११ स्कान्दपुराणम् १

श्रीरस्तु
श्रीश्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्रीमते विष्वक्सेनाय नमः

प्रथमोऽध्यायः

(श्रीस्कान्दपुराणान्तर्गतम्)
श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
हरिः ओम्
प्रथमोऽध्यायः
—–ठ्—–
काश्यपस्य स्वामिपुष्करिणीस्नानेन महापातकनाशः
श्रीसूतः -
ॐ अथातः सम्प्रवक्ष्यामि स्वामिपुष्करिणीं शुभाम्
लक्ष्यीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ! ॥१
काश्यपाख्यो द्विजः पूर्वं तस्मिंस्तीर्थवरे शुभे
स्नात्वाऽतिमहतः पापात् विमुक्तो नरकप्रदात् ॥२
ऋषयः -
मुने ! काश्यपनामाऽसौ अकरोत् किं हि पातकम्
स्नात्वा तीर्थवरे ह्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ॥३
[[66]]

एतन्नः श्रद्दधानानां ब्रूहि सूत ! कृपाबलात्
त्वद्वचोऽमृततृप्तानां न पिपासाऽपि विद्यते ॥४
श्रीसूतः -
श्रीस्वामिपुष्करिण्याश्च माहात्म्यप्रतिपादकम्
इतिहासं प्रवक्ष्यामि पठतां पापनाशनम् ॥५
परीक्षित्वृत्तान्तः
अभिमन्युसुतो राजा परीक्षिन्नाम नामतः
अध्यास्त हास्तिनपुरं पालयन् धर्मतो महीम् ॥६
स राजा जातु विपिने चचार मृगयारतः
षष्टिवर्षवया भूपः क्षु त्तृष्णापरिपीडितः ॥७
नष्टमेकं स विपिने मार्गयन् मृगमादरात्
ध्यानारूढं मुनिं दृष्ट्वा प्राह भूपालकोत्तमः ॥८
’मया बाणेन विपिने मृगो विद्धोऽधुना मुने !
दृष्टः स किं ? त्वया विद्वन् ! विद्रुतो भयकातरः ॥९
समाधिनिष्ठो मौनित्वात् न किञ्चिदपि सोऽब्रवीत्
ततो धनुरटन्या स स्कन्धे तस्य महामुनेः !१०
निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ
मुनेस्तस्य सुतः कश्चित् शृङ्गी नाम बभूव वै ॥११
सखा तस्य कृशाख्योऽभूत् शृङ्गिणो द्विजसत्तमः
सखाऽयं शृङ्गिणं प्राह कृशाख्यः स सखा ततः ॥१२
’पिता तव मृतं सर्पं स्कन्धेन वहतेऽधुना
मा भूद्दर्पस्तव सखे ! मा कृद्ध्यस्त्वमिदं वृथा’ ॥१३
सोऽभवत्कुपितः शृङ्गी दित्सुः शापं नृपाय वै
’मत्ताते शवसर्पं यो न्यस्तवान् मूढचेतनः ॥१४
स सप्तरात्रात् व्रिुयतां सन्दष्टस्तक्षकाहिना’
शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ॥१५
शमीकाख्यः पिता तस्य शप्तं श्रुत्वा सुतेन तम्
नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुङ्गवः ॥१६
रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ?
अराजके वयं लोके स्थास्यामः कथमञ्जसा ॥१७
क्रोधेन पातकं भूयात् दयया प्राप्यते सुखम्
यः समुत्पादितं कोपं क्षमयैव निरस्यति ॥१८
इह लोके परत्रासौ अत्यन्तं सुखमश्नुते
क्षमायुक्ता हि पुरुषा लभन्ते श्रेय उत्तमम्’ ॥१९
ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम्
भो गौरमुख ! गत्वा त्वं वद भूपं परीक्षितम् ॥२०
इमं शापं मत्सुतोक्तं तक्षकाधिपदंशनम्
पुनरायाहि शीफ्रुं त्वं मत्समीपं महामते ! ॥२१
एवमुक्तः शमीकेन ययौ गौरमुखो नृपम्
समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ॥२२
’’दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम्
शमीकस्य सुतः शृङ्गी शशाप त्वां रुषाऽन्वितः ॥२३
[[6869]]
श्रीस्कान्दपुराणे प्रथमोऽध्यायः

एतद्दिनात् सप्तमेऽह्नि तक्षकेण महाहिना
दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ॥२४
एवं शशाप त्वां राजन् ! शृङ्गी तस्य मुनेः सुतः
एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदन्तिकम्’’ ॥२५
इतीरयित्वा तं भूपं आशु गौरमुखो ययौ
गते गौरमुखे पश्चात् राजा शोकपरायणः ॥२६
अभ्रंलिहमथोत्तुङ्गं एकस्तम्भसुविस्तृतम्
मध्येगङ्गं व्यतनुत मण्डपं नृपपुङ्गवः ॥२७
महागारुडमन्त्रज्ञेः ओषधिज्ञैश्चिकित्सकैः
तक्षकस्य विषं हन्तुं यत्नं कुर्वन् समाहितः ॥२८
अनेकदेवब्रह्मर्षि राजर्षिप्रवरान्वितः
आस्ते तस्मिन् नृपस्तुङ्गे मण्डपे विष्णुभक्तिमान् ॥२९
तस्मिन्नवसरे विप्रः काश्यपो मान्त्रिकोत्तमः
राजानं रक्षितुं प्रायात् तक्षकस्य महाविषात् ॥३०
सप्तमेऽहनि विप्रेन्द्रो दरिद्रो धनकामुकः
अत्रान्तरे तक्षकोऽपि विप्ररूपी समाययौ ॥३१
मध्येमार्गं विलोक्याथ काश्यपं प्रत्यभाषत
’ब्राह्मण ! त्वं कुत्र यासि ? वद मेऽद्य महामुने’ ॥३२
इति पृष्टस्तदाऽवादीत् काश्यपस्तक्षकं द्विजः
’परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ॥३३
धक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम्’
इत्युक्तः स च तं विप्रं तक्षकः पुनरब्रवीत् ॥३४
’तक्षकोऽहं द्विजश्रेष्ठ ! मया दष्टश्चिकित्सितुम्
न शक्योऽब्दशतेनापि महामन्त्रायुतैरपि ॥३५
चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना
अनेकयोजनोच्छ्रायं दशाम्युज्जीवय द्रुमम् ॥३६
ततो भवान् समर्थो हीत्येवं मे भाति हे द्विज !’
इतीरयित्वा तं वृक्षं अदशत्तक्षकस्तदा ॥३७
अभवद्भस्मसात् सोऽपि वृक्षोऽत्यन्तसमुच्छ्रितः
पूर्वमेव नरः कश्चित् तं वृक्षमधिरूढवान् ॥३८
तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा
तन्नरं न विजज्ञाते तौ च काश्यपतक्षकौ ॥३९
काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः
मन्मन्त्रशक्तिं पश्यन्तु सर्वे विप्रादयोऽधुना’ ॥४०
इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना
आजीवयन्मन्त्रशक्त्या काश्यपो मान्त्रिकोत्तमः ॥४१
स नरस्तेन वृक्षेण साकमुज्जीवितोऽभवत्
अथाब्रवीत्तक्षकस्तं काश्यपं मन्त्रकोविदम् ॥४२
’यथा न मुनिवाक् मिथ्या भवेदेवं कुरु द्विज !
यत्ते राजा धनं दद्यात् ततोऽपि द्विगुणं धनम् ॥४३
[[7071]]
श्रीस्कान्दपुराणे प्रथमोऽध्यायः

ददाम्यहं निवर्तस्व शीफ्रुमेव द्विजोत्तम !’
इत्युक्त्वाऽनर्घरत्नानि तस्मै दत्त्वा स तक्षकः ॥४४
न्यवर्तयत् काश्यपं तं ब्राह्मणं मन्त्रकोविदम्
अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ॥४५
स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकः ॥
सोऽब्रवीत् तक्षकः सर्पान् सर्वानाहूय तत्क्षणे ॥४६
’यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः
उपहारफलान्याशु प्रयच्छथ परीक्षिते’ ॥४७
’तथे’ त्युक्ता सर्वसर्पाः ददू राज्ञे फलान्यमी
तक्षकोऽपि तथा तत्र कस्मिंश्चिद्बदरीफले
कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ॥४८
अथ राजा प्रदत्तानि सर्वैर्ब्राह्मणरूपकैः
परीक्षित् मन्त्रिवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ॥४९
कौतूहलेन जग्राह स्थूलमेकं करे फलम्
तस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत ॥५०
’मिथ्या ऋषिवचो मा भूदि’ति तत्रत्यमानवाः
अन्योऽन्यमवदन्त्सर्वे ब्राह्मणाश्च नृपास्तदा ॥५१
एवं वदत्सु सर्वेषु फले तस्मिन् अदृश्यत
साधु रक्तः कृमिः सर्वैः राज्ञा चापि परीक्षिता ॥५२
’अयं किं मां दशेदद्य कृमि’ रित्युक्तवान् नृपः
निदधे तत्फलं कण्ठे सकृमि द्विजसत्तमाः ! ॥५३
तक्षकोऽस्मिंस्थितः कण्ठे कृमिरूपी फले तदा
निर्गत्य तत्फलादाशु नृपदेहमवेष्टयत् ॥५४
तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात्
अनन्तरं नृपो विप्राः ! तक्षकस्य विषाग्निना ॥५५
दग्धोऽभूद्भस्मसादाशु सप्रासादो बलीयसा
कृत्त्वौर्ध्वदेहिकं तस्य नृपस्य स पुरोहितः ॥५६
मन्त्रिणस्तत्सुतं राज्ये जनमेजयनामकम्
राजानमभ्यषिञ्चन् वै जगद्रक्षणवाञ्छया ॥५७
तक्षकाद्रक्षितुं भूपं आयातः काश्यपाभिधः
यो ब्राह्मणो मुनिश्रेष्ठः स सर्वैर्निन्दितो जनैः ॥५८
बभ्राम सकलान् देशान् शिष्टैः सर्वैश्च दूषितः
अवस्थानं न लेभे स ग्रामे वाप्याश्रमेऽपि वा ॥५९
यान्यान् देशानसौ यातः तत्र तत्र महाजनैः
तत्तद्देशान्निरस्तः सन् शाकल्यं शरणं ययौ ॥६०
प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः
इदं विज्ञापयामास शाकल्याय महात्मने ॥६१
काश्यपः -
’भगवन् ! सर्वधर्मज्ञ ! शाकल्य ! हरिवल्लभ !
मुनयो ब्राह्मणाश्चान्ये मां निन्दन्ति सुहृज्जनाः ॥६२
नास्याऽहं कारणं जाने किं मां निन्दन्ति मानवाः
ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ॥६३
स्तेयं संसर्गदोषो वा मया नाऽऽचरितं क्वचित्
अन्यान्यपि च पापानि न कृतानि मया मुने ! ॥६४
[[7273]]
श्रीस्कान्दपुराणे प्रथमोऽध्यायः

तथाऽपि निन्दन्ति जनाः वृथा मां बान्धवादयः
जानासि चेत् त्वं शाकल्य ! मया दोषं कृतं वद ॥६५
उक्तोऽथ काश्यपेनैव शाकल्याख्यो महामुनिः
क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ! ॥६६
शाकल्योक्तधर्माः
शाकल्यः -
परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान्
आयासीदर्धमार्गे तु तक्षकेण निवारितः ॥६७
चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम्
यो न रक्षति लोकेऽस्मिन् तमाहुर्ब्रह्मघातुकम् ॥६८
क्रोधात्कामाद्भयाल्लोभात् मात्सर्यान्मोहतोऽपि वा
यो न रक्षति विप्रेन्द्र ! विषरोगातुरं नरम् ॥६९
ब्रह्महा च सुरापी वा स्तेयी च गुरुतल्पगः
संसर्गदोषदुष्टश्च नापि तस्य विनिष्कृतिः ॥७०
कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा
कृतघ्नस्याऽपि शास्त्रेषु प्रायश्चित्तं न विद्यते ॥७१
विषरोगातुरं यस्तु समर्थोऽपि न रक्षति
न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ॥७२
न तेन सह पङ्क्तौ च भुञ्जीत सुकृती जनः
न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ॥७३
तत्सम्भाषणमात्रेण महापातकभाक् भवेत्
परीक्षित् तु महाराजः पुण्यश्लोकश्च धार्मिकः ॥७४
विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता
व्यासपुत्राद्धरिकथां श्रुतवान् भक्तिपूर्वकम् ॥७५
अरक्षित्वा नृपं तं तु वचसा तक्षकस्य यत्
निवृत्तस्तेन विप्रेन्द्रैः बान्धवैरपि दूष्यसे ॥७६
स परीक्षिन्महाराजो यद्यपि क्षणजीवितः
तथाऽपि यावन्मरणं बुधैः कार्यं चिकित्सितम् ॥७७
’यावत्कण्ठगताः प्राणाः मुमूर्षोर्मानवस्य हि
तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः ॥७८
इति प्राहुः पुरा श्लोकं भिषग्विद्याब्धिपारगाः
ततश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ॥७९
अर्धमार्गनिवृत्तश्च तेन त्वं गरिछतो ह्यसि
शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ॥८०
काश्यपः -
’ममैतद्दोषशान्त्यर्थं उपायं वद सुव्रत
येन मां प्रतिगृह्णीयुः बान्धवाः ससुहृज्जनाः ॥८१
कृपां मयि कुरुष्व त्वं शाकल्य ! हरिवल्लभ !’
काश्यपेनैवमुक्तस्तु शाकल्योऽपि मुनीश्वरः
क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ॥८२
’अस्य पापस्य शान्त्यर्थं उपायं प्रवदामि ते
तत्कर्तव्यं त्यया शीफ्रुं विलम्बं मा कृथा द्विज ! ॥८३
[[7475]]
श्रीस्कान्दपुराणे प्रथमोऽध्यायः

