श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्रीमते विष्वक्सेनाय नमः
श्रीवेङ्कटाचलमाहात्म्यम्
(आदित्यपुराणान्तर्गतम्)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
हरिः ॐ।
—–ठ्—–
प्रथमोऽध्यायः
अथ प्रथमोऽध्यायः
—–ठ्—–
शौनकादीन् प्रति सूतप्रोक्तश्रीश्रीनिवासवैभवम्
श्रीशौनकादयः -
’श्रीवेङ्कटेशमाहात्म्यं श्रीनिवासप्रसादतः
श्रीप्रदं सर्वदा सूत! दयया प्रोक्तवानसि ॥१
इतः परं श्रीनिवासं श्रीपतिः सर्वशो हि नः
कथं प्रीतो भवेत्सद्यो ह्यभीष्टानि प्रवर्षयन् ॥२
तद्वदस्व कृपापूर्ण! वेङ्कटेशकथामृतम्
भगवन्! सर्वतत्त्वज्ञ! दयापात्रं वयं तव’ ॥३
[[264]]
श्रीसूतः -
शृणुध्वं मुनयो! दिव्यं सावधानतया त्विदम्
यथा पृष्टं तथैवाहं वक्ष्यामि वचनं शुभम् ॥४
वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥५
अद्भुतं चास्य चरितं वर्णितुं केन शक्यते?
तथाऽपि तारकं सर्वपापघ्नं पुण्यवर्धनम् ॥६
सुविचित्रमपूर्वार्थं देवर्ष्यादिभिरादृतम्
लोकोत्तरं महाश्चर्यं वक्ष्येऽहं सर्वसिद्धिदम् ॥७
शेषाचले यन्माहात्म्यं अन्यक्षेत्रे न तत् क्वचित्
तद्गतश्रीनिवासस्य महिमा नान्यगः शुभः ॥८
वेदेषु च पुराणेषु वेङ्कटेशकथामृतम्
वर्णितं चेतिहासेषु भारताद्यागमेषु च ॥९
मनोहरं तु संश्राव्यं इहामुत्रेष्टदायकम्
ज्ञानप्रदं विशेषेण महैश्वरस्य कारणम् ॥१०
वैराग्यभक्ति सत्त्वादिप्रदेन्द्रियवशप्रदे
वेङ्कटाद्रौ शुचिक्षेत्रेऽशुचिदोषो न विद्यते ॥११
तस्माद्वेङ्कटनाथस्य नैवेद्यं ग्राह्यमुत्तमम्
तेन क्षेमं प्रजानां हि विपरीते विपर्ययः ॥१२
कर्ता हि सृष्टिस्थितिसंयमादेः
धर्ता रजःसत्त्वतमांस्यनरछः ।
अनाद्यन्तो वचसाऽनिरुक्तः
सदाश्रयो देववरो वरेण्यः ॥१३
नित्यं ब्रह्मा शिवः शेषगरुडेन्द्रादयो वराः
पूजयन्ति महाभक्त्या वेङ्कटेशं श्रिया सह ॥१४
चराचरगुरुर्देवः सर्वसाक्षी महेश्वरः
जप्यस्तप्योऽर्चनीयश्च स्मर्यो ध्येयोऽखिलैरपि ॥१५
तन्मनास्तद्गतप्राणो भक्त्या तन्नाम संस्मरेत्
गोदानान्यश्वमेधाद्याः कन्यादानान्यसङ्ख्यया ॥१६
असङ्ख्यमेरुसौवर्णदानान्यन्यान्यनेकशः
तन्नामस्मृत्यतुल्यानि माहात्म्यं किमुताद्भुतम् ॥१७
इति शेषेण कथितं कपिलाय महात्मने
कपिलाख्यमहायोगिसकाशात्तु मया श्रुतम् ॥१८
तदुक्तं भवतामद्य सद्यः प्रीतकरं हरेः
अतो वो मङ्गलार्थं च शृणुध्वं यन्मयोच्यते ॥१९
श्रीवेङ्कटेशयात्रार्थं गच्छध्वं सुदृढव्रताः
विष्णुसन्दर्शनं कृत्वा भक्तिमन्तो जितेन्द्रियाः ॥२०
स्तोत्रं कुरुध्वं बहुधा भगवद्गुणवर्णनैः
स्वगुणोत्कर्षविज्ञानात् यथा प्रीतिर्निजा हरेः ॥२१
न तादृशी प्रीतिरस्ति ह्यज्ञानादन्यथामतौ
भक्त्या स्तोत्रेण सन्तुष्टः सर्वेष्टानि प्रवर्षति ॥२२
भक्तिस्तोत्रविहीनेषु दयावान् न भवेत् तथा
अत्र वः कथयामीष्टं इतिहासं पुरातनम् ॥२३
यस्य स्मरणमात्रेण भक्तिर्विष्णुपदाम्बुजे
वायुशिष्यो देवशर्मा विष्णुभक्तो जितेन्द्रियः ॥२४
[[266267]]
श्रीमदादित्यपुराणे प्रथमोऽध्यायः
तपस्वी बहुनिष्ठावान् सर्वदा विष्णुचिन्तने
ममताहङ्कारशून्यो विषयेषु विरागवान् ॥२५
षट्छत्रुविजयी शान्तः षट्तरङ्गसुभङ्गकृत्
कुटुम्बे न मनःकारी दारिद्र्यात् पीडितोऽपि च ॥२६
भार्यया प्रार्थितो नित्यं दारिद्र्यापगमेच्छया
’भो नाथ हे पते स्वामिन्! प्रसीद करुणाकर! ॥२७
क्षुधया दुःखिता बालाः तव पुत्राश्च केवलम्
न शक्ताऽहमरण्येषु कन्दमूलार्जनादिषु ॥२८
रक्षको मम नान्योऽस्ति शिशूनां पालनेऽपि च
कृपां कुरुष्व शिशुषु विज्ञापनमिदं शृणु ॥२९
कुलस्वामीष्टदेवो नो जगद्रक्षणदीक्षितः
शरणागतसन्त्राणः श्रीनिवासः सतां गतिः ॥३०
पालको हि बहूनां च भक्तानां भक्तवत्सलः
तल्लक्ष्मीपतिपादाब्जं गत्वा तत्प्रार्थनां कुरु ॥३१
तेन प्रीतो भवेत् सद्यः ततोऽस्मज्जीवनं भवेत्
प्रसीद त्वं दयासिन्धो! दयां कुरु दयां कुरु’ ॥ ३२
इति दैन्येन महता प्रार्थितोऽहर्निशं तया
न स्वीचकार तद्वाक्यं तपोविघ्नभयात्तदा ॥३३
दिष्ट्या चादृष्टपाकेन तद्गुरुर्वायुरागमत्
पतिव्रतायां शिशुषु प्रसन्नः करुणानिधिः ॥३४
तपोऽवसाने सम्प्राप्तं स्वगुरुं जगतां गुरुम्
दृष्ट्वा मुदा देवशर्मा सहसोत्थाय चादरात् ॥३५
साष्टाङ्गं तं प्रणम्याथ बद्धाञ्जलिपुटोऽभवत्
ततो वायुः प्राह शिष्यं मधुरं वचनं हितम् ॥ ३६
’श्रीमद्वेङ्कटनाथस्य यात्रार्थं गच्छ मा चिरम्
तेनेहामुत्र तेऽभीष्टसिद्धिर्भवति नान्यथा ॥३७
लक्ष्मीपतेर्दयासिन्धोः ब्रह्मादिवरदायिनः
यात्रायां माऽस्तु सन्देहः शीफ्रुं गच्छ सुभक्तिमान् ॥३८
इति देवेनानिलेन गुरुणा स्वस्य चोदितः
मुहुर्मुहुर्बोधितोऽथ विष्णुयात्रामहादरः ॥३९
गुरूक्तमर्थं जग्राह गुरुवाक्ये सदा रतः
गुरूपदेशो बलवान् गुरोराज्ञां न लङ्घयेत् ॥४०
इत्यर्थमनुसन्धाय प्रतस्थे शेषपर्वतम्
तत्र श्रीवेङ्कटेशस्य सुदर्शनमहादरः ॥४१
आनन्दज्ञानदं विष्णुं आनन्दमयनामकम्
आनन्देन ददर्शायं आनन्दनिलयालये ॥४२
विहरन्तं श्रीधराख्यं नानालीलाविलासिनम्
भक्तदर्शनमात्रेण प्रसादात् मन्दहासिनम्
श्रीवेङ्कटेशं तं नत्वा भक्त्वा चक्रेऽथ संस्तुतिम् ॥४३
श्रीश्रीनिवासमुद्दिश्य देवशर्माख्यविप्रकृतस्तुतिः
देवशर्मा -
’दयानिधे! दयानिधे! दयानिधे! दयानिधे!
नमो नमो नमो नमो नमो नमो नमो नमः ॥४४
[[268269]]
श्रीमदादित्यपुराणे प्रथमोऽध्यायः
श्रीपद्मनाभ! पद्मेश! पद्मजेशेन्द्रवन्दित!
