१३ स्कान्दपुराणम् ३

श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रीमते विष्वक्सेनाय समः

(श्रीस्कान्दपुराणान्तर्गतम्)
—–ठ्—–
तृतीयो भागः

प्रथमोऽध्यायः

हरिः ओम्
अर्जुनतीर्थयात्राक्रमः
ओम्॥ पावने नैमिशारण्ये शौनकाद्या महर्षयः
चक्रिरे लोकरक्षार्थं सत्रं द्वादशवार्षिकम् ॥१
तानभ्यगच्छत् कथको व्यासशिष्यो महामतिः
मुनिरुग्रश्रवा नाम रोमहर्षणसम्भवः ॥२
सम्यगभ्यर्चितस्तेषां सूतः पौराणिकोत्तमः
कथयामास तद्दिव्यं पुराणं स्कान्दनामकम् ॥३
सृष्टिसंहारवंशानां वंशानुचरितस्य च
कथां मन्वन्तराणां च विस्तरात् स न्यवेदयत् ॥४
तथा तीर्थप्रभावांस्तु श्रुत्वा ते मुनिपुङ्गवाः
ऊचिरे वचनं सूतं कथाश्रवणकाङ्क्षया ॥५
ऋषयः-
तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया
नदीनां पर्वतानां च क्षेत्राणां सरसामपि ॥६
[[188]]

निदेशात्पद्मगर्भस्य सुवर्णमुखरी नदी
नीता भुवमगस्त्येन व्याख्याता भवताऽनघ ! ॥७
तदुत्पत्तिप्रभावं च तीर्थौघांस्तत्समाश्रयान्
श्रोतुं सम्प्रीतिरुत्पन्ना तन्नो वक्तुं त्वमरछसि ॥८
प्रणम्य शम्भुं नन्दीशं षडास्यं व्यासमेव च
मुनिभिः प्रार्थितः सूतः तदा वक्तुं प्रचक्रमे ॥९
श्रीसूतः-
साधु पृष्टं महाभागाः ! भवद्भिर्मङ्गलावहम्
आख्यानमेतदाम्नायश्रवणोद्भूतसिद्धिदम् ॥१०
श्रुणुतावहिता दिव्यां कथां कल्मषनाशिनीम्
भरद्वाजेन कथितां पार्थाय कथयामि वः ॥११
अवाप्य द्रुपदात् प्राज्ञात् याज्ञसेनीं पृथासुताः
धृतराष्ट्रनिदेशेन जग्मुः करिपुरं शुभम् ॥१२
भीष्मेण चाम्बिकेयेन तत्र सम्मानितास्तदा
दुर्योधनादिभिः सार्धं न्यवसन् पञ्च वत्सरान् ॥१३
ततोऽनुशिष्टो भीष्माद्यैः धृतराष्ट्रो महायशाः
सर्वेषां कुलवृद्धानां वासुदेवस्य चाग्रतः ॥१४
प्रददौ पाण्डुपुत्रेभ्यः तत्सेवाहृष्टमानसः
सार्धराज्यं पुरवरं खाण्डवप्रस्थसञ्ज्ञिकम् ॥१५
आमन्त्र्य पाण्डुतनयाः धृतराष्ट्रादिकान् कुरून्
जग्मुस्तत्खाण्डवप्रस्थं पुरं कृष्णसमन्विताः ॥१६
इन्द्रप्रस्थाह्वये तत्र रचिते विश्वकर्मणा
वसन् पुरेऽशिषत् पृथ्वीं सानुजो धर्मनन्दनः ॥१७
गते कृष्णे निजपुरं नारदस्यानुशानसनात्
प्रतिज्ञां चक्रिरे पार्थाः धर्मज्ञा द्रौपदीं प्रति ॥१८
अर्जुनतीर्थयात्रोपोद्घातः
यथाक्रमेण सा कृष्णा वर्षमेकैकमादरात्
एकैकस्य गृहे तिष्ठेत् प्रतिनिर्णयपूर्वकम् ॥१९
यः पश्येत्तां परगृहे स्थितां पाञ्चालनन्दिनीम्
तेनैकहायनमितं विधेयं तीर्थसेवनम् ॥२०
एवं कृतप्रतिज्ञास्ते पाण्डुभूपालनन्दनाः
व्यापारैर्लोकसामान्यैः निन्युः कालमतन्द्रिताः ॥२१
अथ जानपदो विप्रो राजगेहाङ्गणे स्थितः
चुक्रोश बहुधा ’धेनुः हृता मे तस्करै’रिति ॥२२
समाश्वास्य च तं विप्रं प्रविवेश धनञ्जयः
आयुधानि समानेतुं त्वरया शस्त्रमन्दिरम् ॥२३
तत्रापश्यत् समासीनौ पाञ्चालीधर्मनन्दनौ
जानन्नपि प्रतिज्ञां सः धनुर्जग्राह सेषुधि ॥२४
स गत्वा तस्करानाजौ निहत्य नृपनन्दनः
निवर्त्य धेनुं तां तस्मै ददौ विप्राय सादरम् ॥२५
अथ विज्ञापयामास फाल्गुणो धर्मनन्दनम्
’तीर्थयात्रा मया कार्या समयोल्लङ्घना’दिति ॥२६
[[190191]]
श्रीस्कान्दपुराणे तृतीयभागे प्रथमोऽध्यायः

अनुजस्य वचः श्रुत्वा सर्वधर्मविदां वरः
उवाच वचनं धीरः सादरं धर्मनन्दनः ॥२७
युधिष्ठिरः-
’गवार्थं ब्राह्मणार्थं च यद्वदेदनृतं वचः
यदा चरेदसत्कर्म तत्सत्यं तत्समञ्जसम् ॥२८
ब्राह्मणार्थं गवार्थं च त्वया कर्मेदृशं कृतम्
तदसद्भावमाप्नोति कथं कथय सुव्रत ? ॥२९
प्रजापालनकृत्यस्य चोरोपेक्षणशिक्षणैः
नूनं फलं भवेद्राज्ञो ब्रह्महत्याश्वमेधजम् ॥३०
असाध्यान् वैरिणो ज्ञात्वाऽप्यवनीशो न भद्रभाक्
स्वदेशोपप्लवकराः तस्करा यद्यशिक्षिताः ॥३१
अस्माकं भूभुजां लोकजालस्य च हितं हि यत्
त्वयेदृशं कृतं कर्म नास्ति दोषो ह्यतस्तव ॥३२
श्रीसूतः-
धर्मपुत्रस्य वचनं आकर्ण्य रचिताञ्जलिः
पुनर्विज्ञापयामास धर्मनित्यो धनञ्जयः ॥३३
अर्जुनः-
’मैवं भूपाल ! वादीस्त्वं स्वप्रतिज्ञातिलङ्घनम्
जानता धर्मसर्वस्वं उल्लसद्धर्ममूर्तिना ॥३४
कृत्याकृत्यविदा दक्षेणाऽऽत्मना प्राक् समीरिता
नोल्लङ्घनीया सततं प्रतिज्ञा पुरुषेण हि ॥३५
अशक्तानां गतिः सेयं यद्बन्धुगुरुवाक्यतः
धर्मं त्यजन्ति समयं त्यक्त्वा प्राक् स्वं समीरितम् ॥३६
कृपया तीर्थगमनात् आर्यो यदि निवर्तयेत्
हतप्रतिज्ञं मां लोकान् जल्पतः को निवारयेत् ॥३७
ममापि तीर्थयात्रायां कौतुकोत्तरलं मनः
कर्तव्यं च स्मृतं राजन् ! नारदादिष्टशासनम् ॥३८
तत्प्रसीद महाराज ! यत्तीर्थगमनोद्यमे
सम्माननीयः प्रभुभिः स मया ह्यनुजीविनाम्’ ॥३९
’तथे’ति भ्रातृभिः सार्धं कृतानुमतिरर्जुनः
अग्रजं तोषयामास प्रणामप्रश्रयादिभिः ॥४०
यथारछं भीमसेनादीन् भ्रातॄनामन्त्र्य पाण्डवः
कृतस्वस्त्ययनो भव्यैः निर्ययौ धरणीसुरैः ॥४१
पौराणिका ज्यौतिषिकाः भिषजो धरणीसुराः
अनुजग्मुर्भृत्यगणाः शिल्पिनः सूतमागधाः ॥४२
युधिष्ठिराज्ञया तस्य भोगत्यागक्षमं धनम्
गृहीत्वाऽनुययुः स्निग्धाः सभ्याः कोशाधिकारिणः ॥४३
अर्जुनस्य गङ्गादितीर्थावगाहनपूर्वकं सुवर्णमुखर्यागमनम्
स राजपुत्रः प्रथमं प्राप्य भागीरथीं नदीम्
गङ्गाद्वारं प्रयागं च सिषेवे काशिकामपि ॥४४
पश्यंस्तीर्थानि जाह्नव्याः तत्तीरोपान्तवर्त्मना
आससाद समुत्तुङ्गकल्लोलं दक्षिणोदधिम् ॥४५
[[192193]]
श्रीस्कान्दपुराणेे तृतीयभागे प्रथमोऽध्यायः

महानदीं महापुण्यां प्रसिद्धं पुरुषोत्तमम्
सिंहाचलं च संवीक्ष्य प्राप्तवान् कृतकृत्यताम् ॥४६
ततो ददर्श कौन्तेयः पुण्यां गोदावरीं नदीम्
समस्तदुरितव्रातशातनोत्तीर्णगौरवाम् ॥४७
कृताभिषेकस्तत्तोयैः विधिवत् पाण्डुनन्दनः
प्रमोदं विविधैर्दानैः अकरोद्भूसुवर्णकैः ॥४८
नदीं मलापहाख्यां च दृष्ट्वा मोदं ययौ शुभम्
ततः समाससादासौ कृष्णवेणीं सरिद्वराम् ॥४९
शिवस्य नियतावासं चतुर्द्वारसमन्वितम्
नानातीर्थगणाकीर्णं श्रीपर्वतमवैक्षत ॥५०
नदीं पिनाकिनीं तीर्त्वा गत्वा देवर्षिसेवितम्
नारायणप्रियावासं अपश्यद्वेङ्कटाचलम् ॥५१
शृङ्गेऽस्य भूभृतस्तुङ्गे स्थितं लोकैकनायकम्
अपूजयद्धरिं भक्त्या प्रसिद्धं शुभसिद्धये ॥५२
अवरुह्य वेङ्कटमहाद्रिशृङ्गतः
स ददर्श सिद्धमुनिसङ्घसेविताम् ।
कलशोद्भवेन मुनिना समाहृतां
तटीनीं सुवर्णमुखरीसमाह्वयाम् ॥५३
इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये तृतीय
भागे सुवर्णमुखरीमाहात्म्ये अर्जुनतीर्थयात्रागमनं
नाम प्रथमोऽध्यायः
—–ठ्—–

द्वितीयोऽध्यायः

अथ द्वितीयोऽध्यायः
—–ठ्—–
सुवर्णमुखरीवर्णनम्
तथा सर्वाणि तीर्थानि समालोक्यागतस्य च
मुदं प्रगुणयाञ्चक्रे सा पार्थस्य महापगा ॥१
यस्यास्तटनिकुञ्जेघ मोदन्ते वनितासखाः
सिद्धाः संसेविता वातैः शीकरासारशीतलैः ॥२
या समुद्यतहस्तेव गङ्गामाकाशवाहिनीम्
आलिङ्गितुं समुत्तुङ्गैः कल्लोलै रभ्रसङ्गिभिः ॥३
धूमैराहुतिसम्भूतैः तरुशाखोपलम्बिभिः
वल्कलैश्च विराजन्ते यत्तटाश्रमभूमयः ॥४
मुनीन्द्रैः सुरवर्यैश्च स्थापितानि समन्ततः
यत्तटद्वितये भान्ति दिव्यलिङ्गानि शूलिनः ॥५
यदीयसैकतावासविश्रान्ता मानसं सरः
न स्मरन्ति निजावासं मराला विहगोत्तमाः ॥६
शमितावग्रहातङ्कैः कुल्यामुखविनिर्गतैः
पुष्णाति तोयैः सस्यानि लोकरक्षाक्षमाणि या ॥७
चक्रवाककुचोत्तुङ्गवीचिवल्लीविभूषिता
आवर्तनाभिविलसत्सैकतश्रोणिमण्डला ॥८
प्रफुल्लपद्मवदना चलन्मीनयुगेक्षणा
विलसत्फेनवसना हंसयानमनोहरा ॥९
[[194195]]
श्रीस्कान्दपुराणे तृतीयभागे द्वितीयोऽध्यायः

जलपक्षिरवालापा नयनानन्दकारिणी
अपूर्वकामिनीरूपा या विभात्यम्बुधिप्रिया ॥१०
रोधस्यन्तरवाहिन्याः नद्याः प्राच्यां धनञ्जयः
ददर्श शैलमुत्तुङ्गं कालहस्तिसमाह्वयम् ॥११
उदग्रशिखराभोगोल्लिखिताकाशमण्डलम्
सप्तपातालमूलाधोरूढमूलोपलाञ्चितम् ॥१२
अर्जुनस्य स्वर्णमुखरीतीरस्थकालहस्तीश्वरादि सेवाप्राप्तिः
स्नात्वा तस्यां महानद्यां तस्मिन् शैले सुरार्चितम्
अपश्यदर्जुनो देवं कालहस्तीशनामकम् ॥१३
सम्पूज्य च महादेवं नागेन्द्रतनयासखम्
मनसा भक्तियुक्तेन कृतार्थत्वमुपेयिवान् ॥१४
ततो महागिरौ तस्मिन् अद्भुतैकनिकेतने
चचाराभूतपूर्वाणां विशेषाणां दिदृक्षया ॥१५
सिद्धानालोकयामास वसतो गिरिसानुषु
गायतो देवदेवस्य चरित्राण्यबलायुतान् ॥१६
अप्सरोललनाजुष्टान् पुष्पासवमदाकुलान्
निकुञ्जेषु समासीनान् गन्धर्वानैक्षतादरात् ॥१७
विविक्तेषु प्रदेशेषु शिवध्यानपरायणान्
अपश्यद्योगिनो दिव्यान् आदरानन्दशालिनः ॥१८
प्रशान्तान्याश्रमपदान्यवैक्षत समन्ततः
बलिनीवारविलस द्द्वारभूमीश्च पाण्डवः ॥१९
निराहारान् वायुभुजः पर्णादानातपाशनान्
शान्तानालोकयामास मुनीन्नियमितेन्द्रियान् ॥२०
मुदं वितेनिरे तस्य नेत्रयोः कमलाकराः
फुल्लसौगन्धिकामोदसंवासितदिगन्तराः
मृगयासम्भृतधियः चरतोऽधिज्यकार्मुकान् ॥२१
अर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम्
ददर्शान्वेषितमृगान् किरातान् वनितायुतान्
ततो दक्षिणदिग्भागे चरन्नद्रेर्मनोहरे ॥२२
पुण्यमाश्रममद्राक्षीत् भरद्वाजस्य कौरवः
कदलीनारिकेलाव्रुकोलचम्पकचन्दनैः ॥२३
तक्कोलाशोकहिन्तालतालकेतकिदाडिमैः
जम्बूकदम्बकतकखदिरार्जुनपाटलैः ॥२४
नागपुन्नागसरलदेवदारुकरञ्जकैः
लवङ्गलुङ्गलवलीप्रियङ्गुतिलकैरपि ॥२५
विभीतश्रीफलाश्वत्थमधूकप्लक्षकेसरैः
पूगजम्बीरनारङ्गनिम्बामलककौशिकैः ॥२६
अन्यैश्च फलपुष्पाढ्यैः शोभितं धरणीरुहैः
वासन्ती कुन्दजात्यादिलताभिः परिवेष्टितम् ॥२७
अपूर्वसौरभाकृष्टभ्रमरीभिः समन्ततः
चक्रवाकबकक्रौञ्चहंसकारण्डवाश्रयैः ॥२८
सौगन्धिकोत्पलाम्भोजकैरवौघविराजितैः
सरोभिरमृतस्यन्दिमधुरस्फारवारिभिः ॥२९
[[196197]]
श्रीस्कान्दपुराणे तृतीयभागे द्वितीयोऽध्यायः

