श्रीरस्तु
176श्रीस्कान्दपुराणे सप्तदशोऽध्यायः177
श्री श्रीनिवासपरब्रह्मणे नमः
—–ठ्—–
(श्रीस्कान्दपुराणान्तर्गतम्)
—–ठ्—–
हरिः ओम्
श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम्
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्री वेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम्
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
सप्तत्रिंशोऽध्यायः
अथ सप्तत्रिंशोऽध्यायः
—–ठ्—–
कटाहतीर्थमाहात्म्यम्
ऋषयः-
सूत ! सर्वार्थतत्त्वज्ञ ! वेदवेदान्तपारग !
श्रीवेङ्कटाचले तीर्थं कटाहाख्यं सुपावनम् ॥१
श्रूयते तस्य माहात्म्यं घुष्यते च जगत्त्रये
अस्माकमेतत् ब्रूहि त्वं कृपया व्यासशासित ! ॥२
पुरा वै नारदः श्रीमान् ब्रह्मपुत्रो महानृषिः
दृष्ट्वा वै नैमिशारण्यं सम्प्राप्तो द्विजसत्तमः ॥३
तदानीं ब्रह्मपुत्रं तं अर्घ्यपाद्यादिभिः शुभैः
पूजयित्वा यथान्यायं पवित्रे च कुशासने ॥४
सन्निवेश्य महाभक्त्या विनयानतकन्धराः
प्रणम्य प्रार्थयामासुः इमे सर्वे महर्षयः ॥५
त्वां विना नारद ! श्रीमन् ! अस्माकं भुवनत्रये
धर्मोपदेशकः कश्चित् नास्ति नास्ति महर्षिषु ॥६
वेङ्कटाद्रौ महापुण्ये सर्वदेवनिषेविते ॥
वैकुण्ठादागते दिव्ये सिद्धगन्धर्वसेविते ॥७
कटाहतीर्थमाहात्म्यं वर्णयाद्य वनौकसाम् ८
श्रीनारदः-
’शृणुध्वमृषयः सर्वे शौनकाद्याः ! महौजसः !
कटाहतीर्थमाहात्म्यं को वेत्ति ? भुवनत्रये ॥९
महादेवो विजानाति तस्य तीर्थस्य वैभवम्
यानि कानि च पुण्यानि ब्रह्माण्डान्तर्गतानि वै ॥१०
तानि गङ्गादितीर्थानि ग्वपापपरिशुद्धये
कटाहतीर्थसेवां च कुर्वन्ति द्विजसत्तमाः ! ॥११
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेतरजातयः
स्पृशन्ति तज्जलमिति न पिबेद्यो विमूढधीः ॥१२
स हि चण्डालतां प्राप्य कुम्भीपाके पतिप्यति
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतीश्वरः ॥१३
[[179]]
श्रीस्कान्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः
सेवया तस्य तीर्थस्य प्राप्नोति परमं पदम्
श्रुतिस्मृतिपुराणेषु तस्य तीर्थप्रशंसनम् ॥१४
बहुधा वर्ण्यते पञ्चमहापातकनाशनम्
अत्यद्भुततरं विप्राः ! सर्वलोकैकपावनम् ॥१५
ब्रह्महत्यायुतं चापि सुरापानायुतं तथा
अयुतं गुरुदाराणां गमनं पापकारणम् ॥१६
स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटयः
शीफ्रुं विलयमायान्ति तस्य तीर्थस्य सेवया ॥१७
यानि निष्कृतिहीनानि पापानि विविधानि च
तानि सर्वाणि नश्यन्ति तीर्थस्यास्य निषेवणात् ॥१८
इदं तीर्थं महापुण्यं भगवत्पादनिस्सृतम्
कुष्ठादिरोगयुक्तो यः प्रत्यहं च पिबेदिदम् ॥१९
सोऽपि रोगविहीनः सन् विष्णुलोकं च गच्छति
भगवान् शङ्करो देवो रहस्यानुभवे पुरा ॥२०
पार्वत्यै कथयामास तस्य तीर्थस्य वैभवम्
उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ॥२१
कटाहतीर्थमहिमश्रद्धाशून्यानां महानरकप्राप्तिः
अर्थवादोऽयमिति च न वक्तव्यं कदाचन
येऽर्थवादमिदं ब्रूयुः तेषां वै नास्तिकात्मनाम् ॥२२
जिह्वाग्रे परशुं तप्तं प्रक्षिपन्ति च किङ्कराः
तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः ॥२३
सर्वदुःखप्रशमनं अपवर्गफलप्रदम्
यत्र पीत्वा नरो भक्त्या सर्वान् कामानवाप्नुयात् ॥२४
एवमुक्त्वा महाभागः काशीं त्रैलोक्यपावनीम्
सम्प्राप्तो नारदः श्रीमान् सूत ! पौराणिकोत्तम ! ॥२५
सङ्क्षेपतश्च भगवान् नैमिशे ह्युक्तवान् खलु
इदानीं श्रोतुमिच्छामः कटाहस्य च वैभवम्
सुविस्तरेण चास्माकं वद सूत ! कृपावशात् ॥२६
कटाहतीर्थपानक्रमः
श्रीसूतः-
भो भोस्तपोधनाः सर्वे ? नैमिशारण्यवासिनः !