सुवर्णमुखरीतीरे लक्ष्मीपतिनिवासभूः
वेङ्कटाद्रिरिति ख्यातः सर्वलोकेषु पूजितः ॥८४
तस्मिञ्छेषगिरौ पुण्ये सुरासुरनमस्कृते
ब्रह्महत्यासुरापानस्वर्णस्तेयादिनाशके ॥८५
स्वामिपुष्करिणी चेति सर्वपापापनोदिनी
उत्तरे श्रीनिवासस्य वर्तते मङ्गलप्रदा ॥८६
तं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीं शुभाम्
स्नात्वा सङ्कल्पपूर्वं तु वराहस्वामिनं हरिम् ॥८७
सेवित्वा पश्चिमे तीरे निर्गत्य हरिमन्दिरम्
गत्वा तत्र विधानेन स्वर्णाचलनिवासिनम् ॥८८
श्रीनिवासं परं देवं भक्तानामभयप्रदम्
शङ्खचक्रधरं देवं वनमालाविभूषितम् ॥८९
दृष्ट्वा निर्धूतपापोऽसि संशयं मा कृथा द्विज !’
शाकल्येनैवमुक्तस्तु काश्यपो मुनिपुङ्गवः ॥९०
गत्वा वेङ्कटशैलेन्द्रं सुरासुरनमस्कृतम्
पुष्करिण्यां शुभायां तु स्नातो नियमपूर्वकम् ॥९१
स्वस्थोऽभूत्काश्यपो विप्रो भिषग्विद्याब्धिपारगः
सर्वे बन्धजना विप्राः काश्यपं ब्राह्मणोत्तमम् ॥९२
पूजयित्वा विधानेन पूज्योऽसि न च संशयः
एवं वः कथितं विप्रा वेङ्कटाचलवैभवम्
यः शृणोति नरो भक्त्या विष्णुलोके महीयते ॥९३
इति श्री स्कान्दपुराणे श्री वेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचलस्थ-
स्वामिपुष्करिणीमाहात्म्ये काश्यपदोषनिवृत्तिर्नाम
प्रथमोऽध्यायः
—–ठ्—–

द्वितीयोऽध्यायः

अथ द्वितीयोऽध्यायः
स्वामिपुष्करिणीस्नानात् तामिस्रादिनरकनिस्तारः
ऋषयः -
सूत ! सर्वार्थतत्त्वज्ञ ! वेदवेदाङ्गपारग !
श्रीस्वामिपुष्करिण्याश्च वैभवं वद नः प्रभो !
यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ॥१
श्रीसूतः -
स्वामितीर्थं प्रशंसन्ति स्नान्ति वा कथयन्ति ये
अष्टाविंशतिभेदांस्ते नरकान्नोपभुञ्जते ॥२
तामिस्रमन्धतामिस्रं महारौरवरौरवौ
कुम्भीपाकं कालसूत्रं असिपत्रवनं तथा ॥३
कृमिभक्षोऽन्धकूपश्च सन्दंशः शाल्मली तथा
लालाभक्षो ह्यवीचिश्च सारमेयादनं तथा ॥४
तथैव वज्रकणकः क्षारकर्दमपातनम्
रक्षोगणाशनं चापि शूलप्रोतनिरोधनम् ॥५
तिरोधनाभिधं विप्राः तथा सूचीमुखाभिधम्
पूयशोणितभक्षं च विषाग्निपरिपीडनम् ॥६
अष्टाविंशतिसङ्ख्यातं एतन्नरकसञ्चयम्
न याति मनुजो विप्राः ! स्वामितीर्थनिमज्जनात् ॥७
वित्तापत्यकलत्राणां योऽन्येषामपहारकः
स कालपाशबद्धोऽयं यमदूतैर्भयानकैः ॥८
[[7677]]
श्रीस्कान्दपुराणे द्वितीयोऽध्यायः

तामिस्रे नरके फेूरे पात्यते बहुवत्सरम्
स्नाति चेत्स्वामितीर्थे स तस्मिन्नाऽसौ निपात्यते ॥९
मातरं पितरं विप्रान् यो द्वेष्टि पुरुषाधमः
स कालसूत्रनरके विस्तृतायुतयोजने ॥१०
अधस्तादग्निसन्तप्ते उपर्यर्कमरीचिभिः
खले ताव्रुमये विप्राः ! पात्यते क्षुधयाऽर्दितः ॥११
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते
यो वेदमार्गमुल्लङ्घ्य वर्तते कुपथे नरः१२
सोऽसिपत्रवने फेूरे पात्यते यमकिङ्करैः
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥१३
योऽश्नाति पङ्क्तिभेदेन पक्वं सूपादिकं नरः
अकृत्वा पञ्चयज्ञान्वा भुङ्क्ते मोहेन स द्विज्ः ! ॥१४
पात्यतेऽयं यमभटैः नरके क्रिमिभोजने
भक्ष्यमाणः क्रिमशतैः भक्षयन् क्रिमिसञ्चयान् ॥१५
स्वयं च क्रिमिभूतस्सन् तिष्ठेद्यावदघक्षयम्
स्नाति चेत्स्वामितीर्थे वै तस्मिन्नाऽसौ निपात्यते ॥१६
यो हरेद्विप्रवित्तानि स्नेहेन बलतोऽपि वा
अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ॥१७
अयोमयाग्निकुण्डेषु सन्दंशैः सोऽपि पीडितः
सन्दंशे नरके फेूरे पात्यते यमपूरुषैः ॥१८
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते
अगम्यां योऽभिगच्छेत स्त्रियं वै पुरुषाधमः ॥१९
अगम्यं पुरुषं योषित् अभिगच्छेत वा द्विजाः!
तावयोमयनारीं च पुरुषं चाप्ययोमयम् ॥ २०
तप्तावालिङ्ग्य तिष्ठन्तौ यावच्चन्द्रदिवाकरम्
सूच्याख्ये नरके फेूरे पात्येते यमकिङ्करैः ॥२१
स्नाति चेत्स्वामितीर्थे च तस्मिन्नाऽसौ निपात्यते
बाधते सर्वजन्तून् यो नानोपायैरुपद्रवैः ॥२२
शाल्मलीनरके फेूरे पात्यते बहुकण्टके
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥२३
राजा वा राजभृत्यो वा यः पाषण्डमनुद्रुतः
भेदको धर्मसेतूनां वैतरण्यां निपात्यते ॥२४
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते
वृषलीसङ्गदुष्टो वा शौचाद्याचारवर्जितः ॥२५
त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारतः सदा
स पूयविष्ठामूत्रासृक्श्लेष्मपित्तादिपूरिते ॥२६
अतिबीभत्सनरके पात्यते यमकिङ्करैः
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥२७
यः श्वभिर्मृगयुर्वन्यान् बाणैर्वा बाधते मृगान्
स विद्ध्यमानो बाणौघैः परत्र यमकिङ्करैः ॥२८
[[7879]]
श्रीस्कान्दपुराणे द्वितीयोऽध्यायः

प्राणरोधाख्यनरके पात्यते यमकिङ्करैः
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥२९
दाम्भिको यः पशून् यज्ञे विध्यनुष्ठानवर्जितः
हन्त्यसौ परलोकेषु वैशसे नरके द्विजाः ! ॥३०
कृन्त्यमानो यमभटैः पात्यते यमकिङ्करैः
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते३१
आत्मभार्यां सवर्णां यो रेतः पाययते यदि
परत्र रेतःपायी स रेतःकुण्डे निपात्यते ॥३२
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते
यो दस्युर्मार्गमाश्रित्य गरदो ग्रामदाहकः ॥३३
वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः !
वज्रदंष्ट्राभिधे फेूरे नरके पात्यते चिरम् ॥३४
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते
विद्यन्ते यानि चान्यानि नरकाणि परत्र वै ॥३५
तानि नाऽऽप्नोति मनुजः स्वामितीर्थनिमज्जनात्
पुष्करिण्यां सकृत्स्नानात् अश्वमेधफलं लभेत् ॥३६
आत्मविद्या भवेत्साक्षात् मुक्तिश्चापि चतुर्विधा
न पापे रमते बुद्धिः न भवेद्दुःखमेव वा ॥३७
तुलापुरुषदानेन यत्फलं लभते नरैः
तत्फलं लभ्यते पुम्भिः स्वामितीर्थनिमज्जनात् ॥३८
गोसहस्रप्रदानेन यत्पुण्यं हि भवेन्नृणाम्
तत्पुण्यं लभते मर्त्यः स्वामितीर्थनिमज्जनात् ॥३९
धर्मार्थकाममोक्षाणां यं यमिच्छति पूरुषः
तं तं सद्यः समाप्नोति स्वामितीर्थनिमज्जनात् ॥४०
महापातकयुक्तो वा युक्तो वा सर्वपातकैः
सद्यःपूतो भवेद्विप्राः स्वामितीर्थनिमिज्जनात्४१
प्रज्ञा लक्ष्मीर्यशः सम्पत् ज्ञानं धर्मो विरक्तता
मनःशुद्धिर्भवेन्नॄणां स्वामितीर्थनिषेवणात्॥४२
ब्रह्महत्यायुतं चापि सुरापानायुतं तथा
अयुतं गुरुदाराणां गमनं पापकारिणाम् ॥४३
स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटिशः
शीफ्रुं विलयमायान्ति स्वामितीर्थनिमज्जनात् ॥४४
ब्रह्महत्यासमानानि सुरापानसमानि च
गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः ! ॥४५
सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च
तानि सर्वाणि नश्यन्ति स्वामितीर्थनिमज्जनात् ॥४६
स्वामितीर्थमहिमाऽश्रद्धालूनां महानरकप्राप्तिः
उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन
जिह्वाग्रे परशुं तप्तं प्रक्षिपन्ति च किङ्कराः ॥४७
[[8081]]
श्रीस्कान्दपुराणे द्वितीयोऽध्यायः

अर्थवादमिमं सर्वं ब्रुवन्वै नरकं व्रजेत्
सूकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः ॥४८
अहो मौर्ख्यमहो मौर्ख्यं अहोमौर्ख्यं द्विजोत्तमाः !
स्वामितीर्थाभिदे तीर्थे सर्वपातकनाशने ॥४९
अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि
इष्टकामप्रदे नित्यं तथैवाज्ञाननाशने ॥५०
स्थितेऽपि तद्विहायाऽयं रमतेऽन्यत्र वै जनः
अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते ॥
[[५१]]
स्नातस्य स्वामितीर्थे तु नान्तकाद्भयमस्ति वै
स्वामितीर्थं च पश्यन्ति तत्र स्नान्ति च ये नराः ॥५२
स्तुवन्ति च प्रशंसन्ति स्पृशन्ति च नमन्ति च
न पिबन्ति हिते स्तन्यं मातॄणां द्विजपुङ्गवाः ॥५३
एवं वः कथतं विप्राः ! स्वामितीर्थस्य वैभवम्
भुक्तिमुक्तिप्रदं नॄणां सर्वपापनिबरछणम् ॥५४
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्मे्य श्रीस्वामिपुष्करिणी
तीर्थमहिमानुवर्णनं नाम द्वितीयोऽध्यायः
—–ठ्—–

तृतीयोऽध्यायः

अथ तृतीयोऽध्यायः
—–ठ्—–
धर्मगुप्तचरित्रवर्णनम्
श्रीसूतः -
भूयोऽपि सम्प्रवक्ष्यामि स्वामितीर्थस्य वैभवम्
युष्माकमादरेणाहं नैमिशारण्यवासिनः ! ॥१
नन्दो नाम महाराजः सोमवंशसमुद्भवः
धर्मेण पालयामास सागरान्तां धरामिमाम् ॥२
तस्य पुत्रः समभवत् धर्मगुप्त इति स्मृतः
राज्यरक्षाधुरं नन्दो निजपुत्रे निधाय सः ॥३
जितेन्द्रियो जिताहारः प्रविवेश तपोवनम्
ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ॥४
मेदिनीं पालयामास धर्मज्ञो नीतितत्परः
ईजे जहुविधैर्यज्ञैः देवानिन्द्रपुरोगमान् ॥५
ब्राह्मणानां ददौ वित्तं क्षेत्राणि च बहूनि सः
सर्वे स्वधर्मनिरताः तस्मिन् राजनि शासति ॥६
कदाचिन्नाभवत्पीडा तस्मिंश्चोरादिसम्भवा
कदाचिद्धर्मगुप्तोऽयं आरुह्य तुरगोत्तमम् ॥७
वनं विवेश विप्रेन्द्राः ! मृगयारसकौतुकी
तमालतालहिन्तालकुरवाकुलदिङ्मुखे ॥८
विचचार वने तस्मिन् सिंहव्याफ्रुभयानके
मत्तालिकुलसन्नादसम्मूर्छितदिगन्तरे ॥९
[[8283]]
श्रीस्कान्दपुराणे तृतीयोऽध्यायः