समापादितलक्ष्मीकं कौतुकैकनिकेतनम्
सिंहदन्तावलव्याफ्रुतरक्षुरुरुरङ्कुभिः ॥३०
मृगैरन्यैः समाकीर्णं अन्योन्यहितकारिभिः
जितचैत्ररथोद्यानं अधरीकृतनन्दनम् ॥३१
अतिवाङ्मनसोदारं परमानन्दकारणम्
शिवागमानां दिव्यानां अर्थजातमनुत्तमम् ॥३२
प्रकाशयन्ति शाबानां यत्र मञ्जुगिरः शुकाः
यस्मिन् हुताशनोदारधूमश्यामलितं नभः ॥३३
अकालजलदभ्रान्तिं आतनोति शिखण्डिनाम्
यस्मिन् विहारश्रान्तानां सिंहानां स्वेच्छया गताः ॥३४
निर्वापयन्ति गात्राणि करिणः करशीकरैः
तदाश्रमपदं पश्यन् विस्मयाक्रान्तमानसः ॥३५
प्रभावं पाण्डुतनयः प्रशशंस तपस्विनाम्
निवार्य तत्र तत्रैव सकलाननुजीविनः ॥३६
अर्जुनकृतभरद्वाज सेवाक्रमः
मित्त्रेर्विप्रवरैः सार्धं प्रविवेश तमाश्रमम्
अग्रे ददर्श कौन्तेयः स्फुरत्पावकतेजसम् ॥३७
भरद्वाजं मुनिवरैः अनेकैः परिवारितम्
भस्मानुलिप्तसर्वाङ्गं मृगचर्मोत्तरीयकम् ॥३८
नववारिदसंवीतं कैलासमिव भास्वरम्
जटाभिर्लम्बमानाभिः भास्वन्तं स्वर्णकान्तिभिः ॥३९
स्थिरविद्युल्लताकीर्णं इव शारदनीरदम्
श्रुतिस्मृतिपुराणार्थैः एकीभूय समागतैः४०
अङ्गीकृतमिवाकारं दिव्यज्ञानशुभास्पदम्
धृतिक्षान्तिदयातुष्टिशान्तिभिर्नित्यसेवितम् ॥४१
प्रियाभिरिव रक्ताभिः अखण्डब्रह्मवर्चसम्
उपगम्य शनैः पार्थः तत्पादाम्बुजयोः पुरः
चक्रे प्रणामं साष्टाङ्गं समालिङ्गितभूतलम् ॥४२
अर्जुनं प्रति भरद्वाजकृतातिथ्यप्रकारः
तमागतं पृथापुत्रं उत्थाप्य मुनिपुङ्गवः
आशीर्भिरेधयाञ्चक्रे प्रहर्षोत्फुल्लमानसः ॥४३
सम्पूज्य च यथान्यायं तमर्घ्याद्यैः प्रियातिथिम्
विनिर्दिष्टासनासीनं तमपृच्छदनामयम् ॥४४
सम्माननमवाप्यास्मात् मुनेः पाण्डवमध्यमः
प्रियैर्वाक्यैर्मुनिपतेः अकरोन्मससो मुदम् ॥४५
सस्माराथ भरद्वाजः स्वर्धेनुं कामदोहिनीम्
सा वितेनेऽतिमहतीं भक्ष्यभोज्यादिकल्पनाम् ॥४६
भुक्त्वा पार्थः सानुचरः तमुपास्य तपोनिधिम्
दिनशेषं कथालापकौतुकेनात्यवाहयत् ॥४७
ततः सायन्तनीं सन्ध्यां उपास्य हुतपावकः
विप्रैरमात्यैः सहितो ययौ तस्य कुटीगृहान् ॥४८
[[198199]]
श्रीस्कान्दपुराणेे तृतीयभागे द्वितीयोऽध्यायः

तत्राऽऽसीनो मुनिपतेः आशीर्भिरभिनन्दितः
आनन्द्यमानो मुमुदे तन्नदीशीतलानिलैः ॥४९
’सम्प्रापिता केन भुवः प्रभूता
कस्मान्महीध्रादधिकप्रभावा ।
इति प्रभावं परिपृच्छ्य नद्याः
श्रोतुं मुनीन्द्रान्मतिरस्य जज्ञे ॥५०
इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये तृतीयभागे
सुवर्णमुखरीमाहात्मे्य भरद्वाजाश्रमवर्णनं नाम
द्वितीयोऽध्यायलः
—–ठ्—–

तृतीयोऽध्यायः

अथ तृतीयोऽध्यायः
—–ठ्—–
सुवर्णमुखरीप्रभावशुश्रूषया भरद्वाजं प्रत्यर्जुनप्रश्नः
श्रीसूतः -
कृतसायन्तनविधिं हुताशनसमद्युतिम्
सुखासीनं मुनिपतिं प्रणम्य भरतर्षभः ॥१
तदीयशीतलामोदसुधापूरानुमोदितः
गम्भीरं प्रश्नयोपेतं इदं वचनमब्रवीत् ॥२
अर्जुनः -
’मुनिपुङ्गव ! लोकेऽस्मिन् धन्य एकोऽहमेव हि
पुत्राविशेषं भवता यदेवं सम्यगादृतः ॥३
भवदादरसञ्जातकौतुकं मम मानसम्
भवद्वाक्यामृतं दिव्यं पातुं त्वरयतीव माम् ॥४
कस्माच्छैलादियं जाता केना नीता महानदी
किं पुण्यं स्नानदानाद्यैः कृतैस्तत्रोपलभ्यते ॥५
अस्याः प्रभावं प्रभवं प्रह्वस्य मम सन्मुने !
वक्तुमरछसि कार्यो हि भक्तानुग्रह एव ते’ ॥६
अर्जुनस्य वचः श्रुत्वा भरद्वाजो द्विजोत्तमः
तदाननं समालोक्य वाक्यं वाक्यविदब्रवीत् ॥७
[[200201]]
श्रीस्कान्दपुराणेे तृतीयभागे तृतीयोऽध्यायः

भरद्वाजः -
’त्वमर्जुन ! महाबाहो ! कौरवान्वयपावनः
विशेषान्मम मान्योऽसि धर्मपुत्रानुजो यतः ॥८
अनेके भूमिपा दृष्टाः नते त्वमिव फाल्गुण !
लीलार्जवदयौदार्यधैर्यगाम्भीर्यशालिनः ॥९
कुलं विद्या धनं चैव बलिनां मदकारणम्
भवादृशानां भव्यानां तानि प्रश्रयकारणम् ॥१०
प्राज्येषु राज्यभोगेषु विद्यमानेषु कौरव !
ऋते भवन्तं को वाऽन्यो नोपैति विकृतेर्वशम् ॥११
परवानस्मि कौन्तेय गुणैः लोकोत्तरैस्तव
किमस्त्यकथनीयं ते कौतुकोपेतमानसः ॥१२
शृणु राजन् ! कथां दिव्यां मया मुनिमुखाच्छ्रुताम्
यां श्रुत्वा पातकातङ्कात् मुच्यन्ते सर्वजन्तवः ॥१३
भरद्वाजकथितशङ्करविवाहप्रक्रिया
पूर्वं दाक्षायणी देवी जनकेनावमानिता
त्यक्त्वा तनुं तां नीहारगिरेरभवदात्मजा ॥१४
सप्तर्षिभिरुपागम्य प्रार्थितो धरणीधरः
मृत्युञ्जयाय स्वां पुत्रीं विवाहे दातुमुद्यतः ॥१५
वृषभाङ्को जगत्स्वामी विवोढुं सर्वमङ्गलाम्
प्राप्तो हिमवदावासं ओषधीप्रस्थनामकम् ॥१६
तच्छासनात् समाजग्मुः स्थावराणि चराणि च
भूतानि भूतनाथस्य कल्याणमभिनन्दितुम् ॥१७
तद्भूरिभारसम्मग्ना भूमिरुत्तरसंश्रया
निम्नतामाययौ तावत् यावत्पातालमास्थिता ॥१८
निर्भारलाघवादस्मात् भृशं दक्षिणगामिनी
ऊर्ध्वं गता च तत् दृष्ट्वा सर्वेषामभवद्भयम् ॥१९
ज्ञात्वा तां विकृतिं भूमेः दृष्ट्वाऽगस्त्यं महेश्वरः
’इत एहि महाप्राज्ञे’ त्युक्त्वा वचनमब्रवीत् ॥२०
’आगतेषु समस्तेषु भूतेष्वत्र वसुन्धरा
तद्भारेण समाक्रान्ता विकृतिं समुपागता ॥२१
तद्भुवः साम्यकरणे त्वमरछसि महामते !
ऋते त्वामत्र हि त्वत्तः परेणैतत् कथं भवेत् ? ॥२२
मत्तेजः सम्भवो हि त्वं लोकसंरक्षणोद्यतः
तस्मान्मद्वचनाद्वत्स ! भुवमेतां समीकुरु ॥२३
मत्पाणिग्रहणालोककौतुकायत्तबुद्धिषु
आगतेषु समस्तेषु स्थातव्यं भवताऽपि च ॥२४
त्वं न तिष्ठसि चेदत्र न कश्चिद्विकृतिं भुवः
अपनेतुं हि शक्नोति तद्गन्तव्यं त्वयाऽनघ ! ॥२५
इमां गिरिसुतापाणिग्रहकल्याणभासुराम्
मूर्तिं प्रदर्शयिष्यामि यत्र तिष्ठसि तत्र ते’ ॥२६
[[202203]]
श्रीस्कान्दपुराणेे तृतीयभागे तृतीयोऽध्यायः

भूसाम्यकरणायागस्त्यस्य हिमाद्रेर्दक्षिणदिग्गमनम्
इत्युक्त्वा तं परिष्वज्य विससर्ज महेश्वरः
’तथेति’ तं प्रणम्यासौ ययौ याम्यां दिशं मुनिः ॥२७
विन्ध्याद्रिं समतिक्रम्य दक्षिणामागते दिशम्
अगस्त्ये मुनिशार्दूले मही साम्यमुपाययौ ॥२८
भुवोऽपनीय विकृतिं स्थितं कलशजं मुनिम्
तुष्टुवुरछर्षतरलाः सुरगन्धर्वकिन्नराः ॥२९
स ददर्श ततो गत्वा कञ्चिच्छैलं समुन्नतम्
विततैर्धरणीं पादैः धृत्वा संस्थितमग्रतः ॥३०
महौषधीनां रत्नानां अशेषाणां स्वयम्भुवा
अखण्डतेजोदीप्तानां विनिर्मितमिवाकरम् ॥३१
समुन्नतैर्यः शिखरैः निपतद्व्योम भूतले
उदारधारासम्पन्नैः दधातीव निरन्तरम् ॥३२
शनैरारुह्य तं शैलं अगस्त्यो मुनिपुङ्गवः
निवासाय मतिं चक्रे रम्ये तच्छिखरस्थले ॥३३
तस्यामृतोपमेयस्य पद्मोत्पलकुलश्रियः
नानाद्रुमपरीतस्य कासारस्योत्तरे तटे ॥३४
मनोहरे महीभागे विधायाश्रममुत्तमम्
आराध्य पितृदेवर्षीन् विधिवद्वास्तुदेवताम् ॥३५
उवास सुचिरं तत्र मुनिसङ्घसमन्वितः
देवतासिद्धगन्धर्वास्सरोजुष्टमहीधरे ॥३६
तपःसमावेशितचित्तवृत्तौ तपोवने तिष्ठति कुम्भजाते
प्रशस्तसौभाग्यसमन्वितोऽद्रिः अगस्त्यशैलाह्वयमाससाद ॥३७
इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये सुवर्णमुखरी
माहात्म्ये अर्जुनभरद्वाजसंवादे शङ्करविवाहागस्त्यदक्षिण
दिग्गमनवर्णनं नाम तृतीयोऽध्यायः
—–ठ्—–
[[204205]]
श्रीस्कान्दपुराणेे तृतीयभागे तृतीयोऽध्यायः

