविष्योत्तरपुराणे द्वितीयोऽध्यायः
लक्ष्म्यन्वेषणार्थं श्रीवेङ्कटाचलं प्रति भगवदागमनम्
यदा गता महालक्ष्मीः तदा नारायणो हरिः
’अष्टाविंशतिमे प्राप्ते द्वापरान्ते कलौ युगे
यस्मिन् देशे यदा प्रेमकलहोऽस्याः प्रशाम्यति ॥३८
कर्मणा येन च यता तत्तथा च करोमि तत्’
इति सङ्कल्प्य गोविन्दो लीलामानुषविग्रहः ॥३९
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्
गङ्गाया दक्षिणे देशे योजनानां शतत्रये ॥४०
सुवर्णमुखरी नाम नदीनां प्रवरा नदी
शुकस्य वरदा पुण्या ह्यगस्त्यमुनिपूजिता ॥४१
तस्या एवोत्तरे तीरे क्रोशार्धद्वयमात्रके
श्रीवेङ्कटगिरिर्नाम वर्तते पुण्यकाननः ॥४२
सुवर्णगिरिपुत्रस्तु सर्वतीर्थसमन्वितः
साक्षाच्छेषावतारोऽसौ सर्वधातुविराजितः ॥४३
वैकुण्ठसदृशो दिव्यो नारायणसमाश्रयः
शेषमारुतसंवादात् आगतः पुण्यकाननः ॥४४
योजनत्रयविस्तीर्णः त्रिंशद्योजनमायतः
वदनं वेङ्कटगिरिः नृसिंहाद्रिश्च मध्यमः ॥४५
श्रीशैलः पुच्छभागस्थः सर्वक्षेत्रमयो गिरिः
सर्ववृक्षसमाकीर्णः सर्वधातुविभूषितः ॥४६
कुन्दमन्दारपनसप्लक्षोदुम्बरकिंशुकैः
पिचुमन्दैः पारिजातैः तिन्त्रिणीजम्बुमण्डलैः ॥४७
सरलैश्च महावृक्षैः कृष्णागरुभिरञ्चितः
तालहिन्तालपुन्नागैः देवदारुभिराश्रितः ॥४८
हंसकारण्डवाकीर्णः बककोकशुकैर्युतः
कपोतैः क्षीरहंसाद्यैः मृगषण्डैश्च भूषितः ॥४९
सिंहशार्दूलशरभक्रोडमातङ्गवानरैः
जम्बुकैश्चैव भल्लूकैः कस्तूरीमृगमाहिषैः ॥५०
उरगैर्व्यालखड्गैश्च गोमायुभिरपि श्रितः
मल्लिकामालतीजातिनन्द्यावर्तैर्विराजितः ॥५१
चम्पकाशोकपुन्नाग केतकैः स्वर्णकेतकैः
एवं मनोहरः श्रीमान् पर्वतः पुण्यकाननः ॥५२
तरवो दैवतगणाः मृगाश्च ऋषिपुङ्गवाः
पितरः पक्षिणः सर्वे पाषाणा यक्षकिन्नराः ॥५३
एवं प्रभावोऽस्य गिरीन्द्रजन्मनः
श्रीवेङ्कटाद्रेस्तु हरेस्तथैव ।
जानन्ति न ब्रह्मशिवेन्द्रपूर्वकाः
अत्यल्पवीर्या मनुजास्तु किं पुनः? ॥५४
इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये
भगवतः श्रीवैकुण्ठाद्वेङ्कटाचलागमनवर्णनं नाम
द्वितीयोऽध्यायः
—–ठ्—–
[[332333]]
श्रीभविष्योत्तरपुराणे द्वितीयोऽध्यायः
तृतीयोऽध्यायः
अथ तृतीयोऽध्यायः
—–ठ्—–
श्रीस्वामिपुष्करिणीमाहात्म्यम्
शतानन्दः -
तस्योपरि वरा दिव्या स्वामिपुष्करिणी शुभा
मत्स्यकच्छपसम्बाधा जलकुक्कुटभूषिता ॥१
शिंशुमारगणाकीर्णा मण्डूकस्वरहुङ्कृता
तीरजैर्वृक्षसङ्घैश्च तुङ्गैराचुम्बिताम्बरा ॥२
गङ्गादिसर्वतीर्थानां जन्मभूमिर्विराजते
तस्यां ये स्नान्ति मनुजाः ते धन्याः पुण्यवर्धनाः ॥३
धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये
काङ्क्षन्ति विबुधश्रेष्ठाः मज्जनं तज्जले शुभे ॥४
काङ्क्षन्ति मनुजाः स्नानं इति भोः! किं वदामि ते
येऽत्र श्राद्धादिकर्माणि पितॄणां कुर्वते द्विजाः ॥५
तेषां च पितरस्तुष्टाः नृत्यन्ति हरिमन्दिरे
जन्मना किमनेनेह व्यर्थेन भवतामहो ॥६
स्नानदानेन तत्तीर्थे मनुजा भाग्यशालिनः
शङ्खो नाम नृपः कश्चित् स्नानमात्रेण राज्यगः ॥७
पुरा नारायणो नाम ब्राह्मणोऽङ्गिरसः सुतः
स्वामिपुष्करिणीतीर्थे महिम्ना स्नानजेन हि ॥८
वरं लब्ध्वा हरिं दृष्ट्वा जगाम हरिमन्दिरम्
रामोऽपि तत्र स्नानेन हृतां सीतामगात्पुरा ॥९
एवं तीर्थवरा तत्र स्वामिपुष्करिणी शुभा
तस्याः पश्चिमदिग्भागे वराहवदनो हरिः ॥१०
धरामालिङ्ग्य वल्मीके आस्ते पिप्पल्राजिते
त्रिकोटितीर्थजातानां जन्मस्थानं स भूधरः ॥११
एनं गिरवरं प्राप्य भगवान् वेङ्कटाचलम्
वैकुण्ठादधिकं मत्वा विचचार ततस्ततः
न प्राप किञ्चिदास्थानं गूहनार्थं रमापतिः ॥१२
श्रीनिवासस्य स्वामितीर्थपश्चिमतीरस्थवल्मीकप्रवेशप्रकारः
इत्थं विचार्यमाणे तु स्वामिपुष्करिणीतटे
दक्षिणे विमलं दिव्यं वल्मीकं दृष्टवान् मुदा ॥१३
तिन्त्रिणीवृक्षमूलस्थं भगवान् जगदीश्वरः
मत्वेदं परमं स्थानं तत्र लीनोऽभवद्धरिः
एवं देवे स्थिते तत्र विगतं वत्सरायुतम् ॥१४
अतीते द्वापरे दैव त्वष्टाविंशतिमे कलौ
अतीते वत्सरे कश्चित् चोलराजो नृपोत्तमः ॥१५
अवतारं समापन्नो नागकन्योदरे तथा
तस्मिञ्छासति भूखण्डं बहुपुण्यफलप्रदम् ॥१६
बहुक्षीरप्रदा गावः पुत्रा वै पितृवत्सलाः
काले ववर्ष पर्जन्यः सस्या वै बहुधान्यदाः ॥१७
[[334335]]
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः
नार्यः पतिव्रताः सर्वाः पुरुषाश्च सतीव्रताः
इत्थं शासति राज्ञ्यस्मिन् जना आनन्दतत्पराः ॥१८
आकाशनृपगृहे ब्रह्मादीनां धेन्वादिरूपेण स्थितिः
तस्मिन् काले विधिः साक्षात् धेनुरूपं समाश्रितः
ब्रह्मा धेनोः पालिकाऽभूत् गोपाली कमलाऽलया ॥१९
साक्षाद्रुद्रो वत्सरूपी ताभ्यां चेयं समागता
पश्यन्ती पतिमार्गं तु चोलराजं समभ्यगात् ॥२०
चोलराजगृहं प्राप्य सा मौल्येन सवत्सकाम्
विक्रीय गां महालक्ष्मीः जगाम निजधाम च ॥२१
गृहीत्वा तां महीपालो मुदमास प्रियान्वितः
बहुक्षीरप्रदां तां सः पुत्रार्थमकरोत्तदा ॥२२
ततो धेनुसहस्रेण साकं श्रीवेङ्कटाचले
सा गौर्जगाम नित्यं तु रमानाथं विचिन्वती ॥२३
तत्र तत्र समाजिफ्रुन् भूधरेन्द्रे वृषाकपिम्
विचिनोति स्म सर्वत्र धेनुरूपी विधिस्तदा ॥२४
ततः कालेन महता स्वामिपुष्करिणीतटे
वल्मीकस्थं हरिं ज्ञात्वा तुतोष मनसा विधिः ॥२५
समसिञ्चच्च वल्मीकं समन्तात् क्षीरधारया
तदाप्रभृति नित्यं तु राजधेनुगणैः सह ॥२६
तत्र गत्वा च भक्त्यैव वल्मीके क्षीरसेचनम्
जगन्नाथस्य सम्प्रीत्यै धेनुरूपी पितामहः ॥२७
चकारानुदिनं गेहे नैव क्षीरं ददौ तदा
चिरमेवं गते काले चोलराजसती स्वयम् ॥२८
धेनुपालं समाहूय वचनं चेदमब्रवीत्
’गवां पालक! दुर्बुद्धे! पयोऽस्याः किं करोषि रे? ॥२९
किं त्वं भुङ्क्षेऽथ वा वत्सो भुङ्क्ते? तद्वद मे द्रुतम्’
इति तस्या वचः श्रुत्वा गोपालो भयविह्वलः
उवाच वचनं मन्दं राजभार्यां सगद्गदम् ॥३०
गोक्षीरपायिनं श्रीनिवासं प्रति गोपालकृतताडनम्
’न जानेऽहं च तत्कर्म न मया पीयते पयः
स्वयं पिबति वा धेनुः वत्सो वेति न विद्महे ॥३१
सत्यं वचनमेतद्धि विचारं कुरु भामिनि!’
इति गोपवचः श्रुत्वा सा सती विह्वलेक्षणा ॥३२
ताडयामास तं गोपं रज्जुभिश्चर्मनिर्मितैः
ततः परदिने प्राप्ते ताडितो राजभार्यया ॥३३
कण्ठाङ्घ्रिबद्धरज्जुं तां त्यक्त्वा तत्पृष्ठतो ययौ
धेनुः प्राप्याथ वल्मीकं दिव्यं तद्धरिमन्दिरम् ॥३४
अभ्यषिञ्चत् पयोभिश्च स्वपयोधरसम्भवैः
तां दृष्ट्वा धेनुपः कोपात् कुठारं हस्तमात्रकम् ॥३५
उद्धृत्य तरसा तस्याः वधोद्योगं समाचरत्
तदा वल्मीकगः स्वामी वात्सल्यं दर्शयन् हरिः ॥३६
[[336337]]
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः
’स्वभक्तहसनं लोके स्वात्मार्थं सहते तु यः
स एव नरकं भुङ्क्ते यावदाचन्द्रतारकम् ॥३७
मदर्थे च कुठारेण हनिष्यति च गां खलः’
इति मत्वा रमाकान्तः श्रीनिवासो निरामयः ॥३८
’तुलसीदलमात्रेण मामकेनैव यः पुमान्
पूजयेद्भक्तिभावेन तं रक्षामीति मत्पणः ॥३९
इयं तु भक्त्या मां नित्यं सिञ्चति क्षीरधारया’
इत्थं विचार्य गोविन्दः तत्प्रहारं निगृह्य च ॥४०
स्वयं जग्राह तं घातं मौलौ स्वे च जगत्पतिः
कुठारेणातितीक्ष्णेन ताडिते वेङ्कटेश्वरे ॥४१
शिरःस्फोटं समापन्ने कुठारेण तदोत्थिता
सप्ततालप्रमाणेन रक्तवृद्धिरभूत्तदा ॥४२
स तं कोलाहलं दृष्ट्वा गोपालो मरणं ययौ
हते गोपे तदा सा गौः अवरुह्य गिरेस्तटात् ॥४३
राजानं समनुप्राप्य वत्सहीनेन दुःखिता
लुण्ठनं परिचक्रेऽथ राजाग्रे राजमन्दिरे ॥४४
मृतगोपविलोकनार्थं श्रीवेङ्कटाचलं प्रति नृपागमनम्
तां दृष्ट्वा विह्वलां गां नः लुठन्तीं चारमब्रवीत्
’किमर्थं लुठतीयं गौः त्यक्ता गोसन्ततिः कुतः? ॥४५
गवा सार्धं गच्छ चार! मेलयैनां गवां गणे’
इति राज्ञा समाज्ञप्तः चारस्तत्पृष्ठतो ययौ ॥४६
आरुह्य वेङ्कटगिरिं वल्मीकाग्रमुपाश्रितः
पतितं धेनुपं दृष्ट्वा वल्मीकाग्रात् समुत्थिताम् ॥४७
रक्तवृद्धिं घोरतरां सप्ततालप्रमाणिकाम्
संवीक्ष्य नृपचारोऽथ जगाम नृपमन्दिरम् ॥४८
चारस्तमानम्य नरेन्द्रसन्निधौ गोपालकृत्यं सकलं ज्गाद
गोपालघातेन कृतं सरक्तं वल्मीकरन्ध्रं तमुवाच दीनः ॥४९
रक्तवृद्धिं ततः श्रुत्वा राजा विस्मितमानसः
आरुह्य नरयानं च शीफ्रुमागात् वृषाचलम् ॥५०
वल्मीकस्यान्तिके स्थित्वा स इदं वाक्यमब्रवीत्
’किमिदं भोः महत्कष्टं केन पापेन वै कृतम् ॥५१
धेनुपालस्य मरणं वल्मीकं रक्तपूरितम्
गवा वृत्तान्तकथनं किमिदं वेङ्कटाचले’
इति राजवचोऽश्रौषीत् वल्मीकस्थो जगत्पतिः ॥५२
उद्भिद्य वल्मीकमनन्तवीर्यवान् अनन्तशैलेन्द्रतलं समाश्रितः
श्रीस्वामितीर्थस्य च दक्षिणे तटे वल्मीकगः श्रीभगवानुवाच ॥५३
सगद्गदोत्कण्ठसमाकुलाननः
सरक्तबाष्पोदकपूर्णलोचनः
चोलं नृपेन्द्रं बहुनिष्ठुरं गिरा
सशङ्खचक्रप्रतिमां समाश्रितः ॥५४
[[338339]]
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः
नृपं प्रति वल्मीकनिर्गतश्रीनिवासशापः
श्रीभगवान् -
’पापिष्ठोऽसि दुराचार! राज्यगर्वमदोन्नत!
अनाथं भक्तहीनं मां दरिद्रं वनचारिणम् ॥५५
पितृमातृविहीनं च भार्याबन्धुविवर्जितम्
सुभ्रातृहीनं कुटिलः कुठारेणासिधारिणा ॥५६
अताडयत् नृपश्रेष्ठ! तद्दुःखमतुलं ह्यभूत्
धेनुपालायुधाघाताज्जातं दुःखं महाद्भुतम् ॥५७
शिरो भिन्नं धेनुपेन दयाहीनेन दुर्मते!
यजमानो गृहे यस्तु न विचारपरो भवेत् ॥५८
स्त्रीपुत्राद्यैः कृतं कर्म तस्यानिष्टकरं विदुः’
इत्युक्त्वा भगवान् देवः शशाप नृपपुङ्गवम् ॥५९
’पिशाचो भव दुर्बुद्धे! मद्दुःखाधानकर्मणा’
इत्थं शप्तो नृपश्रेष्ठः पतितः शापमूर्छितः
मुहूर्तान्ते समुत्थाय प्रोवाच जगदीश्वरम् ॥६०
इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये
स्वामितीर्थपश्चितीरस्थवल्मीकात् श्रीनिवासाविर्भाववर्णनं
नाम तृतीयोऽध्यायः
—–ठ्—–
चतुर्थोऽध्यायः
अथ चतुर्थोऽध्यायः
—–ठ्—–
नृपं प्रति श्रीनिवासकृतशापहेतूपन्यासः
राजा -
’किमर्थमशपो देव! माऽपराधविवर्जितम्
अविचार्य जगन्नाथ! किं मयाऽऽचरितं तव ॥१
न जानेऽहं किञ्चिदपि दुःखदं ते रमापते!
हा कष्टमतुलं प्राप्तं कथमत्र जगत्पते!’ ॥२
इति तेन स विज्ञप्तः श्रीनिवासोऽतिदुःखितः
उवाच मन्दं वचनं राजानं शापमूर्छितम् ॥३
श्रीनिवासः -
पापिष्ठोऽहं दुराचारोऽस्म्यविचारी नृपोत्तम!
अज्ञानेनातिदुःखेन वृथा शापो मयाऽर्पितः ॥४
तथाऽपि मां विदुर्देवाः भगवन्तं सनातनम्
यतोऽतो मद्वचः सत्यं मद्भक्ता मामुपासते ॥५
मच्छापो ह्यनृतो न स्यात् इति वेदविदो विदुः
भक्तवात्सल्यदोषेण दुःखितोऽहं भवामि च ॥६
यावत्कलियुगं तिष्ठेत् तावद्दुःखी भवान् नृप!
उभौ दुःखं समापन्नौ सत्यसङ्कल्पदोषतः ॥७
भविष्यति नृपश्रेष्ठ! आकाश इति नामवान्
सोऽपि मे दास्यते कन्यां नाम्ना पद्मावतीं शुभाम् ॥८
[[340341]]
श्रीभविष्योत्तरपुराणे चतुरो्थऽध्यायः
कन्यादानस्य काले च ददाति वरदक्षिणाम्
किरीटं शतभारं च रत्नवज्रसमाकुलम् ॥९
शुक्रवारे तु सायाह्ने किरीटं धारयाम्यहम्
किरीटधारणे स्यातां नेत्रे मे जलपूरिते ॥१०
घटिकाषट्कमात्रं ते सुखं तत्र भविष्यति’
इति कालावधिं कृत्वा राज्ञः स्वस्य च माधवः ॥११
सुखस्य कालं संसूच्य स्वावतारप्रयोजनम्
स्वावतारस्य चरितं कलौ कन्यापरिग्रहम् ॥१२
इति सम्भाष्य राजानं तत्राऽस्ते भगवान् हरिः
क्षतशान्त्यर्थमाकाङ्क्षन् वैद्यशास्त्रविशारदम् ॥१३
गुरुं सुरपतीनां च सस्मार जगदीश्वरः
आगतं च गुरुं दृष्ट्वा ’स्वौषधं वद मे द्रुतम्’ ॥१४
भगवतक्ष्तापनोदनाय गुरुकृतकित्साप्रकारः
इति तेन समाज्ञप्तो जीवो जीववतां परः
’क्षीरमौदुम्बरं देव! तथा कार्पासमर्कजम् ॥१५
मेलयित्वा रमाकान्त! ततक्ष्तोपरि धार्यताम्’
इत्येवं गुरुणाऽऽज्ञप्तः तच्चकार यथोदितम् ॥१६
श्रीवेङ्कटाचलस्य अयोध्यामथुरादितौल्यवर्णनम्
एवं कुर्वन् रमानाथः तत्र लीनोऽभवद्धरिः
कौसल्या कीटकगृहं तिन्त्रिणी दशदिग्रथः ॥१७
गिरिरूपोऽनुजः साक्षात् अयोध्याऽभूदधित्यका
इत्थं रामावतारेण समां क्रीडामकल्पयत् ॥१८
वल्मीकं देवकी साक्षात् वसुदेवोऽथ तिन्त्रिणी
बलभद्रः शेषशैलो मथुराऽभूदधित्यका ॥१९
स्वामिपुष्करिणी तत्र यमुना च व्यराजत
यादवाश्च मृगाः सर्वे खगा वै गोपिकादयः ॥२०
एवं श्रीकृष्णरूपेण क्रीडितो वेङ्कटाचले
’अरायिकाणे विकटे गिरिं ग’ च्छेति तं विदुः ॥२१
एवं वेदमयः साक्षात् गिरीन्द्रः पन्नगाचलः
छन्नवल्मीकदेहाढ्यो वैकुण्ठादधिको ह्यभूत् ॥२२
सुवर्णमुखरी नाम नदी सा विरजा नदी
वैकुण्ठो वेङ्कटगिरिः वासुदेवो रमापतिः ॥२३
मुक्ता अजाः पक्षिगणाः मुक्ता रुद्रा मृगोत्तमाः
सनत्कुमारप्रमुखाः वानराद्या द्विजोत्तमाः ॥२४
मानुषं जन्म चाऽस्थाय यः पुमान् वेङ्कटाचलम्
गन्तुमिच्छति धर्मिष्ठः तेन सर्वमनुष्ठितम्
प्रीतो भवेद्रमानाथः सर्वदेवनमस्कृतः ॥२५
श्रीवेङ्कटाद्रेर्महिमानमुत्तमं
जानन्ति न ब्रह्मशिवेन्द्रपूर्वकाः ।
किमल्पवीर्यामनुजास्तमोगताः
जानन्ति विष्णोः स्थलमद्भुतं हि तत् ॥२६
इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये नृपतिं
प्रति श्रीनिवासकृतशापहेतूपन्यासादिवर्णनं
नाम चतुर्थोऽध्यायः
—–ठ्—–
[[342343]]
श्रीभविष्योत्तरपुराणे चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
अथ पञ्चमोऽध्यायः
—–ठ्—–
पद्मावतीपरिणयोपोद्घातः
ऋषयः -
’सूत! सूत! महाभाग! सर्वशास्त्रविशारद!
श्रुतं श्रीवेङ्कटेशस्य माहात्म्यं पापनाशनम् ॥१
अवतारप्रभावश्च चोलराजनिबन्धनम्
वैकुण्ठाच्चैवागमनं चरितं लौकिकं परम् ॥२
कृपालोऽसिदयासारः शिष्यप्रीतिपरायणः
तत्कल्याणविधिं ब्रूहि को वाऽऽकाशनृपोत्तमः ॥३
कथं पुत्र्यभवत्पूर्वं कथं जामातृतां गतः
योगिनां मनसाऽचिन्त्यः श्रीनिवासः सतां गतिः ॥४
तत्त्वेन ब्रूहि भगवन्! साङ्गं वैवाहिकं शुभम्
यः पुमान् वेङ्कटेशस्य महिमक्षीरसागरे
स्नानाचारपरो नित्यं स धन्यः पुण्यवर्धनः’ ॥५
एवं मुनीनां वचनं निशम्य
सूतो नितान्तं निजशिष्यसङ्घान्
उवाच भक्त्या ह्यतिनव्रुदेहः
साध्वित्यसौ तान् कृपयाऽभिनन्दन् ॥६
श्रीसूतः -
शृण्वन्तु मुनयः सर्वे भक्तिभावेन संयुताः
पन्नगाचलनाथस्य कन्यासङ्ग्रहणं शुभम् ॥७
कदाचिद्वेङ्कटेशस्तु स्वौषधार्थं स्वयं हरिः
गमनाभिमुखो भूत्वा निर्जगामारुणोदये ॥८
तस्मिन् काले वराहस्तु मृगयायां स सूकरः
श्यामाकहारिणं जित्वा दैत्यं वृषभनायकम् ॥९
समागच्छत्तदा देवो वेङ्कटेशं ददर्श सः
गर्जन्तः ’कोऽसि कोऽसीति’ सूकरास्तत्र चाऽययुः ॥१०
तान् दृष्ट्वा जगदीशस्तु तत्र लीनोऽभवद्धरिः
लीनं तं वेङ्कटे दृष्ट्वा वराहवदनो हरिः ॥११
वैकुण्ठादागतं मत्वा वेङ्कटेशं श्रियः पतिम्
उवाच वचनं देवं धैर्यमालम्ब्य बुद्धिमान् ॥१२
सोऽपि श्वेतवराहं तं जानन् वल्मीकतस्तदा
निरीक्षमाणः सोत्कण्ठं निर्गत्योत्तरमभ्यधात् ॥१३
ततोऽन्योन्यविलोकोत्थबाष्पसन्दिग्धलोचनौ
क्रोडनारायणौ साक्षात् रूपद्वन्द्वविराजितौ ॥१४
ऊचतुर्भाषणं चोभौ कृतलोकविडम्बनौ
तयोस्तदद्भुतं कर्म दृष्ट्वा ब्रह्मपुरोगमाः
ववृषुः पुष्पवर्षाणि क्रोडनारायणोपरि ॥१५
’यथायुगं यथादेशं यथाकालं यथावयः
तथाऽवतारमाकाङ्क्षन् रमते प्राकृतो यथा’ ॥१६
एवं वदन्तः सुरपुङ्गवास्ते विचित्रमायां जगदीशचेष्टाम् ।
स्तुवन्त ऊचुस्तमनन्तवीर्यं अनन्तशैलं च रमापतिं च ॥१७
[[344345]]
श्रीभविष्योत्तरपुराणे पञ्चयोऽध्यायः
श्रीवराहानुज्ञया श्रीनिवासस्य शेषाचलप्राप्तिः
इत्यन्योन्यं भाषमाणौ साक्षान्नारायणावुभौ
सकौतुकं च संवीक्ष्य स्तुत्वा स्वं स्वं पदं ततः ॥१८
गते देवगणे तत्र वराहो हरिमब्रवीत्
श्रीवराहः -
’त्यक्त्वा वैकुण्ठलोकं तु किमर्थं त्वमिहाऽगतः’ ॥१९
तद्वदस्व महाभाग! जगदानन्दकारण!
इति तेन समाज्ञप्तो न्यगदत्कोलरूपिणा ॥२०
श्रीनिवासः-
’भृगोरम्फ्रिुप्रपाताच्च रमा कॊलाछपुरं गता
तेन दुःखेन सन्तप्तः त्यक्त्वा वैकुण्ठमुत्तमम् ॥२१
आगतोऽस्मि धराकान्त! वल्मीके तव दक्षिणे
निवसन्तं च मां देव! धेनुपालो ह्यताडयत् ॥२२
कुठारेणासिधारेण ततक्ष्तं मां प्रबाधते
औषधार्थं वराहात्मन्! गच्छामीह निरन्तरम् ॥२३
दैवेन दृष्टवानस्मि त्वामद्येह धराधरम्
अत्रैव निवसामीति सङ्कल्पो मम वर्तते ॥२४
स्थलं देह्यवनीकान्त! यावत्कलियुगं भवेत्’
इति तेन स विज्ञप्तो वराहवदनो हरिः ॥२५
उवाच वचनं देवः ’स्थलं मौल्येन गृह्यताम्’
इति वाक्यं ततः श्रुत्वा प्रोवाच मधुरं वचः ॥२६
’प्रथमं दर्शनं च स्यात् नैवेद्यं क्षीरसेचनम्
इदमेव परं द्रव्यं ददामि करुणानिधे ॥२७
दास्यामि यत्ते भूकान्त! तदङ्गीकुरु माधव!
वरं द्रव्यमिदं तात! कृपां कुरु कृपानिधे! ॥२८
इत्युक्तो हरिणा पोत्री हरये स्थानकाङ्क्षिणे
तदा ददौ स्थलं पादशतमात्रं रमापतेः ॥२९
परस्परं विनोदेन कुर्वाणावेकरूपिणौ
मोहनार्थमभक्तानां भक्तानां भक्तिसिद्धये ॥३०
सङ्क्रीडाते वेङ्कटेशक्रोडरूपौ सुरोत्तमौ
तदारभ्य धराकान्तो वकुलां पाककारिणीम् ॥३१
अर्पयामास देवस्य सेवार्थं वेङ्कटेशितुः
भोजनार्थं रमेशस्य श्यामाकान्नं निरन्तरम् ॥३२
समधु प्रेषयन्नित्यं तया वकुलमालया
सा बाला भक्तिनिरता श्रीनिवासस्य सन्निधौ ॥३३
अन्नपानौषधाद्यैश्च पादसंवाहनादिभिः
पूजयामास गोविन्दं श्रीनिवासं निरामयम् ॥३४
ऋषयः -
श्रुतं सूत महाभाग! देवागमनमुत्तमम्
न श्रुतं श्रीवराहस्य प्रथमं दर्शने फलम् ॥३५
[[346347]]
श्रीभविष्योत्तरपुराणे पञ्चयोऽध्यायः
श्रीनिवासस्य कृष्णस्य कल्याणं शुभदं महत्
पुनः श्रीवेङ्कटगिरौ वासः श्रीशारङ्गधारिणः
वकुला सेविका प्रोक्ता का सा पूर्वं वदस्व नः ॥३६
वकुलमालिकाख्यभगवत्परिचारिकापूर्वजन्मवृत्तान्तः
श्रीसूतः -
पुरा यशोदा वकुला कृष्णस्य जननी ह्यभूत्
अदृष्ट्वाऽनन्तरूपस्य कृष्णस्य तनयस्य सा
कल्याणं सुखदं स्वस्य तदयाचत तं हरिम् ॥३७
यशोदा -
’मनः सीदति मे कृष्ण! तव कल्याणवीक्षणे
दर्शयस्व रमानाथ! यशोदानन्दवर्धन! ॥३८
कल्याणादि महापुण्यं पावनं चरितं तव’
तयेत्युक्तो रमानाथः सोऽवदन्मधुरं वचः ॥३९
श्रीभगवान् -
जन्मन्यनन्तरे देवि! तावकीनं मनोरथम्
श्रीशैले पूरयिष्यामि किञ्चित्कालादनन्तरम् ॥४०
देवेनेत्थं दत्तवरा साऽत्यजत्तेन हेतुना
कलेवरं तु कल्याणी यशोदा नन्दवल्लभा ॥४१
तस्याः प्रीत्यै वासुदेवो ह्यष्टाविंशे कलौ युगे
आविर्भूय यशोदायाः तोषकैर्गुणकर्मभिः ॥४२
क्रीडन्नास्ते जगद्योनिः निर्दोषोऽपीश्वरोऽपि च
दैत्यानां वञ्चनायैव सुराणां मुक्तिहेतवे ॥४३
स्वभक्तानां हितार्थाय विरक्तानां विशेषतः
मुक्तिमापादयन् देवः क्रीडते प्राकृताऽकृतिः ॥४४
इत्येवं कारणेदेव यशोदा वकुलाऽभवत्
सा करिष्यति कल्याणं हरेर्वेङ्कटवासिनः ॥४५
किमलभ्या हरौ तुष्टे ज्ञानविज्ञानसम्पदः
कश्चिद्देवं पूजयति कश्चिद्देवेन पूज्यते ॥४६
हनूमता पूजितोऽपि स्वयमर्जुनमर्चति
को वर्णयेद्धरेः क्रीडां विचित्रां जनपावनीम् ॥४७
नित्यशुद्धस्य वै विष्णोः यतोऽमुष्याभिवन्दने
कृते पुण्यमृषीणामप्यकृते दोषसङ्ग्रहः ॥४८
तस्मात्पूज्यो हरिः सर्वैः ऋषिभिस्तत्त्वकोविदैः
पितृभिर्भूमिपैर्विप्रैः मानवैः राक्षसैर्जडैः ॥४९
कलौ कलुषचित्तानां पापाचाररतात्मनाम्
रक्षणार्थं रमाकान्तो रमते प्राकृतो यथा ॥५०
दैत्यानां मोहनार्थाय सुराणां मोचनाय च
क्रीडते बालकैर्बालो जगत्पालकबालकः ॥५१
जगन्मोहनसौन्दर्यलीलामानुषविग्रहः
नैतद्रूपं कृतं देवैः न कृतं विश्वकर्मणा ॥५२
[[348349]]
श्रीभविष्योत्तरपुराणे पञ्चयोऽध्यायः
स्वेच्छया क्रीडते तत्र स्वेच्छारूपविराजितः
क्षेत्रस्य महिमा दिव्यः तथा तीर्थस्य वैभवम् ॥५३
तत्र साक्षाद्रमाकान्तः किं तत्र सुकृतं कृतम्?
बहुजन्मार्जितैः पुण्यैः लभ्यते क्षेत्रदर्शनम् ॥५४
तत्रापि वेङ्कटगिरेः दर्शनं मुक्तिदं परम्
दुर्लभं देवसङ्घानां मनुष्याणां तु का कथा?५५
इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये
पद्मावतीपरिणयोपोद्घातादिवर्णनं नाम
पञ्चमोऽध्यायः
—–ठ्—–
षष्ठोऽध्यायः
अथ षष्ठोऽध्यायः
—–ठ्—–
मृगयाविहारोद्युक्त श्रीनिवासालङ्कारवर्णनम्
श्रीसूतः -
स कदाचिद्रमेशस्तु चिन्तयामास वै हयम्
मनसा चिन्त्यमाने तु हयः प्रत्यक्षतां गतः ॥१
वायुरश्वत्वमापन्नो रज्जुस्तत्त्वाभिमानिनी
उपासर्पत्स्वयं लक्ष्मीः ततोऽश्वं तं स पूजयन् ॥२
तस्योपरि समातिष्ठत् सर्वाभरणभूषितः
शुभ्रवस्त्रं पञ्चदशहस्तं बिभ्रत्तथोपरि ॥३
काञ्चीं बद्ध्वा रमाकान्तः काञ्चीदामविभूषितः
शुभ्रवर्णं चोत्तरीयं पञ्चहस्तं तथाऽदधत् ॥४
आदर्शालोकिते वक्त्रे धृत्वा शुभ्रां च मृत्तिकाम्
तन्मध्ये कुङ्कुमेनापि तिलकं सुमनोहरम् ॥५
पूगीफलं च ताम्बूलं चूर्णनिक्षेपपात्रकम्
कर्पूरवासितैः पूगकाचैर्जातीफलैः शुभैः ॥६
लवङ्गैः पत्रसम्मिश्रैः गर्भितां रत्नपेटिकाम्
आदर्शमृत्तिकां शुभ्रां तथा कुङ्कुमभाजनम् ॥७
स्वर्णनिर्मितवस्त्रेण बद्ध्वा तु कटिमध्यतः
स्वर्णयज्ञोपवीताङ्गः कण्ठाभरणभूषितः ॥८
कङ्कणाङ्कितदोर्भ्यां च सम्पूर्णवरगात्रकः
भुजकीर्त्या रत्नमय्या राजमानोऽङ्गुलीयकैः ॥९
[[350351]]
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः
कुङ्कुमाक्तसुगन्धेन लिप्तोरोबाहुरञ्जितः
कबरीकृतकेशेषु रक्तवस्त्रं सुवेष्ट्य च ॥१०
लम्बितैः पुष्पजालैश्च स्कन्धगैः परिभूषितः
सुवर्णरत्नसम्बद्धपादुकागूहिताम्फ्रिुकः ॥११
धनुर्बाणधरः श्रीमान् साक्षान्मन्मथमन्मथः
एवं मनोहरं रूपं धृत्वा श्रीवेङ्कटेश्वरः ॥१२
हयं रत्नसमाकीर्णैः उपबरेछैर्विभूषितम्
सुवर्णतिलकोल्लासिवक्त्रं वायुमनोजवम्
नीलवर्णं पाण्डुपादं हस्तपञ्चदशोन्नतम् ॥१३
आरुह्य देवमण्यादिसर्वलक्षणसंयुतम्
अवरुह्य गिरिश्रेष्ठात् मृगयार्थं जगाम सः ॥१४
मृगयाविहारसमये श्रीनिवासस्य कन्यादर्शनम्
मृगान् बहुविधाकारान् सिंहशार्दूलजम्बुकान्
मातङ्गान् शरभान् घोरान् तथा वै महिषानपि ॥१५
जघान तान् वने देवः सञ्चरन् स इतस्ततः
तत्रैकं हस्तिनं दृष्ट्वा मदोन्मत्तं वनेचरम् ॥१६
तं हन्तुमगमत्पृष्ठं अनुसृत्य रमापतिः
स जगाम वने दूरं भयाद्भीतो वृषाकपिः१७
स योजनार्थं गत्वा तु तत्र देवं जनार्दनम्
दण्डवत्पतितो भूत्वा शुण्डामुद्धृत्य गर्जयन्
यदा गतस्तदा कन्या दृष्टि मार्गमुपाश्रिता ॥१८
ऋषयः -
’सा कन्या कस्य सम्बद्धा किमर्थं वनमागता?
कस्येयं तनया कन्या? तद्वदस्व महामुने!’ ॥१९
इति तैश्च स विज्ञप्तः सूतः परमधार्मिकः
उवाच वचनं भक्त्या सन्तोषोद्युक्तमानसः ॥२०
श्रीसूतः -
शृण्वन्तु मुनयः सर्वे! कन्याया जन्म पावनम्
पुरा तु द्वापरस्यान्ते पाण्डवानां महात्मनाम् ॥२१
युद्धे तु भारतेऽतीते त्वष्टाविंशे कलौ युगे
विक्रमार्कादयो भूपाः स्वर्गलोकं यदा ययुः ॥२२
तत्कालान्ते वत्सरेषु साहस्रेषु गतेषु वै
चन्द्रवंशे नृपः कश्चित् सुवीर इति विश्रुतः ॥२३
जज्ञे सुधर्मस्तत्पुत्रः तत्पुत्त्रौ नृपपुङ्गवौ
आकाशतॊण्डमानाख्यौ जातौ लोकयशस्करौ ॥२४
धर्मिष्ठौ दृढभक्तौ तु नारायणपरायणौ
ज्येष्ठो वियन्नृपः साधुः कनिष्ठः तॊण्डमान् नृपः ॥२५
तॊण्डदेशाधिपो भूत्वा शशास पृथिवीमिमाम्
तस्मिन् शासति भूचक्रं इदं स्वर्ग इवाभवत्
निरातङ्कमभूत्सर्वं जगत् स्थावरजङ्गमम् ॥२६
गावो बहुपयोदाश्च नार्यः पतिपरायणाः
कदाचित् पुत्रकाङ्क्षी स ह्येकान्ते भवने स्थितः
अपुत्रो नृपतिर्दुःखात् गुरुं प्रोवाच भक्तितः ॥२७
[[352353]]
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः
पुत्रालाभेन वियन्नृपानुभूतचिन्ताप्रकारः
आकाशराजः -
’अनुभूतमिदं राज्यं हस्त्यश्वरथसङ्कुलम्
नानादानमकार्षं च तीर्थयात्रां विशेषतः२८
नानुभूतं पुत्रसुखं पितॄणां मुक्तिदं द्विज!
किं मयाऽऽचरितं पापं कस्य पुत्रो हतः पुरा? ॥२९
केन पापेन विप्रेन्द्र! न प्राप्तं पुत्रजन्म मे
नेत्राभ्यां नैव दृष्टं च पुत्रस्य मुखपङ्कजम् ॥३०
कर्णाभ्यां न श्रुतः शब्दः पुत्रेण रुदता कृतः
द्विजेन्द्रपितृबन्धूनां दुर्गतिश्च भवेत्तथा ॥३१
अपुत्रस्य गतिर्नास्तीत्येवं वेदविदो विदुः
पुत्रेण रिक्तपात्रे तु नान्नं भुक्तं मया सह ॥३२
कृतदोषेण न मया कदाचिल्लालितः सुतः
भूषणान्यादरात्कृत्वा न पुत्रोऽलङ्कृतो मया ॥३३
स सञ्जातो न मे यः स्यात् पुत्रः पितृहिते रतः
सुतार्थं कवचं कृत्वा त्वमेहीति स नोदितः ॥३४
पुत्रहीनं च मां दृष्ट्वा कर्षन्ति यमकिङ्कराः
’गच्छ राजन्! जवेनैव यमस्य भवन्न त्वि’ ति ॥३५
पाशकुण्ठितसर्वाङ्गः किमु वक्ष्याम्यपुत्रवान्?
चित्रगुप्तेन लिखितं अपुत्रत्वं महामते! ॥३६
मद्गर्भजेन सुकुलं मार्जितं तु कदा भवेत्
’दुराचारोऽसि दुर्बुद्धिः अपुत्रे’ति यमेन च ॥३७
भाषितं वचनं श्रुत्वा कः पुमान् सुखमाप्नुयात्?
नष्टदीपोऽतिनैष्ठुर्यः कष्टोद्भूतकलेबरः ॥३८
वृथा जातोऽतिपापात्माऽस्म्यात्मनो नरकावहः
तन्तुहीनं कुलं चापि विगताम्बुं च वापिकाम् ॥३९
अङ्गनां भर्तृहीनां च सन्तो निन्दन्ति संसदि
किं करोमि महीदेव! क्व गच्छामीह का गतिः ॥४०
कं देवं शरणं गत्वा भवाब्धिं प्रतराम्यहम्?
रुदन्तं पुत्रमालोक्य कदा प्रेम्णा तमाह्वये ॥४१
घण्टां च प्रतिमां दत्त्वा पुत्रस्य फलकन्दुकौ
गजमारोप्य मां तात! कुर्वन् ग्रामप्रदक्षिणम् ॥४२
सभां गच्छाथ राजेन्द्र! तथा तालस्वनेन च
इति पुत्रेण सोत्कण्ठं कृतां मञ्जुलभाषिणा ॥४३
कदाचिदपि नैवाहं श्रुतवान् प्रार्थनामिति’
अजातपुत्रः शोकेन मूर्छामाप महीपतिः ॥४४
पुनः सञ्ज्ञामवाप्याथ विललाप सुदुःखितः
’कवचं कारयित्वा तु शिरोभूषणमप्यथ ॥४५
केशभूषणमत्यर्थं रत्नवज्रसमाकुलम्
कदाचिदङ्कमारोप्य न मयाऽलङ्कृतः सुतः ॥४६
नोपनीतोऽपि च प्रीत्या सुतो मे पञ्चवार्षिकः
अष्टमे वाऽथ दशमे न कृतो दारसङ्ग्रहः ॥४७
बालस्य जातकर्माऽपि नाकार्षं नापि चाभिधाम्
पुत्रार्जितं धनं ब्रह्मन्! नोपजीवितमद्य मे ॥४८
[[354355]]
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः
अभिषिच्य सुतं राज्ये भार्यया कृतभोजिना
न गतं च वनं विद्वन्! पारम्पर्यक्रमान्मया ॥४९
अहो दरिद्रस्य महानुभाव! मे
पुत्रेण हीनस्य कथं गतिर्भवेत्
वृथा शरीरं घटकुड्यसन्निभं
जातं सुधर्मस्य कुले सुपावने ॥५०
मनुष्याणामनाथानां दुर्लभं पुत्रजन्म च
बहुपुण्यवशात्पुत्रो जायते मानवोदरे ॥५१
कन्यकाऽपि न सम्भूता ह्यस्माकमतिपाप्मनाम्
सत्पुत्राः क्व नु जायेरन् धर्मसन्तानसञ्ज्ञिकाः ॥५२
वरदाच्युत रङ्गेश! जगन्नाथ जगद्गुरो!
सुब्रह्मण्य सुराधीश! राम! कृष्ण! नमोऽस्तु ते ॥५३
वेङ्कटेश! रमाकान्त! वराहवदनाच्युत!
नारायण! रमाधीश! कृपां कुरु कृपानिधे! ॥५४
सुपुत्रवन्तः खलु भाग्यवन्तः ह्यपुत्रवन्तो भुवि दुःखवन्तः ।
संसारसिन्धोस्तरणेऽस्म्यशक्तः का मे गतिः कर्मफलानुभोगिनः ॥५५
एवमुक्त्वा महीदेवं विरराम महीपतिः
’पापिष्ठोऽहं दुराचारः पुत्रेणाहं दरिद्रितः ॥५६
हा कान् लोकान् गमिष्यामि क्रूरं वा नरकं गुरो
क उपायो महाप्राज्ञ! पुत्रलाभे द्विजोत्तम!’
इति राजवचः श्रुत्वा गुरुर्वाक्यमुवाच ह ॥५७
धरणीतलात् पद्मावत्युत्पत्तिवर्णनम्
गुरुः -
’यज्ञं कुरु नृपश्रेष्ठ! पुत्रस्तेन भविष्यति’
गुरोर्वाक्यं समाकर्ण्य यज्ञायाशोधयद्धराम् ॥५८
स्वर्णलाङ्गलसङ्घैश्च द्विजमन्त्रिगणैस्तथा
शोध्यमाने धरापृष्ठे तत्र पद्मं ददर्श सः
सहस्रपत्रं राजेन्द्रः ’किमेत’ दिति विस्मितः ॥५९
कन्यां च पत्रेषु रमाकृतिं शुभां
दृष्ट्वाऽतिसन्तुष्टमना बभाषे ।
’देवेन दत्ता त्वियमिन्दिराभा
कन्याकुमारी कमलाभनेत्री’ ॥६०
इत्थं समाभाष्य नृपोत्तमोऽसौ
हस्ते प्रगृह्याऽऽशु बभाण दीनः ।
’माया महेशस्य दुरत्यया हरेः
केयं तु या सम्प्रति गृह्यते मया’ ॥६१
इत्येवं संशयानं तं आकाशाख्यं नराधिपम्
उवाचाऽऽकाशगा वाणी ’पुत्रीयं तव वल्लभा ॥६२
संरक्षैनां महाभाग! बहुकीर्तिफलप्रदाम्’
इत्यनन्तगतां वाणीं श्रुत्वा राजाऽतिहर्षितः ॥६३
तां कन्यां प्रतिगृह्याऽऽशु स्वभार्यां प्रत्युवाच ह
’शृणु भद्रे! महाप्राज्ञे! देवदत्तामिमां शुभाम् ॥६४
[[356357]]
श्रीभविष्योत्तरपुराणे षषो्ठऽध्यायः
संवर्धय वरां पुत्रीं गर्भजातां सुतामिव’
इत्युक्त्वा तत्करे दत्त्वा बहुदानमथाकरोत् ॥६५
वियन्नृपस्य वसुदानाख्यसुतोत्पत्तिः
कन्याऽऽगमनपुण्येन सा देवी गर्भमादधे
गर्भिणीं स्वसतीं दृष्ट्वा चक्रे पुंसवनं पतिः ॥६६
पञ्चमासे तु सञ्जाते सीमन्तं नृपपुङ्गवः
कारयामास विधिना ब्राह्मणैर्यजुषां गणैः ॥६७
ततः कालेन सा साध्वी नवमासे गते सती
मासे तु दशमे प्राप्ते सुषुवे पुत्रमुत्तमम् ॥६८
कन्याराशिगते भानौ दशम्यां रोहिणीयुजि
पक्षे तु प्रथमे देवी सायङ्काले गुरोर्दिने ॥६९
पुत्रोत्पत्तिप्रवक्तॄणां सर्वस्वं दत्तवांस्तदा
गवां कोटिसहस्राणि चाश्वानामयुतं तथा ॥७०
नवधान्यानि वस्त्राणि विना स्वे छत्रचामरे
दानं कृत्वा नृपश्रेष्ठः स्वस्तिवाचनमाचरत् ॥७१
जातकर्मादिकं कर्म कृतवांस्ततक्ष्णं नृपः
दिने च द्वादशे प्राप्ते कृत्वा पुत्राभिधां तथा ॥७२
यन्नाम्ना वसुदातेति लोके ख्यातिं गमिष्यति
तद्दिने बहुविप्रौघान् अन्नाद्यैः पर्यतोषयत् ॥७३
ऋषयः -
श्रुतं पुत्रस्य चरितं न श्रुतं व्यासवल्लभ!
