१४ स्कान्दपुराणम् ४

[[254]]
श्रीस्कान्दपुराणे (तृतीयभागे) दशमोऽध्यायः
[[255]]

श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रीमते विष्वक्सेनाय नमः
श्रीवेङ्कटाचलमाहात्म्यम्
(श्रीस्कान्दपुराणान्तर्गतम्)
चतुर्थो भागः
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
हरिः ओम्।
—–ठ्—–

प्रथमोऽध्यायः

अथ प्रथमोऽध्यायः
—–ठ्—–
पुत्रार्थमञ्जनाकृततपःप्रकारः
श्रीसूतः -
पुत्रहीनाऽञ्जना पूर्वं दुःखिता तपसि स्थिता
तां दृष्ट्वा मुनिशार्दूलो मतङ्गो विष्णुतत्परः
अञ्जनाख्यामुवाचेदं अत्युग्रे तपसि स्थिताम् ॥१
मतङ्गः -
’समुत्तिष्ठाञ्जने! देवि! किमर्थं तपसि स्थिता
वद देवि! महाभागे! कार्यं तव वरानने!’ ॥२
आञ्जनाः -
’मतङ्ग! मुनिशार्दूल! वचनं मे शृणुष्व ह
पिता मे केसरी नाम राक्षसः शिवतत्परः ॥३
शैवं घोरं तपश्चक्रे पुत्रार्थं तु सुदुष्करम्
पार्वतीसहितः शम्भुः वृषभोपरि संस्थितः
प्रादुरासीत्तदा देवो ददौ तस्मै वरं शुभम् ॥४
’शृणु राजन्! प्रवक्ष्यामि विधिना निर्मितं तव
अस्मिन् जन्मन्यपुत्रत्वं तथाऽप्यन्यद्ददामि ते ॥५
विश्रुता सर्वलोकेषु पुत्री तव भविष्यति
तस्याः पुत्रो महाबुद्धिः तव प्रीतिं करिष्यति’ ॥६
इति तस्मै वरं दत्त्वा तत्रैवान्तर्दधे हरः
मां लब्ध्वा मत्पिता विप्र! कृतकृत्यो बभूव ह ॥७
ततः कालान्तरे विप्रः केसर्याख्यो महाकपिः
ययाचे मां ददस्वेति पितरं मे ततः पिता ॥८
तस्मै मां दत्तवांश्चैव पारिबरछं ददौ च सः
गवां लक्षसहस्राणि गजलक्षं महात्मनः ॥९
वाजिनामर्बुदं चैव रधानामर्बुदं तथा
वस्त्ररत्नान्यनेकानि दासदासीसहस्रकम् ॥१०
अन्तःपुरचरीर्नारीः नृत्यगीतविशारदाः
ददौ वासःसहस्रं च मया साकं महामते! ॥११
पत्या मे रममाणाया भूयान् कालो गतो मुने!
अपुत्रा दुःखिता विप्र! व्रतानि विविधानि च ॥१२
[[257]]
श्रीस्कान्दपुराणे (चतुर्थभागे) प्रथमोऽध्यायः

कृतानि च मया तत्र किष्किन्धायां महापुरि
माघे मासि च विप्रेन्द्र! वैशाखे कार्तिके तथा ॥१३
स्नानदानव्रतादीनि चातुर्मास्यव्रतं तथा
नमस्कारं तथा विप्र! प्रदक्षिणमनुत्तमम् ॥१४
सालग्रमान्नदानानि दीपदानं तथैव च
गोदानं तिलदानं च वस्त्रदानं महामुने! ॥१५
भूदानं वारिदानं च दत्त्वा पुष्पादिकं मुने ।
यानि यानि च मुख्यानि वैष्णवानि व्रतानि च ॥१६
मया कृतानि सर्वाणि सत्पुत्रफलकाङ्क्षया
श्रवणादिषु यत्रोक्तं व्रतं विप्रैर्महात्मभिः ॥१७
मया कृतं च विप्रेन्द्र! तुष्ट्यर्थं मधुविद्विषः
यानि यानि च मुख्यानि फलानि विविधानि च ॥१८
मया दत्तानि सर्वाणि सत्पुत्रफलकाङ्क्षया
मया कृतान्यसङ्ख्यानि व्रतानि विविधानि च ॥१९
पुत्रं तथाऽप्यलब्ध्वाहं दुःखिता तपसि स्थिता
भविष्यति कथं विप्र! पुत्रस्त्रैलोक्यविश्रुतः ॥२०
ययाचेऽहं मुनिश्रेष्ठ! प्रणता च तवाग्रतः
वद त्वं मुनिशार्दूल! दीनाऽहं तपसि स्थिता’ ॥२१
श्रीसूतः -
एवं वदन्तीं तां प्राह मतङ्गो मुनिसत्तमः
’शृणु मद्वचनं देवि! पुत्रपौत्रप्रदायकम् ॥२२
इतो दक्षिणदिग्भागे दशयोजनदूरतः
घनाचल इति ख्यातो नृसिंहस्य निवासभूः ॥२३
तस्योपरि महाभागे! ब्रह्मतीर्थं मनोहरम्
तस्यापि पूर्वदिग्भागे दशयोजनमात्रतः ॥२४
सुवर्णमुखरी नाम नदीनां प्रवरा नदी
तस्या एवोत्तरे भागे वृषभाचलनामतः ॥२५
तस्याग्रे सरसी नाम्ना स्वामिपुष्करिणी शुभा
गत्वा दृष्ट्वा शुभं तोयं मनःशुद्धिं गमिष्यसि ॥२६
तत्र स्नात्वा विधानेन वराहं तं प्रणम्य च
वेङ्कटेशं नमस्कृत्य ततो गच्छ वरानने! ॥२७
उत्तरे स्वामितीर्थस्य सिंहशार्दूलसंयुते
चूतपुन्नागपनसैः बहुलामलकैः शुभैः ॥२८
चन्दनागुरुनिम्बैश्च तालहिन्तालकिंशुकैः
कपित्थाश्वत्थबिल्वैश्च इङ्गुदैश्च वरानने ॥२९
एतादृशैर्महापुण्यैः वृक्षैश्च विविधैः शुभैः
वियद्गङ्गेति विख्यातं तीर्थमेकं विराजते ॥३०
तस्मिंस्तीर्थेऽञ्जने देवि! तपः कुरु वरानने!
स्नात्वा पीत्वा शुभं तीर्थं तीर्थस्याभिमुखी स्थिता ॥३१
वायुमुद्दिश्य हे देवि! तपः कुरु वरानने
देवेश्च राक्षसैर्विप्रैः मनुजैर्मुनिसत्तमैः ॥३२
[[258259]]
श्रीस्कान्दपुराणे (चतुर्थभागे) प्रथमोऽध्यायः