चतुर्थोऽध्यायः

अथ चतुर्थोऽध्यायः
—–ठ्—–
नद्युत्पादनाय अगस्त्यं प्रति अशरीर्युक्तिः
भरद्वाजः-
स कदाचिन्मुनिवरः कृतपौर्वाह्णिकक्रियः
विवेश देवातागारं समाराधयितुं शिवम् ॥१
अदृश्यरूपा वाग्देवी तत्राश्रावि महात्मना
तेनाद्भुतोपपन्नेन व्यक्तवर्णसमुज्ज्वला
आकाशवाण्युवाचैनं अगस्त्यं जपतां वरम् ॥२
आकाशवाणी-
’नदीहीनो ह्ययं देशः प्रसिद्धोऽपि न शोभते
ज्ञानविज्ञानविमुखः साकार इव भूसुरः ॥३
दीक्षेव दक्षिणाहीना ज्योत्स्नाहीनेव शर्वरी
न विभाति नदीहीना पृथ्वीयं भूसुरोत्तम ! ॥४
प्रवर्तय नदीं काञ्चित् लोकानां हितकाम्यया
अगाधदुरितोद्भूतभीतिमोचनशालिनीम् ॥५
हितमेतत्सुरौघानां एतन्मुनिवरार्थितम्
भद्रमेतन्मनुष्याणां एतदाचर सुव्रत ! ॥६
देवानामृषिवर्याणां भूजनानां हितावहाम्
पापपङ्कप्रशमनीं प्रवर्तय महानदीम्’ ॥७
भरद्वाजः-
तदाकर्ण्य वचो विप्रः क्षणं चिन्तापरायणः
समाप्य देवतापूजां बहिर्वेद्यामुपाविशत् ॥८
आनाययामास तदा तदाश्रमगतान् मुनीन्
तेषामकथयच्चासौ दिव्यवाणीरितं वचः ॥९
तदद्भुतमुपश्रुत्य मुनयो हृष्टमानसाः
अभिवन्द्य मुनिश्रेष्ठं मैत्रावरुणिमब्रुवन् ॥१०
सुवर्णमुखर्युत्पादनायागस्त्यं प्रति महर्षिप्रार्थना
मुनयः-
आश्चर्याणां महाश्चर्यं मङ्गलानां च मङ्गलम्
तवैव शोभते दिव्यं त्वच्चरित्रं कृपानिधे ! ॥११
तव हुङ्कारमात्रेण भ्रष्टो देवाधिराज्यतः
नहुषः कीटतां प्राप ततश्चित्रं न विद्यते ॥१२
समावृतधराचक्रः कल्लोलाताडिताम्बरः
किन्न्वतो विद्यते चित्रं यदब्धिश्चुलुकीकृतः१३
सूर्यमार्गनिरोधार्थं प्रवृत्तो विन्ध्यभूधरः
त्वया प्रशान्तिं गमितः किन्न्वतो विद्यते परम् ? ॥१४
तवाद्भुतानि कर्माणि कः स्तोतुं प्रभवेद्भुवि
मन्महाभाग्ययोगात्त्वं प्राप्तोऽसीति शरीरिणाम् ॥१५
वयं कृतार्थाः सञ्जाताः त्रैलोक्ये यन्महामुने !
निवसामोऽत्र भवता सनाथा ह्याश्रमस्थले ॥१६
[[206207]]
श्रीस्कान्दपुराणेे तृतीयभागे चतुरो्थऽध्यायः

वर्ण्यो हि याम्यतो दूरे विषयोऽयं द्विजोत्तम !
समस्तवस्तुपूर्णोऽपि नदीहीनो न राजते ॥१७
किमलब्धनदीस्नानेनामुना हतजन्मना
अनदीके जनपदे वासादजननं वरम् ॥१८
परिपाकस्तु भाग्यानां अस्माकं समुपस्थितः
यदादिष्टोऽसि विबुधैः प्रवर्तय महानदीम् ॥१९
प्रवर्तितायां देशेऽस्मिन् महानद्यां तवानघ !
कदा नु खलु यास्यामः कृतस्नानाः कृतार्थताम् ? ॥२०
किं वितर्केण बहुना प्रयत्नः क्रियतां ध्रुवम्
समानेतुं जगद्वन्द्यां शरण्यां सरिदुत्तमाम् ॥२१
भरद्वाजः-
स तेषां वचनं हृद्यं मानयित्वा महाद्विजः
’समानेष्यामि सरितं’ इति चक्रे विनिश्चयम् ॥२२
सुवर्णमुखर्याविर्भावाय अगस्त्यकृततपःप्रकारः
मुनीश्वरैरनुज्ञातः तानभ्यर्च्य सुरानपि
विशेषपूजां विधिवत् विधाय पुरविद्विषः ॥२३
अङ्गीकृत्य व्रतं गाढं बहुलक्लेशदुःसहम्
अनन्यसुलभं यत्नात् चकार सुमहत्तपः२४
फेूरेषु घर्मदिवसेष्वन्तरस्थो हविर्भुजाम्
चतुर्णां सवितृन्यस्तदृष्टिः नापययौ क्लमम् ॥२५
वार्षिकेषु दिनेषूग्रवायुसम्पातदुःसहैः
आसारैस्ताड्यमानोऽपि नोद्वेगमगमद्धृदि ॥२६
हेमन्ते समये तिष्ठन् कण्ठदघ्नेषु वारिषु
जपध्यानपरो भूत्वा न किञ्चिद्विकृतिं ययौ ॥२७
ततः समीहितार्थस्य विलम्बमवलोक्य सः
पुनर्गाढतरां निष्ठां प्रपेदे लोकभीषणाम् ॥२८
निगृह्य मानसीं वृत्तिं निराहरो जितेन्द्रियः
अविज्ञातबहिर्वृत्तिः तस्थौ पाषाणवत्तदा ॥२९
एवं तपस्यतस्तस्य सर्वाङ्गेषु हुताशनः
अभ्रंलिहो ज्वलज्ज्योतिः निश्चक्राम भयङ्करः ॥३०
ततोऽद्भुतशिखाजालैः आवृताः सर्वतो दिशः
समुदग्रभयोद्विग्नाः जनौघाः परिचुक्रुशुः ॥३१
तदा तथाविधं फेूरं जगत्सङ्क्षोभमागतम्
देवा विज्ञापयामासुः नमस्कृत्याब्जजन्मने ॥३२
अगस्त्याश्रमं प्रति चतुर्मुखागमनम्
तानाश्वास्य ततो ब्रह्मा सिद्धगन्धर्वसेवितः
प्रादुरासीत्कुम्भभुवः पुरोभागे तपस्यतः ॥३३
तमागतं समालोक्य ब्रह्माणं परमं द्विजः
प्रणम्य विविधैः स्तोत्रैः तोषयामास तन्मनाः ॥३४
ततस्तं विनयानव्रुं अगस्त्यं वीक्ष्य पद्मभूः
प्रसादसुमुखो भूत्वा पूतां गिरमुपाददे ॥३५
[[208209]]
श्रीस्कान्दपुराणेे तृतीयभागे चतुरो्थऽध्यायः

ब्रह्मा -
’परितुष्टोऽस्मि तपसा दुश्चरेण तवानघ !
वृणीष्व यद्यदिष्टं ते तत्तद्दास्यामि सुव्रत’ ॥३६
अगस्त्यः -
’तव प्रसादात्सकलं उपपन्नं मम प्रभो !
सम्प्रयच्छसि चेत्कामं याचे निःशङ्कया धिया ॥३७
नदीहीनमिमं देशं दृष्ट्वा खिद्यति मे मनः
अर्थावबोधरहितं श्रुतिपाठमिवाधिकम् ॥३८
उर्वीं पावयितुं दक्षां रक्षितुं च महानदीम्
प्रसादं कुरु देवेश ! ममेष्टमिदमेव हि’ ॥३९
अगस्त्यप्रार्थनया गङ्गां प्रति चतुर्मुखचोदना
भरद्वाजः-
अगस्त्यस्य वचः श्रुत्वा ’भूयादेव’ मिति ब्रुवन्
सस्मार मनसा ब्रह्मा सुरवर्त्माश्रयां नदीम् ॥४०
अथोपेत्य वियद्गङ्गा पुरस्तात् परमेष्ठिनः
अतिष्ठन्मुकुटन्यस्त प्रशस्ताञ्जलिभासुरा ॥४१
स्वशासनात्समायातां विनयानतमस्तकाम्
तां सर्वजगतां धात्रीं इदं वचनमब्रवीत् ॥४२
भ्रह्मा -
’गङ्गे ! मयानुशास्याऽसि कार्ये लोकोपकारके
तवापि लोकरक्षायां ममेव नियता स्थितिः ॥४३
देशे नदीविहीनेऽत्र प्रवर्तयितुमापगाम्
हितार्थं सर्वलोकानां कुम्भजन्मा समीहते ॥४४
तस्मात्त्वमवतीर्योर्वीं स्वांशेनैकेन भूजनान्
पुनीहि गच्छ पसुधां एतद्दर्शितवर्त्मना ॥४५
भूलोके सम्प्रवृत्ते तु प्रवाहे सिद्धिकाङ्क्षिणः
सेविष्यन्ते सुरवरा मुनिवर्याश्च सन्ततम् ॥४६
नदीषूत्तमतां याहि त्राहि त्वत्संश्रयान् जनान्
कुरु प्रियमगस्त्यस्य गच्छ भद्रे ! यथासुखम्’ ॥४७
अगस्त्यसमीपे स्वांशत्वेन गङ्गाकृतनद्युत्पत्त्यभ्युपगमः
भरद्वाजः-
इत्युक्त्वान्तर्दधे ब्रह्मा तया नद्या च तेन च
प्रणामपूजनस्तोत्रैः विशेषैरभिनन्दितः ॥४८
अथ गङ्गा मुनिपतेः पुरस्तात्स्वांशसम्भवाम्
दिव्यतेजोमयीं मूर्तिं दर्शयित्वा वचोऽब्रवीत् ॥४९
गङ्गा -
’मदीयांशो यमवनीं सम्प्राप्य मुनिवल्लभ !
पूरयिष्यति तेऽभीष्टं नदीरूपं समाश्रितः’ ॥५०
भरद्वाजः -
इत्युक्त्वा सिद्धवाहिन्यां गतायां तत्प्रयुक्तया
गन्तव्यं वर्त्मना केनेत्युक्तो मुनिरुवाच ताम् ॥५१
[[210211]]
श्रीस्कान्दपुराणेे तृतीयभागे चतुरो्थऽध्यायः

अगस्त्यः -
’गच्छन् पुरस्तात्कल्याणि ! त्वदीयगमनोचितम्
अहं प्रदर्शयिष्यामि मार्गं त्वं मामनुव्रज’ ॥५२
इत्युक्ता मुनिना तेन सम्प्रहृष्टा ’तवानघ
यदिष्टं तत्करिष्येऽह’ मिति प्रोवाच सा शुभा ॥५३
अथ मुनिरवतार्य तां नगेन्द्रात्
धृततटिनीतनुमभ्रसङ्गिशृङ्गात् ।
मुदिततरमना ययौ पुरस्तात्
तदभिमतां पदवीं प्रदर्शयन् सः ॥५४
इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीसुवर्णमुखरीमाहात्मे्य
सुवर्णमुखर्याविर्भाववर्णनं
नाम चतुर्थोऽध्यायः
—–ठ्—–

पञ्चमोऽध्यायः

अथ पञ्चमोऽध्यायः
—–ठ्—–
सुवर्णमुखरीं प्रति शक्रादिस्तुतिः
भरद्वाजः-
तदा दिव्यविमानस्थाः शक्रमुख्या दिवौकसः
अगस्त्यमनुयान्तीं तां अनुजग्मुर्महापगाम् ॥१
नवावतारां तां दिव्यां सर्वे च मुनिपुङ्गवाः
कृताञ्जलिपुटाः स्तोत्रैः अनुयाताः सिषेविरे ॥२
सिद्धचारणगन्धर्वाः सम्भूताश्च सहस्रशः
तां नदीं तं मुनीन्द्रं ञ्च प्रशशंसुः शुभैः स्तवैः ॥३
’सुधोपमानममलं दिष्ट्या लब्धमिदं जलम्’
इत्यौत्सुक्यरसायत्ताः ननन्दुर्धरणीजनाः ॥४
तदा निदेशाद्देवस्य पद्मयोनेः समीरणः
शृण्वतां सर्वदेवानां इदं वचनमब्रवीत् ॥५
वायुकथितसुवर्णमुखरीनामनिष्पत्तिः
वायुः-
’सुवर्णमिव लोकानां भागधेयादियं नदी
नीता भुवमगस्त्येन मुखरीकृतदिङ्मुखा ॥६
तस्माद्यास्यति विख्यातिं सर्वलोकाभिनन्दिताम्
सुवर्णमुखरीनाम्ना धाम्ना कैवल्यसम्पदः ॥७
एषा सुवर्णमुखरी सरित्सु सकलास्वपि
विशिष्टा सेवनीया च ब्रह्मणो वचनं त्विदम्’ ॥८
[[212213]]
श्रीस्कान्दपुराणेे तृतीयभागे पञ्चमोऽध्यायः

सुवर्णमुखर्या समुद्रसमागमवर्णनम्
भरद्वाजः-
श्रुत्वेत्थं पवनेनोक्तं वचनं कुम्भसम्भवः
तुतोष विस्मयाक्रान्तः स्वान्तःपुलकिताङ्गकः ॥९
एवमेषा दिव्यनदी स्नानपानादिकल्पनैः
सौख्यावहा मनुष्याणां प्रतिष्ठामगमद्भुवि ॥१०
आज्ञया पद्मगर्भस्य तटिन्याकाशवाहिनी
सुवर्णमुखरीनाम्ना पुनात्यात्मैकसंश्रयान् ॥११
बहून् गिरीन्द्रान् वनमण्डलं च देशाननेकान् सरिदुत्तमेयम्
क्रमादतिक्रम्य निषेव्यमाणा महानदीभिर्गिरिसम्भवाभिः ॥१२
रोगाहतानामधिकातुराणां अनामयैकप्रतिपादकानि
अन्तर्बहिःसम्भृतभूरितापनिवारणानि प्रियकारणानि ॥१३
विहारलोलद्विरदप्रकाण्डशुण्डामहाघातरयोत्थितेन
पुष्पोपहारं पृषतोत्करेण हर्षात् ददातीव दिवाकरस्य ॥ १४
सौगन्धिकाम्भोरुहकैरवाणां सौरभ्यसंवासितदिङ्मुखानाम्
द्विरेफभाग्यैकनिकेतनानां आधारभूतान्यतिनिर्मलानि ॥१५
लीलावगाहोत्सुकनाकनारीसीमान्तसिन्दूररजोरुणानि
तत्केशपाशच्युतपारिजातप्रसूनगन्धैरधिवासितानि ॥१६
सा बिभ्रती सम्भृतमङ्गलानि स्वादून्यपङ्कान्यतिनिर्मलानि
सुधोपमानानि सुरेन्द्रसूनो ! पयांसि पापप्रतिघातुकानि॥१७
अगस्त्यशैलात् समवाप्तजन्मा नीता भुवं कुम्भसमुद्भवेन
प्रशस्ततीर्थौघविराजमाना समाययौ दक्षिणवारिराशिम् ॥१८
शीकराक्षतविन्यासैः रत्नदीपार्पणैरपि
प्रत्युद्ययुस्तामम्भोधेः वीचयोऽभिमुखागताः ॥१९
तरङ्गहस्तैरालिङ्ग्य सम्भाव्यैनां समागताम्
चकार सरितां नाथः प्रियमाघोषभाषणैः ॥२०
प्राप्तायामनुकूलायां तदा तस्यामपां निधेः
प्रहृष्टेन तरङ्गेण जीवनं ववृधेतराम् ॥२१
इत्थं संसृज्य सरितं अगस्त्यस्तामुदन्वता
स्तुत्वा ययौ समामन्त्र्य कृतकृत्यो यदृच्छया ॥२२
अर्जुनः-
’त्वयैष कथितो ब्रह्मन् महानद्याः समुद्भवः
अस्याः प्रभावं भगवन् ! इदानीं श्रोतुमुत्सहे’ ॥२३
भरद्वाजवर्णितसुवर्णमुखरीमाहात्म्यम्
भरद्वाजः-
अहो निबरछणं सर्वश्रेयसामेककारणम्
शृणु माहात्म्यमस्यास्ते कथयिष्यामि पाण्डव ! ॥२४
पाश्चात्यं जन्म सम्प्राप्य ज्ञानिनां कर्मणः क्षये
सुवर्णमुखरीस्नानं सिद्ध्येद्ब्रह्मत्वकारणम् ॥२५
एतां सुवर्णमुखरीं योजनानां शतैरपि
स्मृत्वा मनुष्यः पापेभ्यो मुच्यते नात्र संशयः ॥२६
[[214215]]
श्रीस्कान्दपुराणेे तृतीयभागे पञ्चमोऽध्यायः