पद्ममालिन् पद्मनेत्र! पद्माभयदरारिभृत्!४५
पद्मपाणे! पद्मपाद! सर्वहृत्पद्मसंस्थित!
त्वत्पादपद्मयुगलं प्रणमाम्यतिसुन्दरम् ॥४६
त्वत्पादपद्ममाहात्म्यं अप्यनन्त! त्रिविक्रमम्
यत्कनिष्ठाङ्गुलिनखमण्यग्रगुणसंयुतान् ॥४७
अनन्तान् सुविशेषांश्च पश्यन्ती श्रीर्निरन्तरम्
स्तोतुकामाक्षणादीक्षा हर्षादाश्चर्यसागरे ॥४८
गहने गाहमानाऽभूत् अनन्तश्रुत्यगोचरे
त्वयोपदिष्टो यः पुत्रवात्सल्याच्चतुरासनः ॥४९
त्वद्गुणानां च गणनादानन्दमतुलं भजन्
नाद्यापि विररामासा गणनाद्देवराडपि ॥५०
सहस्रवदनः शेषोऽशेषवेदार्थकोविदः
’नाहं जाने’ इति ब्रूते यन्नखाग्र्याग्रवैभवम् ॥५१
अनन्तवेदा भाषन्ते ह्यन्योऽन्यं प्रविचार्य च
एकैकस्मिन्नधिकारे नियुक्ता एकैकशो ब्रह्मपूर्वाश्च विष्णोः ॥५२
सर्वे देवाः स्वाधिकारे नियुक्ताः सत्यादिलोकेषु यथाक्रमेण
भुञ्जन्त इष्टानि महादरेण भजन्ति शेषाचलगं रमेशम् ॥५३
वयं त्वनन्ता हरिणा नियुक्ता
वेदाः स्तोतुं स्वस्य गुणानुभावम् ।
गुणास्त्वनन्ताः परमात्मनो यत्
पदो नखाग्रस्थगुणैकदेशम् ॥५४
स्तुतो मिलित्वा वयमत्र शक्ता वेदास्त्वनन्ता जनितास्तदर्थम्
एवं सुनिश्चित्य गुणैकदेशमाहात्म्यमेते त्वविजानन्त एव ॥५५
उपक्रान्ताः स्तोतुमथो गुणैकदेशोऽ -
प्यनन्तात्मतयाऽभिवृद्धः ।
तं वीक्ष्य तेऽन्योन्यमथोचुरेकं
गुणं वदामो विसृजाम शेषान् ॥५६
आरेभिरे पूर्ववदेव तेऽपि गुणा अनन्ता अभवच्च सोऽपि
गुणैः सुपूर्णाः शुभदैरनन्तैः प्रत्येकशः किरणानीव पूष्णः५७
विदिक्षु दिक्षूर्ध्वमधश्च वेदा
दृष्ट्वा गुणा व्यापृतानित्यवोचन् ।
द्रष्टुं श्रोतुं कीर्तितुं वाऽपि बोद्धुं
अशक्यं नः किमुत स्तोतुमेतान् ॥५८
अस्मानतीता वयमल्पसाराः
किं वर्णयामोऽलमलं प्रशंसया! ।
इत्युक्तवन्तः स्वमनोनुसारात्
गुणानेता वर्णयामासुरञ्जः ॥५९
तथाऽपि ते पादनखाग्रगेषु गुणेष्वनन्तेषु विभाजितस्य
गुणैकदेशस्य गुणैकदेशकः प्रवर्णितोऽंशा बहवो न वर्णिताः
एवं रमाजाहिप वेदमुख्याः शक्ता नासन् दर्शने त्वद्गुणानाम्॥
यत्समस्तगुणान् विष्णोर्वर्णने शक्तिवर्जिताः ।
अनन्तवेदास्तद्भूमन् गुणान्ते त्वमिताद्भुताः ॥६१
इति श्रीमदादित्यपुराणे श्रीवेङ्कटाचलमाहात्म्ये
देवशर्मकृत श्रीनिवासपादनखाग्रादिमहिमवर्णनं नाम
प्रथमोऽध्यायः
—–ठ्—–
[[270271]]
श्रीमदादित्यपुराणे प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः
—–ठ्—–
श्रीश्रीनिवासदिव्यमङ्गलविग्रहसौन्दर्यादिवर्णनम्
देवशर्मा -
’इतोऽप्यथ त्वत्पदाब्जगतसौन्दर्यमद्भुतम्
स्वामिंस्त्वया प्रेरितश्चेत् यथामत्यनुवादये ॥१
वक्षःस्थाऽपि रमादेवी तव पादाम्बुजे स्थितम्
सौन्दर्यमद्भुतं दृष्ट्या सुन्दरी मोहिताऽभवत् ॥२
विस्मिता द्रष्टुकामाऽथ स्वस्य नेत्रद्वयेन वै
अशक्यं दर्शनं मत्वा त्रिरूपा चाभवत्तदा ॥३
दक्षिणे श्रीरूपिणी च वामे भूरूपिणी स्थिता
नीलरूपा च तत्रैव त्रिरूपा नेत्रषट्कतः ॥४
पश्यन्त्यनन्यमनसा सौन्दर्याख्यरसायनम्
पिबन्त्यप्यन्वहं नापि निवृत्ता तृष्णयाऽधुना ॥५
श्रीसुन्दर! श्रीनिवास! नाभिस्थश्चतुराननः
तव पादाम्बुजे रम्यसौन्दर्ये लग्नमानसः ॥६
अष्टनेत्र्या दिवारात्रं पश्यन् सौन्दर्यमद्भुतम्
नालं नेत्राष्टकमिति बहुरूपी तदाऽभवत् ॥७
कण्ठे च कौस्तुभे नाभौ वैकुण्ठादित्रिधामसु
सत्यलोके च मेर्वादौ सर्वत्र चतुरासनः ॥८
ततः पादाब्जसौन्दर्यरसं चामृतनैच्यदम्
प्रीत्या पातुमहोरात्रं आसाद्य सुखभोगिनः ॥९
तृष्णा शान्ताऽधुना नाऽपि पादसौन्दर्यमीदृशम्
शय्याऽऽसनातपत्रादिरूपी त्वत्पादसेवकः ॥१०
शेषो बहुसहस्राक्षः सदान्तःस्थो व्यचिन्तयत्
’अस्मत्स्वाम्यम्फ्रिुसौन्दर्यं विचित्रं सुमनोहरम् ॥११
अदृष्टश्रुतपूर्वं च महागाढं विलक्षणम्
सुलक्षणं च सन्दृश्यं जगन्मोहनमोहकम् ॥१२
बहूनि मम नेत्राणि समीपे सर्वदा हरेः
वासश्चेशप्रसादेन त्वेवं भाग्यमभून्मम’ ॥१३
इति सम्भ्रमसंयुक्तः सर्वदाऽतिप्रियो हरेः
नेत्रैर्बहुसहस्रैश्च लक्ष्मीपतिपदाम्बुजे ॥१४
असमं चित्रसौन्दर्यं दृष्ट्वादृष्ट्वा पुनः पुनः
महानन्दाम्बुधौ मग्नः एवं मेने फणी तदा ॥१५
’वसाम्यहं सदैवात्र पादमूले च मत्पतेः
वैकुण्ठं वा न गच्छामि त्यक्त्वा विष्णुपदाम्बुजम् ॥१६
यस्त्वानन्दो भवेन्नित्यं पादसौन्दर्यदर्शनात्
वैकुण्ठे ईदृशानन्दः कैवल्येऽपि न विद्यते ॥१७
पातालमात्रं गन्तव्यं पादमूलं यतो हरेः
न स्थास्यामि क्षणमपि यत्सौन्दर्यामृतं विना’ ॥१८
इति निश्चित्य नागेन्द्रः पादसौन्दर्यमोहितः
यत्र यत्रेन्दिरेशस्य पादमूलं प्रवर्तते ॥१९
[[272273]]
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः
तत्र तत्र सदा पादसौन्दर्यामृतपाय्यभूत्
अथाचिन्तयदेवं ह शङ्करो लोकशङ्करः ॥२०
’शेषस्य किमहो भाग्यं शेषागेशप्रसादजम्
बहुनेत्राणि तत्पादसौन्दर्यामृतसेवनम् ॥२१
एतद्द्वयं दुर्लभं मे त्रिनेत्रत्वादहो बत
भाविज्न्मनि शेषत्वप्राप्त्यर्थं वा महत्तपः ॥२२
करोमी’त्यतिवैराग्यात् शम्भुः कैलासगोऽभवत्
श्रीवेङ्कटेशेन्दिरेश! जिष्णुस्तव मुखाम्बुजात् ॥२३
जातः सहस्रनयनोऽप्येवं तत्र पदाम्बुजे
अदृश्याश्चर्यसौन्दर्यं सम्पश्यन्नप्यहर्निशम् ॥२४
इत्यचिन्तयदत्यन्तं पादसौन्दर्यमोहितः
’अमृतस्य पुरा पाने मे नाभूदीदृशं सुखम् ॥२५
सौन्दर्यमतिसामीप्यदोषात् सम्यङ् न दृश्यते
इतोऽप्यतिशयानन्दः किञ्चिद्व्यवहिते भवेत् ॥२६
अतः स्वर्गस्थोऽनिमेषो यावन्नेत्रैरहर्निशम्
वीक्ष्ये यावदलम्बुद्धिस्ततो मत्थ्सानमाव्रजे’ ॥२७
इति स्वर्गगतस्यापि यावन्नेत्रैः श्रियः पते!