पद्मकलाछरकुमुदनीलोत्पलवनाकुले
तटाके रससम्पूर्णे तपस्विजनमण्डिते ॥१०
तस्मिन्वने सञ्चरतो धर्मगुप्तस्य भूपतेः
अभूद्विभावरी विप्राः ! तमसाऽऽवृतदिङ्मुखा ॥११
राजाऽपि पश्चिमां सन्ध्यां उपास्य विनयान्वितः
जजाप च वने तत्र गायत्रीं वेदमातरम् ॥१२
सिंहव्याफ्रूदिभीत्याऽस्मिन् वृक्षमेकं समाश्रिते
राजपुत्रे तदभ्याशं ऋक्षः सिंहभयार्दितः ॥१३
अन्वधावत वृक्षं तं एकः सिंहो वनेचरः
अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत् ॥१४
आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम्
वृक्षस्थितं महात्मानं महाबलपराक्रमम् ॥१५
उवाच भूपतिं दृष्ट्वा ऋक्षोऽयं वनगोचरः
’मा भीतिं कुरु राजेन्द्र ! वत्सा्यवो रजनीमिह ॥१६
महासत्त्वो महाकायो महादंष्ट्रः समाकुलः
वृक्षमूलं समायातः सिंहोऽयमतिभीषणः ॥१७
रात्र्यर्थं भज निद्रां त्वं रक्ष्यमाणो मयोद्यतः
ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते’ ॥१८
इति तद्वाक्यमाकर्ण्य सुप्ते नन्दसुते हरिः
प्रोवाच ऋक्षं ’सुप्तोऽयं नृपो मे त्यज्यता’मिति ॥१९
तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः !
’भवान् धर्मं न जानीते मृगराज ! वनेचर ! ॥२०
विश्वासघातिनां लोके महाकष्टं भवत्यहो !
न हि मित्रद्रुहां पापं नश्येद्यज्ञायुतैरपि ॥२१
ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत्
विश्वासघातिनां पापं न नश्येज्जन्मकोटिभिः ॥२२
नाहं मेरुं महाभारं मन्ये पञ्चास्य ! भूतले
महाभारमिमं मन्ये लोकविश्वासघातुकम्’ ॥२३
एवमुक्तोऽथ ऋक्षेण सिंहस्तूष्णीं बभूव ह
धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे ॥२४
ततः सिंहोऽब्रवीद्भूपं ’एनमृक्षं त्यजस्व मे’
एवमुक्तोऽथ सिंहेन राजा सुप्तमशङ्कितः ॥२५
स्वाङ्कन्यस्तशिरस्कं तं ऋक्षं तत्याज भूतले
पात्यमानस्ततो राज्ञा समालम्बितपादपः ॥२६
ऋक्षः पुण्यवशात् वृक्षात् न पपात महीतले
स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत ॥२७
’कामरूपधरो राजन् ! अहं भृगुकुलोद्भवः
ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम् ॥२८
कस्मादनागसं सुप्तं अत्याक्षीन्मां भवान् नृप !
मच्छापादतिशीफ्रुं त्वं उन्मत्तश्चर भूतले’ ॥२९
[[8485]]
श्रीस्कान्दपुराणे तृतीयोऽध्यायः

इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत
’न सिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ॥३०
हिमवद्गिरिमासाद्य कदाचित्त्वं वधूसखः
अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा ॥३१
गौतमोऽप्युटजाद्दैवात् समिदाहरणाय वै
निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत् ॥३२
’’यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि
अतः सिंहत्वमद्यैव भविता ते न संशयः ॥’’३३
इति गौतमशापेन सिंहत्वमगमत्पुरा
कुबेरसचिवो यक्षो भद्रनामा भवान् पुरा ॥३४
कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि
अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम् ॥३५
एतत्सर्वमहं ध्यानात् जानामि हि मृगाधिप !’
इत्युक्तो ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः ॥३६
यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम्
ध्यानकाष्ठमसावाह प्राञ्जलिः प्रणतो मुनिम् ॥३७
’’अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने !
गौतमः शापकाले मे शापान्तमपि चोक्तवान् ॥३८
’ध्यानकाष्ठेन संवादः ऋक्षरूपेण ते यदा
तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि’ ॥३९
इति मामब्रवीद् ब्रह्मन् ! गौतमो मुनिपुङ्गवः
अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने ! ॥४०
ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा’’
इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट् ॥४१
विमानवरमारुह्य प्रययावलकापुरीम्
उन्मत्तरूपं तं दृष्ट्वा मन्त्रिणस्तु नृपोत्तमम्४२
तस्मै निवेदयामासुः मतिभ्रंशं सुतस्य च
ज्ञात्वा तु पुत्रवृत्तान्तं पिता वै नन्दनस्तदा ॥४३
जैमिनिवाक्यात्स्वामितीर्थस्नातस्य धर्मगुप्तस्योन्मादनिवृत्तिः
पुत्रमादाय सहसा जैमिनेरन्तिकं ययौ
तस्मै निवेदयामास पुत्रवृत्तान्तमादितः ॥४४
’भगवन् ! जैमिने ! पुत्रो ममाद्योन्मत्ततां गतः
अस्योन्मादविनाशाय ब्रूह्युपायं महामुने ! ॥४५
इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुङ्गवः
ध्यात्वा तु सुचिरं कालं नृपनन्दनमब्रवीत् ॥४६
’ध्यानकाष्ठस्य शापेन ह्युन्मत्तस्ते सुतोऽभवत्
तस्य शापस्य मोक्षार्थं उपायं प्रब्रवीमि ते ॥४७
सुवर्णमुखरीतीरे वेङ्कटे नाम पर्वते
सर्वपापहरे पुण्ये नानाधातुविनिर्मिते ॥४८
’स्वामिपुष्करिणी’ चेति तीर्थमस्ति महत्तरम्
पवित्राणां पवित्रं हि मङ्गलानां च मङ्गलम् ॥४९
[[8687]]
श्रीस्कान्दपुराणेे तृतीयोऽध्यायः

श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम्
नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महामते ! ॥५०
उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः’
इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुङ्गवम् ॥५१
नन्दः पुत्रं समादाय स्वामिपुष्करिणीं ययौ
तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ॥५२
स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः
स्वयं सस्नौ स नन्दोऽपि स्वामिपुष्करिणीजले ॥५३
उषित्वा दिनमेकं तु सहपुत्रः पिता तदा
सेवित्वा वेङ्कटेशं च श्रीनिवासं कृपानिधिम् ॥५४
पुत्रमापृच्छ्य नन्दस्तं प्रययौ तपसे वनम्
गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः ! ॥५५
प्रददौ वेङ्कटेशस्य बहुवित्तानि भक्तितः
ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा ॥५६
प्रययौ मन्त्रिभिः सार्धं स्वां पुरीं तदनन्तरम्
धर्मेण पालयामास राज्यं निहतकण्टकम् ॥५७
पितृपैतामहं विप्राः ! धर्मगुप्तोऽतिधार्मिकः
उन्मादैरप्यपस्मारैः ग्रहैर्दुष्टैश्च ये नराः ॥५८
ग्रस्ता भवन्ति विप्रेन्द्राः तेऽपि चात्र निमज्जनात्
पुष्करिण्यां विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम् ॥५९
स्वामिपुष्करिणीं त्यक्त्वा तीर्थमन्यद्र्वजेत्तु यः
स्निग्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते ॥६०
’स्वामितीर्थं स्वामितीर्थं स्वामितीर्थ’ मिति द्विजाः !
त्रिः पठन्तो नरा एवं यत्र क्वापि जलाशये ॥६१
स्नान्ति सर्वे नरास्ते वै यास्यन्ति ब्रह्मणः पदम्
एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा
यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥६२
इति श्री स्कान्दपुराणे श्री वेङ्कटाचलमाहात्म्ये स्वामिपुष्करिणी-
महिमानुवर्णनं नाम तृतीयोऽध्यायः
—–ठ्—–
[[8889]]
श्रीस्कान्दपुराणे तृतीयोऽध्यायः

चतुर्थोऽध्यायः

अथ चतुर्थोऽध्यायः
—–ठ्—–
सुमत्याख्यद्विजवृत्तान्तः
श्रीसूतः -
भो भो तपोधनाः ! सर्वे नैमिशारण्यवासिनः
स्वामितीर्थस्य माहात्म्यं भूयोऽपि प्रवदाम्यहम् ॥१
पुरा किरातीसंसर्गात् सुमतिर्ब्राह्मणः सुराम्
पीतवान् पुष्करिण्यां स स्नात्वा पापाद्विमोचितः ॥२
ऋषयः -
सुमतिः कस्य पुत्रोऽसौ कथं स च सुरां पपौ
कथं किरात्यां सक्तोऽभूत् सूत ! पौराणिकोत्तम !
सर्वेषां विस्तरादेतत् वद त्वं कृपयाऽधुना ॥३
श्रीसूतः -
महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः
यज्ञदेव इति ख्यातो वेदवेदाङ्गपारगः ॥४
दयालुरातिथेयश्च शिवनारायणार्चकः
सुमतिर्नाम पुत्रोऽभूद्यज्ञदेवस्य तस्य वै ॥५
पितरं स परित्यज्य भार्यामपि पतिव्रताम्
प्रययावुत्कले देशे विटगोष्ठीपरायणः ॥६
काचित्किराती तद्देशे वसन्तो युवमोहनी
यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम् ॥७
तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः
सुमतिं सा च जग्राह किराती निर्धनं द्विजम् ॥८
सुमत्याख्यद्विजस्य किरातीसङ्गात् महापातकप्राप्तिः
तया युक्तोऽथ सुमतिः तत्संयोगैकतत्परः
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ॥९
दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः
एकेन चषकेणासौ तया सह सुरां पपौ ॥१०
एवं स बहुकालं वै रममाणस्तया सह
पितरौ निजपत्नीं च नास्मरद्विषयातुरः ॥११
स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषबृत् ॥१२
ययौ चोरयितुं द्रव्यं साहसी खड्गहस्तवान्
तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसात् ॥१३
समादाय बहु द्रव्यं किरातीभवनं ययौ
तं यान्तमनुयाति स्म ब्रह्महत्या भयङ्करी ॥१४
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी ॥१५
अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले
एवं भ्रमन् भुवं सर्वं कदाचित्सुमतिः स्वयम् ॥१६
स्वग्रामं प्रययौ भीत्या विप्रबन्धुर्दुरात्मवान्
अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति ॥१७
ब्रह्महत्याऽप्यनुद्रुत्य तेन साकं गृहं ययौ
पितरं ’रक्ष रक्षे’ति सुमतिः शरणं ययौ ॥१८
[[9091]]
श्रीस्कान्दपुराणे चतुर्थोऽध्यायः

’मा भैषी’रिति तं प्रोच्य पिता रक्षितुमुद्यतः
तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत ॥१९
ब्रह्महत्याः -
’मैव त्वं प्रतिगृह्णीष्व यज्ञदेव ! द्विजोत्तम !
असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी !२०
मातृद्रोही पितृद्रोही भार्यात्यागी च पातकी
किरातीसङ्गदुष्टश्च ह्येनं मुञ्च दुरात्मकम् ॥२१
गृह्णासि चेदिमं विप्र ! महापातकिनं सुतम्
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ! ॥२२
भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम्
इमं त्यजसि चेत्पुत्रं युष्मान् मुञ्चामि साम्प्रतम् ॥२३
नैकस्यार्थे कुलं हन्तुं अरछसि त्वं महामते !
इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम् ॥२४
यज्ञदेवः -
’बाधते मां सुतस्नेहः कथमेनं परित्यजे’
ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत ॥२५
ब्रह्महत्या-
’अयं हि पतितो भूत्वा वर्णाश्रमबहिष्कृतः
पुत्रेऽस्मिन् मा कुरु स्नेहं निन्दितं तस्य दर्शनम् ॥२६
इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः
तलेन प्रजहारास्य पुत्रं सुमतिनामकम्
रुरोद ’तात ताते’ति पितरं प्रब्रुवन् मुहुः ॥२७
सुमतिं प्रति दुर्वासःकथितब्रह्महत्यामुक्त्युपायः
रुरुदुर्जनको माता भार्याऽपि सुमतेस्तदा
एतस्मिन्नन्तरे तत्र दुर्वासाः शङ्करांशजः ॥२८
दिष्ट्या समाययौ योगी धार्मिको मुनिसत्तमः
यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम् ॥२९
स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात्
’दुर्वासास्त्वं महायोगिन् ! साक्षाद्वै शङ्करांशकः ॥३०
त्वद्दर्शनमपुण्यानां भविता न कदाचन
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ॥३१
एनं प्रहर्तुमायाता ब्रह्महत्याऽपि वर्तते
भूयाद्यथा मे पुत्रोऽयं महापातकमोचितः ॥३२
फेूरा च ब्रह्महत्येयं यथा शीफ्रुं लयं व्रजेत्
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥३३
अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने !
अस्मिन् मृते तु वंशो मे समुच्छिद्येत मूलतः ॥३४
ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्ध्रुवम्
ततः कृपां कुरुष्व त्वं अस्मासु भगवन् मुने !’ ॥३५
इत्युक्तः स तदोवाच दुर्वासाः शङ्करांशकः
ध्यात्वाऽथ सुचिरं कालं यज्ञदेवं द्विजोत्तमम् ॥३६
[[9293]]
श्रीस्कान्दपुराणे चतुर्थोऽध्यायः