निक्षिप्तमस्थि जन्तूनां सुवर्णमुखरीजले
सोपानतां समायाति ब्रह्मलोकाधिरोहणे ॥२७
स्मरन्तः स्वर्णमुखरीं यत्र कुत्रापि मानवाः
तोयान्तरेषु स्नात्वाऽपि लभन्ते फलमुत्तमम् ॥२८
तावदेवाभिभूयन्ते नराः पातककोटिभिः
सुवर्णमुखरीस्नानं यावत्तल्लभ्यते शुभम् ॥२९
दिव्यान्तरिक्षभौमानि तीर्थानि निजसिद्धये
स्मरन्त्यहरहः प्रातः सुवर्णमुखरीं नदीम् ॥३०
अगस्त्याचलसम्भूता दक्षिणोदधिगामिनी
पापानि स्वर्णमुखरी स्मरणादेव नाशयेत् ॥३१
सुवर्णमुखरीस्नानलोलुपेनान्तरात्मना
वाञ्छन्ति मर्त्यतामेव देवाः शक्रपुरोगमाः ॥३२
सुवर्णमुखरीतोयपुष्टसस्यान्नभोजिनः
न लिप्यन्ते महापापैः दुर्भोजनशतोद्भवैः ॥३३
अपि निष्कमितं पीतं सुवर्णमुखरीजलम्
नाशयेदद्रितुल्यानि ह्याशु पापानि देहिनाम् ॥३४
प्राप्याऽपि मानुषं जन्म सुवर्णमुखरीजले
ये वा स्नानं न कुर्वन्ति तेषां जन्म निरर्थकम् ॥३५
सुवर्णमुखरीस्नानं यदेकं विधिना कृतम्
जाह्नवीस्नानकोटीनां समं भवति पर्वसु ॥३६
गोविन्द इव देवेषु नक्षत्रेष्विव चन्द्रमाः
नरेष्विव महीपालो भूरुहेष्विव कल्पकः ॥३७
महाभूतेष्विव वियत् मायेवाखिलशक्तिषु
गायत्रीव च मन्त्रेषु वज्रं देवायुधेष्विव ॥३८
तत्त्वेष्विवात्मनस्तत्वं रुद्राध्यायो यजुप्ष्विव
अनन्त इव नागेषु हिमाचल इवाद्रिषु ॥३९
पोत्रिक्षेत्रमिव क्षेत्रेष्विन्द्रियेष्विव मानसम्
नदीष्वपि च सर्वासु सुवर्णमुखरी वरा ॥४०
नित्यं स्मरेन्नमस्कुर्यात् कीर्तयेन्मनसाऽर्चयेत्
शुद्धिक्षेमशिवापेक्षि सुवर्णमुखरीं शुभाम् ॥४१
’अगस्त्याचलसम्भूतां दक्षिणोदधिगामिनीम्
समस्तपापहन्त्रीं त्वां सुवर्णमुखरीं श्रये ॥४२
महापातकविप्लुष्टं गात्रं मम तवोदकैः
क्षालयामि जगद्धात्रि ! श्रेयसा योजयस्व माम्’ ॥४३
इति सूक्तद्वयं सम्यगुच्चार्य नियतो नरः
सुवर्णमुखरीतोये स्नात्वा शुद्धः प्रमोदते ॥४४
ब्रह्मणा निर्मिता पूर्वं अगस्त्येन समाहृता
स्वयं मन्दाकिनी मूर्ता सुवर्णमुखरी वरा ॥४५
एवम्प्रभावा दिव्येयं कीर्तनीया शुभार्थिभिः
मनसा भक्तियुक्तेन स्नातव्या शुभकाङ्क्षिभिः ॥४६
[[216217]]
श्रीस्कान्दपुराणे तृतीयभागे पञ्चमोऽध्यायः

सोमसूर्योपरागेषु स्नानदानादिकं कृतम्
स्यादमेयफलं पार्थ ! सुवर्णमुखरीतटे ॥४७
सङ्क्रान्तावयने पुण्ये व्यतीपातेऽथ वासरे
सुवर्णमुखरीस्नानं कुलकोटिं समुद्धरेत् ॥४८
जन्मर्क्षे जन्मदिवसे सुवर्णमुखरीजले
स्नात्वा विधिवदाप्नोति क्षेमारोग्यसुखश्रियः ॥४९
दुःस्वप्नविघ्नजं भूतग्रहदुःस्थानजं तथा
सुवर्णमुखरीतोये स्नात्वा तरति किल्बिषम् ॥५०
सुवर्णमुखरीतीरे गोपादप्रमितां भुवम्
दत्त्वा सर्वमहीदानात् यत्फलं तदवाप्नुयात् ॥५१
धेनुं सवस्त्रालङ्कारां सुवर्णमुखरीतटे
दत्त्वा विप्राय विधिवत् याति ब्रह्म सनातनम् ॥५२
पुण्यकालेषु दानानि विधेयान्यखिलान्यपि
इहामुत्र फलप्राप्त्यै सुवर्णमुखरीतटे ॥५३
जपो होमस्तपो दानं पितृकर्म सुरार्चनम्
कृतं भवेच्छतगुणं सुवर्णमुखरीतटे ॥५४
अन्यत्ते कथयिष्यामि विधेयं व्रतमुत्तमम्
सुवर्णमुखरीतीरे प्रतिवर्षं सुखार्थिभिः ॥५५
मेघकाले रविकरैः तिरोधानमुपागतः
यदुदेति मुनिः श्रीमान् मित्रावरुणनन्दनः ॥५६
तस्मिन् दिने ये नियताः स्नानमस्यां प्रकुर्वते
तैराकल्पं सुरावासे स्थीयते कुरुनन्दन ! ॥५७
तदाऽगस्त्यस्य यद्रूपं सुवर्णेन विनिर्मितम्
विधिना ददते पार्थ ! ते यान्ति ब्रह्म शाश्वतम् ॥५८
अर्जुनः-
’विधिना केन कर्तव्यं व्रतमेतन्महामुने !
तन्ममाचक्ष्व सकलं जिज्ञासोस्तु महात्मनः’ ॥५९
अगस्त्यप्रतिमादानविधिः
भरद्वाजः-
’अगस्त्यस्योदयदिनं ज्ञात्वा नियतमानसः
स्वशक्त्या कारयेद्रूपं तस्य हेम्ना महामुनेः ॥६०
सुवर्णभास्वरच्छायं जटाबन्धमनोहरम्
दधानं करपद्माभ्यां अक्षमालां कमण्डलुम् ॥६१
वसानं मृदुलं वल्कं मृगचर्मोत्तरीयकम्
सौम्यं भस्माङ्करुचिरं रुद्राक्षकृतभूषणम् ॥६२
एवं विधाय तद्रूपं स्नात्वा नियतमानसः
आचार्यं गन्धपुष्पाद्यैः अलङ्कृत्य यथाविधि ॥६३
शालेयतण्डुलानां तां आढकस्योपरि स्थिताम्
वस्त्रद्वयसमायुक्तां प्रतिमां प्रतिपूजयेत् ॥६४
’विन्ध्यसंस्तम्भनो वार्धिचुलकीकृतिपेशलः
ब्रह्मादिसर्वदेवानां तेजसा सुप्रकाशितः ॥६५
[[218219]]
श्रीस्कान्दपुराणेे तृतीयभागे पञ्चमोऽध्यायः

अगस्त्यः कुम्भसम्भूतो देवासुरनमस्कृतः
प्रीतिमाप्नोतु महतीं दानेनानेन मे प्रभुः ॥६६
इमं मन्त्रं समुच्चार्य धारापूर्वं सदक्षिणम्
दत्त्वा विमुक्तः पापेभ्यो याति ब्रह्म सनातनम् ॥६७
जन्मान्तरकृतैर्नूनं इहजन्मकृतैरपि
महापापोपपापौघैः मुच्यते नात्र संशयः ॥६८
ब्रह्माद्याः सकला देवाः सनकाद्या महर्षयः
चराचराणि भूतानि प्रीतिं यान्ति न संशयः ॥६९
कृत्वा व्रतमिदं पुण्यं अगस्त्यस्य च सन्मुनेः
प्रीत्यर्थं भोजयेद्विप्रान् यथाशक्ति सदक्षिणम् ॥७०
तस्मिन् कर्मणि चाशक्तो यथाशक्ति महीसुरान्
स्वर्णधान्यादिदानेन तोषयेद्भक्तिसंयुतः ॥७१
तिथिं न वितथीकुर्यात् तां यत्नेन समाचरेत्
यत्किञ्चिदपि चावश्यं कर्म निर्मलपूरुषः ॥७२
महामुनेरगस्त्यस्य परिपक्वं तपःफलम् ३२
एवं ते कथितः सम्यक् महानद्याः समुद्भवः
प्रभावश्च तदाचक्ष्व यद्भूयः श्रोतुमिच्छसि’ ॥७४
इति श्री स्कान्दपुराणे तीर्थखण्डे श्री वेङ्कटाचलमाहात्म्ये सुवर्ण
मुखरीप्रभावप्रशंसा नाम पञ्चमोऽध्यायः
—–ठ्—–

षष्ठोऽध्यायः

अथ षष्ठोऽध्यायः
—–ठ्—–
अगस्त्यतीर्थागस्त्येश्वरयोः प्रभावः
अर्जुनः-
’श्रोत्राञ्जलिभ्यां पीत्वाऽपि भवद्वाक्यामृतं मुहुः
मनो नोपैति मे तृप्तिं भूयः श्रवणकाङ्क्षया१
क्रियासमभिहारो मे त्वद्वाक्याकर्णनैषिणः
मनःखेदाय माभूत्ते करुणाभरितात्मनः ॥२
इदानीं श्रोतुमिच्छामि नद्यामस्यां महामुने !
कुत्र कुत्र समर्थानि तीर्थान्यघनिबरछणे ॥३
काः काः पुण्यतरङ्गिण्यः सङ्गता अनया मुने !
कुत्र स्नानेन कृत्ताघा नोपयान्ति यमाद्भयम् ॥४
हराच्युतादिदेवानां पुण्यान्यायतनानि च
यानि यानि च पुण्यानि तिष्ठन्त्यस्त्यास्तटद्वये ॥५
तेषु क्षेत्रेषु मनुजैः यत्फलं समवाप्यते
विहितैर्विधिवत्स्नानदानादिशुभकर्मभिः ॥६
सोपाख्यानमिदं सर्वं वेदितुं वेदवित्तम !
सञ्जाता महती प्रीतिः विस्तार्याचक्ष्व मे क्रमात् ॥७
भरद्वाजः-
’यत्पृष्टं भवता पार्थ ! क्रमाद्विस्तार्य कथ्यते
आरभ्यागस्त्यतीर्थेन्द्रात् अस्यास्तीर्थौघवैभवम् ॥८
[[220221]]
श्रीस्कान्दपुराणे (तृतीयभागे) षष्ठोऽध्यायः

अखण्डज्ञानरूपेण सर्वलोकहितैषिणा
सुरासुराणां सम्भाव्येनागस्त्येन महात्मना ॥९
वसुधामवतीर्णायां प्रथमं तद्धराधरात्
स्नात्वा यत्र महानद्यां सम्प्राप्नोति कृतार्थताम् ॥१०
अगस्त्यतीर्थमित्युक्तं पावनं तज्जगत्त्रये
तत्र स्नानेन शुद्धिः स्यात् महापातकिनामपि ॥११
अनेकजन्माचरितमहापातकसंहतिम्
निरस्य दिवि मोदन्ते तत्र स्नानरता जनाः ॥१२
ये तत्र तीर्थे यतिनः कृतस्नाना यतेन्द्रियाः
गोभूतिलहिरण्यादिमहादानानि कुर्वते ॥१३
ते प्राप्नुवन्ति सम्पूर्णं गङ्गाद्वारे समाहितैः
विहितानां शतगुणं दानानां फलमर्जुन ! ॥१४
अत्रास्ति भगवानीशः ख्यातोऽगस्त्येशसञ्ज्ञया
स्थापितोऽगस्त्यमुनिना लोकानन्दविधायिना ॥१५
स्नात्वा तस्यां महानद्यां तल्लिङ्गं पूजयन्ति ये
दशानामश्वमेधानां फलं सम्प्राप्नुवन्ति ते ॥१६
सुवर्णमुखरीस्नानकालनिर्णयः
’धनूराशिं परित्यज्य यदा मकरमंशुमान्
विशेत्तदयनं पुण्यं उत्तरं परिकीर्तितम् ॥१७
तस्मिन् दिने ये नियता नद्यां स्नात्वा समाहिताः
पश्यन्ति पार्वतीनाथं अगस्त्येशं सुरार्चितम् ॥१८
अग्निष्टोमसहस्रस्य वाजपेयशतस्य च
फलं सम्प्राप्य मोदन्ते दिवि देवगणार्चिताः ॥१९
मृगसङ्क्रमवेलायां पुरुषैर्मङ्गलार्थिभिः
अवश्यमेव कर्तव्यं अगस्त्येशस्य दर्शनम् ॥२०
देवर्षिपितृतीर्थमाहात्म्यम्
ऐशान्यां तस्य तीर्थस्य देशे क्रोशमितेर्जुन !
अस्ति तीर्थत्रयं ख्यातं देवर्षिपितृनामभिः ॥२१
देवर्षिपितरस्तत्र मुनिना तेन पूजिताः
प्रददुरछृष्टमनसः सर्वान् समभिवाञ्छितान् ॥२२
तदा देवर्षिपितृभिः इदं तीर्थत्रयं क्रमात्
अस्मन्नामभिरीड्यं स्यात् इत्युक्तं तस्य सन्निधौ ॥२३
तस्मिंस्तीर्थत्रये ये तु स्नात्वा विहिततर्पणाः
ऋणत्रयविनिर्मुक्ताः ते यान्ति दिवमक्षयाम् ॥२४
वेणीसुवर्णमुखरीसङ्गमवर्णनम्
’ततः प्रागुत्तरक्षोण्याः योजनद्वयसीमनि
प्राप्ता सुवर्णमुखरीं वेणा नाम महानदी ॥२५
समुदग्ररया घातनिपातिततटद्रुमा
कुल्यासिर्गतवाःपूरसमाप्लावितकानना ॥२६
उत्तुङ्गपुलिनोत्सङ्गखेलत्कोककुलाकुला
अम्बुजामोदलोलालिमालालीलारवान्विता ॥२७
अतिक्रम्य समुत्तुङ्गान् अनेकान् धरणीधरान्
प्रभूततोयरुचिरा सुवर्णमुखरीं गता ॥२८
[[222223]]
श्रीस्कान्दपुराणे (तृतीयभागे) षष्ठोऽध्यायः