अयोनिजायास्तत्पुत्र्याः किं नाम च तदाऽकरोत् ॥७४
श्रीमातः -
पद्मोदरीं पद्मगर्भां पद्मजातां वराननाम्
पद्माया अवतारां तां मत्वा तस्यास्तदाऽकरोत् ॥७५
अनुरूपं नामकर्म नाम्ना पद्मावतीति च
वर्धमानौ सुतौ दृष्ट्वा राजा सन्तोषमागतः ॥७६
अकलङ्केन्दुसदृशौ रमाचन्द्रमसाविव
किं तेन सुकृतं राज्ञा बहुजन्मसु सञ्चितम् ॥७७
अग्रजां पुत्रिकां दृष्ट्वा तदन्ते पुत्रमुत्तमम्
दृष्ट्वा तुतोष मनसा सम्पूर्णानन्दविभ्रमः ॥७८
इत्थं काले गते तस्मिन् सा बाला यौवनं गता
यौवनाढ्यां विशालाक्षीं दृष्ट्वा राजाऽप्यचिन्तयत् ॥७९
विचारयन् स नृपतिः पुत्र्यर्थं वरमुत्तमम्
न प्राप दुःखसन्तप्तः ’कस्मै देया मया सुता’ ॥८०
इति चिन्ताऽब्धिमग्नोऽसौ पुत्रीपरिणये तदा
असम्मतोऽकरोत्पुत्रं परं संस्कारसंस्कृतम् ॥८१
श्रुत्वा राजसुता बाला ब्राह्मणैरनुजं परम्
तदोपनीतं सद्योऽभूत् पुत्री यौवनपीडिता ॥८२
सा कदाचिद्वनं बाला सखीभिः परिवारिता
जगाम पुष्पाण्याहर्तुं कन्या कमललोचना ॥८३
वसन्तमागतं वीक्ष्य वने ताभिर्भयाकुला
पुष्पाण्याहारयामास तरुमूलमुपाश्रिता ॥८४
[[358359]]
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः
तदागतो नारदस्तु वृद्धो भूत्वा जटाधरः
धूलीधूसरिताङ्गश्च कर्पूरसदृशद्युतिः ॥८५
आगतं तं मुनिं दृष्ट्वा विस्मयाऽकुलमानसा
पद्मावती सखीः प्राह चटुला भृशकातरा ॥
’कोऽसौ भयङ्करो बालः! क्व यात्यत्र विचार्यताम्
इत्युक्तास्तास्तदा कन्याः पप्रच्छुः स्थविरं द्विजम् ॥८७
’कोऽसि विप्र महाप्राज्ञ! किमर्थं त्वमिहागतः’
वाक्यं तासां समाकर्ण्य गुरुः प्रोवाच सद्वचः ॥८८
नारदः -
’अहं कुलगुरुः साक्षात् युष्माकं वरयोषिताम्
हस्तं दर्शय मे पुत्रि! लक्षणानि वदामि ते’
उवाच लज्जया देवी ’किं वदिष्यसि हे द्विज!’ ॥८९
’विद्धि त्वं पितृतुल्यं मां मनसा निर्मलेन च’
इत्युक्ता मुनिना तेन दत्त्वा हस्तं वराङ्गना
प्राह भावि शुभं श्रोतुं निजलक्षणलक्षितम् ॥९०
पद्मावती -
’सत्यं वद महाप्राज्ञ! लक्षणानि विलोक्य मे’
ततो दृष्ट्वा पाणितलं प्राह स्माजतनूभवः ॥९१
नारदोक्तपद्मावतीशरीरसल्ल्क्षणानि
नारदः -
’पतिर्भवति धर्मज्ञो त्रिलोकेशो रमापतिः
पाणी पद्मदलोपेतौ पादौ ते स्वस्तिकायतौ ॥९२
मुखं चन्द्रसमाकारं चक्षुः कमलकुड्मलम्
तिलपुष्पसमाकारा नासिका ते विराजते ॥९३
कपोलौ मुकुराभौ ते भ्रुवौ ते धनुषा समे
दन्ता दाडिमबीजाभाः आस्यं कर्पूरभाजनम् ॥९४
अधरं रक्तपद्माभं जिह्वा मृदुतरा शुभा
अरालालकसमृद्धा श्यामला भाति वेणिका ॥९५
ललाटं रत्नपीठाभं श्रोत्रे शष्कुलिकासमे
तनुस्ते मन्मथाकारप्रतिमाऽप्रतिमप्रभा ॥९६
कण्ठः सूर्यांशुसदृशताम्बूलरसदर्शकः
स्तनौ पीनौ घनौ कुब्जौ शुभौ ते मग्नचूचुकौ ॥९७
उदरं कदलीपर्णसदृशं निम्ननाभिकम्
कटिस्तव करिध्वंसिकटिसाम्ययुता शुभा ॥९८
रम्भास्तम्भसमाकारं तवोरुयुगुलं रमे!
पृष्ठं ते वेदिवद्भाति किं त्वया सुकृतं कृतम् ॥९९
गमनं करिराजस्य सदृशं ते वरानने’
इति सम्भाष्य तां देवीं देवर्षिः पद्मसम्भवाम् ॥१००
अन्तर्दधे नारदस्तु सर्वासां पुरतो मुनिः
संस्तुत्य कमलां देवीं मनसा चिन्तयन् रमाम्
मनसा वन्दनं कृत्वा जगामाथ ऋषिस्तदा ॥१०१
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये मृगया
विहारोद्युक्तश्रीनिवासालङ्कारादिवर्णनपूर्वकमाकाशनृपतेः
कन्यापुत्रप्राप्तिवर्णनं नाम षष्ठोऽध्यायः
—–ठ्—–
[[360361]]
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः
सप्तमोऽध्यायः
अथ सप्तमोऽध्यायः
—–ठ्—–
पद्मावत्याः पुष्पापचयसमये श्रीनिवासदर्शनम्
श्रीसूतः -
’कन्यया जननं प्रोक्तं कुमारस्यापि वै ततः
तस्या वदामि चारित्रं वैवाहं पुण्यवर्धनम् ॥१
करीन्द्रसङ्गेन समागतो हरिः तुरङ्गमास्थाय वराङ्गनानाम् ।
श्रीगन्धलेपारुणचारुवक्षाः बालर्कभाः सोऽथ समीपमाययौ॥
गर्जन्तं गजराजं तं दृष्ट्वा पद्मावतीमुखाः
वनस्पतिमुपाश्रित्य तत्र लीनास्तदा भवन् ॥३
निमील्य नेत्रवर्त्मानि व्यूहं कृत्वा वराङ्गनाः
पश्यन्त्योऽथ तरुच्छन्नाः पुनः पुनरवस्थिताः ॥४
तदन्तरेऽबलाः सर्वाः ददृशुरछयमुत्तमम्
बालार्कसदृशाकारं स्वर्णाभरणभूषितम् ॥५
पुरुषेण समायुक्तं मन्मथाकारतेजसा
तं दृष्ट्वा गजराजोऽपि हयस्थं पुरुषोत्तमम् ॥६
समस्कृत्य यथान्यायं जगाम विपिनं नदन्
तं दृष्ट्वा योषितः सर्वाः विस्मयाऽकुलमानसाः ॥७
करसम्पुटमापन्नाः चलितास्तु भयातुराः
वृक्षमूलं गता बालाः अन्योन्यं वाक्यमब्रुवन् ॥८
’कोऽयमत्र वरारोहे! सखि! कञ्जायतेक्षणे!
कोऽसौ किरातरूपी च किं न दृष्टस्त्वया पुरः ॥९
तुरङ्गोपरि संस्थाय य आगच्छति हे सखि!’
एवं वदन्त्यस्तास्तस्थुः सा च पद्मावती शुभा ॥१०
उवाच मन्दं वचनं सखीस्तास्तु ततो द्विजाः!
’पृच्छन्तु तस्य वृत्तान्तं पितृमातृस्वबान्धवान् ॥११
देशं वृत्तं कुलं शीलं नामगोत्रादिकं तथा’
इति सख्या समाज्ञप्ताः ता ऊचुर्वचनं स्त्रियः
आगतं पुरुषं दृष्ट्वा ’कोऽसि कोऽसी’ ति चाब्रुवन् ॥१२
कन्याः -
’किमर्थमागतोऽसि त्वं किं ते कार्यं वद प्रभो!
न सन्ति पुरुषा ह्यत्र गच्छ गच्छे’ति चाब्रुवन्
तासां तद्वचनं श्रुत्वा हयस्थो वाचमूचिवान् ॥१३
श्रीभगवान् -
’अस्ति कार्यं वरारोहाः! राजपुत्र्याः समीपके’ ॥१४
स्त्रियः -
’किं कार्यं वद शीफ्रुं त्वं यत्ते मनसि वर्तते
क्व ते वासश्च किं नाम का ते माता च कः पिता ॥१५
को भ्राता का च भगिनी किं कुलं गोत्रमेव च?’
इति तासां वचः श्रुत्वा न्यगदज्जगदीश्वरः ॥१६
[[362363]]
श्रीभविष्योत्तरपुराणे सप्तमोऽध्यायः
पद्मावतीश्रीनिवासयोः परस्परसंवादः
श्रीनिवासः -
’कन्यापेक्षा मुख्यकार्यं तदन्ते प्रवदामि वः
इति ताः प्रोच्य चोवाच देवीं पद्मावतीमथ ॥१७
’सिन्धुपुत्रकुलं प्राहुः अस्माकं तु पुराविदः
जनको वसुदेवस्तु देवकी जननी मम ॥१८
अग्रजः श्वेतकेशस्तु सुभद्रा भगिनी मम
पार्थोऽपि मे सखा देवि! पाण्डवा मम बान्धवाः ॥१९
षण्णां तु मृतपुत्राणां कृतनाम्नां महात्मनाम्
वियोगतप्तौ पितरौ सप्तमं राम इत्यथ ॥२०
चक्रतुः संस्कृतं नाम्ना पितृलिङ्गमुपागतम्
जातोऽहमष्टमोऽष्टम्यां सुभद्रा मदनन्तरम् ॥२१
मातृवर्णश्च मे देवि! कृष्णपक्षे जनिर्मम
तस्मात्कृष्णेति मां देवि! चक्रतुर्नाम संस्कृतम् ॥२२
वर्णतो नामतश्चापि कृष्णं प्राहुर्मनीषिणः
वृत्तान्तो ह्यखिलो मत्तो ज्ञेयः पण्डितनन्दिनि! ॥२३
युष्माभिरुच्यतां वार्तागोत्रनामकुलादिकम्’
इति तेन समाज्ञप्ता प्रोवाच नृपनन्दिनी ॥२४
पद्मावती -
’आकाशराजतनयां निषादाधिप! विद्धि माम्
नाम्ना पद्मावतीं कृष्ण! कुलं शीतकरस्य च
अत्रिगोत्रं किरातेन्द्र! शीफ्रुं गच्छे’ति चाब्रवीत् ॥२५
श्रीनिवासः -
’किमर्थं निष्ठुरं वाक्यं मन्दं किं न प्रभाषसे?
अन्नं काङ्क्षन्ति वै लोकाः यो ददाति नरोत्तमः ॥२६
स पुमान् पुण्यमाप्नोति जलदोऽपि फलं लभेत्
अदिशन् मृदुभाषी च न तु निष्ठुरभाषणः ॥२७
अथाहं काममुद्दिश्य पात्रभूतोऽस्मि साम्प्रतम्
सुखमेष्यसि दानेन त्वन्ते स्वर्गं गमिष्यसि ॥२८
आत्मानं दिश मह्यं त्वं किं वृथा निष्ठुरोक्तिभिः’
सा तस्य वचनं श्रुत्वा क्रोधात्ताव्रुविलोचना ॥२९
पद्मावती -
’अवाच्यं वदने मूढ! जीवनेच्छा न विद्यते
आकाशराजस्त्वां दृष्ट्वा हनिष्यति न संशयः
यावन्नायाति तावत्त्वं गच्छ शीफ्रुं स्वमालयम्’ ॥३०
श्रीनिवासः -
’कार्यान्ते मरणं सौख्यं कार्यहानौ मृतिः कुतः
कथं हन्यात् स राजेन्द्रस्त्वधर्माभिमुखो हि माम्?
त्वं कन्याऽहं वरो देवि! कोऽत्रान्यायो महीपतेः!’ ॥३१
पद्मावती -
’शृणु मूढ! न जानासि बालभावेन किं वृथा
त्वां दृष्ट्वाऽऽकाशराजोऽसि कृत्वा ते गलबन्धनम्
बध्नीयान्निगलैर्मूर्ख! भविष्यत्प्रवदाम्यहम् ॥३२
[[364365]]
श्रीभविष्योत्तरपुराणे सप्तमोऽध्यायः
श्रीनिवासः -
’निश्चित्य मरणं देवि! रन्तुकामोऽस्म्यहं त्वया
जातस्य मरणं नित्यं पूर्वकर्मफलानुगम्
आकाशराजो धर्मात्मा कथं हन्यादनागसम्’ ॥३३
पद्मावती -
’गौरवं यन्निषादेन्द्र! नृपस्यास्य हरेर्यथा
वरदस्याथ रङ्गस्य वेङ्कटाचलवासिनः ॥३४
तद्रक्ष त्वं महाबाहो! सुखं गच्छ स्वमालयम्
इत्युक्तोऽपि तया देव्या निषादेन्द्राकृतिरछरिः ॥३५
निराकृत्य च तद्वाक्यं हयस्थः पुनरापतत्
हयमग्रागतं वीक्ष्य सा बाला वाक्यमब्रवीत् ॥३६
पद्मावती -
’त्यक्त्वा च पितरौ बन्धून् भ्रातृमुख्यान् वनेचरान्
अनाथो व्रिुयसे व्यर्थं किमर्थं काकभाजनम्
इति तस्या वचः श्रुत्वा तामूचे वारिजेक्षणः ॥३७
श्रीनिवासः -
’विधिना लिखितं यत्तु न तद्व्यर्थं भविष्यति
जयोऽवाऽपजयो वा स्यात् त्वयि भोगं करोम्यहम्’३८
इत्युक्ता कोपताव्रूक्षी सखीभिः परिवारिता
तर्जयन्ती जगद्योनिं शिलापाणिः समागमत् ॥३९
ताडयामास गोविन्दं शिलौघैः शीफ्रुगत्वरैः
ताड्यमानः शिलावर्षैः न्यपतद्घोटराट् स्वयम् ॥४०
त्यक्तासुं स हयं दृष्ट्वा मुक्तकेशो मुहुर्मुहुः
पश्यन् पश्यन् दिशः सर्वाः अभ्रमद्विभ्रमन्निव ॥४१
’हयो वै सङ्कटं प्राप्तो ममात्र कृतसन्निधेः’
इत्युच्चरन् रमाकान्तो जगामोत्तरदिङ्मुखः ॥४२
आरूढसोपानगणो गिरेर्विभुः
विडम्बयन् लोकमवाप शय्याम्
प्राप्याधिमानन्दयुतोऽपि माधवो
यथा युगान्ते वटपत्रशायी ॥४३
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये पद्मावती
श्रीनिवासयोः परस्परं संवादादिवर्णनं नाम
सप्तमोऽध्यायः
—–ठ्—–
[[366367]]
श्रीभविष्योत्तरपुराणे सप्तमोऽध्यायः
अष्टमोऽध्यायः
अथ अष्टमोऽध्यायः
—–ठ्—–
पद्मावतीपराजितश्रीनिवासं प्रति वकुलमालिकासान्त्ववचनम्
श्रीसूतः -
शयनं प्राप पर्यङ्के श्रीनिवासो वृषाकपिः
तदा गता च सा देवी सेवार्थं वकुला शुभा ॥१
षड्विधान्नं समादाय सूपापूपरसान्वितम् ।
रमापतेस्तु बहुलभक्तिभावेन संयुता ॥२
शयानं श्रीनिवासं च वल्मीकस्थानसंस्थितम्
आभाषमाणं श्रीकान्तं बभाषे वकुला शुभा ॥३
वकुला -
’उत्तिष्ठोत्तिष्ठ गोविन्द! किं शेषे पुरुषोत्तम!
न कदाऽपि दिवाऽस्वाप्सीः नाकार्षीः रोदनं हरे! ॥४
किमर्थं दुःखमेणाक्ष! आर्तवद् दृश्यसे कुतः?
मनोगतं वा किं देव! तद्वदस्व यथार्थतः ॥५
परमान्नं कृतं देव! भोक्तुमागच्छ माधव!’
इत्युक्तं वचनं श्रुत्वा नोवाच वचनं हरिः
हरिं दृष्ट्वा हिरण्याङ्गी पुनर्वाचमुवाच ह ॥६
किं दृष्टं विपिने कृष्ण! किमर्थं दुःखमुल्बणम्
आर्तिहीनोऽपि देव! त्वं आर्तवद्दृश्यसे कुतः ॥७
मनोगतं वदाऽदेशं गौरवं मयि मा कृथाः
गौरवं बलरामे स्यात् देवकीवसुदेवयोः ॥८
दुःखं भवति दृष्ट्वा त्वां अभुक्तं भूतभावन!
सर्वलोकार्तिसंहर्तः! पुण्यमूर्ते! नमोऽस्तुते ॥९
का दृष्टा कन्यका कृष्ण! गान्धर्वी वा सुरोत्तम!
कस्याः सङ्गं समापेक्ष्य चित्तवैकल्यमद्य ते? ॥१०
का च पुण्यवती बाला बालं भक्तवशं हरिम्
मोहयामास कामार्ता? न जानामि जगद्गुरो! ॥११
वद गोविन्द! ते कार्यं क्षणमात्रात्करोम्यहम्
मृगं दृष्ट्वा भयं वाऽऽप्तं चोरं वा क्रूररूपिणम् ॥
पिशाचभूतप्रेतान् वा न जानामि रमापते!
मन्त्रं वा यन्त्रपूगान्वा मूलिका औषधान्यपि ॥१३
कारयित्वा यथाशास्त्रं तत्सर्वं शमयाम्यहम्’
इत्युक्तेऽपि हरौ तूष्णीं स्थिते वकुलमालिका ॥१४
आनीतं तत्र निक्षिप्य तत्समीपमुपाश्रिता
पादसंवाहनं कृत्वा सान्त्वयामास चासकृत् ॥१५
सान्त्वयन्त्या तयाऽऽयासस्विन्नं देहं समन्ततः
आपादमौलिपर्यन्तं कराभ्यां परिमृज्य च ॥१६
बोधितोऽपि रमाकान्तो नोवाच वचनं यदा
तदा सा वकुला खेदात् उवाच वचनं हरिम् ॥१७
पृथक्कृत्वा छन्नवस्त्रं हस्तेन परिमृज्य च
’देवदेव जगन्नाथ! पुराणपुरुषोत्तम! ॥१८
मनोगतं करिष्यामि नात्र कार्या विचारणा
सत्यं वद मनःस्थं ते मा लज्जां मा भयं कृथाः ॥१९
[[368369]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
पूरयाम्यविलम्बेन यावन्मे वर्तते बलम्’
इति तद्वचनं श्रुत्वा हरिरुष्णं समुच्छ्वसन्
उवाच चातिदुःखेन मन्दं मन्दं मनोगतम् ॥२०
वकुलां प्रति श्रीनिवासोक्तस्वमनोनिर्वेदहेतुवर्णनम्
श्रीनिवासः
’नामोहयन्मां गान्धर्वी नर्षिपुत्री न राक्षसी
न पिशाचा भूतगणाः प्रेता वा मे भयावहाः ॥२१
मृगाश्चारण्यकाश्चोराः न क्रूरा मे कदाचन
मन्नामस्मरणादेते विद्रवन्ति दिशो दश ॥२२
ततस्तेभ्यो भयं नेह मृत्युमृत्योर्ममानघे!
मया दृष्टा वरा कन्या नाम्ना पद्मावती शुभा ॥२३
तां दृष्ट्वा मे मनो भ्रान्तं काममोहवशं गतम्
सुरूपां सुन्दरीं सुभ्रूं नीलालकविराजिताम् ॥२४
पूर्णेन्दुवदनां श्यामां नीलमाणिक्यविग्रहाम्
साक्षाद्रमासमां कन्यां घटयाऽऽशु वरानने ॥२५
बहुजन्मार्जितेनैव पुण्येनैषा हि लभ्यते
मत्पुण्यं पक्वतां यातं दर्शनेन सुलोचने ॥२६
मानुषं देहमासाद्य तां कन्यां कः पुमांस्त्यजेत्?
लोके विना जडमतिं अन्नपानविवर्जितम् ॥२७
जीवनेन किमेतेन कार्यहीनेन मे सखि!
घटयाऽऽशु वराङ्गीं तां आकाशनृपनन्दिनीम् ॥२८
तां विना न हि जीवामि सत्यमित्यवधारय
ताडितोऽहं शिलावर्षैः हताश्वोऽस्मि वरानने ॥२९
मज्जीवनं वृथा मातः जातं वै वेङ्कटाचले
यतोऽभूदवतारोऽत्र पद्मावत्यर्थमेव मे ॥३०
पुत्रो मे वैरमापन्नः किं कृतं पूर्वजन्मनि?
दृष्टिहीनेन विधिना निर्मिता कन्यका वरा ॥३१
अनायासेन मे सा स्यात् इति मे निश्चिता मतिः
किं दृष्टं ब्रह्मणा पूर्वं मत्पापं घोरदर्शनम् ॥३२
यत्पापमनुसृत्यैवं घटनं नाकरोद्विधिः
मद्भागस्थो विधिस्त्वं हि साहाय्यं कुरु मेऽङ्गने ॥३३
न करोषि यदा बाले! तदा मे मरणं ध्रुवम्
मरणे जीवनोपायं ये कुर्वन्ति नरोत्तमाः ॥३४
ते दिवं यान्ति यानेन पुण्यमार्गेण कन्यके!
इत्थं धर्मार्थकामा त्वं धर्ममार्गमुपाश्रय ॥३५
किमुक्तेन विशेषेण विदिताशाऽसि सङ्गमे
त्वं मे माता पिता देवि! भ्राता मातुल एव च ॥३६
त्वं प्रह्लादस्त्वमक्रूरः त्वं ध्रुवस्त्वं गजेश्वरः
त्वमुद्धवोऽतिभक्तो मे त्वं किरीटी बलिस्तथा ॥३७
अजामीलो द्रौपदी च भक्तो मे त्वं विभीषणः
त्वां दृष्ट्वा मे मनो हर्षं गच्छतीह निरन्तरम् ॥३८
[[370371]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
मद्दुःखव्यपनोदाय निर्मिता विधिनाऽङ्गना
गवां कोटिसहस्रेण हयानामयुतैस्तथा ॥३९
सुवर्णतिलदानैश्च समं माङ्गल्यवर्धनम्
कन्यां दृष्ट्वा तु सन्तोषं लभसे नात्र संशयः’
इति तेन समाज्ञप्ता वकुला वाक्यमब्रवीत् ॥४०
वकुला -
’कुत्राऽस्ते जगदाधार! त्वया याऽत्र निरीक्षिता
तन्मार्गं वद गोविन्द! गच्छामि करुणानिधे ॥४१
का सा पूर्वं किमर्थं च कन्यका जनिता भुवि
तद्वृत्तमखिलं ब्रूहि सत्येन मम केशव!’ ॥४२
इत्याज्ञप्तो विरिञ्चेशविनताम्फ्रिुसरोरुहः
उवाच मन्दं वचनं वकुलां धरणीधरः ॥४३
वकुलां प्रति श्रीनिवासवर्णितपद्मावतीपूर्वजन्मोदन्तः
श्रीनिवासः -
’शृणु बाले पुरावृत्तं पद्मावत्या जनेः! शुभम्
त्रेतायां कामरूपेण त्ववतारमहं गतः ॥४४
पितृमातृवचः श्रुत्वा दण्डकारण्यमागतः
लक्ष्मणेन सह भ्रात्रा सीतया वकुले! शुभे! ॥४५
तदा तु रावणो नाम राक्षसो लोककण्टकः
लोकभर्तुः सतीं हृत्वा लङ्कां गन्तुमवर्तत
लक्ष्मणोऽप्यग्रजं द्रष्टुं सीतया प्रेषितो बलात् ॥४६
[[372]]
तत्कालमालक्ष्य स राक्षसेन्द्रो विमानमारोपयितुं हि सीताम्!
प्रावर्ततैषा च तदा रुराव ’हा राम हा लक्ष्मण राघवे’ति ॥४७
तदार्तरावेण तदा वनौकसो
विचुक्रुशुस्तत्र वनान्तरस्थिता!
तद्वाक्यमाकर्ण्य च हव्यवाहनः
पाताललोकादुदगाद्धरातलम् ॥४८
समायान्तं दुराधर्षं आकर्षन्तं च जानकीम्
सम्भाष्य रावणं क्रूरं पातालादुपगम्य च ॥४९
रावणेन च पापेन सहितः सीतया तया
रावणं बोधयामास नानावाक्यगणैस्तदा ॥५०
’इयं जनकपुत्री न विप्रपत्नी तु खेचर!
राघवस्त्वद्भयाद्रक्षन् जानकीं मम सन्निधौ ॥५१
संस्थाप्य विपिने रामो व्यचरत्सहलक्ष्मणः
शिष्योऽसि परमोदार! मम कल्याण रावण! ॥५२
प्रियोऽसि मा गमो विप्रपत्न्यां सीताभ्रमं वृथा
इति प्रतारयन् रक्षः छद्मना जनकात्मजाम् ॥५३
इत्थं स्वलोकमादाय तां सम्पूजयितुं द्रुतम्
स्वाहायां सन्निवेश्याथ नाम्ना वेदवतीं शुभाम् ॥५४
प्राग्रावणापचारेण प्रतिश्रुत्य च तद्वधम्
कृतप्रवेशां क्रोधेन समिद्धे जातवेदसि ॥५५
तत आरभ्य समयं आकाङ्क्षन्तीं स्थितां सतीम्
सीताऽऽकृतिधरां कृत्वा मायया मेषवाहनः ॥५६
[[373]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
प्रदर्शयन्नुवाचाथ रावणं प्रीणयन्निव
’इमां सीतां समादाय गच्छ शीफ्रुं निशाचर!’ ॥५७
इत्युक्तः पावकेनायं तामादायागमद्द्रुतम्
हरे चाग्नौ विशेषेण भक्तिर्वै रावणस्य च ॥५८
तस्मादग्निवचः श्रुत्वा त्वेवं तां जानकीं तदा
अज्ञानान्मन्यमानोऽसौ रावणो मोहदर्पितः ॥५९
लङ्कां गत्वाऽशोकवने शिंशुपावृक्षमूलतः
सीताकृतिं तां संस्थाप्य विष्ण्वाविष्टां स राक्षसः ॥६०
कृतकृत्यं तदाऽऽत्मानं मेने वै कालचोदितः
रामो गत्वा तु तं हत्वा रावणं सगणं खलम् ॥६१
सीतां प्राप्य जगन्नाथो युद्धान्ते पर्यचिन्तयत्
तां तु लोकापवादेन पावकेन विशोधिताम् ॥६२
जिघृक्षुणा राघवेण सीता चाग्नौ प्रवेशिता
सीताद्वन्द्वं तत्र दृष्ट्वा प्रोवाच निजभामिनीम् ॥६३
—–ठ्—–
का सा देवी तव समा तव रूपसमन्विता ?
न जाने हं वराङ्गीं तां तव बिम्बनिभां शुभाम्
राघवेणैवमुक्ता सा जानकी वाक्यमब्रवीत् ॥ ६५
जानकी-
मद्दुःखं ह्येतया भुक्तं निर्निमित्तं दयालुना
का सा वेदवती देव! स्वाहायाः सन्निधौ स्थिता ॥
तामङ्गीकुरु गोविन्द! विवाहं विधिपूर्वकम्
इति सीतावचः श्रुत्वा रामो वचनमब्रवीत् ॥ ६६
श्रीराम -
’एकपत्नीव्रतं मेऽद्य कृतं जानासि भामिनि!
द्वापरेऽङ्गीकरोमीति बहूनां वरदो यतः ॥ ६७
तव वाक्यं करिष्यामि त्वष्टाविंशे कलौ युगे
तावदेषा ब्रह्मलोके ब्रह्मणा पूजिता भवेत् ॥६८
श्रुत्वैवं रामवाक्यं सा जगाम भवनं विधेः
पद्मावत्याः कारणं तु भणितं तव सुव्रते॥६९
न मे वाक्यमसत्यं स्यात् इति वेदविदो विदुः
श्रुत्वा तज्जनने हेतुं वकुलाऽऽनन्दनिर्भरा
कौतूहलसमाविष्टा श्रीनिवासमभाषत ॥७०
श्रीनिवासानुज्ञया नारायणपुरं प्रति वकुलागमनम्
वकुला-
गच्छामि राजेन्द्रसभां सभासदो
यत्राऽऽसते सर्वकलाविशारदाः ।
आकाशराज्यस्य पुरीं सुरोत्तमैः
संस्तूयमानां च रमां विगूहिताम् ॥ ७१
इत्येवमुक्तो भगवान् जगद्गुरुः
सम्प्रेषयिष्यन् वकुलां स्वकारणात् ।
उत्थाय तल्पस्तिमितान्तरङ्गः
तस्थौ तदानीं भृशहृष्टचेताः ॥७२
[[374375]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
भुक्त्वाऽन्नमुत्तममसौ वकुलाप्रदत्तं
आनन्दपूर्णसुमनाः सुरबृन्दवन्द्यः ।
तस्थावलङ्कृतवपुश्च विभूषणौघैः
मुक्ताफलैः सुरुचिरैरथ पुष्पसङ्घैः ॥७३
दिव्यां तुरङ्गीमारुह्य निर्मितां देवमायया
मार्गं विज्ञातुकामा तं आपृच्छ्य वकुलाऽवदत् ॥ ७४
वकुला-
मार्गं वद रमाधीश! गच्छामि नृपसत्तमम् ७५
श्रीनिवासः-
अस्मादेव वरान्मार्गात् अवरुह्य गिरेस्तटात्
त्वं गच्छाधःप्रदेशे च कापिलं लिङ्गमुत्तमम् ॥७६
तत्राऽन्ते तीर्थराजो यः कपिलेश्वरसन्निधौ
तत्र स्नात्वा यथायोग्यं मदर्थं तीर्थपुङ्गवे ॥७७
कपिलेश्वरमासाद्य याच्यतां वरमव्ययम्
श्रीनिवासेन बालेन सदा कल्याणकाङ्क्षिणा॥७८
प्रेषिताऽहं तदर्थं वै कुरु मेऽभीप्सितं प्रियम्
एवमुक्त्वा शिवं देवि! ततः पद्मतटं गता ॥७९
तत्र दृष्ट्वा कृष्णरामौ नत्वा तौ भक्तिभावतः
पद्मतीर्थसमुद्भूतैः कमलैः कमलानने! ॥८०
पूजां कुरु मदर्थं तौ भ्रातृभूतौ हि मे मतौ
सुवर्णमुखरीं तीर्त्वा तत्र गच्छ यथासुखम् ॥८१
उचितं कुरु कल्याणि! कन्याऽर्थे कमलानने!
आज्ञप्ता देवदेवेन त्वित्थं वकुलमालिका ॥८२
जगाम शनकैः शेषशैलादुत्तीर्यचाङ्गना
यदुक्तं श्रीनिवासेन तच्चकार तदाऽबला ॥८३
हयमारुह्य वकुला सुवर्णमुखरीं तदा
तीर्त्वाऽगस्त्याश्रमं प्राप्य सखीस्तस्या व्यलोकयत् ॥८४
शिवालये शिवं द्रष्टुं आगता यास्तु तत्र वै
तत्र दृष्ट्वा वराः कन्याः का यूय मिति चाब्रवीत्
तया सम्भाषिता बालाः ऊचुरेनां तथोत्तरम् ॥८५
वकुलां प्रति पद्मावतीसखीज्ञापितपद्मावत्युदन्तः
कन्या-
वयमाकाशराजस्य सन्निधानगताः सदा
इतः पूर्वदिने कञ्चित्पुरुषं तुरगाऽस्थितम् ॥ ८६
पद्मावत्याः समीपं च सम्प्राप्तं मन्मथाऽकृतिम्
दृष्टवत्यो वयं सर्वाः किराताकृतिशोभनम् ॥ ८७
दृष्ट्वा पद्मावती भीत्या ज्वरतापविमूर्छिता
तत्तापस्योपशान्त्यर्थं राज्ञा ज्ञप्ता वयन्त्विह ॥ ८८
इदानीं कन्यकारूपां त्वां तु वीक्षामहे वयम्
इति तद्वचनं श्रुत्वा वकुला वाक्यमब्रवीत् ॥ ८९
वकुला -
कोऽसौ किरातरूपी च भवतीभिश्च सङ्गतः
वदध्वं कन्यकाः सर्वाः तद्वृत्तमखिलं मम ॥ ९०
[[376377]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
कन्या -
पद्मावत्या च सहिताः कदाचिद्वयमागताः
पुष्पापचयनं कर्तुं आरब्धास्तु वनान्तरे ॥ ९१
तत्र कश्चित्पुमान् प्राप्तः विचित्रतुरगान्वितः
आस्मान् प्रत्युदितं तेन ह्यवाच्यवचनं तदा ॥ ९२
तच्छ्रुत्वा तनया राज्ञो रुष्टा वचनमब्रवीत्
तयोः कलह आपन्नः कलहे ताडितो हयः ॥ ९३
निपपात तदाऽश्वस्तु शिलाभिरछतचेतनः
स घोटं सम्परित्यज्य जगामोत्तरदिङ्मुखः ॥९४
गते किराते कमलोद्भवाऽ थ
मूर्छामुपागम्य पपात भूमौ ।
कन्यां ततस्तां उपवेश्य याने
वयं स्वकं राजपुरं गताः स्मः ॥ ९५
तामागतां यानगतां सुतां नृपः
चिन्तामुपागम्य रुरोद दीनः ।
अङ्के निधायऽत्मसुतां च पश्यन्
मुखं मुदा हीनमभाषणं च ॥ ९६
का वाऽभवन्मे दुहितुर्दुरासदा
विभीषिका विश्वविनाशकारिणी ? ।
तस्या विनाशं न विनानते नराः
गुरुं विनेति प्रसमीक्ष्य भूमिपः ॥ ९७
ततः सुराणां गुरुमात्तकम्पः
समानयत्तत्र सुतेन शीफ्रुम् ।
शीफ्रुं प्रपन्नो नृपमन्दिरं च
तद्वाक्यमार्ण्य गुरुर्धरातलम् ॥ ९८
प्राप्तं गुरुं प्राणमिवागतं तदा
प्राप्येव पुण्यं परिपक्वमागतम् ॥
दत्त्वाऽऽसनं रत्नमयं समर्पयन्
सुसाधनैः सार्घ्यसुपुष्पभोजनैः ॥ ९९
कृतातिथेयो द्विजमाबभाषे
सुतानिमित्तं गगनाभिधो नृपः ।
तद्वाक्यमाकर्ण्य गुरुः सतां पतिः
सम्प्रीणयन् वाक्यमुवाच भूपम् ॥ १००
बृहस्पतिः -
दुहितुस्तव सङ्कष्टनिमित्तं शृणु भूमिप!
पुष्पार्थं तु गता बाला भीता पुरुषदर्शनात् ॥ १०१
तस्य शान्तिं प्रवक्ष्यामि श्रूयतामवधानतः
कारयन्त्वधुना विप्राः अभिषेकं शिवस्य च ॥१०२
अगस्त्येशस्य वै रुद्रैः त्वमेकादशभिः प्रभो!
एवमुक्तोऽथ गुरुणा राजा विप्रान् समादिशत् ॥ १०३
सम्पाद्य सर्वसम्भारा वयं विप्रसमन्विताः
तत्पुत्री ज्वरतापेन शायिता निजमन्दिरे ॥१०४
[[378379]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
तच्छान्त्यर्थं वयं प्राप्ताः अभिषेकार्थमङ्गने!
धिषणेन समाज्ञप्ताः द्विजवर्याः समागताः ॥१०५
तस्माद्देशाद्वयं प्राप्ताः कैलासपतिमन्दिरम्
गच्छसि त्वं कुत्र बाले! किमर्थं त्वमिहाऽऽगता॥ १०६
वदादेशमिति स्त्रीभिः वकुला चोदिताऽब्रवीत्
पद्मावतीसखीः प्रति वकुलाऽऽवेदितस्वागमनवृत्तान्तः
वकुला-
शृण्वन्तु कन्यकाः सर्वाः मद्वाक्यमविचारतः ॥
प्रभावमात्मानुभवस्य विष्णोः
यूयं न जानीथ पुराणपुंसः ।
कृष्णं मुकुन्दं तनयं विदन्त्याः
वृथा शरीरं पुनरागतं मम ॥ १०८
जगद्विधीशानमहेन्द्रपूर्वं
सृजन्नयं मानुषवद्विखाति ।
युष्मान् सहास्माभिरिहान्यदैवतान्
सम्प्रार्थयन्तीः स्वशुभं करोत्यसौ ॥ १०९
हरिरेव बलं यस्मात् सर्वार्थानामलं भवेत्
ध्रुवं ततो नृणां मोहात् कुपथोऽन्यसमाश्रयः ॥ ११०
हरेर्वममृतं यस्मात् कुपदं च तदाश्रयम्
लालयामि ततो मां वै वकुलामवगच्छताम् ॥ १११
मा मां लालयतीत्येवं मालामप्यवगच्छत
अहं श्रीवेङ्कटाधीशदासीभूताऽस्मि साम्प्रतम् ॥ ११२
धरण्याश्च समीपे मे किञ्चित्कार्यं तु वर्तते
नारायणपुरं दिव्यं अभेद्यं परदेशिभिः ॥ ११३
भवतीसङ्गमात्रेण करिष्यन्ति प्रवेशनम्
इत्थमुक्त्वा स्थिता बाला कन्याभिः सा च सङ्गता ॥ ११४
श्रीनिवासस्य पुल्कसीरूपेण नारायणपुरगमनम्
एवं गतायां तस्यां तु न विश्वासमगाद्धरिः
एकपुत्रो ह्यपुत्रः स्यात् एकनेत्रो ह्यनेत्रवान् ॥ ११५
स्त्रीभिस्तु यत्कृतं कर्म न तत्कार्यं फलप्रदम्
इति सञ्चिन्त्य गोविन्दो लीलामानुषविग्रहः ॥११६
स्वयं श्रीवेङ्कटाधीशो वनितारूपमाययौ
चीरवस्त्रं ततो बद्ध्वा छिद्रकञ्चुकरञ्जिता ॥११७
ब्रह्माणं च शिशुं कृत्वा यष्टिं कृत्वा महेश्वरम्
ब्रह्माण्डं जगदाधारं त्रैगुण्यं गुल्ममेव च ॥११८
आकीर्य केशपुङ्खानि पञ्चाशद्वर्षसंयुता
गुञ्जामणिविभूषाङ्गशङ्खबद्धसुहारिका ॥११९
वेणुगुल्मं स्वशिरसि दधाना धान्यपूरितम्
लम्बोदरी लम्बकर्णा लम्बितार्धपयोधरा ॥१२०
अदन्ता शुष्कवदना तदाभूद्धर्मदेवता
ब्रह्माणं नाभिसञ्जातं सप्तमासवयोयुतम् ॥१२१
रुदन्तं शुष्कवदनं कृशाङ्गी दीर्घबाहुकम्
शिशुं बद्ध्वा चीरवस्त्रे नृत्यन्ती जगदीश्वरी ॥१२२
[[380381]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
यष्टिं धृत्वा करे चाऽऽगात् सबाला धर्मदेवता
नारायणपुरं प्राप्ता नारदाब्जजवन्दिता ॥१२३
पुरीं समागत्य जगर्ज चेत्थं
पतीन् सुतान् बन्धुगणान् ददामि ।
श्रुत्वा वचस्तद्गदितं पुराङ्गनाः
ऊचुस्तदा तां नृपवल्लभां प्रति ॥ १२४
पुल्कसीरूपधारिभगवता पद्मावतीजनन्याश्चान्योन्यसंवादः
ग्रामिकाः -
धर्मदेवी समायाता नरनारायणाश्रमात्
वृद्धा सा वर्तते ह्यम्ब! मितभाषेव दृश्यते ॥
मनोगतं वदामीति वदतीयं पुनःपुनः
तामाह्वय महाभागे! धर्मदेवीं पतिव्रताम् ॥ १२६
तामित्थमावेदितचित्तवेदिता
विद्यां निजग्रामभवाङ्गना गणैः ॥
आह्वापयत्तत्र सखीभिरादरात्
सम्प्राप्तभाग्याहमिति स्मरन्त्यसौ ॥१२७
आज्ञप्ता धरणीदेव्या सखीभूता वराङ्गनाः
ऊचुस्तामग्रगाः सर्वाः सबालां धर्मदेवताम् ॥ १२८
ग्रामिकाः -
’याहि मङ्गलदे! देवि! राजभार्यामिमा’ मिति
सा श्रुत्वा वचनं तासां मन्दमाह मनस्विनी ॥ १२९
धर्मदेवी -
अहं दरिद्रा कुटिला सबाला भाग्यसंयुता
आह्वानं किं विनोदार्थं हास्यार्थं हसिताननाः ॥ १३०
मद्वस्त्रं पश्यत च्छिद्रं मदाभरणमण्डलम्
नवधान्यसमाकीर्णगुल्मं गुञ्जाविभूषितम् ॥ १३१
अन्नहीनं शिशुं मां च दृष्ट्वा देव्येति नो ध्रुवम्
नागच्छामि विशालाक्ष्यः ! किं कार्यं राजमन्दिरे ॥ १३२
धर्मदेवीवचः श्रुत्वा जग्मुस्ता धरणीं प्रति
यथोक्तं धर्मदेव्या तु तदाचख्युश्च तां प्रति ॥ १३३
तासां तद्वचनं श्रुत्वा धरणी तां ययौ स्वयम्
उवाच धर्मदेवी तां धरणी राजसुन्दरी ॥ १३४
धरणी -
एहि भद्रे महाभागे! साक्षात्त्वं धर्मदेवता
दैवयोगादागताऽसि मम कल्याणवर्धिनी ॥ १३५
मनोरथो मनःसंस्थः तथ्यं मे कथ्यतामिति
भाषिता राजपत्न्या सा सत्यमाह धरां प्रति ॥ १३६
धर्मदेवी -
कठिनं मम वाक्यं तु शृणु राजन्यवल्लभे!
मया तु गदितं वाक्यं असत्यं चेन्मनस्विनि! ॥ १३७
पुरा निष्कास्य मां देवि! जिह्वायाश्छेदनं कुरु
नरनारायणः स्वामी मद्भर्ता राजसुन्दरिः ॥ १३८
[[382383]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
तद्वीर्यजातपुत्रं तु प्रजापतिमिमं विदुः
तेनाऽऽज्ञप्ता त्वदर्थे च सम्प्राप्ता तव मन्दरम् ॥ १३९
भूतं भव्यं भविष्यच्च जानामि जगदीश्वरि!
इत्युक्ता धर्मदेव्या सा राजपत्नी पतिव्रता ॥ १४०
सुवचोभिः सान्त्वयित्वा धरणी धर्मदेवताम्
प्रापयद्भवनं स्वस्याः मन्दम्मन्दं मुदान्विता ॥ १४१
तामादाय गृहं प्राप्य परं सिंहासनं ददौ
सिंहासनगता सा च धर्मदेवी वचोऽब्रवीत्ः॥ १४२
धर्मदेवी -
मज्जनं कुरु कल्याणि! वस्त्रालङ्कारभूषिता
गुरुदेवनमस्कारं कुरु देवि! हरिप्रियम् ॥ १४३
एवमुक्ताऽथ कल्याणी तथा चक्रे यथोदितम्
तस्याश्चाभिमुखीभूय पश्चाद्वाक्यमुवाच सा॥ १४४
धरणी -
’किं कार्यं वद भद्रं मे करोमि तव शासनात्
पुलिन्दा-
वायनं देहि कल्याणि! देवानां प्रीतिसाधकम् ॥ १४५
इत्थं पुलिन्दावचनं श्रुत्वा सा धरणी तदा
स्वर्णशूर्पं समादाय मुक्तातण्डुलपूरितम्
निक्षिप्य पुरतः शीफ्रुं धर्मदेवीं वचोऽब्रवीत् ॥ १४६
धरणी -
’सत्यं वद महाप्राङ्ञे! मम दुःखं प्रणोदय’
धरणीवाक्यमाकर्ण्य धर्मदेवी वचोऽब्रवीत्॥ १४७
धर्मदेवी-
’सत्यं वदामि सुश्रोणि! शिशोरन्नं प्रयच्छ मे
अहःकृतं रात्रिकृतं सुपक्वरससंयुतम्ः॥ १४८
श्रुत्वा तद्वचनं रम्यं त्वरयाऽऽनीय भामिनी
क्षीरान्नं स्वर्णपात्रस्थं अर्भकाय ददौ नृप॥ १४९
तद्दृष्ट्वा स्वं्णपात्रस्थं मानुषान्नं न भुक्तवान्
रुरोद च शिशुस्तस्याः धर्मदेव्याः स भूमिपः॥ १५०
रुदन्तमात्मजं दृष्ट्वा विनिन्द्य च तताड सा
दरिद्रोऽसि दुराचार! कन्दमूलफलाशनः ॥ १५१
कथं न भोक्ष्यसे मृष्टं क्षीरान्नं राजनिर्मितम्
सदाऽपि रोदनं मातः! किं करोमी, ति भूमिपः ॥ १५२
शिशुं तं भर्त्सयित्वाऽथ सम्भोज्यान्नमनुत्तमम्
ममोदरगतं चान्नं पुत्रस्य हितकारणम् ॥ १५३
इत्युक्त्वा सा धर्मदेवी शिशोर्दत्तं नृपोत्तमः
क्षीरान्नं स्वर्णपात्रस्थं भुक्त्वा स्वस्था तदाऽब्रवीत् ॥ १५४
सत्यं पदामि सुश्रोणि! ताम्बूलं देहि मेऽङ्गने
इत्युक्ता धरणी देवी धर्मदेव्या पुलिन्दया ॥ १५५
[[384385]]
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः
एलालवङ्गुकर्पूरनागवल्लीदलैर्युतम्
ताम्बूलमर्पयामास पुलिन्दायै पतिव्रता ॥ १५६
ततः सा प्राङ्मुखी भूत्वा पुत्रमङ्के निधाय च
निक्षिप्य पुरतो गुल्मं पादावास्तीर्य संस्थिता ॥ १५७
एवं रूपं गतं कृष्णं श्रीनिवासं सुरोत्तमाः
द्रष्टुकामाः समायाताः वैखरीं प्राकृतोचिताम् ॥ १५८
सम्पश्यन्तस्त्तस्य खस्थाः सविमानगणास्तथा
सल्लापं चक्रुरन्न्योन्यं सम्भ्रमात् कौतुकान्विताः॥ १५९
किं तया सुकृतं राज्ञ्या कृतं पूर्वं ययाऽधुना
लक्ष्मीसहायो भगवान् क्रीडते प्राकृतो यथा ॥ १६०
एवं हरेश्चित्रविचित्रकर्म
गायन्ति कञ्जोद्भवशम्भुशक्राः ।
कलौ युगे पापकृतां नराणां
ह्युद्धारणार्था जगदीशचेष्टाः ॥१६१
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीनिवासस्य
पुलिन्दस्त्रीरूपवर्णनं नाम अष्टमोऽध्यायः
—–ठ्—–
नवमोऽध्यायः
अथ नवमोऽध्यायः
—–ठ्—–
धरण्यै पुलिन्दोक्तपद्मावतीदेहशोषणनिवृत्त्युपायः
शतानन्दः-
भोजनान्तेऽस्मरद्देवी देवान् स्वकुलपूजितान्
आदौ नारायणं ध्यात्वा पश्चाल्लक्ष्मीं पितामहम् ॥ १
सरस्वतीमुमाकान्तं उमामिन्द्रमतः परम्
शचीमग्नियमाद्यांश्च सदारान् दिक्पतीनथ ॥ २
देवानृषीन् पितॄन् राजन् गन्धर्वान् राजसत्तमान्
काशीशं विश्वानाथं च बिन्दुमाधवमेव च ॥ ३
विष्णुपादं प्रयागं च गोदातीरनिवासिनम्
नारसिंहं जगन्नाथं पाण्डुरङ्गमहोबिलम् ॥ ४
पम्पाध्यक्षं विरूपाक्षं श्रीशैलं पुण्यकाननम्
श्रीवेङ्कटगिरीशं च कालहस्तीश्वरं हरम् ॥ ५
घटिकाचलसंस्थानं वृद्धाचलनिवासिनम्
वरदं सर्वलोकेशं श्रीरङ्गं श्वेतरूपिणम् ॥ ६
कुम्भघोणालयं कृष्णं शार्ङ्गपाणिं महीपते !