दुर्वासाः -
’यज्ञदेव ! कृतं पापं अतिक्रूरं सुतेन ते
नास्य पापस्य शान्तिः स्यात् प्रायश्चित्तायुतैरपि ॥३७
तथाऽपि ते सुतस्याहं तस्य पापस्य शान्तये
प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज ! ॥३८
सुमतेः स्वामिपुष्करिणीस्नानात् ब्रह्महत्याविमुक्तिः
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने
स्वामिपुष्करिणी चेति वर्तते मङ्गलप्रदा ॥३९
स्नाति चेत् तव पुत्रोऽयं पातकान्मुच्यते क्षणात्’
एवं श्रुत्वा मुनेर्वाक्यं यज्ञदेवो महामतिः ॥४०
पुत्रमादाय सुमतिं स्वामिपुष्करिणीं गतः
स्नापयामास सुमतिं हत्यया पीडितं सुतम् ॥४१
आकाशवाणी तं विप्रं उवाच मधुरस्वरा
’यज्ञदेव ! महाभाग ! स्नानेनानेन सुव्रत ! ॥४२
पूतोऽभवत्तव सुतः संशयं मा कृथा द्विज !’
एवम्प्रभावं तत्तीर्थं पापवृक्षकुठारकम् ॥४३
एवं वः कथितं विप्राः ! इतिहासं पुरातनम्
शृण्वतां पठतां चापि वाजपेयफलं भवेत् ॥४४
इति श्री स्कान्दपुराणे श्री वेङ्कटाचलमाहात्म्ये स्वामिपुष्करिणी-
तीर्थमहिमानुवर्णनं नाम चतुर्थोऽध्यायः
—–ठ्—–

पञ्चमोऽध्यायः

अथ पञ्चमोऽध्यायः
—–ठ्—–
रामकृष्णतीर्थमाहात्म्यम्
श्रीसूतः -
वेङ्कटाख्ये महापुण्ये सर्वपातकनाशने
कृष्णतीर्थस्य माहात्म्यं शृणुध्वं सुसमाहिताः ! ॥१
यत्र मज्जनमात्रेण कृतफे्नूऽपि विमुच्यते
पितॄन् मातॄः गुरूंश्चावमन्यन्ते मोहमोहिताः ॥२
ये चाप्यन्ये दुरात्मानः कृतघ्ना निरपत्रपाः
ते सर्वे कृष्णतीर्थेऽस्मिन् शुद्ध्यन्ति स्नानमात्रतः ॥३
कृष्णनामा मुनिः पूर्वं वेङ्कटाह्वयभूधरे
अवर्तत तपः कुर्वन् विष्णुं ध्यायन् समाहितः ॥४
स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम्
तत्र स्नात्वा सकृन्मर्त्यः कृतफे्नूऽपि विमुच्यते ॥५
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम्
यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात् ॥६
पुरा बभूव विप्रेन्द्रो रामकृष्णो महामुनिः
सत्यवाक् शीलवान् वाग्मी सर्वभूतदयान्वितः ॥७
शत्रुमित्रसमो दान्तः तपस्वी विजितेन्द्रियः
परे ब्रह्मणि निष्णातो ब्रह्मतत्त्वकसंश्रयः ॥८
एवम्प्रभावः स मुनिः तपस्तेपे सुदारुणम्
स वै निश्चलसर्वाङ्गः तिष्ठन् सर्वत्र भूतले ॥९
[[9495]]
श्रीस्कान्दपुराणेे पञ्चमोऽध्यायः

परमाण्वन्तरं वासि न स्वस्थानाच्चचाल सः
स्थित्वा तत्र तपस्यन्तं अनेकशतवत्सरान् ॥१०
तं चाऽक्रमत वल्मीकं छादिताङ्गं चकार वै
वल्मीकाऽक्रान्तदेहोऽपि रामकृष्णो महामुनिः ॥११
अकरोत्तप एवासौ वल्मीकं न त्वबुद्ध्यत
तस्मिंश्च तष्यति तपो वासवो मुनिपुङ्गवे ॥१२
विसृज्य मेघजालानि वर्षयामास वेगवान्
एवं दिनानि सप्तायं ववर्ष च निरन्तरम् ॥१३
धारावर्षेण महता वृष्यमाणोऽपि वै मुनिः
तद्वर्षं प्रतिजग्राह निमीलितविलोचनः ॥१४
महता स्तनितेनाऽऽशु तदा बधिरयञ्छ्रुती
वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः
तस्मिन् वर्षति पर्जन्ये शीतवातादिदुःसहे ॥१५
रामकृष्णाख्यमहर्षितपःप्रसन्नभगवदाविर्भावः
वल्मीकशिखरं ध्वस्तं बभूवाशनिताडितम्
तदा प्रादुरभूद्देवः शङ्खचक्रगदाधरः ॥१६
विनतानन्दनारूढो वनमालाविभूषितः
रामकृष्णस्य तपसा तोषितो वाक्यमब्रवीत् ॥१७
’तपोनिधे ! रामकृष्ण ! वेदशास्त्रार्थपारग !
मदाविर्भावदिवसे यः स्नाति मनुजोत्तमः ॥१८
तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते
मकरस्थे रवौ विप्र ! पौर्णमास्यां महातिथौ ॥१९
वुष्यनक्षत्रयुक्तायां स्नानकालो विधीयते
तद्दिने स्नाति यो मर्त्यः कृष्णतीर्थे महामतिः ॥२०
सर्वपापविनिर्मुक्तः सर्वान् कामान् लभेत सः
मदाविर्भावदिवसे कृष्णतीर्थजले शुभे ॥२१
स्नातुं तत्र समायान्ति स्वपापपरिशुद्धये
देवा मनुष्याः सर्वे च दिक्पालाश्च महौजसः ॥२२
एते सर्वे महात्मानः कोटिसूर्यसमप्रभाः
ते सर्वे कृष्णतीर्थेऽस्मिन् स्नानात् पूता भवन्ति हि ॥२३
त्वन्नाम्नेदं महातीर्थं लोके प्रख्यातिमेष्यति’
इत्युक्त्वा श्रीनिवासश्च तत्रैवान्तरधीयत ॥२४
एवम्प्रभावं तत्तीर्थं महापापविशोधनम्
बुद्धिशुद्धिप्रदं पुंसां सर्वैश्वर्यप्रदायकम् ॥२५
एवं वः कथितं विप्राः ! कृष्णतीर्थस्य वैभवम्
शृण्वतां पठतां चैव विष्णुलोकप्रदायकम् ॥२६
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहत्मे्य रामकृष्णतीर्थ
महिमानुवर्णनं नाम पञ्चमोऽध्यायः
—–ठ्—–
[[9697]]
श्रीस्कान्दपुराणेे पञ्चमोऽध्यायः

षष्ठोऽध्यायः

अथ षष्ठोऽध्यायः
—–ठ्—–
श्रीवेङ्कटाद्रौ जलदानप्रशंसा
श्रीसूतः -
वेङ्कटाख्ये महापुण्ये तृषार्तानां विशेषतः
जलदानमकुर्वाणः तिर्यग्योनिमवाप्नुयात् ॥१
तस्माद्वेङ्कटशैलेन्द्रे यथाशक्त्यनुसारतः
जलदानं हि कर्तव्यं सЍ०ं्वषां जीवनं महत् ॥२
अत्रैवोदाहरन्तीमं इतिहासं पुरातनम्
विप्रस्य गृहगोधायाः संवादं परमाद्भुतम् ॥३
हेमाङ्गस्य जलदानाकरणेन गृहगोधिकात्वप्राप्तिः
पुरा चेक्ष्याकुवंशेऽभूत् हेमाङ्ग इति भूमिपः
ब्रह्मण्यो ब्रह्मभूयिष्ठो जितामित्रो जितेन्द्रियः ॥४
यावन्तो भूमिकणिकाः यावन्तस्तोयबिन्दवः
यावन्त्युडूनि गगने तावतीर्गा ददात्यसौ ॥५
येनेष्टयज्ञदर्भैश्च भूमिर्बारिछष्मती स्मृता
गोभूतिलहिरण्याद्यैः तोषिता बहवो द्विजाः ॥६
तेनादत्तानि दानानि न विद्यन्त इति श्रुतम्
तेनादत्तं जलं चैकं सुखलभ्यधिया द्विजाः ! ॥७
बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना
अमूल्यं सर्वतो लभ्यं तद्दातुः किं फलं लभेत् ? ॥८
इति दुर्धीरेछतुवादैर्न जलं दत्तवान् विभुः
’अलभ्यदाने पुण्यं स्यात्’ इत्यवादीत् सयुक्तिकम् ॥९
स आनर्च द्विजान् व्यङ्गान् दरिद्रान् वृत्तिकर्शितान्
नाऽनर्च श्रोतियान् विप्रान् ! ब्रह्मज्ञान् ! ब्रह्मवादिनः ॥१०
’प्रख्यातान् पूजयिष्यन्ति सर्वं लोकाः सहारछणैः
अनाथानामविद्यानां व्यङ्गानां च कुटुम्बिनाम् ॥११
दरिद्राणां गतिः का वा ? तस्मा त्ते मद्दयाऽस्पदाः’
इति दुष्टेषु पात्रेषु दत्तवान् किमपि स्वकम् ॥१२
तेन दोषेण महता चातकत्वं त्रिजन्मसु
एकजन्मनि गृध्रत्वं श्वत्वं वा सप्तजन्मसु ॥१३
प्राप्य पश्चाद्गृहे जातो भूपोऽयं गृहगोधिका
श्रुतकीर्तेस्तु भूपस्य मिथिलाधिपतेर्द्विजाः ! ॥१४
गृहद्वारप्रतोल्यां स्म वर्तते कीटकाशनः
अष्टाशीतिषु वर्षेषु स्थितं तेन दुरात्मना ॥१५
श्रुतदेवपादोदकसेवनेन हेमाङ्गस्य जातिस्मरणम्
विदेहाधिपतेर्गेहं कदाचिदृषिसत्तमः
श्रुतदेव इति ख्यातः श्रान्तो मध्याह्न आगतम् ॥ १६
तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः
मधुपर्कैः सुसम्पूज्य तस्य पादावनेजनीः ॥१७
आपो मूर्ध्ना वहत् क्षिप्तैः तदोत्क्षिप्तैश्च बिन्दुभिः
दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका ॥१८
सद्यो जातिस्मृतिरभूत् कृतकर्माऽतिदुःखिता
त्राहि त्राहीति चुक्रोश ब्राह्मणं गृहमागतम् ॥ १९
[[9899]]
श्रीस्कान्दपुराणे षषो्ठऽध्यायः

तिर्यग्जन्तुरवं श्रुत्वा ब्राह्मणो विस्मितोऽभवत्
कुतः क्रोशसि गोधे! त्वं दशेयं केन कर्मणा ॥२०
उपदेवोऽथ देवो वा त्वं नृपोऽथ द्विजोत्तम! ।
कस्त्वं ब्रूहि महाभाग! त्वामद्याहं समुद्धरे ॥२१
इत्युक्तः स नृपः प्राह श्रुतदेवं महाप्रभुः
अहमिक्ष्वाकुकुलजः शस्त्रविद्याविशारदः ॥२२
यावन्तो भूमिकणिकाः यावन्तस्तोयबिन्दवः
यावन्त्युडूनि गगने तावतीः गाः अदामहम् ॥२३
सर्वैर्यज्ञैर्मया चेष्टं पूर्तान्याचरितानि मे
दानान्यपि च दत्तानि धर्मजातं स्वनुष्ठितम् ॥२४
तथाऽपि दुर्गतिर्जाता न मे चोर्ध्वगतिर्विभो!
त्रिवारं चातकत्वं मे गृध्रत्वं चैकजन्मनि ॥२५
सप्तजन्मसु च श्वत्वं प्राप्तं पूर्वं मया द्विज!
धरताऽनेन भूपेन चापः पादावनेजनीः ॥२६
बिन्दवो दूरमुति ्क्षप्ताः तैः सिक्तोऽहं कथञ्चन
तदा जन्मस्मृतिरभूत् तेन मे हतपाप्मनः ॥२७
गोधाजन्मानि भव्यानीत्यष्टविंशति मे द्विज!
दृश्यन्ते दैवदिष्टानि बिभ्यते जन्मभिर्भृशम् ॥२८
न कारणं प्रपश्यामि तन्मे विस्तरतो वद
इत्युक्तः स द्विजः प्राह ज्ञातं विज्ञानचक्षुषा ॥२९
श्रुतदेवदत्तपुण्येन हेमाङ्गस्य गोधिकात्वविमुक्तिः
शृणु भूप! प्रपक्ष्यामि तव दुर्गतिकारणम्
न जलं तु त्वया दत्तं वेङ्कटाह्वयभूधरे ॥३०
तज्ज्लं सुलभं मत्वा न मौल्यमिति निश्चितः
नाध्वगानां द्विजातीनां घर्मकालेऽप्यजानता ॥३१
तथा पात्रं समुत्सृज्य ह्यपात्रे प्रतिपादितम्
ज्व्लन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥३२
तुलसीं तु समुत्सृज्य बृहती पूज्यते नु किम्?
अनाथव्यङ्गपङ्गुत्वं न प्रयोजकतामियात् ॥३३
पङ्ग्वाद्या योऽप्यनाथा दयापात्रं हि केवलम्
तपोनिष्ठा ज्ञाननिष्ठाः श्रुतिशास्त्रपरायणाः ॥३४
विष्णुरूपाः सदा पूज्याः नेतरे तु कदाचन
तत्रापि ज्ञानिनोऽत्यर्थं प्रिया विष्णोः सदैव हि ॥३५
ज्ञानिनामपि भूपाल! विष्णुरेव सदा प्रियः
तस्मात् ज्ञानी सदा पूज्यः पूज्यात् पूज्यतरः स्मृतः ॥ ३६
न जलं तु त्वया दत्तं साधवो वा न सेविताः
तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनन्दन!॥३७
वेङ्कटाद्रौ कृतं पुण्यं तुभ्यं दास्यामि शान्तये
भूतं भव्यं भवत् तेन कर्मजातं विजेष्यसि ॥३८
इत्युक्त्वाऽऽप उपस्पृश्य ददौ पुण्यमनुत्तमम्
यद्दत्तं ब्राह्मणे वापि स्नानं चैकदिने कृतम् ॥३९
[[100101]]
श्रीस्कान्दपुराणेे षषो्ठऽध्यायः