नदीद्वयव्यतिकरे कृतस्नाना यथाविधि
दशानामश्वमेधानां अखण्डं प्राप्नुयुः फलम् ॥२९
सङ्गता वेणया पुण्या सुवर्णमुखरी नदी
गिरिदुर्गममार्गेण ययावुत्तरवाहिनी ॥३०
मध्यगेन महीध्राणां मार्गेण विषमेण सा
गत्वा विरेजे तटिनी योजनानां चतुष्टयम् ॥३१
पूर्वतस्त्यस्य देशस्य विषये सार्धयोजने
उदक्कूले महानद्याः प्राग्वाहिन्या मनोहरे ॥३२
अगस्त्येश्वरनामाऽऽस्ते ख्यातं लिङ्गं पुरद्विषः
स्मरणं देवमर्त्यानां समस्ताघनिवारणम् ॥३३
तत्र स्नात्वा महानद्याः ये नरा नियतेन्द्रियाः
पश्यन्ति पार्वतीनाथं अगस्त्येन प्रतिष्ठितम् ॥३४
अनेकैः पूर्वजननैः आर्जितं पापसञ्चयम्
ते निरस्य सुरावासे मोदन्ते कालमक्षयम् ॥३५
ततः सोदङ्मुखी भूत्वा सुवर्णमुखरी ययौ
योजनार्धमिदं देशं तीर्थसङ्गसमन्विता ॥३६
सुवर्णमुखर्याः व्याफ्रुपदाह्वयनदीसङ्गमः
तस्मिन् देशे तु हिन्तालतालसालमनोरमे
गता सुवर्णमुखरीं नदी व्याफ्रुपदाह्वया ॥३७
दुर्वारभूरिदुरितविनिवारणपेशला
नीरन्ध्रतीरवानीरवनमण्डलमण्डिता ॥३८
सिद्धगन्धर्वललनालीलागाहनशालिनी
तपस्विकन्यानिक्षिप्तबलिपुष्पविराजिता ॥३९
हंसकारण्डवक्रौञ्चकुलकोलाहलाकुला
प्राक्प्रवाहा समागत्य शैलान्तरगताध्वना ॥४०
सङ्गमे सरितोस्तत्र कृतस्नाना नरोत्तमाः
समग्रमश्वमेधानां दशानां प्राप्नुयुः फलम् ॥४१
शङ्खतीर्थवर्णनम्
तत्र व्याफ्रुपदाख्यायाः तटे लोकमलापहे
अनघं सर्वपापघ्नं शङ्खतीर्थं विराजते ॥४२
ब्रह्मर्षिनियतावासं सुरगन्धर्वसेवितम्
दर्शनस्नानपानाद्यैः अमितानन्ददायकम् ॥४३
तत्राऽऽस्ते भगवानीशः शङ्खेशो नाम फाल्गुन !
शङ्खनाम्ना मुनीन्द्रेण लिङ्गरूपं प्रतिष्ठितम् ॥४४
ये तत्र तीर्थे सुस्नाताः पश्यन्ति वृषवाहनम्
दशाश्वमेधजं पुण्यं लब्ध्वा यान्ति सुरालयम् ॥४५
युक्ता तया व्याफ्रुपदाभिधानया
गत्वा ततो योजनसम्मितां भुवम् ।
ययौ मुनीन्द्रैर्वृषभाचलान्तिकं
संसेव्यमाना शुभनिर्मलोदका ॥४६
इति श्री स्कान्दपुराणे (तृतीयभागे) तीर्थखण्डे
श्री वेङ्कटाचलमाहात्म्ये
अगस्त्यतीर्थादिवर्णनं नाम षष्ठोऽध्यायः
—–ठ्—–
[[224225]]
श्रीस्कान्दपुराणेे (तृतीयभागे) षष्ठोऽध्यायः

सप्तमोऽध्यायः

अथ सप्तमोऽध्यायः
—–ठ्—–
सुवर्णमुखर्या कल्यानदीसङ्गमः
भरद्वाजः-
’सुवर्णमुखरीं तत्र सङ्गता मङ्गलप्रदा
कल्या नाम नदी पुण्या कालिन्दी जाह्नवीमिव ॥१
वृषभाचलसम्भूता तीर्थराजविराजिता
नदीनामुत्तमा कल्या कलुषौघविनाशिनी ॥२
नानातरुलताव्रातविभूषिततटद्वया
मुनिसङ्घसुखावासा पुण्याश्रमसमुत्कटा ॥३
द्विजदत्तार्घ्यविलसत्कुशाक्षतलसत्तटा
अप्सरःकुचकस्तूरीपङ्कक्षालनपङ्किला ॥४
दन्तावलकटच्योतन्मदाम्बुसुरभीकृता
विप्रभूपालविततमखयूपशतावृता ॥५
अनाविलजलापूरतोषिताशेषमानवा
एकैवालं पराकर्तुं महानद्योस्तु पातकम् ॥६
तयोः सङ्गतयोः स्तोतुं महिमानं क ईशते
यत्र ब्रह्मशिला नाम सरिन्मध्ये च वर्तते ॥७
अगस्त्यतपसा पश्चात् गयासान्निध्यमेति च
नदीद्वयजले तत्र स्नाता पुण्ये कुरूद्वह ! ॥८
मखानां पौण्डरीकाणां शतस्य फलमाप्नुयुः
ब्रह्महत्यादिपापानि समायान्ति परिक्षयम् ॥९
तत्राभिषेकपूतानां नदीद्वितयसङ्गमे
सङ्गता भवनाशिन्या कृष्णवेणीव पावनी
राजते स्वर्णमुखरी कल्यया सङ्गता तदा ॥१०
अथोदीच्यां महानद्या योजनार्धे विराजते
योजनोत्सेधसहितो विख्यातो वेङ्कटाचलः ॥११
सर्वेषामेव तीर्थानां आश्रयो यं नगोत्तमः !
अञ्जनानन्तवृषभनीलकेसरिपोत्रिणः ॥१२
एतान्युपवनान्यद्रेः स्युर्नारायणवेङ्कटौ
वराहवपुषा पूर्वं स्वीकृतत्वान्मधुद्विषा ॥१३
वराहक्षेत्रमित्यार्यैः कीर्तितोऽयं महीधरः
सुवर्णमुखरीतीरे विख्याते वेङ्कटाचले ॥१४
निवसत्यच्युतो नित्यं अभ्धीन्द्रतनयान्वितः
तस्मिस् गिरौ श्रिया सार्धं वसन्तं वेङ्कटाधिपम् ॥१५
सेवन्ते सिद्धगन्धर्वमुनिमानवदानवाः
तस्मिन् विन्यस्तचित्तानां भक्तानां पुरुषोत्तमे ॥१६
वाञ्छितान्याशु सिद्ध्यन्ति नश्यन्ति विपदोऽर्जुन !
ये स्मरन्ति जगन्नाथं वेङ्कटाद्रिनिवासिनम् ॥१७
अर्जुनः -
निरस्तदोषास्ते यान्ति शाश्वतं पदमव्ययम्’
’वेङ्कटाद्रौ महापुण्ये सुरासुरनमस्कृतः ॥१८
कथं प्रादुरभूद्देवो भगवान् कमलापतिः
कस्य वा कृतिनस्तत्र प्रसन्नो निजमद्भुतम् ॥१९
[[226227]]
श्रीस्कान्दपुराणेे (तृतीयभागे) सप्तमोऽध्यायः

रूपं प्रकाशयाञ्चक्रे भुक्तिमु क्तिफलप्रदम्
विष्णोर्देवाधिदेवस्य महिमानं महामुने ! ॥२०
श्रोतुमिच्छामि तत्त्वेन तन्मे कथय विस्तरात्’
श्रीवेङ्कटाचलवासि भगवद्वैभववर्णनम्
भरद्वाजः-
’शृणु वेङ्कटनाथस्य महिमानं समाहितः ॥२१
विस्तरेण समाख्यातुं ब्रह्मणाऽपि न शक्यते
धन्योऽसि देवदेवस्य माहात्म्यं मधुविद्विषः ॥२२
यद्भक्तियुक्ताऽभूत्तात ! श्रोतुं मतिररिन्दम !
कृतपुण्योऽस्म्यहं पार्थ ! सर्वभूतपतेरछरेः ॥२३
पवित्राणि चरित्राणि स्तोष्यन्ते यन्मयाऽधुना
पुरा भागीरथीतीरे जनकाय महात्मने ॥२४
क्रतुदीक्षाप्रसक्ताय विशुद्धज्ञानशालिने
वामदेवेन कथितां कथां पापप्रणाशिनीम् ॥२५
कथयिष्यामि ते पार्थ ! विष्णुकीर्तनपावनीम्
सर्वेषामेव भूतानां आद्यो नारायणः प्रभुः ॥२६
जगन्मयो जगत्कर्ता चित्स्वरूपो निरञ्जनः
सहस्रशीर्षा भगवान् सहस्राक्षः सहस्रपात् ॥२७
यस्य भासा जगदिदं विभाति सचराचरम्
तस्मात्परतरं तेजः तस्मात्परतरं तपः ॥२८
तस्मात्परतरं ज्ञानं योगस्तस्मात्परो न च
विद्या तस्मादपि परा नास्ति पार्थ ! नरर्षभ !२९
सर्वेष्वपि च भूतेषु सदा सन्निहितः प्रभुः
सर्वाण्यपि च भूतानि तस्मिन्नेवासते सुखम् ॥३०
स एव यज्ञो यज्वा च साधनं स्रुक् स्रुवादिकम्
फलं फलप्रदाता च तत्सम्प्राप्या गतिस्तथा ॥३१
वह्नौ प्रणीते पशुना प्रोक्षितेन प्रजुह्वति
ये तं प्रयान्ति ते यान्ति गतिं तत्प्रतिपादिताम् ॥३२
कर्मबन्धं पशुं कृत्वा ज्ञानाग्नौ सम्प्रवर्तिते
ये जुह्वते तमुद्दिश्य ते तत्सायुज्यभागिनः ॥३३
हरिः सदाशिवो ब्रह्मा महेन्द्रः परमः स्वराट्
सर्वेश्वरस्य तस्यैते पर्यायाः परिकीर्तिताः ॥३४
समाहितोऽनुसन्धत्ते य इदं परमात्मनः
नारायणस्य माहात्म्यं स न याति पुनर्भवम् ॥३५
चिदानन्दमयः साक्षी निर्गुणो निरुपाधिकः
नित्योऽपि भजते तां तां अवस्थां स यदृच्छया ॥३६
पवित्राणां पवित्रं यो ह्यगतीनां परा गतिः
दैवतं देवतानां च श्रेयसां श्रेय उत्तमम् ॥३७
बोध्यानां बोध्य एकोऽसौ ध्येयानां ध्येय उत्तमः
विनयानां समधिको विनयो नयसंयुतः ॥३८
तेजसां जनकं तेजः प्रकृष्टं तपसां तपः
आधारः सर्वभूतानां अनाद्यन्तो जनार्दनः ॥३९
तस्येदम्भावविज्ञाने मूढा ब्रह्मादयोऽपि च
अजो गृह्णाति जननं सर्वात्मा हन्ति विद्विषः ॥४०
[[228229]]
श्रीस्कान्दपुराणेे (तृतीयभागे) सप्तमोऽध्यायः