त्वत्तेजःपुञ्जपादाब्जसौन्दर्यामृतपायिनः ॥२८
तृष्णा शान्ताऽधुना नापि तस्मात् स्वर्गे स्थिरा स्थितिः
श्रीश! ते पादसौन्दर्यं लेखानां महतामपि ॥२९
यद्येवं दुर्लभमभूत् इतरेषां तु का कथा?
विष्णो! ते पादरेखाणां माहात्म्यं लोकपावनम् ॥३०
विज्ञापनं करिष्यामि त्वपराधं क्षमस्व मे
पादमाहात्म्यश्रोतॄणां भक्तानां भक्तवत्सल! ॥३१
महाज्ञानतमो भित्त्वा कृत्वा ज्ञानप्रकाशनम्
त्वन्मार्गदर्शनार्थाय चक्ररेखां पदेऽधरः ॥३२
’पादमाहात्म्यमन्तॄणां साङ्गवेदचतुष्टयम्
इतिहासपुराणानि मन्त्रोपनिषदात्मिकाः ॥३३
सर्वविद्या ददानी’ति दररेखां पदेऽधरः
’पादमाहात्म्यध्यातॄणां उपद्रवकरान् खलान् ॥३४
दैत्यरक्षःपिशाचादीन् कूष्माण्डब्रह्मराक्षसान्
सञ्चूर्णयामी’ति हरे! गदारेखां पदेऽधरः ॥३५
’पादमाहात्म्यवक्तॄणां उत्तमे मन्दिरे सदा
पद्मया भार्यया साकं पद्मजेन सुतेन च ॥३६
कुटुम्बी पद्मनाभोऽहं वसामी,त्येव सूचयन्
पद्मरेखां पादपद्मे पद्मेश! त्वं धरन्नसि ॥३७
’विरजा मानससरो धनुष्कोटिर्महागहा
गङ्गादिसर्वतीर्थानि त्वत्पादाब्जे वसन्ति हि ॥३८
सहस्रपत्रपूर्वाणि जायन्ते तेषु नित्यशः’
इति सूचयितुं पादे पद्मरेखां धरन्नसि ॥३९
[[274275]]
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः
पद्मा हृत्पद्मसंस्थाऽपि पादपद्मस्य मूलगा
पश्यन्ती नेत्रपद्माभ्यां तत्सौन्दर्यमलौकिकम् ॥४०
ध्यायन्ती च स्वहृत्पद्मे तन्माहात्म्यं श्रुतीरितम्
भजन्ती करपद्माभ्यां अङ्केऽर्चनकरी सदा ॥४१
इति सूचयितुं पादे पद्मरेखां धरन्नसि
’पादपङ्कजमाहात्म्यं लिखित्वैव स्वहस्ततः ॥४२
दातॄणां वैष्णवाग्रेभ्यो महाघौघविभेदनम्
करोमी’ ति ज्ञापनाय वज्ररेखां पदेऽधरः ॥४३
’माहात्म्यस्यार्चकानां तु गजान् कामादिसञ्ज्ञितान्
अदम्यान् दमया’ नीति ह्यङ्कुशाख्यां पदेऽधरः ॥ ४४
’श्रुत्वाऽऽदरेण सन्तुष्टा भक्तान् ध्वजवदुच्छ्रितान्
करोमी’ ति ज्ञापनाय ध्वजरेखां पदेऽधरः ॥४५
अबग्न्यनिलखाहङ्कृन्महत्तत्त्वगुणत्रयैः
क्रमाद्दशगुणैरण्डं आवृतं परमाद्भुतम् ॥४६
यन्नखाग्राद्विनिर्भिन्नं तत्पादं को नु वर्णयेत्?
शेषो महत्तपस्तप्त्वा त्वामाराध्य जगत्पतिम् ॥४७
त्वत्प्रसादान्महद्भाग्यं यत आप सुदुर्लभम्
शय्याऽऽसनं पादुके तत् आतपत्रमभूत्तव ॥४८
तत्सुखं तु रमा दृष्ट्वा मेने शेषैकभाजनम्
अहमेवानुभोक्ष्यामि मत्पतेरङ्गसङ्गजम् ॥४९
आतपत्रेण यत्प्राप्तं पादुकाभ्यां च यत्सुखम्
सर्वभाग्यं ममैव स्यात् इति वक्षःस्थिताऽपि सा ॥५०
वैकुण्ठादिषु लोकेषु चतुर्दशसु वै तदा
ब्रह्माण्डान्तर्बहिश्चापि सर्वहृत्कमलेष्वपि ॥५१
मद्धृत्पद्मे यदा यत्र वर्तते तत्र तत्र हि
क्रीडावनमभून्मन्दवायुगन्धादिरञ्जितम् ॥५२
मल्लिकाकेतकीजातिचम्पकैः कुसुमान्वितैः
खर्जूरपनसद्राक्षाकदलीनारिकेलकैः ॥५३
बदरीमातुलुङ्गैश्च कपित्थैश्चूतदाडिमैः
जम्बूजम्बीरक्रमुकप्रमुखैः फलनायकैः ॥५४
पारिजातैः कल्पवृक्षैः नित्यं तु फल्सान्द्रकैः
श्रीचन्दनेक्षुमन्दारैः सङ्कुलं मधुकादिभिः ॥५५
तस्मिन् सरः स्वच्छनीरं स्वर्णसोपानमण्डितम्
नवरत्नाभकमलैः सुवर्णाभकुशेशयैः ॥५६
पीतवर्णैरुत्पलैश्च रक्तनीलोत्पलान्वितम्
मत्स्यकच्छपहंसाढ्यं मत्तषट्पदनादितम् ॥५७
तत्र रत्नमयं क्रीडामण्डपं चाभवद्रमा
दिव्यं रत्नमयं तेजःपुञ्जपीठमभून्मुदा ॥५८
तत्र त्वामर्चयत्यम्बा षोडशाद्युपचारकैः
पायासान्नव्यञ्जनादिपञ्चभक्ष्यामृतानि च ॥५९
[[276277]]
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः
नूतनानि पवित्राणि नानारुचिफलानि च
आर्द्रकादीनि मूलानि स्वादूनि स्वर्णपात्रके ॥६०
नित्यतृप्तायार्पयन्ती पूर्णकामाय चादरात्
निरङ्कसर्वसाराय सर्वसारात्मिका स्वयम् ॥६१
अथाऽऽत्मानं कल्पयन्ती डोलामञ्चं मनोहरम्
सुवर्णशृङ्खलालम्बं सुविशालं सुलक्षणम् ॥६२
प्रवालपादसंयुक्तं सुवज्रफलकैर्युतम्
ओतं प्रोतं स्वर्णपट्टैः माणिक्यस्तबकैर्वृतम् ॥६३
जाम्बूनदवितानाढ्यं मुक्तास्तबकरञ्जितम्
भूरूपाऽभूत् स्वयं शय्या श्रीरूपा सोपबरछणम् ॥ ६४
नीलाऽभूत्पादसेवार्थं ताम्बूलं भोगसाधनम्
सुवर्णदण्डव्यजनं विद्युदाभसुचामरे ॥६५
वैडूर्यस्तबकच्छत्रं पादुके रत्नपीठके
सर्वराजोपचारौघा राजचिह्नानि यानि च ॥६६
सर्वाण्यभूद्रमा देवी देवायानन्ततेजसे
भोग्यवस्तुस्वरूपेण तव सेवाभिलाषिणी ॥६७
महानन्दाम्बुधौ मग्ना रमते सा रमा त्वया
रमसे रमयैव त्वं वैकुण्ठादिषु धामसु ॥६८
प्रत्येकावरणैः स्वस्वमूर्तिभिः ब्रह्मपूर्वकैः
त्रिदशैर्दशदिक्पालैः सेवितः परमासने ॥६९
श्रीनिवास! रमानाथ! त्वन्नाभ्यब्जे चतुर्मुखम्
गिरीशमन्तःकरणे ह्यङ्गेष्विन्द्रादिदेवताः ॥७०
ऋष्यादींश्च यथावत्त्वं सर्वजीवांश्चतुर्विधान्
सृष्ट्वा तेष्वन्तराविश्य बहिः स्थित्वाऽसि पालकः ॥७१
अत्यन्तभिन्नास्ते सर्वे पृथग्जीवा जडात्मकाः
पारतन्त्र्यादिदोषज्ञः स्वातन्त्र्यादिगुणोर्जितः ॥७२
निरपेक्षो नित्यतृप्तः पूर्णकामस्त्वमार्द्रहृत्
सत्यकृत् सत्यसङ्कल्पो माब्रह्मेशेन्द्रवन्दितः ॥७३
सर्वेषां प्रेरकस्त्वं हि मुक्तामुक्तनियामकः
अघट्यघटने शक्तो ह्यगण्यगुणमण्डितः ॥७४
अचिन्त्याश्चर्यचर्यस्त्वं ब्रह्माण्डान्तर्बहिःस्थितः
अणोरणीयान् महतो महीयान् सर्वगः समः ॥७५