तेन ध्वस्ताखिलागस्तु त्यक्त्वा च गृहगोधिका
रूपं कर्मोचितं घोरं सद्योऽदृश्यत पूरुषः ॥४०
दिव्यं विमानमारूढो दिव्यस्रग्वस्त्रभूषणः
पश्यतामेव साधूनां मैथिलस्य गृहान्तरे ॥४१
बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च
अनुज्ञातो ययौ राजा स्तूयमानोऽमरैर्दिवम् ॥ ४२
तत्र भुक्त्वा महाभोगान् वर्षायुतमतन्द्रितः
स एव चेक्ष्वाकुकुले ककुत्थ्सोऽभून्महारथः ॥४३
सप्तद्वीपमहीपालो ब्रह्मण्यः साधुसम्मतः
देवेन्द्रस्य सखा विष्णोः अंश एवं महाप्रभुः ॥४४
बोधितस्तु वसिष्ठेन सर्वान् धर्मान् मनोहरान्
अनुष्ठायाखिलान् राजा तेन ध्वस्ताशुभादिकः ॥४५
दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान्
तस्माद्वेङ्कटशैलेन्द्रः पुण्यपापविनाशनः ॥४६
तस्मिंश्च जलदानं तु विष्णुलोकप्रदायकम्
एवं वः कथितं विप्राः जलदानस्य वैभवम्
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ॥४७
इति श्रीस्कान्दपुराणे श्री वेङ्कटाचलमाहात्म्ये जलदानवैभववर्णनं
नाम षष्ठोऽध्यायः
—–ठ्—–

सप्तमोऽध्यायः

अथ सप्तमोऽध्यायः
—–ठ्—–
श्रीवेङ्कटाचलक्षेत्रादिवर्णनम्
श्रीसूतः-
वेङ्कटाद्रिस्तु माहात्म्यं भूयोऽपि प्रवदाम्यहम्
युष्माकं सावधानेन शृणुध्वं सुसमाहिताः ॥१
पृथिव्यां यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च
तानि सर्वाणि वर्तन्ते वेङ्कटाऽह्वयभूधरे ॥२
तस्मिन् नगोत्तमे पुण्ये वसन्तं पुरुषोत्तमम्
शङ्खचक्रधरं देवं पीताम्बरधरं शुभम् ॥३
कौस्तुभालङ्कृतोरस्कं भक्तानामभयप्रदम्
देवदेवं विशालाक्षं वेदवेद्यं सनातनम् ॥४
अङ्गकोसलकर्णाटकाशीगुर्जरदेशगाः
चोलकेरलपाण्ड्यादिसर्वदेशसमुद्भवाः ॥५
सकुटुम्बाश्च सेवार्थं आयान्ति प्रतिवत्सरम्
देवाश्च ऋषयः सिद्धाः योगिनः सनकादयः ॥६
ये भाद्रपदमासे तु वेङ्कटेशमहोत्सवे
सेवां कुर्वन्ति ते सर्वे निष्पापा उत्तमोत्तमाः ॥७
तत्र श्रीवेङ्कटेशस्य ब्रह्मा लोकपितामहः
चकार कन्यामासे तु ध्वजारोहमहोत्सवम् ॥८
प्रतिवर्षं च तत्सेवानिमित्तं सर्वमानवाः
सर्वे देवाश्च गन्धर्वाः सिद्धाः साध्या महौजसः ॥९
[[102103]]
श्रीस्कान्दपुराणे सप्तमोऽध्यायः

ब्रह्मोत्सवे भगवतः समायान्ति द्विजोत्तमाः ।
विद्यानां वेदविद्येव मन्त्राणां प्रणवो यथा ॥१०
प्राणवत् प्रियवस्तूनां धेनूनां कामधेनुवत्
तथा वेङ्कटाशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥११
शेषवत् सर्वनागानां पक्षिणां गरुडो यथा
देवानां तु यथा विष्णुः वर्णानां ब्राह्मणो यथा ॥१२
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः
भूरुहाणां सुरतरुः भार्येव सुहृदां यथा ॥१३
तीर्थानां तु यथा गङ्गा तेजसां तु रविर्यथा
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥१४
आयुधानां यथा वज्रं लोहानां काञ्चनं यथा
वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ॥१५
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः
स्नानेन सद्वशो लोके विष्णुप्रीतिविवर्धनः ॥१६
न माधवसमो मासो न कृतेन समं युगम्
न च वेदसमं शास्त्रं न तीर्थं गङ्गया समम् ॥१७
न जलेन समं दानं न सुखं भार्यया समम्
न कृषेस्तु समं वित्तं न लाभो जीवितात् परः ॥१८
न तपोऽनशनादन्यत् न दानात् परमं सुखम्
न धर्मस्तु दयातुल्यो न ज्योतिश्चक्षुषा समम् ॥१९
न तृप्तिरशनात् तुल्या न वाणिज्यं कृषेः समम्
न धर्मेण समं मित्रं न सत्येन समं यशः
यता तथा भगवतः स्थानेन सदृशं न हि ॥२०
यत्कीर्तनं सकलपापहरं मुनीन्द्राः
यद्वन्दनं सकलसौख्यदमेव लोके।
यात्राऽपि यं प्रति सुरैरपि पूजनीया
तादृङ् महान् भवति वेङ्कटशैलमुख्यः ॥ २१
तस्यानुभावं प्रवदामि भूयः समस्ततीर्थानि वसन्ति यत्र
एवं समस्तेषु च मुख्यतीर्थं श्रीस्वामिनामास्ति सरोवरं तत्॥ २२
माहात्म्यमेतस्य मयोच्यते कथं
यत्पश्चिमे रोधसि भूवराहः ।
आलिङ्ग्य कान्तामतिसौम्यमूर्तिः
विराजते विश्वजनोपकारी ॥२३
श्रीस्वामिपुष्करिण्याश्च दक्षिणे वेङ्कटेश्वरः
आलिङ्गितवपुर्लक्ष्म्या वरदो वर्तते चिरम् ॥२४
एवं वः कथितं विप्राः! क्षेत्रमाहात्म्यमुत्तमम्
यः शृणोति सदा भक्त्या विष्णुलोके महीयते ॥२५
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये क्षेत्रमहिमानुवर्णनं
नाम सप्तमोऽध्यायः
—–ठ्—–
[[104105]]
श्रीस्कान्दपुराणे सप्तमोऽध्यायः

अष्टमोऽध्यायः

अथ अष्टमोऽध्यायः
—–ठ्—–
श्रीवेङ्कटेश्वरवैभववर्णनम्
श्रीसूतः -
अथेदानीं प्रवक्ष्यामि वेङ्कटेश्ववैभवम्
यच्छुृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥१
श्रीवेङ्कटेश्वरं देवं यः पश्यति सकृन्नरः
स नरो मुक्तिमाप्नोति विष्णुसायुज्यमाप्नुयात् ॥२
दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे
त्रेतायामेकवर्षेण यत्पुण्यं साध्यते नृभिः ॥३
द्वापरे पञ्चमानेन तत् दिनेन कलौ युगे
तत्फलं कोटिगुणितं निमिषे निमिषे नृणाम् ॥४
निःसन्देहं भवेदेवं श्रीनिवासविलोकिनाम्
श्रीवेङ्कटेश्वरे देवे तीर्थानि सकलान्यपि ॥५
विद्यन्ते सर्वदेवाश्च मुनयः पितरस्तथा
एककालं द्विकालं वा त्रिकालं सर्वदैव वा ॥६
ये स्मरन्ति महादेवं श्रीनिवासं विमुक्तिदम्
कीर्तयन्त्यथवा विप्राः ते मुक्ताः पापपञ्जरात् ॥७
नारायणं परं देवं वेङ्कटेशं प्रयान्ति वै
पूजितं शङ्खराजेन सच्चिदानन्दविग्रहम् ॥८
तस्य स्मरणमात्रेण यमपीडाऽपि नो भवेत्
श्रीनिवासं महादेवं येऽर्चयन्ति सकृन्नराः ॥९
किं दानैः किं व्रतैस्त्तेषां किं तपोभिः किमध्वरैः ?
वेङ्कटेशं परं देवं यो न चिन्तयति क्षणम् ॥१०
अज्ञानी स च पापी स्यात् स मूको बधिरस्तथा
स जडोऽन्धश्च विज्ञेयः छिद्रं तस्य सदा भवेत् ॥११
श्रीनिवासे महादेवे सकृद्दृष्टे मुनीश्वराः!
किं काश्या गयया चैव प्रयागेनापि किं फलम् ? ॥ १२
दुर्लभं प्राप्य मानुष्यं मानवा इह भूतले
वेङ्कटेशं परं देवं ये पश्यन्त्यर्चयन्ति वा ॥१३
जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे
वेङ्कटेशे परे देवे दृष्टे वा पूजितेऽपि वा ॥१४
शम्भुना ब्रह्मणा किं वा ? शक्रेणाप्यखिलामरैः ?
वेङ्कटेशे महादेवे भक्तियुक्ताश्च ये नराः ॥१५
तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः
न ते पश्यन्ति दुःखानि नैव यान्ति यमालयम् ॥१६
ब्रह्महत्यासहस्राणि सुरापानायुतानि च
दृष्टे नारायणे देवे विलयं यान्ति कृत्स्नशः ॥१७
ये वाञ्छन्ति सदा भोगं राज्यं च त्रिदशालये
वेङ्कटाद्रिनिवासं ते प्रणमन्तु सकृन्मुदा ॥१८
[[106107]]
श्रीस्कान्दपुराणे अष्टमोऽध्यायः

यानि कानि च च पापानि जन्मकोटिकृतानि च
तानि सर्वाणि पश्यन्ति वेङ्कटेश्वरदर्शनात् ॥१९
सम्पर्कात् कौतुकाल्लोभात् भयाद्वाऽपि च संस्मरन्
वेङ्कटेशं महादेवं नेहामुत्र च दुःखभाक् ॥२०
वेङ्कटाचलदेवेशं कीर्तयन्नर्चयन्नपि
अवश्यं विष्णुसारूप्यं लभते नात्र संशयः ॥२१
यथैधांसि समिद्धोऽग्निः भस्मसात् कुरुते क्षणात्
तथा पापानि सर्वाणि वेङ्कटेश्वरदर्शनात् ॥२२
वेङ्कटेश्वरदेवस्य भक्तिरष्टविधा स्मृता
तद्भक्तजनवात्सल्यं तत्पूजापरितोणम् ॥२३
स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम्
तन्माहात्म्यकथावांश्च श्रवणेष्वादरस्त्तथा ॥२४
स्वरनेत्रशरीरेषु विकारस्फुरणं तथा
श्रीनिवासस्य देवस्य स्मरणं सततं तथा ॥२५
वेङ्कटाद्रिनिवासं तं आश्रित्यैवोपजीवनम्
एवमष्टविधा भक्तिः यस्मिन् म्लेच्छेऽपि वर्तते ॥ २६
स एव मुक्तिमाप्नोति शौनकाद्या महौजसः ।
भक्त्या त्वनन्यया मुक्तिः ब्रह्मज्ञानेन निश्चिता
वेदान्तशास्त्रश्रवणात् यतीनामूर्ध्वरेतसाम् ॥२७
सा च मुक्तिर्विना ज्ञानं वेदान्तश्रवणोद्बवम्
यत्याश्रमं विना विप्राः विरक्तिं च विना तथा ॥२८
सर्वेषां चैव वर्णानां अखिलाश्रमिणामपि
वेङ्कटेश्वरदेवस्य दर्शनादेव केवलम् ॥२९
अपुनर्भवदा मुक्तिः भविष्यत्यविलम्बितम्
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ॥३०
तुल्या वेङ्कटशैलेन्द्रे श्रीनिवासप्रसादतः
पापं कृतं मयाऽनेकं इति मा क्रियतां भयम् ॥ ३१
मा गर्वः क्रियतां पुण्यं मयाकारीति वा जनैः
वेङ्कटेशे महादेवे श्रीनिवासे विलोकिते ॥३२
न न्यूना नाधिकाश्च स्युः किन्तु सर्वे महाजनाः
वेङ्कटाख्ये महापुण्ये सर्वपातकनाशने ॥३३
श्रीनिवासं परं देवं यः पश्यति सभक्तिकम्
नतेन तुल्यतामेति चतुर्वेद्यपि भूतले ॥३४
वेङ्कटेश्वरदेवेशं यः पूजयति भक्तितः
स कोटिकुलसंयुक्तः प्रयाति हरिमन्दिरम् ॥३५
श्रीनिवासाच्च न समं नाधिकं पुण्यमस्ति वै
वेङ्कटाद्रिनिवासं तं द्वेष्टि यो मोहमास्थितः ॥३६
ब्रह्महत्यायुतं तेन कृतं नरककारणम्
तत्सम्भाषणमात्रेण मानवो नरकं व्रजेत् ॥३७
श्रीनिवासपरा वेदाः श्रीनिवासपरा मखाः
श्रीनिवासपराः सर्वे तस्मादन्यन्न विद्यते ॥३८
[[108109]]
श्रीस्कान्दपुराणे अष्टमोऽध्यायः