कटाहतीर्थमाहात्म्यं शृणुध्वं द्विजसत्तमाः ! ॥२७
कटाहतीर्थं भो विप्राः ! सर्वलोकेषु विश्रुतम्
सर्वसम्पत्करं शुद्धं सर्वपापप्रणाशनम् ॥२८
दुःस्वप्ननाशनं ह्येतत् महापातकनाशनम्
महाविघ्नप्रशमनं महाशान्तिकरं नृणाम् ॥२९
स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम्
मन्त्रेणाष्टाक्षरेणैव पिबेत्तीर्थं मनोहरम् ॥३०
अथवा केशवाद्यैश्च नामभिर्वा पिबेज्जलम्
यद्वा नामत्रयेणापि पिबेत्तीर्थं शुभप्रदम् ॥३१
आहोस्विद्वेङ्कटेशस्य मन्त्रेणाष्टाक्षरेण वै
पिबेत्कटाहतीर्थं तत् भुक्तिमुक्तिप्रदायकम् ॥३२
[[180181]]
श्रीस्कान्दपुराणेे द्वितीयभागे सप्तत्रिंशोऽध्यायः
विना मन्त्रेण यो विप्रः सम्पिबेत्तीर्थमु त्तमम्
पापं मे नाशय क्षिप्रं जन्मान्तरकृतं महत्’ ॥३३
इत्युक्त्वा स पिबेन्नित्यं मोक्षमार्गैकसाधनम्
स्वामिपुष्करिणीस्नानं वराहश्रीशदर्शनम् ॥३४
कटाहतीर्थपानं च त्रयं त्रैलोक्यदुर्लभम्
बहुना किमिहोक्तेन ! ब्रह्महत्यादिनाशनम् ॥३५
केशवाख्यद्विजवृत्तान्तः
पुरा कश्चित् द्विजो मोहात् केशवाख्यो बहुश्रुतः
हत्वा खड्गेन दुर्बुद्ध्या ब्रह्महत्यामवाप्तवान् ॥३६
सोऽपि तस्मिन् महातीर्थे पीत्वा जलमनुत्तमम्
केशवाख्यो महापापी विमुक्तो ब्रह्महत्यया ॥३७
ऋषयः-
कस्य पुत्रः केशवाख्यः कथं प्राप्तो भयङ्करीम्
ब्रह्महत्यामतिक्रूरां अस्माकं वक्तुमरछसि ॥३८
गणिकालम्पटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः
श्रीसूतः-
तुङ्गभद्रातटे रम्ये गन्धर्वैरुपसेविते
अग्रहारो महानासीत् ’वेदाढ्य’ इति नामतः ॥३९
तस्मिन् वेदपुरे रम्ये ब्राह्मणा वेदपारगाः
शब्दशास्त्रपराः सर्वे ज्योतिःशास्त्रप्रवर्तकाः ॥४०
मीमांसातर्कशास्त्रज्ञाः सर्वेवेदान्तवादिनः
धर्मशास्त्रेषु निरताः अन्नदानपराः सदा ॥४१
पुत्रवन्तश्च ते सर्वे ह्यग्रहारे महाजनाः
वेदाढ्येऽप्यग्रहारे वै पद्मनाभ इति श्रुतः ॥४२
तस्य पुत्रः केशवाख्यः सर्वकर्मबहिष्कृतः
मातरं पितरं त्यक्त्वा भार्यामपि पतिव्रताम् ॥४३
सर्वदा गणिकासक्तो वेश्यागारं विवेश ह
दिनद्वये च तां वेश्यामनुभूय द्विजस्ततः ॥४४
निष्कद्वयं प्रदातव्यं हस्ते दत्त्वा गतः सुखम्
वेश्यया चाधनस्त्यक्तः तत्संयोगैकतत्सरः ॥४५
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम्
दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ॥४६
एकेन चषकेणासौ तया सह सुरां पपौ
स कदाचित् किरातैस्तु द्रव्यं हर्तुं ययौ द्विजः ॥४७
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक्
केशवो विप्रबन्धुर्वै साहसी खड्गहस्तवान् ॥४८
तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसात्
समादाय बहु द्रव्यं वेश्यागारं विवेश ह ॥४९
तं यान्तमनुयाति स्म ब्रह्महत्मा भयङ्करी
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥५०
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी
अनुद्रुतस्तया विप्रो बभ्राम जगतीतले ॥५१
[[182183]]
श्रीस्कान्दपुराणेे द्वितीयभागे सप्तत्रिंशोऽध्यायः