स्वतन्त्रो पि स्वभक्तानां परतन्त्रः प्रवर्तते
स साक्षी कर्मणां देवः सर्वज्ञो गरुडध्वजः ॥४१
तस्य स्वरूपं मुनयो मृगयन्ते समाहिताः
सङ्कर्षणो वासुदेवः प्रद्युम्नश्च तथा पुनः ॥४२
अनिरुद्ध इति ख्यातं तन्मूर्तीनां चतुष्टयम्
कीर्तितः प्रणवः पश्चाद्धृदयं तस्य भास्वरम् ॥४३
भगवान् वासुदेवश्च मन्त्रोऽयं तत्प्रकाशकः
मन्त्रराजमिमं नित्यं प्रजपेद्यः समाहितः ॥४४
भगवत्कृतसृष्ट्यादिवर्णनम्
स विष्णोः करुणायोगात् सिद्धीनां भाजनं भवेत्
आपन्निवारकः सम्पत्प्रापको भुक्तिमु क्तिदः ॥४५
यथा ससर्ज भूतानि कल्पादावेष माधवः
तत्सर्वं कथयिष्यामि समाहितमनाः शृणु ॥४६
तस्य चिन्तयतः सर्गं तेजोरूपं परं हरेः
विरिञ्च इति विख्यातं राजसं गुणमाश्रितम् ॥४७
तस्य देवस्य वदनात् शक्रो देवः सपावकः
जज्ञे यश्च त्रिलोकेशः पाककर्मणि यः प्रभुः ॥४८
मनसश्चाभवच्चन्द्रः करुणानित्यशीतलात्
अपां सर्वौषधीनां च मित्राणां रक्षकः सदा ॥४९
नेत्राभ्यामुदभूत्सूर्यः तस्य विश्वप्रकाशकः
शीतोष्णवर्षकृत्कालकारणं तेजसां निधिः ॥५०
प्राणेभ्योऽस्य जगत्प्राणः समीरः समजायत
धर्ता ग्रहर्क्षस्वर्गङ्गाविमानानां महाबलः ॥५१
नाभिदेशात्समुत्पन्नं अन्तरिक्षं महात्मनः
तस्यासीच्छिरसो व्योम भूतसम्भवकारणम् ॥५२
पादाम्बुजाभ्यामुदभूत् भूमिर्भूतगणाश्रया
विनिःसृता दिशः सर्वाः श्रोत्राभ्यां परमात्मनः ॥५३
भूर्भुवाद्यास्तथा लोकाः स्मरणात्तस्य जज्ञिरे
रसातलादिलोकाश्च यक्षरक्षोगणाश्रयाः ॥५४
मुखबाहूरुपादेभ्यो जनयामास स क्रमात्
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रादींश्च कुरूद्वह !५५
छन्दांसि यज्ञास्तुरगा गावो मेषाविकादयः
अतर्क्यप्रभवां तस्मात् उत्पत्तिं प्रतिपेदिरे ॥५६
सङ्कल्पाद्देवदेवस्य तस्य स्थावरजङ्गमम्
भूतजातमभूत्कालो भूतो भावी भवंस्तथा ॥५७
पिबत्यम्बु समुद्राणां बडबानलरूपधृक्
कल्पान्तकाले तत्सर्वं विसृजत्यात्मनि स्थितम् ॥५८
सञ्चारयति भूतानां वृत्तिं सूर्येन्दुरूपधृक्
तमोनिरसनाच्चापि कालधर्मप्रवर्तनात् ॥५९
जगन्ति कल्पविरमे विन्यस्य स्वोदरान्तरे
लीलाबालाकृतिः शेते वटपत्रे महाम्बुधौ ॥६०
अथ चोदग्रभोगीन्द्रभोगतल्पे सुखोचिते
योगनिद्रामवाप्नोति सद्वितीयोऽब्जवासया ॥६१
[[230231]]
श्रीस्कान्दपुराणेे (तृतीयभागे) सप्तमोऽध्यायः

नाभिकासारसम्भूतात् जनयामास पङ्कजात्
सर्वेषां जगतां नाथो विधातारं चतुर्मुखम् ॥६२
लीला ह्येषा मुकुन्दस्य स्वेच्छायोगप्रर्तिनः
विज्ञायते न केना पि याथार्थ्येन स ईश्वरः ॥६३
यदा धर्मस्य हानिः स्यात् अधर्मो वर्धते यदा
यदा वा महतीं पीडां भजन्ते देवतागणाः ॥६४
यदाऽवलेपदुर्वाराः यान्ति वृद्धिं सुरद्रुहः
भूमेर्भूमिजनानां च यदोदेति महद्भयम् ॥६५
यदा वा निजभक्तानां साधूनामनिवारिता
दुरन्तातङ्कजननी विपत् समुपजायते ॥६६
तदा तदनुरूपाणि रूपाण्यास्थाय कौतुकात्
अधर्ममवधूयाऽऽशु कुरुते जगतो हितम् ॥६७
सृजति विधिसमाख्यो राजसेनाऽऽत्मजोऽसौ
वहति हरिसमाख्यः सत्त्वनिष्ठः प्रपञ्चम् ।
हरति हरसमाख्यस्तामसीमेत्य वृत्तिं
मधुमथनमहिम्नामस्ति वेत्ता न कोऽपि ॥६८
यज्ञाङ्गैः कृतसकलाङ्गसन्धिबन्धं
वाराहं ववुरधिगम्य लोकनाथः ।
शैलेऽस्मिन्नभजदसौ यथा निवासं
तद्वक्ष्ये शृणु विबुधाधिनाथसूनोः ॥६९
इति श्रीस्कान्दपुराणे (तृतीयभागे) तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये
सृष्ट्यादिवर्णनं नाम सप्तमोऽध्यायः
—–ठ्—–

अष्टमोऽध्यायः

अथ अष्टमोऽध्यायः
—–ठ्—–
वराहकृतधरण्युद्धरणक्रमः
भरद्वाजः-
’पुरा निशात्यये धातुः प्रबुद्धो मधुसूदनः
पुनः प्रवृत्तिं भूतानां अन्वियेष धिया भृशम् ॥१
विना वसुमतीमन्ये भूतौघधरणक्षमाः
न भवन्तीति हृदये तर्कस्तस्याजनि ध्रुवः ॥२
अपश्यत्प्रणिधानेन महीं पातालगोचराम्
अतिमात्रभयोद्विग्नां परीतां महताऽम्बुना ॥३
प्रतिपेदे तदा रूपं भूसमुद्धरणोचितम्
उपाकर्मोष्ठमनलजिह्वं प्रणवफेूषणम् ॥४
चतुराम्नायचरणं प्रायश्चित्तखुराञ्चितम्
प्राग्वंशकायं विलसद्दर्भरोमावलीयुतम् ॥५
प्रवर्ग्यावर्तसम्पन्नं दक्षिणाग्न्युदरान्वितम्
स्रुक्तुण्डमखिलैः सर्वैः संविभक्ताङ्गसन्धिकम् ॥६
दिव्यसूक्तसटाजालं परब्रहशिरस्तथा
हव्यकव्यरयोपेतं विशुद्धपशुजानुकम् ॥७
उक्तात्युक्तादिकच्छन्दोमार्गतन्त्रबलान्वितम्
सर्वयज्ञमयं दिव्यं वाराहं रूपमास्थितः ॥८
अन्वेष्टुं धरणीमब्धेः विवेश सलिलान्तरम्
दंष्ट्राबालशशाङ्कोत्थलसत्कान्तिचयैरछठात् ॥९
[[232233]]
श्रीस्कान्दपुराणे (तृतीयभागे) अष्टमोऽध्यायः

कल्पान्तसमयस्फीतं तमिस्रमपसारयन्
अभिभूताम्बुभृद्घोषैः मुहुर्ब्रह्माण्डकन्धरान् ॥१०
निनादमुखरान् कुर्वन् गाढैर्घुरुघुरुस्वनैः
खुरप्रखुरविन्यासैः जर्जरीकृतविग्रहम् ॥११
इतस्ततो विलुठयन् उरगाणामधीश्वरम्
तीव्रैर्निःश्वासपवनैः आपातालं सरित्पतेः ॥१२
प्रापयन्नतलस्पर्शं अन्तरं दर्शनीयताम्
अतिदीर्घेण पोत्रेण मग्नोन्मग्नेन वारिधेः ॥१३
सङ्क्षोभितानि पाथांसि कुर्वन्नन्तर्ययौ तदा
सप्तपातालमूलाधःस्थितां तोये भयाकुलाम् ॥१४
वेपमानां समालोक्य धरणीं हृष्टमानसः
तामारोप्य स्वदंष्ट्राग्रं उन्ममज्ज सरित्प्रृतेः ॥१५
संस्तूयमानो मुनिभिः जनलोकनिवासिभिः
तस्मिन्नुद्वहति प्रेम्णा देवे वसुमतीं क्षणम् ॥१६
प्रतिसीरा बभूवाम्भो वारिधेर्मङ्गलोचिता
तदुत्तारणवेलायां वराहवपुषोऽर्जुन ! ॥१७
गम्भीरफेूषैरम्भोधिः प्राप मङ्गलतूर्यताम्
उद्वृत्तवीचीविक्षि प्तशीकरासारसङ्गतः ॥१८
भेजे मुक्ताफलचयो मङ्गलाक्षतविभ्रमम्
उदूढा तेन देवेन सा बभौ सलिलाऽऽप्लुता ॥१९
गाढरागसमुत्पन्न स्वेदक्लिन्नतनूरिव
इत्थमुद्धृत्य भगवान् महीं पातालमूलतः ॥२०
सुदृढं स्थापयामास मध्येऽम्बुनिधिपाथसाम्
तेनोद्धृतायां मेदिन्यां पूर्णं तद्भूनभोन्तरे ॥२१
जलं तत्कृतमर्यादा व्यवच्छिन्नमभूत्तदा
संस्थाप्य पृथिवीमित्थं तदुर्व्याधारसिद्धये ॥२२
दिग्गजानहिराजं च कमठं च न्यवेशयत्
तेषामपि च सर्वेषां आधारत्वेन सादरम् ॥२३
अव्यक्तरूपां स्वां शक्तिं युयोज च दयानिधिः
ततो धरां समुद्धृत्य स्थितं किटितनुं हरिम् ॥२४
तुष्टुवुः सनकाद्यास्तं जनोलोकनिवासिनः
तदा वराहवफुषं आराध्य पुरुषोत्तमम्
तदाज्ञया जगद्ब्रह्मा यथापूर्वमकल्पयत्’ ॥२५
अर्जुनः-
’कल्पान्तसलिले मग्ना कथं तिष्ठति भूरियम्
सप्तपाताललोकाधः किमाधारा महामुने ! ॥२६
कल्पकालः कियानेषः स्यात्तद्वृत्तिश्च कीदृशी ?
एतद्विस्तार्य सकलं मम ब्रह्मन् ! मुने ! वद’ ॥२७
कल्पवृत्तान्तवर्णनपूर्वकं श्वेतवराहावतारवर्णनम्
भरद्वाजः -
’विनाडिकानां षष्ट्या स्यात् नाडिकैका दिनं भवेत्
तत्षष्ट्या दिवसास्त्रिंशत् मासः पक्षद्वयात्मकः ॥२८
मासौ द्वावृतुरित्युक्तं तैः षड्भिर्वत्सरो भवेत्
अयनद्वितयाकारः शीतवर्षोष्णसंश्रयः ॥२९
[[234235]]
श्रीस्कान्दपुराणे (तृतीयभागे) अष्टमोऽध्यायः

देवासुराणामन्योन्यं अहोरात्रं विपर्ययात्
उत्तरं दक्षिणं भानोः अयने ते यथाक्रमम् ॥३०
मानुषाब्दैः खखव्योमखाक्षिपावकसागरैः
महायुगं भवेत् पार्थ ! कृताद्याकारसंयुतम् ॥३१
सप्तत्या सैकया कालो युगानामन्तरं मनोः
अस्मिन् श्वेतवराहाख्ये कल्पे जातान् मनून् शृणु ॥३२
स्वायम्भुवः स्यात्प्रथमः ततः स्वारोचिषो मनुः
उत्तमस्तामसाख्यश्च रैवतश्चाक्षुषाह्वयः ॥३३
एते गताः प्राङ्मनवः षट् सेन्द्रसुरतापसाः
वैवस्वतो वर्ततेऽद्य सप्तमो मनुरर्जुन ! ॥३४
आदित्यवसुरुद्राद्याः तत्काले देवतागणाः
इष्ट्वाऽश्वमेधशतकं तेजस्वी प्राप शक्रताम् ॥३५
विश्वामित्रोऽहमत्रिश्च जमदग्निश्च काश्यपः
वसिष्ठो गौतमश्चैव ते वै पप्तर्षयोऽर्जुन ! ॥३६
इक्ष्वाकुप्रमुखाः शूरा मनुपुत्रा महाबलाः
अवनीं पालयामासुः नित्यं धर्मपरायणाः ॥३७
सूर्यदक्षब्रह्मधर्मरुद्राणां पञ्च सूनवः
सावर्णिरौच्यभौमाद्याः भविष्यन्मनुसप्तकम् ॥३८
चतुर्दश विधातुस्ते भवन्ति मनवोऽहनि
तत्कल्पसञ्ज्ञं तस्यान्ते निशा स्यात्तत्समा शृणु ॥३९
दिनावसानसमये ब्रह्मणः पाण्डुनन्दन !
जायतेऽवग्रहो घोरः पृथिव्यां शतवार्षिकः ॥४०
तस्मिन्नवग्रहे पृथ्व्यां नीरसायां धनञ्जय !
चतुर्विधानि भूतानि समायान्ति परिक्षयम् ॥४१
तदा तप्तसिराकारैः उपेतो धर्मदीधितिः
मयूखैरग्निसदृशैः स्यात् तप्तायःपिण्डसन्निभा ॥४२
विनष्टग्रामनगरशै लवृक्षादिकानना
कूर्मपृष्ठोपमोर्वी स्यात् तप्तायःपिण्डसन्निभा ॥४३
ततो विधातुर्गात्रेभ्यः समुत्पन्ना महाघनाः
आच्छादयन्तो गगनं गर्जितध्वानबन्धुराः ॥४४
सितपीतारुणश्यामाः चित्रवर्णाश्च भीषणाः
शैलेभसौधवृक्षादिनानारूपसमन्विताः ॥४५
ते शताब्दमितं कालं महावृष्टिं वितन्वते
तेनाम्भसा शमं याति सूर्योद्भूतो महानलः ॥४६
भूयश्च नव वर्षाणि वर्षन्त्युग्रं महाघनाः
तदम्भसा समुद्वेला विकृतिं यान्ति वार्धयः ॥४७
कल्पान्ताम्बुदनिर्मुक्तं लोकान् व्याप्नोति तज्जलम्
भूर्भुवःस्वर्महर्लोकान् आवृणोति तमो महत् ॥४८
तदा निमग्ना सलिले मही पातालमूलगा
अनष्टा कथमप्यास्ते ब्रह्मशक्त्यवलम्बिता ॥४९
[[236237]]
श्रीस्कान्दपुराणेे (तृतीयभागे) अष्टमोऽध्यायः