अन्यत्सर्यं परित्यज्य श्रीनिवासं समाश्रयेत्
सर्वयज्ञ तपोदानतीर्थ स्नाने तु यत् फलम्॥ ३९
तत्फलं कोटिगुणितं श्रीनिवासस्य सेवया
वेङ्कटाद्रिनिवासं तं चिन्तयन् घटिकाद्वयम् ॥४०
कुलैकविंशतिं धृत्वा विष्णुलोके महीयते
स्वामिपुष्करिणीतीर्थे स्नानं देवस्य दर्शनम् ॥४१
यदि लभ्येत वै पुंसां किं गङ्गाजलसेवया?
वेङ्कटेशं परं देवं यः कदाऽपि न पश्यति ॥४२
सङ्करः स तु विज्ञेयो न पितुर्बीजसम्भवः
तस्मात् सर्वप्रयत्नेन वेङ्कटेशो दयानिधिः ॥४३
द्रष्टव्योऽतिप्रयत्नेन परलोकेच्छया द्विजाः !
एवं वः कथितं विप्राः वेङ्कटेशस्य वैभवम् ॥४४
यस्त्वेतत् शृणुयान्नित्यं पठते च सभक्तिकम्
स वै वेङ्कटनाथस्य सेवाफलमवाप्नुयात् ॥४५
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये वेङ्कटेश्वर
वैभवानुवर्णनं नाम अष्टमोऽध्यायः
—–ठ्—–

नवमोऽध्यायः

अथ नवमोऽध्यायः
—–ठ्—–
ब्रह्मादीनां नैरन्तर्येण वेङ्कटाचले स्थितिवर्णनम्
श्रीसूतः-
अथातः सम्प्रवक्ष्यामि वेङ्कटाचलवैभवम्
युष्माकं सावधानेन शृणुध्वं सुसमाहिताः ॥१
लक्षकोटिसहस्राणि सरांसि सरितस्तथा
समुद्राश्च महापुण्याः वनान्यप्याश्रमा अपि ॥२
पुण्यानि क्षेत्रजातानि वेदारण्यादिकानि च
मुनयश्च वसिष्ठाद्याः सिद्धचारणकिन्नराः ॥३
लक्ष्म्या सह धरण्या च भगवान् मधुसूदनः
सावित्र्या च सरस्वत्या सहैव चतुराननः ॥४
पार्वत्या सह देवेशः त्र्यम्बकस्त्रिपुरान्तकः
हेरम्बषण्मुखाद्याश्च देवाः सेन्द्रपुरोगमाः ॥५
आदित्यादिग्रहाश्चैव तथाऽष्टवसवो द्विजाः !
पितरो लोकपालाश्च तथाऽन्ये देवतागणाः ॥ !६
महापातकसङ्घानां नाशने लोकपावने
दिवा निशं वसन्त्यन्तः वेङ्कटाचलमूर्धनि ॥७
तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत्
तन्मूर्धनि कृतावासाः सिद्धचारणयोषितः ॥८
[[110111]]
श्रीस्कान्दपुराणे नवमोऽध्यायः

पूजयन्ति सदाकालं वेङ्कटेशं कृपानिधिम्
कोटयो ब्रह्महत्यानां अगम्यागमकोटयः
अङ्गलग्ना विनश्यन्ति वेङ्कटाचलमारुतैः ॥९
श्रीवेङ्कटाचलारोहणसमयानुसन्धानक्रमः
वेङ्कटाद्रिं गिरिं तं तु प्रार्थयेत् पुण्यवर्धनम्
स्वर्णाचल ! महापुण्य ! सर्वदेवनिषेवित ! ॥१०
ब्रह्मादयोऽपि यं देवाः सेवन्ते श्रद्धया सह
तं भवन्तमहं पद्भ्यां आक्रमेयं नगोत्तम ! ॥११
क्षमस्व तदघं मेऽद्य दयया पापचेतसः
त्वन्मूर्धनि कृताऽऽवासं माधवं दर्शयस्व मे’ ॥१२
प्रार्थयित्वा नरस्त्वेवं वेङ्कटाद्रिं नगोत्तमम्
ततो मृदुपदं गच्छेत् पावनं वेङ्कटाचलम् ॥१३
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने
स्वामिपुष्करिणीतीर्थे स्नात्वा नियमपूर्वकम् ॥१४
पिण्डदानं ततः कुर्यात् अपि सर्षपमात्रकम्
शमीदलसमानान्वा दद्यात् पिण्डान् पितॄन् प्रति
स्वर्गस्था मोक्षमायान्ति स्वर्गं नरकवासिनः ॥१५
पापविनाशनाख्यतीर्थमाहात्म्यम्
ततस्तस्योपरि महत् सर्वलोकेषु विश्रुतम्
सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम् ॥१६
अस्ति पुण्यतमे विप्राः ! पवित्रे वेङ्कटाचले
यस्य संस्मरणादेव गर्भवासो न विद्यते ॥१७
तत्प्राप्य तु नरः स्नायात् स्वामितीर्थस्य चोत्तरे
तत्र स्नानान्नरा यान्ति वैकुण्ठं नात्र संशयः ॥१८
ऋषयः-
सूत ! पापविनाशाख्यतीर्थस्य ब्रूहि वैभवम्
व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने ! ॥१९
श्रीसूतः-
ब्रह्माऽश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे
वक्ष्यामि ब्राह्मणश्रेष्ठा ! यष्माकं तु कथां शुभाम् ॥२०
तदाश्रमपदं पुण्यं ब्रह्माऽश्रमपदं शुभम्
नानावृक्षसमाकीर्णं पार्श्वे हिमवतः शुभे ॥२१
बहुगुल्मलताऽऽकीर्णं मृगद्विपनिषेवितम्
सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम् ॥२२
यतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम्
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥२३
नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः
दीक्षितैर्यागशीलैश्च यताऽऽहारैः कृताऽऽत्मभिः ॥२४
वेदाध्ययनसम्पन्नैः वैदिकैः परिवेष्टितम्
वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥२५
[[112113]]
श्रीस्कान्दपुराणे नवमोऽध्यायः

स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः
वालखिल्यैश्च ऋषिभिः समन्तात्परिवेष्टितम् ॥२६
दृढमत्याख्यशूद्रवृत्तान्तः
तत्राऽऽश्रमे पुरा कश्चित् शूद्रो दृढमतिर्द्विजाः
साहसी ब्राह्मणाभ्याशं आजगाम मुदाऽन्यितः ॥२७
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः
नाम्ना दृढमतिः शूद्रः साष्टाङ्गं प्रणनाम वै ॥२८
तान् स दृष्ट्वा मुनिगणान् देवकल्पान् महौजसः
कुर्वतो विविधान् यज्ञान् सम्प्रहृष्यत शूद्रकः ॥२९
अथास्य बुद्धिरभवत् तपः कर्तुमनुत्तमम्
ततोऽब्रवीत् कुलपतिं मुनिमागत्य तापसम् ॥३०
दृढमतिः-
’तपोधन ! नमस्तेऽस्तु रक्ष मां करुणानिधे !
तव प्रसादादिच्छामि यागं कर्तुं प्रसीद मे’ ॥
एवमुक्तस्तु शूद्रेण तमाह ब्राह्मणस्तदा३१
दृढमतिं प्रति कुलपत्याख्यमुन्युपदिष्टशूद्रधर्माः
कुलपतिः-
’यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ॥३२
श्रूयते यदि ते बुद्धिः शुश्रूषानिरतो भव
उपदेशो न कर्तव्यो जातिहीनस्य करिछचित् ॥३३
उपदेशे महान् दोष उपाध्यायस्य विद्यते
नाध्यापयेत् बुधः शूद्रं तथा नैव च याजयेत् ॥३४
न पाठयेत् तथा शूद्रं शास्त्रं व्याकरणादिकम्
काव्यं वा नाटकं वाऽपि तथाऽलङ्कारमेव वा ॥३५
पुराणमितिहासं च शूद्रं नैव तु पाठयेत्
यदि चोपदिशेद्विप्रः शूद्रस्यैतानि करिछचित् ॥३६
त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद्ब्रह्मसङ्कुलात्
शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत् ॥३७
शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत्
तच्छुश्रूषस्व भद्रं ते ब्राह्मणाच्छ्रद्धया सह ॥३८
शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता
नहि नैसर्गिकं कर्म परित्यक्तुं त्वमरछसि’ ॥३९
एवमुक्तः स मुनिना स शूद्रोऽचिन्तयत्तदा
किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे परा ॥४०
यथा स्यान्मम सुज्ञानं यतिष्येऽहं तथाऽद्य वै’
इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ॥४१
गत्वाऽऽश्रमपदात् दूरं कृतवानुटजं शुभम्
तत्र वै देवतागारं पुण्यान्यायतनानि च ॥४२
पुष्पारामादिकं चापि तटाकखननादिकम्
श्रद्धया कारयामास तपःसिद्ध्यर्थमात्मनः ॥४३
[[114115]]
श्रीस्कान्दपुराणेे नवमोऽध्यायः

[[4]]
अभिषेकांश्च नियमान् उपवासादिकानपि
बलिं कृत्वा च हुत्वा च दैवतान्यभ्यपूजयत् ॥४४
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः
नित्यं कन्दैश्च मूलैश्च पुष्पैरपि तथा फलैः ॥४५
अतिथीन् पूजयामास यथावत् समुपागतान्
एवं हि सुमहान् कालो व्यतिचक्राम तस्य वै ॥४६
दृढमतये सुमत्याख्यविप्रप्रकाशित
कर्मानुष्ठानक्रमः
अथाश्रममगात्तस्य सुमतिर्नाम नामतः
द्विजो भर्गकुलोद्भूतः सत्यवादी जितेन्द्रियः ॥४७
स्वागतैर्मुनिमाराध्य तोषयित्वा फलादिकैः
कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥४८
इत्थं सम्प्रति पाद्याद्यैः उपचारैस्तु पूजितः
आशीर्भिरभिनन्द्यैनं प्रतिगृह्य च सत्क्रियाम् ॥४९
तमापृच्छत् प्रहृष्टात्मा स्वाश्रमं पुनराययौ
एवं दिनेदिने विप्रः शूद्रेऽस्मिन् पक्षपातवान् ॥५०
आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम्
बहुकालं द्विजस्याभूत् संसर्गः शूद्रयोनिना ॥५१
स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे
अथाऽऽगतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ॥५२
हव्यकव्यविधानं मे ब्रूहि त्वं तु गुरुर्मतः
एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत्५३
कारयामास शूद्रस्य पितृकार्यादिकं तदा
पितृकार्ये कृते तेन विसृष्टः स द्विजोत्तमः ॥५४
शूद्रस्य वैदिककर्मोपदेशेन सुमत्यनुभूतदुर्गतिः
अथ दीर्घेण कालेन पोषितः शूद्रयोनिना
त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमत् द्विजः ॥५६
वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥५७
भुक्त्वा क्रमेण नरकान् तदन्ते स्थावरोऽभवत्
गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ॥५८
जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः
अथ चण्डालतां प्राप्य शूद्रयोनिमगात्ततः ॥५९
गतवान् वैश्यतां पश्चात् क्षत्त्रियस्तदनन्तरम्
प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाऽभवत् ॥६०
उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः
वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः ॥६१
गच्छन् कदाचिद्गहने गृहीतो ब्रह्मरक्षसा
रुदन् भ्रमन् स्खलन् मूढः प्रलपन् प्रहसन्नसौ ॥६२
शश्वद्धाहेति च वदन् वैदिकं कर्म सोऽत्यजत्
दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः ॥६३
सुतमादाय च स्नेहात् अगस्त्यं शरणं ययौ
सुवर्णमुखरीतीरे तपस्यन्तं शिवाग्रतः ॥६४
[[116117]]
श्रीस्कान्दपुराणेे नवमोऽध्यायः

भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै
तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् ॥६५
अगस्त्योक्त्या दुर्गत्यपनोदनार्थं सुमतेर्वेङ्कटाद्रिगमनम्
अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुङ्गवम्
’एष मे तनयो ब्रह्मन् ! गृहीतो ब्रह्मरक्षसा ॥६६
सुखं न लभते ब्रह्मन् ! रक्ष तं करुणादृशा
नास्ति मे तनयोऽप्यन्यः पितॄणामृणमुक्तये ॥६७
तस्य पीडाविनाशार्थं उपायं ब्रूहि कुम्भज !
त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते ॥६८
त्वां विनाऽस्य परित्राता न मे पुत्रस्य विद्यते
पुत्रे दयां कुरु गुरो! दयाशीला हि साधवः ॥६९
श्रीसूतः-
’पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते !
सुमतिर्नाम विप्रोऽऽयं मतिं शूद्राय वै ददौ॥७०
कर्माणि वैदिकान्येष सर्वाण्युपदिदेश वै
अतोऽयं नरकान् भुङ्त्क्वा कल्पकोटिसहस्रकम् ॥७१
जातो भुवि तदन्तेषु स्थावरादिषु योनिषु
इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥७२
यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा
क्रूरेण पातकेनाद्य पूर्वजन्मकृतेन वै ॥७३
उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने
शृणुष्व श्रद्धया युक्तः समाधाय च मानसम् ॥७४
सुवर्णमुखरीतीरे ऋषिसङ्गनिषेविते
वर्तते दैवतैः सेव्यः पावनो वेङ्कटाचलः ॥७५
तस्योपरि महातीर्थं नाम्ना पापविनाशनम्
अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम् ॥७६
भूतप्रेतपिशाचानां वेतालब्रह्मरक्षसाम्
महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम् ॥७७
सुतमादाय गच्छ त्वं तत्तीर्थं गिरिमध्यगम्
प्रयतः स्नापय सुतं तीर्थे पापविनाशने ॥७८
स्नानेन त्रिदिनं तत्र ब्रह्मरक्षो विनश्यति
नैवोपायान्तरं तस्य विनाशे विद्यते भुवि ॥७९
तस्माच्छीफ्रुं प्रयाहि त्वं वेङ्कटाह्वयपर्वतम्
तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम् ॥८०
मा विलम्बं कुरुष्वात्र त्वरया याहि वै द्विज !
इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत् ॥८१
अनुज्ञातश्च तेनासौ प्रययौ वेङ्कटाचलम्
सुतेन साकं विप्रोऽसौ गत्वा पापविनाशनम् ॥८२
सुमतेः पापनाशनस्नानेन दुर्गत्यपनोदनम्
सङ्कल्पपूर्वं संस्नाप्य दिनत्रयमसौ सुतम्
सस्नौ स्वयं च विप्रेन्द्रः पिता पापविनाशने ॥८३
[[118119]]
श्रीस्कान्दपुराणेे नवमोऽध्यायः

समागतः पपौ तोयं कृत्वा चाप्याह्निकक्रमम्
अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥८४
समजायत नीरोगः स्वस्थः सुन्दररूपधृक्
सर्वसम्पत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः ॥८५
देहान्ते प्रययौ मुक्तिं स्नानात् पापविनाशने
पिताऽपि तत्र स्नानेन देहान्ते मुक्तिमाप्तवान् ॥८६
वैदिककर्मानुष्ठातुर्दृढमतेः दुर्गतिप्राप्त्यपनोदनम्
तेनोपदिष्टोऽयं शूद्रः सः भुक्त्वा नरकान् क्रमात्
अनेकासु जनित्वा च कुत्सितास्वपि योनिषु ॥८७
गृध्रजन्माऽभवत्पश्चात् वेङ्कटाचलभूधरे
न कदाचिज्जलं पातुं तीर्थे पापविनाशने ॥८८
समागतः पपौ तोयं सिषिचे चात्मनस्तनुम्
तदैव दिव्यदेहः सन् सर्वाभरणभूषितः
दिव्यं विमानमारुह्य प्रययावमरालयम् ॥८९
श्रीसूतः-
एवम्प्रभावमेतद्वै तीर्थं पापविनाशनम्
पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् ॥९०
इत्थं रहस्यं कथितं मुनीन्द्राः ! तद्वैभवं पापविनाशनस्य ।
यत्राभिषेकात् सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिन्द्यकृत्यौ॥९१
इति श्री स्कान्दपूराणे श्री वेङ्कटाचलमाहात्म्ये पापविनाशन
तीर्थमहिमानुवर्णनं नाम नवमोऽध्यायः
—–ठ्—–

दशमोऽध्यायः

अथ दशमोऽध्यायः
—–ठ्—–
भूयः पापविनाशनतीर्थमाहात्म्यवर्णनम्
श्रीसूतः-
पुनश्चाहं प्रवक्ष्यामि पापनाशनवैभवम्
भगवद्भक्तिभावेन शृणुध्वं सुसमाहिताः ॥१
इतिहासं प्रवक्ष्यामि सर्वपापविनाशनम्
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥२
भद्रमत्याख्यदरिद्रद्विजवृत्तान्तः
आसीत् पुरा द्विजवरो वेदवेदाङ्गपारगः
दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्द्विजः ॥३
श्रुतानि सर्वशास्त्राणि तेन विप्रेण धीमता
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ॥४
अभवंस्तस्य षट् पत्न्यः कृता सिन्धुर्यशोवती
कामिनी मालिनी चैव शोभा चैव प्रकी र्तिताः ॥५
तासु पत्नीषु तस्यासीत् पुत्राणां च शतद्वयम्
ते सर्वे तस्य पुत्राद्याः क्षुधया परिपीडिताः ॥६
अकिञ्चनो भद्रमतिः क्षुधार्तानात्मजान् प्रियान्
पश्यन् प्रियाः क्षुधार्ताश्च विललापाकुलेन्द्रियः ॥७
धिक् जन्म भाग्यरहितं धिक् जन्म धनवर्जितम्
धिक् जन्म कीर्तिरहितं धिक् जन्मातिथ्यवर्जितम् ॥८
[[120121]]
श्रीस्कान्दपुराणेे दशमोऽध्यायः

धिक् जन्माचाररहितं धिक् जन्मज्ञानवर्जितम्
धिक् जन्म यत्नरहितं धिक् जन्म सुखवर्जितम् ॥९
धिक् जन्म बन्धुरहितं धिक् जन्म ख्यातिवर्जितम्
नरस्य बह्वपत्यस्य धिक् जन्मैश्वर्यवर्जितम् ॥१०
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले
दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ॥११
विप्राः पुत्राश्च पौत्राश्च बान्धवा भ्रातरस्तथा
शिष्याश्च सर्वे मनुजाः त्यजन्त्यैश्वर्यवर्जितम् ॥१२
इति निश्चित्य मतिमान् धीरो भद्रमतिर्द्विजः
चण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ॥१३
दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः
अहो सम्पत्समायुक्तो निष्ठुरो वाप्यनिष्ठुरः ॥१४
गुणहीनोऽपि गुणवान् मूर्खो वापि स पण्डितः
निष्ठुरो वा गुणी वापि धर्महीनोऽथ वा नरः ॥१५
ऐश्वर्यगुणयुक्तश्चेत् पूज्य एव न संशयः
अहो दरिद्रता दुःखं तत्राप्याशाऽ तिदुःखदा
आशाभिभूताः पुरुषाः दुःखमश्नुवते क्षणात् ॥१६
आशाया दासा ये दासाः ते सर्वलोकस्य
आशा दासी येषां तेषां दासायते लोकः ॥१७
सर्वशास्त्रार्थवेत्ताऽपि दरिद्रो भाति मूर्खवत्
आकिञ्चन्यमहाग्राहग्रस्तानां नास्ति मोचकः ॥१८
अहो दुःखमहो दुःखमहो दुःखं दरिद्रता
तत्रापि पुत्रदाराणां बाहुल्यमतिदुःखदम् ॥१९
एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः
अत्रैश्वर्यपदं धर्मं मनसा चिन्तयंस्तदा
तूष्णीं स्थितो भद्रमतिः महाक्लेशसमन्वितः ॥२०
भद्रमतेः कामिनीकृत वेङ्कटाद्रिगमनप्रोत्साहनम्
तदानीं तासु भार्यासु कामिनी पतिदेवता
भार्या साधुगुणैर्युक्ता पतिं तं प्रत्यभाषत ॥२१
कामिनी–
’’भगवन् ! सर्वधर्मज्ञ ! सर्वशास्त्रार्थपारग !
मम नाथ ! महाभाग ! वाक्यं शृणु महामते ! ॥२२
सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते
वर्तते दैवतैः सेव्यः पावनो वेङ्कटाचलः ॥२३
तस्मिन् वेङ्कटशैलेन्द्रे सुरासुरनमस्कृते
वर्तते पावनं तीर्थं पापानां दाहकं शुभम् ॥२४
तत्र गत्वा महाभाग ! पापनाशे महामते !
कुरु स्नानं प्रयत्नेन भार्यापुत्रसमन्वितः ॥२५
तस्य तीर्थस्य माहात्म्यं नारदेन श्रुतं मया
बालभावे मम पितुरन्तिके प्रोक्तवान् मुनिः ॥२६
’वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने
सर्वदुःखप्रशमने सर्वसम्पत्प्रदायके ॥२७
[[122123]]
श्रीस्कान्दपुराणेे दशमोऽध्यायः

पापनाशे महातीर्थे स्नात्वा सङ्कल्पपूर्वकम्
अत्यैश्वर्यप्रदं धर्मं मनसा चिन्तयंस्तदा ॥२८
भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम्
प्रापकं परलोकस्य सर्वकामफलप्रदम् ॥२९
दानानामुत्तमं दानं भूदानं परिकीर्तितम्
तद्दत्वा समवाप्नोति यद्यदिष्टतमं नरः’ ॥३०
इत्येवं नारदेनोक्तं श्रुत्वा मे जनको द्विजः
सम्प्रहृष्टमना भूत्वा शेषाद्रिं प्राप्तवांस्तदा ॥३१
तत्र गत्वा महाभागः सर्वसम्पत्प्रदायकम्
भूदानं विप्रवर्याय श्रोत्रियाय प्रदत्तवान् ॥३२
ततो मे जनको विद्वन् ! सर्वभाग्यसमन्वितः
इह लोके सुखं प्राप्य चान्ते विष्णुपुरं ययौ ॥३३
त्वं च गत्वा महाभाग ! वेङ्कटाद्रिं नगोत्तमम्
कुरु दानं प्रयत्नेन भूदानं सर्वकामदम् ॥३४
कामिनीकथितभूदानप्रशंसा
भूमिदानस्य माहात्म्यं शृणुष्व सुसमाहितः
न कोऽपि गदितुं शक्तो लोकेऽस्मिन् भगवन् ! प्रभो ! ॥३५
भूमिदानात् परं दानं न भूतं न भविष्यति
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ॥३६
स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये
ब्रह्मलोकमवाप्नोति पुनरावृत्तिवर्जितम् ॥३७
भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाक् भवेत्
भूमिदानं वृषाद्रौ च सर्वपापप्रणाशनम् ॥३८
महापातकयुक्तो वा युक्तो वा सर्वपातकैः
दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ॥३९
सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत्
भूमिदस्य समो नान्यः त्रिषु लोकेषु विद्यते ॥४०
द्विजस्य वृत्तिहीनस्य यः प्रदद्यान्महीं शुभाम्
तस्य पुण्यफलं वक्तुं शेषो नारछः कदाचन ॥४१
विप्रस्य वृत्तिहीनस्य सदाचारस्य कस्य चित्
योऽल्पामपि महीं दद्यात् स विष्णुर्नात्र संशयः ॥४२
इक्षुगोधूमकेदारपूगवृक्षादिसंयुता
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ॥४३
वृत्तिहीनस्य विप्रस्य दरिद्रस्य कुटुम्बिनः
स्वल्पामपि महीं दत्त्वा विष्णुसायुज्यमश्नुते४४
सक्तस्य देवपूजासु विप्रस्याटविका मही
दत्ता भवति गङ्गायां त्रिरात्रस्नानजं फलम् ॥४५
विप्रस्य वृत्तिहीनस्य सदाचाररतस्य च
द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु ॥४६
गङ्गातीरेऽश्वमेधानां शतानि विधिवन्नरः
कृत्वा यत्फलमाप्नोति तदाप्नोति महत्फलम् ॥४७
[[124125]]
श्रीस्कान्दपुराणेे दशमोऽध्यायः