नेतुं रामकृतं राजन्! पद्मनाभं जनार्दनम् ॥ ७
सुब्रह्मण्यं कुमाराख्यं मधुसूदनशङ्करौ
चन्द्रेश्वरं च गोकर्णं तथा हरिहरौ नृपः॥ ८
गङ्गां गोदावरीं कृष्णां तुङ्गभद्रां मलापहाम्
कावेरीं कपिलां क्षीरां सुवर्णमुखरीं तथा ॥ ९
[[386387]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
मूकाम्बिकां भैरवं च कालभैरवमेव च
कामाक्षीं च विशालाक्षीं मत्स्याक्षीमपि सौख्यदाम् ॥ १०
सस्मार लोकभावेन चोवाच मधुरं वचः
रमे! कॊलाछपुराध्यक्षे! पाहि मां परदेशगाम् ॥ ११
इति स्वकीयभावेन स्मरन्ती धर्मदेवता
कृत्वा मौक्तिकराशींस्त्रीन् मध्यराशौ विचिन्त्य ताम् ॥ १२
हस्ते दत्त्वा परां यष्टिं ’ऎष्वेकमनया स्पृश’
इत्युक्तया तया देव्या मध्यराशौ विलोडिते
भावसाम्यं ततो ज्ञात्वा प्रहृष्टा वाक्यमब्रवीत् ॥ १३
धर्मदेवी-
वदेयं कारणं देवि! दुहितुस्त्तेऽङ्गशोषणे
आगतः पुरुषेणास्याः येन केनाप्युपद्रवः ॥ १४
इतः पूर्वदिने कञ्चित्पुरुषं तुरगाऽऽस्थितम्
दृष्ट्वा मोहवशं याता कामज्वरसुपीडिता ॥ १५
शृणु मातः! सविस्तारं शपे गुल्मं सपुत्रकाम्
भर्तारं बदरीवासं मातरं पितरं गुरुम् ॥ १६
पतिं श्रीवेङ्कटाधीशं कर्तुमिच्छति ते सुता
तथा भविष्यति शुभं वागियं नान्यथा भवेत् ॥ १७
स्वात्मानं तु शपे राज्ञि! सत्यमित्यवधारय
सत्यं वदामि सुश्रोणि! ताम्बूलं देहि मेऽङ्गने! ॥ १८
एलालवङ्गकर्पूरजातीपत्रैः सपूगकैः
नागवल्लीदलैर्युक्तं पुनर्देहि वरानने! ॥ १९
इत्युक्ता धरणी देवी ताम्बूलं पुनरप्यदात्
पुनरालोचयन्ती सा पुलिन्दा वाक्यमब्रवीत् ॥ २०
योऽसौ तुरगमारूढः पुरुषः पूर्वमागतः
किरातरूपधारी स साक्षान्मन्मथमन्मथः ॥ २१
तं दृष्ट्वा मोहमायाता कामज्वरसुपीडिता
दुहिता तेऽभवद्राज्ञि! ततोऽस्या अङ्गशोषणम् ॥ २२
तच्छान्त्यर्थं वरारोहे! तस्मै सा सम्प्रदीयताम्
इत्युक्ता धरणी देवी धर्मदेवीं वचोऽब्रवीत् ॥ २३
धरणी -
क्वाऽऽस्ते किरातरूपी स दुहितुर्मेऽङ्गशोषकः
वद तन्नाम किं भद्रे! वरं दास्ये तवेप्सितम्
इति पृष्टा धर्मदेवी धरणीं वाक्यमब्रवीत् ॥ २४
धर्मदेवी-
वैकुण्ठस्थो हरिः साक्षात् वर्तते वेङ्कटाचले
श्रीनिवास इति ख्यातो विद्यावान् धनवान् बली ॥ २५
तस्याश्वं त्वत्सुता बाला ताडयामास चाश्मभिः
आरामद्वारनिकटे पतितः स हयोत्तमः ॥ २६
अश्मभिस्ताडितोऽत्यन्तं विह्वलः पृच्छ तत्सखीः
गौरवाद्राजपुत्र्यास्तु क्षमेत पुरुषः स तत् ॥ २७
इति मे सत्यवचनं दत्त्वा तां सुखमेष्यसि
अदत्त्वा दुःखमाप्नोषि न मे वाणी मृषा भवेत् ॥ २८
[[388389]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
अदाने दिनमात्रेण सा व्रिुयेत न संशयः
इति तस्या वचः श्रुत्वा धरणी पुनरब्रवीत् ॥ २९
धरणी -
किं मां वदसि दुर्वाक्यं असत्यं वामलोचने!
इति तस्या वचः श्रुत्वा पुनराह मनस्विनी ॥ ३०
धर्मदेवी -
नासत्यं वचनं देवि! मयोक्तं पूर्वमेव तत्
इति भीता तद्वचनात् राज्ञी वाक्यमथाब्रवीत् ॥ ३१
धरणी -
अयाचिता मया कन्या कथं देया भविष्यति
इति चिन्तापरा राज्ञी धर्मदेवीं वचोऽब्रवीत् ॥ ३२
अद्यैव घटिकान्ते त्वां आगमिष्यति काचन
अबला बहुवृद्धा च धर्मार्थकुशला भुवि ॥ ३३
मद्वाक्यं विश्वसन्ती त्वं राजानं परिचोदय
तॊण्डमानञ्च ते भर्तुः भ्रातरं ससुहृद्गणम् ॥ ३४
सम्बोध्य साधुमार्गं त्वं समाश्रय नृपप्रिये!
सन्निधौ मम सङ्कल्पं कुरु कन्यानिमित्तकम् ॥ ३५
धरणी -
येन केनाप्युपायेन जीविता स्यात् सुता मम
सुतां तस्यैव दास्यामि गिरिगह्वरवासिनः ॥ ३६
धर्मदेवि -
एवं चेत् ते सुता राज्ञि! जीविष्यति न संशयः
पतिर्मे वर्तते यत्र देवि! तत्र व्रजाम्यहम् ॥ ३७
इत्युक्त्वा तद्वचः सत्यं द्रष्टुकामा धराऽब्रवीत्
धरणी -
तदा ते वचनं सत्यं यद्येवं सम्भविष्यति ॥ ३८
इत्युक्ताऽसौ जगामाशु निजधाम वराङ्गना
साऽपि तां ’बाढ’ मित्युक्त्वा निर्जगाम पुराद्बहिः ॥ ३९
कक्षे बद्ध्वा सुतं राजन्! स्वर्णशूर्पं सगुल्मकम्
जगामोत्तरमभ्येत्य पुलिन्दा मिथिलेश्वर!॥ ४०
पुलिन्दायां गतायां तु धरणी वामलोचना
पुत्र्या निकेतनं प्राप्य रुदन्ती भृशदुःखिता ॥ ४१
किं ते मनोगतं पुत्रि! यत्त्वमिच्छसि तद्वद
नच मातृसमं मित्रं पुत्राणामस्ति नन्दिनि ॥ ४२
किन्नु कार्यमकार्यं वा तन्ममाचक्ष्व भामिनि!
पूरयामि मनःस्थं च किमर्थं तव शोषणम् ॥ ४३
अभाग्याऽहं महाभागे ! विषपानं करोमि च
इत्युक्त्वा सा पराधीना दुःखिताऽरुदिताऽपभवत् ॥ ४४
दुःखितां जननीं दृष्ट्वा मन्दमाह मनोगतम्
पद्मावती -
किं वदिष्यामि हे मातः सूतिकादुःखमागतम् ॥ ४५
अथवा पुत्रलाभं किं प्रवदामि निगूढजम्
नाकृत्यं तादृशं किञ्चित् जाता क्वापि तु मे वरे॥ ४६
काङ्क्षा सम्प्रति तामद्य वक्तुं शक्नोमि न स्वयम्
तथाऽपि तव वक्ष्यामि मातृत्वात् शृणु भामिनिः ॥ ४७
[[390391]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
पद्मावतीकथितभगवल्लभणतद्भक्तलक्षणानि
त्वयाऽऽज्ञप्ताऽगमं मातः! पुण्यारामं सखीयुता
तत्राऽऽयातः पुमान् कश्चित् पुराणपुरुषोत्तमः॥ ४८
मातः! स्मरामि तद्वक्त्रं पुण्डरीकनिभेक्षणम्
तं विना न हि जीवामि सत्यमित्यवधारय ॥ ४९
चरितं तस्य कृष्णस्य जानन्ति विबुधेश्वराः
पातालजाश्च मनुजाः न जानन्ति हरिं परम् ॥ ५०
सत्यं सर्वोत्तमः साक्षात् स एव पुरुषोत्तमः
दक्षिणं पाणिमाश्रित्य राजते चक्रमुत्तमम् ॥ ५१
तथा सव्ये शङ्खराङो राजते राजवल्लभे!
यत्कण्ठे कौस्तुभं रत्नं श्रुत्योर्मकरकुण्डले ॥ ५२
यस्य चक्रप्रभावेण दग्धा वारणासी पुरी
यस्य शङ्खध्वनिं श्रुत्वा विद्रवन्त्यसुरादयः॥ ५३
तद्भक्तलक्षणं वक्ष्ये शृणु मातः सविस्तरम्
वेदशास्त्रपरा ये च स्वधर्माचरणे रताः ॥ ५४
वेदोक्तं कर्म कुर्वन्ति तद्भक्तान् विद्धि वैष्णवान्
शङ्खचक्राङ्किता ये चाप्यूर्ध्वपुण्ड्रधराश्च ये ॥ ५५
नासत्यवचना ये तु पितृमातृमते स्थिताः
तद्भक्तलक्षणं त्वेतत् तं विना को नु जीवति? ॥ ५६
तनयावचनं श्रुत्वा सानन्दा वाक्यमब्रवीत्
धरणी -
सत्यं वद महाप्राज्ञे! भ्रमो वा ज्वरकारणम्॥ ५७
पद्मावती-
सत्यं वदामि मातर्यः दृष्टपूर्वो महाप्रभुः
तद्दर्शनधिया मेऽद्य जायते देहशोषणम् ॥ ५८
शतानन्दः-
सान्त्वयित्वा सुतां भद्रा भर्तुर्भवनमभ्यगात्
पाकार्थं परमानन्दा भरिता भाग्यसम्पदा ॥ ५९
पुत्र्यङ्गशोषं सङ्क्षुब्धं कृच्छृसन्तपसंयुतम्
अवदत्स्वपतिं प्राप्य पुत्रीकायविशोषणे ॥ ६०
कारणं धर्मदेव्युक्तं अथ तच्छान्तिकारणम्
सर्वं सम्बोधयामास पुत्र्या हृद्गतमादरात् ॥ ६१
धरणीशं प्रति पद्मावतीसखीभिः सह वकुलागमनम्
एतस्मिन्नेव समये कन्याश्च वकुलान्विताः
आभिषिच्याप्यगस्त्येशं शङ्करं ब्राह्मणैः सह ॥ ६२
सम्भारान् शिरसा धृत्वा ब्राह्मणैः सपुरोहितैः
राजधानीं समासाद्य भर्तुर्भवनमभ्ययुः ॥ ६३
समागतान् द्विजान् सर्वान् सम्पूज्य विधिपूर्वकम्
गन्धपुष्पाक्षताद्यैश्च वस्त्रालङ्कारभूषणैः ॥ ६४
विप्राशीर्वादमन्त्त्रै र्मार्जयित्वा स्वकां सुताम्
अभुङ्क्त च स्वयं राजा ब्राह्मणानामथाज्ञया ॥ ६५
[[392393]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
सा भुक्त्वा ऽथ महाभागः धरणी बहिरागता
ददर्श तां महाराजः वकुलां नवरूपिणीम् ॥ ६६
धर्मदेव्या वचः स्मृत्वा तत्समीपमुपागमत्
पप्रच्छ तास्तदा कन्याः एतद्वृतान्तकोविदाः ॥ ६७
धरणी-
कैषा कस्मादुपायाता पूज्येव प्रतिभाति मे
पृच्छतां कन्यकाः! अस्याः किमागमनकारणम् ॥ ६८
एवमुक्ताः कन्यकास्तु धरणीमब्रुवंस्तदा
कन्यकाः-
वासः पन्नगशैलेऽस्याः स्वामी श्रीवेङ्कटेश्वरः ॥ ६९
तदाज्ञाकारिका काचित् नाम्ना वकुलमालिका
अनया धरणीदेव्याः सन्निधौ मम किञ्चन ॥ ७०
कार्यमस्तीति कथितं ततस्तु सहितास्तया
वयं प्राप्ता महाभागे! त्वत्समीपमिहाधुना ॥ ७१
पृच्छ्यतां नैव वृत्तान्तं तदागमनकारणम्
एवमुक्ताऽथ कल्याणी वकुलां समभाषत ॥ ७२
तिष्ठ भद्रे! वरारोहे! रत्नपीठे सुनिर्मले
इत्युक्ता ऽऽनन्दभरिता वकुला तत्र संस्थिता ॥ ७३
मेने कृतार्थमात्मानं साफल्यं जन्मनोऽपिच
धरणी-
स्वागतं ते वरारोहे! मम पुण्यसमुच्चयात् ॥ ७४
मन्ये कृतार्थमात्मानं सफलं साधुसङ्गमात्
निर्देष्टव्यं भवत्कर्म तदद्य विदधीमही ॥ ७५
किमर्थमागमो मातः शीफ्रुं तत्कथ्यतामिति
बभाषे वकुला भार्यां राज्ञस्तस्य महात्मनः ॥ ७६
धरणीं प्रति वकुलोक्तस्वागमनकारणम्
वकुला -
कन्यापेक्षा मुख्यकार्यं पुनः कार्यशतेन किम्?
मुख्यकार्यं ततः श्रुत्वा वकुलामब्रवीदिदम् ॥ ७७
धरणी-
सम्यगुक्तं त्वया देवि! वरापेक्षाऽपि वर्तते
को वरः कश्च देशोऽस्य गोत्रं नक्षत्रकं च किम् ॥ ७८
किं नाम? जनकश्चास्य माता चापि महात्मनः
किं कुलं? कोऽस्य चाऽचारो? जातिर्वा तस्य का? वद
कुलाचारादिकं पृष्टा वकुला वाक्यमब्रवीत् ॥ ७९
वकुला -
शृणु राज्ञि! सविस्तारं गोत्रं बन्धुजनं तथा
देवकी जननी तस्य जनकः शूरनन्दनः ॥ ८०
निशाकरकुलं तस्य नाम कृष्ण इति स्मृतम्
वसिष्ठगोत्रे चोत्पत्तिः नक्षत्रं श्रवणं तथा॥ ८१
आवासो वेङ्कटगिरिः विद्यावान् धनवान् बली
बहूलाचारसम्पन्नो वयसा पञ्चविंशकः ॥ ८२
[[394395]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
पाणिग्रहणकाले तु तं दृष्ट्वा तोषमेष्यसि
किमत्र बहुनोक्तेन दर्शनात्ते सुखं भवेत्
तद्वृत्तमखिलं श्रुत्वा तामाहाऽनन्दनिर्भरा ॥ ८३
धरणी-
शङ्का जाता वरारोहे! मम ते वचनात्सखि!
सभाग्यश्च कुलीनश्च बुद्धिमांश्च युवा बली ॥ ८४
वाग्मी चोक्तो ऽस्य चैतावत् विवाहो न कृतः कुतः ?
सा तद्वचनमाकर्ण्यानपत्यमनुचिन्त्य तम्
धैर्येण वचनं प्राह धरणीं राजवल्लभाम् ॥ ८५
वकुला-
कृतवैवाहिको देवि! बाल्ये भागीरथीपिता
तत्रापत्यमनालोक्य द्वितीयं कर्तुमुत्सुकः ॥ ८६
न दोषमितरं विद्धि श्रीनिवासे निरामये
तद्वृत्तमखिलं श्रुत्वा समाहूय स्वकं सुतम् ॥८७
नृपमाह्वापयामास धरणी पतिमात्मनः
एकान्ते राजशार्दूलं इदं वचनमब्रवीत् ॥ ८८
धरण्युक्त्या वियन्नृपकृतपद्मावत्याश्वासनप्रकारः
धरणी -
कन्यार्थमागता राजन्! वकुला वेङ्कटाचलात्
सुतं सम्प्रेक्ष्य चापि त्वं स्वपुरोहितमन्त्रिभिः ॥ ८९
वरस्यापि विचार्याऽऽशु कुलविद्याबलादिकम्
गोत्रऋक्षाद्यानुकूल्यं ब्राह्मणैर्वेदपारगैः ॥ ९०
विचार्य वरवध्वोश्च योनिनाडीसुसङ्गतिम्
सर्वं सम्यक्समालोच्य कन्यादानं कुरु प्रभो! ॥ ९१
कन्यार्थमागता साध्वी दुहितुर्विदितं मनः
तमेवेच्छति ते पुत्री वेङ्कटाचलवासिनम् ॥ ९२
धर्मदेवीवचः सत्यं शुभं शीफ्रुं विधीयताम्
इति पत्न्या वचः श्रुत्वा सोऽभूदानन्दनिर्भरः ॥ ९३
आकाशराजः -
अहो मङ्गलमस्माकं सम्प्राप्तं पूर्वपुण्यतः
अस्माकं पितरः सर्वे कृतार्था मुक्तिभागिनः ॥ ९४
त्वद्वाक्यामृतपानेन रोमहर्षस्तु जायते
कदा पश्यामि कल्याणं वधूवरसमागतम् ॥ ९५
सभर्तृकां राजपुत्रीं राजसिंहासने स्थिताम्
कदा पश्यामि नेत्राभ्यां बन्धुमण्डलमध्यगाम् ॥ ९६
इत्युक्त्वा भवनं चागात् दुहितुर्दुहितृप्रियः
नृपः पद्मावतीं प्राह सान्त्वयन् वचसा सुताम्॥ ९७
नृपः-
भद्रे! दुःखं मनःस्थं ते त्यज शीफ्रुमतः परम्
हृदये तव कल्याणि! काऽऽपेक्षा वर्तते वद ॥ ९८
तामद्याहं करिष्यामि नात्र कार्या विचारणा
जनकस्य वचः श्रुत्वा जननीं वाक्यमब्रवीत् ॥ ९९
[[396397]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
पद्मा-
मातस्ते कथितं सर्वं जनकाय वचो मम
समाचक्ष्वाद्य सङ्कोचात् नाहं वक्तुं समुत्सहे
पुत्रीगिरं विदित्वा सा भर्त्तारं वाक्यमब्रवीत् ॥ १००
धरणी-
साधयस्व महाभाग! विवाहं विधिपूर्वकम्
विलम्बो नैव कर्तव्यः शुभार्थं तु शुभाननः ॥ १०१
राजा-
तस्मै दास्यामि कृष्णाय श्रीनिवासाय धीमते
इत्याश्वास्य सुतां राजा पुत्रमिन्द्रनिकेतनम्
प्रेषयमास राजेन्द्र! गुर्वानयनकाङक्षया ॥ १०३
विलिख्य पत्रिकां राजा पुत्रीकल्याणसूचिकाम्
सम्प्रेषयामास तदा स्वपुत्रेण वियन्नृपः ॥ १०४
वियन्नृपाज्ञया धरातलं प्रति बृहस्पत्यागमनम्
स गत्वा वायुवेगेन चन्द्रांशत्वात्तु भूमिपः
अवन्दताऽनपूर्णो गुरुमिन्द्रस्य च क्षणात् ॥ १०५
सपत्रं राजपुत्रं च समालोक्यागतं गुरुः
प्रतिष्ठाप्यानने तं च तेनानीतां तदा शुभाम् ॥ १०६
पपाठ च महाराज! पत्रिकां शुभसूचिकाम्
तत्क्षणादागमद्राजन्! राजानं स पुरोहितः ॥ १०७
प्राप्तं पुरोहितं दृष्ट्वा कृत्वाऽर्चां विधिपूर्वकम्
कालोचितं वाचयित्वा वन्दमान उवाच सः १०८
राजा-
तवाऽऽज्ञया करिष्यामि विवाहं दुहितुर्मम ॥
श्रीनिवासस्य सम्बन्धो विदितस्य प्रशस्यते
कन्यार्थमागता साध्वी विदिते गोत्रनामनी ॥ १०९
तथाऽपि तव वाक्येन विवाहं कर्तुमुत्सहे
स राज्ञो वचनं श्रुत्वा राजानं प्रत्यभाषत ॥ ११०
गुरुः-
सफलं वृक्षमाश्रित्य जीवन्ति बहवो भुवि
तथा वयं च जीवामः तव भाग्यावलम्बिनः ॥ १११
अहं कदाचिदेवात्र समागच्छामि भूतलम्
न जानामि ततः सम्यक् शुक आश्रितवान् सदा ॥ ११२
स जानाति महाराज! स्थितिमेतस्य शार्ङ्गिणः
अत्रैवोत्तरदिग्भागे पञ्चक्रोशमिते नृपः ॥ ११३
शुकोऽस्ति व्यासतनयः श्रीनिवासपरायणः
तमाह्वय महाराज! शीफ्रुं ते पृथिवीपतेः
स वक्ष्यत्यात्मनः सौख्यं वृत्तान्तं तस्य चादितः ॥ ११४
बृहस्पत्युक्त्या वियन्नृपकृतशुकाह्वानम्
एवमुक्तो गुरुणा भ्रातरं ब्राह्मणप्रियम्
सन्दिदेश महाराज! शुकाश्रममरिन्दमः ॥ ११५
स गत्वा वायुवेगेन रथेनादित्यवर्चसा
ध्यानयोगादुत्थितं तं दृष्ट्वा शुकमुवाच ह ॥ ११६
[[398399]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
तॊण्डमान् -
शृणु तापसशार्दूल! वचनं राजभाषितम्
पद्मावती विवाहाराछ सम्पन्ना गुरुपूजिता ॥ ११७
श्रीनिवासाय तां कन्यां प्रदातुं काङ्क्षते नृपः
युक्तायुक्त विचिन्तायै गुरुमाहूतवानपि ॥ ११८
तदर्थमेव चाद्य त्वां समाह्वयति भूमिपः
युक्तायुक्ते विचिन्त्याथ लेखितुं शुभपत्रिकाम् ॥ ११९
अवकाशं च कृत्वाऽद्य गच्छ तन्नगरीं प्रति
एवमुक्तो महीदेव! महीपालेन भूमिप ॥ १२०
स सम्भ्रमात् समुत्थाय व्यभ्रमद्विभ्रमन्निव
भिन्दन् कमण्डलुं राजन्! छिन्दन् कृष्णमृगत्वचम् ॥ १२१
विच्छद्य मणिमालाश्च स ननर्त महामुनिः
मुहूर्तमित्थं राजेन्द्रः तद्बुद्धिरवशं गता
उवाच पश्चाद्राजानं कार
ष्
ण
द्वैपायनिर्मुनिः ॥ १२२
श्रीशुकः -
साधूदितं वाक्यमुदारविक्रम!
त्वया हरेर्वेङ्कटशैलवासिनः ।
कन्याप्रदानं पुरुषार्थसाधनं
समस्तलोकस्य पवित्रकारकम् ॥ १२३
आकाशराजधिषणौ श्रीनिवासकृपाबलात्
महादानपरावित्थं भूयास्तां च दिने दिने ॥ १२४
इत्याशिषा प्रशस्याथ पद्मतीर्थे वगाह्य च
कृत्वा माध्याह्निकीं सन्ध्यां त्यक्त्वा जीर्णोपबरछणम् ॥ १२५
स नवानि कुशाग्राणि निकृत्य मुनिसत्तमः
किरीटं बन्धयित्वा तैः उत्तमाङ्गनिबन्धनम् ॥ १२६
कवचं कल्पयामास कुशाग्रैः कुसुमैस्तदा
तुलसीमणिमालाभिः कण्ठकर्णविभूषितः॥ १२७
अपादलम्बिकृष्णत्वक्कवचैस्समलङ्कृतः
अश्वयानेऽधिरोप्यैनं निनाय स नृपानुजः ॥ १२८
तमायान्तं मुनिं दृष्ट्वा चतुरङ्गबलान्वितः
पुरोहितं पुरस्कृत्य कुशमूलफलोदकैः ॥ १२९
अभियातस्तदा राजा सन्तोषं प्राप सा पुरी
यानादुत्तीर्य राजेन्द्रः साष्टाङ्गं प्रणिपत्य तम्
गजमारोप्य नगरीं सपुरोहित आनयत् ॥ १३०
निकेतनान्तर्भवने निवेश्य
निधिं मुनीनां प्रवरं स राजा!
सम्पूजयामास विधानवित्तमो
विद्यागुरुं ज्ञानगुरुं च नत्वा ॥ १३१
राजा-
तापसं परिपप्रच्छ कन्यार्थं धिषणाग्रतः
पद्मावतीं प्रदास्यामि भवद्भ्यामनुमोदितः
श्रीनिवासाय कृष्णाय निश्चितो हि मया परः ॥ १३२
[[400401]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
स तद्वचनमाकर्ण्य राजानं राजसत्तम!
शुकोऽब्रवीद्गिरं पुत्रीकारणात्करुणान्वितः ॥ १३३
श्रीशुकः-
मा कुरुष्व महाराज! सन्देहं दानकर्मणि
धन्योऽसि त्वं महीपाल! कुलं पावनतां गतम् ॥ १३४
पितरस्तु दिवं प्राप्ताः नात्र कार्या विचारणा
किं त्वयाऽऽचरितं पुण्यं पूर्वजन्मनि भूमिपः ॥ १३५
भगवानरविन्दाक्षः श्रीनिवासः सतां गतिः
जामातृत्वं समापन्नः तस्मान्नास्ति तवाधिकः ॥ १३६
विलम्बो नैव कर्तव्यः शुभं शीफ्रुं विधीयताम्
वयं धन्याः कृतार्थाः स्मः तव सङ्गेन भूमिपः ॥ १३७
वयन्तु तपसाऽऽराध्य कन्दमूलफलाशनाः
सर्वसङ्गं परित्यज्य न पश्यामोऽत्र तं विभुम् ॥ १३८
सङ्गतेस्तव पश्यामः श्रीनिवासं श्रिया युतम्
सङ्गतिस्तव भद्रा नो भवज्जन्मनि जन्मनि ॥ १३९
एवं तमुक्त्वा राजर्षिं तूष्णीमास स तापसः
शुकवाक्यं ततः श्रुत्वा स राजाऽऽनन्दनिर्भरः ॥ १४०
वैयासकेर्वचः श्रुत्वा प्रशशंस प्रजापतिः
मन्ये कृतार्थमात्मानं व्यासपुत्र! नमोऽस्तु ते ॥ १४१
ग्रहाणां च गतिस्तातः तयोर्योगो विचिन्त्यताम्
ऋक्षयोगं गोत्रयोगं पश्य विप्र बलाबलम् ॥ १४२
इति राज्ञो वचः श्रुत्वा सुराचार्यः ससम्भ्रमम्
छायाशास्त्रविधानज्ञो वकुलां वाक्यमब्रवीत् ॥ १४३
गुरुकृतपद्मावतीश्रीनिवासविवाहयोगाद्यानुकूल्यविचारः
बृहस्पतिः -
गोत्रं श्रीवेङ्कटेशस्य तन्नामाचक्ष्व भामिनि!
नक्षत्रं च वरारोहे! कथ्यतामिति चाब्रवीत्
सा तस्य वचनं श्रुत्वा किञ्चित्कोपान्विताऽब्रवीत् ॥ १४४
वकुला -
ब्राह्मणाः सत्यसम्पन्नाः कलौ मिथ्याप्रवादिनः
जानन्तोऽपि महाराज! न वदन्ति हिताहितम् ॥ १४५
श्रीशुकः -
अविश्वासश्च विप्रेषु क्षत्रियाणां वरानने!
धर्मोऽप्यधर्मतामेति ह्यधर्मो धर्मतां गतः ॥ १४६
तस्मात्त्वया महाभागे! कथनीयं हिताहितम्
वकुला -
नक्षत्रं श्रवणं तस्य गोत्रं वासिष्ठसञ्ज्ञकम् ॥ १४७
ऊचुः पुरातना मत्स्यकूर्मकृष्णादिरूपिणः
राजा -
गोत्रमत्रेर्महाभाग ! नक्षत्रं मृगशीर्षकम् ॥ १४८
सीतासत्यादिरूपायाः पद्मावत्या विदुर्बुधाः
उभयोर्वचनं श्रुत्वा गुरुर्योगं विचिन्त्य सः
हर्षोद्रिक्तमना भूत्वा सत्यमाह महामतिः ॥ १४९
[[402403]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
गुरुः -
नाडीकूटं विशेषेण सूत्रकूटं विशेषतः
योनिकूटं चानुकूलं ग्रहाश्च शुभदर्शनाः॥ १५०
सर्वं विचार्य भूपालः स्वार्थभावं समाश्रितः
सम्मन्त्र्य बन्धुमित्राद्यैः कन्यादानं कुरु प्रभोः ॥ १५१
एवं गुरुवचः श्रुत्वा विचार्याऽऽशु विचक्षणः
भक्त्या परमया राजा स्वार्यभावं समाश्रितः ॥ १५२
ज्ञातिबान्धवसम्बन्धिसुहृन्मित्रजनैर्युतः
मन्त्रं चकार राजेन्द्रः कन्यादाननिमित्तकम् ॥ १५३
ते सर्वे बन्धुवर्गाश्च राजानं प्रत्यपूजयन्
सभां च कारयामास रत्नसिंहासने स्थितः ॥ १५४
वाचयित्वाऽथ पुण्याहं कन्यानिश्चयकारणात्
ताम्बूलं दक्षिणां चादात् पूजयित्वा गणाधिपम्
भुजमुद्धृत्य राजेन्द्रः सभामध्ये वचोऽब्रवीत् ॥ १५५
राजा -
पद्मावतीं प्रदास्यामि श्रीनिवासाय शार्ङ्गिणे
यूयं बन्धुगणाश्चात्र दयां कुरुत मां प्रति ॥१५६
प्रतिज्ञामकरोदित्थं कन्यार्थे वेङ्कटेशितुः
स चोवाच महाराजो गुरुं गुरुजनप्रियः ॥ १५७
किं कार्यं वद विप्रेन्द्र! सङ्कल्पानन्तरं मया
राजानमब्रवीद्राजन्! अङ्गिरा देवतागुरुः १५८
बृहस्पतिः-
विलिख्य पत्रिकां राजन् ! श्रीनिवासाय विष्णवे
विप्रं प्रेषय राजेन्द्र! तस्यागमनकारणात्
स्वगुरोर्वाक्यमाकर्ण्य राजा गुरुमभाषत ॥ १५९
राजा-
किं लेख्यं प्राकृतैर्विद्वन्! अप्राकृतशरीरिणः
तथाऽपि लेखनीयं यत् तद् ब्रूहि गुरुसत्तम!॥ १६०
आकाशराजवचनं श्रुत्वा गीष्पतिरादरात्
लिखित्वा बोधयामास राज्ञस्तस्य महात्मनः
गुरूपदिष्टमार्गेण विलिलेख स पत्रिकाम्
श्रीनिवासं प्रति वियन्नृपलिखितविवाहपत्रिकाप्रकारः
अप्राकृताय नित्याय सच्चिदानन्दमूर्तये ॥ १६२
स्वतन्त्रायाद्वितीयायानन्तरूपाय शार्ङ्गिणे
भक्तिप्रियाय भक्त्यैकवेद्योपादेयरूपिणे ॥ १६३
देवाधिदेवपूज्याय ब्रह्मपूज्याय विष्णवे
श्रीनिवासाय कृष्णाय वेङ्कटाचलवासिने ॥ १६४
साङ्गैः सर्वैश्च वेदाद्यैः आगमैः सपुराणकैः
आवेदितानन्तगुणकर्मणे श्रीधराय ते ॥ १६५
आशीर्वादं करिष्यामि बन्धुत्वात्ते सुरोत्तम!
त्वत्पादपद्मसंवीक्षाकाम आकाशनामकः ॥ १६६
त्वदाश्रयं समाकाङ्क्षन् लेख्याम्यद्य माधव!
स्त्रीपुत्रभ्रातृभिः साकं सर्वे कुशलिनो वयम् ॥ १६७
[[404405]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
त्वदनुग्रहमात्रेण वसामोऽत्र हरेः पुरे
सर्वेषां भवतां क्षेमं पत्रद्वारा निबोधय ॥ १६८
चैत्रशुक्लत्रयोदश्यां एतत्पत्रं विलिख्यते
कन्यां पद्मावतीं तुभ्यं दास्यामीति मतिर्मम ॥ १६९
तामङ्गीकुरु गोविन्द! विवाहविधिपूर्वकम्
शुको वेत्ति गुरुर्वेत्ति हृदयं मम सर्वतः ॥ १७०
मा कुरुष्वात्र सन्देहं कन्यार्थं पुरुषोत्तमः
वैशाखशुक्लदशमीभृगुवारे शुभे दिने ॥ १७१
बन्धुभिः सह सम्प्राप्य मामुद्धृत्य गणैः सह
हर्षेण पाणिग्रहणं कर्तव्यं मे मनोगतम् ॥ १७२
अधिकं लेखनीयं ते किमस्ति पुरुषोत्तम!
शुको वदति यत्सत्यं तत्सर्वं कुरु केशव! ॥
इत्याशिषः सन्तु महानुभाव! ते
समस्तकल्याणगुणार्णव! प्रभो!
नित्याय सत्याय सुखस्वरूपिणे
समस्तलोकप्रभवे महात्मने ॥ १७४
इत्थं लिखित्वा वरपत्रिकां शुभां
आकाशराजो जगदीशसन्निधिम् ।
सम्प्रेषयामास शुकं महान्तं
नपुत्रमित्रः सहबान्धवानुगः ॥ १७५
क्रोशमात्रमुपागम्य शुकं वचनमब्रवीत्
राजा-
येन केन प्रकारेण तस्य चित्तं वशीकुरु ॥ १७६
अयुतं स्वर्णलक्षं वा कोटिं वाऽर्बुदमेव वा
दास्यामि द्रव्यनिचयं नात्र कार्या विचारणा
एवमुक्तो महीदेवो गतः शेषाचलं प्रति ॥ १७७
मध्यं गते दीप्तकरे महात्मा
समागतस्तत्र शुकस्सशिष्यः ।
हरेर्जनन्याऽनुगतो विरागी
तद्दर्शनाह्लादगताध्वशेषः ॥ १७८
अम्बामवीक्ष्य चायान्तीं वेङ्कटाद्रिशिखामणिः
माता च नाऽऽगता कस्मा दिति चिन्तापरो हरिः
एतस्मिन्नेव काले तु कृष्णद्वैपायनात्मजम् ॥ १७९
ददर्श सशिरःपाणिं कृतकार्यविनिश्चयम्
शुकं प्राह स्म भक्त्यैव चासनादुत्थितो हरिः॥ १८०
श्रीनिवासः-
कार्यं मदीयं विप्रेन्द्रः पक्वं वा पक्वमेव वा । १८१
श्रीशुकः -
कार्यं तव कृपासिन्धोः पक्वमेव न संशयः॥
शुभं वाक्यमिति श्रुत्वा दण्डवत्प्रणतं भुवि
समालिङ्ग्य शुकं कृष्णो भक्त्या हर्षवशं गतः ॥ १८२
अतिचित्रचरित्राऽत्मा शुकमाह महीपते!
[[406407]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
श्रीनिवासः -
वदन्ति लोका अनृतान् सहस्रान् विवाहकामा नरजन्मनो ये॥ १८३
ते यान्ति मद्धाम किमत्र वाच्यं जगत्कुटुम्बस्य विवाहकामे ॥ १८४
नरो बिभर्ति स्वसुतं स्वभार्यां स्वजनं गृहम्
ब्रह्माण्डं भवनं विद्वन् ब्रह्मा मे नाभिसम्भवः
या लक्ष्मीर्मम कल्याणी ये चान्ये मम चौरसाः ॥ १८५
चतुर्नवतिलक्षाणि जीवाः सन्ति ह्यसङ्ख्यकाः
एतेषां रक्षणे बद्धदीक्षोऽहं मुनिसत्तम! ॥ १८६
महाकुटुम्बयुक्तस्य मम कल्याणकारणात्
यन्मिथ्या भाषितं स्वामिन्! त्वयाऽद्य मुनिसत्तम! ॥ १८७
त्वत्कृतस्योपकारस्य प्रतिदातुं न विद्यते
तथाऽपि तव दास्यामि शरीरालिङ्गनं मुने! ॥ १८८
मच्छरीराद्गरिष्ठं तु न विजानामि ते शुभम्
एवमुक्त्वाङ्गसङ्गं च तस्यादात् पुरुषोत्तमः ॥ १८९
त्वत्पुण्यस्यावधिर्नास्ति मत्सङ्गस्तवपुण्यजः
यथा त्वया कृतं कर्म तथा पूर्वं कपीिश्वरः ॥ १९०
सीतानिमित्तं यः कर्म कृतवान् मारुतात्मजः
तस्मै प्रादां महीदेव! सन्तुष्टः सहभोजनम् ॥ १९१
सत्यलोकाधिपत्यं च सीतावार्तावलम्बिने
तस्माद्वरिष्ठं ते कर्म मुनेः तापसपुङ्गव! ॥ १९२
एवमुक्त्वा सुभद्राणि वाक्यानि विविधानि च
ततः प्रोवाच भगवन् कक्षे किं भाति भानुवत् ॥ १९३
श्रीनिवाससन्निधौ वियन्नृपप्रेषितशुकोक्तविवाहोदन्तः
श्रीशुकः-
राजराजेन लिखिता पत्रिका पुरुषोत्तम!
प्रोक्तं तव महाभाग! पूर्वमेवास्य कारणम्
इत्युक्तः सन् रमाकान्तः पत्रिकां शिरसा दधौ ॥ १९४
श्रीनिवासः-
कुशली वर्तते राजा भार्या तस्य पतिव्रता १९५
भ्राता तस्य महाभागः पुत्रस्तस्य विशां पतेः ॥ १९६
श्रीशुकः-
सर्वन्तु कुशलं तस्य भगवन्! भूतभावन! १९७
वियन्नृपं प्रति श्रीनिवासविलिखितशुभपत्रिका
एवमुक्तः पपाठाथ पत्रिकां पुरुषोत्तमः
पठन् हृष्टमना भूत्वा वाचमूचे रमापतिः ॥ १९८
श्रीनिवासः-
पत्रिका लिख्य्ते विप्र! मयाऽऽकाशनृपाय च
त्वद्वाचमनुसृत्यैव राज्ञः प्रीतिविधायिका ॥ १९९
ततः स पत्रं पुरुहूतमित्रं
स्वयं लिलेखाथ महार्थसंयुतम् ।
अत्यन्तसंहृष्टमनःप्रसूचकं
कृष्णावतारे प्रति रुक्मिणीमिव ॥ २००
[[408409]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
राजाधिराजपूज्याय सुधर्मतनयाय च
नमो नमोऽतिभक्त्यैव कृत्वेयं पत्रिकाऽधुना ॥ २०१
लिख्यते श्रीनिवासेन शुभविज्ञप्तिगर्भिणी
श्रीमद्राजाधिराजेन्द्रकिरीटाघृष्टपादुक! ॥ २०२
अस्मद्बन्धुवरेण्याढ्यगुणपूर्णसमृद्धिमन्!
सुधर्मतनयाकाशनाम्नाऽऽशासु सुकीर्तिमन् ॥ २०३
नमो नमोऽस्तु ते राजन् श्रीनिवासस्य शार्ङ्गिणः
श्रीनिवासेन बालेन विज्ञप्तिः क्रियते त्वियम् ॥ २०४
भवद्भिर्लिखितं दृष्ट्वा सन्तोषो ह्यभवन्मम
वैशाखशुद्धदशमीभृगुवारे महोत्सवे ॥ २०५
आङ्गीकरोमि राजेन्द्रः कन्यां तव विशाम्पते
यथा पुरा सागरो मे कन्यादानसुकीर्तिमान् ॥ २०६
तथा दत्त्वा तु मे कन्यां भवेस्त्वं बहुकीर्तिमान्
यथा वै सागरान् पूर्वान् कपिलेन निपातितान् ॥ २०७
भगीरथो महाराजो गङ्गामादाय वै पुरा
उद्धृत्य कीर्तिमापेदे तथा त्वं राजसत्तम! ॥ २०८
दत्त्वा मे सुभगां कन्यां तव पूर्वोत्तरं कुलम्
उद्धृत्य बहुलां कीर्तिं लभस्वेतरदुर्लभाम् ॥ २०९
लिखितव्यं विशेषेण किन्तेऽस्ति नृपसत्तमः
विशेषज्ञोऽसि धर्मात्मा वेत्ति सर्वं शुको मुनिः
इति विज्ञापनं ज्ञेयं मम प्रणतिपूर्वकम् ॥ २१०
इत्थं लिखित्वा वरपत्रिकां शुभां
शेषाद्रिनाथो मुनिना शुकेन
सम्प्रेषयामास सुरेन्द्रपूज्यं
पुरं नृपेन्द्रस्य वियन्नृपस्य ॥ २११
श्रीनिवासः-
अविदित्वा कुलं गोत्रं नाम संस्थानमन्दिरम्
कथं दास्यति राजेन्द्रः कन्यां मम महीसुरः ॥ २१२
श्रीशुकः -
न कुलं न च गोत्रं ते न जन्ममरणे हरे!
न जरा न च वृद्धिश्च न च स्थानं न चाश्रयः ॥ २१३
विडम्बमात्रं गोविन्दः कुरुषे पुरुषोत्तम!
न तेऽपेक्ष्यं कुलं गोत्रं विदितस्य जगत्पतेः ॥ २१४
मम वाक्याद्वियद्राजः कन्यां ते सम्प्रदास्यति
मम वाक्याज्जगन्नाथः दयां कृत्वा वियन्नृपे!
इयं च कन्या गोविन्दः स्वीकार्या कृपया त्वया ॥ २१५
श्रीनिवासाज्ञ्या शुकस्य वियन्नृपनगरं प्रत्यागमनम्
इति स्तुत्वा शुकस्तीव्रं विसृष्टो हरिणा पुनः
हरिसन्दर्शनाल्लब्धहर्षो राजपुरं ययौ ॥ २१६
गते तु मुनिशार्दूले भगवान् भक्तवत्सलः
मातरं सन्ददर्शाथ मार्गश्रान्तां वयोगताम्
वकुलां प्रणिपत्याथ माधवो वाक्यमब्रवीत् ॥ २१७
[[410411]]
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः
श्रीनिवासाय वकुलाकथितपद्मावतीपरिणयोदन्तः
श्रीनिवासः-
अम्ब! कालविलम्बस्ते किमर्थं कमलानने!
का तत्र वार्ता नगरे तन्ममाचक्ष्व भामिनि! ॥ २१८
वकुला-
साधिता बहुयत्नेन कन्या ते पुरुषोत्तम
दैवमेव परं मन्ये पौरुषं नैव कारणम् ॥ २१९
नारायणाश्रमात्कृष्ण! धर्मदेवी समागता
दैवयोगेन सा भद्रा सम्प्राप्ता राजमन्दिरम्॥ २२०
उवाच तानि भवद्दानयोग्यां कन्यां नृपात्मजाम्
कन्यापि त्वदृतेऽन्यं सा नैवाकाङ्क्षति लौकिकम् ॥ २२१
तयोर्वाक्यं समाकर्ण्य दातुं ते सोऽन्वमन्यत
इमां दास्यामहे पुत्रीं वेङ्कटाद्रिनिवासिने ॥ २२२
इत्थं सङ्कल्पयामास सभामध्ये मुदा नृपः
त्वयैन जातमेतद्ध्धि न दैवं भवतः परम् ॥ २२३
इति मातृवचः श्रुत्वा किञ्चिद्धास्यमुखो हरिः
मातरं प्रतिनन्द्याथ चिन्तयन् वाक्यमब्रवीत् ॥ २२४
इति श्रीभविषोत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये पद्मावती
परिणयनिश्चयो नाम नवमोऽध्यायः
—–ठ्—–
दशमोऽध्यायः
अथ दशमोऽध्यायः
—–ठ्—–
श्रीनिवासाज्ञया ब्रह्माद्यानयनार्थं शेषगरुडगमनम्
जनकः-
मातुर्वचनमाकर्ण्य कृतवान् किं रमापतिः ?
तन्ममाचक्ष्व भगवन्! सविस्तारं सतां प्रियः ॥ १
शतानन्दः-
त्वं हरेरसि भक्तेषु प्रथमोऽतिप्रियः सदा
तस्माद्धरिकथासक्तमनास्ते तु वदामि तत् ॥ २
स्वयमानन्दपूर्णोऽपि कर्मभुङ्नरवद्धरिः
मात्रा चोदितमाकर्ण्य तामूचे मधुरं वचः ॥ ३
श्रीनिवासः-
महोत्सवं विधातुं हि मम बुद्धिर्न जायते
अबन्धोर्बन्धुयुक्तस्य सम्बन्धो न प्रशस्यते ॥ ४
ययोरेव समं वित्तं ययोरेव समं कुलम्
तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ ५
विवाहश्च विवाहश्च समयोरेव शोभते
अहमेकः सोऽपि बन्धुसमेतो धरणीपतिः ॥ ६
कथं नृपस्यास्य मयोचितः स्यात्
अबन्धुना बन्धुयुतस्य सङ्गः ।
भवेत्सुखं नेति वदन्ति सन्तः
इत्यद्य चिन्ता खलु बाधते माम् ॥७
[[412413]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
बन्धुहीनस्य मे राजा कथं कन्यां प्रदस्यति
वासुदेववचः श्रुत्वा वकुला वाक्यमब्रवीत् ॥८
वकुला -
त्वादृशः पुरुषो लोके नासत्यं वदति क्वचित्
सत्यमेव प्रशंसन्ति मुनयो वीतकल्मषाः ॥९
शुकस्त्वत्कार्यनिष्ठस्तु देवानां गुरुरङ्गिराः
सद्धर्मिणो महीशस्य तस्याऽशां मा वृथा कुरु ॥१०
स्मर बन्धून् सुरान् सर्वान् ब्रह्मरुद्रपुरोगमान्
पुत्रान् पौत्रांस्तथा भ्रातॄन् स्नुषाश्च पुरुषोत्तम! ॥ ११
तदाऽगतिस्तु गोविन्द! दुर्लभा च कलौ युगे
सोऽपि पश्यतु राजर्षिः त्वत्सम्बन्धिजनानिह ॥१२
मातुर्वचनमाकर्ण्य मनसा शेषपक्षिणौ
सस्मार पृथीवीपाल! श्रीनिवासः सतां गतिः ॥१३
तावागतौ शेषवियच्चरौ तदा
क्षणेन शेषाचलवल्लभान्तिकम् ।
ददर्श भक्त्या पुरतः स्थिताविमौ
निदेशयामास पुराणपूरुषः ॥१४
श्रीनिवासः-
पक्षिराट्! गच्छ मे पुत्रं सत्यलोकेश्वरं नृप!
गच्छाहिभूषणं शेष! मम पौत्रमुमापतिम् ॥१५
इत्युक्त्वा पत्रिकां ताभ्यां विलिख्यादाच्छुभात्मिकाम्
प्रणिपत्याथ विश्वेशं खगमार्गेण जग्मतुः ॥१६
सत्यलोकं ततो गत्वा ब्रह्माणं भास्करोपमम्
दृष्ट्वा नत्वाऽथ भक्त्यैव पक्षिराट् पत्रिकामदात्
पितामहस्तु तं दृष्ट्वा गरुडं प्रत्यभाषत॥१७
ब्रह्मा-
चिरकालेन सम्प्राप्तः पक्षिराट् कश्यपात्मजः
कुत्रास्ति श्रीनिवासः सः वासुदेवः पिता मम
पितामहवचः श्रुत्वा पक्षिराट् वाक्यमब्रवीत् ॥१८
गरुडः-
वासुदेवो वसत्यङ्ग! वैकुण्ठगिरिमूर्धनि
तद्विवाहार्थमायान्तं मां विद्ध्धि चतुरानन! ॥१९
नारायणेन लिखितां पत्रिकामवलोकय
पपाठ पत्रिकामित्थं चोदितोऽनेन वै विधिः ॥२०
चिरञ्जीवाय पुत्राय ब्रह्मणे नाभिजन्मने
श्रीवेङ्कटाद्रिनाथस्य श्रीनिवासस्य मङ्गलाः ॥२१
वैदिक्य आशिषः सर्वाः सर्वदा सन्तु पुष्कलाः
कलावाकाशराजो मे कन्यादानं करिष्यति ॥२२
पत्रिकादर्शनादेव सपुत्रः सपरिग्रहः
स लोकपालः सस्त्रीकः नगन्धर्वः सहोरगः ॥२३
समागत्याशु कल्याणं दृष्ट्वा गच्छ यथासुखम्
पत्रिकार्थमिति ज्ञात्वा किञ्चिद्ध्यानमुपागतः २४
सन्तोषमतुलं लेभे विधिः कल्याणकौतुकी
[[414415]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
श्रीनिवासविवाहदर्शनार्थं शेषाचलं प्रति ब्रह्माद्यागमनम्
चतुर्मुखः-
द्वारपालान् समाहूय चेदं वचनमब्रवीत् ॥२५
भेरीदुन्दुभयश्चाद्य वाद्यन्तां सर्वतोमुखम्
भवद्भिर्मे ख्यापयद्भिः गमनं धरणीतले ॥२६
इत्युक्ता द्वारपालास्त्ते वाद्यानि समवादयन्
ब्रह्माणं प्रणिपत्याथ निदेशज्ञो वचोऽब्रवीत् ॥२७
प्रयाणभेरीनिनदः सुमङ्गलः
संश्रूयते सर्वजनैः कुतूहलात् !