भृङ्गैः पक्षिभिरस्त्रैश्च शस्त्रैश्च विविधैः शुभैः
अवध्यो भविता पुत्रः तपसा ते न संशयः ॥३३
इति प्रोक्ताऽञ्जना देवी तं प्रणम्य पुनः पुनः!
भर्त्रा साकं ययावाशु वेङ्कटाचलसञ्ज्ञकम् ॥३४
कापिलं तीर्थमासाद्य स्नात्वा निर्मलमानसा
वेङ्कटाद्रिं समारुह्य स्वामिपुष्करिणीं ययौ ॥३५
स्नात्वा वराहमानम्य वेङ्कटेशकृताऽनतिः
मतङ्गस्य ऋषेर्वाक्यं स्मरन्ती च मुहुर्मुहु ॥३६
वियद्गङ्गां ययावाशु चाञ्जना मञ्जुभाषिणी
स्नात्वा पीत्वा शुभं तोयं तीरे तस्य तदुन्मुखी ॥३७
प्राणवायुं समुद्दिश्य तपश्चक्रे यतव्रता
फलाहारा जलाहारा निराहारा ततः परम् ॥३८
सहस्राब्दं तपश्चक्रे न्यस्तनासाग्रदृष्टिका
वयस्या विपुला नाम शुश्रूषामकरोच्छुभा ॥३९
वर्षाणां च सहस्रान्ते वायुर्देवो महामतिः
प्रादुरासीत्तदा तां वै भाषमाणो महामतिः ॥४०
’मेषसङ्क्रमणं भानौ सम्प्राप्ते मुनिसत्तमाः!
पूर्णिमाख्ये तिथौ पुण्ये चित्रानक्षत्रसंयुते ॥४१
तवेप्सितमहं दास्ये वरं वरय सुव्रते;’
इति तद्वचनं श्रुत्वा मातरिश्वाऽब्रवीत्ततः ॥४२
’पुत्रं देहि महाभाग! वायो! देव! महामते
तस्यास्तद्वचनं श्रुत्वा मातरिश्वाऽब्रवीत्ततः ॥४३
’पुत्रस्तेहं भविष्यामि ख्यातिं दास्ये शुभानने’
इति तस्यै वरं दत्त्वा तत्रैवास्त महाबलः ॥४४
तदा ब्रह्मादयो देवा इन्द्राद्या लोकपालकाः
वसिष्ठाद्वा महात्मानः सनकाद्याश्च योगिनः ॥४५
व्यासादयश्च विप्रेन्द्रा लक्ष्म्या साकं जगत्पतिः
मुनिपत्न्यो देवपत्न्यः ऋषिपत्न्यस्तथैव च ॥४६
स्वं स्वं वाहनमारुह्य दारभृत्यसुतादिभिः
आगतास्ते महात्मानो द्रष्टुं तां तपसि स्थिताम् ॥४७
आश्चर्यमाश्चर्यमिति ब्रुवाणा ब्रह्मादयो देवगणाश्च सर्वे
आलोकयन्तो दिवि दूरतस्ते स्थिताः सदा ब्रह्ममहेशमुख्याः॥
इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये (चतुर्थभागे)
अञ्जनातपःकरणप्रकारादिवर्णनं नाम
प्रथमोऽध्यायः
—–ठ्—–
[[260261]]
श्रीस्कान्दपुराणे (चतुर्थभागे) प्रथमोऽध्यायः