सर्वाधारः सर्वसाक्षी सर्वापेक्ष्योऽतिसुन्दरः
सर्वोत्तमश्च सर्वज्ञः सर्वस्वामी च सर्वदः ॥७६
सर्वशक्तोऽज्ञेयचर्यो व्यक्तोऽव्यक्तः सनातनः
शेषोऽशेषश्च निर्लिप्तो ब्रह्मण्यः शाश्वतः शुभः ॥७७
चतुर्वर्णैः सदा हीनः चतुर्धर्मप्रदर्शकः
चतुःपुमर्थदाता च चतुर्मोक्षप्रदः श्रुतः ॥७८
अधोक्षजोऽप्राकृतस्त्वं अनन्तमहिमा तव
मूलरूपी ह्यनन्तस्त्वं अवतारास्तथा श्रुताः ॥७९
[[278279]]
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः
नामधेयान्यनन्तानि ज्ञानानन्दादयो गुणाः
अनन्तवेदवेद्यस्तैः अवेद्योऽनन्तसौख्यदः ॥८०
अहो भाग्यमहो भाग्यं रमेश! त्वत्पदाम्बुजे
निविष्टमनसां सौख्यं इहामुत्राभिवर्धते ॥८१
तन प्रसादलेशस्य लेशलेशातिलेशतः
लवमात्रं यैः सुलब्धं तैरलब्धं न किञ्चन ॥८२
चरित्राण्यतिचित्राणि महान्ति च बहून्यपि
तव नानावतारेषु दर्शयस्यनुवर्तिनाम् ॥८३
कीटोऽपि त्वद्दयालेशात् साव्रूज्यमनुभुक्तवान्
त्वत्पादपद्मसम्पर्कलेशलेशातिलेशतः ॥८४
दृष्टदिव्याङ्गनोऽभूद्धि मनुष्याणां तु किं ब्रुवे
अत एवार्जुने सूतो बलेश्च द्वारपो ह्यभूः ॥८५
इन्द्रे त्वं दययाऽत्यन्तं बलिं याचितवानसि
गजेन्द्ररक्षणे दूतान् द्वारपान् वाप्यनादिशन्॥८६
अन्वधावः स्वयं शीफ्रुं क्षुद्रनक्रोन्मुमुक्षया
’वैकुण्ठं वा परित्यक्ष्ये न भक्तांस्त्यक्तुमुत्सहे ॥८७
अतिप्रिया हि मे भक्ता इति सङ्कल्पवानसि’
कामधेनुः कल्पवृक्षः चिन्तामणिरिति त्रयम् ॥८८
वेङ्कटेश त्वमेवासि शेषागे सर्वदानतः
ददाति कामानन्नादीन् मणिर्धेनुश्च पादपः ॥८९
न चापवर्गं स्वर्गं वा तेषां शक्तिश्च तादृशी
यदि त्वं सुप्रसन्नोऽसि सर्वार्थान् सम्प्रदास्यसि ॥९०
जात्यन्धानां च चक्षूंषि दासि त्वन्मूर्तिदर्शनात्
श्रोत्राणि बधिराणां च त्वत्कथाश्रवणात्तथा ॥९१
अनेडमूकं वाचालं करोष्यध्ययनान्वितम्
मन्दबुद्धिं प्राज्ञतमं साङ्ख्ययोगसमाधिगम् ॥९२
अकरञ्च करौ दत्त्वा करोषि तव पूजकम्
अपदं च पदौ दत्त्वा त्वत्तीर्थक्षेत्रगामिनम् ॥९३
यद्यद् दुःखं भवेद्भक्ते तत्तत्सद्यो हरिष्यसि
कुब्जत्वकुष्ठितानानारोगानप्याभिचारिकान् ॥९४
हृत्वा ददास्यङ्गदार
ढ्
्यं सौन्दर्यं च दयोदधे!
श्रीनिवास! भहूक्त्या किं? भक्तसर्वार्तिनाशने ॥९५
सर्वार्थपूरणे चापि त्वत्समोऽण्डे न कुत्रचित्
प्रसन्नो नीलमेघस्त्वं श्रीभूविद्युत्समन्वितः ॥९६
हृद्व्योमगस्त्रितापघ्नो भक्तसर्वेष्टवार्षुकः
अभीष्टाष्टमवाराशौ निमज्ज्योन्मज्जनं निजम् ॥९७
आनन्दाष्टमसुद्वीपे संस्थापयसि चादरात्
सर्वसौख्यं ददास्यत्र स्वर्मुक्तानन्दवृद्धिदः ॥९८
इति श्रीमदादित्यपुराणे श्रीवेङ्कटाचलमाहात्म्ये
भगवद्गुणकथानुवर्णनं नाम
द्वितीयोऽध्यायः
—–ठ्—–
[[280281]]
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः
तृतीयोऽध्यायः
अथ तृतीयोऽध्यायः
—–ठ्—–
देवशर्मकृत श्री श्रीनिवासस्तुतिः
देवशर्मा -
’अनन्तवेदसंवेद्य! लक्ष्मीनाथान्तकारण!
ज्ञानानन्दैश्वर्यपूर्ण! नमस्ते करुणाकर! ॥१
नक्षत्राणि द गण्यन्ते पांसवश्च क्षणादयः
त्वद्वीर्याणि न गण्यन्ते ब्रह्मणा रमयाऽपि वा ॥२
तथाऽप्यहं भक्तदासदासदासो यथामति
स्तौमि त्वां वेङ्कटाधीश ! त्वद्भक्तः प्रेरितस्त्वया ॥३
श्रीवेङ्कटेश! मत्स्वामिन् ज्ञानानन्ददयानिधे!
भक्तवत्सल! भो विश्वकुटुम्बिन् अधुनाऽव माम् ॥४
सत्येशं सत्यसङ्कल्पं सत्यं सत्यव्रतं हरिम्
सत्यचर्यं सत्ययोनिं सत्यशीर्षमहं भजे ॥५
श्रवणात् सर्वपापघ्नं मननात् पुण्यवर्धनम्
स्वभ्यासात् सिद्धिदं विष्णुं प्रेक्षणान्मोक्षदं भजे ॥६
श्रीवेङ्कटेशं लक्ष्मीशं अनिष्टघ्नमभीष्टदम्
चतुर्मुखात्मतनयं श्रीनिवासं भजेऽनिशम् ॥७
यदपाङ्गलवेनैव ब्रह्माद्याः स्वपदं ययुः
महाराजाधिराजं त्वां श्रीनिवासं भजेऽनिशम् ॥८
अनन्तवेदसंवेद्यं निर्दोषं गुणसागरम्
अतीन्द्रियं नित्यमुक्तं श्रीनिवासं भजेऽनिशम् ॥९
स्मरणात् सर्वदोषघ्नं श्रवणादिष्टवर्षिणम्
दर्शनान्मुक्तिदं वीरं श्रीनिवासं भजेऽनिशम् ॥१०
अशेषशयनं शेषशयनं शेषशायिनम्
शेषाद्रीशमशेषं च श्रीनिवासं भजेऽनिशम् ॥११
भक्तानुग्राहकं विष्णुं सुशान्तं गरुडध्वजम्
प्रसन्नवक्त्रनयनं श्रीनिवासं भजेऽनिशम् ॥१२
भक्तभक्तिसुपाशेन बद्धसत्पादपङ्कजम्
प्रसन्नवस्त्रनयनं श्रीनिवासं भजेऽनिशम् ॥१३
गङ्गादितीर्थजनकपादपद्मं सुतारकम्
शङ्खचक्राभयकरं श्रीनिवासं भजेऽनिशम् ॥१४
सुवर्णमुखितीरस्थं सुवर्णेड्यं सुवर्णदम्
सुवर्णाभं सुवर्णाङ्कं श्रीनिवासं भजेऽनिशम् ॥१५
श्रीवत्सवक्षसं श्रीशं श्रीलोलं श्रीकरग्रहम्
श्रीमन्तं श्रीनिधिं श्रीड्यं श्रीनिवासं भजेऽनिशम् ॥१६
वैकुण्ठवासं वैकुण्ठत्यागं वैकुण्ठसोदरम्
वैकुण्ठं च विकुण्ठाजं श्रीनिवासं भजेऽनिशम् ॥१७
वेदोद्धारं मत्स्यरूपं स्वच्छाकारं यदृच्छया
सत्यव्रतोद्धरं सत्यं श्रीनिवासं भजेऽनिशम् ॥१८
महागाधजलाधारं कच्छपं मन्दरोद्धरम्
सुन्दराङ्गं च गोविन्दं श्रीनिवासं भजेऽनिशम् ॥१९
[[282283]]
श्रीमदादित्यपुराणे तृतीयोऽध्यायः
वरं श्वेतवराहाख्यं संहृत्य धरणीहरम्
दंष्ट्राकृतधरोद्धारं श्रीनिवासं भजेऽनिशम् ॥२०
प्रह्लादाह्लादकरं लक्ष्मीनृसिंहं भक्तवत्सलम्
दैत्यमत्तेभदमनं श्रीनिवासं भजेऽनिशम् ॥२१
वामनं वामनं पूर्णकामं वामनमाणवम्