कं देशमुद्दिश्य पितामहाद्य
सन्ताड्यते वाद्यगणो वदाद्य ॥२८
’भारतेऽस्मिन् महावर्षे जम्बूद्वीपस्य दक्षिणे
शेषाचलं समुद्दिश्य नियुङ्क्ष्व चतुरङ्गिणीम् ॥२९
सेनां परां ममे’त्युक्त्वा सेनापतिमथाब्रवीत्
स्कन्दाऽऽह्वय सुरान् सर्वान् सर्वान् दिक्पालका’निति’॥ ३०
सत्यलोकजनान् सर्वान् स्वयमाह पितामहः
भवन्तो रसिकाः सर्वे कल्याणार्थं कलौ युगे ॥३१
श्रीनिवासस्य कृष्णस्य पितुर्मे पुरुषोत्तमाः।
समागच्छन्तु सर्वे मे सेनाधीशाः मया सह
इति ब्रह्मवचः श्रुत्वा सेनानाथास्तमब्रुवन् ॥३२
सेनापतयः -
’वार्षिकं देहि नो ब्रह्मन्! आगच्छामस्त्वया सह’
एवमुक्तो धनं तेषां दत्तवान् स पितामहः
वाहनानि विचित्राणि रथांश्च विविधानपि ॥ ३३
भूषणानि च वस्त्राणि रत्नानि विविधानि च
पत्नीः सन्देशयामास विवाहार्थं पितामहः ॥३४
स्वयमन्तर्गतः श्रीमान् आत्मानं समभूषयत्
दधार शिरसा शीफ्रुं किरीटं पश्चिमेन तु ॥३५
अन्येन शिरसा धाता रक्तोष्णीषमधारयत्
दक्षिणेनोत्तमाङ्गेन शिरोवेष्टमबन्धयत् ॥३६
कुशकेतुं कुशश्रेष्ठैः धृतवानन्यमूर्धनि
नीलमौक्तिकवैडूर्ययुते मकरकुण्डले
कर्णयोर्भूषयामास करौ कनकङ्कणैः ॥३७
कवचं धारयामास नवरत्नसमाकुलम्
काञ्चीदामसमाबद्धां मुक्तामणिविभूषिताम्
सरस्वतीं च सावित्रीं गायत्रीं वै ततः परम् ॥३८
पुत्रान् पौत्रांस्तथा सर्वान् सवाजिरथकुञ्जरान्
मनःपुत्रान् वीर्यपुत्रान् समाहूय पितामहः ॥३९
अलङ्कारयुतान् कृत्वा गमनाभिमुखोऽभवत्
स्वसेनां पुरतः कृत्वा नाभिजो निर्ययौ पुरात् ॥४०
हंसं चन्द्रप्रतीकाशं आरुरोह पितामहः
विमानानि विचित्राणि वध्व आरुरुहुस्तदा ॥४१
[[416417]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
घण्टाचामरनिर्घोषैः सहिता नृप! रेजिरे
शूरा वीरासना धीराः गजाश्वरथसंस्थिताः ॥४२
समुच्छिृतैर्ध्वजैर्दीर्घपताकैः समलङ्कृताः
नानायुधधरा वीराः तेषां मध्ये पितामहः ॥४३
रराज चन्द्रमा राजन्! ताराभिर्गगने यथा
श्वेतच्छत्रं हेमदण्डं रत्नकुम्भयुतं धृतम् ॥४४
योजनत्रयविस्तीर्णं दशलक्षणनैर्वृतम्
नभः प्रकाशयामास देवदेवस्य वै तदा ॥४५
अवादयन् महाराज! वाद्यानि विविधानि च
भेरीश्च नवसाहस्रं दुन्दुभीनां शतत्रयम् ॥४६
मृदङ्गपणवान् ढक्कामड्डुनिस्साणडिण्डिमान्
गोमुखान् मुरजान् वीणाः तथा वै झर
झ
रादिकान् ॥ ४७
बर्बरैः शतशृङ्गैश्च दीर्घशृङ्गैश्च सस्वरैः
सप्तस्वरैः सप्तरागैः सर्पाणामपि मोहकैः ॥४८
फूत्कारैश्च वषट्कारैः ध्वनयद्भिश्च वारिजान्
गन्धर्वैर्गाननिपुणैः स्वरभेदविचक्षणैः ॥४९
वीणादण्डस्थसूत्रैश्च वादयद्भिः सुखावहैः
नर्तकैर्नटकैश्चैव हाहाहूहूमुखैर्वृतम् ॥५०
स्तूयमानास्तुम्बुरुणा सूतमागधवन्दिभिः
सुराः सर्वे श्रीनिवासमहोत्सवदिदृक्षवः ॥५१
अनुजग्मुर्महाराजं ब्रह्माणं यान्तमग्रतः
सत्यलोके तपोलोके जनोलोके ततः परम् ॥५२
महर्लोके सुवर्लोके स्वर्गलोके महीतले
एवं क्रमान्महाभागं ब्रह्माणं ददृशुर्जनाः ॥५३
ऋषयः सत्त्वसम्पन्नाः तदाऽत्यद्भुतदर्शनम्
वासुदेवसमाकारं वैश्वानरसमाननम् ॥५४
ददृशुः सर्वलोकेशं साक्षाद्ब्रह्माणमग्रजम्
केचिन्नारायणो नायं वदनानां विपर्ययात्
इत्यब्रुवंस्ततः सर्वे मत्वा तं चतुराननम् ॥५५
हंसस्थं भूषणैर्युक्तं कवचाडम्बारान्वितम्
अपृच्छंस्ते महीदेवाः ब्रह्मणोऽनुचरान् जनान् ॥ ५७
महादेवाः –
कं वा देशं प्रति जनाः कुतो नागमनं विधेः ?५८
जनाः-
गच्छामोऽद्य विवाहार्थं श्रीनिवासस्य भूतलम्
तेनैवाकारिताः सर्वे सत्यलोकान्महीसुराः
तच्छृत्वा वचनं तेषां अनुजग्मुर्महर्षयः ॥५९
साग्निहोत्राः सपुत्राश्च सशिष्याः सपरिग्रहाः
एवं विभवमास्थाय ब्रह्माऽगाद्वेङ्कटाचलम् ॥६०
वादित्राणां स्वनेनैव दुन्दुभीनां च निस्स्वनैः
आपूरितं जगदिदं सशैलवनकाननम् ॥६१
श्रीनिवासं प्रति चारादिज्ञापितब्रह्मागमनम्
एतस्मिन्नेव काले तु भगवान् लौकिकैः समः
अदृष्ट्वा खगराजं तं मातरं वाक्यमब्रवीत् ॥६२
[[418419]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
श्रीनिवासः-
किं नागतोऽम्ब! खगराट् पुत्रार्थं प्रेषितो मया
मार्गे निरोधितः केन किं वा स्यात् कारणं वद? ॥६३
एवं वदति गोविन्दे चारो दृष्टिपथं गतः
चारं दृष्ट्वातिसन्तोषं स लेभे पुरुषोत्तमः ॥६४
क्व चारो मम पुत्रस्तु केन वै प्रेषितो भवान् ?
चारः-
आगमिष्यति गोविन्द! गङ्गां तरति ते सुतः ॥ ६५
एवं वदति तच्चारे पुनरेकोऽभ्यभाषत
द्वितीयः -
गोदावरीं तरति ते पुत्रः पौरजनैः सह ॥ ६६
स दूतवचनं श्रुत्वा किञ्चिद्धास्यमुखोऽभवत्
तदा जगाम गरुडः पक्षिराट् ब्रह्मचोदितः ॥६७
गरुडः-
कृष्णां तीर्त्वा तु ते पुत्रः श्रीशैलमुपगम्य च ॥६८
अहोबिलं चाससाद तत्राऽज्ञप्तोऽहमागतः
इत्येवमुच्यमाने तु गरुडेन महात्मना ॥६९
तत्क्षणेनैव राजेन्द्र! विष्वक्सेनोऽभिवन्द्य च
विनीतो वाचमूचेऽथ श्रीनिवासं परात्परम् ॥७०
विष्वक्सेनः-
तुम्बुरोस्तीर्थमासाद्य हरे! तत्रावगाहते
पुत्रस्तव महाराजः परमात्मा चतुर्मुखः ॥ ७१
पुत्रस्तवागच्छतीह भवद्दर्शनकौतुकी
सेनापतौ वदत्येवं भगवानुत्थितो मुदा ॥७२
गरुडस्कन्धमारूढः प्रयाणाभिमुखो हरिः
उत्तराभिमुखः प्रायात् पुत्रन्नेहेन भूमिपः ॥७३
विष्वक्सेनोऽतिवेगेन ब्रह्माणमुपगम्य च
आनम्य शिरसा भक्त्या प्रोवाच वचनं विधिम् ॥७४
चतुर्मुख श्रीनिवासयोः परस्परप्रणयावलोकनसंवादः
विष्वक्सेनः -
भगवानरविन्दाक्षः तव दर्शनलालनः
गरुडस्कन्धमारुह्य समागच्छति तेऽन्तिकम् ॥७५
तच्छ्रुत्वा वचनं तस्य विष्वक्सेनस्य धीमतः
चन्द्रबिम्बनिभाद्धंसात् आवरुह्य पितामहः ॥७६
पादाभ्यामागमच्छीफ्रुं यत्राऽऽगच्छति केशवः
स ददर्श महाराज! जनकं चतुराननः ॥७७
दण्डवत्प्रणिपत्याथ चाग्रे बद्ध्वा करौ स्थितः
स चावरुह्य गरुडात् आससाद पितामहम् ॥७८
उत्थाप्याऽऽलिङ्ग्य चाप्येनं उवाच मधुसूदनः
श्रीनिवासः-
उत्तिष्ठ तात! भद्रं ते पश्य मामातुरं कृशम् ॥७९
बहुकालेन ते बुद्धिः मम दर्शनलालसा
तदेव परमं मन्ये त्वद्बुद्धिर्मम दर्शने ॥८०
[[420421]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
कौतूहलं नोपनीता कदाचिदपि येन वै
न कश्चिद्ध्रियते क्वापि त्वां विना चतुराननः ॥८१
वदत्येवं हृषीकेशे नोवाच चतुराननः
मुहूर्तद्वयमात्रं तु श्रीनिवासोऽपि नोचिवान् ॥ ८२
आनन्दबाष्पसम्पूर्णनयनौ तौ परस्परम्
स्नेहात्प्रफुल्लवदनौ मुखं ददृशतुर्मुदा ॥८३
पितुर्मुखं सुतोऽपश्यत् सुतवक्त्रं हरिस्तथा
ततः सन्तुष्टमनसौ लेभाते परमां मुदम् ॥८४
तौ क्रीडन्तौ श्रीनिवासब्रह्माणौ देवसंसदि
पितापुत्रौ तदा दृष्ट्वा सत्यलोकनिवासिनः ॥८५
देवाः-
न तेन सदृशः पुत्री न तेन जनको भुवि ॥८६
इत्येवं प्रशशंसुस्त्ते भक्तिस्नेहवशं गताः
ततः सुतं समाश्वास्य परिमृज्याक्षिजं जलम् ॥८७
ब्रह्मणः पाणिमुद्धृत्य स्वनेत्रजलमुन्मृजन्
वल्मीकस्थानमाश्रित्य पुत्रेण सह तस्थिवान्
तत्र च श्रीनिवासस्तं उवाच पुरुषोत्तमः ॥८८
श्रीभगवान्-
कच्चित्ते कुशलं तात! स्नुषाया मम सम्प्रति
पुत्रपौत्रप्रपौत्राणां क्षेमं प्रब्रूहि मे सुत! ८९
ब्रह्म-
सर्वमङ्गलमस्माकं त्वत्प्रसादेन केशव!
तात! मे वद ते क्षेमं पुराणपुरुषोत्तमः ॥९०
चतुर्मुखं प्रति श्रीनिवास ज्ञापितस्वपरिणयोदन्तः
श्रीभगवान्-
द्वापरान्ते कृतं कर्म शृणु पुत्रः समाधिना
वैकुण्ठे शेषतल्पस्थं भृगुः पादतलेन माम्
तताडोरसि ते मातुः आस्पदे कमलासन! ॥९१
तदा ते जननी पुत्र! करवीरपुरं गता
तेन दुःखेन सन्तप्तः त्यक्त्वा वैकुण्ठमुत्तमम् ॥९२
इहागतो वेङ्कटाद्रिं नात्रापश्यं निकेतनम्
अत्र वल्मीकगं नित्यं चोलभृत्यः कुठारतः ॥९३
प्राहरन्मां राजभार्याताडितो धेनुकोपतः
बृहस्पतेः प्रसादेन जीवामि करुणानिधेः ॥९४
अभिवादय कल्याणीं मातरं मम नन्दन!
इत्युक्तो वकुलां ब्रह्मा ववन्दे हरिमातरम् ॥९५
ब्रह्मा-
जननी तव गोविन्द! कुत्रेयं जनिता पुरा
एतदाख्याहि भगवन्! श्रोतुं कौतूहलं हि मे ॥९६
श्रीभगवान् -
यशोदा वकुला भूत्वा वर्तते वेङ्कटाचले
रक्षितोऽहं तया भद्र! बहुकालं पितामह! ॥९७
[[422423]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
आपत्काले तु यो रक्षेत् तं विद्यात्पितरं गुरुम्
कदाचिन्मृगयाऽऽसक्तः पद्मतीर्थसमीपतः ॥९८
अगामहं तत्र पुष्पवने कन्या उपागमन्
तासां मध्ये विराजन्ती कन्या काचिदुपागमत् ॥९९
यामाकाशप्रभोः पुत्रीं नाम्ना पद्मावतीं विदुः
तामवेक्ष्यातिमोहान्मे मनस्तामेव काङ्क्षते ॥ १००
तामेव घटयाऽऽशु त्वं पुत्रोऽसि परमो मम
वदत्येवं हृषीकेशे शुश्रुवे दुन्दुभिस्वनः ॥१०१
श्रीनिवासपरिणयार्थं शेषाचलं प्रति रुद्राद्यागमनम्
श्री भगवान्-
कस्य वाद्यमिदं ब्रह्मन्! कश्च मामुपगच्छति
वदत्येवं परे धाम्नि नीलकण्ठोऽन्वपद्यत ॥१०२
पितामहं च पितरं ववन्दे वसुधाधिप!
पार्वत्या षण्मुखेनापि प्रमथाधिपसेवकैः ॥१०३
तमालिङ्ग्य हृषीकेशः प्राह शङ्करमागतम्
वत्सात्राऽऽयाहि निकटं तिष्ठ भद्र! वरासने ॥१०४
एवं सम्भाषमाणे तु नीलकण्ठेन केशवे
ततः समागमत्सद्यः कुबेरो नरवाहनः ॥१०५
यक्षेन्द्रः पुत्रभृत्यैश्च भार्याबन्धुभिरन्वितः
तमायान्तमुपालक्ष्य भगवानाह भूमिप! ॥१०६
धनाधिप! महाप्राज्ञ! धनवान् भव सर्वदा
इत्याशिषाऽऽनन्दयति हृषीकेशे धनेश्वरम् ॥१०७
स्वाहास्वधाभ्यां सहितः आरूढो मेषवाहनम्
अग्निश्चागात् सुपुत्रश्च सबन्धुर्वेङ्कटाचले ॥१०८
स जातवेदसं दृष्ट्वा जाताऽऽह्लादो जगत्पतिः
तमालिङ्ग्यातिवेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥१०९
ततः प्रेतपतिश्चापि स्वदूतैश्च स्वभार्यया
स्ववाहनं समारुह्य प्राप शेषगिरिं स्वयम् ॥११०
चित्रगुप्तो महाप्राज्ञः सम्प्राप्तो राजसत्तमम् !
ततो जलपतिश्चागात् नक्रमारुह्य भक्तिमान् ॥१११
भार्यया बहुरत्नाढ्यो नारायणगिरिं प्रति
आरुह्य गजराजं स्वं इन्द्रः साक्षाच्छचीपतिः ॥११२
भोगिराजगिरिं राजन्! सर्वभोगाऽऽलयो महान्
पौलोम्या सह पुत्रेण सप्राप्तस्त्रिदशेेश्वरः
यथारछं श्रीनिवासेन सत्कृतो निषसाद च ॥ ११३
एवं समारुह्य च भारतीयुतः
सुगन्धयुक्तः समुपाययौ गिरिम् ।
भक्तोऽथ वायुं तमिमं जनार्दनः
क्षेमं च पप्रच्छ तदा मुदान्वितः ॥११४
स्थीयतामिति राजेन्द्र! हरिर्वायुमभाषत
एतस्मिन्नेव काले तु सम्प्राप्तौ चन्द्रभास्करौ
मन्मथोऽप्यागमद्भूप! सरतिस्तुरगोपरि ॥ ११५
मुनयश्च महाराज! समाजग्मुर्महागिरिम्
कश्यपोऽत्रिर्भरद्वाजो वामदेवश्च गौतमः ॥ ११६
[[424425]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
विश्वामित्रो वसिष्ठश्च वाल्मीकिर्जमदग्निजः
पुलस्त्यश्च दधीचिश्च शुनश्शेफश्च गालवः ॥ ११७
गार्ग्यः कृष्णो महाराज! सपुत्राः सपरिग्रहाः
गन्धर्वाप्सरसश्चैव सर्वे सिद्धाः सहोरगाः ॥११८
एवं महर्षयो देवा राजानश्च समागताः
विवाहार्थं समाजग्मुः सर्वे सम्भ्रमकातराः ॥११९
समाश्वास्याथ गोविन्दो यथायोग्यं तदा नृपः
स्थीयतामिति चोवाच सर्वेषां पुरतो हरिः ॥१२०
ब्रह्माज्ञया विश्वकर्मकृतपरिणयारछ पुरनिर्माणक्रमः
ततोऽभूद्वासुदेवस्य विश्वकर्मा ऽक्षिगोचरः
तमालोक्य हृषीकेशः इन्द्रमाह स्म मन्युमान् ॥१२१
इन्द्रास्य गर्वबाहुल्यं पश्य विश्वकृतोऽधुना
भ्रातुर्बाहुबलादेष न जानाति हिताहितम् ॥१२२
यथान्यान् पश्यति सुरान् तथा मामपि पश्यति
साधु जातं सुरश्रेष्ठ! त्यजैनमसमञ्जसम् ॥१२३
अन्यं शालाकर्मरतं शुद्धं मद्भक्तिसंयुतम्
नियोजय सुरश्रेष्ठ! देवतागृहकर्मणि ॥१२४
इत्यप्रियं वचः श्रुत्वा विश्वकर्मा सरेश्वर!
प्रणिपत्याह गोविन्दं वर्धकी भयविह्वलः ॥१२५
वर्धकी-
भगवंस्त्वदभीष्टं यत् अज्ञानान्न मया कृतम्
क्षमस्व मम दौरात्म्यं भगवन्! करुणानिधे! ॥१२६
देवादिदेव! देवेश! स्वल्पस्य मम कारणात्
इयान् कोपः किमर्थं? ते सञ्जातो भगवान्! हरे!॥१२७
एवं सम्प्रार्थितः शक्रं श्रीनिवास उवाच ह
सभां कारय देवेन्द्र! देवार्थं मुनिकारणात् ॥१२८
पञ्चाशद्योजनगणविशालां सुमनोहराम्
सुविचित्रां च महतीं त्रिंशद्योजनमायताम् ॥१२९
इत्येवं शासितः शक्रः तेन वर्धकिना तदा
कारयामास विपुलां विचित्रां महतीं सभाम् ॥१३०
चक्रे शक्राज्ञया तत्र विश्वकर्मा मयाग्रजः
अनन्तरं वाक्यमूचे शतक्रतुमनामयम् ॥१३१
श्रीभगवान्-
आकाशराजनगरं शीफ्रुं गच्छ शचीपते!
राजानं सान्त्ववचनैः कार्ये कर्मणि बोधय ॥ १३२
तत्राप्यनेन कर्तव्यं सभागेहादि कारय
वासुदेवस्य वाक्यानि श्रुत्वा तस्य शचीपतिः ॥१३३
जगाम राजनगरं सहितो विश्वकर्मणा
विस्तार्य नगरं राज्ञः परितो बहुयोजनम् ॥१३४
[[426427]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
सञ्छिद्य च महाराज! वनानि गिरिगह्वरान्
विषमां च समां चक्रे धरां तां धरणीपते!
गृहाणि च विचित्राणि सभाश्च पटमण्डपान् ॥१३५
कल्याणवेदीं स ददर्श रत्न -
सम्पूर्णकक्षैः सुकृतां विचित्राम् ।
स्तम्भैर्युतां मौक्तिकरत्ननिर्मितैः
नारायणस्यैव नृपेण निर्मिताम् ॥१३६
वासुदेवस्य भवनं वासवो विश्वकर्मणा
कारयामास राज्रीेन्द्र! सरत्नस्तम्भगोपुरम्
धनधान्यसमाकीर्णं रत्नतोरणमण्डितम् ॥१३७
वापीकूपशतं वाजिगजानां भवनं तथा
वासवे तु गते राजन्! वासुदेवोऽवदत्सुरान् ॥१३८
देवादिकृतपरिणयार्थभगवत्प्रार्थनाभ्युपगमः
आकाशराजस्य सुताऽस्ति या सुराः
इच्छामि कर्तुं किल तत्करग्रहम् ।
अङ्गीकृतं चेद्भवदीयमण्डलैः
अङ्गीकरोम्यद्य तु राजकन्यकाम् ॥ १३९
वाक्यमाहुर्महाराज! वासुदेवपरायणाः ॥ १४०
ब्रह्मादिदेवाः-
वयं तु दासभावेन तिष्ठामः पुरुषोत्तम ।
त्वत्प्रसादाद्वयं सर्वे पश्यामोऽत्र महोत्सवम् ॥ १४१
शङ्करः-
विनोदवचनं कृष्ण! भाषसे प्राकृतो यथा
मनसस्ते प्रशस्तं चेत् क्रियतामिति चाब्रवीत् ॥१४२
शङ्करस्य वचः श्रुत्वा प्रशशंस हसन् हरिः
ततश्चतुर्मुखः प्राह शेषाचलपतिं प्रति१४३
ब्रह्मा-
सर्वज्ञस्त्वं दयासार! सत्यसङ्कल्पवानसि
अष्टवर्गं ततः कार्यं विवाहात् पूर्वमेव हि ॥१४४
तस्मादाज्ञां देहि मम पुण्याहे पुरुषोत्तम!
स पुत्रवचनं श्रुत्वा वसिष्ठं मुनिमानयत् !१४५
वसिष्ठादीन् प्रति भगवत्कृतविवाहकार्यनियोजनप्रकारः
वसिष्ठं च महाभागं पौरोहित्ये न्ययोजयत्
यजुःशाखामहामन्त्रै कर्तव्यं स्वस्तिवाचनम् ॥१४६
सर्वेषामपि देवानां यजमानो भवानिति
देवानां च ऋषीणां च मानने शङ्करं न्यधात् ॥१४७
देवाह्वाने कुमारं तु प्रत्युत्थाने च मन्मथम्
दत्त्वा तेषां वीटिकां तु कृष्णवर्त्मानमाह्वयत् ॥१४८
गृहाण त्वं वीटिकां च पाकार्थं हव्यवाहन!
ऋषीणां सर्वदेवानां तव पाकस्तु सम्मतः ॥१४९
तस्मात् पाकं कुरुष्व त्वं स्वधास्वाहासमन्वितः
इति शिष्टो यज्ञमूर्तिः तथाऽस्त्विऽत्यब्रवीद्ध्धरिम् ॥१५०
[[428429]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
ततः स प्राह वरुणं जलार्थं सर्वदेहिनाम्
दुष्टानां दण्डने राजन्! शिष्टानां परिपालने ॥१५१
यमं स कल्पयामास सुगन्धे वायुमादिशत्।
धनदाने ब्राह्मणार्थे वस्त्रालङ्कारदापने ॥१५२
कुबेरं योजयामास भगवान् नृपसत्तम!
प्रदीपदारणे राजन्! निशाकरमयोजयत् ॥१५३
वसून् सन्देशयामास भाण्डानां शुद्धिकारणात्
ग्रहांश्च द्रोणपात्रेषु न्ययोजयदरिन्दमः ॥१५४
एवं संशासिताः सर्वे पुराणपुरुषेण च
आज्ञामादाय तेऽभूवन् सर्वे स्वस्थाः स्वकर्मसु॥१५५
ततो वाक्यमुवाचेदं ब्रह्मा लोकपितामहः
ब्रह्मा-
मज्जनं कुरु गोविन्द! मङ्गलं मधुसूदन! ॥१५६
पुण्याहपूर्वकर्माणि स्वेष्टदेवप्रपूजनम्
कुलदेवप्रतिष्ठां च साङ्गं कुरु रमापते! ॥१५७
विवाहार्थं करवीरपुराद्रमाह्वापनम्
स पुत्रवचनं श्रुत्वा सस्मार जगदीश्वरः
रमां राजीवनयनां करवीरपुराल्याम् ॥१५८
मत्वा वियोगिनीं राजन्! दुःखितः सुरसत्तमः
रुरोद लोकरीत्यैव भगवान् लौकिकैः समः ॥१५९
न शोभते सभा दिव्या तया विरहिता सुत!
भवानहं महाप्राज्ञ! देवाश्च सपरिग्रहः ॥१६०
न शोभन्ते यथाऽऽकाशे तारास्तारापतिं विना
आपादनं यथाऽरण्यं अपक्षाश्च विहङ्गमाः ॥१६१
अफलाश्च यथा वृक्षाः अधनाः वासुदेवमभाषत
तथा वयं महाप्राज्ञ! रहिता रमया तया ॥ १६२
वासुदेववचः श्रुत्वा वासुदेवमभाषत
शङ्करः पृथिवीपाल! समुत्तिष्ठन् महाभुजः ॥१६३
शङ्करः-
किमर्थं रोदनं तात? किं ते कार्यं विडम्बनम्
असङ्गस्याप्रमेयस्य चाक्रूरवरदस्य च ॥१६४
अक्लेशकस्य देवेश! किमर्थं रोदनं वृथा
स च तद्वचनं श्रुत्वा नीलकण्ठमभाषत ॥१६५
श्रीभगवान् -
त्वं न जानासि भोः शम्भोः बालभावेन पौत्रक!
यदा ब्रह्माऽवसाने च न किञ्चिदवशिष्यते ॥१६६
तदा क्षीरोदके शम्भोः निरालम्बे निराश्रये
सा मे शय्या सखी भूत्वा क्रीडते हितकारिणी ॥१६७
एतादृशीं विना शम्भो! मम सौख्यं कथं भवेत्?
वदत्येवं जगन्नाथे वेधा वाक्यमभाषत ॥१६८
ब्रह्मा-
नोक्तं त्वयेदं गोविन्द! पूर्वमेव जनार्दन!
अद्य मां कमलानाथ! रमाऽऽह्वाने नियोजय ॥ १६९
[[430431]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
भगवदुक्त्या रमानयनाय करवीरपुरं प्रति सूर्यगमनम्
सोऽपि पुत्रवचः श्रुत्वा द्युमणिं शीफ्रुमाह्वयत्
षण्मुखेन महाराज! सोऽपि तत्र समागतः ॥१७०
ननाम भक्त्या स्तुत्वाऽथ प्राञ्जलिः सम्मुखे स्थितः
भास्करं भक्तिनव्रूङ्गं भगवानाह हृद्गतम् ॥१७१
श्रीभगवान्-
शृगालवासुदेवस्य नगरं गच्छ भानुमन्!
तत्राऽऽस्ते जगतां माता तामानय ममान्तिकम्॥ १७२
भारतीं वासुदेवस्य श्रुत्वा पौत्रो दिवाकरः
विनयेन समायुक्तः शिरसाऽऽनम्य चावदत् ॥१७३
भानुः-
कथं तां लोकजननीं आनयिष्ये तवान्तिकम्
तन्ममाचक्ष्व गोविन्द! कथं मां विश्वसेद्रमा ॥१७४
श्रीभगवान्-
अस्ति तस्यास्त्वयि न्नेहः सदा लोकमहोदये
त्वदागमनसंहृष्टा समायाति ममान्तिकम् ॥१७५
उपायं प्रवदिष्यामि तदागमनकर्मणि
अश्रु मुञ्चन्नपमृजन् तद्द्वारि कुरु संस्थितिम् ॥१७६
त्वां तु दृष्ट्वा जगन्माता सान्त्वयिष्यति भानुमन्!
एवं वदन्ती वाक्यं त्वां किञ्चिद्दुःखसमाकुला ॥१७७
शासनं ते हृतं केन धरण्यां कथ्यतामिति
त्वं समाचक्ष्व तां देवीं इत्थमत्यन्तदुःखितः ॥१७८
शासनं हृतं मेऽद्य मातः! केनापि भूतले
शयनं तु कृतं तेन तव भर्त्राद्य भूतले ॥१७९
येन वै शासनं दत्तं मातर्मे कृपयेदृशम्
निश्चेतनोऽद्य पतितो भर्ता जीवति ते न वा ॥१८०
भर्ता तव जगन्नाथस्त्वशक्तोऽद्य विभाति मे
कदा द्रक्ष्यामि देवीं तां इत्यास्ते प्रलपन्निति ॥१८१
सा त्वद्वचनमाकर्ण्य समायाति न संशयः
उपायं तु ततः श्रुत्वा किञ्चिद्धास्यमुखान्वितः ॥१८२
बभाषे भक्तिनव्रूङ्गो भयभक्तिसमन्वितः
सर्वज्ञा सर्वलोकेषु विश्रुता कमलाऽलया ॥१८३
जानाति हृद्गतं सर्वं कथं मां विश्वसेद्विभो!
अरोगस्य च रोगं हि कथं वक्ष्यामि ते हरे ॥१८४
स भानोर्वचनं श्रुत्वा भानुमाह मनोगतम्
श्री भगवान्-
मन्मायया मोहिता सा भविष्यति न संशयः ॥ १८५
इत्युक्तः प्रणिपत्याथ वासुदेवं रथे स्थितः
करवीरपुरं गत्वा यथोक्तं तत्तथाऽकरोत् ॥१८६
करवीरपुरात् शेषाचलं प्रति रमाऽऽगमनम्
सा तद्वचनमाकर्ण्य यथाऽऽदेशं तदा रमा
रथमारुह्य खेदेन भानुवाक्यादरेण सा ॥१८७
[[432433]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
सम्प्राप्ता वायुवेगेन रवियुक्ता रमापतिम्
तदागमनवार्तां च श्रुत्वा तस्मिन् क्षणे हरिः ॥१८८
जगाम दर्शनापेक्षी ह्यशक्त इव सम्मुखम्
तादृशीमाकृतिं प्राप्य तदद्भुतमिवाकरोत् ॥१८९
देवानां पूर्वदेवानां मुनीनामूर्ध्वरेतसाम्
भुजे भुजङ्गभूषस्य वामं संस्थाप्य वै भुजम् ॥१९०
तथा परं ब्रह्मकण्ठे निधायागाद्भुजं स्वभूः
एवम्भूतं श्रीनिवासं ददर्श कमलालया ॥१९१
रथादुत्तीर्य वेगेन किञ्चिद्धास्यमुखाम्बुजा
चाम्पकं पुष्पनिचयं विकीर्य पदपङ्कजे ॥१९२
समालिङ्ग्यातिभक्त्यैव मुहूर्तद्वयमास्थिता
तदालिङ्गनमात्रेण पुष्टाङ्गो विष्टरश्रवाः ॥१९३
कुशलं परिपप्रच्छ तस्याः साऽपि हरेस्तदा
पितरौ सर्वलोकानां रमानारायणावुभौ ॥१९४
सम्प्राप्तौ स्वस्थतां राजन् ! सर्वदेवनमस्कृतौ
रमायै श्रीनिवासकथितपद्मावतीपरिणयोदन्तः
श्री रमा-
मां मोहयति गोविन्द! तव माया दुरत्यया ॥ १९५
भानुना मयि गोविन्द! कर्म चित्रं त्वया कृतम्
त्वन्मायामोहिताः सर्वे ब्रह्मेशानादयः सुराः ॥१९६
वदाऽदेशं वासुदेव ममाद्याऽऽह्वानकारणम्
स रमावचनं श्रुत्वा साध्वीमाह महीपते! ॥१९७
श्रीनिवासः -
त्वया रामावतारे तु कथितं स्मर भामिनि!
वेदवत्या विवाहस्य सम्प्राप्तः काल एष वै ॥१९८
त्वत्सन्निधौ वोढुमेनां कामयेऽहं कलौ युगे
वदत्येवं हृषीकेशे साऽस्मरत्पूर्विकां गिरम् ॥१९९
श्री रमा -
तामङ्गीकुरु गोविन्द! विवाहे विधिपूर्वकम्
इति मे वचनं कृष्ण! सफलं कुरु वत्सल! ॥२००
इत्युक्त्वा श्रीनिवासं सा ननाम च मुदाऽन्विता
हरिस्तु लोकजननीं आनन्दयदुदारधीः ॥२०१
स रमागिरमाकर्ण्य परिपूर्णमनोरथः
परमानन्दससम्पूर्णः उरगाद्रौ व्यराजत ॥२०२
सन्तोषसंसूचकसर्वगात्रः आनन्दबाष्पेण समृद्धनेत्रः
ब्रह्मादिदेवैर्नुतसच्चरित्रः तदा बभौ वेङ्कटशैलमित्रः॥ २०३
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीनिवासस्य
वेदवतीविवाहाय बन्धुलक्ष्म्याद्यागमनं नाम दशमोऽध्यायः
—–ठ्—–
[[434435]]
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः
एकादशोऽध्यायः
अथ एकादशोऽध्यायः
—–ठ्—–
भगवतः पद्मादिकारितपरिणयारछमङ्गलाभिषेकक्रमः
जनकः-
ततः किमकरोत्कृष्णः श्रीनिवासः सतां गतिः
तन्ममाचक्ष्व भगवन्! विस्तरेण महामुने !॥१
शतानन्दः –
श्रीलक्ष्मीसहितः श्रीमान् श्रीनिवासः पितामहम्
अब्रवीत्प्रीतमनसा प्रयुञ्जानः प्रयजने ॥२
श्रीनिवासः-
कर्माणि पुत्र! कार्याणि कुरु शीफ्रुमतन्द्रितः
स तद्वचनमाकर्ण्य सन्तोषः पितामहः ॥३
कटाहभाण्डनिचयं आनेतुं प्रैषयत्सुरान्
गरुडप्रमुखान् वीरान् नारायणपरायणान् ॥४
ते तस्य वचनं श्रुत्वा क्षणेन गरुडादयः
कटाहादीन् गृहीत्वाऽथ समाजग्मुरनेकधा ॥५
आपूरयत्ततस्तेषु स वायुः सलिलाधिपः
सुगन्धं तोयनिचयं दिव्यतीर्थोद्भवं शुभम् ॥६
ततः सर्वाः सुवासिन्यो वस्त्रालङ्कारमण्डिताः
अरुन्धतीं पुरस्कृत्य कृतमङ्गलकौतुकाः ॥७
सदीपकलशान् राजन्! पार्वतीप्रमुखाः स्त्रियः
चक्रुः समस्तान्मङ्गल्यान् ससावित्रीपुरोगमाः ॥८
गायन्त्यः शुभगानानि निरातङ्ककृतं तथा
कृष्णावतारविभवं गायन्त्यश्चामराङ्गनाः ॥९
सिद्धाङ्गनाश्च राजेन्द्रः तस्थुर्वैखानसाङ्गनाः
एवं प्रवृते पुण्येऽस्मिन् विवाहे वेङ्कटेशितुः ॥१०
स्नुषाश्च वासुदेवस्य जहसुश्चारुलोचनाः
श्वश्रूं च पुरतः कृत्वा मातरं वकुलां हरेः ॥११
एवं महोत्सवस्तत्र समभूत्सप्तमीदिने
चतुर्दिक्षु च संस्थाप्य कलशान् जलपूरितान् ॥ १२
सूत्रेण वेष्टयित्वा तु तन्मध्ये रत्नपीठकम्
संस्थाप्य सम्भ्रमैर्युक्ताः इदमाहुः सुराङ्गनाः ॥१३
’उत्तिष्ठ पुरुषश्रेष्ठ! तिष्ठ त्वं सूत्रमण्डले’
स इत्थमुक्तो भगवान् योषितां पुरतो हरिः ॥१४
प्रोवाच दीनवदनः प्रस्रवन्नेत्रजं जलम्
’पितामह महाप्राज्ञ! विवाहविभवे मम ॥१५
कः करोत्यभिषेकं तु तैलेनाशीः क्रमेण वै
यस्य नास्ति महाराज! माता वाऽपि पिता तथा ॥१६
विवाहे च विपत्तौ च तस्य धिग्जन्म जीवनम्
भगिन्यो भ्रातरश्चैवं मातुला भागिनेयकाः ॥१७
न मे सन्ति महाप्राज्ञ! कः करोत्यभिषेचनम्
मातापितृविहीनानां का गतिर्वै भविष्यति ॥१८
न च मातृसमं मित्रं जनकेन समं सुखम्
न भार्यासदृशं भाग्यं न पुत्रेण समा गतिः ॥१९
[[436437]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
न हि भ्रातृसमो बन्धुः न विष्णोर्देवता परा’
इति सम्भाष्य गोविन्दो लीलामानुषविग्रहः२०
रुरोद लोकरीत्यैव पश्यन् ब्रह्माननं हरिः
उपधार्य हरेर्वाक्यं सभवः कञ्जसम्भवः ॥२१
सान्त्वयन् वासुदेवं तु भारतीमाह भूपते!
ब्रह्मा-
किमर्थं मोहयसि नो मायापञ्जरवासिनः ॥ २२
कोऽपि नास्तीति यत्प्रोक्तं तदसत्यं चतुर्भुज!
पुत्रोऽहं तव कल्याण! पौत्रः साक्षात्त्रिलोचनः ॥२३
मन्मथोऽन्यः पुमान् पुत्रः पौत्रपुत्रः षडाननः
जगत्प्राणो ज्येष्ठपुत्रः स्नुषा ते भारती हरे! ॥२४
सरस्वत्यादिकाः सर्वाः स्त्रियस्त्वत्पादसेविकाः
त्वं पुमान् परमः साक्षात् जगद्धात्री तवाङ्गना ॥२५
क्रीडामात्रमिदं मन्ये त्वत्कृतं पुरुषोत्तम!
एवं विभवमापन्नः त्वं नो मोहयसे वृथा ॥२६
इत्थमुक्त्वा चतुर्वक्त्रो वासुदेवं रमासखम्
रमां सङ्केतयामास सा रमा वाक्यमब्रवीत् ॥२७
श्रीरमा-
विदितं हृदयं देव! तव वेङ्कटवल्लभ!
तैलाभ्यङ्गादि कर्माणि करिष्ये पुरुषोत्तम! ॥२८
उत्तिष्ठ त्यज दुःखं ते समारोह वरासनम्
स रमागिरमाकर्ण्य सन्तोषान्नयनाज्जलम् ॥२९
मुञ्चन् मुनिवरान् राजन्! नन्दयन् नरसारथिः
कश्यपात्रिभरद्वाजविश्वामित्रपुरोगमान् ॥३०
श्रीनिवास-
अनुज्ञां देहि मे ब्रह्मन्! मज्जनार्थं महामुने! ॥३१
तथास्त्वित्यब्रवीत्कृष्णं वसिष्ठः स पुरोहितः
सपत्नीकान् सुरान् सर्वान् सभार्यान् ऋषिमण्डलान् ॥ ३२
अनुज्ञाप्यानुगैः सार्धं उदतिष्ठत्सुरोत्तमः
विकीर्य केशमूलानि पूर्वाशाखिमुखं ततः ॥३३
आरोपयन् रत्नपीठे श्रीनिवासं सुयोषितः
तासां मध्ये सिन्धुपुत्री रमा कमललोचना ॥३४
रुक्मपात्रं समादाय तैलपूरितमादरात्
अभ्यञ्चयत्तदा देवी स्वाशीर्भिरभिनन्द्य तम् ॥३५
श्रीरमा-
दीर्घायुर्भव गोविन्द! बहुपुत्रो धनाधिपः
चतुर्दशानां लोकानां एकच्छत्राधिपो भव॥३६
एवमुक्त्वा तदा देवी साऽभ्यनक्ति स्म माधवम्
देवाङ्गं मर्दयामास तैलेनातिसुगन्धिना ॥३७
तदा ददौ ब्रह्मपत्नी चन्द्रकाश्मीरकर्दमम्
तेन मार्जालतैलेन तथा मृगमदेन च ॥३८
हरिद्राचूर्णपिष्टेन निर्मृज्य च वृषाकपिम्
सुमङ्गलैर्वाद्यघोषैः सह सर्वपरिच्छदैः ॥३९
[[438439]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
समन्तात्पुरवीथीषु करिकुम्भैरुपाहृतैः
समन्तात्पुण्यतीर्थस्थपुण्यतीर्थाभिपूरितैः ॥४०
सरत्नैः काञ्चनैः कुम्भैः तापितोदकमिश्रितैः
अभिषेकं ततश्चक्रे कमला जगदीशितुः ॥४१
आपादमौलिपर्यन्तं सा कृत्वोद्वर्तनं हरेः
मेने कृतार्थमात्मानं सेवया केशवस्य तु ॥४२
चतस्रस्तु सुवासिन्यः पाणिभिः कल्शान् नृपः
धृत्वा मौक्तिकतोयैस्तं अभ्यषिञ्चन् सुरेश्वरम् ॥४३
जलैर्नीराजयामासुः पुत्रवान् धनवान् भव
इत्याशिषाऽभिनन्दन्त्यः श्रीनिवासं सुराङ्गनाः ॥४४
गायन्त्यः शुभगीतानि कौङ्कुमैः नलिलैस्ततः
आरार्तिकां माङ्गलिकीं सर्वाश्चक्रुस्त्तथाङ्गनाः ॥४५
तदा ददौ ब्रह्मपत्नी सावित्री वस्त्रमुत्तमम्
तेन वस्त्रेण सर्वाङ्गं ममार्ज विधिवद्रमा ॥४६
पार्वती धूपमादाय ददौ लक्ष्मीकराम्बुजे
धूपयित्वा सुधूपेन विकीर्योजि
ञ्झ
तबन्धनान् ॥४७
बबन्ध कमला देवी मूर्धजान् मधुघातिनः
आदर्शं दर्शयामास सावित्री स्वर्णभूषितम् ॥४८
रतिशच्यौ चामरे च वीजयन्त्यौ स्थिते तदा
छत्रं दधार सा देवी भारती भक्तिसंयुता
पादुके प्रददौ भद्रा गङ्गा गङ्गापितुस्तदा ॥४९
निधाय पादौ वरपादुकाद्वये
ययौ प्रन्नार्तिहरो हरिः स्वयम्
याभ्यां पुरा पावनतां गता मुनेः
शापेन चाश्मत्वमुपागताऽबला ॥५०
पादुकाभ्यां चरन् भूमिं वरासनमगाद्धरिः ॥ ५१
ब्रह्मादयः सुरश्रेष्ठाः इन्द्राद्या लोकपालकाः
कश्यपादिमुनिश्रेष्ठाः वसिष्ठादितपोधनाः ॥५२
सनकाद्याश्च योगीन्द्राः भृग्वाद्याश्च ऋषीश्वराः
अर्यमाद्याश्च पितरः तुम्बुर्वाद्याश्च गायकाः ॥५३
रम्भाद्याश्चैव नर्तक्यः सूतमागधवन्दिनः
उपासताऽसने रम्ये पश्यन्तः पुरुषोत्तमम् ॥५४
स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनम्
अष्टमीन्दुकलाकारे ललाटे दर्पणस्फुटे ॥५५
ऊर्ध्वपुण्ड्रं दधाराथ श्रीनिवासः सतां गतिः
तदाह कमलां राजन्! वकुला लोकमातरम् ॥५६
रेखां रचय कल्याणि! ललाटे कुङ्कुमेन तु
एवमुक्ता देवमात्रा रमा कुङ्कुममालिखत् ॥५७
तदा मुहूर्तकालस्तु दर्शितो दैवचिन्तकैः
भूषणानि स्वपुत्रस्य पौत्रं तु जगदीशितुः ॥५८
याचयित्वा महाराज! कुबेेरमथ सा रमा
आदाय तं ददर्शाथ भगवानाह तान् नृपः ॥५९
[[440441]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
श्रीभगवान्-
सम्भूषय वरारोहे! भूषणैर्मां वरानने!
एवमुक्ता हसन्ती सा भूषणैस्तमभूषयत् ॥६०
पीताम्बरं दधाराशु कटिसूत्रमनर्घ्यकम्
स्वर्णैराभरणैर्वस्त्रैः भूषितस्तु ततो हरिः ॥६१
कश्यपात्रिभरद्वाजवसिष्ठादीन् महामुनीन्
नमश्चक्रे विरिञ्चेशविनुतोऽपि विडम्बयन् ॥६२
सन्ध्यामुपास्य विधिवत् कृत्वा तात्कालिकक्रियाः
वसिष्ठमाहूयोवाच सन्तोषोद्रिक्तमानसः ॥६३
श्रीभगवान् -
मुनिश्रेष्ठ वसिष्ठ! त्वं उत्तरं कार्यमाचर
वासुदेववचः श्रुत्वा वसिष्ठो वदतां वरः ॥६४
विरच्य वेदिकां तत्र मौक्तिकैश्चतुरश्रिकाम्
श्रीनिवासं प्रतिष्ठाप्य सङ्कल्पविधिपूर्वकम् ॥६५
चक्रे पुण्याहकर्माथ वरयित्वा द्विजन्मनः
अष्टवर्गं ततश्चक्रे सृष्टिकर्ता पितामहः ॥६६
ततो नियुक्तविधिना दत्त्वा ताम्बूलदक्षिणाः
विप्राणां वेदविदुषां तथा मङ्गलवादिनाम् ॥६७
ददुर्देवा धनं वस्त्रं वासुदेवस्य ये प्रियाः
ततः समाप्य कर्माणि शास्त्रोक्तानि यथाविधि॥६८
कुलदैवमपृच्छत्तं वसिष्ठो वसुधाधिप!
स तस्य वचनं श्रुत्वा भगवानाह वै मुनिम् ॥६९
भगवत्कृतपरिणयाङ्गकुलदेवताप्रतिष्ठाविधानम्
श्रीभगवान् -
वसिष्ठ मम कल्याणी कुलदेवी शमी स्मृता
ममापि पाण्डवानां च नात्र कार्या विचारणा ॥७०
क्व चास्ति स द्रुमश्रेष्ठः इत्युक्तेऽगस्त्य ऊचिवान्
आगस्त्यः-
अत्रैवोत्तरदिग्भागे तीर्थे कौमारसञ्ज्ञके ॥ ७१
वर्तते वृक्षराजश्च तत्र गत्वा तमानय
अगस्त्यवचनेनैवं तत्र गत्वाऽथ तं द्रुमम् ॥७२
कृत्वा प्रदक्षिणं राजन्! भगवान् लौकिकैः समः
समश्चक्रे शमीवृक्षं कुलदैवं वृषाकपिः ॥७३
श्रीभगवान् -
शमि! पापं शमय मे शमि! शत्रुविनाशिनि!
अर्जुनस्य धनुर्धात्रि! रामस्य प्रियदर्शिनि! ॥७४
मातर्मे कुरु कल्याणं अविघ्नेन सुरप्रिये!
कलहः सर्वदेवानां राज्ञस्तस्य च नोद्भवेत् ॥७५
इति सम्प्रार्थ्य देवेशः कुलदेवीं सुरार्चिताम्
अर्चयित्वा विधानेन स्कन्धमल्पं महीपते! ॥७६
निकृत्य शिरसा धृत्वा वादित्राणां स्वनेन च
पूरयन्नम्बरं सर्वं पुनः स्वस्थानमागतः ॥७७
[[442443]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
श्रीनिवासः-
सा कुत्र स्थाप्यते ब्रह्मन्! वसिष्ठ! कुलदेविका
वदत्येवं वासुदेवे वसिष्ठं वसुधाधिपः ॥७८
नारदश्चान्तिकं गत्वा प्रोवाच मधुसूदनम्
श्रीनारदः-
वराहशरणे देव! स्थाप्यतां कुलदेवता ॥ ७९
यस्मिन् स्थाने स्वकं धाम तत्र तां कृष्ण! पूजयेत्
एवं विद्वन्मतं पूर्वं निर्मितं परमेष्ठिना ॥८०
स नारदवचः श्रुत्वा वसिष्ठसहितो हरिः
वराहशरणं गत्वा वच एतत्तमब्रवीत् ॥८१
श्रीनिवासः -
प्रसादात्तव गोविन्द! विवाहं कर्तुमुत्सुकः
सहितो धरया सार्थं त्वमागच्छ नृपालयम् ॥ ८२
गुरुस्त्वं सर्वलोकानां कृतकृत्यं च मां कुरु
श्रीनिवासवचः श्रुत्वा भूधरो वाक्यमब्रवीत् ॥८३
श्रीवराहः-
मम स्थाने महाराज! वकुलां विद्धि मे सखीम्
क्ष्षेत्रं पक्वं मदीयं यत् तस्मान्मां त्यक्तुमरछसि ॥ ८४
वराहवचनं श्रुत्वा वासुदेवोऽभ्यभाषत
श्रीनिवासः-
कुलदेवीप्रतिष्ठां च करिष्ये शरणे तव ॥ ८५
इत्येवं प्रार्थयन्तं तं श्रीनिवासं परात्परम्
तथाऽस्त्वित्यब्रवीद्राजन्! कोलरूपी हरिः स्वयम् ॥८६
कलशे स्वर्णखचिते मुक्ताराशिं प्रपूर्य च
वस्त्रेण वेष्टयित्वाऽथ पूजां कृत्वा विधानतः ॥८७
प्रतिष्ठाप्य वराहस्य सन्निधौ प्राकृतो यथा
स्वस्थानं पुनरागत्य श्रीनिवासः सतां गतिः ॥८८
कुबेराच्छ्रीनिवासकृत स्वपरिणयार्थऋणादानप्रकारः
अभोजनेन गन्तव्यं नारायणपुराह्वयम्
आकाशराजनगरमिति निश्चित्य चेतसि ॥ ८९
ब्रह्माणमब्रवीद्राजन्! त्वरया गमने रतः
श्रीनिवासः -
विधेऽद्यैव नियुङ्क्ष्वैतां सेनां ते चतुरङ्गीणीम् ॥९०
शीफ्रुं गन्तुं चतुर्वक्त्र! नारायणपुरं प्रति
माभूत्कालो वृथैवात्र दूरोऽध्वा ह्यस्य वर्तते ॥९१
बलं सर्वं वने तात! वृद्धबालाबलान्वितम्
शनैर्गच्छतु राजेन्द्र! मुनिमण्डलपूर्वकम् ॥९२
स तस्य वचनं श्रुत्वा चक्रपाणेश्चतुर्मुखः
वचनं व्याहरच्छीफ्रुं पितरं पुरुषोत्तमम् ॥९३
ब्रह्मा -
कृत्वा पुण्याहकर्माणि प्रतिष्ठाप्य कुलेश्वरीम्
नोपवासेन गोविन्द! गन्तव्यमिति मे मतिः ॥९४
[[444445]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
मुनयः क्षुधिताः सर्वे बालवृद्धादयस्तथा
वदत्येवं चतुर्वक्त्रे चक्रपाणिरभाषत ॥९५
श्रीनिवासः-
वचनानि महाराछणि तव पुत्र! पितामह!