अथ निःश्वाससम्भूतो मारुतो ब्रह्मणोऽर्जुन !
उत्सादयति तान् सर्वान् कल्पान्तोत्थान् महाघनान् ॥५०
एवं प्रवृद्धपवनः शतसंवत्सरात्मकम्
कालं निरन्तरं वाति दुर्निवाररयोत्थितः ॥५१
तमुग्रमनिलं हित्वा हरेर्नाभिसरोरुहे
योगनिद्रामवाप्नोति तस्मिन् पाथसि पद्मभूः ॥५२
योगनिद्रानुष क्तस्य याति तस्य जगद्विभोः
तावती शर्वरी पार्थ ! दिनं यावत्प्रमाणकम् ॥५३
निशायां समतीतायां उत्थितो वेगवान् पुनः
सृजत्यखिलजन्तून् वै पूर्ववच्छासनाद्धरेः ॥५४
कल्पे कल्पे समुचितैः रूपैः पाति जगद्धरिः
अस्मिन् कल्पे श्वेतवर्णां प्राप्तवान् यज्ञपोत्रिताम् ॥५५
वराहवपुषा देवो विहरन्नवनीतले
स्वपूर्वनियताऽऽवासं प्रपेदे वेङ्कटाचलम् ॥५६
स्वामिपुष्करिणीतीरे चरंश्चिरमधोक्षजः
भक्त्या परमया युक्तं अपश्यज्जलजासनम् ॥५७
सम्पूज्य प्रार्थयामास ब्रह्मा तं भूतभावनम्
’पुरातनीं निजां स्वामिन् ! भज दिव्यां तनू’ मिति ॥५८
गृहीत्वाऽनुनयं तस्य त्यक्त्वा तां सूकराकृतिम्
अनन्यभजनीयां स्वां प्राप विश्वात्मिकां तनुम् ॥५९
तथा स्थितं गिरौ तत्र कृत्वाऽप्युत्साहमूर्जितम्
द्रष्टुं न शेकुः सर्वेऽपि कालेन बहुनापि च’ ॥६०
अर्जुनः -
’दर्शनस्मरणादीनां हरिरित्थमगोचरः
कथं प्रत्यक्षतां प्राप मानुषाणां महामुने ! ॥६१
भाग्यभूतोऽथ जगतां यः कोवाऽऽराध्य तं विभुम्
एवं प्रकाशयामास कथामेतां निवेदय’ ॥६२
हरिकथाश्रवणं दुरितापहं
कथयतां सकलागमविद्भवान् ।
सुकृतिनां ननु सम्प्रति धुर्यता
मुनिवरेण्य ! ममाद्य समागता’ ॥६३
इति श्रीस्कान्दपुराणे (तृतीयभागे) तीर्थखण्डे श्री वेङ्कटाचलमाहात्म्ये
वराहावतारकीर्तनं नाम आष्टमोऽध्यायः
—–ठ्—–
[[238239]]
श्रीस्कान्दपुराणेे (तृतीयभागे) अष्टमोऽध्यायः

नवमोऽध्यायः

अथ नवमोऽध्यायः
—–ठ्—–
शङ्खाभिधाननृपवृत्तान्तः
भरद्वाजः-
’शृणु पार्थ ! प्रवक्ष्यामि कथामाश्चर्यकारिणीम्
यथासौ भगवानस्मिन् शैले प्राप्तः प्रकाशताम् ॥१
श्रुताभिधानो नृपतिः अस्ति हैहयवंशजः
यः प्रजाः स्वा इव चिरं शशास धरणीप्रजाः ॥२
तस्य पुत्रो गुणनिधिः शङ्खो नाम महीपतिः
पालयामास वसुधां सर्वशास्त्रविशारदः ॥३
तस्य विष्णौ जगन्नाथे पुण्डरीकायतेक्षणे
बभूव निश्चला भक्तिः परित्यक्तान्यसंश्रया ॥४
देवदेवं जगन्नाथं अनन्तं पुरुषोत्तमम्
प्रगाढनिश्चयो नित्यं ध्यायन्नद्भुतवैभवम् ॥५
चक्रे व्रतानि दानानि पुण्यानि विविधानि च
वेदवेद्यस्य नियतं प्रीत्यर्थं मधुविद्विषः ॥६
तमुद्दिश्यैव विदधे वाजिमेधादिकान् क्रतून्
यथोक्तदक्षिणायोगात् प्रीणिताशेषभूसुरः ॥७
इष्टापूर्तात्मकं चक्रे कर्मजातमतन्द्रितः
विन्यस्तहृदयो नित्यं केशवे भक्तवत्सले ॥८
स्मरत्यजस्रं गोविन्दं जगत्यच्युतमव्ययम्
पूजयत्यब्जनयनं सङ्कीर्तयति शार्ज्गिणम् ॥९
शृणोति सततं राजा संसारार्णवतारिणीः
पौराणिकैः समाख्याताः पवित्रा वैष्णवीः कथाः ॥१०
ब्राह्मणानर्चति स्मायं हरिप्रीत्यर्थमेव च
इत्थं सर्वात्मना युक्तोऽप्यश्रान्तः पृथिवीपतिः११
नापश्यत् शाश्वतैश्वर्यं स्वतन्त्रं पुरुषोत्तमम्
अप्राप्य दर्शनं विष्णोः सर्वयज्ञमयात्मनः
स शोकाक्रान्तहृदयः परां चिन्तामुपागमत्’ ॥१२
शङ्खः -
’परस्सहस्रैर्जननैः अतीतैर्दुष्कृतं बहु
कृतं मया यदप्राप्तं हृषीकेशस्य दर्शनम् ॥१३
उपार्जितानां तपसां अनेकैः पूर्वजन्मभिः
आखण्डं हि फलं विष्णोः दर्शनं मधुघातिनः ॥१४
कथं नु यायाद्भगवान् विषयं मम नेत्रयोः
कदा वा लभ्यते श्रेयः तद्वाक्याकर्णनात्मकम् ॥१५
हा धिङ्मां विहितागस्कं क्रियासाफल्यवर्जितम्
नारायणकृपादूरं संसारक्लेशगोचरम् ॥१६
भरद्वाजः -
इति चिन्ताकुले तस्मिन् राज्ञि जीवितनिःस्पृहे
अदृश्यमूर्तिः सर्वेषां शृण्वतामाह केशवः ॥१७
[[240241]]
श्रीस्कान्दपुराणे (तृतीयभागे) नवमोऽध्यायः

श्रीभगवान् -
’मा शोकस्य वशं यायाः शृणु वक्ष्यामि ते हितम्
मदेकशरणं साधुं त्वां त्यक्ष्यामि कथं नृप? ॥१८
अयं वेङ्कटनामाद्रिः त्रिषु लोकेषु विश्रुतः
वैकुण्ठादपि मे राजन् ! आवासोऽतिप्रियावहः ॥१९
तं गत्वा भूधरवरं तव भक्त्या तपस्यतः
गते सहस्रे वर्षाणां यास्याम्यालोकनीयताम् ॥२०
भवानिवोद्यतोऽगस्त्यो मम दर्शनमञ्जसा
’क्व वा सन्दृश्यते विष्णुः’? एवमाह चतुर्मुखम् ॥२१
’वृषभाद्रौ हरिर्द्रष्टुं लभ्यते नियतात्मभिः
गच्छ तत्रेति’ मुनये कथयामास पद्मभूः ॥२२
अम्भोजसम्भवेनेत्थं आदिष्टः कुम्भसम्भवः
अञ्ज्नाद्रौ महावासे तपस्तप्तुं समेष्यति ॥२३
तस्मिन् महीधरे पुण्ये कृतवासो भवानपि
आराध्य मां तपोनिष्ठो मम दर्शनमाप्स्यसि’ ॥२४
भगवदुक्त्या शङ्खनृपस्य श्रीवेङ्कटाचलागमनम्
भरद्वाजः -
इत्याज्ञप्तो भगवता शङ्खो दानववैरिणा
जगाम प्रीतिमतुलां ’धन्योऽस्मी’ ति स्वचेतसि ॥२५
विन्यस्य तनयं वज्रं प्रजापालनकर्मणि
गोविन्ददर्शनापेक्षी नारायणगिरिं ययौ ॥२६
अस्य शृङ्गे समुत्तुङ्गे स्वामिपुष्करिणीं शुभाम्
दिव्यैः पयोभिरापूर्णां अपश्यदमृतोपमैः ॥२७
अनेकसिद्धगन्धर्व देवर्षिगणसेविताम्
भवतापप्रशमनीं सर्वतीर्थसमाश्रयाम् ॥२८
जलकाकबकक्रौञ्चहंसकारण्डवाकुलाम्
कुमुदोत्पलराजीवसौगन्धिकमनोहराम् ॥२९
तां दृष्ट्वा पद्मिनीं दिव्यां तत्तीरे विहितोटजः
तोषितः स्नानपानाद्यैः निर्विकल्पमनोगतिः ॥३०
सर्वकर्माणि विन्यस्य जगदीशे जनार्दने
जपध्यानपरो नित्यं तपस्तेपे सुदारुणम् ॥३१
भगवद्दर्शनार्थमगस्त्यस्य वेङ्कटाचलागमनम्
तस्मिन्नेव मुनिः काले शासनात्परमेष्ठिनः
अगस्त्योऽप्याससादाद्यं शैलं मुनिशतावृतः ॥३२
प्रतीचीं दिशमारभ्य कृतयत्नः प्रदक्षिणे
पश्यंस्तीर्थानि पुण्यानि बभ्राम सुचिरं गिरौ ॥३३
तत्र तत्र ददर्शासौ हरिदर्शनलालसान्
विरिञ्चिगुहशक्रेशविष्वक्सेनादिकान् क्रमात् ॥३४
सनकाद्यांश्च योगीन्द्रान् नारदप्रमुखान् ऋषीन्
सिद्धगन्धर्वदैतेययक्षराक्षसपन्नगान् ॥३५
तैस्तैः सम्मान्यमानोऽसौ प्रश्रयप्रियभाषिणः
पश्यन्नाश्चर्यभूतानि सर्वाणि विचचार ह ॥३६
[[242243]]
श्रीस्कान्दपुराणेे (तृतीयभागे) नवमोऽध्यायः

स्नात्वा तीर्थेषु सर्वेषु स्कन्दधारादिकेषु च
तत्र तत्रार्चयामास गोविन्दं जगतां पतिम् ॥३७
एवं भ्रान्त्वा गतेऽब्दानां सहस्रैर्मुनिसत्तमः
अपश्यन् पुण्डरीकाक्षं चिन्ताशोकपरोऽभवत् ॥३८
तस्मिन् काले समाजग्मुः धिषणोशनसौ पुनः
राजोपरिचरो नाम वसुश्च तमृषीश्वरम् ॥३९
अगस्त्यं प्रति गुरुवस्वाद्युक्तिः
’’अस्माकं सफलं जातं जीवितं मुनिसत्तमः
दृष्टो भवान् यदस्माभिः नारायण इवापरः ॥४०
ब्रह्मणा लोकनाथेन यदादिष्टा वयं मुने
अच्युतालोकनपराः तदिदं कथ्यते तव ॥४१
’अस्ति दक्षिणदिग्भागे वेङ्कटो नाम भूधरः
श्वेतद्वीपादपि हरेः आवासोऽयमभीप्सितः ॥४२
तस्मिन् गिरावगस्त्यस्य शङ्खस्य च महीपतेः
दर्शयिष्यति गोविन्दो निजरूपं जगद्गुरुः ॥४३
तदानीं सर्वदेवानां ऋषीणां यक्षरक्षसाम्
अस्माकं देवदेवस्य दर्शनं सम्भविष्यति ॥४४
अचिरेणैव तद्भावि ततः सन्त्यक्तकल्मषाः
अन्वेष्टुं गच्छतागस्त्यं तस्मिन् नारायणाचले’ ॥४५
इत्याज्ञप्ता वयं धात्रा नमागम्यात्र भाग्यतः
दृष्टवन्तो महाभागं भवन्तं भूरितेजसम् ॥४६
भवता सहिता गत्वा स्वामिपुष्करिणीतटे
तमप्यालोकयिष्यामः शङ्खं भागवतोत्तमम्’’ ॥४७
अगस्त्यादिकृत श्रीवेङ्कटाचलस्थरम्यवस्तुदर्शनम्
भरद्वाजः -
गीष्पतिप्रमुखैरित्थं आदिष्टः कुम्भसम्भवः
शोकजालं परित्यज्य ययौ तैः सहितो द्रुतम् ॥४८
स ददर्श महावृक्षान् फलपुष्पभरानतान्
प्ररूढशाखानिकरच्छायाच्छादितदिक्तटान् ॥४९
सिंहदन्तावलव्याफ्रुवराहमहिषादिकान्
मृगानालोकयामास पन्थानं चान्तरान्तरा ॥५०
तैस्तदानीं ददृशिरे सानवोऽप्यम्बुभृद्भृतः
सुवर्णरौप्यताव्रूदिशोभिता स्तत्र तत्र तु ॥५१
उच्चलच्छीकरासारनिर्वापितदिवौकसः
वेगोत्थितशिला दृष्टाः शतशो गिरिर्झराः ॥५२
तेषामापादयामास प्रमोदं मन्दमारुतः
कमलामोदसंवाही विचरन् गिरिसानुषु
शुकानां कोकिलानां च तदा शुश्रुविरे गिरः ॥५३
तत्र तत्र समासीनान् विस्तीर्णासु दृषत्सु ते
सिद्धानपश्यन् कृष्णस्य गायतो गुणवैभवम् ॥५४
अगस्त्यप्रमुखाः सर्वे परिक्रम्य मुनीश्वराः
स्वामिपुष्करिणीं दिव्यां ददृशुः विमलोदकाम् ॥५५
[[244245]]
श्रीस्कान्दपुराणे (तृतीयभागे) नवमोऽध्यायः

तत्तीरे विहितावासं अपश्यच्छङ्खभूपतिम्
वाङ्मनःकायजं कर्म सन्निवेश्य स्थितं हरौ ॥५६
स तानालोक्य सहसा मुनीन्द्रान् संशितव्रतान्
यथोक्तमकरोत्पूजां प्रणामस्तुतिपूर्विकाम् ॥५७
आसीनास्तत्र ते सर्वे सम्भाव्यान्योऽन्यमुत्सुकाः
गोविन्दकीर्तनपराः कृतार्थत्वं प्रपेदिरे ॥५८
इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये
श्रीवेङ्कटाचलं प्रति शङ्खागस्त्याद्यागमनवर्णनं नाम
नवमोऽध्यायः
—–ठ्—–

दशमोऽध्यायः

अथ दशमोऽध्यायः
—–ठ्—–
अगस्त्यशङ्खादितपस्तुष्टस्य भगवतः आविर्भावः
भरद्वाजः -
तेषां हरौ जगन्नाथे समावेशितचेतसाम्
दिनत्रयं गतं तत्र पूजास्तोत्रपरात्मनाम् ॥१
तृतीये दिवसे प्राप्ते ते सर्वे निद्रिता निशि
अन्ते चतुर्थयामस्य ददृशुः स्वप्नमुत्तमम् ॥२
शङ्खचक्रगदापाणिं प्रसन्नं पुरुषोत्तमम्
वरदानाय सम्प्राप्तं अपश्यन् स्मेरलोचनम् ॥ ३
उत्थाय मुदिताऽत्मानो गृहान्निर्गत्य पावने
स्वामिपुष्करिणीतोये सस्नुः विधिवदादरात् ॥ ४
विधाय विधिवत्कर्म सर्वे दिनमुखोचितम्
गृहान् प्रत्याययुर्देवं आराधयितुमच्युतम् ॥ ५
सद्यः श्रेयस्करं मार्गे निमित्तं पक्षिसूचितम्
दृष्ट्या प्रसादं देवस्य करस्थं मेनिरे तदा ॥ ६
ततस्त्रिलोककर्तारं पूजयित्वा जनार्दनम्
तुष्टुवुर्विविधैः स्तोत्रैः पवित्रैः वेदवर्णितैः ॥ ७
स्तोत्रावसाने कौन्तेय! मुनीन्द्रः कुम्भसम्भवः
जजाप शङ्खसहितो मन्त्रमष्टाक्षरं हरेः ॥ ८
[[246247]]
श्रीस्कान्दपुराणेे (तृतीयभागे) दशमोऽध्यायः