मायिनं बलिसम्मोहं श्रीनिवासं भजेऽनिशम् ॥२२
इन्द्वाननं कुन्ददन्तं कुराजघ्नं कुठारिणम्
सुकुमारं भृगुऋषेः श्रीनिवासं भजेऽनिशम् ॥२३
श्रीरामं दशदिग्व्याप्तं दशेन्द्रियनियामकम्
दशास्यघ्नं दाशरथिं श्रीनिवासं भजेऽनिशम् ॥२४
गोवर्धनोद्धरं बालं वासुदेवं यदूत्तमम्
देवकीतनयं कृष्णं श्रीनिवासं भजेऽनिशम् ॥२५
नन्दनन्दनमानन्दमिन्द्रनीलं निरञ्जनम्
श्रीयशोदायशोदं च श्रीनिवासं भजेऽनिशम् ॥२६
गोवृन्दावनगं बृन्दावनगं गोकुलाधिपम्
उरुगायं जगन्मोहं श्रीनिवासं भजेऽनिशम् ॥२७
पारिजातहरं पापहरं गोपीमनोहरम्
गोपीवस्त्रहरं गोपं श्रीनिवासं भजेऽनिशम् ॥२८
कंसान्तकं शंसनीयं संशान्तिं संसृतिच्छिदम्
संशयच्छेदिसंवित्कं श्रीनिवासं भजेऽनिशम् ॥२९
कृष्णापतिं कृष्णगुरुं कृष्णामित्रमभीष्टदम्
कृष्णात्मकं कृष्णसखं श्रीनिवासं भजेऽनिशम् ॥३०
कृष्णाहिमर्दनं कृष्णं कृष्णोपवनलोलुपम्
कृष्णातातं महोत्कृष्टं श्रीनिवासं भजेऽनिशम् ॥३१
बुद्धं सुबोधं दुर्बोधं बोधाऽत्मानं बुधप्रियम्
विबुधेशं बुधैर्बोध्यं श्रीनिवासं भजेऽनिशम् ॥३२
कल्किनं तुरागारूढं कलिकल्मषनाशनम्
कल्याणदं कलिघ्नं च श्रीनिवासं भजेऽनिशम् ॥३३
हरिं हंसं कृष्णं नरहरिमनन्तं मधुरिपुं
हृषीकेशं यज्ञं कपिलमृषभं वाजिवदनम्।
नरं व्यासं नारायणमनघमात्मानममृतं
भजे दत्ताऽत्रेयं पुरुषमथ धन्वन्तरिमपि ॥३४
अनन्तरूपस्वमनन्तचर्यमनन्तवेदैरनुवर्णनीयम्
अनन्तनामानमनन्तदेवमनन्तकल्याणगुणाभिरामम् ॥३५
अनन्तशक्त्यंशमनन्तविक्रमं ह्यनन्तदेहे च शयानमीश्वरम् ।
अनन्तसौभाग्यमनन्तनेत्र मनन्तपादादिमनन्तसौख्यम् ॥३६
असुराचलौघहरचक्रधरं दुरिताचलौघहरवज्रधरम्
करुणाचलौघभरचित्तवरं कनकाचलौघदरपद्मशरम् ॥३७
भुवनेषु वेङ्कटेश्वर! बहुपुरुषार्थप्रदाननिपुणस्त्वम्
नोचेद्व्यक्ततया त्वं बहून्नताद्रिस्थले कुतो वससि? ॥३८
गुणौघैरपारं स्फुरद्रत्नहारं स्मरद्दोषहारं स्वभक्तेष्टपूरम्!
भजे वेङ्कटेशं फणीशाद्रिवासं सदा मन्दहासं श्रिया सद्विलासम् ॥ ३९
वेङ्कटेश! चरणौ तव वन्दे सर्वतीर्थशरणौ मे
माविधातृशिववीशफणीशेन्द्रार्कसोमहुतभुङ्मुखवन्द्यौ ॥४०
[[284285]]
श्रीमदादित्यपुराणे तृतीयोऽध्यायः
श्रीनिवास! चरणौ तव वन्दे लोकपावन! सुकुङ्कुमवर्णौ
श्रीप्रदौ किल सुरर्षिनृपाणां श्रीऋगादिनिगमागमवेद्यौ ॥४१
भजे भजकसौख्यकृन्निजकटाक्षसम्प्रेक्षणं
परात्परतरं दरं दधतमब्जचक्रे गदाम् ।
चतुर्भुजमधोक्षजं कमलजेशपूर्वार्चितं
वरोद्धतखलान् बहून् झटिति संहरन्तं रिपून् ॥४२
अज्ञानसागरसमुत्तरणे प्रशस्तं
सुज्ञानसेतुरचने निपुणं बुधेड्यम् ।
लक्ष्मीपतिं सुरवरार्चितवेङ्कटेशं
दारिद्स्रदुःखदुरितौघनिशाचरघ्नम् ॥४३
लक्ष्मीनाथं कमलनयनं हारकेयूरभूषं
सर्वव्याप्तं बहुगुणभरं दोषदूरं दयाऽब्धिम्
स्वानां तापत्रयहरमजं निर्विशेषं विशेषं
लोकातीतं पुरुषमतुलं भावयामेष्टदेवम् ॥४४
श्रीमद्वेङ्कटनाथपादजनिता गङ्गा जगत्पावनी
यस्यापाङ्गनिरीक्षणं विधिभवेन्द्रार्कादिसर्वेष्टदम् ।
यन्नामस्मरणं महाघहरणं स्वर्गं च मोक्षप्रदं
यत्पादाम्बुजयुग्मसेवनरतो ब्रह्मादिभिः पूज्यते ॥४५
दृष्ट्याद्यत्यन्तदूरं निगमनिचय वेद्यात्ममाहात्म्यपूर्णं
सर्वेषामादिमित्रं रविशशिनयनं पूर्णकारुण्यदेहम् ।
निर्वाणं निष्प्रपञ्चं निरवधिकसमाम्नायसङ्घैरसङ्गैः
गीर्वाणाद्यैरजस्रं स्तुतिनतिनियमैकान्तभक्तैश्च पूज्यम् ॥४६
किङ्करशङ्कर! बहुकरुणा तव बहुचरितं समस्तभुवनेषु
ज्ञापयसि भक्तिमद्भ्यः फणिपतिशुकपैलनारदप्रमुखैः ॥४७
वेङ्कटेशमनुसृत्य य आस्ते तस्य भूरि सुभगं दशदिक्षु
ऐहिकं त्रिदिवसौख्यमतुल्यं मोक्षमाशु लभते गुणसाम्यम् ॥४८
श्रीनिधिं त्विह जहाति मदान्धो योऽस्य दुःखमसमं दशदिक्षु
ऐहिकं भवति रौरवकुम्भीपातकपावकत मिस्रममुत्र ॥४९
विपद्घ्नं शुभदोग्धारं भक्तानां वशवर्तिनम्
लोकपूज्यं रमानाथं भजेऽहं प्रतिजन्मसु ॥५०
भक्तौघानुग्रहार्थाय त्यक्त्वा वैकुण्ठमुत्तमम्
धरण्यामवतीर्णोऽसि वरेण्यो वरदोऽर्चितः ॥५१
अत्यल्पमात्रं परवस्तु लोके नैवापहार्यं किल सत्यसन्ध! ।
जनै रनेकैर्बहुजन्मयत्नैः आयाससाध्यं बहुपापसञ्चयम् ॥५२
हरस्य शेषं स्मृतिमात्रतस्त्वं वाणीमनोदृष्टिपथाद्यगोचरः
विलक्षणस्थावरजङ्गमात्मकं वीक्षे बहूपायविशारदं त्वाम् ॥५३
तव रूपाण्यनन्तानि चरित्राणि तथैव च
स्मरतां भक्तिपूर्वं तु महाविभवदानि च ॥५४
इहामुत्रातुल्यसौख्यप्रदानि महतामपि
अल्पानां किमु वक्तव्यं स्वरूपोद्धारकाणि च ॥५५
प्रपद्ये पुण्डरीकाक्षं ईशं भक्तानुकम्पिनम्
लोकोत्तरं लोकनाथं परात्परतरं विभुम् ॥५६
पुण्यात् त्वद्दयया लब्धं विशेषादकुतोभयम्
भगवन्तं विश्ववन्द्यं भूतभव्यभवत्प्रभुम् ॥५७
[[286287]]
श्रीमदादित्यपुराणे तृतीयोऽध्यायः
यतो भूतानि जायन्ते येन सर्वमिदं ततम्
येन जातानि जीवन्ति यं प्राप्स्यन्ति महालये ॥५८
दीपविद्युत्तारकाग्निचन्द्रसूर्यादिदीप्तिमान्
यो योगैर्योगयोगैश्च दृश्योऽदृश्योऽश्रुतः श्रुतः ॥५९
इति श्रीमदादित्यपुराणे श्री वेङ्कटाचलमाहात्म्ये
भगवद्गुणनाममहिमानुवर्णनं नाम
तृतीयोऽध्यायः
—–ठ्—–
चतुर्थोऽध्यायः
अथ चतुर्थोऽध्यायः
—–ठ्—–
भगवतः विश्वरूपादिवर्णनम्
देवशर्मा -
श्रीवेङ्कटेश! मत्स्वामिन्! प्रणतार्तिप्रणाशन!