कथं कार्यमकार्यं च नैव जानासि पुत्रक!॥९६
देशकालावनालोच्य भाषसे बालिशो यथा
द्रव्याणामयुतं तातः गतं मे कानने गिरौ ॥९७
एवं व्ययं समापन्नं कथं पश्यसि चक्षुषा
ज्ञात्वाऽपि रि क्ततां वाचा त्वेवमुक्ते कथं भवेत् ॥९८
वदत्येवं स्वपितरि ब्रह्मा लोकपितामहः
तूष्णीमभून्महाराज! भगवत्पुरतस्त्तदा ॥९९
नीलकण्ठोऽब्रवीद्वाक्यं पितरं स्वपितुस्ततः
नीलकण्ठः-
श्रोतव्यं वचनं तात!मम बालस्य माधव! ॥ १००
विवाहकरणे देव! तथा भवनकर्मणि
प्रारब्धस्यान्तपर्यन्तं यो हि यत्नं समाचरेत् ॥ १०१
स एव पुण्यवान् लोके कीर्तिमेति न संशयः
सम्पाद्याः सर्वसम्भाराः शुभकार्येषु पुष्कलाः ॥१०२
बहुलार्थव्ययेनापि तदभावे त्वृणं चरेत्
स शम्भुवचनं श्रुत्वा शम्बरारिपिताऽब्रवीत् ॥१०३
श्री भववान् -
सभायां किमिदं प्रोक्तं पौरुषेण वचः शिव!
को वाऽद्य ऋणदाताऽस्ति विवाहस्यास्य पुष्कलम् ॥ १०४
पुरुषः पौरुषं यत्नं आचरेन्नैव भाषयेत्
एवमुक्त्वा शिवं प्राह कुबेरं पुरुषोत्तमः ॥१०५
निमित्तं वर्तते किञ्चिदित एहि धनाधिप!
इत्येवमुक्तो धनदः पितामहसमन्वितः ॥१०६
समुत्तस्थौ सभामध्यात् त्वरितं शिवसंयुतः
ब्रह्मणा स कुबेरेण शङ्करेण रमापतिः ॥१०७
एकान्ते स्वामितीर्थस्य पश्चिमेऽश्वत्थसन्निधौ
गत्वोवाच धनेशानं श्रीनिवासः सतां गतिः ॥१०८
श्रीनिवासः-
साधयस्व महाभाग! कल्याणं मे कलौ युगे
दत्वा धनं यावदिष्टं पुत्रस्य नरवाहन ॥१०९
वासुदेववचः श्रुत्वा वसुपालोऽब्रवीद्धरिम्
कुबेरः -
त्वदधीनं देव! सर्वं जगदेतच्चराचरम् ॥ ११०
बहूनां जीवराशीनां मध्ये कोऽहं जगत्पते!
नियोजितेन भवता रक्षितं त्वद्धनं मया ॥१११
तद्दानाऽदानयोः शक्तिः मम नास्ति खगध्वजः
ग्रहीता त्वं च दाता च स्वतन्त्रो ऽत्र त्वमेव हि ॥ ११२
[[446447]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
ब्रुवत्येवं धनपतौ श्रीपतिर्वाक्यमब्रवीत्
श्रीनिवासः-
एकस्मिन् ब्रह्मदिवसे त्ववतारा दश स्मृताः॥ ११३
ममावतारसमये नानयामि धनं गृहात्
भूगतं च धनं राजन्! नैव नेष्यामि मद्गृहम् ॥ ११४
यथायुगं यथाकालं यथादेशं यथावयः
आवतारमहं कुर्वन् रमेऽत्र रमया सह ॥११५
निमित्तमात्रमपि मे धनं त्वं धनदाधुना
युगानुसारिणे देहि देशकालानुसारतः ॥११६
स तस्य वचनं श्रुत्वा कुबेरो वाक्यमब्रवीत्
कुबेरः-
युगानुसारिणस्तेऽद्य कथं दास्यामि चक्रभृत्! ॥११७
यदि दत्तं त्वया पत्रं तदा दास्यामि ते वसु
अधनः सधनं लोके यथा काङ्क्षति माधव! ॥११८
तथैव नरशार्दूल! भगवान् लौकिकैः समः
एवं तद्वचनं श्रुत्वा हरिर्ब्रह्माणमब्रवीत् ॥११९
श्रीनिवासः-
कथं लेख्यं मया पत्रं ऋणादाने वदाद्य मे
ब्रह्म-
ऋणग्राही श्रीनिवासो धनदायी धनेश्वरः ॥१२०
आत्मकार्यनिमित्तं तु कल्याणार्थं कलौ युगे
वैशाखे शुक्लसप्तम्यां विलम्बे चैव वत्सरे ॥१२१
निष्काणां राममुद्राणां लक्षाणि च चतुर्दश
द्रव्यं दत्तं धनेशेन वृद्धिग्रहणकारणात् ॥१२२
सवृद्धि दित्सता मूलं स्वीकृतं चक्रपाणिना
विवाहवर्षमारभ्य सहस्रान्ते धनं पुनः ॥१२३
दातव्यं यक्षराजाय श्रीनिवासेन शार्ङ्गिणा
एकः साक्षी चतुर्वक्त्रो द्वितीयस्त्तु त्रिलोचनः ॥१२४
तृतीयोऽश्वत्थमाकर्ण्य ऋणपत्रं रमापतिः
इत्येतदृणपत्रं तु श्रीनिवासोऽलिखत्स्वयम् ॥१२५
एवं पत्रार्थमाकर्ण्य ऋणपत्रं रमापतिः
लिखित्वा तत्करे दत्त्वा धनेशं चाब्रवीद्धरिः ॥१२६
धनं देहि धनेशान! पत्रे लिखितमात्रकम्
एवमुक्तो वसुपतिः वासुदेवेन भूमिप! ॥१२७
ददौ धनं कुबेरस्त्तु क्ल ?्लप्तसङ्ख्यं वृषाकपेः
दृष्ट्वा तद्धनराशिं तु तत्करेऽदाद्धरिर्नृपः ॥१२८
श्रीनिवासाज्ञया कुबेरकृतवैवाहिकपदार्थसज्जीरणप्रकारः
कुबेरमब्रवीद्देवः सम्भारानयनं प्रति
श्रीभगवान् -
आनीयतां तण्डुलं च मितं प्रस्थैर्धनेश्वर! ॥१२९
माषादिकं च मुद्गादीन् गोधूमांश्च समानय
गुडतैलमधुक्षीरशर्कराज्यदधीनि च ॥१३०
[[448449]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
वस्राणि योग्यमूल्यानि सोत्तरीयाणि चानय
तिलहिङ्गुमरीचादिजीरसर्षपमेधिकान् ॥१३१
हरिद्राक्तानि कुर्वीथाः वस्त्राणि द्विजयोषिताम्
कम्बलाश्च धनाधीश! क्रीयन्तामिति चाब्रवीत् ॥१३२
देवानामुत्तरीयं च देवस्त्रीणां दुकूलकम्
पूगीफलानि दिव्यानि नागवल्लीदलानि च ॥१३३
एलालवङ्गकर्पूरमृगनाभिरसं तथा
माङ्गल्यतन्तुं कन्यार्थं पादाङ्गुष्ठादिमुद्रिकाम् ॥ १३४
हस्ताङ्गुलीयकं मेऽद्य कुबेर! कुरु शीफ्रुतः
इति गोविन्दवचनं श्रुत्वाऽसौ निर्ममे क्षणात् ॥१३५
कुबेरः -
त्वत्प्रसादेन गोविन्द! सर्वं सज्जीकृतं मया
पाकार्थं पुण्डरीकाक्ष! नियुङ्क्ष्वाग्निमतः परम् ॥१३६
भगवदाज्ञया वह्निकृतदिव्यान्नसज्जीकरणप्रकारः
एवमुक्तः कुबेरेण श्रीनिवासः सतां गतिः
षण्मुखं प्रेषयामास वह्नेराह्वानकारणात् ॥१३७
स गत्वा त्वरितं स्कन्दः शासनं ज्ञापयन् हरेः
सम्प्राप्तो वायुवेगेन सहितो जातवेदसा ॥१३८
ततः प्रोवाच भगवान् त्वरितं हव्यवाहनम्
श्रीभगवान् -
क्षणाद्भक्ष्यान्नशाकादि पच स्वाहासमन्वितः’’ ॥१३९
इति नारायणवचः श्रुत्वाऽग्निस्तमभाषत
अग्निः -
पाकार्थं भाजनं कृष्ण! नास्त्येकमपि मे हरे! ॥ १४०
कार्यः पाको महाराज! बहूनां भक्तवत्सलः
इति तस्य वचः श्रुत्वा शार्ङ्ग्यग्निं प्रत्यभाषत ॥१४१
श्रीभगवान् -
भवतां भवने तात! किञ्चिज्जाते महोत्सवे
भाजनानि महाभाग! वर्धन्ते वटबीजवत् ॥१४२
मम कल्याणसमये भाण्डमेकं न दृश्यते
दैवमेव परं मन्ये सर्वेषां सर्वसाधने ॥१४३
उपायं शृणु सप्तास्यः पाकार्थं भाजनैर्विना
अन्नं स्वामिसरोमध्ये सूपं पापविनाशने ॥१४४
वियद्गङ्गाजले वह्ने! परमान्नं गुडान्वितम्
देवतीर्थे शाकमग्ने! तुम्बुतीर्थे तु चित्रकम् ॥ १४५
कुमारधारिकातीर्थे भक्ष्याणि विविधानि च
पाण्डुतीर्थे च कर्तव्यः तिन्त्रिणीरस उत्तमः ॥१४६
व्यञ्जनान्यन्यतीर्थेषु कन्दमूलफलैः सह
क्रियतां लेह्यपेयानि तीर्थेष्वन्येषु पावक! ॥१४७
इति देवस्य वाक्यानि प्रशशंसुर्महर्षयः
तथा च कृतवान् जातवेदा वेदविशारदः ॥१४८
[[450451]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
एवं विचित्रकर्माणि हरेर्वैकुण्ठवासिनः
युगानुसारिणस्तस्य तदद्भुतविडम्बनम् ॥१४९
अचिन्त्यं देवताकार्यं अवाङ्मनसगोचरम्
आग्निः-
दध्योदनतिलान्ने च परमान्नं मधुस्रवम् ॥१५०
माषापूपाः गुडापूपाः शाकद्वयमतः परम्
सर्वं सुपक्वतां नीतं त्वत्प्रसादेन केशव! ॥१५१
आमन्त्रय द्विजेन्द्रांश्च सुरानपि मुनीनपि
अग्निवाणीं समाकर्ण्य श्रीनिवासो निरामयः ॥१५२
सम्प्रैषञ्च्छिवसुतं षण्मुखं मिथिलेश्वर!
श्रीशेषाद्रौ कश्यपादिभ्यो ब्रह्मादिकृतोपचारप्रकारः
स जगामातिवेगेन जपतोऽग्निपरायणान् ॥ १५३
ब्राह्मणान् वेदविदुषः आजुहाव जनाधिप!
पाकः सम्पूर्णतां प्राप्तः उत्तिष्ठत सुरद्विजाः ॥१५४
इति तेन समाहूताः कश्यपात्रिपुरोगमाः
देवाश्च निकटं तस्य पाकस्थानस्य भेजिरे ॥१५५
विभज्य तत्र विधिवत् पात्रभूतान् पृथक् पृथक्
पङ्क्तीश्च कारयित्वाऽथ तारतम्यानुसारतः ॥१५६
पात्राणि व्यस्तृणोच्छम्भुः पात्रापात्रविचक्षणः
पाण्डुतीर्थं समारभ्य श्रीशैलावधि भूसुराः ॥१५७
देवाश्च निबिडीभूताः तस्निन् कृष्णमहोत्सवे
स्थिता देवद्विजास्तत्र स्वस्वपात्रान्तिके पृथक् ॥१५८
तदाह भगवान् राजन्! ब्रह्माणं चतुराननम्
श्रीभगवान् -
अनर्पितं न दातव्यं देवानां च द्विजन्मनाम् ॥ १५९
ब्रह्म-
सर्वज्ञं सर्वभोक्तारं सर्वलोकेश्वरेश्वरम्
त्वामेव वेद्मि गोविन्द! न त्वत्तुल्यो न चाधिकः ॥१६०
कस्मै निवेदयेयं भोः प्रशाधि कमलापते!
स पुत्रवचनं श्रुत्वा पुत्रमाह हसन्निव ॥१६१
श्रीभगवान्-
अहोबिलनृसिंहस्य पूजां कृत्वा निवेदय
इत्युक्तो वासुदेवेन नृसिंहस्यार्पणं नृप! ॥१६२
ब्रह्मा चकार सर्वेषां मुनीनामपि सम्मतम्
गृहाराधनदेवांश्चाऽमन्त्याऽऽनर्च ततः परम् ॥ १६३
अक्षतार्घ्याम्बुगन्धैश्च धूपदीपानुलेपनैः
विप्राणामर्चनं चक्रे ब्रह्मा च विधिपूर्वकम् ॥१६४
ननामानन्दसम्पूर्णो हरिस्तान् लौकिकैः समः
परिवेषं ततश्चक्रुः अष्टौ दिक्पालकास्तदा ॥१६५
पात्रसंस्कारपूर्वं च चक्रुस्ते परिवेषणम्
परिवेषं च सम्पूर्णं आकर्ण्याग्निमुखाद्धरिः ॥१६६
[[452453]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः
तीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥
इत्थं कृष्णार्पणं चक्रे श्रीनृसिंहाय विष्णवे
कश्यपाद्यांश्च गोविन्दो ’जुषध्व’ मिति चाब्रवीत् ॥१६८
भवतां ज्ञानपूर्णानां किमनेनाद्य पूर्णता
भविष्यति महाप्राज्ञाः! दयावन्तस्तपोधनाः ॥१६९
दरिद्रं मां च जानन्तस्त्वन्नं मे सजलं लघु
बहूकृत्य स्वीकुरुत कृपया नितरामिति ॥१७०
प्रार्थनां ब्राह्मणानां तु कृतवान् प्राकृतो यथा
वासुदेववचः श्रुत्वा वाक्यमाहुर्महीसुराः ॥१७१
ऋषयः-
तवान्नममृतप्रख्यं मुक्तिमार्गस्य साधनम्
वयं धन्याः कृतार्थाः स्म कलौ पापाकुले हरे! ॥१७२
अभिनन्द्य तमित्थं ते सुसन्तुष्टा अभुञ्जत
भोजनानन्तरं राजन्! ब्राह्मणानां यथारछतः ॥१७३
ताम्बूलं दक्षिणां चैव प्रददौ भगवान् हरिः
स विप्रभोजनस्यान्ते स्वयं भोजनमाचरत् ॥१७४
पुत्रेण पुत्रपुत्रेण भार्यया बन्धुभिर्युतः
साग्निः सलोकपालश्च सशेषो गरुडान्वितः ॥१७५
भोजनान्ते दिनाधीशो रात्रिस्थानमुपागतः
शयनं कृतवान् कृष्णः पर्यङ्के रमया सह ॥१७६
स्वयं निद्राविहीनोऽपि रेमे प्राकृतवद्धरिः
ब्रह्मादयः सुरश्रेष्ठाः कश्यपात्रिपुरोगमाः ॥१७७
शयनं चक्रिरे राजन्! कन्दरेषु गृहेषु च
वृक्षमूलेषु शैलानां गह्वरेषु दरीषु च ॥१७८
भगवदाज्ञया ब्रह्मकृतसैन्यसज्जीकरणप्रकारः
ततः प्रभाते विमले श्रीनिवासः सतां गतिः
गरुडं प्रेषयामास ब्रह्माणं प्रति भूमिप! ॥१७९
स गत्वा वायुवेगेन ब्रह्माणं तल्पसंस्थितम्
प्रत्युवाच महाराज! पक्षिराट् परमं वचः ॥१८०
गरुडः-
गच्छ तातान्तिकं ब्रह्मन्! वस्त्रालङ्कारभूषितः
हंसमारुह्य चन्द्राभं गन्तुं राजेन्द्रपत्तनम् ॥ १८१
वाद्यन्तां च विचित्राणि वादित्राणि महान्ति च
गजमारोप्य महती भेरी चाद्यानुवाद्यताम् ॥१८२
वाहनानि विचित्राणि रथा आन्दोलिका आपि
अलङ्क्रियन्तां राजेन्द्रपुरीं गन्तुं ससम्भ्रमम् ॥ १८३
पक्षिराड्वचनं श्रुत्वा पक्षिवाहननन्दन
नियोजयामास तदा बलं देवगणस्य च ॥१८४
गजानां च हयानां च वृषभाणां च मण्डलम्
पदातीनां च शूराणां मण्डलं समलङ्कृतम् ॥१८५
[[454455]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
शूराश्च कृतविद्याश्च धृतशस्त्रास्त्रपाणयः
पितामहं पुरस्कृत्य जग्मुर्नारायणान्तिकम् ॥१८६
तं दृष्ट्वा सर्वदेवेशं भगवानाह भूपते!
श्रीनिवासः-
विलम्बः क्रियते कस्मात् गमनार्थं पितामहः ॥१८७
नियोजय बलं सर्वं राजधान्यै नृपस्य च
इत्थं हरेर्वचः श्रुत्वा वासुदेवात्मजो ऽब्रवीत् ॥१८८
ब्रह्मा-
सज्जीकृतं बलं सर्वं धृतायुधमरिन्दम!
उत्तिष्ठ पुरुषश्रेष्ठ! समारोह खगेश्वरम् ॥१८९
वियद्राजपुरं प्रति सपरिकर श्रीनिवासगमनम्
स इत्थमुक्तो भगवान् गरुडस्कन्धमास्थितः
ब्रह्माणमग्रतः कृत्वा रुद्रं कृत्वा तु दक्षिणे ॥१९०
वामे वायुं ततः कृत्वा कुमारं पृष्ठतस्तथा
रमामारोपयामास रथं काञ्चननिर्मितम् ॥१९१
मातरं वकुलां राजन्! विमानं सूर्यसन्निभम्
समारोप्य महाराज! भगवान् भक्तवत्सलः ॥१९२
स्वयं तु गरुडारूढो जगाम च सतां गतिः
शेषो दधार राजेन्द्र! श्वेतच्छत्रं शशिप्रभम् ॥१९३
चामरे चन्द्रसङ्काशे वीजयामास मारुतः
व्यजनेन विचित्रेण रत्नदण्डेन माधवम् ॥१९४
वीजयामास राजेन्द्र! विष्वक्सेनः प्रतापवान्
भेरीदुन्दुभिनिर्घोषैः वादित्राणां महास्वनैः ॥१९५
नर्तकैर्नटनैश्चैव हाहाहूहूयुतोऽञ्जसा
ययौ विभवमापन्नः सर्वात्मा सर्वतोमुखः ॥१९६
गमने वासुदेवस्य देवानामपि भूमिप!
ऋषीणां पूर्वदेवानां गन्धर्वाणां तपस्विनाम् ॥ १९७
सम्मर्दः सम्बभूवात्र पशूनां मानुषात्मनाम्
वनितानां च वृद्धानां बालानां रक्षसामपि ॥१९८
अन्योन्यं कलहस्तत्र वनितानामभूत्तदा
ऋषीणां ऋषिकन्यानां देवस्त्रीणां च दैवतैः ॥१९९
तत्राधना तु गच्छन्ती मार्गमध्ये महीपते!
काचिद्भर्तारमालम्ब्य पुत्रमंसे निधाय च ॥२००
भरमुद्धृत्य शिरसि पद्भ्यामेव स्म गच्छति
तस्मिन् काले महाराज! रथस्थाः सुरयोषितः ॥२०१
पन्थानमनुरुन्धत्योऽतर्जयंश्चाधनान् कृशान्
तदा वियोगमापन्ना भर्त्रा सा भारपीडिता ॥२०२
कूजन्ती नाथ हा नाथ! वने न त्यक्तुमरछसि
एवमुक्त्वा विप्रपत्नी सपुत्रा पतिता भुवि ॥२०३
रुदिताः शिशवस्तत्र प्रहृष्टास्तत्र केचन
केचित्पयः स्म काङ्क्षन्ति केचिदन्नं महीपते!
भुञ्जन्ति केचित् क्षीरान्नं केचिद्दध्योदनं नृपः ॥२०४
[[456457]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
हसन्ति केचित् प्ररुदन्ति केचित्
प्रयान्ति केचित्प्रलपन्ति केचित् ।
पतन्तमन्ये करपल्लवेन
समुद्धरन्ति स्म हसन्ति केचन ॥२०५
सुराङ्गनाश्च राजेन्द्र! तथा वैखानसाङ्गनाः
ऋष्यङ्गनाश्च गन्धर्ववनिताश्चारुलोचनाः२०६
अवारोहन् गिरेश्चैव श्रीनिवासपरायणाः
शेषाचलं समारभ्य नारायणपुरावधि ॥२०७
तिलमात्रावकाशः स्म मार्गमध्ये न दृश्यते
मध्ये कृत्वा पद्मतीर्थं गता सा वाहिनी हरे ॥२०८
ऋग्यजुस्सामाथर्वाद्यैः गीयमानो जगद्गुरुः
श्रीपतिः पद्मतीर्थाख्यं महातीर्थं महीपते ॥२०९
आससाद जगद्योनिः सच्चिदानन्दविग्रहः
ससुरासुरगन्धर्वसिद्धसाध्यमरुद्गणः ॥२१०
भगवन्तं प्रति शुकमुनिकृतोपचारक्रमः
प्राप्तं गरुडमारूढं कृष्णद्वैपायनात्मजः
साष्टाङ्गन्यसनं राजन्! प्रणिपत्य शुकोऽब्रवीत्
तपश्च सफलं मन्ये कृतं मे पुरुषोत्तम! ॥२११
यो भवान् ब्रह्मरुद्राद्यैः अगम्यो वेदगोचरः
तं भवन्तं प्रपश्यामि नेत्राभ्यां पुरुषोत्तम॥२१२
सपुत्रमित्राखिललोकपालं
शेषेण लक्ष्या च युतं यतोऽहम्!
पश्यामि भाग्योदयशालिदृग्भ्यां
त्वत्वादपूजा सफला ततो मे ॥ २१३
विज्ञापनं मे शृणु देवराज!
प्रसादहेतोस्त्तव वासुदेव!।
कृत्वा कृपां वेङ्कटशैलनाथ!
भुक्त्वा मदीयं फलकन्दमूलम् ॥२१४
इत्युक्तो मुनिना तेन वासुदेवोऽभ्यभाषत
श्रीभगवान् -
शृणु तापसशार्दूल! वचनं साधुसम्मतम् ॥ २१५
भवान् कृशो विरागी च ब्रह्मचारी दृढव्रतः
वयं संसारनिरताः बहवश्चात्र भूसुर! ॥२१६
अद्यैव नगरीं गत्वा राज्ञस्तस्य महात्मनः
तत्रैव भोजनं कुर्म इति मे वर्तते मनः ॥२१७
वदत्येवं हृषीकेशे व्यासपुत्रोऽभ्यभाषत
श्रीशुकः-
निष्किञ्चनोऽहं गोविन्द! निष्किञ्चनजनप्रिय! ॥ २१८
त्वयि भुक्ते जगद्भुक्तं नात्र कार्या विचारणा
वदत्येवं शुके कृष्णं वकुला वाक्यमब्रवीत् ॥२१९
वकुला-
शृणु तद्वचनं कृष्ण! त्वद्विवाहे रमापते!
यत्नं बहुविधं चक्रे राजानं स हि बोधयन् ॥२२०
[[458459]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
इति मातुर्वचः श्रुत्वा माधवः शुकमब्रवीत्
श्रीनिवासः -
त्वद्वाक्यामृतपानेन तृप्तिर्मेऽभून्मुनीश्वर! ॥ २२१
किमन्येन प्राकृतेन फलेनाल्परसेन मे
तथाऽपि तव वाक्येन करिष्ये भोजनं मुने! ॥२२२
सान्त्वयित्वा मुनिवरं गरुडादवरुह्य सः
कुटीरं सम्प्रविश्याथ सपुत्रः सपरिग्रहः ॥२२३
मुञ्जैः कृतासने रम्ये संस्थितः परमेश्वरः
शुकः स्नात्वा पद्मतीर्थे कृत्वाऽन्नं भक्तिसंयुतः ॥२२४
अमृताबीजनिचयं मुष्टिभिः प्रविहत्य च
तत्तण्डुलैर्महाराज! कृतवानन्नमुत्तमम् ॥२२५
बृहतीफलसंयुक्तं तिन्त्रिणीरससंयुतम्
स्वान्तरस्थस्य यद्योग्यं पूजासाधनमेव च ॥२२६
तेनैव बाह्यमूर्तेस्तु पूजनं साधुसम्मतम्
इति मत्वाऽर्थतत्त्वज्ञः कृत्वा पादावनेजनम् ॥२२७
पद्मपत्राणि चास्तीर्य तत्रान्नं रससंयुतम्
विनिक्षिप्य विशेषेण कृतसाष्टाङ्गसन्नतिः ॥२२८
भोजनं कुरु गोविन्द! सदा पूर्णमनोरथ!
एवं सम्प्रार्थितो देवः शुकेन परमर्षिणा ॥२२९
तद्भक्तिपारवश्येन भगवानात्मभूः स्वयम्
ऋषीणामुचिताहारान् बुभुजे सर्वभोजनः ॥२३०
लक्ष्मीस्तस्याऽज्ञया मात्रा सार्धं वकुलमालया
बुभुजे मुनिना दत्तं तदन्नममृतप्रभम् ॥२३१
तस्मिन् भुक्तवति श्रीशे ऋषयः कोपपूरिताः
तदा शुकं भीषयन्तः समुत्तस्थुर्वरासनात् ॥२३२
शापानुग्रहसामर्थ्यसाधनाश्च तपोधनाः
तेषां मतं तु विज्ञाय भगवान् बहिरागतः ॥२३३
फूत्कारं कृतवान् कृष्णः सर्वेषां तृप्तिहेतवे
तन्मुखाम्भोजसम्भूतवायुना तृप्तिहेतुना ॥२३४
सुरधेन्वा यथा तृप्ताः तथैव मुनिपुङ्गवाः
शुकं सन्तोषयामासुः वचनैः स्तोत्रमिश्रितैः ॥२३५
श्रीनिवासाभिमुखतया स्वपुरात् सपरिकरवियन्नृपागमनम्
कृत्वाऽष्टम्यां तत्र वासं नवम्यां गुरुवासरे
प्रभातसमये प्राप्ते श्रीनिवासस्त्वरान्वितः ॥२३६
पुनर्गरुडमारुह्य गुरुवारे जगद्गुरुः
चतुरङ्गबलाध्यक्षं ब्रह्माणं च पितामहम् ॥२३७
निधाय पुरतो राजन्! जगाम जगदीश्वरः
अस्ताद्रिं प्रस्थिते भानौ तस्मिन् काले महीपते ! ॥२३८
आष्टवर्गं स्वयं कृत्वा कृतकौतुकमङ्गलः
पद्मावतीं स्नापयित्वा गन्धतैलेन भूमिप ! ॥२३९
अलङ्कृत्य वरां कन्यां अलङ्कारैर्महीपतिः
गजमारोप्य तरसा पुत्रीं पुत्रीहिते रतः ॥२४०
[[460461]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
आकाशराजो धर्मात्मा पुत्रेण सह संयुतः
पुरोहितेन शक्रेण तॊण्डमानेन निर्ययौ ॥२४१
श्रीनिवासं जगद्योनिं द्रष्टुकामो रमापतिम्
चतुरङ्गबलैः सर्वैः गजाश्वरथसंयुतैः ॥२४२
ध्वजैश्चैव पताकाभिः चामरैर्व्यजनैरपि
भेरीदुन्दुभिनिर्घोषैः वादित्राणां महास्वनैः ॥२४३
नर्तकैर्नटकैश्चैव सूतमागधवन्दिभिः
स्तूयमानो महाराज! सैन्यमध्ये व्यराजत ॥२४४
यथाऽऽकाशे चन्द्रबिम्बं नक्षत्रगणमण्डले
श्रीनिवासवियन्नृपपद्मावतीनां परस्परावलोकनम्
राजा ददर्श गोविन्दं शक्रेण परिदर्शितम् ॥ २४५
गरुडस्कन्धमारूढं श्वेतच्छत्रादिभिर्युतम्
सुकुमारं युवानं च सुन्दरं नुन्दराननम् ॥ २४६
श्रीनिवासं जगद्योनिं सच्चिदानन्दविग्रहम्
दृष्ट्वा सन्तुष्टमनसा स रथादवरुह्य च ॥२४७
पद्मावतीं स्वपुत्रीं च निधाय पुरतो नृपः
पुरोहितं पुरस्कृत्य चेदं वचनमब्रवीत् ॥२४८
आकाशराजः-
धन्योऽहं कृतकृत्योऽहं स्वर्गमार्गं समास्थितः
एवं वदन्तं तत्काले श्रीनिवासः सतां गतिः ॥२४९
ददर्श राजशार्दूलं नारदेन प्रदर्शितम्
नारदः -
दीर्घश्मश्रुं दीर्घबाहुं सर्वदा दीर्घदर्शनम् ॥ २५०
श्वशुरं तव गोविन्द! पश्य माधव भूमिपम्
श्रीनिवासः-
धन्यं नारद! मज्जन्म यदाकाशोऽद्य बान्धवः ॥ २५१
सम्बन्धस्त्तेन सम्प्राप्तः किं मयाकाशोऽद्य बान्धवः
वदत्येवं हृषीकेशे राजा सत्यपराक्रमः ॥२५२
द्वारतोरणमासाद्य श्रीनिवासं ददर्श ह
पूजयामास गोविन्दं वसनाभरणादिभिः ॥२५३
गन्धतैलेन राजेन्द्र! जामातरमपूजयम्
सा ददर्श वरारोहा पतिं परमपावनम् ॥२५४
पद्मावती विशालाक्षी लज्जया परिमोहिता
तां ददर्श जगद्योनिः कमलाक्षीं महीपते! ॥२५५
पद्मावतीश्रीनिवासौ वाहनादवरुह्य च
अन्योन्यालोकनं राजन्! चक्राते संस्थितौ ततः ॥२५६
वासुदेवस्य ये भक्ताः तेऽन्योन्यं परिरेभिरे
श्रीनिवासस्य पद्मावत्या सह दुर्गादर्शनपूर्वकं पुरप्रवेशः
नगरद्वारनिलयां दुर्गामासाद्य भक्तितः ॥ २५७
पद्मावती विशालाक्षी सावित्रीं वरमुत्तमम्
वरं ययाचे गोविन्दः कुरु भार्यामिमामिति ॥२५८
पद्मावती विशालाक्षी सावित्रीं परमुत्तमम्
पतिं कुरु रमानाथं श्रीनिवासं जगन्मयम् ॥२५९
[[462463]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
इति वृत्वा च सा देवीं नत्वैरावतमाश्रिता
गरुडस्कन्धमारूडो भगवान् भक्तवत्सलः ॥२६०
दीपकैस्तैलसंसिक्तैः सहस्रायुतसङ्ख्यकैः
लाजान् पुष्पाण्यक्षतांश्च विकिरद्भिरितस्ततः ॥२६१
स्तुवद्भिर्वन्दिवृन्दैश्च ससूतैर्मागधैरपि
आशीर्वादं प्रकुर्वद्भिर्वेदघोषपुरस्सरम् ॥२६२
ब्रह्मादिभिः सुरश्रेष्ठैः भूसुरैः शुकपूर्वकैः
श्रीनिवासं प्रपश्यद्भिः पौरनारीनरैर्वृतः ॥२६३
वीणावेणुमृदङ्गांश्च पणवानकदुन्दुभीन्
वादयद्भिर्ज्जनैश्चान्यैः वारनारीगणैस्तथा ॥२६४
गन्धर्वैर्गाननिपुणैः सूतामात्यैश्च संयुतः
आकाशराजो धर्मात्मा श्रीनिवासपरायणः ॥२६५
पद्मावत्या समेतं तं श्रीनिवासं ससम्भ्रमम्
सञ्चारयन् समन्ताच्च नारायणपुरे शनैः ॥२६६
रम्भास्तम्भैरिक्षुदण्डैः पूगीपोतैरलङ्कृतम्
रसालपल्लवयुतैः पूर्णकुम्भैरलङ्कृतम् ॥२६७
मुक्ताजालावृतैश्चान्यैः पद्मरागविराजितैः
वज्रवैडूर्यखचितैः इन्द्रनीलसमप्रभैः ॥२६८
तथा मरकतप्रख्यैः तोरणैरुपशोभितम्
कुङ्कुमोदकसम्पूर्णकनत्कनकभाजनैः ॥२६९
स्त्रीभिर्नीराजयन्तीभिः राजमानचतुष्पथम्
वेदित्रयं परिक्रम्य वासुदेवालयं ययौ ॥२७०
तद्बन्धुषण्डं मुनिवर्यगुप्तं
श्रीवेङ्कटेशं बहुरत्नसम्मितम्
तद्बन्धुषण्डं मुनिवर्यगुप्तं
बलं ययौ नाथनिकेतनेषु ॥२७१
श्रीनिवासाज्ञया तॊण्डमान्नृपकृतं दिव्यान्नसज्जीकरणम्
रात्रिस्तु पञ्चघटिका समभूच्च तदा ततः
जगाम भवनं राजन्! स्वकीयं राजवल्लभः ॥२७२
तदाऽऽगतो महाराज! तॊण्डमानो महीपते!
तमाह करुणं श्रीमान् श्रीनिवासः क्षुधाऽर्दितः ॥२७३
श्रीनिवास-
वैवाहिकजनाः सर्वे उपवासपरायणाः
अहं च मम पुत्रश्च मम माता सुरादयः ॥२७४
भार्या पतिव्रता लक्ष्मीः क्षुधया परिमोहिताः
तेषामन्नं महाराज! भक्ष्याणि विविधानि च ॥२७५
कुरु राजन्! सत्वरस्त्वं ऋषीणामूर्ध्वरेतसाम्
पाकस्त्वत्र विशेषेण कर्तव्यो जातवेदसा ॥२७६
ममापि च प्रेषणीयं पक्वान्नं राजसत्तम !
वासुदेववचः श्रुत्वा वसुधेशोऽब्रवीद्धरिम् ॥२७७
[[464465]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
तॊण्डमानः -
इदं शरीरं जगदीश! राज्यं
त्वदीयमेतद्धि मुकुन्दमूर्ते!
नरो यथा लोकगतिं प्रपन्नः
तथा ममान्नं प्रति मुह्यसि त्वम् ॥२७८
एवमुक्त्वा महाराज! जगाम भवनं स्वकम्
क्षणेन कारयामास पाकं राजा हविर्भुजा ॥२७९
ऋषीणां वेदविदुषां सुराणां सुरयोषिताम्
राजाऽन्नमर्पयामास विप्राणां चान्नकाङ्क्षिणाम्॥ २८०
भोजनं कृतवन्तस्ते भक्ष्यान्नरससंयुतम्
वासुदेवाय राजेन्द्रः प्रेषयामास सादरः ॥२८१
अन्नं बहुविधं भक्ष्यं समाषं मधुसंयुतम्
स्वयं समेत्य राजेन्द्रो ऽकल्पयद्भोजनं हरेः ॥ २८२
बुभुजे पुरुषश्रेष्ठो लक्ष्म्या च परमेष्ठिना
मात्रा च सहितो राजन्! सशेषो गरुडान्वितः ॥२८३
दत्त्वा वस्त्राणि दिव्यानि जामातुः श्रीपतेर्नृपः
जगाम भवनं राजा वासुदेवाज्ञया तदा ॥२८४
गते राज्ञि महाराज! श्रीनिवासस्त्वरान्वितः
निद्रां चकार विधिवत् निर्दोषोऽपि सुखासने ॥२८५
एवं गता च सा रात्रिः प्रभातसमयोऽभवत्
पूर्वदेवगुरोर्वारः सम्प्राप्तो दशमीदिने ॥२८६
समुत्थितो वासुदेवः कृतमङ्गलमज्जनः
वसिष्ठमब्रवीद्राजन्! भगवान् वेङ्कटेश्वरः ॥२८७
श्रीभगवान् -
सहैव भोजनं कार्यं लक्ष्म्या च परमेष्ठिना
मात्रा पुरोहितेनापि वयं पञ्चान्नवर्जिताः ॥२८८
राज्ञस्तु भवने राजा राजवत्नी पतिव्रता
कन्या पुरोहितो भ्राता तेऽपि पञ्चान्नवर्जिताः ॥२८९
एवमुक्त्वा वसिष्ठस्तु पुरोहितमरिन्दम!
कुबेरमब्रवीद्राजन्! श्रीनिवास! सतां गतिः ॥२९०
श्रीनिवासः -
गच्छ यक्षगणाध्यक्ष! राजानं विप्रकारणात्
इति तद्वचनं श्रुत्वा यक्षराड्राजसत्तमम् ॥२९१
गत्वाऽऽह भारतीं पुण्यां श्रीनिवासेन भाषिताम्
कुबेरः -
भोजनं त्वृषिमुख्यानां कर्तव्यं पूर्वमेव हि ॥ २९२
मुहूर्तकालो रात्रौ तु नाडिकाःस्युस्त्रयोदश
तदा साध्यं महाराज! रात्र्यां ब्राह्मणभोजनम् ॥ २९३
इति सन्दिश्य राजानं कुबेरः पुनरागतः
तथा चकार राजर्षिः भोजनं ब्रह्मवादिनाम् ॥२९४
ददौ च दक्षिणां निष्कं ताम्बूलं च द्विजन्मनाम्
[[466467]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
विवाहार्थं श्रीनिवासानयनाय तन्मन्दिरं प्रति नृपागमनम्
एवम्भूते महीपाल! कल्याणदिवसे हरेः ॥ २९५
शुक्रवारे दशम्यां च सायङ्काले वियन्नृपः
चतुरङ्गबलं सर्वं निधाय पुरतः सुतम् ॥२९६
वसुदानं महाराज तॊण्डमानं च सोदरम्
पुरोहितं पुरस्कृत्य सह सम्बन्धिबान्धवैः ॥२९७
ऐरावतं महानागं रत्नकम्बलभूषितम्
मेघराड्वर्णसंयुक्तं बद्धघण्टाकुलान्वितम् ॥२९८
रक्तदन्त महारावं कर्णबद्धसुचामरम्
पुरन्दरं पुरस्कृत्य गजमैरावतं तथा ॥२९९
आह्वानकारणात्प्राप्तः श्रीनिवासालयं तदा
तस्मिन् महागृहे राजन्! अयुतस्तम्भशोभिताम् ॥३००
सभां चकार रत्नाढ्यां विश्वकर्मा विभोः प्रियाम्
तत्राऽऽसीना महाभागाः ब्रह्माद्याः सर्वदेवताः ॥ ३०१
विश्वामित्रो भरद्वाजो वसिष्ठो गौतमस्तथा
भृगुरत्रिः पुलस्त्यश्च वाल्मीकिर्मिथिलेश्वरः ॥३०२
वैखानसश्च दुर्वासा मार्कण्डेयोऽथ गालवः
दधीचिश्च्यवनो राजन्! सनकश्च सनन्दनः ॥३०३
एते श्रेष्ठतमा लोके मुनयो वीतकल्मषाः
जटामकुटभूषाङ्गाः ज्वलत्कृष्णाजिनाम्बराः ॥३०४
कश्यपस्तु पुरस्कृत्य समासीनाः सभान्तरे
तन्मध्ये वासुदेवस्तु रत्नकम्बलसंयुतः ॥३०५
कृताञ्जलिपुटस्तस्थौ ब्रह्मा लोकपितामहः
तत्सभाद्वारमासाद्य राजा सत्यपराक्रमः ॥३०६
पुरोहितं पुरस्कृत्य स म्प्राप्तो हरिसन्निधिम्
समुत्तस्थौ वासुदेवो दृष्ट्वा राजानमागतम् ॥३०७
परिरम्भणमासाद्य भगवान् वाक्यमब्रवीत्
श्रीनिवासः -
भवान् श्रेष्ठतमोऽत्यन्तं वृद्धोऽसि नृपसत्तम!॥ ३०८
किमर्थमागतोऽसि त्वं मद्गृहं राजसत्तम!
वसुदानं तु राजेन्द्र समाह्वाने नियोजय ॥३०९
वदत्येवं श्रीनिवासे पुरोहितमभाषत
राजा -
विलम्बः क्रियते कस्मात्पूजां कुरु रमापतेः ॥ ३१०
स राजवचनं श्रुत्वा धरणीं वाक्यमब्रवीत्
वियन्नृपोक्त्या वसिष्ठप्रेरितधरणीकृत श्रीनिवासोपचारः
वसिष्ठः-
अरुन्धतीं पुरस्कृत्य कुरु पूजां रमापते ॥ ३११
सा सम्भ्रमात्समुत्थाय बाष्पसन्दिग्धलोचना
मुखं विलोक्य राजेन्द्र कृष्णस्य नृपवल्लभा ॥३१२
मत्वा कृतार्थमात्मानं आनन्दपरिपूरिता
सलज्जा पूजयामास सच्चिदानन्दविग्रहम् ॥३१३
प्राहुः प्रहृष्टहृदयाः धरणीं राजवल्लभाम् ॥ ३१४
[[468469]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
योषितः-
किं त्वया चरितं पुण्यं पूर्वजन्मनि हे धरे
वासुदेवार्चनविधौ निर्मिता परमेष्ठिना ॥३१५
या त्वमित्थं पूजयसि साक्षान्नारायणं स्वयम्
इत्येवं संस्तुता देवी धरणी राजवल्लभा ॥३१६
तैलकर्पूरगन्धेन चन्दनेन सुगन्धिना
अर्चयामास कल्याणी श्रीनिवासं सुरेश्वरम् ॥३१७
वस्त्रैर्नानाविधैः रत्नैर्मुक्तानिर्मितभूषणैः
दिव्यालङ्कारालङ्कृतश्रीनिवासस्य सपरिकरनृपमन्दिरप्रवेशः
ततः पुरोहिताऽऽज्ञप्तः पुराणपुरुषोत्तमम्
गजमारोपयद्राजा जामातरमनामयम्३१८
सहितो वासुदेवस्तु ब्रह्मणा शम्भुना तथा ॥३१९
कुबेरेणाहिराजेन गरुडेनाग्निना तथा
वायुना वरुणेनापि यमेन मरुतां गणैः ॥३२०
वसिष्ठादिमुनिश्रेष्ठै स्सदारैस्ससुतैस्तथा
जगाम राजभवनं रत्नतोरणमण्डितम् ॥३२१
नानाजनसमाकीर्णं नानालङ्कारमण्डितम्
महावाद्यस्वनैर्युक्तं दीपायुतविदीपितम् ॥३२२
जामातृसहितो राजा द्वारतोरणसन्निधौ
चतुरङ्गबलं मुक्त्वा गृहान्तर्गन्तुमुद्यतः ॥३२३
तत्रान्तरे श्रीनिवासं नीराजयितुमागता
तॊण्डमान्नृपतेर्भार्या कुङ्कुमोदकभाजनम् ॥३२४
समादायाशु कल्याणी वासुदेवमपूजयत्
ततः पश्चाच्छ्रीनिवासः प्राविशद्राजमन्दिरम् ॥३२५
द्वाराण्यतीत्याथ बहूनि माधवो
राज्ञा समेतो भवनं प्रविश्य
रत्नासने राजविनिर्मिते हरिः
रराज राजीवसमाननेत्रः ॥३२६
चतुस्त्सम्भां रत्नवेदीं अधिष्ठाप्य खगध्वजम्
परिवार्य च तस्थुस्ते मुनयो वीतकल्मषाः ॥३२७
ब्रह्माणमग्रतः कृत्वा सर्वे देवा यथासुखम्
स्वर्णासने समासीनाः पश्यन्तो नयनोत्सवम् ॥३२८
ततस्स राजा धर्मात्मा चक्रे मङ्गलमज्जनम्
सापि स्नात्वा महाराज तैलेन च सुगन्धिना ॥३२९
अलञ्चकारालङ्कारैस्स्वाऽत्मानं राजवल्लभा
स्वामिपुष्करिणीतोयं हेमकुम्भप्रपूरितम् ॥३३०
वियन्नृपकृतवरपादाम्बुजक्षालनम्
समानीय ब्राह्मणैश्च हरिपादावनेजनम्
सङ्कल्पं विधिवच्चक्रे कन्यादानस्य सादरम् ॥३३१
ततश्चकार राजेन्द्र! मधुपर्कं पुरोहितः
पुरोहितोक्तमन्त्रेण तस्य पादावनेजनम् ॥३३२
[[470471]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
’सहस्रशीराछ पुरुष’ इति मन्त्रं समुच्चरन्
धरण्यास्सावित्रैः कृत्वा स्वामितीर्थजलैश्शुभैः ॥३३३
हरिपादोदकं पुण्यं दधार शिरसा नृपः
भार्यां पुत्रं भ्रातरं च भवनं कोशमेव च ॥३३४
गजाऽगारं रथागारं वस्त्रा ऽगारं च तज्जलैः
मार्जयामास राजेन्द्रः श्रीनिवासपरायणः ॥३३५
राजा-
अद्य मे सफलं जन्म जीवितं च सुजीवितम्
अद्य मे पितरस्तुष्टाः वासुदेवपदोदकात् ॥३३६
एवमुक्त्वा महाराजः कन्यां कमललोचनाम्
अलञ्चक्रे विचित्रैस्तां अलङ्कारैर्महीपते ॥३३७
ततस्तु घण्टिकाघोषं कृतवान् देवचिन्तकः
सुमुहूर्ते तदा प्राप्ते मङ्गलाष्टकमब्रवीत् ॥३३८
वराय वियन्नृपदत्तवैवाहिकभूषणादिकम्
कन्याप्रदानसमये दक्षिणां राजसत्तमः
कोटिसङ्ख्यान्निष्कपुञ्जान् दत्तवान्वेङ्कटेशितुः ॥३३९
तं दृष्ट्वा धनराशिं तु भगवानाह भूमिपम्
श्रीनिवासः-
दातव्यं किं त्वया राजन्! पुत्रस्य तव भूपते ॥ ३४०
विवाहकर्मनिपुणो भवान् दानपरायणः
ददस्व भूषणान्यङ्ग! बहुरत्नान्वितानि च ॥३४१
इत्युक्तो वासुदेवेन भूषणानि ददौ नृपः
किरीटं शतभारं तु कण्ठिकामपि तावतीम् ॥३४२
पुनरेकां तदर्धं च तदर्धं चैन कण्ठिकाम्
पदकानि ददौ सप्तानर्घाण्यथ नृपोत्तमः ॥३४३
मालिकां मौक्तिकानां च भुजभूषणयुग्मकम्
कर्णभूषौ मौक्तिकाढ्यावंसपर्यन्तलम्बिनौ ॥३४४
कङ्कणे रत्नमाणिक्यवज्रवैडूर्यनिर्मिते
द्वात्रिंशद्भारसंयुक्ते अनर्घे दत्तवान्नृप ॥३४५
नागभूषणयुग्मं च बाहुपूरादिकांस्तथा
भूषणान्यङ्गुलीयांश्च दशानां वीरमुद्रिकाम् ॥३४६
कटिसूत्रं स्वर्णमयं वरवज्रसमन्वितम्
एकादशशतीभारं बहुरत्नसमन्वितम् ॥३४७
पादुके च ततो राजा दत्तवान्मधुघातिने
ददौ भोजनपात्रं च षष्टिभारयुतं प्रभोः ॥३४८
लघुपात्रसमोपेतं बृहत्पात्रमपां तथा
कम्बलानां चतुष्षष्टिं दत्तवान्राजसत्तमः ॥३४९
भूषणैर्भूषिताङ्गस्य कन्यादानमथाकरोत्
कन्याप्रवरमूचेऽथ गुरुस्साक्षाद्बृहस्पतिः ॥३५०
[[472473]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
गुरुवसिष्ठकथितवधूवरप्रवरादिकम्
बृहस्पतिः-
अत्रिगोत्रसमुद्भूतां सुवीरस्य प्रपौत्रिकाम्
सुधर्मणस्तु पौत्रीं च पुत्रीमाकाशभूपतेः ॥३५१
त्वमङ्गीकुरु गोविन्द! कन्यां कमललोचनाम्
एवमुक्ते महाराजो मुदा रत्नाम्बरं ददौ ॥३५२
वसिष्ठः -
प्रपौत्रस्य ययातेस्तु पौत्रस्यामिततेजसः
शूरसेनस्य राजेन्द्र! वसुदेवस्य भूपतेः ॥३५३
पुत्रस्य वेङ्कटेशस्य गोत्रे वासिष्ठसञ्ज्ञके
जातस्यात्रिकुलोत्पन्नां कन्यां कनकभूषिताम् ॥३५४
ग्रहीष्यामो वयं राजन्! तव पुत्रीं नृपोत्तम
कन्यावरप्रवरयोरित्युच्चारितयोरथ ॥३५५
धरण्या सह राजेन्द्रः कन्यादानपरायणः
प्रहृष्टहृदयः प्राह श्रीनिवासं परात्परम् ॥३५६
श्रीनिवासस्य वसिष्ठ्ठादिकारितपद्मावतीपाणिग्रहोत्सवः
आकाशराजः-
कन्यामिमां प्रदास्यामि गृहाण पुरुषोत्तम!