एवं भ्रमन् धरां सर्वां विप्रबन्धुर्दुरात्मवान्
स्वग्रामं प्रययौ भीत्या शौनकाद्याः ! महौजसः ! ॥५२
अनुद्रुतस्तया भीतः प्रययौ स्वनिकेतनम्
ब्रह्महत्याऽप्यनुद्रुत्य तेन साकं गृहं ययौ ॥५३
जनकं ’रक्ष’ ’रक्षे’ ति केशवः शरणं ययौ
’मा भैषी’रिति स प्रोच्य पिता रक्षितुमुद्यतः
क्रूरैनं ब्रह्महत्या सा जनकं प्रत्यभाषत ॥५४
स्वसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः
ब्रह्महत्या :-
’मौनं त्वं प्रतिगृह्णीष्व पद्मनाभ ! द्विजोत्तम !
अयं सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥५५
मातृद्रोही पितृद्रोही भार्यात्यागी च दुष्टधीः
गणिकासक्तचित्तश्च ह्येनं मुञ्च दुरात्मकम् ॥५६
गृह्णासि चेत्सुतं विप्र ! महापातकिनं वृथा
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ! ॥५७
भक्षयिष्यामि वंशं च तस्मान्मुञ्च दुरात्मकम्
इमं त्यजसि चेत्पुत्रं युष्मान् मुञ्चामि साम्प्रतम् ॥५८
नैकस्यार्थे कुलं हन्तुं अरछसि त्वं महामते’ !
इत्युक्तः स तया तत्र पद्मनाभोऽब्रवीच्च ताम् ॥५९
पद्मनाभः-
’बाधते मां सुतस्नेहः कथं पुत्रं परित्यजे’ ?
ब्रह्महत्या तदाकर्ण्य पद्मनाभं तमब्रवीत् ॥६०
ब्रह्महत्यः-
’पुत्रोऽयं पतितो भूत्ते वर्णाश्रमबहिष्कृतः
पुत्रेऽस्मिन् मा कुरु स्नेहं निन्दितं तस्य दर्शनम् ॥६१
इत्युक्त्वा ब्रह्महत्या सा पद्मनाभस्य पश्यतः
हस्तेन प्रजहारास्य सुतं केशवनामकम् ॥६२
रुरोद ’तात ताते’ति जनकं प्रब्रुवन् मुहुः
रुरुदुर्जनको माता भार्या तस्य दुरात्मनः ॥६३
तस्मिन् काले महाभागो भरद्वाजो महामुनिः
दिष्ट्या समाययौ योगी शौनकाद्या ! महौजसः ॥६४
पद्मनाभोऽथ तं दृष्ट्वा भरद्वाजं महामुनिम्
स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ॥६५
पद्मनाभं प्रति भरद्वाजकथित ब्रह्महत्याविमुक्त्युपायः
’भरद्वाज महाभाग ! साक्षाद्विष्ण्वंशको भवान्
त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥६६
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम
पुत्रं प्रहर्तुमायाता ब्रह्महत्या भयङ्करी ॥६७
भूयाद्यथा मे पुत्रोऽयं महापातकमोचितः
फेूरेयं ब्रह्महत्या च यथा शीफ्रुं लयं व्रजेत् ॥६८
[[184185]]
श्रीस्कान्दपुराणेे द्वितीयभागे सप्तत्रिंशोऽध्यायः
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु
एक एव हि पुत्रो मे नान्योऽस्ति तनयो मुने ! ॥६९
सुते मृते तु वंशो मे समुच्छिद्येत मूलतः
ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्ध्रुवम् ॥७०
ततः कृपां कुरुष्व त्वं अस्मासु भगवन् मुने !’
इत्युक्तः स भरद्वाजः साक्षान्नारायणांशकः
ध्यात्वा तु सुचिरं कालं पद्मनाभं वचोऽब्रवीत् ॥७१
भरद्वाजः-
’पद्मनाभ ! कृतं पापं अतिक्रूरं सुतेन ते
नास्य पापस्य शान्तिः स्यात् प्रायश्चित्तायुतैरपि ॥७२
तथाऽपि ते सुतस्याहं अस्य पापस्य शान्तये
प्रायश्चित्तं वदिष्यामि पद्मनाभ ! शृणु द्विज ! ॥७३
गङ्गाया दक्षिणे भागे द्विशतीयोजने द्विज !