ज्ञानानन्ददयापूर्ण! विज्ञापनमिदं शृणु ॥१
यन्मुखं ब्रह्मजनकं यद्बाहू क्षत्रकारणे
यदूरुभ्यां वैश्यकुलं यत्पद्भ्यां सेवकोऽभवत् ॥२
शिरसा द्यौरभवत्तस्य सहस्रांशुश्च नेत्रज्ः
मुखात्पुरन्दरोऽग्निश्च दिग्देवाः श्रोत्रतोऽभवन् ॥३
शीतांशुर्मनसो जातः प्राणाद्वायुरजायत
अन्तरिक्षं नाभितोऽभूत् पद्भ्यां भूमिरजायत ॥४
यत्कोमलाङ्गैरभवन् भुवनानि चतुर्दश
कोमले नाभिकमले ब्रह्माण्डं ब्रह्मणाऽऽश्रितम् ॥५
श्रियःपते! कोऽपि जयेत् न मायां
यया जनो मुह्यति वेदनार्थम् ।
विनिर्जितात्मानमनन्तमायिनं
मायापहं त्वां शरणं प्रपपद्ये ॥६
नमोऽतर्क्याय तर्क्याय सगुणायागुणाय च
नमोऽनन्तायान्तकाय वेद्यावेद्यस्वरूपिणे ॥७
[[288289]]
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः
सिद्धिप्रदस्त्वं किल देववर्य!
त्वत्प्रेरितोऽहं तव पादमाप्तः ।
त्वत्पादभक्तो बहिरन्तरात्मनः
किमस्ति विज्ञाप्यमशेषसाक्षिणः ॥८
सुखं नृपालाः सुरदेवमुख्याः
ब्रह्मादयस्ते पदपद्मसंस्थिताः ।
त्वत्किङ्करास्तेऽपि पृथग्विभाविताः
कुरुष्व शम्भो मुनिदेवमित्र! ॥९
उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गान्तकोग्र-
व्यालोत्कृष्टे विषयमृगतृष्णात्मगेहोरुभारः ।
द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्धं
प्राप्तः पादौ शरणद! कदा यामि ते कामवश्यः ॥१०
भवाब्धितारं कटिवर्तिहस्तं
स्वर्णाम्बरं रत्नकिरीटकुण्डलम् ।
प्रलम्बिसूत्रोत्तममाल्यभूषितं
नमाम्यहं वेङ्कटशैलनायकम् ॥११
जाम्बूनदैराभरणैः प्रदीप्तं वक्षःस्थले दक्षकुचोर्ध्वभागे
श्रीवत्सलक्ष्म्यञ्चितदिव्यरूपं श्रीवेङ्कटाधीशमहं प्रपद्ये ॥ १२
संस्थितं सुविमानान्तः विरिञ्चाद्यैश्च सेवितम्
चामरव्यजनच्छत्रैः शरदिन्दुमुखं भजे ॥१३
भक्तानुकम्पी गरुडध्वजस्तत् स्कन्धं त्वमारुह्य किरीटकुण्डली
पीताम्बरश्चारुसुसमन्दहासः श्रीकौस्तुभश्चक्रवराभयाङ्कितः॥ १४
सजयो विजयश्चैव दृश्योऽदृश्यः श्रुतोऽश्रुतः
सभाषणोऽभाषणश्च वाच्योऽवाच्यो वृषोऽवृषः ॥ १५
त्वत्पादपद्मयुगलं श्रेय आसक्तमानसाः
विसृज्योभयतः सङ्गं ब्रह्मण्याः समुपासते ॥१६
माहात्म्यं केन सदृशं रमाया रमणस्य ते
यत्किञ्चिद्द्रष्टुमिच्छामि मायिनोऽमायिनः शुभम् ॥१७
सर्वप्राणिहृदावासं वासुदेवं जगद्धितम्
शरण्याग्र्यं देवदेवं प्रधानपुरुषं भजे ॥१८
नमोऽव्यक्ताय सूक्ष्माय परात्परतराय च
जगत्कारणकर्त्रे च साक्षिणेऽव्यक्तमूर्तये ॥१९
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च
प्रद्युम्नायानिरुद्धाय योगिहृत्पद्मवासिने ॥२०
पञ्चभूतविसृष्टाय पञ्चमात्रात्मकाय च
ज्ञानकर्मेन्द्रियेशाय हृषीकेशाय ते नमः ॥२१
विष्णवे वैष्णवेशाय जिष्णवे जयदायिने
इष्टप्रदाय चेष्टाय कृष्णायोत्कृष्टकर्मणे ॥२२
क्षराक्षरोत्तमायाथ स्वक्षरेशाक्षराय च
कुक्षिस्थपक्षिसङ्घाय क्षयाऽक्षयकराय ते ॥२३
नमो भवाय भावाय धीराय परमेष्ठिने
वीराय वीरवपुषे ऋषये परमात्मने ॥२४
नमो नारायणाखिख्याधारणोद्धारणाय च
नमः समरछणाराछय धरणीधररूपिणे ॥२५
[[290291]]
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः
अर्च्यार्चायाच्युतायापि वन्द्यवन्द्यपदाय च
हिरण्यगर्भगर्भाय नमः शिवशिवाय च ॥२६
स्कन्दाय शिपिविष्टाय सच्चिदानन्दरूपिणे
कर्मज्ञानद्विरूपाय श्रुतिस्मृत्यालयाय ते ॥२७
यमाय नियमायाथ दानव्रतकराय च
तपस्विने च तप्याय तापत्रयहराय च ॥२८
यज्ञाय विश्वाय सुमङ्गलाय सुतीर्थपादाय सुतारकाय
प्रसन्नलोकानुगुणाय शम्भवे शुद्धाय शश्वद्गुणवर्मणे नमः ॥
कर्मिणे कर्मलिप्ताय ज्ञानाय ज्ञानदायिने
नित्यमुक्ताय हरये नित्यमुक्तिप्रदायिने ॥३०
शुद्धं वपुःपरमयोगमतुल्यसौख्यं
भूमिं द्युलोकमुत तत्त्वमतिं सुभक्तिम् ।
वैराग्यमन्यसुगुणा भजतां ददानं
श्रीशं दयोदधिमहं शरणं प्रपद्ये ॥३१
सुलभं दुर्लभं वन्दे भगवन्तं सनातनम्
सदसतक्षेत्रगं विष्णुं मूर्तामूर्तं शुभाशुभम् ॥३२
गोविन्दं गोगणातीतं कल्मषघ्नमकल्मषम्
प्रतिकल्पेऽनल्पकल्पतरुं सर्वार्थकल्पकम् ॥३३
दुष्टभावप्रमत्तो वा नामाद्युच्चारकोऽपि यः
ब्रह्महत्यादिपापानि दहत्येव च नान्यथा ॥३४
अज्ञानादथ वा दम्भात् पुण्यश्लोकस्य नाम ते
यो वदेत्तानि नश्यन्ति तूलराशिर्यथानलात् ॥३५
क्षुधितो दुःखितः श्रान्तः तन्नाम यदि संस्मरेत्
तस्य दुःखानि सर्वाणि नश्यन्ति क्षणमात्रतः ॥३६
सर्वाण्यशुभजातानि दुरितान्यपि यानि च
तानि सर्वाणि लभते मत्तस्त्वां व्यस्मरेद्यदि ॥३७
न तीर्थयात्रा न च दानयज्ञाः
व्रतं तपो नार्चनमन्यदैवतम् ।
यच्छ्रीनिवासस्य च नामकीर्तनं
तदेव सर्वार्थसुवृष्टिकारणम् ॥३८
यात्रा यज्ञा व्रता धर्मदानान्यन्यान्यसङ्ख्यया
तव नामस्मृतेर्भक्त्या कलां नारछन्ति षोडशीम् ॥३९
अहो भाग्यमहो! भाग्यं! विष्णुनामानुवर्तिनाम्