इत्युक्त्वा प्राक्षिपद्राजा धरण्या स्रावितां तदा ॥३५७
मन्त्रपूतां स्वामितीर्थधारां सकनकां करे
दक्षिणे श्रीनिवासस्य ददौ पद्मावतीं ततः ॥३५८
विधानं च ततश्चक्रे राजेन्द्रस्सपुरोहितः
पूजयित्वा जगन्नाथं गन्धवस्त्रानुलेपनैः ॥३५९
कङ्कणं बन्धयामास वासुदेवकराम्बुजे
पद्मावत्याः कराम्भोजेऽबन्धयत्कङ्कणं गुरुः ॥३६०
तथा माङ्गल्यसूत्रस्य बन्धं वैवाहिकं तदा
श्रीनिवासेन देवेनाकारयत्स पुरोहितः ॥३६१
सवासिन्यः-
सावित्रीव च कल्याणि बहुपुत्रवती भव
सर्वलोकस्य जननी भव मङ्गलदायिनी३६२
इत्थं सुमङ्गलीस्त्रीषु गायन्तीषु शुभाशिषः
ब्राह्मणानां करस्पर्शाद्राज्ञश्चापि महात्मनः ॥३६३
बबन्ध पूतं माङ्गल्यसूत्रं मन्त्राभिमन्त्रितम्
कण्ठे पद्मावतीदेव्याश्श्रीनिवासो जगत्पतिः ॥३६४
मुनिभिः सह विद्वद्भिर्लाजैरोछमं पुरोहितः
वसिष्ठोऽकारयत्पद्मावत्यञ्जेल्यर्पितैस्ततः ॥३६५
यजुश्शाखाक्रमेणैव जुहावाग्नौ यथाविधि
सर्वं वैवाहिकविधिं वसिष्ठोऽथ समापयत् ॥३६६
ततः पुरोहितो राज्ञस्स्वस्तिवाचनपूर्वकम्
मुनीनामञ्जलिपुटे नवरत्नाक्षतान् ददौ ॥३६७
ते वेदमन्त्रैर्जगदीशमूर्ध्नि
रत्नाक्षतान्वेदविदः प्रचिक्षिपुः
[[474475]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
तदा नृणां तत्र महोत्सवोऽभू -
दाकाशराजस्य पुरीनिवासिनाम् ॥३६८
तस्मिन्काले महाराजो दक्षिणां ब्रह्मवादिनाम्
दापयामास सन्तुष्टो विप्रैस्ताम्बूलपूर्वकम् ॥३६९
गवां कोटिसहस्राणि चाश्वानामयुतं तथा
वस्त्राणां निचयं राजन्! विप्रेभ्यो दत्तवान् विभुः ॥ ३७०
एवं महोत्सवस्तत्र समभूद्दशमीदिने
वधूवरौ प्रतिष्ठाप्य भोजयामास वै ततः ॥३७१
अन्नं बहुविधं सूपरसभक्ष्यसमन्वितम्
परमान्नं च सघृतं सक्षीरं शर्करायुतम् ॥३७२
पुरोहितेन सहितो भोजनं कृतवान् हरिः
मात्रा लक्ष्म्या च सहितः पुत्रेण सहितस्तथा ॥३७३
आकाशराजो धर्मात्मा भुक्तवान्कृष्णसन्निधौ
लक्ष्म्या समेता धरणी तथा वकुलमालया ॥३७४
अभुङ्क्तान्नं रसैैर्युक्तं पतिपुत्रसमन्विता
ततः प्रभाते राजेन्द्र! सुवासिन्यस्सुरेशितुः ॥३७५
मज्जनं कारयामासुर्गन्धतैलैस्सुनिर्मलैः
अन्योन्यमज्जनं तत्र चान्योन्योद्वर्तनं तथा ॥३७६
हरिपद्मावतीदेव्योस्तास्सहासमकारयन्
स राजा विप्रमुख्यानां सुराणां बहुभोजनम् ॥ ३७७
स्त्रीणां च पुरुषाणां च बहुमानपुरस्सरम्
यथेष्टं दापयामास हृष्ट आकाशभूमिपः ॥३७८
अपूपान्विविधांश्चक्रे सूपशाकादिकांस्तथा
घृतकुल्यां क्षीरकुल्यां दधिकुल्यां ततः परम्॥३७९
तत उद्धृत्य निक्षिप्तं बहिर्भुक्तवतां नृणाम्
उच्छिष्टपत्रजालं च पुष्कलान्नादिसंयुतम् ॥३८०
सारमेयगणैः कीर्णं राक्षसानां गणैस्तथा
एवं कोलाहलं चक्रे दिवसांश्चतुरस्तथा ॥३८१
हासस्तत्र विनोदेन नित्यमासीच्च मज्जनम्
दिवसे पञ्चमे प्राप्ते कृत्वा नाकबलिं तथा ॥३८२
कलशांश्चतुरो न्यस्य दीपज्वालाविराजितान्
वधूवरौ प्रतिष्ठाप्य रत्नसिंहासने नृप ! ॥३८३
पूजयामास गोविन्दं जामातरमनामयम्
आकाशराजो धर्मात्मा क्षीरपात्रं करेऽदधत् ॥३८४
मातरं वासुदेवस्य नाम्ना वकुलमालिकाम्
पूजयित्वा विधानेन वस्त्रालङ्कारभूषणैः ॥३८५
नाभिं क्षीरेण सम्मृज्य पुत्रीं पद्मावतीं तदा
अर्पयामास दुःखेन ब्रह्मण्यो राजसत्तमः ॥३८६
महालक्ष्म्या नाभिमूलं सघृतक्षीरसेचनम्
कृत्वाऽर्पयामास पुत्रीं रुदन् गद्गदकण्ठवान् ॥३८७
[[476477]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
श्रीनिवासेन सह शेषाचलं प्रति पद्मावतीप्रेषणम्
श्रीनिवासस्य कृष्णस्य शेषाचलनिवासिनः
राजभार्या महाभागा रुदन्ती कुररीव च ॥३८८
पुत्रीहस्तं प्रदायाथ हस्ते राजकुलाङ्गना
क्षीरं संयोज्य कृष्णस्य नाभिमूलेऽतिदुःखताः ॥३८९
भृशं रुदन्ती मन्त्रेण दुग्धसन्दिग्धलोचना
अर्पयामास कृच्छ्रेण पुत्रीं पद्मावतीं ततः ॥३९०
प्रोवाच च श्रीनिवासं रुदन्ती राजवल्लभा
धरणी-
पालितां लालितां पुत्रीं नवमासधृतां मया ॥३९१
त्वदधीनां जगन्नाथ! करिष्ये मम नन्दिनीम्
इत्येवमर्पयन्त्यां तु धरण्यां राजसत्तमः ॥३९२
स तस्या रोदनं दृष्ट्वा राजा दुःखपरायणः
रुरोद दीनवदनः पुत्रीमालिङ्ग्य भूपतिः ॥३९३
राजा -
हा पुत्रि! मन्दभाग्योऽहं त्वद्वियोगेन केवलम्
जीवनं मम कल्याणि! न स्थिरं च भविष्यति ॥ ३९४
क्रीडागृहे राजपुत्रि! तथा भोजनसद्मनि
भ्राता तव कथं क्रीडां भोजनं वा करिष्यति ? ॥३९५
एवं रुदन्तमालोक्य भ्रातरं दीनचेतनम्
तॊण्डमानो नृपश्रेष्ठो दुःखितो वाक्यमब्रवीत् ॥३९६
तॊण्डमानः-
वयं दरिद्रा निर्भाग्याः कृपणा दीनचेतनाः
वयं मरणमापन्नाः नात्र कार्या विचारणा ॥३९७
एतादृशी च कल्याणी नैव लब्धा कलौ युगे
इत्थं वयं निश्चिनुमो वियोगभृशदुःखिताः ॥३९८
एवं तान् रुदतो दृष्ट्वा वसुदानोऽतिदुःखितः
भगिनीं दीनवदनां आलिङ्ग्याऽऽह रुदन्मुहुः॥३९९
वसुदानः -
मातरं बालकं त्यक्त्वा यथा लोके धनार्जकः
गच्छेत्तथा मां भगिनि! त्यक्त्वा त्वं क्व नु गच्छसि ॥४००
एवं प्रसङ्गात्तत्रासीत् देवानामपि भूमिप!
ऋषीणां कश्यपादीनां दुःखमत्यन्तदारुणम् ॥४०१
रुदन्तं नृपतिं दृष्ट्वा श्रीनिवासः सतां गतिः
स्वयं रुरोद गोविन्दो भगिनीं पार्थवल्लभाम् ॥४०२
स्मृत्वा श्री देवकीपुत्रः तदद्भुतमिवाभवत्
इत्थं कृत्वा लोकरीतिं ऐरावतमुपास्थितः ॥४०३
पद्मावत्या तया सार्धं सर्ववाद्यसमन्वितः
ग्रामं प्रदक्षिणीकृत्य रमया सहितो हरिः ॥४०४
स्वनिवेशगृहं भेजे पद्मासनभवादिकैः
ततो हरिः श्रीनिवासः स्वस्थानं गन्तुमैहत॥४०५
गरुडस्कन्धमारूढः पत्नीं पद्मावतीमपि
आरोपयन्वरारोहां अन्योन्यं परिरभ्य च ॥४०६
[[478479]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
गरुडस्कन्धमारूढो गन्तुं स्वस्थानमुत्सुकः
हरिरामन्त्रणार्थं तु श्वश्रूश्वशुरयोस्तदा ॥४०७
पुनर्गृहं सम्प्रविश्य गमनेच्छुरभूदथ
श्वशुरौ पर्यपृच्छच्च साष्टाङ्गं प्रणिपत्य वै ॥४०८
आशीर्वादं ततश्चक्रे स्वजामातुरनामयम्
आकाशराजः श्वशुरः श्वश्वाृ च धरया सह ॥४०९
आकाशराजः-
दीर्घायुर्भव गोविन्द! सर्वलोकधुरन्धर
इत्याशिषाऽभिनन्द्याथ वासुदेवमभाषत ॥४१०
राजा-
मासान्ते गच्छ गोविन्द! वध्वा सह वयोगतम्
श्वशुरं मां च ते श्वश्रूं मानयस्व महामते ॥ ४११
इति तस्य वचः श्रुत्वा वासुदेवोऽब्रवीन्नृपम्
श्रीनिवासः -
नृप! वाक्यं शृणु मम कार्यस्य महती त्वरा ॥ ४१२
तस्मादाज्ञां च मे देहि राजंस्ते स्यात् कृपा मयि
इत्युक्त्वा वासुदेवस्तु गरुडस्कन्धमास्थितः ॥ ४१३
जगाम भगवान् साक्षात् सर्वदेवसमन्वितः
आकुलाः व्याकुलाः सर्वे नगरस्था जनास्तदा
प्राकारगोपुरारूढाः पश्यन्तः स्वदृशाऽवदन् ॥ ४१४
जनाः-
धन्या राजकुलोत्पन्ना पद्मा कमललोचना
अनुगच्छति गोविन्दं पश्यतेति परस्परम् ॥४१५
पद्मावतीश्रीनिवासयोर्वियन्नृपप्रेषितपारिबराछदिः
तदा ददौ महाराजः पारिबरछं श्रियःपतेः
तण्डुलान् शालिसम्भूतान् वृषभाणां रथोपरि ॥४१६
आरोप्य प्रेषयामास शतं खारीर्वियन्नृपः
मुद्गान् गोस्वामिसंरूढान् त्रिंशत्खारीर्ददौ हरेः ॥४१७
गुडभारं महान्तं च तिन्त्रिणीभारमेव च
पयोघटसहस्राणि दधिभाण्डशतानि च ॥४१८
सहस्रार्धं घृतापूर्णचर्मपात्राणि सर्षपान्
मेधिकान् हिङ्गुलवणतिलपात्राणि चैव हि ॥४१९
तथा शर्करया पूर्णघटांस्तु द्वे शते तथा
वार्ताकं चूतकदलीफलजम्बीरकाणि च ॥४२०
कूष्माण्डकन्दमूलानि मरीचामलकानि च
मधुबाण्डशते द्वे च रम्भाकाष्ठचयांस्तथा ॥४२१
रम्भात्वचश्च राजेन्द्र! पत्राणां विचयं तथा
अश्वानामयुतं दत्त्वा गजानां च सहस्रकम् ॥४२२
धेनूनां पञ्चसाहस्रं आविकानां शतं तथा
दासीनां द्वे शते राजन्! दासानां त्रिशतं तथा ॥४२३
वस्त्राणि विविधान्याशु पर्यङ्कं नृपसत्तम!
उपबरछं रत्नयुतं पारिबरेछण संयुतम् ॥४२४
एवमादीनि वस्तूनि गृहीत्वा नृपसत्तमः
पुत्रेण सहितो राजा श्रीनिवासपरायणः ॥४२५
[[480481]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
आकाशराजो धर्मज्ञः श्रीनिवासस्य सन्निधिम्
आगतः श्वशुरं दृष्ट्वा चोत्तस्थौ जगदीश्वरः ॥४२६
वियन्नृपस्य श्रीनिवासदत्तस्वभक्तिनैरन्तर्यरूपवरप्राप्तिः
श्रीनिवासः-
दूराध्वानं महाराज! किमर्थं त्वं समागतः
दातव्यं किं नृपश्रेष्ठ! तव पुत्रस्य मेऽनघ! ॥४२७
कन्या दत्ता सुतः प्राप्तः सुकृतं किं कृतं त्वया?
सन्तोषश्चातुलः प्राप्तो मम तात! न संशयः ॥४२८
किं ते मनोगतं राजन्! तन्ममाचक्ष्व भूपते!
सन्देहं मा कुरुष्वात्र दानादाने महापते
वासुदेववचः श्रुत्वा वासुदेवमभाषत ॥४२९
राजा-
सर्वमङ्गलमस्माकं त्वत्प्रसादेन केशव!
नान्यद्याचे जगन्नाथ! तव पादसरोरुहे ॥४३०
भक्तिं देह्यचलां कृष्ण! सकुटुम्बस्य मेऽनघ
तच्छृत्वा वचनं तस्य श्वशुरस्य महात्मनः ॥४३१
दत्तवानस्य सायुज्यं आकाशनृपतेस्तदा
स्यालकस्य ददौ वस्त्रं स्वाङ्गस्थं मधुसूदनः ॥४३२
जामात्रा च समाज्ञप्तः पुत्रीभवनमभ्यगात्
पुत्रि! गच्छामि नगरं विहरस्व हरिप्रिये ॥४३३
शयने श्रीनिवासस्य शयनं कुरु मङ्गले
इति राजा! सान्त्वयित्वा पुत्रीं कमललोचनाम् ॥४३४
शशास सा स्वपित्रोक्तं शीफ्रुं माधवमभ्यगात्
रुदन् गद्गदकण्ठेन जगाम नगरं नृपः ॥४३५
भगवत्कृतषण्मासावधिकागस्त्याश्रमावासप्रतिज्ञा
पद्मावत्यनुगो देवो ब्रह्मरुद्रादिकैर्युतः
सुवर्णमुखरीं प्राप्य तत्र वासमकल्पयत् ॥४३६
षण्मासावधि लक्ष्मीशो ’दीक्षितोऽहं महामते!
न शैलराजमारोह’ मिति निश्चित्य देवराट्
अगस्त्यभवनं गत्वा तत्र वासमकल्पयत् ॥४३७
स्वावासं प्रति भगवत्कृत देवादिप्रेषणम्
देवान् सम्प्रेषयामास स्वधामानि वृषाकपिः
ब्रह्मादीनां सुराणां च मुनीनामूर्ध्वरेतसाम् ॥४३८
ददौ वस्त्रं यथायोग्यं भगवान् भक्तवत्सलः
तेनाऽऽज्ञप्ता जगद्धात्रा जग्मुर्लोकं स्वकं सुराः ॥४३९
ऋषयश्च तपोरण्यं जग्मुर्नारायणाज्ञया
लक्ष्मीर्जगाम राजेन्द्र! करवीरपुरं तदा ॥४४०
महोत्सवं तन्त्वनुभूय देवताः
ब्रह्मेशपूर्वाः समहर्षिसत्तमाः!
जग्मुः स्वकं धाम महानुभावाः
राजेन्द्रपूज्यं प्रशशंसुरादरात् ॥ ४४१
[[482483]]
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः
गते देवगणे तत्र त्वगस्त्यनिलयं गतः
भुञ्जानो भोगमतुलं तत्राऽस्त भगवान् हरिः॥४४२
विवाहाध्यायफलश्रुतिः
शतानन्दः-
विवाहाध्यायमाहात्म्यं ये शृण्वन्ति जनेश्वर!
तेषां भाग्योदयं वक्ष्ये शृणु राजन्! सविस्तरम् ॥४४३
कोटिकन्याप्रदानेन यावद्भूमिप्रदानतः
यत्फलं लभते देही तत्फलं श्रवणादरात् ॥४४४
ये उत्सवं कारयन्ति वैवाहं वेङ्कटेशितुः
तस्योत्सवो भवेद्राजन् ! वेङ्कटेशप्रसादतः ॥४४५
इति ते कथितं राजन्! विवाहचरितं हरेःचि
शृणुयाच्छ्रावयेद्वाऽपि सर्वाभीष्टमवाप्नुयात्
शुभदं शृण्वतां चैव सर्वेषां मङ्गलप्रदम् ॥४४६
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीनिवास
विवाहवर्णनं नाम एकादशोऽध्यायः
—–ठ्—–
द्वादशोऽध्यायः
अथ द्वादशोऽध्यायः
—–ठ्—–
श्रीनिवासं प्रति वियन्नृपोदन्तज्ञापकदूतागमनम्
जनकः-
ततः किमकरोत्कृष्णो राज्येऽस्मिन् पार्थसारथिः
तन्ममाचक्ष्व विप्रेन्द्र! यत्कृतं चक्रपाणिना ॥१
शतानन्दः-
एवं काले गते तस्मिन् षण्मासाश्च समत्ययुः
नारायणपुराद्दूतः आगतो वेङ्कटेश्वरम् ॥२
दूतं दृष्ट्वाऽब्जजाता सा सुवर्णमुखरीजले
स्नातुकामाऽरविन्दाक्षी दूतं वचनमब्रवीत् ॥३
पद्मावती -
किमर्थमागतो दूत! केन त्वं प्रेषितस्त्विह
राज्ञा वा राजपुत्रेण तॊण्डमानेन वा पुनः? ॥४
पप्रच्छ कुशलं तं च राज्ञस्तस्य पितुस्तथा
कुशली वर्तते चार! जनको जननी मम ? ॥५
तॊण्डमान् राजशार्दूलः कुशली वर्तते बली?
राज्ञः प्रकृतयः सर्वाः वर्तन्ते क्षेमसंयुताः ॥६
एवमुक्तस्तदा दूतो दुःखसन्दिग्धलोचनः
उवाच दीनया वाचा राजपुत्रीं निदेशतः ॥७
दूतः-
किं वदिष्यामि हे मातः! पितुस्ते काल आगतः
मरणाभिमुखो भूत्वा किञ्चिज्जीवसमन्वितः ॥८
[[484485]]
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः
त्वां द्रष्टुकामो राजेन्द्रः श्रीनिवासं सुहृद्वृतम्
नय शीफ्रुं पतिं भद्रे! राजधानीं पितुस्तु ते ॥९
साऽपि दूतवचः श्रुत्वा पपात गतचेतना
अगस्त्यभार्या तां बालां उत्थाप्य कमलालयाम् ॥१०
श्रीनिवासान्तिकं निन्ये राजपुत्रीं पितृप्रियाम्
तद्वार्तामवदद्देवी श्रीनिवासाय विष्णवे
तच्छ्रुत्वा वासुदेवस्तु रुरोद नरसत्तम ॥११
श्रीनिवासः -
अहो बत महत्कष्टं सम्प्राप्तं मम भामिनि!
किं करोमि क्व गच्छामि? ब्रूहि त्वं पद्मसम्भवे!
इत्येवमुक्त्वा तां देवीं अब्रवीत् कुम्भसम्भवम् ॥१२
वियन्नृपविलोकनाय अगस्त्येन सह श्रीनिवासगमनम्
श्रीभगवान् -
अगस्त्य मुनिशार्दूल! गच्छामि नगरं प्रति
पद्मावत्या सहाद्यैव सार्धं वकुलमालया ॥१३
इत्युक्त्वा प्रययौ राजन्! भगवान् भक्तवत्सलः
अनन्तेनापि सहितः त्वरयैव महर्षिणा ॥१४
आदित्येऽस्तं गते राजन्! नगरद्वारमागतः
पप्रच्छ द्वारपालांश्च राजक्षेमं सुरेश्वरः ॥१५
राजमार्गे महाराज! भगवान् प्रियया सह
अन्तर्निकेतनं प्राप्य राजानं पृथिवीपते ! ॥१६
शयानं दर्शयामास विनिःश्वाससमन्वितम्
पपातास्य महाराज! काये कमललोचनः ॥१७
मरणोद्युक्तं वियन्नृपमुद्दिश्य श्रीनिवासादिकृतनिर्वेदनम्
मुखे मुखं विनिक्षिप्य ललाटं च ललाटके
उदरे चोदरं बद्ध्वा नेत्रं नेत्रे समर्पयत्
अङ्गसङ्गं ददौ तस्य श्वशुरस्य महात्मनः ॥१८
हा तात! नाथ! क्व गतोऽसि च त्वं
सन्त्यज्य देहं स्वसुतं स्वपुत्रीम्!
स्वभ्रातरं सूक्ष्ममतिं सराष्ट्रकं
राज्यं त्वदीयं क्व विसृज्य गच्छसि!॥१९
मातापितृविहीनानां अस्माकं जनको भवान्
कथं पश्यामि नेत्राभ्यां त्वन्मुखाम्भोजमुत्तमम् ॥ २०
उत्थापय सुतां राजन्! रुदन्तीं तनयं तथा
वसुदानं शिशुं राजन्! पितृहीनं च मां नृप!२१
कस्त्राता त्वां विना राजन्! अस्माकं तु भविष्यति!
अनाथान् नाथ! नः पाहि प्रजाः पाहि प्रजापते ॥२२
प्रलपन् पुनरप्याह लोकानित्थं विडम्बयन्
कलेवरं कथं दास्याम्यग्नये लोकमोहनम् ॥२३
एतदर्थं स्वपुत्रीं मे दत्त्वा मृतिमवाप्स्यसि
श्रीनिवास! न गच्छेति पूर्वमेव त्वयोदितम् ॥२४
उक्तं हितं मया तात न श्रुतं ते महीमते!
न तृप्तं नेत्रयुगलं दृष्ट्वा त्वन्मुखपङ्कजम् ॥२५
[[486487]]
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः
तॊण्डमान् मण्डलाधीशो वसुधायां महामते!
का गतिर्मम राजेन्द्र का वार्ता क्व भविष्यति! ॥२६
विलोकय महाराज! मां च पद्मावतीं तथा
मुनिः-
जामाताऽयं समायातः पद्मावत्या समन्वितः ॥ २७
बहिर्गच्छ पुरेव त्वं समानयनकारणात्
भोजनं दीयतां तस्य जामातुः परितोषकम् ॥२८
गजानश्वान् महाराज! वस्त्राणीच्छति ते सुतः
तां ददस्व महाराज! प्रीतये मधुघातिनः ॥२९
इत्यगस्त्येन वै राज्ञि! बोधितेऽप्यप्रबोधिनि
विललाप महाराज! भगवान् लौकिकैः समः ॥३०
तदद्भुतं कर्म चकार देवो
विडम्बयन् सर्वजनं जगत्पतिः ।
यथा कुरूणां रणरङ्गमध्ये
कर्णे हते धर्मराजश्चकार ॥३१
एवं रुदति गोविन्दे राजाऽऽकाशः श्वसन् नृप!
किञ्चित्सञ्ज्ञायुतो भूत्वा वासुदेवमभाषत ॥३२
राजा -
’पुत्रं सभ्रातरं त्राहि श्रीनिवास! निरामय!’
इत्युक्त्वा भूपती राजन्! करे कृष्णस्य तौ ददौ ॥३३
भार्यां सन्देशयामास स्वलोकगमनाय च
इत्यादिश्य त्यजन् प्राणान् सत्यलोकं जनाधिपः ॥३४
दिव्यं विमानमारूढो जगाम स नृपोत्तमः
साऽपि तेन जगामाशु धरणीराजसत्तमः ॥३५
मृताय वियन्नृपाय वसुदानकृतचरमकृत्यक्रमः
ततश्चितां समारोप्य राजानं सपरिग्रहम्
वसिष्ठो गौतमोऽत्रिश्च भरद्वाजोऽ तिविश्रुतः ॥३६
वहन्तो राजशार्दूल! श्रीनिवासप्रियं नृपः
जुहुवुर्ब्रह्ममेधेन मन्त्रैश्च विधिपूर्वकम् ॥३७
ततः कृतानि सर्वाणि प्रेतकार्याणि भूपतेः
षोडशे दिवसे प्राप्ते मासिकान्यकरोत्सुतः ॥३८
निमन्त्रिताश्चारुपुण्याः ब्राह्मणा वेदपारगाः
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ॥३९
वामदेवः पुलस्त्योऽथ वाल्मीकिर्वसुधाधिप!
जमदग्निर्भृगुः श्रीमान् सनन्दश्च पराशरः ॥४०
याज्ञवल्क्यश्च जाबालिः शुनःशेफोऽथ काहलः
एते महर्षयो राजन्! राजार्थे ब्राह्मणोत्तमाः ॥४१
अभुञ्जतान्नसारं च वसुदाननिमन्त्रिताः
समाप्य सर्वकार्याणि हरिः स्वस्थानमाश्रितः ॥४२
पद्मावतीं पुरस्कृत्य पुराणपुरुषोत्तमः
अगस्त्यालयमासाद्य सुखमास्त्त सुरेश्वरः ॥४३
[[488489]]
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः
तॊण्डमानवसुदानयोः राज्यमुद्दिश्य कलहप्रवृत्तिः
मृते राज्ञि गते कृष्णे कलहः प्रत्यपद्यत
तॊण्डमानपतेस्तस्य विष्वक्सेनस्य भूमिप! ॥४४
तॊण्डमानः -
ज्येष्ठे मृते कनिष्ठस्य राज्य्मेतद्विदो विदुः
परम्परार्जितं हीति तॊण्डमानब्रवीत्सुतम् ॥४५
वसुदानः -
’पराक्रमार्जितं राज्यं पित्रा मम नृपोत्तम!
ममैव स्यादिदं ही’ ति तॊण्डमानं सुतोऽब्रवीत् ॥ ४६
एवं विवादमापन्नौ तॊण्डमान्नृपपुत्रकौ
राजशार्दूल! राज्यार्थं उभावपि महाबलौ ॥४७
अन्तरं कृतवन्तौ तौ युद्धे यस्य जयो भवेत्
तस्य राज्यमिदं सर्वं अन्यथाऽथो व्रजेदिति ॥४८
कृत्वा समयमारब्धौ सङ्गरं जयकाङ्क्षिणौ
नानादेशकिरातांश्च क्षत्रियान् युद्धदुर्मदान् ॥४९
आवाहयच्च राजेन्द्र तॊण्डमान् युद्धदुर्मदः
अक्षौहिणीद्वयं तेन सैन्यं सम्पादितं नृपः ॥५०
तावद्राजकुमारेण मिलितं सैन्यमक्षयम्
नारायणपुरप्रान्ते दक्षिणे रणमेदिनी ॥५१
साह्याशया श्रीनिवासं प्रति तॊण्डमान्वसुदानागमनम्
कृत्वा साह्याशया राजन्! तॊण्डमान्राजनन्दनौ
सम्प्राप्तौ वासुदेवस्य चरणौ शरणं गतौ ॥५२
तवागतौ राजकुमारराजौ
दृष्ट्वाऽतिवेगेन स चालिलिङ्ग।
सम्भाष्य दत्त्वापि च रत्नपीठं
प्रीत्याऽतिहृष्टो वचनं बभाषे ॥५३
श्रीनिवासः-
’किमर्थमागमस्तात! तन्ममाचक्ष्व भूमिप!’
श्रीनिवासवचः र्रीशुत्वा स्यालकस्तमभाषत ॥५४
स्यालकः-
’युद्धं प्रसक्तं गोविन्द! कनिष्ठजनकेन मे
राज्यार्थं मम साहाय्यं कुरु वारिजलोचन!॥५५
बालोऽस्मि पितृहीनोऽहं असहायोऽस्मि देवराट्
स्यालकस्य वचः श्रुत्वा राजा तं वाक्यमब्रवीत् ॥५६
राजा -
श्रीनिवासारविन्दाक्ष! कुरु कार्यं पुरः स्थितः
श्रीनिवासः-
एकोऽहं कस्य साहाय्यं करिष्ये नृपसत्तम! ॥५७
तमेवमुक्त्वा भगवान् अन्तर्भवनमभ्यगात्
पद्मावत्युक्त्या वसुदानसाह्यकरणाय श्रीनिवासागमनम्
पद्मावतीं विशालाक्षीं पद्मनाभोऽभ्यभाषत
श्रीनिवासः-
कल्याणि! कार्यमापन्नं महत्कष्टतरं मम ॥५८
[[490491]]
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः
तव भ्राता वरारोहे! कनिष्ठजनकस्तव
राज्यार्थं कलहं कृत्वा मम साहाय्यकाङ्क्षिणौ॥ ५९
छिन्धि सन्देहमधुना कस्य साह्यं विधीयताम्
नियोजयस्व मां देवि! युक्तमालोच्य विस्तरात् ॥६०
पद्मावती -
धर्मधर्मौ मनुष्याणां सर्वदा संस्थितौ हरे !
धर्ममेव प्रशंसन्ति सर्वदा ब्रह्मवादिनः॥ ६१
धर्म एव त्वया कार्यो धर्माधारो भवानिह
बालकः पितृहीनश्च मातृहीनोऽधनः कृशः ॥६२
तस्यापि रक्षणं पुण्यं पुराणपुरुषोत्तम!
स राजा बहुवित्ताढ्यो राज्यकाङ्क्षी पितुर्मम ॥६३
स एव सर्वधर्मज्ञः तॊण्डमान् नृपसत्तमः
सर्वधर्मस्य वै तत्त्वं आलोचयितुमरछति ॥६४
पद्मावतीवचः श्रुत्वा स्यालकस्यैव साह्यकृत्
तॊण्डमान्नृपतेर्दिव्ये शङ्खचक्रे ददौ हरिः ॥६५
उच्चैःश्रवं समञ्चाश्वं समारुह्य खगध्वजः
जगाम युद्धकुशलः स्यालकेनाथ सङ्गतः ॥६६
श्रीनिवासतॊण्डमान्वसुदानयुद्धप्रकारः
चैत्रशुक्लत्रयोदश्यां युद्धं परमदारुणम्
कुरूणां पाण्डवानां च यथा युद्धं तथाऽभवत्॥ ६७
रणस्तम्भे महाघोरे हते पशुगणे ततः
शूराणां रणधीराणां सम्मर्दस्तु बभौ तदा ॥६८
सिंहनादः शङ्खनादः तथा दुन्दुभिनिःस्वनः
शस्त्राणामस्त्रमुख्यानां गजानां च महास्वनः ॥६९
हयानां वृषभाणां च रथानां च परस्परम्
पद्मगृध्रव्यूहकारी तयोर्मध्ये जगत्पतिः ॥७०
रराज भगवान् साक्षात् रणमण्डलमभ्यगात्
विष्वक्सेनस्तॊण्डमानं दशभिः सायकैर्नृपः ॥७१
ताडयामास राजेन्द्रं अर्धचन्द्रैरजिह्मगैः
श्रीनिवासस्तॊण्डमानं राजपुत्रोऽतिबालकः ॥७२
शराणां पञ्चसाहस्र्या श्रीनिवासं च वक्षसि
ताडयामास वेगेन सर्वान् विस्मापयन् जनान् ॥७३
तॊण्डमानोऽपि राजर्षिः विष्वक्सेनं च माधवम्
वासुदेवो राजपुत्रं बाणैर्दशभिरेव च ॥७४
जघान तरसा बालं तदद्भुतमिवाभवत्
चतुर्भिश्चतुरो वाहान् बाणेनैकेन सारथिम्
छत्रमेकेन राजेन्द्र! रथं पञ्चेषुभिस्तथा ॥७५
रथादवप्लुत्य महानुभावः
स राजपुत्रस्त्रिदलं च चक्रम्
चिक्षेप कृष्णे च हयोत्तमे च
वक्षःस्थले वासववज्रकल्पम् ॥७६
[[492493]]
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः
रणरङ्गे मूर्छितं श्रीनिवासं दृष्ट्वा पद्मावत्यनुशोचनम्
तेनातिविद्धो निपपात भूमौ
चक्रेण चक्राङ्कितबाहुदण्डः
शेषाचलेशो रणरङ्गगामी
मनुष्यभावेन विडम्बयन् जनान् ॥७७
मूर्छामुपागम्य हयोत्तमाद्धरिः
यथा मनुष्यो रणरङ्गमध्यतः ।
तथा ह्यसौ देवगणस्य मध्ये
सविस्मयोत्फुल्लविलोचनस्य ॥ ७८
तदा प्राकारमारूढा राजपुत्री हरिप्रिया
अगस्त्यमब्रवीद्राजन्! चक्रपाणेर्निपातनम् ॥७९
पद्मावती-
अगस्त्य! पश्य गोविन्दं पतितं रणमण्डले
अवस्था किमियं प्राप्ता रणे कृष्णेन दृश्यताम् ॥ ८०
मूर्छां गतो वा किमयं मनो मे भ्रमते मुने!
किमत्र कार्यं योगीन्द्रः तन्ममाचक्ष्व कुम्भज! ॥८१
पद्मावतीवचः श्रुत्वा पद्मनाभं च संस्मरन्
उवाच वचनं श्लाघ्यं राजन्! कालोचितं मुनिः ॥८२
आनन्त्यः-
देशकालावतिक्रम्य यः कर्म कुरुते नरः
न स गच्छेत्कर्मफलं न सुखं विन्दते नरः ॥८३
सर्वे स्वकार्ये निपुणाः परकार्ये न कश्चन
नालोकयति को वापि त्वत्पतिं पतितं रणे ॥८४
क्षत्त्रियाणां शरीराणि रणरङ्गगतानि च
विकसत्सङ्गरोत्साहकौतुकान्युत्तरोत्तरम् ॥८५
जीवन्ति कुसुमायन्ते सजीवानि सतां प्रिये!
निर्जीवानि तु तान्येव वीक्षते नैव कश्चन ॥८६
आजीवमेव शूरेभ्यः कार्यं गृह्येत राजभिः
तस्मात्त्वद्वल्लभदशां न कोऽप्यत्रानुशोचति ॥८७
तस्मात्त्वमस्य भद्रेच्छुः निवर्तय पतिं रणात्
स्त्रीणां तु परमो धर्मः पतिभक्तिः पतिप्रिये !॥८८
भद्रं ते भ्रातुरेव स्यात् कनिष्ठपितुरेव वा
एवं मत्वा महाभागे! कुरु त्वं त्वत्पतेरिछतम् ॥८९
मनसो मम कल्याणि! सन्धियत्नः प्रशस्यते
तावुभौ राज्यकर्तारौ पितापुत्रौ न संशयः ॥९०
इत्युक्ता मुनिना तेन राजपुत्री समुत्थिता
प्राकारान्मुनिवासार्थं सङ्ग्रामधरणीं ययौ ॥९१
आन्दोलिकां महाराज! हेमदण्डविभूषिताम्
आरुह्य राजतनया श्रीनिवासपरायणा ॥९२
गरुडध्वजमालोक्य पतितं पृथिवीतले
रणाग्रे स्वपतिं कृष्णं श्रीनिवासं सुरेश्वरम् ॥९३
सखड्गं वर्मसहितं समुत्थाप्य रणाङ्गणे
सशीतलोदकामोदैः व्यजनैः साध्वमार्जयत् ॥९४
[[494495]]
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः
कुपितं श्रीनिवासं प्रत्यगस्त्यकृतपद्मावत्याशयज्ञापनम्
पद्मावत्यब्रवीच्चापि शोचन्ती तं पतिव्रता
पद्मावती -
उत्तिष्ठ रणभूम्यास्त्वं त्यक्त्वा मूर्छां खगध्वज! ॥९५
इति विज्ञापितो देव्या पद्मावत्या तदा नृपः
मुहूर्तमात्रं गोविन्दो! नरलोकं विडम्बयन् ॥९६
मूर्छां गत इव स्थित्वा प्रबुद्ध इव चोत्थितः
उत्थाय रणभूम्यां सः पश्यन् दश दिशो हरिः ॥९७
ददर्श स्वप्रियां राजन्! स्थितां पद्मावतीं विभुः
भ्रुकुटीियुतनेत्रस्तु गरछयन् वाक्यमब्रवीत् ॥९८
श्रीनिवासः-
अस्निन् रणाजिरे घोरे वनितानां प्रयोजनम्
किमस्ति? मुनिशार्दूल! द्रुतमेषाऽद्य गच्छतु ॥९९
इत्थमुक्तो भगवता पद्मावत्या सहाऽऽगतः
अगस्त्यः श्रीनिवासं तं प्रत्यभाषत तापसः ॥१००
अगस्त्यः -
सन्धिरत्र प्रकर्तव्यः श्रीनिवासः सतां गते
उत्तिष्ठ स्यालकं बालं समानय नृपोत्तमम् ॥१०१
तॊण्डमानं महाराजं तत्सुतं तं महाबलम्
श्रीनिवासाभिधानं च तव रोषाकरं हरे! ॥१०२
समाधानं कर्तुकामा सम्प्राप्तैषा रणाङ्गणे
शोचन्ती तव दुःखेन भ्रातुश्च मरणं प्रति ॥१०३
अगस्त्यवचनं श्रुत्वा किञ्चित् क्रोधसमन्वितः
भर्त्सयन् पद्मनयनां सङ्ग्रामस्थलमागताम् ॥१०४
अयुक्तं योषितां धीमन्! सङ्ग्रामागमनं मुने!
अथाहं तॊण्डमानस्य शिरः कायाद्धराम्यहम् ॥१०५
तत्सुतं तं महाभागं श्रीनिवासं महाबलम्
हत्वा राज्यं प्रदास्यामि विष्वक्सेनाय धीमते ॥१०६
वासुदेववचः श्रुत्वा साष्टाङ्गं प्रणिपत्य सा
कृताञ्जलिपुटा भूत्वा देवं वाक्यमभाषत् ॥१०७
पद्मावतीप्रार्थनया श्रीनिवासकृततॊण्डमानवसुदान सन्धिक्रमः
श्रीपद्मावती -
स्वामिन्! नाथारविन्दाक्ष! श्रीनिवास! कृपानिधे!
दयां कुरु दयासिन्धो भक्तानामभयं कुरु ॥१०८
किमनेन जगन्नाथ! लोकनाशनकारिणा
उभौ राज्यस्य कर्तारौ भवतां राजसत्तमौ ॥१०९
विभज्य राज्यं सर्वं च कोशं देहि रमापते!
स्वस्त्यस्तु सर्वलोकेभ्यः पित्रे चापि कनीयसे ॥११०
प्रसादात्तव गोविन्द! निवर्तस्व रणाङ्गणात्
इति प्रियावचः श्रुत्वा श्रीनिवास उवाच ताम् ॥१११
श्रीनिवासः-
क्षात्रधर्मं न जानासि त्वं गच्छाद्य रणाङ्गणात्
अथाहं तॊण्डमानस्य सपुत्रस्य रणे शिरः ॥११२
[[496497]]
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः
पातयिष्ये महासङ्ख्ये पश्यतां सर्वदेहिनाम्
स्यालकार्थं व्रिुये चापि नात्र कार्या विचारणा ॥११३
इत्युक्ता सा कम्पमाना मुनिमाह कृपानिधिम् ॥ ११४
पद्मावती -
’निवर्तय रणात्त्वं वा वेङ्कटेशं मुनीश्वर’
इति विज्ञापितो देव्या लोपामुद्रापतिस्तदा
मुनिः प्रोवाच राजेन्द्र! श्रीनिवासं रणप्रियम् ॥ ११५
सान्त्वयित्वा श्रीनिवासं विष्वक्सेनं महीपतिम्
विभक्तं कुरु गोविन्द! राज्यं कोशं तयोरिति!’ ॥ ११६
अगस्त्यवचनं श्रुत्वा तॊण्डमानं नृपात्मजम्
समाहूयाऽह वचनं सन्धिकारो जनार्दनः ॥११७
किं ते मनोगतं राजन्! इत्युक्तो वाक्यमब्रवीत्
तॊण्डमानः -
त्वमेव गतिरस्माकं त्वय्येव रमते मनः ॥ ११८
तच्छ्रुत्वा तं समाहूय स्यालकं वाक्यमब्रवीत्
श्री भगवान् -
भगिनी तव कल्याणी सन्धिं श्यालक वाञ्छति ॥ ११९
हृद्गतं तव यद्ब्रूहि सत्यं तत्पृथिवीपते
वासुदेववचः श्रुत्वा विष्वक्सेनोऽभ्यभाषत ॥१२०
राजपुत्रः-
शासने तव गोविन्द! स्थितोऽहं सर्वदा हरे!
यथैवेच्छा तव हरे! तथैव कुरु केशव! ॥१२१
इति विज्ञापितस्ताभ्यां उभाभ्यां वेङ्कटेश्वरः
सन्धिं चकार राजेन्द्र! श्रीनिवासस्तयोस्तदा ॥१२२
तदा राज्यं विभज्याथ हस्त्यश्वरथसंयुतम्
धनं कोशं तथा ग्रामान् दुर्गाणि नगराणि च ॥१२३
विविच्य सर्वर्याज्यं च वस्त्रमास्तीर्य देवराट्
ययाचे षोडशं भागं राजानं राजनन्दनम् ॥१२४
भवद्भिस्तु रणं कृत्वा वृथामरणमिच्छतः
दातव्यो राज्यभागस्तु मम वा दुहितुस्तु वा ॥१२५
इत्येवं श्रीनिवासेन पृष्टौ राजनृपात्मजौ
ददतुस्तौ महाराज्! ग्रामान् द्वात्रिंशतं हरेः ॥१२६
तॊण्डमानं प्रतिष्ठाप्य तॊण्डराज्ये तदा हरिः
विष्वक्सेनं प्रतिष्ठाप्य नारायणपुरे नृप ॥१२७
तद्गृहे भोजनं कृत्वा स्यालकस्य गृहे तथा
भुक्त्वा स्वयं भोजयित्वा पद्मावत्यनुगो ययौ ॥१२८
अगस्त्यनिलयं राजन्! श्रीनिवासः सतां गतिः
मुमुदे रमया सार्धं भगवान् शुभदर्शनः ॥१२९
य इदं पुण्यमाख्यानं शृणुयात् श्रावयेच्च यः
श्रीनिवासप्रसादात् सः सर्वमङ्गलवान् भवेत् ॥१३०
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये तॊण्डमान
वसुदानयुद्धसन्धिप्रशंसनं नाम द्वादशोऽध्यायः
—–ठ्—–
[[498499]]
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः
त्रयोदशोऽध्यायः
अथ त्रयोदशोऽध्यायः
—–ठ्—–
तॊण्डमानकृतदिव्यस्वरूपज्ञापनपूर्वक श्रीनिवासस्तुतिः
जनकः-
ततः किमकरोत् कृष्णः शतानन्द! नृपश्च वा
तन्ममाचक्ष्व योगीन्द्र! राज्ञस्तच्चरितं महत् ॥१
शतानन्दः-
कदाचिद्वेङ्कटेशस्य दर्शनार्थं नराधिपः
एक एवाधिगम्याथ ननाम चरणौ हरेः ॥२
तं दृष्ट्वा राजशार्दूलं आलिङ्ग्याऽऽह वचो हरिः
श्रीनिवासः-
किमागमनकार्यं ते तन्ममाचक्ष्व भूपते! ॥ ३
स देववचनं शृत्वा वासुदेवमभाषत
राजा-
दर्शनात्तव गोविन्द! नाधिकं वर्तते हरे! ॥ ४
त्वां वदन्ति सुराध्यक्षं वेदवेद्यं पुरातनम्
मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाऽहमिहागतः ॥५
स्वामिन्! अच्युत! गोविन्द! पुराणपुरुषोत्तम!
अप्राकृतशरीरोऽसि लीलामानुषविग्रहः ॥६
त्वामेव सृष्टिकरणे पालने हरणे हरे!
कारणं प्रकृतेर्योनिं वदन्ति च मनीषिणः ॥७
जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च
जीवकोटिधनं देव! जठरे परिपूरयन् ॥८
क्रीडते रमया सार्धं रमणीयाङ्गविश्रमः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥९
त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्त्रमण्डलम्
ऊरुभ्यामभवन् वैश्याः पद्भ्यां शूद्राः प्रकीर्तिताः ॥ १०
प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम्
अन्तःसृष्टिकरस्त्वं हि बहिःसृष्टिकरो भवान् ॥११
नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च
नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये॥ १२
नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे
अप्राकृतशरीराय श्रीनिवासाय ते नमः ॥१३
अनन्तमूर्तये नित्यं अनन्तशिरसे नमः
अनन्तबाहवे श्रीमन्! अनन्ताय नमो नमः ॥१४
सरीसृपगिरीशाय परब्रह्मन्! नमो नमः
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ॥१५
विरराम महाराज! राजेन्द्रो रणकोविदः
स्तोत्रेणानेन सुप्रीतः तॊण्डमानकृतेन च ॥१६
सन्तुष्टः प्राह गोविन्दः श्रीमन्तं राजसत्तमम्
श्रीनिवासः-
राजन्! अलमलं स्तोत्रं कृतं परमपावनम् ॥ १७
[[500501]]
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः
अनेन स्तवराजेन मामर्चन्ति च ये जनाः
तेषां तु मम सालोक्यं भविष्यति न संशयः ॥१८
आकाशराजो धर्मात्मा प्राप मुक्तिपदं नृपः
तेन राज्ञा प्रसिद्धोऽहं भूलोके भूमिपालक! ॥१९
कृत्वा विवाहविभवं दृष्ट्वा मामागतं गृहम्
सन्तोषमतुलं लेभे राजा परमधार्मिकः ॥२०
दैवमेव परं मन्ये मम भाग्यफलोदयम्
कृतं कर्म सुखं दुःखं अनुभोक्तव्यमञ्जसा ॥२१
का गतिः पुरतो राजन्! विना राज्ञा महात्मना
श्रीधरस्य वचः श्रुत्वा तॊण्डमानाह माधवम् ॥२२
तॊण्डमान् -
प्रारब्धकर्मणः पुंसः कथं सौख्यं भवेद्धरे!
किमर्थं रोदिषि भृशं हतं बन्धुं स्मरन् हरे ! ॥२३
मा शोकं कुरु गोविन्द! राजानं स्वर्गगं प्रति
पश्य मां पुण्डरीकाक्ष! विष्वक्सेनं च बालकम् ॥२४
सान्त्वितस्तेन राज्ञेत्थं श्रीनिवासः सतां गतिः
प्राह वाणीं जगन्नाथः तॊण्डमानं प्रजापतिम् ॥२५
तॊण्डमानं प्रति दिव्यालयकरणाय श्रीनिवासचोदना
कुटुम्बं स्थापितं तेन राज्ञा भ्रात्रा गरीयसा
नास्ति मे भवनं तात! वासार्थं दुहितुस्तव ॥२६
वियन्नृपस्य जामाता वर्तते परमन्दिरे!