पूर्वाम्भोधेः पश्चिमे तु पञ्चभिर्योजनैर्मिते ॥७४
सुवर्णमुखरीतीरे चोत्तरे क्रोशमात्रके
वेङ्कटाद्रिरिति ख्यातः सर्वलोकनमस्कृतः ॥७५
मेरुपुत्रो महापुण्यः सर्वदेवाभिवन्दितः
वैकुण्ठलोकादानीतो विष्णोः क्रीडाचलो महान् ॥७६
गरुत्मता वेगवता स्वर्णमुख्यास्तटे शुभे
वर्तते देवसङ्घैश्च ऋषिसङ्घैश्च पूजितः ॥७७
तस्मिन् वेङ्कटशैलेन्द्रे साक्षान्नारायणः स्वयम्
लक्ष्मीदेव्या च भूदेव्या नीलादेव्या समागतः ॥७८
वर्तते वेङ्कटेशः स साक्षान्मोक्षप्रदायकः
तस्य वेङ्कटनाथस्य ह्यालयस्य तथोत्तरे ॥७९
कटाहतीर्थं विप्रेन्द्र ! वर्तते मङ्गलप्रदम्
ब्रह्महत्यादिपापघ्नं वाञ्छितार्थप्रदायकम् ॥८०
सुतेन साकं विप्रेन्द्र ! पिब तीर्थं मनोहरम्’
भरद्वाजस्य वाक्यं तत् श्रुत्वा वै वेदसम्मितम्
शिरसा तं प्रणम्याऽथ ययौ वेङ्कटपर्वतम् ॥८१
भरद्वाजोक्त्या कटाहतीर्थपानेन केशवस्य ब्रह्महत्याविमुक्तिः
तं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीजले
सुतेन साकं विप्रेन्द्रः सस्नौ नियमपूर्वकम् ॥८२
वराहस्वामिनं नत्वा श्रीनिवासालयं गतः
प्रदक्षिणं ततः कृत्वा विमानं सम्प्रणम्य च ॥८३
पद्मनाभोऽथ पुत्रेण केशवेन दुरात्मना
पपौ कटाहतीर्थं तत् ब्रह्महत्याविनाशकम् ॥८४
तदानीं ब्रह्महत्या सा शीफ्रुमेव लयं गता
अनन्तरं ततो गत्वा वेङ्कटेशं कृपानिधिम् ॥८५
पुत्रेण सह विप्रेन्द्रः पद्मनाभो ददर्श सः
तदा प्रादुरभूद्देवो वेङ्कटेशो दयानिधिः
कटाहतीर्थपानेन तोषितो वाक्यमब्रवीत् ॥८६
[[186187]]
श्रीस्कान्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः
ब्रह्महत्याविमुक्तसुतेन सहितं पद्मनाभं प्रति भगवदुक्तिः
श्रीभगवान्-
’पद्मनाभ ! महाबुद्धे ! वेदवेदान्तपारग !
भरद्वाजस्य वाक्येन प्राप्य वेङ्कटपर्वतम् ॥८७
कटाहतीर्थं त्वं पीत्वा कृतार्थोऽसि न संशयः
तव पुत्रः केशवाख्यो विमुक्तो ब्रह्महत्यया ॥८८
तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः
तस्मिंस्तीर्थे महाभाग ! पीत्वा जलमनुत्तमम् ॥८९
पापिनोऽपि कृतार्थाः स्युः सत्यं सत्यं न संशयः
मामकं लोकमागत्य सुखी भव महामते !’
इत्युक्त्वा वेङ्कटेशोऽसौ अन्तर्धानं गतस्ततः ॥९०
श्रीसूतः-
तस्मात्तपोधनाः सर्वे शौनकाद्या महौजसः !
कटाहतीर्थमाहात्म्यं इतिहाससमन्वितम्
यथाश्रुतं मया सम्यक् तथोक्तं भवतां द्विजाः !९१
इति श्री स्कान्दपुराणे श्री वेङ्कटाचलमाहात्मे्य सूतशौनकसंवादे
कटाहतीर्थप्रशंसनं नाम सप्तत्रिंशोऽध्यायः
समाप्तो द्वितीयो भागः
श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान्
अभङ्गुरविभूतिर्नस्तरङ्गयतु मङ्गलम् ॥
—–ठ्—–