तेषां दूरो याम्यलोकः स्वर्गो मोक्षश्च यत्पदम् ॥४०
माहात्म्यं विष्णुनाम्नो हि वर्णितुं केन शक्यते
अजामिलो मृत्युपाशात् मुक्तो वैकुण्ठगो यतः ॥४१
अयमेव महाधर्मो नराणां तारकः स्मृतः
विष्णौ सदा भक्तियोगः तन्नामग्रहणादिभिः ॥४२
नैकोऽजामिल एव पापजलधिं सन्तीर्णवान् नामतः
प्रह्लादोऽपि गजेन्द्रभूप्रभृतयो दुःखाम्बुधेस्तारिताः ।
यन्नामस्मरणामृताम्बुधिनिमग्नोऽद्यापि गौरीपतिः
यद्ध्याने निरताः प्रजापतिमुखाः प्राप्ता महावैभवम् ॥ ४३
यन्नाम वै सर्वजगद्गुरुस्तत् दुष्कर्मभारांश्च बहून्छिनत्ति ।
स सर्वशक्तिः स हि विश्वरूपः प्रसीद मेऽनन्तनिरुक्तशक्तेः ॥४४
[[292293]]
श्रीमदादित्यपुराणे चतुरोऽध्यायः
अनुग्रहार्थं भवतां पदाब्जं
अनामरूपस्त्वगुणो ह्यजन्मा ।
नामानि रूपाणि गुणान् क्रियाश्च
जन्मानि गृह्ण्णासि नमः प्रसीद ॥४५
जन्मादिभिर्जने मोहानुग्रहावधिकारतः
करोषि साम्प्रतं भूयोऽनुग्रहस्तु भवेन्मयि ॥४६
त्वदपाङ्गलवो भूयात् इहामुत्रेष्टवार्षुकः
अन्यथा नास्ति सन्देह इति चित्ते सुनिश्चितम् ॥४७
ॐ नमो वेङ्कटेशाय पुरुषाय महात्मने
महानुभावाय महामायिनेऽमेयकर्मणे ॥४८
स्थलेषु दुर्गेषु जलेषु खेषु
गर्भेष्वरण्येषु च कैतवेषु ।
नाम्नैव भाव्यं खलु सर्वलक्षणं
मायाविनो विश्वकुटुम्बिनस्ते ॥४९
महाविपत्सु त्वन्नामस्मरणं तद्विनाशनम्
बहुसम्पत्सु ते नामविस्मृतिः तद्विनाशिका ॥५०
तस्मात्त्वन्नामसक्तोऽहं सर्वदा त्वदनुग्रहात्
त्वत्प्रेरितस्त्वदीयत्वात् मत्पुण्यं त्वद्दयाबलम् ॥५१
न कदाचिद्भयं मेऽस्ति दिव्यनामरतो यतः
तथाऽपि ते कृपालेशलेशलेशोऽस्ति मय्यहो ॥५२
श्रीश! चित्रं चरित्रं ते न जाने बहुदुष्कृतिः
सर्वज्ञं सर्वदा किं त्वां वदामि कृपयाऽव माम् ॥५३
नाम्ना महाघौघहानिः मनःकायौ ततः शुची
तं दृष्ट्वा प्रीयसे विष्णो! ततः सत्कर्मसङ्ग्रहः ॥५४
कर्मणा ज्ञानसिद्धिश्च तेन प्रीतिस्तवाद्भुता
अपरोक्षमदूरे च मुक्तिरानन्दवर्धिनी ॥५५
गोदानकन्यादानानि पृथिवीरेणुसञ्ज्ञया
दुर्भिक्षो जाह्नवीतीरे प्रत्यहं कोटिभोजनम् ॥५६
त्वन्नामस्मरणात्तुल्यं नाममाहात्म्यमीदृशम्
तस्मान्नामस्मृतिः सिद्धा सुलभा पुरुषार्थदा ॥५७
लोकोत्तरस्त्वयं मार्गः प्रजानामकुतोभयः
यत्र भक्तिवशाः सर्वे नामस्मृतिपरायणाः ॥५८
येनैकदा विष्णुपदाब्जयुग्मे
समर्पितं चित्तमनन्यबुद्ध्या ।
यमोऽपि तद्दूतगणाः सपाशाः
पश्यन्त्यघौघाश्रयमप्यहो न तम् ॥५९
इति श्रीमदादित्यपुराणे श्रीवेङ्कटाचलमाहात्म्ये
भगवद्गुणनाममहिमानुवर्णणं नाम
चतुर्थोऽध्यायः
—–ठ्—–
[[294295]]
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
अथ पञ्चमोऽध्यायः
—–ठ्—–
देवशर्माणं प्रति स्तुतिप्रसन्नश्रीनिवासकृतवरप्रदानादिवर्णनम्
देवशर्मा -
’सर्वलोकजननी कमलालया देशकालवितता रमणी ते
साऽतिमृद्वतसिकाकुसुमाभोत्सङ्गगा च तव हृत्कमलस्था ॥१
ब्रह्मशङ्करपदार्पणदक्षा सर्वलोकशुभदा द्रवचित्ता
यत्कटाक्षलवमात्मपदस्था प्रार्थयन्त्यजशिवेन्द्रमुखा हि ॥२
भारतीप्रमुखसुन्दरयोषिज्जालजैत्रबहुसुन्दररूपाम्
आलिलिङ्गिषसि यां करपद्मैः मन्दहासनवदनां सरसस्त्वम् ॥३
नित्यमुक्ता दोषदूरा त्वदूनाधिकसद्गुणा
त्वत्पादपूजने नित्यं बद्धकङ्कणभूषिता ॥४
अभीष्टदाने भक्तानां कल्पवृक्षायिता रमा
चिन्तामणिः कामधेनुः करुणासागरायिता ॥५
लक्ष्मीः पुरस्तात् पश्चाच्च दक्षिणोत्तरतश्च या
ऊर्ध्वाधरादिभागस्था जगत्सृजति पाति हि ॥६
गुणैस्तता प्रसवितृवरणीयगुणोर्जिता
प्रकाशमतिमूर्तिश्च ध्येया बुद्धिप्रचोदिका ॥७
दुरन्नात् दुर्ग्रहत्वाच्च पातकादुपपातकात्
स्वगायकत्राणदक्षा गायत्रीत्युदिता रमा ॥८
सवितुर्द्योतकत्वाच्च भक्तेष्टप्रभवे रता
चराचरप्रसविता सावित्री कमला स्मृता ॥९
वागीशत्वात् वचोदानात् कीर्तिता च सरस्वती
कान्तिरत्यादिदानाच्च भारतीत्यादिनामिका ॥१०
गुणपूर्णत्वयोगेन ब्रह्मा ब्रह्मवशे स्थिता
ब्रह्माण्डान्तर्बहिर्व्याप्ता स्थूला सूक्ष्मा च मध्यमा ॥११
कर्मणां गुरुरूपाणां सर्वेषां च नियामिका
यद्दयापाङ्गलेशेन त्वैहिकीः सर्वसम्पदः ॥१२
स्वर्विरक्तीशसद्भक्तिज्ञप्तिमुक्तीः व्रजन्ति हि
लोकातीता लोकपूज्या तवात्यन्तप्रिया मता ॥१३
सर्वशक्ता सर्वसुखा सर्वलक्षणसंयुता
अनेकगुणसम्पूर्णा पूर्णकामा च सर्वदा ॥१४
अप्रमेया प्रमेयाऽपि समस्तपुरुषार्थदा
सुमहैश्वर्यसौभाग्या तथाऽपि त्वाऽनुवर्तिनी ॥१५
स्मरति ध्यायति स्तौति नमत्यर्चति पश्यति
तपति त्वां जपति च सेवते त्वां प्रतीक्षते ॥१६
नित्यानपायिनी नव्रू सम्प्रार्थयति सर्वदा
किमुतान्येऽल्पजीवाश्च मादृशा वृत्तिवर्जिताः ॥१७
दरिद्रा बन्धुरहिता अनाथा जीवनार्थिनः
तेषा त्वत्प्रार्थनाकाङ्क्षा नाश्चर्यं भुवनत्रये ॥१८
श्रीवेङ्कटेश! मत्स्वामिन् ज्ञानानन्ददयानिधे!