एषाऽकीर्तिर्ममानन्तदुःखदा दुःखनाशन! ॥२७
पारतन्त्र्यं महत्कष्टं मनुष्याणां तु का कथा
तस्मान्मे भवनं कार्यं त्वया राजकुलोद्भव!२८
त्वां विना राजशार्दूल! कीर्तिं स्थापयितुं स्थिराम्
कः समर्थो धरापृष्ठे नाके नागालयेऽपि वा ॥२९
वदत्येवं वासुदेवे तथाऽस्त्वित्यवदन्नृपः
सुमुहूर्ते सुलग्ने च सुनक्षत्रे शुभे तिथौ ॥३०
भोगिराजगिरिं राजन्! आरुरोह खगध्वजः
सहितः कमलादेव्या राजयुक्तः स देवराट् ॥३१
निवेशं दर्शयामास वराहानुमतेन च
स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनः ॥३२
अत्रैव कार्यं राजेन्द्रः चैत्यं पूर्वमुखं शुभम्
गोपुरद्वयसंयुक्तं प्राकारत्रयमव्ययम् ॥३३
सप्तद्वारवरोपेतं देहलीतोरणान्वितम्
ध्वजस्तम्भवरोपेतं सर्वलक्षणसंयुतम् ॥३४
आस्थानमण्डपं दिव्यं अद्भुतं यागमण्डपम्
गोशालां धान्यभवनं ततो मालाकरं गृहम् ॥३५
वस्त्रगेहं तैलशालां घृतार्थं भवनं पृथक्
भक्ष्यशालां विशालां च भूषणानां गृहं तथा ॥३६
[[502503]]
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः
कर्पूरगन्धमार्जालतैलकस्तूरिकागृहम्
कल्पयाऽऽशु च राजेन्द्र! गजाश्वभवनं पृथक्॥३७
ताव्रुपत्रैः सुसम्बद्धं स्वर्णालङ्कारमण्डितम्
श्रीतीर्थमन्नशालाग्रे भूतीर्थं भूमिपालक!॥३८
त्वया विनिर्मितं पूर्वं तॊण्डमानमहीपते!
तदद्य कुरु शोभाढ्यं शिलाबन्धनपूर्वकम् ॥३९
इत्युक्तो वासुदेवेन राजा वचनमब्रवीत्
भगवत्कथित तॊण्डमाननृपपूर्वोदन्तः
तॊण्डमानः-
’कथं पूर्वं मया कूपः कृतस्ते केन जन्मना ॥४०
कोऽहं पूर्वं च का जातिः तन्ममाचक्ष्व विस्तरात्’
राज्ञेत्युक्तोऽब्रवीद्राजन्! श्रीनिवासः सतां गतिः ॥४१
श्रीनिवासः-
पुरा वैखानसो नाम ऋषिरत्यन्तशुद्धधीः
भाविकृष्णावतारस्य कथां श्रुत्वा पुरातनीम् ॥४२
कालानां कर्मणां चैव शरीराणां च न स्थितिः
जनानामिति निश्चित्य तपस्तप्तुं प्रचक्रमे ॥४३
द्राविडे चोलदेशे तु प्रकृष्टे कुशविस्तृते
कृष्णरूपं प्रपश्यामि निराहरो जितेन्द्रियः ॥४४
तपसा दुष्करेणेति सुदृढं कृतनिश्चयः
तपसा तप्यमानस्य तस्य वै भक्तवत्सलः ॥४५
प्रादुर्बभूव भगवान् पुरा गोपालवेषभाक्
प्रादुर्भूतं हरिं दृष्ट्वा तुष्टाव स मुनिस्तदा ॥४६
श्रीवैखानसः -
पूजां करोमि पुरुषोत्तम! पुण्यमूर्ते!
गोपाल! देव! करुणाकर! देवदेव!
इत्थं समीरित उवाच मुनीश्वरं तं
तस्योचितं वचनमेष महानुभावः ॥४७
श्रीकृष्णः-
त्वया ध्येयः श्रीनिवासो नाहं ध्येयो मुनीश्वर!
गच्छ शेषगिरिं तत्र वल्मीके वर्तते शुभा ॥४८
प्रतिमा श्रीनिवासस्य तत्पूजां कुरु सन्ततम्
सङ्गमिष्यति ते मार्गे शूद्रः श्रीरङ्गदासकः ॥४९
पूजकस्य भवेच्छूद्रः नेवकस्ते महामुने!
एवमुक्तोऽथ हरिणा सम्प्राप्तो वेङ्कटाचलम् ॥५०
सङ्गमस्तु बभूवास्य मुनेः शूद्रेण वर्त्मनि
ततस्तु तेन सहितो गत्वा श्रीवेङ्कटाचलम् ॥५१
वल्मीकस्थं हरिं दृष्ट्वा पूजयामास वै मुनिः
पुष्पाण्याहारयामास रङ्गदासो महायशाः ॥५२
अकस्माद्दैवयोगेन गन्धर्वः कुण्डलाह्वयः
स्नानार्थमगमच्छीफ्रुं स्वाभिः स्त्रीभिर्जलाशयम् ॥५३
[[504505]]
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः
वसन्ते विजने तत्र स्वामिपुष्करिणीजले
जलक्रीडापरास्तत्र दृष्ट्वा ता रङ्गदासकः ॥५४
मुदोद्रिक्तमना भूत्वा रेतोऽत्याक्षीद्धरातले
पुनः स्नात्वा शुचिर्भूत्वा पश्चात्तापेन निन्दितः ॥५५
बद्धं मालाकुलं सर्वं परित्यज्य पुनस्तदा
पुनराहृत्य पुष्पाणि शीफ्रुमादाय पादजः ॥५६
देवागारं समापाद्य स्थितवानग्रतो हरेः
रङ्गदासं मुनिर्दृष्ट्वाऽगरछयद्रजपा मुहुः ॥५७
पूजाकालो ह्यतिक्रान्तः चक्रपाणेर्महात्मनः
किमर्थं कृतवान् बाल! विलम्बं शूद्रनन्दन! ॥५८
निन्दित्वा मुनिशार्दूले शूद्रं पूजाविलोपिनम्
तूष्णीं स्थिते तु विप्रेन्द्रे स्थिते तूष्णीं च पादजे ॥५९
शङ्खचक्रधरः शूद्रं उवाच परया गिरा
श्रीनिवासः-
मा भैषीः पुत्र! भद्रं ते रङ्गदास! महामते! ॥ ६०
मायया मे हितं विश्वं ससुरासुरमानुषम्
तत्रापि तव बुद्धिस्तु पश्चात्तापेन योजिता ॥६१
तस्मात्त्वमशुभः शूद्र! सन्त्यजाऽतः कलेबरम्
स्वामिपुष्करिणीतीरे सर्वपापनिवारणे ॥६२
मरणात्पुण्यदेशेऽस्मिन् शुद्धो जन्मान्तरे पुनः
सुधर्मतनयो भूत्वा तॊण्डदेशाधिपो भव ॥६३
तॊण्डमानिति विख्यातो लोके कीर्तिं गमिष्यसि
शतस्त्रीवल्लभो भूत्वा मम भक्तश्च केवलम् ॥६४
ततस्त्वं सार्वभौमः सन् राज्यभोगमुपैष्यसि
कन्यादानप्रसङ्गश्च भविष्यति न संशयः ॥६५
तस्माद्देहं त्यजात्त्रेव निराहारोऽतिनिर्मलः
सुधर्मराजतनयो राजाऽऽकाशानुजो भव ॥६६
इत्युक्तो वासुदेवेन तनुं तत्रैव सोऽत्यजत्
स त्वमद्याकाशराजानुजोऽभूर्धार्मिको नृपः ॥६७
तदा त्वया कृतस्त्वेषः कूप आरामकारणात्
इति ते कथितं पूर्वजन्मकर्मसमुद्भवम् ॥६८
तॊण्डमाननृपप्रार्थनया भगवत्कृतनवीनमन्दिरप्रवेशः
गोविन्दवचनं श्रुत्वा तॊण्डमान् राजसत्तमः
कूपं संशोधयामास स्वकृतं पूर्वजन्मनि ॥६९
विमानं कारयामास रत्नचित्रं महोन्नतम्
चतुर्मूर्तिवरोपेतं वैनतेयविभूषितम् ॥७०
कलशेन समोपेतं सौवर्णेनाद्भुतेन वै
आगतानां जनानां च समारोहावरोहयोः ॥७१
मार्गं योजनविस्तीर्णं ससोपानं चकार ह
मध्येमध्ये मण्डपानि प्रपाकूपांश्चकार च ॥७२
श्रीनिवासं समागम्य तॊण्डमानब्रवीत्ततः
[[506507]]
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः
राजा -
त्वया नियमितं देव! सर्वं सम्पूर्णतां गतम् ॥ ७३
आगच्छाद्य जगन्नाथ! चैत्यं तव जनार्दन!
इति राजवचः श्रुत्वा भगवानाह भूपतिम् ॥७४
अवश्यमनुगच्छामि तव भक्त्या प्रतोषितः
इत्युक्त्वा प्रस्थितं देवं देवैश्चेन्द्रपुरोगमैः ॥७५
वैखानसऋषिश्रेष्ठैः ब्राह्मणैः ब्रह्मवित्तमैः
ऋक्सामगायकैश्चैव मन्त्रैश्च विधिपूर्वकम् ॥७६
वादित्रैर्वाद्यमानैश्च घोषयद्भिर्दिशो दश
देवैर्ब्रह्मपुरोगैश्च स्तुवद्भिः स्तुतिभिरछरिम् ॥७७
प्रवेशयामास वरं सुमन्दिरं
श्री श्रीनिवासं पुरुषं पुराणम् ।
पद्मावतीं चापि मुदा महीपतिः
समस्तलोकैर्मुनिभिर्महोत्सवैः ॥७८
पुष्पाण्यवर्षंश्च सुरासुराद्याः
सयक्षगन्धर्वनरोरगाश्च!
देवस्य मूर्ध्न्याशु विमानवर्ये
तं पूजयन्तस्त्वृषयश्च हर्षात् ॥७९
तत आनन्दनिलये तॊण्डमान्नृपनिर्मिते
विमानाग्र्ये श्रीनिवासो रराज भगवान् हरिः ॥८०
आनन्दजनकत्वात्तं आनन्दनिलयं विदुः
वरपद्मासने सुस्थां विधाय कमलालयाम् ॥८१
पद्मावतीं विशालाक्षीं भगवानात्मवक्षसि
अरिशङ्खविहीनोऽसौ कटिन्यस्तकरोत्तमः ॥८२
दर्शयन् पाणिनैकेन दक्षिणेन वृषाकपिः
पदपद्मं सुराराध्यं गतिं च परमां नृणाम् ॥८३
कटिन्यस्तकरेणापि निजपादाब्जगामिनाम्
नृणां भवपयोराशिं कटिदघ्नं प्रदर्शयन् ॥८४
विराजते वेङ्कटेशः सम्प्रत्यपि रमापतिः
इति ते कथितं राजन्! माहात्म्यं वेङ्कटेशितुः
पवित्रं परमं पुण्यं मङ्गलानां च मङ्गलम् ॥ ८५
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाह्मात्म्ये श्रीभगवत्कृत
तॊण्डमान्नृपति त्रयोदशोऽध्यायः निर्मित
नवीनमन्दिरप्रवेशादिवर्णनं नाम
—–ठ्—–
[[508509]]
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः
चतुर्दशोऽध्यायः
अथ चतुर्दशोऽध्यायः
—–ठ्—–
ब्रह्मकारितदीपारोपण भगवदुत्सवप्रशंसा
शतानन्दः-
सर्वाभ्युदयकामोऽथ भूतानां हितकाम्यया
तदा वै भगवान् ब्रह्मा दीपद्वयमकल्पयत् ॥१
प्रार्थयामान गोविन्दं वरमेकमनामयम्
’यावत्कलियुगं तिष्ठेत् तावद्दीपोऽभिवर्धताम्’ ॥२
’यदा विमानपतनं यदा दीपविनाशनम्
तदाऽवतारः सम्पूर्ण इति मे निश्चितोऽवधिः’ ॥३
इति तस्तै वरं दत्त्वा ब्रह्माणमवदद्धरिः
श्रीनिवासः-
श्रूयतां वचनं तात! भुजमुद्धृत्य चोच्यते ॥ ४
उत्सवं कुरु मे पुण्यं ब्रह्मन्! लोकपितामह!
ध्वजारोहणमारभ्य रथान्तं च सवाहनम् ॥५
नैवेद्यं बहुचित्रं च ब्राह्मणैर्वेदपारगैः
कर्तव्यं मम कल्याणं त्रिकाले भयभक्तितः ॥६
तदेतद्वचनं श्रुत्वा पितुः स च पितामहः
तॊण्डमानं समाहूय वचनं व्याहरत्तदा ॥७
ब्रह्मा-
वाहनानि विचित्राणि कुरु शीफ्रुं रमापतेः
रथो दारुमयस्तात! बहुचित्रविचित्रितः ॥८
अतन्द्रेण महापाल! कर्तव्यो विश्वकर्मणा
छत्राणि चामरे पुण्ये व्यजनं राजसत्तम! ॥९
इत्युक्त्वा विश्वकर्माणं आहूय नृपतेर्वशम्
विधाता विदधे सोऽपि यथा राजानुशासनम् ॥१०
वाहनानि रथच्छत्रचामरव्यजनानि च
कृतवान् क्षणमात्रेण प्रीतये मधुघातिनः ॥११
महोत्सवार्थं वेङ्कटाद्रिं प्रति नानादेशीयनृपागमनम्
उवाच वचनं देवो राजानं सपितामहम्
सर्वदेशजनाकीर्णं उत्सवं चोत्तमं विदुः ॥१२
आनयस्व नृपान् सर्वान्नानादेशगतानिति
शासितो वासुदेवेन भृत्यान् सम्प्रेषयन्नृपः ॥१३
अङ्गवङ्गकलिङ्गाद्याः पौगण्डाः काशिकास्ततः
काम्भोजाः केरलद्वीपा विराटकुरुजाङ्गलाः ॥१४
बर्बराः पाण्ड्यदेशीयाः चैद्या मात्स्याः ससैन्धवाः
आगतास्ते महीपालाः सकुटुम्बाः सवाहनाः ॥१५
केचिद्यानगताः केचित् गजस्थाः केचिदश्वगाः
केचिच्च शिबिकारूढाः केचित्पद्भ्यां समाययुः ॥१६
छत्रैः सचामरैर्दिव्यैः मयूरशुकपिञ्छकैः
आराधनं प्रकुर्वाणा विप्राणां चैव भोजनैः ॥१७
ब्रह्मक्षत्रियविट्छूद्राः ये चान्ये नवजातिजाः
चण्डालयवनांस्त्यक्त्वा सर्व एव समागताः ॥१८
[[510511]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
समागमे मार्गमध्ये सङ्कीर्णजनमण्डले
अश्नन्तः केचिदायान्ति केचिदन्नविवर्जिताः ॥१९
केचित् क्षीरप्रपानाश्च केचिद्धारणपारणैः
सर्वेऽभवन् हरेर्भक्ताः श्रीनिवासस्य भूमिप! ॥२०
धनानि वस्त्राणि च भूषणानि
कायान्त्सजीवानि सुखानि सर्वे ।
श्रीवेङ्कटेशस्य पदार्पितानि
चक्रुर्जना भागवताः कलौ युगे ॥२१
तत्राऽऽहूय मुनीन् सर्वान् महीपालान् यथाक्रमम्
कन्यामासं गते भानौ द्वितीयायां जगत्पतेः ॥२२
ध्वजारोहणमाधाय साङ्कुरार्पणमेव च
वैखानसमुनिश्रेष्ठैः पूजा मन्त्रैः प्रकल्पिता ॥२३
नरयानं रत्नमयं निधाय पुरतो हरेः
वासुदेवं बभाषेऽथ ब्रह्मा लोकपितामहः ॥२४
नरयानं समारुह्य कुरु चैत्यप्रदक्षिणम्
एवमुक्तः प्रत्युवाच श्रीनिवासः पितामहम् ॥२५
भगवदाज्ञया ब्रह्मकृतभगवन्मूर्तिचतुष्टयनिर्माणप्रकारः
श्रीनिवासः-
भोः पुत्र बालभावोऽसि शासितो वेदनिर्णय
स चाद्य विस्मृतस्तात! परीक्षा दीयतां मम ॥ २६
स तद्वचनमार्ण्य किञ्चिच्चिन्तासमाकुलः
परीक्षां च ददौ विष्णोः वेदानां वेदवित्तमः ॥२७
स्खालित्यमभवत्किञ्चित् परीक्षायां विधेस्तदा
ततोऽवबोधितः सम्यक् वेधाः वेदानुशासनम् ॥२८
निर्ममे क्षणमात्रेण श्रीनिवासात्मिकाः शुभाः
मूर्तीश्चतस्रो मन्त्रैस्तु चतुर्वेदसमुद्भवैः ॥२९
पृथङ्नामानि तासां वै चकार स महामतिः
उत्सवः श्रीनिवासाख्या त्वाद्याऽन्या चोग्रनामिका ॥३०
सर्वाधिकसमाख्यान्या लेखकाख्या तदाऽपरा
मूलमूर्ति रभूत्तासां मूर्तीनां चतुरात्मनाम्। ३१
स्वयं श्रीवेङ्कटाधीशः सर्वात्मा जगदीश्वरः
देवानां कल्पयामास तत्तन्मूर्त्यभिमानिनाम् ॥३२
असङ्कीर्णानि कार्याणि तानि तानि विधिस्ततः
पञ्चानामपि देवानां तत्तन्मूर्त्यभिमानिनाम् ॥३३
चतुर्मुखेषु चतुरो मनस्येकं विधिस्तदा
अनुदध्यौ तदा तेन सर्वकर्म महोत्सवे ॥३४
उत्सवे श्रीनिवासस्य यात्राकर्मणि दीक्षितः
तेन निर्वर्तयामास यात्राकर्मोत्सवं विधिः ॥३५
नैवेद्यं बहुधा चित्रं चक्रे ब्रह्मोत्सवे शुभे
गुडौदनं तिलान्नं च परमान्नं पयःश्रुतम् ॥३६
मुद्गान्नं माषकान्नं च दध्योदनमतः परम्
षड्विधान्नं च सापूपं सपायससुशर्करम् ॥३७
गुडापूपांस्तिलापूपान् माषापूपान् मनोहरान्
मोदकांश्च शतच्छिद्रप्रमुखान् कारयन् विधिः ॥३८
[[512513]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
ब्रह्मकारितश्रीनिवासमहोत्सववैभवप्रकारवर्णनम्
अर्पयामास देवाय श्रीनिवासाय विष्णवे
उत्सवं श्रीनिवासस्य विधिर्यात्रां महोत्सवे ॥३९
कारयामास वै वेधाः ध्वजारोहणपूर्वकम्
सायङ्काले च पूर्वेद्युः ध्वजारोहणवासरात् ॥४०
अनन्तगरुडाद्याश्च ब्रह्माद्याश्च तथाऽमराः
सर्वे चान्ये महर्ष्याद्याः विष्वक्सेनपुरःसराः ॥४१
वल्मीकादिभवां मृत्स्नां पवित्रां नगराद्बहिः
खानितां विधिवन्मन्त्रैः हस्तिमस्तकरोपिताम् ॥४२
सर्वमङ्गलवाद्यैश्च सहसर्वपरिच्छदैः
ससम्भ्रमं समानीय प्रादक्षिण्येन वीथिषु ॥४३
अङ्कुरार्पणमातेनुः सहर्षपुलकाङ्कुराः
ततो परेद्युरुषसि ध्वजारोहमहोत्सवम् ॥४४
आरभ्यावभृथान्तं च पुष्पयागान्तमेव च
उत्सवं श्रीनिवासस्य चकार विधिवद्विदिः ॥४५
तस्मिन् महोत्सवे विष्णोः ध्वजारोहणवासरे
प्रथमे प्रथमं यानं मनुष्यान्दोलिकाऽभवत् ॥४६
द्वितीयं च तथा रात्रौ अभवच्छेषवाहनम्
शेषे शयनशीलस्य शेषाचलनिवासिनः ॥४७
सदा शेषप्रियस्यास्य श्रीनिवासस्य शार्ङ्गिणः
द्वितीयदिवने चाद्यं भूयोऽभूच्छेषवाहनम् ॥४८
द्वितीयं च तथा रात्रौ अभवद्धंसवाहनम्
तृतीयदिवसे चाद्यं अभवत्सिंहवाहनम् ॥४९
द्वितीयं च तथा यानं रात्रौ मौक्तिकमण्डपम्
चतुर्थदिवसे यानं आदिमं कल्पभूरुहः ॥५०
द्वितीयमभवद्रात्रौ सर्वभूपालवाहनम्
पञ्चमे दिवसे चाद्यं यानमान्दोलिकाऽभवत् ॥५१
हरेरमृतसन्दायिमोहिनीवेषधारिणः
द्वितीयं रजनौ यानं वेदवेद्यस्य वै हरेः ॥५२
बभूव च स्वयं साक्षात् छन्दोमूर्तिः खगेश्वरः
आद्यं यानं षष्ठदिने हनूमानभवद्धरेः ॥५३
द्वितीयं मङ्गलगिरिः सायं यानमबूद्धरेः
माहिषीसंयुतस्यास्य वसन्तोत्सवरागिणः ॥५४
द्वितीयं रजनौ यानं आसीदैरावतो गजः
महिषीसंयुतस्यास्य वसन्तोत्सवरागिणः ॥५५
तृतीयं रजनौ यानं आसीदैरावतो गजः
रमणीयतमोद्यानविहारोत्सवरागिणः ॥५६
कुसुमापचयव्यग्रमहिषीजनशालिनः
तृतीयं रजनौ यानं अभवच्चन्द्रमण्डलम् ॥५७
अष्टमे दिवसे चाद्यं अभवद्वाहनं हरेः
नानाविधैरलङ्कारैः मण्डितः सुमहान् रथः ॥५८
[[514515]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
द्वितीयं रजनौ यानं अभूदुच्चैःश्रवा हयः
नवमे दिवसे चाद्यं यानमान्दोलिकाऽभवत् ॥५९
द्वितीयं मङ्गलगिरिः यानमासीद्रमापतेः
हारिद्रैः पिङ्गलैश्चूर्णैः अभिषिक्तस्य मङ्गलैः ॥६०
समुद्युक्तस्यावभृथस्नानमाङ्गलिकोत्सवे
स इत्थं मङ्गलैश्चूर्णैः हारिद्रैरभिषेचितः ॥६१
सुन्दरं मङ्गलगिरिं समारुह्य सतां गतिः
चैत्यं प्रदक्षिणीकृत्य सह सर्वैर्महाजनैः ॥६२
जपद्भिर्वैदिकान् मन्त्रान् सहितश्च द्विजोत्तमैः
चकारावभृथस्नानं भगवानादिपूरुषः ॥६३
स्वामिपुष्करिणीतीर्थे सर्वलोकैकपावने
अवतारदिने तस्मिन् नक्षत्रे श्रवणे प्रगे ॥६४
तृतीयं मङ्गलगिरिः यानं रात्रावभूत्ततः
ध्वजावरोहणाभिख्यः उत्सवोऽभूत्तदा हरेः ॥६५
ततोऽपरेद्युरभवत् पुष्पयागमहोत्सवः
देशान्तरात् आगतानां सपर्याऽऽसीत्ततो नृणाम् ॥ ६६
देवा जग्मुः स्वकं धाम राजानो राजसत्तम!
जग्मुः स्वनगरं दिव्यं दृष्ट्वा देवमहोत्सवम् ॥६७
ब्रह्मा जगाम स्वं लोकं नत्वा वेङ्कटवल्लभम्
समाप्य चोत्सवं सर्वं स राजा तॊण्डमान् नृपः ॥ ६८
वासुदेवं नमस्कृत्य चाऽऽज्ञामादाय मौलिना
स्वपुरं प्राप्य धर्मात्मा कृत्वाऽर्चां वेङ्कटेशितुः॥६९
संस्थाप्य पूजयामास स्वपुरे निजमन्दिरे
राज्यं चकार धर्मात्मा सत्येन पृथिवीपतिः ॥७०
गोब्राह्मणहितार्थाय चातिथीनां हिताय च
सद्धर्मनिरतः शान्तो जितमन्युर्जितेन्द्रियः ॥७१
नित्यमाराधयन् कृष्णं बिलमार्गेण चागतः
इत्थं कुर्वति राजेन्द्र! राजराजकुलोद्भवे ॥७२
गङ्गास्नानगन्तृकूर्माख्यद्विजवृत्तान्तः
कार्तिके मासि सम्प्राप्ते दैवयोगेन भूपते!
समाययौ द्विजश्रेष्ठः कूर्मो वासिष्ठगोत्रजः ॥७३
पितुरस्थि समागृह्य गङ्गास्नानसमुत्सुकः
अकस्माद्राजनगरं विप्रक्षत्रियसङ्कुलम् ॥७४
समन्ततः समाकर्ण्य तॊण्डमान् कीर्तिसम्भ्रमम्
राघवाख्यसुतेनैव महालक्ष्म्याख्यभार्यया ॥७५
पुराद्बहिर्विनिक्षिप्य भार्यां पुत्रं च स द्विजः
समासदद्राजगृहं राजदर्शनलालसः ॥७६
सिंहासनगतः कान्तं विद्वन्मण्डलमण्डितम्
तमाशीर्भिर्विशेषेण संस्तुत्य पृथिवीपतिम् ॥७७
राजानमब्रवीद्विप्रः कूर्मो वेदान्तपारगः
कूर्मः -
श्रुता बहुमुखात्कीर्तिः तव भूप! विशां पते! ॥७८
[[516517]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
तच्छ्रुत्वाऽद्य समीपं ते सम्प्राप्तोऽहं नृपोत्तम!
इति विप्रवचः श्रुत्वा पूजयामास स द्विजम् ॥७९
तॊण्डमानः -
’किमागमनकार्यं ते तन्ममाचक्ष्व भो द्विज!’
इत्थमुक्तोऽब्रवीद्राजन्! कूर्मो वेदविदां वरः ॥८०
कूर्मः-
’मत्पिता प्रेततां प्राप्तः कालेन पृथिवीपते!
तस्यास्थिनिचयं नीत्वा गङ्गामज्जनहेतवे ॥८१
काशीं गच्छामि राजेन्द्रः मनसा कृतनिश्चयः
दैवाच्च गर्भिणी जाता मम भार्या पतिव्रता ॥८२
पञ्चवर्षश्च मे पुत्रो न शक्तो गन्तुमात्मना
तस्मात्त्वया महाराज! रक्षणीयौ च तावुभौ ॥८३
अशक्तोऽहं तया गन्तुं गर्भिण्या तु द्विजप्रिय!
स्त्रीणां पत्युर्गृहे वासो नियतश्चोदितोऽन्यथा ॥८४
पित्रोः समीपे वासस्तु तदभावे स्वसुर्गृहे
अथवा मातुलगृहे त्वथवा राजमन्दिरे ॥८५
षडेते पितरः स्त्रीणां इति जानामि तत्थ्सितिम्
तस्मात्त्वं रक्ष राजेन्द्र! तस्य दत्त्वा धनं बहु ॥८६
इत्येवमुक्तो विप्रेण कूर्मसञ्ज्ञेन तॊण्डमान्
बाढमित्युक्तवान् राजन्! तस्य दत्त्वा धनं बहु ॥८७
तत्र संस्थाप्य तौ विप्रो बाष्पसन्दिग्धलोचनः
अब्रवीत्ससुतां पत्नीं बाष्पपर्याकुलेक्षणाम् ॥८८
गच्छाम्यहं वरारोहे! गङ्गां भागीरथीं प्रिये!
मा रोदीस्त्वं वरारोहे! पश्य पुत्रं भयाकुलम् ॥ ८९
इत्येवमुक्ता सा विप्रपत्नी भर्तारमब्रवीत्
निजनाथस्य वदनं पश्यन्ती दुःखभागिनी ॥९०
शीफ्रुमागच्छ भोः स्वामिन्! कृत्वा गङ्गावगाहनम्
पुत्रोऽपि ते महाप्राज्ञ! त्वामेवमनुमन्यते ॥९१
इत्थं वदन्तीं स्वां भार्यां पश्यन्नालिङ्ग्य चात्मजम्
जगाम विप्रो राजेन्द्रः पश्यन्त्यै पृष्ठतः पुनः ॥९२
सा जगाम गृहं राज्ञः पश्यन्ती पतिमात्मनः
परिमृज्याक्षिजं तोयं सान्त्वयित्वा सुतं तथा ॥९३
राजपत्नीं समासाद्य पुत्रेण सहसा स्थिता
गते विप्रे स राजर्षिः तस्य भार्यां च सुन्दरीम् ॥९४
दृष्ट्वा चिन्ताकुलो भूत्वा मनसीतमचिन्तयत्
त्रिविधाः पुरुषाः प्रोक्ताः धियस्त्तेषां पृथग्विधाः ॥९५
तस्मान्मयाऽतियत्नेन स्थापनीया द्विजप्रिया
इति सञ्चिन्त्य धर्मात्मा तॊण्डमान् राजसत्तमः ॥९६
एकान्ते भवनं कृत्वा स्थापयामास तत्र ताम्
अन्नं षण्मासपर्याप्तं सकृत्सोपस्करं ददौ ॥९७
[[518519]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
तण्डुलाद्यैश्च काष्ठान्तैः सर्वोपकरणैः समम्
तत्गृहं शृङ्खलैर्बद्ध्वा स राजा तॊण्डमान् नृपः ॥ ९८
दूतान् विधाय वै दूरे चार्धक्रोशायते निजे
गृह एव क्वचित्कोणे निगूढं तां तदा न्यधात् ॥९९
धूर्तानां तु यथा नेयं न गच्छेद्गोचरं दृशाम्
ततो राज्ये समासक्तो राजा कार्यवशं गतः ॥१००
राज्यभारेण राजेन्द्र! व्यस्मरद्ब्राह्मणप्रियाम्
द्विवत्सरान्ते विप्रेन्द्रः कृत्वा गङ्गावगाहनम् ॥१०१
गयां गत्वा गयाश्राद्धं कृत्वा निजपितुस्तथा
गङ्गाया विवधं चोढ्वा स्कन्धदेशे द्विजोत्तमः ॥१०२
तॊण्डमानपुरं प्राप्य प्रविवेश नृपालयम्
राजानमब्रवीद्राजन्! आशीर्भिरभिनन्द्य च ॥१०३
दीर्घायुर्भव राजेन्द्र! पुत्रवान् ज्ञानवान् भव
त्वत्प्रसादेन राजेन्द्र! कृतं गङ्गावगाहनम् ॥१०४
गङ्गावगाहनं राजन्! कुरुष्वैतज्जलैः शुभैः
एवमुक्तः स राज्ष्रिः विस्मृतां ब्राह्मणीं स्मरन् ॥१०५
स्तब्धो बभूव चाकस्मात् दण्डाहत इवोरगः
पद्मव्यूहे षड्रथिकैः द्रोणकर्णपुरोगमैः ॥१०६
निरुद्धानां सैन्धवेन बालमर्जुननन्दनम्
निहतं पश्यतां राजन्! पाण्डवानां महात्मनाम् ॥ १०७
वासुदेवमुखाच्छ्रुत्वा चार्जुनस्य मनो यथा
रामबाणेन विद्धस्य रावणस्य मनो यथा ॥१०८
तथैव तॊण्डमानस्य हृदयं पर्यकम्पत
धैर्येण मनसः स्वास्थ्यं प्राप्तवान् स प्रजापतिः ॥१०९
तदाह भारतीं विप्रः किञ्चित् दुःखसमन्वितः
राजानं राजशार्दूलं पप्रच्छ कुशलं तदा ॥११०
भार्या मे गर्भिणी पूर्वं प्रसूता किं सुतं सुताम्
न श्रूयते तयोर्वार्ता मम चित्तप्रतोषिणी ॥१११
पुत्रो मे निर्गुणो राजन्! सर्वदा क्रीडने रतः
तटाके पुष्करिण्यां वा कूपे वा विपुलाम्भसि ॥११२
तस्मान्मे मनसो दुःखं सदा भावि विशाम्पते
भार्या मे राजशार्दूल! मम दर्शनकारणात् ॥११३
न चाऽऽगता वरारोहा कुतो मे भ्रमते मनः
सुतं भार्यां चिन्तयामि दिवा नक्तं च गर्भिणीम् ॥ ११४
तस्य विप्रस्य स श्रुत्वा राजा धैर्येण भारतीम्
व्याहरत्तॊण्डमानोऽपि यथा धीरो ह्यवर्तत ॥११५
तॊण्डमानः-
भो भूसुरकुलोत्पन्न! मा भैषीः पुत्रकारणात्
क्षेमं प्रसूता ते भार्या पुत्रेण तिष्ठति ॥११६
बहवो योषितो विप्र! मया दृष्टा इतः पुरा
न सुतो न च ते भार्या मम दृष्टिपथं गता ॥११७
अथ तद्वृत्तमखिलं श्रूयतां भूसुरोत्तम!
पूर्वदेवगुरोर्वारः सम्प्राप्तस्तु गते दिने ॥११८
[[520521]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
तद्दिने वेङ्कटेशस्य प्रसक्तमभिषेचनम्
तद्दर्शनार्थं मे कन्याः सर्वा जग्मुर्महीसुर! ॥११९
ताभिः समेता ते भार्या पुत्रीपुत्रसमन्विता
जगाम वेङ्कटं शैलं देवदर्शनकारणात् ॥१२०
अद्य श्वो वा परश्वो वा सा गमिष्यति तेऽन्तिकम्
इति तं सान्त्वयित्वा सः गूढं पुत्रमभाषत ॥१२१
गच्छाद्य पुत्र भवनं विप्रपत्न्यास्त्तु शोभनम्
अव्यग्रः शृङ्खलां छिन्धि प्रविश्यान्तर्गृहं पुनः ॥१२२
तां दृष्ट्वा पुत्रसहितां शीफ्रुमानय भूसुरीम्
स च गत्वाऽतिवेगेन कृतवान् जनकेरितम् ॥१२३
ददर्श तत्रास्थिमात्रं रुदन् गद्गदकण्ठवान्
ध्रुवं नो वंशनालं तु छिन्नमूलं भविष्यति ॥१२४
इति सञ्चिन्तयन्नेत्य पितरं वाक्यमब्रवीत्
भोस्तात! राजवंशस्य नाशकालः समागतः ॥१२५
यतः सा ब्राह्मणी पूर्णगर्भा सहसुता मृता
अस्थिभूता निजे गेहे तदन्नाद्यविचारणात् ॥१२६
इत्युक्तो विप्रवर्याय पाकार्थं तण्डुलादिकम्
ददौ धैर्येण राजेन्द्र! स जगाम जलान्तिकम् ॥१२७
तस्मिन् गते विप्रमुख्ये राजा शेषाचलं ययौ
पुत्रेण सहितो राजा शरणार्थं रमापतेः॥१२८
पदद्वयं प्रपन्नस्तु रुदन्नासीन्महीपतिः
रुदन्तं च नृपं दृष्ट्वा श्रीनिवासस्तदाऽब्रवीत् ॥१२९
तॊण्डमानप्रार्थनया भगवत्कृतकूर्मद्विजपुत्राद्युज्जीवनक्रमः
श्रीभगवान् -
अकाले च किमर्थं त्वं आगतो नृपसत्तम!
राज्राज! किमर्थं त्वं रोदनं कुरुषेधुना ॥१३०
धीरत्वं च धनुष्मत्त्वं प्रसिद्धं भूतले तव
अद्य किं कारणं तात! रोदने वद तन्मम ॥१३१
इत्युक्तः श्रीनिवासेन नाब्रवीत् स च किञ्चन
विदित्वा हृदयं तस्य जगाद वचनं ततः ॥१३२
विदितं हृदयं राजन्! आतुरस्य तवाधुना
त्वया कृतमिदं पापं मयैवाचरितं नृप! ॥१३३
निवर्तस्व च पापात्मन्!किं करोमि नृपात्मज!
अकार्यं कर्म भूपाल! त्वया कृतमरिन्दम! ॥१३४
अहं पापो दुराचारो नित्यदुःखसमन्वितः
हाऽकाले कालमेष्यामि क्रूरं वा नरकं नृपः ॥१३५
अदातव्यं हि दौर्भाग्यं स्वभक्तस्य दुरात्मनः
दरिद्रत्वं तथा भक्तस्यैवं धर्मविदो विदुः ॥१३६
मयि ते भक्तिभावे च लोपो नैव त्वया कृतः
किं करोमि क्व गच्छामि क्रूरं पापं त्वया कृतम् ॥ १३७
तथाऽपि तव सौहार्दात् करिष्ये जीवितान् मृतान्
कलौ वेङ्कटनाथेन नृपस्यास्य विमोक्षणम् ॥१३८
[[522523]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
कृतं महापातकिन इति कीर्तिर्भविष्यति
पुत्रं प्रेषय भूपाल! शापभीरुमरिन्दम! ॥१३९
तेषां मृतानामानेतुं सर्वाण्यस्थीनि सम्प्रति
इति श्रीवेङ्कटपतेः वाक्यं श्रुत्वा स चाऽऽतुरः ॥१४०
प्रेषयामास पुत्रं तान्यस्थीन्यानेतुमात्मनः
स जगामातिवेगेन मृतानां भवनं नृपः ॥१४१
बद्ध्वा तदस्थिनिचयं वस्त्रेणाच्छाद्य भूपते!
नरयाने विनिक्षिप्य स्वाच्छाद्य नृपनन्दनः ॥१४२
तदा शेषगिरिं प्राप्य पितरं वाक्यमब्रवीत्
तदस्थिमण्डलं तात सम्प्राप्तं विद्धि भूपते! ॥१४३
श्रीनिवासाय शान्ताय तदाऽऽनीतं वदाधुना
स पुत्रवचनं श्रुत्वा श्रीनिवासमभाषत ॥१४४
राजा-
समानीतः पुत्रकेण मृतास्थिनिचये हरे!
यथा ते जीवितं कृष्ण! प्राप्नुवन्ति तथा कुरु ॥१४५
एवमुक्तः श्रीनिवासः तदस्थिनिचयं नृपः
कराभ्यां प्रतिगृह्याथ स्वोत्तरीये बबन्ध ह ॥१४६
स्वामिपुष्करिणी यत्र तस्य पूर्वदिशि स्थितम्
पाण्डुतीर्थं समासाद्येतस्य तीरमुपागतः ॥१४७
तत्र किञ्चिद्देवखातं आसाद्य मधुसूदनः
तॊण्डमानं च तत्पुत्रं त्यक्त्वा तीर्थमुपागतः ॥१४८
आकण्ठजलमध्ये च निममज्ज जनार्दनः
अस्थीनि तत्र निक्षिप्य शिलायां तीर्थसन्निधौ ॥१४९
प्रक्षाल्य विष्णुः पस्पर्श स्वाञ्जिलिक्षिप्तवारिणा
जीवनं सन्निपतितं तदस्थिनिचये तदा ॥१५०
इति ते जीविता विष्णोः पाणिस्पर्शप्रभावतः
ववृषुः पुष्पवर्षाणि तत्तीर्थे वासवादयः ॥१५१
विस्मेरचित्ताः सर्वेऽपि दृष्टतत्तीर्थवैभवाः
यदा तीर्थप्रभावेण जीविता मृतकाश्च ते ॥१५२
तदा सर्वे सुरा राजन्! ब्रह्मरुद्रेन्द्रपूर्वकाः
अस्थितीर्थमिति ख्यातं तस्य नाम ददुर्मुदा ॥१५३
येषामत्रास्थि निपतेत् नरके वसतामपि
ते सर्वे स्वर्गमृच्छन्तु सद्य इत्यपि ते वदन् ॥१५४
उज्जीवयन् सोऽथ मृतां सपुत्रां
तां कूर्मभार्यां निजगर्भवासिताम् ।
ददौ नृपायातिविमूढचेतसे
दत्त्वाऽथ तं पार्थिवमाबभाषे ॥१५५
श्रीभगवान् -
कृतोपकारस्य कृता ह्युपक्रिया
शताधिका ते नृपते! मयाऽधुना!
तवाग्रजस्याप्ततया कृता मया
ह्युपक्रियेयं धरणीपते! तव ॥१५६
[[524525]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
इतः परं मौनमहं प्रपद्ये
नात्यन्तमेकान्तिजनात्परेण।
केनापि कुर्वे सह वाग्विलासं
साक्षात् कलावन्यमुखाद्धि भाषे ॥१५७
गच्छ त्वदीयं पुरमद्य राजन्!
तस्मै द्विजायाखिललोकसाक्षिणीम् ।
भार्यां सुपत्रामतिभक्तियुक्तां
प्रदाय राज्यं त्वमकण्टकं कुरु ॥१५८
तॊण्डमानाज्ञया स्वावासं प्रति सुकटुम्बकूर्मद्विजागमनम्
इत्युक्तो वासुदेवेन तत्पत्नीसहितो नृपः
गत्वा च नगरं पुत्रसहितः कूर्ममब्रवीत् ॥१५९
भूदेव! तव भार्येयं सुपुत्री पुत्रसंयुता
सम्प्राप्ता दैवयोगेन तां गृह्णीष्व द्विजोत्तम! ॥१६०
इत्युक्त्वा ससुतां पत्नीं स विप्राय न्यवेदयत्
वृत्तान्तमखिलं ज्ञात्वा पत्न्या राजमुखाद्द्विजः ॥१६१
राज्ञः समक्षं पप्रच्छ पत्नीं शिशुसुतान्विताम्
क्व गताऽसि महाभद्रे! यथावत्कथ्यतामिति ॥१६२
महालक्ष्मीः-
किं वदिष्यामि हे स्वामिन्! देवमायां दुरत्ययाम्
तस्योदरे मया दृष्टो विचित्रो लोकविस्तरः ॥१६३
लोकालोकौ मया दृष्टौ दृष्टा ब्रह्ममुखाः सुराः
सात्त्विका राजसाश्चैव तमः प्रकृतयस्तथा ॥१६४
राघवः -
ताताद्भुतं मया दृष्टं त्रिनेत्राणां गणस्तथा
शिशुः-
सागराः सप्त मे तात! दृष्टिमार्गमुपागताः ॥१६५
गुहागिर्यटवीवृक्षाः देवदानवराक्षसाः
इत्युक्तो लज्जितोऽवादीत् पत्नीसुतशिशून् द्विजः
धिङ्मे जन्म तपो घोरं धिग्वेदाध्ययनं तथा ॥१६६
नारायणस्याखिललोकधाम्नां
निवासभूतस्य चराचराणाम् ।
दृष्टं भवद्भिर्जठरे विचित्रं
भूगोलमुख्याखिललोकजालम् ।
त्रिनेत्रमुख्यैः सह चीर्णपूर्ण -
पुण्यैरपीिदं मनुजैर्न लभ्यम् ॥१६७
इत्येवं संस्तुवन् स्वीयान् पत्नीसुतशिशून् द्विजः
राजानं चापि संस्तुत्य देशं गन्तुं प्रचक्रमे ॥१६८
राजा -
अहो भाग्यमहो भाग्यं त्वत्पत्नीसुतयोः शिशोः
यद्दृष्टं श्रीनिवासस्य जठरे सर्वमद्भुतम् ॥१६९
इत्युक्तो नृपवर्येण सहभार्यः सुतान्वितः
जगाम विप्रमुख्योऽसौ रङ्गक्षेत्रं स्वकाश्रमम् ॥१७०
श्रीनिवासप्रसादेन तॊण्डमान् भक्तिसम्भ्रमात्
स विप्रः सहितः पुत्रभार्याभ्यां भवनं ययौ ॥१७१
[[526527]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
विसृज्य विप्रं भूपालः सकुटुम्बं सपुत्रकम्
दध्यौ चित्रं हरेः कर्म निग्रहं तस्य चात्मनि ॥१७२
व्यचिन्तयद्वेङ्कटनाथवैभवं
तीर्थानुभावं द्विजदेवभक्तः ।
करोमि किं वेङ्कटनाथतुष्टये
दास्यामि किं तस्य हरेः प्रपत्तये ॥१७३
आङ्गिरसोक्त्या श्रीनिवासाय तुलसीमर्पयन्तं तॊण्डमानं
प्रति भगवदुक्तिः
इति चिन्तापरो भूत्वा विप्रान् वेदविदोऽब्रवीत्
तॊण्डमानः-
भूदेव! देवतुष्ट्यर्थे क उपायो ह्यनामयः
कथं तुष्यति गोविन्दो वद मे गुरुसत्तमः ॥१७४
राज्ञस्तु वचनं श्रुत्वा नृपमाङ्गिरसो गुरुः
अब्रवीच्छ्रीनिवासस्य निग्रहाद्भीतमातुरम् ॥१७५
गुरुः-
तदनुग्रहसिद्ध्यर्थं तत्पूजां कुरु भो नृप!
सहस्रनामभिर्दिव्यैः सहस्रैस्तुलसीदलैः ॥१७६
तत्प्रीतिहेतुस्तुलसी तस्मात्त्वं पूजयाच्युतम्
तेनापरोक्षमायाति तव वेङ्कटवल्लभः ॥१७७
ततस्तद्वचनं श्रुत्वा तच्चकार तथा नृपः
तुलसीदलसाहस्रं स्वर्णरत्नविनिर्मितम् ॥१७८
वेङ्कटेशात्मकैर्नामसहस्रैस्तत्पदेऽर्पयन्
क्रमेण मासत्रितयं पूजां तस्य चकार सः ॥१७९
एवं पूजां कृतवति भूपाले भूरिविक्रमे
त्यक्तवान् न च वैमुख्यं नारायणगिरीश्वरः ॥१८०
तदा स राजा दुःखेन सर्वज्ञं वाक्यमब्रवीत्
तॊण्डमानः-
भक्तानामपराधान् न गणयन्ति गुणाधिकाः ॥ १८१
क्षमस्व मम दौरात्म्यं भक्तस्य पुरुषोत्तम!
वरदाने वासुदेव! भवान् श्रेष्ठतमो मतः ॥१८२
दयां कुरु दयासिन्धो! भक्तोपरि भयापह
इत्युक्तस्तॊण्डमानेन भगवान् वेङ्कटेश्वरः ॥१८३
तदाऽऽह भारतीं राजन्! आकाशपथमाश्रितः
भक्ताश्च बहवः सन्ति नास्ति तत्सदृशो भुवि॥१८४
कर्म कृत्वा सुघोरं तु ब्रह्मस्त्रीपुत्रघातुकम्
प्रपित्ससि कथं पारं दुःखाद्राजकुमारक! ॥१८५
’तवाग्रजोपकारेण जीवितं तु मया कृतम्’
एवमाकाशगां वाणीं श्रुतवान् राजसत्तमः ॥१८६
तदाऽऽह देवदेवेशं राजा मोहवशं गतः
राजा -
कृतोपकाराः पुरुषाः न वदन्ति कृतं हरेः ॥१८७
[[528529]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
को वदेद्धि कृतां सेवां मूढोऽपि गुणवर्जितः
मां विना न हि ते भक्तः त्रिषु लोकेषु विद्यते ॥१८८
को वा पुराणपुरुष! त्वय्येकान्तरतः सदा
भक्तानामग्रणीश्चाहं दयालूनां त्वमग्रणीः ॥१८९
एवं गर्वोक्तिमाकर्ण्य तूष्णीमासीद्रमापतिः
ततो भूयोऽतिभक्त्या यं पूजयामास माधवम्
सौवर्णरत्नखचिततुलसीकुसुमव्रजैः ॥१९०
कुर्वग्रामस्थभीमाख्यकुलालोदन्तः
ततः कदाचिदद्राक्षीत् तॊण्डमान् नृपसत्तमः
सौवर्णरत्नखचिततुलसीकुसुमोपरि ॥१९१
संस्थितां मृण्मयीं श्यामां तुलसीकुसुमावलिम्
ततः कदाचिन्नृपतिः निरस्तां च सुदूरतः ॥१९२
सौवर्णरत्नखचिततुलसीकुसुमावलिम्
ददर्श मृण्मयीं चैव सुलग्नं हरिपादयोः ॥१९३
श्यामां सुरुचिरामार्द्रां तुलसीकुसुमावलिम्
दृष्ट्वैव श्रीपतेः स्वस्मिन् निग्रहं चिन्तयन्नृपः ॥१९४
मुक्तकण्ठं रुदन्नूचे तॊण्डमान् भृशदुःखितः
भगवन्! क्रूरपापं मां अनाथं किमुपेक्षसे ॥१९५
केन भक्ताग्रगण्येन स्वीकरोषि समर्पितम्
मृण्मयीमेव सम्प्रीत्या तुलसीकुसुमावलिम् ॥१९६
इत्येवमुक्तो भगवान् तॊण्डमानेन वै हरिः
राजानं रमणीयाङ्गं प्रत्यभाषत भूपते! ॥१९७
तॊण्डमानं प्रति भगवत् ज्ञापितभीमाख्यकुलालोदन्तः
श्रीभगवान् -
भक्ताश्च बहवः सन्ति त्रिगुणास्त्रिविधात्मकाः
तेषां मध्ये दरिद्रोऽस्ति कुलालो भीमनामकः ॥१९८
अत्रैवोत्तरदिग्भागे राजन्! योजनदूरतः
स कुलालोऽतिभक्त्यैव भित्तिकाबिलमध्यतः ॥१९९
दारुभूतं च मां शूद्रः प्रत्यहं पूजयत्यसौ
स्वस्थः शान्तः स्वकृत्यं च प्रसमाप्य हरिप्रियः ॥२००
स्नात्वा विधिवदात्मज्ञो मृण्मयैस्तुलसीसुमैः
तद्भक्त्या परितुष्टेन तदङ्गीक्रियते मया ॥२०१
तत्र गत्वा प्रतिदिनं तं दृष्ट्वा तत्प्रियां तथा
राजन्! बहुविधाः सन्ति मद्भक्ताश्च विरागिणः ॥२०२
यदुक्तं तु त्वया पूर्वं एकोऽहं भक्तिमानिति
तद्वचस्त्वदहङ्कारमहोच्छ्रायविजृम्भितम् ॥२०३
तदुक्तमाकर्ण्य विनव्रुमस्तकः
सन्त्यज्य चैत्यं तदनु प्रजापतिः।
पद्भ्यां जगामोजि
ञ्झ
तराजगौरवः
तदास्य मार्गं प्रणमन् मुहुर्मुहुः ॥२०४
भीमाख्यकुलालनगरं प्रति तॊण्डमानगमनम्
तं चक्रवर्तिनं दृष्ट्वा पद्भ्यां धावन्तमातुरम्
पृच्छन्तं तस्य भवनं परितो घटकारिणः ॥२०५
[[530531]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
प्राहुस्तं भगवद्भक्तं कुलालं मार्गवर्तिनः
वसत्यत्रैव राजन्! स कुलालो भीमनामकः ॥२०६
भक्तिर्यस्य हरौ कृष्णपेवां नित्यं करोति यः
एवमुक्तः स लोकैश्च पथिकैः पृथिवीपतिः ॥२०७
जगाम तस्य भवनं तॊण्डमान् राजसत्तमः
तद्गृहाद्बहिरास्थाय स्तुतवांस्तद्गृहं नृपः॥२०८
द्वारतोरणमासाद्य पपात गतविभ्रमः
ततः कुलालो भ्रमितो जनैर्विज्ञापितस्ततः
ददर्श राजशार्दूलं पतितं प्राङ्गणे तदा ॥२०९
किमिदं भोः महत्कष्टं राजाऽसौ पतितः कुतः
ममापराधो नास्त्यत्र तथाऽपि यमदण्डने ॥२१०
शक्तोऽसौ राजशार्दूलः सज्जोऽहं तस्य कर्मणि
नैवेद्यार्थं हरेस्तस्य घटानां शतकं मम ॥२११
कथितं तेन भूपेन तदद्य प्रददामि तान्
एवं शूद्रे चोक्तवति राजा सञ्ज्ञामुपेयिवान् ॥२१२
कोऽसौ भीमो हरेर्भक्तः कुलालः कृष्णतोषणः
तत्पादयुगलं वन्दे सततं साधुसम्मतम् ॥२१३
एवं वदति राजर्षौ भगवान् भक्तवत्सलः
आविर्बभूव पुरतः कुलालस्य महात्मनः ॥२१४
आविर्भूतं हरिं दृष्ट्वा कुलालो भक्तिसंयुतः
तुष्टाव हर्षपुष्टाङ्गः श्रीनिवासं निरामयम् ॥२१५
स्वपुरस्तात्प्रादुर्भूतं भगवन्तं प्रति कुलालस्तुतिः
त्वद्धाम वैकुण्ठपुरं महात्मन्
त्वद्वल्लभा सागरनन्दिनी च!