द्वितीयोऽध्यायः

अथ द्वितीयोऽध्यायः
—–ठ्—–
व्यासप्रोक्ताकाशगङ्गास्नानकालनिर्णयः
श्रीसूतः -
अञ्जनाऽपि वरं लब्ध्वा भर्त्रा साकं मुमोद ह
ब्रह्मादीनागतान् दृष्ट्वा विस्मयाऽविष्टमानसा ॥१
पत्या साकं ततः स्वस्था चाञ्जना मञ्जुभाषिणी
ब्रह्मादिभिरनुज्ञातो व्यासो वेदविदां वरः
अञ्जनां तामुवाचेदं मेघगम्भीरया गिरा ॥२
व्यास -
’अञ्जने! शृणु मद्वाक्यं सर्वलोकोपकारकम्
मतङ्गस्य ऋषेर्वाक्यं श्रुत्वा निर्मलचेतसा ॥३
यस्मात्तु वेङ्कटं गत्वा तपः कृत्वा सुदुष्करम्
प्रसूयते त्वया पुत्रः शूरस्रैलोक्यविक्रमः ॥४
इदं तीर्थोत्तरं तस्मात् प्रत्यक्षदिवसे तव
स्नानार्थं ये समायान्ति चित्राऋक्षसमन्विते ॥५
मेषे पूषणि सम्प्राप्ते पूर्णिमायां शुभे दिने
शृणु तेषां फलं देवि! वक्ष्यामि तव सुव्रते! ॥६
गङ्गादिसर्वतीर्थेषु द्वादशाब्दं वरानने!
यत्फलं विद्यते देवि! तत्फलं भवति ध्रुवम् ॥७
दानानि कुर्वतां पुंसां तेषां श्रुणु फलोन्नतिम्
स्थाने तूक्तं फलं देवि! विद्धि तेषां वरानने!’ ॥८
आञ्जना -
’कार्याणि यानि दानानि वेङ्कटाद्रौ नगोत्तमे
तानि सर्वाणि विप्रेन्द्र! वद वेदविदां वर!’ ॥९
व्यासप्रोक्तश्रीवेङ्कटाचलकरणीयदानप्रशंसा
व्यास -
’अन्नदानं वस्त्रदानं द्वयमेतत्प्रशस्यते
पितुः श्राद्धं विशेषेण वेङ्कटाद्रौ नगोत्तमे ॥१०
सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः
सर्वलोकं समासाद्य मोदन्ते मुनिसत्तमाः ॥११
सालग्रामशिलादानं यः करोति नगोत्तमे
आङ्गभङ्गमवाप्नोति स्वानुभूतिं च विन्दति ॥१२
यो ददाति द्विजेन्द्राय गोदानं च कुटुम्बिने
रोमसङ्ख्याप्रमाणेन विष्णुलोके विराजते ॥१३
भूमिं ददाति यो देवि! ब्राह्मणाय कुटुम्बिने
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥१४
कन्यां ददाति यो देवि! श्रोत्रियाय द्विजातये
विष्णुलोकं समासाद्य मोदते पितृभिः सह ॥१५
प्रपां कुर्वन्ति ये देवि! शीतलोदकसंयुताम्
तेषां पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥१६
तिलं ददाति विप्राय श्रोत्रियाय कुटुम्बिने
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥१७
[[262263]]
श्रीस्कान्दपुराणे (चतुर्थभागे) द्वितीयोऽध्यायः

धान्यदानं प्रशंसन्ति विप्रा वेदविदां वराः
बहुपुत्रा भविष्यन्ति धान्यदानं प्रकुर्वताम् ॥१८
गन्धचम्पकपुष्पादीन् छत्रव्यजनचामरान्
ताम्बूलघनसारादीन् यो ददाति द्विजातये ॥१९
भुक्त्वा भोगं चिरं कालं स्वर्गलोकं ततो व्रजेत्
दिव्यवर्षसहस्रं च भुक्त्वा भोगाननेकशः ॥२०
सार्वभौमस्ततो भूत्वा तत्र भुक्त्वा चिरं महीम्
ततो विप्रत्वमासाद्य वेदवेदान्तपारगः ॥२१
ततो मुक्तिं समायाति प्रसादाच्चक्रपाणिनः
इत्येतत्कथितं देवि! वेङ्कटाचलवैभवम् ॥२२
य एतच्छुृणुयान्नित्यं यश्चापि परिकीर्तयेत्
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति’ ॥२३
इत्येतत्कथितं पूर्वं व्यासेनैव महात्मना
शृणुयाद्वा पठेद्वाऽपि कृतकृत्यो भविष्यति
तस्यैव वंशजाः सर्वे मुक्तिं यान्ति न संशयः ॥२४
इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये (चतुर्थभागे)
आकाशगङ्गास्नानकालनिर्णयादिवर्णनं नाम
द्वितीयोऽध्यायः
॥ हरिः ॐ! ॐ तत्सत् ॥
—–ठ्—–