शरणागतसन्त्राणकारणाभीष्टवार्षुक ॥१९
श्रीश! ते रूपकर्माणि ब्रह्मरुद्राहिपादिभिः
अगण्यानि ह्यवेद्यानि ह्यचिन्त्यान्यद्भुतानि च ॥२०
[[296297]]
श्रीमदादित्यपुराणे पञ्चमोऽध्यायः
एवं पूर्वे त्वन्महिम्नि नाहं शक्तोऽस्मि वर्णने
कश्चाहं का च मे शक्तिः किमिति स्तौमि मन्दधीः ॥२१
अलसोऽहमहङ्कारी चाज्ञो मूर्खः शठः खल्ः
ज्ञानभक्त्यादिहीनश्च कामक्रोधाधिपूरितः ॥२२
मनोजयविहीनश्च सदा विषयलम्पटः
पांसूनां वृष्टिबिन्दूनां मद्दोषाणां मितिर्न हि ॥२३
गुणास्त्वयि यथा पूर्णाः दोषाः पूर्णास्तथा मयि
अलसत्वादहङ्कारात् अज्ञानाल्लोभतो मया ॥२४
दम्भात् प्रमादाद्दाक्षिण्यात् स्वभावात् सङ्गतः कृतान्
असङ्ख्यानपराधान्मेऽगणयित्वा क्षमस्व माम् ॥२५
पिता माता गुरुर्भ्राता सखा बन्धुस्त्वमेव मे
विद्या सत्कर्म वित्तं च पुरः पृष्ठे च पार्श्वयोः ॥२६
मूर्ध्नि हृत्कमले येऽन्तः बहिर्जन्मनि जन्मनि
कुलस्वामीष्टदेवो नो वृतः पितृपितामहैः ॥२७
सर्वं त्वमेव लक्ष्मीश! न जाने त्वां विना परम्
दुःस्मृतिं हरदूरान्मे विस्मृतिं ते विलोपय ॥२८
त्वत्स्मृतिं सम्प्रदेह्यद्धा त्वत्समो नास्ति मे प्रियः
त्वन्मनास्त्वद्गतप्राणः त्वत्पदाम्बुजसंश्रितः ॥२९
तव भक्तोऽस्मि दासोऽस्मि शिष्यः पुत्रोऽस्मि केवलम्
भृत्यस्त्वमेव विश्वस्य स्मरामि त्वामहर्निशम् ॥३०
श्रीहरिर्मम हृत्पद्मकर्णिकास्थोऽतिसुन्दरः
पद्मासनसमासीनः इन्द्रनीलसमद्युतिः ॥३१
कञ्जकोमलपादाधः कुङ्कुमाधिकवर्णवान्
वज्राङ्कुशध्वजाब्जाङ्कपादाब्जनखरत्नवान् ॥३२
क्वणन्नूपुरसन्नादवलयाढ्यपदाम्बुजः
अतसीपुष्पसङ्काशतेजःपुञ्जोरुरञ्जितः ॥३३
नितम्बपीतवसनः स्वर्णकाञ्च्यञ्चितोऽच्युतः
विरिञ्च्याधारसौवर्णगम्भीराब्जाभनाभिकः ॥३४
ब्रह्माण्डगूहकमृदुश्लक्ष्णरेखात्रयोदरः
धर्मस्तनोऽधर्मपृष्ठः श्लक्ष्णसूक्ष्मतनूरुहः ॥३५
श्रीवत्साङ्कः कौस्तुभाढ्यो वैजयन्तीहृदम्बुजः
उन्नतांसाऽजानुलम्बबाह्वभीतिवरप्रदः ॥३६
कुङ्कुमाभकरन्यस्तशङ्खचक्रसुलक्षणः
किङ्किणीकङ्कणलसद्वलयाङ्गदभूषितः ॥३७
कम्बुग्रीवः सुबिम्बोष्ठः कुन्दकुट्मलदंष्ट्रवान्
आदर्शवद्दृश्यसूक्ष्मगण्डयुग्मसुमण्डितः ॥३८
सुनासोऽनिमिषः सुभ्रूः करुणापूर्णलोचनः
शरत्पूर्णेन्दुवदनः नतनीलसुकुन्तलः ॥३९
अतुल्यतिलकोपेतो रत्नकुण्डलमण्डितः
स्फुरद्रत्नकिरीटश्च सर्वलक्षणसंयुतः ॥४०
[[298299]]
श्रीमदादित्यपुराणे पञ्चमोऽध्यायः
जगद्विलक्षणः श्रीमान् मद्बिम्बो नित्यचित्सुखः
सूर्यकोटिप्रतीकाशः चन्द्रकोटिसुशीतलः ॥४१
अनन्तवेदैर्ब्रह्माद्यैः अवेद्योऽप्राकृतो हरिः
श्रीधराभ्यां समाश्लिष्टो ब्रह्मरुद्रेन्द्रसेवितः ॥४२
पूर्णानन्दज्ञानदयामूर्तिः परममङ्गलः
मङ्गलाङ्गो मङ्गलाङ्को भक्तमङ्गलदायकः ॥४३
करुणामृतपूर्णाभ्यां मां नेत्राभ्यां समीक्षते
का चिन्ता मे! इहामुत्र सर्वारिष्टं हरत्यसौ ॥४४
तत्पदाम्बुजविश्वासे सर्वाभीष्टं ददाति हि
इति स्मरन्नहोरात्रं तं त्वाहं शरणं गतः ॥४५
भोः स्वामिन्! पूर्णकामस्त्वं सम्पूर्णैश्वर्यवानपि
स्वप्रयोजनहीनोऽपि मायया बहुरूपवान् ॥४६
लोकोपकरणायैव त्वितरासाध्यकृत्यवान्
बह्वद्रीनुद्धरन् सेतुं अनायासादकल्पयः ॥४७
क्षणेनोत्पादितं चापि स्थूलब्रह्माण्डमद्भुतम्
वहसि त्वमुपायेन बहुसूक्ष्ममृदूदरे ॥४८
एवं महाभारवहस्य विश्वकुटुम्बिनः करुणापूर्णसिन्धोः
मम त्वदीयस्य सुसूक्ष्मलेशलवाल्पकस्योद्धरणं हि यत्ते! ॥४९
श्रीवेङ्कटेश! मत्स्वामिन् ज्ञानानन्ददयानिधे !
दुःखसागरमग्नं मां स्वीयं नोद्धरसे कुतः? ॥५०
श्रीनिवास! कृपापूर्ण! भक्तपोषणदीक्षित!
संसारारण्यपतितं दयया नेक्षसे कुतः? ॥५१
भक्तबन्धो! दयासिन्धो! त्वत्पादाब्जे नमाम्यहम्
सूक्तासूक्तमिदं सर्वं अपराधं क्षमस्व मे ॥५२
वरं वरं च वरये भक्तिं त्वत्पादयोः स्मृतिम्
सदा नानार्थविज्ञानं देहीहामुत्र सौख्यदम् ॥५३
श्रीस्वामितीर्थदुग्धाब्धौ श्वेतद्वीपे सुमण्डपे
श्रीभूभ्यां विहरन् विष्णो! मुक्तिं भक्ताय देहि मे’ ॥५४
भरद्वाजः -
इति स्तुत्वा वेङ्कटेशं रमेशं
तूष्णीम्भूतो देवशर्मा सुभक्तः ।
भक्तेभ्योऽभीष्टार्थवर्षप्रबुद्धं
साष्टाङ्गस्तं प्राणमत् स्वेष्टदेवम् ॥५५
अथ स्तोत्रेण सन्तुष्टः श्रीनिवासः सतां गतिः
मेघगम्भीरया वाचा वरदानमथाब्रवीत् ॥५६
श्रीभगवान् -
’प्रीतोऽहं ते द्विजश्रेष्ठ! मदुपासनकर्मणा
यन्महैश्वर्यसंसिद्धिकारणं स्तोत्रमुत्तमम् ॥५७
कृतवानसि तस्मात् त्वं भैषीर्माऽत्र परत्र च
मद्भक्तवायुशिष्यस्य गुरुपादावलम्बिनः ॥५८
विपन्नाशः सम्पदाप्तिः भूयात् ते मदनुग्रहात्
मम भक्तस्य ते गेहे स्वर्णवृष्टिर्दिने दिने ॥५९
अयुतायुश्च ते दत्तं पुत्रपौत्रास्तथाऽऽयुषः
शतपूरुषपर्यन्तं भुक्त्वा भोगाननेकशः
ततो मत्पदमाप्नोषी’ त्युक्त्वाऽदृश्यो बभूव ह ॥६०
[[300301]]
श्रीमदादित्यपुराणे पञ्चमोऽध्यायः
श्रीसूतः -
भोः शौनकाद्या मुनयः! निःसङ्गाश्च तपस्विनः
भक्तवश्यो वेङ्कटेशः प्रसन्नो भवति ध्रुवम् ॥६१
यूयं गत्वा वेङ्कटेशं रमेशं
नत्वा स्तुत्वा वेदवेद्यं सुभक्त्या ।
भक्तेभ्योऽभीष्ठार्थवर्षप्रबुद्धं
सम्प्रीणीध्वं तेन वोऽभीष्टसिद्धिः ॥६२
श्रीवेङ्कटेशस्य कथाऽमृतं त्विदं
माहात्म्यसारं सुतपस्विमृग्यम् ।
श्रीवेङ्कटेशस्य महाप्रियप्रियं
लोकोत्तरं देवऋषिप्रियं च ॥६३
समस्तपापौघविनाशकारणं समस्तपुण्यौघसमृद्धिकारणम्
श्रीवेङ्कटेशस्य पदारविन्दं सद्भक्तिवृद्धेरसमानकारणम् ॥६४
वक्तुः श्रोतुः पाठकस्य पारायणपरस्य च
परात्परो वेङ्कटेशः प्रसन्नो भवति क्षणात् ॥६५
स्तोत्रेणानेन सन्तुष्टो वेङ्कटेशो रमापतिः
यान् यान् कामान् कामयन्ते तांस्तान् मुक्तिं ददाति च ॥
इति श्रीमदादित्यपुराणे श्रीवेङ्कटाचलमाहात्म्ये
श्रीवेङ्कटेशस्य सकलाभीष्टप्रदानमहिमानुवर्णनं नाम
पञ्चमोऽध्यायः
—–ठ्—–