त्वन्नाभिजातो हि पितामहोऽपि
किं त्वां स्मरामीश! कुलालजन्मा ॥२१६
त्वत्पादसम्भवा देवी साक्षाद्भागीरथी शुभा
तव पुत्रीं वदति तां चतुर्वेदमयो विधिः ॥२१७
तवासनं सदा देवा? वदन्ति फणिनं विभो!
सहस्रवदनं शेषं सुवर्णं वाहनं विदुः ॥२१८
नक्षत्रमाला तव दन्तपङ्क्तिः
विद्युत्प्रकाशस्तव देहकान्तिः ।
महीधरा मेरुहिमाद्रिमुख्याः
त्वदस्थिभूताः पुरुषोत्तमाद्य!
तवाक्षिणी भानुविधू च विष्णो!
विराट्पदं त्वां शरणं प्रपद्ये ॥ २१९
एवं स्तुवति शूद्रे तं प्रसन्ना कमलालया
जगद्धात्री जगादैवं पुरुषं परमेश्वरम् ॥२२०
क्वायं कुलालः पुरुषोत्तमास्य
कथं बभूव त्वयि भक्तिरीदृक् ।
का जातिरस्य क्व च सद्गुणास्ते
किमद्भुतं भोः करुणाम्बुराशे! ॥२२१
इत्युक्तस्तु जगद्धात्र्या गरुडं प्रत्यभाषत
[[533]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
[[532]]
श्रीभगवान् -
तमानयातिवेगेन मत्समीपं कुलालजम्
इत्युक्तो गरुडो वेगादानिनाय च शूद्रजम् ॥२२२
’इत एही’ ति सम्भाष्य समीपं परमात्मनः
स नत्वा शिरसा देवं प्रत्यभाषत माधवम् ॥२२३
कुलालः-
’किमर्थमागमो देव! गृहं मे शूद्रजन्मनः
न चाहं विदुरो देवो न चाहं शबरी प्रभो! ॥२२४
न चाहं गजराजेन्द्रो न चोद्धवविभीषणौ
किं देयमस्ति मद्गेहे त्वदर्थं पुरुषोत्तम’ ॥२२५
वदत्येवं कुलाले तु तस्य पत्नी तमालिनी
प्रासादयच्च गोविन्दं द्रौपदीव जनार्दनम् ॥२२६
तमालिनी -
अनाथनाथ गोविन्द! बुद्धिस्त्वय्येव वर्तते
न जाने मन्त्रमार्गं तु न जाने कर्मनिर्णयम् ॥२२७
अशौचकुलजातानां कुतो वेदः कुतस्तपः
भक्त्या मे परितुष्टः सन् मद्भर्तुश्च विशेषतः ॥२२८
मया पाचितमन्नं च यावनालकुलोद्भवम्
यधेष्टं भुङक्ष्व् मद्दत्तं सहामोदरसादरम् ॥२२९
भगवत्कृतभीमाख्यभक्तोपचाराभ्युपगमः
इत्थमुक्तो जगद्योनिः तया भक्त्या तमालया
कमलामुखमालोक्य जहास जगदीश्वरः ॥२३०
सुप्रसन्नोऽथ भगवान् तामुवाच तमालिनीम्
अवश्यमन्नं भोज्यं ते भक्त्या दत्तं तमालिनि!
इत्येवमुक्त्वा भगवान् भक्तवात्सल्यवारिधिः ॥२३१
रमासमेतो रमणीयविग्रहः
कुलालवर्येण कुलालजायया!
अभुङ्क्त दत्तं च तदन्नमुत्तमं
भुक्त्वा तयोश्च प्रददौ पदं स्वकम् ॥२३२
एतत्कौतुकमालोक्य ब्रह्मेशानपुरोगमाः
तुष्टुवुरछृष्टमनसः स्रष्टारं सर्वदेहिनाम् ॥ २३३
देवदुन्दुभयो नेदुः खात्पेतुः पुष्पवृष्टयः
एतस्मिन्नेव समये विमानं प्राप्तमुत्तमम् ॥२३४
विमानं प्राप्तमालोक्य श्रीनिवासः सतां गतिः
स्वकिरीटं ददौ तस्य शङ्खचक्रे च कौस्त्तुभम्
पीताम्बरमलङ्कारं कुलालस्य महात्मनः ॥२३५
भगवदनुग्रहेण कुलालदम्पत्योः सारूप्यप्राप्तिः
रमाया भूषणं तावत् तमालायाश्च सन्ददौ
दिव्यं विमानमारूढौ विष्णुना दत्तवैभवौ ॥२३६
कुलालदम्पती भक्तौ पश्यतस्तस्य भूपतेः
जग्मतुर्विष्णुभवनं सायुज्यपदवीं गतौ ॥२३७
कुलालपदवीं दृष्ट्वा तॊण्डमान् नृपसत्तम
व्रीडितः पुण्डरीकाक्षं श्रीनिवासमभाषत ॥२३८
[[534535]]
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः
तॊण्डमानस्य भगवद्दत्तसारूप्यप्राप्तिप्रकारः
मद्राष्टृगतशूद्रस्य सर्वदा पापकारिणः
सद्गतिस्तु त्वया दत्ता का गतिर्मम बान्धव! ॥२३९
श्रीनिवासः-
’एतद्देहं परित्यज्य चान्यं देहमुपाश्रय
तत्राराध्य हृषीकेशं गच्छ सारूप्यमुत्तमम्’ ॥२४०
शतानन्दः-
इत्युक्तो नृपतिः सद्यः स्नात्वा स्वामिसरोजले
कलेवरं परित्यज्य पुनर्देहान्तरं गतः ॥२४१
तत्राराध्य हृषीकेशं श्रीनिवासं निरामयम्
सारूप्यं गतवान् राजा स्वामिना पूर्वकल्पितम् ॥२४२
एवं हरिस्तत्र चरित्रमद्भुतं
कुर्वन् जगन्मातृसमन्वितो गिरौ ।
अन्ते जगत्यां च सुरौघपूजितो
ददद्यथेष्टं च मनोरथान्त्सताम् ॥२४३
इत्येवं कथितं राजन्! माहात्म्यं वेङ्कटेशितुः
यः श्रुणोतीदमाख्यानं मनोरथफलप्रदम्
इह लोके सुखं भुक्त्वा सोऽथ याति हरेः पदम् ॥ २४४
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाह्मात्म्ये कुलालप्रशंसनं
नाम चतुर्दशोऽध्यायः
॥ श्री वेङ्कटेशचरणारविन्दार्पणमस्तु॥
—–ठ्—–
रहस्याध्यायः
श्रीमते विष्वक्सेनाय नमः
श्रियै पद्मावत्यै नमः
श्री श्रीनिवासपरब्रह्मणे नमः
श्रीवेङ्कटाचलमाहात्म्यम्
(श्रीभविष्योत्तरपुराणान्तर्गतरहस्याध्यायः)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाध्यासितवक्षसम्
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
॥हरिः ओम् ॥
श्रीसूतः -
शृणुध्वं मुनयः सर्वे शौनकाद्यास्त्तपोधनाः
तद्विष्णोर्वेङ्कटेशस्य रहस्यानुभवं परम् ॥१
ब्रह्माण्डे यानि तीर्धानि स्वयंव्यक्तानि यानि च
चिरन्तनानि क्षेत्राणि पुण्यारण्यानि पर्वताः ॥२
पूर्वं श्रुतानि सर्वाणि पुराणानि द्विजोत्तमाः
सामान्यानि च मुख्यानि रहस्यं मुख्यमुत्तमम् ॥३
अष्टादशपुराणानां सारं चान्ते मया श्रुतम्
व्यासप्रसादात्कारुण्यात् परिप्रश्नेन सेवया ॥४
वैकुण्ठपदसायुज्यं परमानन्ददं परम्
भविष्योत्तरसारांशः सर्ववेदान्तसङ्ग्रहः ॥५
[[536]]
तत्रापि चोत्तरे खण्डे साक्षात्संसारमोचकः
उमामहेशसंवादे रहस्यानुभवो द्विजाः ॥६
आनन्दनिलयस्यैव क्षेत्रमाहात्म्यमुत्तमम्
मन्त्राणां मन्त्ररत्ने द्वे द्विविधं ध्यानमुत्तमम् ॥७
शृणुध्वं परमानन्दपदावाष्त्यै च दुर्लभम्
देवानामपि सिद्धानां महतां योगिनां नृणाम् ॥ ८
अचिकित्स्यग्रहग्रस्तविकलाङ्गविरूपिणाम्
रोगिणामचिकित्स्यानां दुष्कर्मपरिपाकिनाम् ॥९
आपद्भिरनिवार्याभिः आवृतानां च दुःखिनाम्
महापातकसम्भूतकुष्ठरोगकुरूपिणाम् ॥१०
काणान्धबधिराणां च मूकानां पङ्गुकुब्जयोः
प्रायश्चित्तविहीनानां पापिनां दुःखदुःखिनाम् ॥११
क्वाप्यनिर्गतिकानां च सर्वदा क्रूरकर्मणाम्
भवेत्प्रतिविधिः सद्यः प्रत्यक्षो वेङ्कटाचलात् ॥१२
भक्तानां भवतप्तानां गतिश्चान्यत्र नास्ति भोः
स परः सर्वलोकानां सर्वव्याधीन् कृपानिधिः ॥१३
निकृन्तन्नस्ति चक्रेण यत्र तस्माद्धि वेङ्कटात्
तस्मात्स एव गन्तव्यो भोगमोक्षरतैर्जनैः ॥१४
विशेषतः क्रूरकलौ नराणां पापाकराणां परिपीडितानाम्
भूगोलमध्ये द्रविडे च पुण्ये श्रीवेङ्कटाद्रिर्गतिरेव नान्या॥ १५
कलौ युगे मनुष्याणां सङ्कीर्णानां च रक्षिता
श्रीवेङ्कटेशान्नान्योऽस्ति सर्वानिष्टनिवारणात् ॥१६
यं दृष्ट्वा नापरं स्थानं यं दृष्ट्वा नापरो गिरिः
यं दृष्ट्वा नापरं तीर्थं यं दृष्ट्वा नापरं तपः ॥ १७
यं दृष्ट्वा नापरो देवो यं दृष्ट्वा नाऽपरो मनुः
यं दृष्ट्वा नापरा भक्तिः यं दृष्ट्वा नापरा गतिः ॥ १८
यं दृष्ट्वा नापरं ज्ञानं यं दृष्ट्वा नापरं पदम्
यं दृष्ट्वा नापरो लाभो यं दृष्ट्वा नापरः प्रियः ॥ १९
यं दृष्ट्वा नापरं धाम साक्षादानन्दसान्द्रकम्
यं दृष्ट्वा नापरं ध्यानं समाधिरपि नापरः ॥२०
यं दृष्ट्वा नापरा मुक्तिः सर्वेन्द्रियमनोहरा
यं दृष्ट्वा नापरो नित्यो यस्य कालभयं न हि ॥ २१
यं दृष्ट्वा नापरो विष्णुः भक्त्या सर्वजगन्मयः
यं दृष्ट्वा त्रिविधं कृत्यं कृतवान् नात्र संशयः ॥ २२
यं दृष्ट्वा नापरो दाता रमेशान्नास्ति कामदः
यं दृष्ट्वा नापरं ब्रह्म सच्चिदानन्दविग्रहात् ॥२३
यं दृष्ट्वा नापरो योगः साष्टाङ्गः सर्वसिद्ध्धिदात्
यं दृष्ट्वा नापरः पूर्णः सर्वगो वेङ्कटेश्वरात् ॥२४
न वेदान्तात्परं शास्त्रं न देवो वेङ्कटेश्वरात्
न वैकुण्ठात्परं धाम न गिरिर्वेङ्कटात्परः ॥२५
[[538539]]
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
सत्यं सत्यं पुनः सत्यं न देवो वेङ्कटेश्वरात्
ब्रह्माण्डे नास्ति यत्किञ्चित् न भूतं न भविष्यति ॥२६
वेङ्कटेशसमो देवो नेति वेदान्तनिर्णयः
तद्रहस्यसुसंवादं स्वचित्तस्थमुमेशयोः ॥२७
शृणुध्वमवधानेन सिद्धान्तं मुनिपुङ्गवाः ।
श्रीसूतः-
कैैलासेऽनन्तशिखरे पर्वते निर्मलोज्ज्वले ॥ २८
ज्ञाननिर्मलचित्ताढ्ययोगिमण्डलसेवितम्
सुखासीनं महादेवं रत्नसिंहासनोत्तमे ॥२९
प्रणिपत्य कृपासिन्धुं पार्वती पर्यपृच्छत
पार्वती-
देवदेव! विरूपाक्ष! त्रैलोक्यतिमिरापह! ॥ ३०
तवान्तःकरणानन्दरहस्यानुभवं परम्
मुक्तिक्षेत्रेषु सिद्ध्धानां मुक्तानां कर्मबन्धनात् ॥३१
तेषामानन्दसान्द्राब्धेः अवाप्तिर्यत्र शङ्करः
तद्धाम गोप्यं त्वद्ध्यानवैभवानन्दमीश्वर! ॥३२
पूर्णानन्दकृपादृष्टिः अस्ति चेत्तव मे वद
ईश्वरः -
साधु पृष्टं त्वया देवि! भक्तानां हितकाम्यया ॥
प्रियात्प्रियतरं मेऽस्ति तद्रहस्यं वदामि ते
ब्रह्माण्डमण्डले पुण्ये द्रविडे वेङ्कटाचले ॥३४
रहस्यं सर्वलोकानां पावनं परमाद्भुतम्
स्वामिपुष्करीणीतीर्थं भक्तिज्ञानसुखप्रदम् ॥३५
दर्शनात्सर्वजन्तूनां आश्चर्यं भुवि राजते
आजन्मसञ्चितं पापं दर्शनादेव नश्यति ॥३६
तत्क्षणात् ज्ञानसम्पन्नाः मुक्ताः संसारबन्धनात्
परानन्दपदे स्थित्वा मोदन्ते वेङ्कटाचले ॥३७
स्नानपानस्पर्शनैस्तु किमु वक्तव्यमीश्वरि!
स्वामिपुष्करिणीतीर्थमहिमा केन वर्ण्यते ॥३८
मया वक्तुं विरिञ्चाद्यैः न शक्यो लोकदुर्लभः
किं पुनः सिद्धयोगीन्द्रैः ससुरासुरमानवैः ॥३९
सार्धत्रिकोटितीर्थानां पातकघ्नी सुपावनी
वेङ्कटेश्वरसद्धाम्नः समन्ताद्योजनत्रयम्४०
मुक्तिभूमिश्चिदानन्दघनसन्दोहमण्डलम्
तत्र स्थितानां जन्तूनां भाग्यं भाग्यमहो नृणाम् ॥ ४१
यद्दर्शनं सदाह्लादि सच्चिदानन्दसम्भृतम्
अहो चित्रमहो चित्रं अस्मिन्वैकुण्ठमण्डले ॥४२
निद्रासमाधिसम्पत्तिः निवासः केवलं तपः
कृतकृत्यमभूज्जन्म शेषाचलनिवासिनः ॥४३
प्रार्थयामो वयं नित्यं तं निवासं नृणां किमु!
तथाऽपि भक्तिसंयुक्तं कर्माचारव्रतादिकम् ॥४४
[[540541]]
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
मनःप्रसादनं शक्त्या स्वामिप्रीतिकरं चरेत्
अन्नदानं महापूजोत्सववैभवमुत्तमम् ॥४५
स्वामिप्रसादि कैङ्कर्यं आनन्त्यायोपकल्प्यते
यत्किञ्चित्स्वर्णदानान्नपितृश्राद्धादिकर्म च॥४६
अत्र स्थाने कृतं सर्वं अनन्तफलदं स्मृतम्
ज्ञानिनोऽज्ञानिनो वापि समानं भक्तिपूर्वकम् ॥४७
कालक्षेपार्थमुत्साहे कर्मणा बन्धनं न हि
चिरन्तनेषु क्षेत्रेषु मुक्तिपात्रमुदाहृतम् ॥४८
सायुज्यमुक्तिरानन्दप्राप्तिः श्रीशैलमन्तके
मुक्तिक्षेत्रेषु मुक्तानां स्वानन्दानुभवागमः ॥४९
तद्विष्णोर्वेङ्कटेशस्य परानन्दपदे स्थितिः
एतद्विचित्रमत्रैव वेङ्कटेश्वरमण्डले ॥५०
वस्तुस्वभाववैचित्र्यात् परमानन्दपदे स्थितिः
मुक्तानां योगिनां मध्ये कश्चित्परमयोगिराट् ॥५१
एतत्परं रहस्यं तु लोके जानाति नापरः
सर्ववेदान्तसिद्धान्तसारस्यानुभवं प्रिये! ॥५२
ब्रह्मानन्दपदप्राप्तिकारणत्वान्मम प्रियम्
नैतद्रहस्यमाख्यानं वक्तव्यं यस्य कस्यचित् ॥५३
भक्तियुक्ताय शान्ताय वक्तव्यं वेङ्कटेश्वरे
सच्चिदानन्दसन्मूर्तेः कल्याणगुणवारिधेः ॥५४
वेङ्कटेशहरेर्ध्यानवैभवं शृणु पार्वति!
अनन्तकल्पसञ्जातपापराशिविनाशनम् ॥५५
वाङ्मनःश्रवणानन्दमकरन्दफलप्रदम्
ध्यानश्रवणमात्रेण ब्रह्मानन्दपदप्रदम् ॥५६
न शक्यते मया वक्तुं तद्धामध्यानजं फलम्
तद्धामस्वामिनश्चित्रं अवाङ्मनसगोचरम् ॥५७
किमु गीर्वाणसिद्धेन्द्रैः ब्रह्माद्यैर्मुनिमण्डलैः
अत एव रहस्याढ्यो ध्यानानुभव उत्तमः ॥५८
क्षेत्रे चादिवराहस्य साक्षात् ज्ञानमये शुभे
स्वामिपुष्करिणीतीरे निर्मलात्मभिरीडिते ॥५९
सार्धत्रिकोटिसंस्थानैः पुण्यतीर्थैः समावृते
पुण्यवृक्षलसत्पुष्पश्रीगन्धतरुवासिते ॥६०
पारिजातवनोद्यानरत्न मण्डलमण्डिते
नानाद्रुमलतारामपुष्पवाटीभिरावृते ॥६१
निर
झ
रीदेवतापक्षिमृगाणां ध्वनिपूरिते
समस्तदेवतासिद्धयोगिमण्डलसेविते ॥६२
रम्ये मनोहरानन्दे भक्तिसारमहोत्सवे
वैकुण्ठे विरजानद्याः तटे बाधाविवर्जिते ॥६३
नवरत्न रीमयोद्भूतसहस्रस्तम्भमण्डपे
जाम्बूनदभराक्लप्तरत्नप्राकारभास्वरे ॥६४
[[542543]]
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
रत्नप्रभालसद्धेमवै चित्र्यविविधोज्ज्वले
चतुर्दिक्षु चतुर्धाम चतुर्मुक्तिफलप्रदम् ॥६५
अनन्तार्कतटिच्चन्द्रमण्डलोपरि मण्डलम्
दुर्निरीक्षं दुराधर्षं दुःसहं देवतादृशाम् ॥६६
अचिन्त्यं तेजसा व्याप्तं अप्रमेयमगोचरम्
छादितं मायया विष्णोः ज्वलितं सर्वतोमुखम् ॥६७
मध्ये तुरीयब्रह्माख्यं स्वप्रकाशं तदेव सत्
स्वशक्तिगुणवैचित्र्यात् विसृजद्विश्वमव्ययम् ॥६८
उपादानं निमित्तं च कारणं जगतः सतः
ऊर्णनाभेस्तन्तुनेव विहारस्तस्य मायया ॥६९
मूलप्रकृतिसङ्गात् तत् कार्यत्वेनापि सङ्गतम्
तत्तद्द्वारा बहिर्व्यक्तं ततस्तत्त्रिविधं कृतम् ॥७०
तत्तत्कर्मानुगुण्येन भाति स्थूलं महत्कृशम्
विषयग्रहणे पूर्वं दृश्यते हि तदेव सत् ॥७१
विदुषामहमुल्लेखपरामर्शावभासकम्
तदुपाधिभिरच्छिन्नं महत् स्थूलं तथा कृशम् ॥७२
स्थूलसूक्ष्मच्छिद्रघटात् यथोद्गच्छति दीपभाः
तथैव ब्रह्मणस्तेजो भाति भिन्नमुपाधिभिः ॥७३
उपाधित्रयमेतत्तु च्छित्त्वा भक्तिमतां नृणाम्
एकमेवाद्वितीयं तत् त्रिशून्यं भाति जृम्भितम् ॥७४
मेघच्छिद्राणि सञ्छिद्य भानुतेज इवोत्थितम्
नानात्वकल्पनायुक्तं विश्वप्रकृतिवर्ज्जितम् ॥७५
नेति नेतीति च श्रुत्या बोधितं यत्परं पदम्
परिच्छेत्तुमशक्यत्वात् स्वप्रकाशं तदेव सत् ॥७६
सत्यं ज्ञानमनाद्यन्तं आनन्दममृतोत्थितम्
नित्यशुद्धप्रबुद्धात्मस्यरूपं वागगोचरम् ॥७७
सर्वतो व्याप्तमात्मानं निर्मलं निष्कलं शिवम्
शून्याशून्यफलं हित्वा प्रज्ञानं ब्रह्म जृम्भितम् ॥ ७८
भावाभावविनिर्मुक्तं द्वैताद्वैतविवर्जितम्
सच्चिदानन्दसान्द्राब्धिपरिपूर्णमनामयम् ॥७९
सत्यचिद्घनसूक्ष्माग्र्यं अखण्डमकुतोभयम्
कैवल्यपदसायुज्यपरानन्दपदप्रदम् ॥८०
निर्गुणं चेन्द्रियातीतं निराकारं निरञ्जनम्
स्वभक्तदर्शनार्थाय लोकानां रक्षणाय च ॥८१
कृपया सर्वदेवानां सिद्धानां योगिनां हितम्
कालप्रवाहगम्भीरमायावर्तभवाम्बुधेः ॥८२
तारणाय वरं दातुं भक्तिज्ञानपुरस्परम्
भजतां वाञ्छतां सम्पदायुरारोग्यवर्धनम् ॥८३
अणिमाद्यष्टसिद्धींश्च योगसिद्धिं च सन्दिशत्
अष्टाङ्गयुक्तां सद्विद्यासिद्धिं च विजयान्वितम् ॥८४
[[544545]]
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
मन्त्रयन्त्रमहातन्त्र देवतासिद्धिकारणम्
स्वांशावतारमूर्तीनां सर्वशक्तिफलप्रदम् ॥८५
त्रिकालयोग्यं रक्षार्थं स्वप्रसिद्ध्यर्थकारणम्
स्वीकुर्वत्स्वगुणं ब्रह्म मूर्तिमत्तदनामयम् ॥८६
वैकुण्ठेन सहागतं परमिदं श्रीवेङ्कटाद्रिस्थित
पूर्वं ज्ञानवराहमूर्तिहरिणा भूम्या सहाधिष्ठितम्॥
लक्ष्म्याऽऽलिङ्गितरूपमद्य सगुणं कल्याणमास्ते दधत्
शुद्धं ब्रह्म तदेव विश्वजननस्थेमव्ययानां प्रभुम् ॥ ८७
सर्वाध्यक्षं महाविष्णुं सर्वलोकैकनायकम्
कारुण्यानन्दबाहुल्यात् सर्वाश्चर्यमयं विभुम् ॥ ८८
आनन्दमूर्तिमानन्दं अचिन्त्यैश्वर्यसंयुतम्
कोटिबालार्कसङ्काशं तडित्कोटिसमप्रभम् ॥८९
चन्द्रकोटिप्रभं रत्नजाम्बूनदपरिष्कृतम्
विमानदेवतामूर्तितेजोमण्डलसंयुतम् ॥९०
दिव्यं विमानमारूढं स्थितं परमशोभनम्
सर्वोत्तमं महाप्रख्यं सर्वालङ्कारभूषितम् ॥९१
नीलजीमूतसङ्काशं पीताम्बरतडिद्वृतम्
रत्नतोरणविद्योतमानद्वारप्रभान्वितम् ॥९२
पञ्चायुधवरैर्दिव्यैः मूर्तिमद्भिरुपासितम्
चण्डप्रचण्डप्रमुखैः द्वारपालैरभिष्टुतम् ॥९३
सुनन्दनन्दप्रमुखैः पारिषद्यैः समन्वितम्
रविकोटिप्रकाशाढ्यं चन्द्रकोटिसुशीतलम् ॥९४
अनर्घरत्नखचितदिव्याभरणभूषितम्
अच्युतानन्तगोविन्दप्रमुखानन्तविग्रहम् ॥९५
पूर्णब्रह्मतनुप्रख्यकृष्णरामावतारकम्
आद्यन्तरहितं सत्यज्ञानविज्ञानविग्रहम् ॥९६
निखिलोपनिषत्पारघनसंवेद्यविग्रम्
श्रीभूमिसहितं श्यामं सुन्दरं वेङ्कटेश्वरम् ॥९७
अनेककोटिकन्दर्पलावण्यमथनोत्थितम्
जगन्मोहनगोपाललीलावैचित्र्यकारणम् ॥९८
नानागमरसाभिज्ञैः वैखानसमहर्षिभिः
ब्रह्मागस्त्यभरद्वाजसनकव्यासनन्दनैः ॥९९
वामदेवशतानन्दभृग्वाद्यैश्च प्रपूजितम्
जनकाद्यैर्नृपश्रेष्ठै अर्चितं पुरुषोत्तमम् ॥१००
मयाऽप्यङ्गिरसा देवि! लोकपालैः समर्पितम्
बहुवर्षसहस्राणि स्वामिपुष्करिणीतटे ॥१०१
मत्कुमारतपोध्यानसमाधिकुसुमार्चितम्
कुमारं परमानन्दपरं नित्याभिषेचितम् ॥१०२
मामन्तःकरणानन्दस्वानुभूतिरसालयम्
शङ्खचक्राभयोद्युक्तनितम्बस्थचतुर्भुजम् ॥१०३
[[546547]]
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
दर्शनीयतमं लोके प्रसन्नवदनाम्बुजम्
आकर्णान्तविशालाक्षिकटाक्षाब्धितरङ्गिणम् ॥१०४
मन्दस्मितं सुनासाग्रं सुभ्रुवं फालशोभितम्
जाम्बूनदेन्दुकस्तूरीकुङ्कुमाद्यूर्ध्वपुण्ड्रकम् ॥१०५
पादनूपुरमारभ्य किरीटान्तैः समर्चितम्
वज्राङ्कुशध्वजाब्जादिरेखपादललामयोः ॥१०६
नखमण्डलचन्द्राणां ज्योत्स्नया जितमाययोः
विलसत्कुचकाठिन्यकुङ्कुमाङ्कितरेखयोः
कमलाकरकाठिन्यभाविव्रुदिमशालिनोः ॥१०७
भजतां परमानन्दमकरन्दवदान्ययोः
लसन्माणिक्यमञ्जीरविद्युत्पुञ्जप्रभाझुरैः ॥१०८
मणिकिङ्किणिकाजालघोषैः वेदान्तरूपिभिः
पादारविन्दसौन्दर्ययोग्यानर्घसुभाषणैः ॥१०९
चारुजानूरुलावण्यप्रभारञ्जितभूषणैः
नितम्बविलसत्पीतकौशेयाम्बरमेखलैः ॥११०
अनर्घरत्नखचितैः जाम्बूनदपरिष्कृतैः
विचित्रतेजसां पुञ्जैः काञ्चीवैडूर्यमण्डलैः ॥१११
नाभीपुटलसत्पीतपद्मकोशश्रियोज्ज्वलैः
ऊर्ध्वरोमावलीभाभिः जितेन्द्रमणिकान्तिभिः ॥११२
मुक्तादामलसद्वक्षःस्थलपद्मातडित्करैः
ज्योतिर्मयैर्ब्रह्मसूत्रैः तपनीयमयोज्ज्वलैः ॥११३
कम्बुग्रीवालसत्कण्ठमालारत्नप्रभाङ्कुरैः
पदकेषु लसन्नानामणिदीपावलीवरैः ॥११४
सुरत्नाङ्गदकेयूरकङ्कणैरङ्गुलीयकैः
इन्द्रनीलमणिश्यामरमणीयाहिभूषणैः ॥११५
शङ्खचक्राभयादिश्रीभूषितैश्च भुजोत्तमैः
सुचारुचुबुकोल्लासिवल्लवाधरपाटलैः ॥११६
वज्रपङ्किलसद्दन्तकान्तिचन्द्रातपस्मितैः
पूर्णचन्द्रमुखाम्भोजरम्यनासासमोन्नतैः ॥११७
सुवर्णमकरप्रख्यकुण्डलाभ्यां कपोलयोः
जितबालार्कबिम्बाभ्यां सौन्दर्याकरसीमयोः ॥११८
दयाम्बुधिसुधास्नानकमलाक्षिद्वयोत्सवैः
मणिचापलताचारुभ्रूल्लसद्भालपट्टकैः ॥११९
आनीलचिकुरान्तःस्थमुक्ताराजिविराजितैः
रमणीयसुकर्णाक्षिनिटलालककुन्तलैः ॥१२०
राजत्किरीटसौन्दर्यजितकन्दर्पकोटिभिः
त्रितेजोऽधिकसङ्काशैः नानारत्नैर्महाश्रयैः ॥१२१
तप्तहाटकसंलग्नैः नानावैचित्र्यरश्मिभिः
अलङ्कृतं किरीटेन स्कन्ददत्तेन तेन च ॥१२२
राजमानं दयाम्भोधिं सुधाधाराभिवर्षिणम्
सर्वाङ्गभूषणैस्सर्वजगन्मोहनविग्रहम्
रूपलावण्यसर्वाङ्गभूषणाद्यैरतिप्रियम् ॥१२३
[[548549]]
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
आपादकेशविलसन्मणिमन्महारछ-
नेपथ्यजालमणिकान्तितडित्कुलानाम्!
जाम्बूनदाग्र्यखचितामलरम्यभासां
सोपानपालिभिरतीव भृशाभिरामम् ॥१२४
तारागणेन्दुरविमण्डलमण्डितोद्य-
त्सौदमिनीत्रिपथगाग्रहराशियुक्तम्!
तार्योदयाद्रिकनकाचलशृङ्गनिष्ठं
कालाभ्रबृन्दमिव कान्तिकुलाभिरामम् ॥१२५
श्रीवेङ्कटेशमतिसुन्दरमोहनाङ्गं
श्रीभूमिकान्तमरविन्ददलायताक्षम् ।
प्राणप्रियं प्रविलसत्करुणाम्बुराशिं
ब्रह्मेशवन्द्यममृतं वरदं भजामि ॥१२६
सततं हृदयाम्भोजमध्ये श्रीवेङ्कटेश्वरम्
प्रणवार्धस्वरूपं तं त्रिमण्डलसुसंस्थितम् ॥१२७
चन्द्रसूर्याग्निबिम्बानां प्रकाशकरमच्युतम्
ध्यानस्वरूपं देवेशं सर्वदानन्ददं मम ॥१२८
आपादमस्तकान्तं वै श्रीमद्भूषणभूषितम्
चन्दनागरुकर्पूरकस्तूरीमृगलाञ्छनैः ॥१२९
कुङ्कुमैर्घनसौरभ्यसुवासितदिगन्तरैः
मिश्रितैर्दिव्यगन्धैश्च सुलिप्ताङ्गं मनोहरैः ॥१३०
नानावर्णलसत्पुष्पदिव्यसौरभ्यमालया
हिमाम्बुसिक्तया दिव्यवैजयन्त्या विराजितम् ॥१३१
कुमारस्वामिना नित्यं भक्त्या निर्मलचेतसा
दिव्योत्सवैर्दिव्यरसप्रवाहामृतपायसैः ॥१३२
दधिक्षीरघृतैर्दिव्यसूपान्नमधुशर्करैः
दिव्यसौरभताम्बूलैः मुक्ताचूर्णविमिश्रितैः ॥१३३
दिव्योपचारैः कल्याणवैभवैः षोडशाभिधैः
दिव्यसौरभताम्बूलैः मुक्ताचूर्णविमिश्रितैः ॥१३४
कर्पूरवीटिकाभिश्च दिव्यभोगैः सुपूजितम्
सर्वाङ्गभूषणाधिक्यलसत्कमलया सह ॥१३५
धूपदीपमहादीपराजन्नीराजनोत्तमैः
सुन्दरैश्चामरैश्छत्रैः व्यजनैर्दर्पणोत्तमैः ॥१३६
गीतवादित्रनृत्यैश्च मृदङ्गपटहानकैः
वीणावेणुसुतालाद्यैः गोमुखस्वरमण्डलैः ॥१३७
तूर्यभेरीसुशङ्खेन्द्रदिव्यघोषैरिवौकसाम्
सिद्धकिन्नरगन्धर्वाप्सरः किम्पुरुषव्रजैः ॥१३८
सतुम्बुरुहाहाहूहूनारदादिसुरर्षिभिः
गरुडोरगयक्षाणां विद्याधरविनोदिनाम् ॥१३९
सङ्गीतमधुरालापैः स्कन्दस्तोत्रैः सुतोषितम्
शुद्धसत्त्वमयाकारं अपि स्वामिसरस्तटे ॥१४०
रमन्तं रमया सार्धं आनन्दकरमानसम्
वसन्तममलानन्दं आत्मारामं मुदान्वितम् ॥१४१
समस्तदेवतावन्द्यं सार्वभौमशिखामणिम्
कर्तारं सृष्टिकाले च भर्तारं पालने जगत् ॥१४२
[[550551]]
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
हर्तारं प्रलये काले वेङ्कटेश्वरमव्ययम्
सर्वदेवनियन्तारं सर्वदेवेश्वरेश्वरम् ॥१४३
चराचरात्मकं विश्वं रक्षितारं कृपानिधिम्
किरीटाङ्गदसंराजद्दीर्घबाहुमरिन्दमम् ॥१४४
सर्वाङ्गलक्षणानन्दं दर्शयन्तं पदाम्बुजम्
सत्यं विशुद्धविज्ञानं घनप्रज्ञाप्रदं हरिम् ॥१४५
कारुण्यविग्रहं देवं सर्वजीवदयापरम्
उपास्महे वयं नित्यं हृदयेऽष्टदलाम्बुजे ॥१४६
अष्टाक्षरपदानन्दं रमेशं कर्णिकोपरि
एवं ध्येयं पुरस्कृत्य पश्चाद्ध्यानमिदं वदेत् ॥१४७
यन्नामश्रुतिसारसान्द्रजलधिस्थाने लसत्कौस्तुभं
स्वाज्ञानन्दतमिस्रदुःखहरणं मत्पुत्रसञ्जीवनम्
विश्वाभीष्टवरप्रदानफलदं भोगीन्द्रसद्भूणं
सर्वैश्वर्यनिदानमात्मवरदं श्रीवेङ्कटेशं भजे ॥१४८
सन्तोषो मम वेङ्कटेशनिकटे श्रीस्वर्णमुख्यास्तटे
स्वावासो भवतीति दिव्यसरितः स्वर्गापवर्गप्रदे।
कैलासे विधिकुम्भसम्भवसुते श्रीकालहस्तिस्थले
कैवल्ये वसतामनन्तमहिमा योगीश्वरो दुर्लभः ॥१४९
तारं नतिं समुद्धृत्य श्रीपूर्वं मन्त्रमुच्चरेत्
नवाक्षरमिदं देवि सर्वगोप्यं हृदि स्थितम्
त्वयि न्नेहात्समाख्यातं परानन्दपदप्रदम् ॥१५०
[[552553]]
नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे
वासुदेवाय शान्ताय श्रीनिवासाय मङ्गलम् ॥१५१
मन्त्रध्यानमिदं कृत्वा पश्चान्मन्त्रमिदं वदेत्
नमः श्रीवेङ्कटेशाय नमोऽन्तं वा समुच्चरेत् ॥ १५२
अष्टाक्षरमिदं ख्यातं भुक्तिमुक्तिफलप्रदम्
रहस्यं सर्वमन्त्राणां गोपनीयं प्रयत्नतः ॥१५३
स्वामिपुष्करिणीस्नानं वेङ्कटेश्वरदर्शनम्
महाप्रसादस्वीकारः त्रयं त्रैलोक्यदुर्लभम् ॥१५४
सर्वत्र कीर्तयेत्पाृज्ञ्ः स्वामिपुष्करिणीं पराम्
सुवर्णमुखरीं दिव्यां वेङ्कटेश्वरमव्ययम् ॥१५५
अज्ञानान्धतमःसूर्यं पापिनां तु न रोचते
एतत्सूक्ष्मतरं पुण्यं योगिनामपि दुर्लभम् ॥१५६
स्वामिपुष्करिणीं गङ्गां सुवर्णमुखरीं पराम्
वेङ्कटेशं हरिं नेतुं सर्वतीर्थेषु संस्मरन् ॥१५७
महापातकसघेभ्यो मुक्तः प्रज्ञानवान् भवेत्
एतत् स्थूलं महापुण्यं पापिनां तु न रोचते ॥१५८
स्वामिपुष्करिणीतीर्थं दिव्यौषधरसायनम्
वैद्यः श्रीवेङ्कटेशोऽयं मृत्युरोगनिकृन्तनः ॥१५९
यावद्वेङ्कटनायकस्य शिखरप्राप्तिर्न वै योगिनां
तावज्ज्न्मजरादिदुःखनिलयः संसारकोलाहलः
ब्रह्माण्डान्तपरिभ्रमत्कृतमहापुण्यौघचन्द्रोदये
सत्सङ्गामृतसेवनाद्धरिमये प्रीतिर्भवेद्वेङ्कटे॥१६०
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
यावन्नास्ति समस्तलोकरमणः श्रीवेङ्कटेशाभिधः
स्वानन्दानुभवस्थिरो मलधियां योगीश्वराणां नृणाम्।
नानायोनिषु गर्भवासमसुखं विण्मूत्रशोकाकुलं
सम्प्राप्याऽशुविनाशदुःखनरकांस्तावद्भवाब्धौ स्थितिः ॥ १६१
आख्यानं देवतागोप्यं ब्रह्मगोप्यं समासतः
इदमेव ममानन्दं ध्यानं हृदयगोचरम् ॥१६२
अस्य श्रीवेङ्कटेशस्य सीमायां यात्रिके जने
वाङ्मनःकायवर्गेण ये कुर्वन्ति नराधमाः?॥१६३
उपद्रवं च घातं च द्रव्यं चापहरन्ति ते
रौरवादिषु सर्वेषु नरकेषु च दारुणम् ॥१६४
ब्रह्मकल्पसहस्रान्तं पच्यन्ते नात्र संशयः
भक्त्या श्रीवेङ्कटेशस्य सीमारक्षां करोति यः ॥१६५
स एव राज्यकर्ता स्यात् देहान्ते मुक्तिमाप्नुयात्
परमानन्ददं ध्यानं कृत्वान्नं भुज्यते मया ॥१६६
त्वया समो नैव नैव ध्येयो ब्रह्माण्डगोलके
सत्यं श्रीवेङ्कटेशस्य नमः कालत्रयेऽपि वा ॥१६७
एतं रहस्यमध्यायं श्रीवेङ्कटपतेः प्रियम्
जपित्वा भुज्यते येन प्रत्यहं परमात्मनः ॥१६८
नृत्यन्ति पितरः सर्वे सन्तुष्टास्तस्य वंशजाः
देवाश्च ऋषयस्तृप्ताः प्रयान्ति परमं पदम् ॥१६९
ऋषयः
आश्चर्यमतुलं श्रुत्वा परमानन्दनिर्वृताः
आनन्दाश्रुपरिक्लिन्ना रोमाञ्चितवपुर्धराः१७०
विस्मिताः शौनकाद्यास्तु भक्त्याऽऽनन्दं पुनर्गताः
पुनर्ध्यानं समासाद्य पुनर्गद्गदया गिरा ॥१७१
ऊचुः शनैर्महात्मानं सूतं पौराणिकोत्तमम्
व्यासशिष्यं महाभागं शास्त्रसिद्धान्तकोविदम् ॥१७२
अद्य श्रुतं श्रुतं मुख्यं अद्यानन्दं गता वयम्
अद्यैव जन्म सफलं साक्षात्संसारमोचकम् ॥१७३
त्वत्र्वसादाद्गमिष्यामो वयं शेषाचलं प्रति
श्रीसूतः-
अष्टादशपुराणेतिहासानामुपधर्मिणाम् ॥ १७४
पुराणानां स्मृतीनां च सर्वेषां श्रुतिसारिणाम्
अखिलोपनिषत्सारवेदान्तानां मुनीश्वराः ॥१७५
श्रवणैश्च कृतैर्योगैः भक्तिज्ञानविरागदैः
यज्ञदानतपःकर्मव्रतमन्त्रजपार्चनैः ॥१७६
आजन्म नैमिशारण्यकृतपुण्यैरनेकशः
भवतामागतं हस्ते साक्षात्संसारमोचकम् ॥१७७
वैकुण्ठस्थानशेषाद्रिप्राप्तिरूपं महत्फलम्
अहं गोप्यमिदं वेद्मि शुको वेत्ति न चापरः ॥१७८
मद्गुरोः कृपयाऽधीतं उक्तं च भवतां द्विजाः
गच्छध्वं मुनयः सर्वे सस्त्रीवृद्धाः सबालकाः ॥१७९
[[554555]]
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
समाप्य सत्रं सकलं विलम्बो माऽस्त्तु शीफ्रुतः
तत्र गत्वोपवासेन स्नात्वा स्वामिसरोवरे ॥१८०
नत्वाऽऽद्यं भूमिवाराहं ज्ञानक्षेत्रनिवासिनम्
दिव्यं विमानमाश्चर्यं नत्वा श्रीवेङ्कटेश्वरम् ॥१८१
प्रदक्षिणनमस्कारैः स्तुत्वा स्तोत्रैः प्रणम्य च
नैवेद्यदानधर्मैश्च पूजां कृत्वा च भक्तितः ॥१८२
मौनव्रतमथ त्यक्त्वा क्षमापूर्वं वरप्रदम्
सम्प्रार्थ्य निवसामोऽत्र भूयात्तेऽनुग्रहो महान्॥ १८३
इत्येवं कायवाक्चित्तैः निवासं सत्यमीरितम्
कुरुध्वं त्वरया भक्त्या यूयं वैकुण्ठवेङ्कटे ॥१८४
परमानन्दसान्द्राब्धौ क्रीडध्वं मुनिपुङ्गवाः !
समस्तदेवतासिद्धसन्निधावात्मवेङ्कटे ॥१८५
स्वामिना क्षेत्रपालेन सुप्रसन्नेन रक्षिते
निवासमपि निर्विघ्नं कुरुध्वमविशङ्कया ॥१८६
तयोरनुग्रहेणैव वैकुण्ठक्षेत्रपालयोः
भद्रं वो वसतां नित्यं शाश्वतं भवति द्विजाः ॥१८७
अस्मिन् क्षेत्रे कृतानां च महतां पापकर्मणाम्
क्षेत्रपालस्य शूलाग्रे यातना चक्रवद्भवेत् ॥१८८
युगान्तं क्षणमात्रेण तेषां कालस्तु गच्छति
पापान्ते मुक्तिरस्त्येव वेङ्कटाद्रौ न संशयः ॥१८९
[[556557]]
सत्यं सत्यं पुनः सत्यं मद्गुरोर्वचनं द्विजाः ।
भवतां पुण्यशीलानां नैमिशारण्यवासिनाम् ॥१९०
कृपयाऽनुग्रहं लब्ध्वा काशीं गत्वा प्रणम्य च
मद्गुरोः पादमूलं च व्यासस्यामिततेजसः ॥१९१
अनुज्ञया गमिष्यामि वेङ्कटाद्रिं द्विजोत्तमाः !
सूतवाक्यप्रमाणेन तत्रानन्दपदाम्बुधौ ॥१९२
समाप्य सत्रमागत्य वेङ्कटाद्रिमनूष्य च
सूतवाक्यप्रमाणेन तत्रानन्दपदाम्बुधौ ॥१९३
देहान्तं प्राप्य मोदन्ते ससूताः शौनकादयः
इमं पवित्रमध्यायं साक्षात्संसारमोचकम् ॥१९४
सर्ववेदान्तसिद्धान्तं यः श्रावयति नित्यशः
वेङ्कटेश्वरभक्तेभ्यो ब्राह्मणेभ्यश्च योगिनाम् ॥१९५
यः शुृणोति सदा भक्त्या रहस्यानुभवोत्तमम्
यः स्थापयति लोकेऽस्मिन् सिद्धान्तमिममद्भुतम् ॥ १९६
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान् कन्यार्थी लभते वधूम् ॥१९७
वश्यार्थी वश्यमाप्नोति जयार्थी जयमाप्नुयात्
मोक्षार्थी मोक्षमाप्नोति ज्ञानार्थी ज्ञानमाप्नुयात् ॥१९८
यां यां कामयते सिद्धिं तां तामाप्नोति स द्विजः
वेङ्कटेशे परां प्रीतिं लभते सोऽतिभक्तिमान् ॥१९९
श्रीभविष्योत्तरपुराणान्तर्गत रहस्याऽध्यायः
इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाह्मात्म्ये उमामहेश्वर
संवादे सकलोपनिषत्सिद्धान्त श्रीवेङ्कटेश्वररहस्यानुभवो नाम
अशीतितमोऽध्यायः
—–ठ्—–
हरिः ॐ ॥तत्सत् ॥
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने!
श्रीमद्वेङ्कटनाथाय श्रीनिवासाय मङ्गलम् ॥ ४ ॥
॥ श्रीरस्तु ॥