इत्थं तेषां जगत्स्वामिन्यच्युतेऽर्पितचेतसाम्
अग्रभागे प्रादुरभूत् एकं तेजो महाद्भुतम् ॥९
अनेककोटिसङ्ख्यानां आदित्येन्दुहविर्भुजाम्
एकीभूयाम्बरतले ज्योतिर्जालमिव स्थितम् ॥१०
तत्तेजो वीक्ष्यते सर्वे नितान्ताश्चर्यगोचराः
दध्युर्नारायणं दिव्यं परमानन्दविग्रहम् ॥११
वाङ्मानसपथातीतं विश्रुतैश्वर्यभासुरम्
सहस्रनेत्रं साहस्रबाहुपादैः समन्वितम् ॥१२
तप्तकार्तस्वरनिभस्फुरत्कान्तिमनोहरम्
दंष्ट्राकरालं दुर्दर्शं वमन्तं दहनच्छटाः ॥१३
कौस्तुभेन विराजन्तं दधानमुरसि श्रियम्
अविचिन्त्यमनाद्यन्तं अत्यन्तभयदायकम् ॥१४
प्रकाशयन्तं ब्रह्माण्डं सर्वमात्मनि सर्वगम्
अगस्त्यशङ्खप्रमुखाः ते सर्वे हृष्टचेतसः ॥१५
तमालोक्य जगन्नाथं भूयो भूयो ववन्दिरे
भ्रमन्ति लोकरक्षार्थं आयुधानि तदा हरेः ॥१६
निजतेजोबलोपेतान्याजग्मुस्तं निषेवितुम्
चक्रमर्कप्रभं दिव्या गदा खड्गश्च नन्दकः ॥१७
पुण्डरीकं चोग्ररवः पाञ्चजन्यः शशिप्रभः
तदा ब्रह्माण्डमखिलं पूरयामास निर्भरः ॥१८
पाञ्चजन्यस्य निनदः सर्वासुरभयङ्करः
पाञ्चजन्यध्वनिं श्रुत्वा नितान्ताश्चर्यभीषणम् ॥१९
आययुर्देवताः सर्वाः स्वं स्वं वाहनमास्थिताः
ब्रह्मा रुद्रः शतमखः सनकाद्याश्च योगिनः ॥२०
वसिष्ठमुख्या मुनयो गन्धर्वोरगकिन्नराः
विष्वक्सेनो गरुत्मांश्च विष्णुभृत्या जयादयः ॥२१
सरूपाश्चैव ये नित्याः श्वेतद्वीपनिवासिनः
सुमनोद्रुमसम्भूता सुमनोवृष्टिरद्भुता ॥२२
पपात मेदुरामोदमोदिताशेषमानसा
ननृतुर्दिव्यसुदृशो जगुः किन्नरपुङ्गवाः ॥२३
तुष्टुवुरछर्षतरलाः सुरगन्धर्वचारणाः
दृष्ट्वा ते पुण्डरीकाक्षं प्रसन्नं भक्तवत्सलम्
प्रणम्य तोषयामासुः साष्टाङ्गं विविधैः स्तवैः ॥२४
ब्रह्मादयः -
’जय विष्णो कृपासिन्धो! जय तामरसेक्षण!
जय लोकैकवरद! जय भक्तार्तिभञ्जन! ॥२५
अनन्तमक्षरं शान्तं अवाङ्मनसगोचरम्
को वा भवन्तं जानाति चिदानन्दमयात्मकम् ॥२६
अणोरणुतरं स्थूलात् स्थूलं सर्वान्तरस्थितम्
त्वामामनन्ति पुरुषं प्रकृतेः परमच्युतम् ॥२७
वेदान्तसाररूपं त्वां सर्वान्तर्बाह्यवर्तिनम्
को हि वर्णयितुं शक्तो मायायत्तेषु देहिषु ॥२८
भवदीयमिदं रूपं दृष्ट्वाऽतिभयदायकम्
भयोद्विग्ना वयं सर्वे शान्तं रूपं भजस्व ह’ ॥२९
[[248249]]
श्रीस्कान्दपुराणेे (तृतीयभागे) दशमोऽध्यायः

भरद्वाजः -
इति स्तुतो विरिञ्चाद्यैः प्रसन्नो गरुढध्वज्ः
मेघघोषप्रतिमया वाचा सादरमब्रवीत् ॥३०
ब्रह्मादिप्रार्थनया भगवद्गृहीतसौम्यरूपप्रकारः
श्रीभगवान् -
भयावहामिमां मूर्तिं उत्सृज्याहं प्रियावहम्
शान्तं रूपं भजिष्यामि मां पश्यत निराकुलाः ॥३१
इत्युक्त्वाऽन्तरिछतो भूत्वा तस्मिन्नेव क्षणान्तरे
विमाने रत्नखचिते बभूव सुखदर्शनः ॥३२
चन्द्रबिम्बाननः शान्तो नीलोत्पलदलद्युतिः
सुवर्णवर्णवसनो रत्नभूषणभूषितः ॥३३
शङ्खचक्रगदापद्मलसत्करचतुष्टयः
तमालोक्य रमाकान्तं भूयो भूयो ववन्दिरे ॥३४
सन्तोषयित्वा ब्रह्मादीन् अभीष्टप्रतिपादनैः
अवोचद्विनयानव्रुं अगस्त्यं मुनिपुङ्गवम् ॥३५
’त्वं मुनीन्द्र! व्रतै र्घोरैश्चीर्णैर्मां प्रति सम्प्रति
परिक्लिष्टोऽसि दास्यामि वरांस्तेऽभीप्सितान् वद’ ॥३६
भरद्वाजः -
निशम्य वाक्यं श्रीभर्तुः प्रणम्य च पुनः पुनः
स रोमाञ्चितसर्वाङ्गः कुम्भजन्मा वचोऽब्रवीत् ॥३७
अगस्त्यप्रार्थनया स्वर्णनद्याः भगवद्दत्त सर्वाधिकत्वप्राप्तिः
अगस्त्यः -
’यद्धुतं यत्तपस्तप्तं यदधीतं श्रुतं मया
तत्सर्वं सफलं जातं आदृतोऽस्मि यतस्त्वया ॥३८
एकोऽहमेव धर्मात्मा त्रिषु लोकेष्वपि प्रभो!
त्वां विचिन्वन्तमधुना मामन्विष्याऽगतोऽसि यत् ॥३९
त्वत्प्रसादात् पुरैवाहं प्राप्ताखिलमनोरथः
न पश्यामि विचिन्त्यापि प्राप्यं सम्प्रति माधव! ॥४०
तथाऽपि चापलादेतत् तव विज्ञाप्यते प्रभो
त्वत्पादाम्बुजयोर्भक्तिं एवं कुरु निरन्तराम् ॥४१
अवधारय चैतत्त्वं सुरप्रार्थनया मया
नदी सुवर्णमुखरी स्नाताघौघविनाशिनी ॥४२
साऽभवच्छैलकटकसमासन्ना समागता
तां कृतार्थय लोकेश! त्वदनुग्रहवृत्तिभिः ॥४३
सुवर्णमुखरीतोये स्नात्वा ये वेङ्कटे स्थितम्
पश्यन्ति भुक्तिमुक्त्योस्तु भूयासुः भाजनानि ते ॥४४
अल्पायुषो नरा मूढा ज्ञानयोगपरिच्युताः
न शक्नुवन्ति त्वां द्रष्टुं व्रताध्ययनकर्मभिः ॥४५
सदास्मिन्नास्थितः शैले सर्वेषां च जगद्गुरो!
प्रसादसुमुखो देव! काङ्क्षितार्थप्रदो भव’ ॥४६
[[250251]]
श्रीस्कान्दपुराणेे (तृतीयभागे) दशमोऽध्यायः

श्रीभगवान् -
’यत्प्रार्थितं त्वया विप्रः तत्तथैव भविष्यति
नूनमप्रतिमा लोके मयि भक्तिः कृता त्वया ॥४७
जाह्नवीव नदी सेयं सुवर्णमुखरी मुने!
स्यादाशास्या सुराणां च वाञ्छितश्रीविधायिनी ॥४८
स्वामिपुष्करिणी चेयं नदीमूर्त्या समन्विता
सङ्क्रमिष्यति तां दिव्यां नदीं तीर्थौघसंश्रयाम् ॥४९
वैकुण्ठनाम्नि शैलेऽस्मिन् अद्य प्रभृति सर्वदा
कृतवासो भविष्यामि मुने! प्रार्थनया तव ॥५०
सुवर्णमुखरीस्नानक्षालिताघौघकर्दमाः
अस्मिन् वैकुण्ठशैले मां ये पश्यन्ति समाहिताः ॥५१
भुवि पुत्रादिसम्पन्नाः सर्वैश्वर्यसमन्विताः
मृतास्त्रिविष्टपे भोगान् आकल्पमनुभूय च ॥५२
पुनरावृत्तिरहितं केवलानन्दभासुरम्
मत्पदं समवाप्स्यन्ति नात्र कार्या विचारणा ॥५३
मां द्रष्टुमागतान् सर्वान् प्रतीक्ष्याभीप्सितैः शुभैः
योजयिष्यामि सततं त्वद्वचोगौरवान्मुने ॥५४
पुत्रार्थिनां बहून् पुत्रान् धनानि च धनार्थिनाम्
तदैवारोग्यकामानां रोगशान्तिं गरीयसीम् ॥५५
तीव्रापत्परिभूतानां तथैवापन्निवारणम्
दास्याम्यभीप्सितान् भोगान् दुर्लभानपि सर्वदा ॥५६
ये यान् कामानपेक्ष्येह प्रेक्षन्ते मां समागताः
अवाप्नुवन्ति ते सर्वे तांस्तान् कामान् न संशयः ॥५७
स्थिता वा यत्र कुत्रापि मां स्मरन्ति नरोत्तमाः
ते सर्वे वाञ्छितां सिद्धिं लभन्ते मत्प्रसादतः’ ॥५८
शङ्खनृपवरप्रदानपूर्वकं भगवदन्तर्धानम्
भरद्वाजः -
इत्युक्त्वा तं मुनिं देवः शङ्खमालोक्य भूपतिम्
शृण्वतां ब्रह्ममुख्यानां इदं वचनमब्रवीत् ॥५९
श्रीभगवान्ः -
’प्रीतोऽस्मि शङ्ख! भक्त्या ते वृणीष्वाभीप्सितं वरम्
ददामि वरदोहं ते क्रशिष्ठस्य तपस्यतः’ ॥६०
शङ्खः -
’न याचेऽन्यन्महाबाहो! त्वत्पादाम्बुजसेवनात्
यां प्राप्नुवन्ति त्वद्भक्ताः तां याचे गतिमुत्तमाम्’ ॥६१
भरद्वाजः -
’यत्प्रार्थितं त्वया शङ्खः तत्तथैव भविष्यति
मत्सेवायोगभव्यानां अलभ्यं किमु विद्यते ॥६२
आकल्पमिन्द्रलोकस्थो ह्यप्सरोगणसेवितः
भुक्त्वा बहुविधान् भोगान् ततो मल्लोकमेष्यसि’ ॥६३
भरद्वाजः -
एवं ददौ वरानिष्टान् शङ्खाय पृथिवीभृते
नारायणो जगद्योनिः भजतां कल्पभूरुहः ॥६४
[[252253]]
श्रीस्कान्दपुराणे (तृतीयभागे) दशमोऽध्यायः

ततो ब्रह्मादिकान् सर्वान् विसृज्य कमलेक्षणः
संस्तूय मानसैर्भक्त्या तत्रैवान्तर्दधे प्रभुः ॥६५
भरद्वाजवर्णित श्रीवेङ्कटाचलमाहात्म्यनिगमनम्
भरद्वाजः -
’वेङ्कटाद्रेः प्रभावोऽयं आख्यातो भवतेऽर्जुन!
नराः पापैः प्रमुच्यन्ते श्रुत्वेमां पावनीं कथाम् ॥ ६६
वाराहं रूपमुत्सृज्य ब्रह्मणाऽभ्यर्थितो हरिः
मुमोदात्राद्भुताकारो मायया मोहयन् जगत् ॥ ६७
पश्चादगस्त्यशङ्खाभ्यां प्रार्थितः सुखदर्शनम्
ददौ नितान्तसुभगं शान्तं भोगात्मकं वपुः ॥६८
नारायणं वेङ्कटाद्रिं स्वामिपुष्करिणीं तथा
इमामाख्यां च संस्मृत्य मुच्यन्ते पातकैर्जनाः ॥६९
वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥७०
वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन
स्वामितीर्थसरस्तुल्यं न कुत्रापि च विद्यते ॥७१
प्रातरुत्थाय ये नित्यं वेङ्कटेशं स्मरन्ति वै
तेषां करस्था मोक्षश्रीः नात्र कार्या विचारणा ॥७२
स्वामिपुष्करिणीतीर्थे स्नात्वा सर्वात्मकं हरिम्
ये वा पश्यन्ति नियता वराहाचलवासिनम् ॥७३
तेऽश्वमेधसहस्रस्य वाजपेयशतस्य च
प्राप्नुवन्ति फलं पूर्णं नात्र कार्या विचारणा ॥७४
वेङ्कटाचलमाहात्म्यं ये शृण्वन्ति नरोत्तमाः
तेषां मुक्तिश्च भु क्तिश्च इह लोके परत्र च ॥७५
आतः परं महानद्याः प्रभावः कथ्यतेऽर्जुन ॥७६
इति श्रीस्कान्दपुराणे तीर्थखण्डे सुवर्णमुखरीमाहात्म्ये
श्रीवेङ्कटाचल प्रशंसायामगस्त्य शङ्खादितपस्तुष्ट
श्रीवेङ्कटेशाविर्भावादिमाहात्म्यवर्णनं नाम
दशमोऽध्यायः
—–ठ्—–