ददाति भारिकां भूमिं दरिद्राय द्विजातये
तस्य पुण्यं प्रवक्ष्यामि मन्नाथ ! भगवन् ! प्रभो ! ॥४८
अश्वमेधसहस्राणि वाजपेयशतानि च
विधाय जाह्नवीतीरे यत्फलं तल्लभेत सः ॥४९
भूमिदानं महादानमतिदानं प्रकीर्तितम्
सर्वपापप्रशमनं अपवर्गफलप्रदम् ॥५०
यच्छ्रुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत्’
भार्याया वचनं श्रुत्वा त्वितिहाससमन्वितम् ॥५१
सन्तुष्टो मनसि ध्यात्वा शेषाचलनिवासिनम्
गन्तुं प्रचकमे बुद्ध्या क्रीडाचलमनुत्तम् ॥५२
भद्रमतये भूप्रदानात् सुघोषस्य सद्गतिः
ततो भद्रमतिः सौम्यः सर्वधर्मपरायणः
सुशालिं नाम नगरीं कलत्रसहितो ययौ ॥५३
सुघोषं नाम विप्रेन्द्रं सर्वैश्वर्यसमन्वितम्
गत्वा याचितवान् भूमिं पञ्चहस्तायतां द्विजः ॥५४
सुघोषो धर्मनिरतः तं निरीक्ष्य कुटुम्बिनम्
मनसा प्रीतिमापन्नं समभ्यर्च्यैनमब्रवीत् ॥५५
’कृतार्थोऽहं भद्रमते ! सफलं मम जन्म च
मत्कुलं चानघं जातं त्वं हि ग्राह्योऽसि मे यत ॥’५६
इत्युक्त्वा तं समभ्यर्च्य सुफेूषो धर्मतत्परः
पञ्चहस्तप्रमाणां तां ददौ तस्मै महामतिः ॥५७
’पृथिवी वैष्णवी पुण्या पृथीवी विष्णुपालिता
पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः’ ॥५८
मन्त्रेणानेन विप्रेन्द्राः ! सुफेूषस्तं द्विजेश्वरम्
विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ ॥५९
स भद्रमतये विप्राः ! धीमांस्तां याचितां भुवम्
दत्तवान् हरिभक्ताय श्रोत्रियाय कुटुम्बिने ॥६०
सुफेूषो भूमिदानेन कोटिवंशसमन्वितः
प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ॥६१
भद्रमतेः पापनाशनतीरे भूदानार्थं वेङ्कटाद्रिगमनम्
विप्रो भद्रमतिश्चापि पुत्रदारसमन्वितः
गतो वेङ्कटशैलेन्द्रं सुरासुरनमस्कृतम् ॥६२
गन्धर्वयक्षशैलादिसेवितं मेरुपुत्रकम्
वैकुण्ठादागतं दिव्यं क्रीडाचलमनु त्तमम् ॥६३
तत्र स्वामिसरस्तोये निर्मले पावने शुभे
दारपुत्रादिसंयुक्तः स्नात्वा सङ्कल्पपूर्वकम् ॥६४
तत्पश्चिमतटे श्वेतसूकरं वसुधाधरम्
नत्वा तत्र विधानेन श्रीनिवासालयं गतः ॥६५
तत्र ब्रह्मादिदेवैश्च सेवितं वेङ्कटेश्वरम्
दृष्टवान् सहपुत्राद्यैः विष्णुभक्तो महामतिः ॥६६
भक्त्या प्रणम्य देवेशं श्रीनिवासं कृपानिधिम्
पुत्रदारादिसंयुक्तः पापनाशनमाययौ ॥६७
[[126127]]
श्रीस्कान्दपुराणेे दशमोऽध्यायः

तत्र स्नात्वा विधानेन कृतधर्मादिसत्क्रियः
कस्मैचित् विष्णुभक्ताय श्रोत्रियाय महामतिः
विष्णुबुद्ध्या स प्रददौ भूदानं मोक्षदं शुभम् ॥६८
भूदानप्रभावेण भगवत्साक्षात्कारः
तदा प्रादुरभूद्देवः शङ्खचक्रगदाधरः
विनतानन्दनारूढो वनमालाविभूषितः ॥६९
पापनाशस्य तीरे तु भूदानस्य प्रभावतः
तदा भद्रमतिः सौम्यः स्तोतुं समुपचक्रमे ॥७०
नमो नमसेऽखिलकारणाय नमो नमस्तेऽखिलपालकाय ।
नमो नमस्तेऽमरनायकाय नमो नमो दैत्यविमर्दनाय ॥७१
नमो नमो भक्तजनप्रियाय नमो नमः पापविदारणाय
नमो नमो दुर्जननाशकाय नमोऽस्तु तस्मै जगदीश्वराय ॥७२
नमो नमः कारणवामनाय नारायणायामितविक्रमाय
श्रीशार्ज्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥७३
नमः पयोराशिनिवासकाय नमोऽस्तु लक्ष्मीपतयेऽव्ययाय
नमोऽस्तु सूर्याद्यमितप्रभाय नमो नमऽपुण्यगतागताय॥७४
नमो नमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय
नमोऽस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय॥७५
नमो नमः कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय
नमोऽस्तु तेऽभीष्टसुखप्रदाय नमो नमो भक्तमनोरमाय॥७६
नमो नमस्तेऽखिलकारणाय नमोऽस्तु ते मन्दरधारकाय
नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय॥७७
नमोऽस्तु ते वामनरूपभाजे नमोऽस्तु ते क्षत्रकुलान्तकाय
नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय॥७८
नमस्ते कमलाकान्त ! नमस्ते सुखदायिने
श्रितार्तिनाशिने तुभ्यं भूयो भूयो नमो नमः’ ॥७९
विप्रेण संस्तुतो देवो भगवान् भक्तवत्सलः
वात्सल्येनाब्रवीद्वाक्यं श्रीनिवासो दयानिधिः ॥८०
’तात ! तुष्टोऽस्मि भद्रं ते स्तोत्रेण महता द्विज !
सर्वभोगसमायुक्तः पुत्रपौत्रादिभिर्युतः ॥८१
इह लोके सुखं प्राप्य देहान्ते मुक्तिमाप्नुहि’
इत्युक्त्वा भगवान् विष्णुः तत्रैवान्तरधीयत ॥८२
एवं वः कथितं विप्राः पापनाशनवैभवम्
तत्तीरे भूप्रदानस्य माहात्म्यं चापि वर्णितम् ॥८३
इति श्री स्कान्दपुराणे श्रीवेङ्कटाचलमाहात्मे्य पापविनाशनतीर्थे
भूदानफलानुवर्णनं नाम दशमोऽध्यायः
—–ठ्—–
[[128129]]
श्रीस्कान्दपुराणे दशमोऽध्यायः

एकादशोऽध्यायः

अथ एकादशोऽध्यायः
—–ठ्—–
रामानुजाख्यद्विजवृत्तान्तः
श्रीसूतः-
भो भोस्तपोधनाः ! सर्वे नैमिशारण्यवासिनः
आकाशगङ्गातीर्थस्य माहात्म्यं प्रवदाम्यहम् ॥१
आकाशगङ्गानिकटे सर्वशास्त्रार्थपारगः
रामानुज इति ख्यातो विष्णुभक्तो जितेन्द्रियः ॥२
तपश्चकार धर्मात्मा वैखानसमते स्थितः
ग्रीष्मे पञ्चाग्निमध्यस्थो विष्णुध्यानपरायणः ॥३
जपन्नष्टाक्षरं मन्त्रं ध्यायन् हृदि जनार्दनम्
वर्षास्वाकाशगो नित्यं हेमन्तेषु जलेशयः ॥४
सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत्
कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः ॥५
आकाशगङ्गातीरे रामानुजतपस्तुष्टभगवदाविर्भावः
अथ तत्तपसा तुष्टो भगवान् भक्तवत्सलः
प्रत्यक्षतामगात्तस्य शङ्खचक्रगदाधरः ॥६
विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः
विनतानन्दनारूढः छत्रचामरशोभितः ॥७
हारकेयूरमकुटः कटकादिविभूषितः
विष्वक्सेनसुनन्दादिकिङ्करैः परिवारितः ॥८
वीणावेणुमृदङ्गादिवादकैर्नारदादिभिः
गीयमानः सुविभवः पीताम्बरविराजितः ॥९
लक्ष्मीविराजितोरस्को नीलमेघनिभच्छविः
सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः ॥१०
मन्दस्मितेन सकलं मोहयन् भुवनत्रयम्
स्वभासा भासयन् सर्वा दिशो दश विराजयन् ॥११
सुभक्तसुलभो देवो वेङ्कटेशो दयानिधिः
पुनः सन्निदधे तस्य रामानुजमहामुनेः ॥१२
आविर्भूतं तदा दृष्ट्वा श्रीनिवासं कृपानिधिम्
पीताम्बरधरं देवं तुष्टिं प्राप महामुनिः
भक्त्या परमया युक्तः तुष्टाव जगदीश्वरम् ॥१३
रामानुजाख्यविप्रकृतभगवत्त्सुतिः
रामानुजः-
’नमो देवाधिदेवाय शङ्खचक्रगदाभृते
नमो नित्याय शुद्धाय वेङ्कटेशाय ते नमः ॥१४
नमो भक्तार्तिहन्त्रे ते हव्यकव्यस्वरूपिणे
नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यन्तकारिणे ॥१५
नमः परेशाय नमोऽतिभूम्ने नमोऽस्तु लक्ष्मीपतये विधात्रे
नमोऽस्तु सूर्येन्दुविलोचनाय नमो विरिञ्च्याद्यभिवन्दिताय॥१६
यो नामजात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः
समस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशकाय॥१७
[[130131]]
श्रीस्कान्दपुराणेे एकादशोऽध्यायः

वेदान्तवेद्याय रमेश्वराय वृषाद्रिवासाय विधातृपित्रे
नमो नमः सर्वजनार्तिहारिणे नारायणायामितविक्रमाय॥१८
नमस्तुभ्यं भगवते वासुदेवाय शार्ज्गिणे
भूयो भूयो नमस्तुभ्यं वेङ्कटाद्रिनिवासिने’ ॥१९
इति स्तुत्वा वेङ्कटेशं श्रीनिवासं जगद्गुरुम्
रामानुजो मुनिस्तूष्णीं आस्ते विप्रवरोत्तमः ॥२०
श्रुत्वा स्तुतिं श्रुतिसुखां हरिस्तस्य महात्मनः
अवाप परमं तोषं वेङ्कटाचलनायकः ॥२१
अथाऽऽलिङ्ग्य मुनिं शौरिः चतुर्भिर्बाहुभिस्तदा
बभाषे प्रीतिसंयुक्तो ’वरं वै व्रियता’मिति ॥२२
’तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि महामुने !
नमस्कारेण च प्रीतो वरदोऽहं तवाऽऽगतः’ ॥२३
रामानुजाख्यविप्रकृतभगवत्प्रार्थना
रामानुजः-
’नारायण रमानाथ ! श्रीनिवास जगन्मय !
जनार्दन जगद्धामन् ! गोविन्द नरकान्तक ! ॥२४
त्वद्दर्शनात्कृतार्थोऽस्मि वेङ्कटाद्रिशिरोमणे !
त्वां नमस्यन्ति धर्मिष्ठा यतस्त्वं धर्मपालकः ॥२५
यन्न वेत्ति भवो ब्रह्मा यन्न वेत्ति त्रयी तथा
त्वां वेद्मि परमात्मानं किमस्मादधिकं परम् ? ॥२६
योगिनो यं न पश्यन्ति यं न पश्यन्ति कर्मठाः
पश्यामि परमात्मानं किमस्मादधिकं परम् ? ॥२७
एतेन च कृतार्थोऽस्मि वेङ्कटेश जगत्पते !
यन्नामस्मृतिमात्रेण महापातकिनोऽपि च ॥२८
मुक्तिं प्रयान्ति मनुजाः तं पश्यामि जनार्दनम्
त्वत्पादपद्मयुगले निश्चला भक्तिरस्तु मे’ ॥२९
भगवद्वर्णिताकाशगङ्गातीर्थस्नानकालः
श्रीभगवान्-
’मयि भक्तिर्दृढा तेऽस्तु रामानुज ! महामते !
शृणु चाप्यपरं वाक्यं उच्यते ते मया द्विज ! ॥३०
मेषसङ्क्रमणे भानोः चित्रानक्षत्रसंयुते
पौर्णमास्यां च गङ्गायां स्नानं कुर्वन्ति ये जनाः ॥३१
ते यान्ति परमं धाम पुनरावृत्तिवर्जितम्
वियद्गङ्गासमीपे त्वं वस रामानुज द्विज ! ॥३२
एतत्प्रारब्धदेहान्ते मत्स्वरूपमवाप्स्यसि
बहुना किमिहोक्तेन वियद्गङ्गाजले शुभे ॥३३
स्नान्ति ये वै जनाः सर्वे ते वै भागवतोत्तमाः
भवन्ति मुनिशार्दूल ! नात्र कार्या विचारणा’ ॥३४
रामानुजः -
’किंलक्षणा भागवताः ज्ञायन्ते केन कर्मणा
एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः ॥३५
[[132133]]
श्रीस्कान्दपुराणे एकादशोऽध्यायः

भगवद्वर्णितभागवतलक्षणानि
श्रीभगवान्-
’लक्ष्म भागवतानां तु शृणुष्व मुनिसत्तम !
वक्तुं तेषां प्रभावं तु शक्यते नाब्दकोटिभिः ॥३६
ये हिताः सर्वजन्तूनां गताऽऽसूया विमत्सराः
ज्ञानिनो निःस्पृहाः शान्ताः ते वै भागवतोत्तमाः ॥३७
कर्मणा मनसा वाचा परपीडां न कुर्वते
अपरिग्रहशीलाश्च ते वै भागवतोत्तमाः ॥३८
सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः
मत्पादाम्बुजभक्ता ये ते वै भागवतोत्तमाः ॥३९
मातापित्रोश्च शुश्रूषां कुर्वते ये नरोत्तमाः
ये तु देवार्चनरता ये तु तत्साधका नराः
पूजां दृष्ट्वा तु मोदन्ते ते वै भागवतोत्तमाः ॥४०
वर्णिनां च यतीनां च परिचर्यापराश्च ये
परनिन्दामकुर्वाणाः ते वै भागवतोत्तमाः ॥४१
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः
ये गुणग्राहिणो लोके ते वै भागवतोत्तमाः ॥४२
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः
तुल्याः शत्रुषु मित्रेषु ते वै भागवताः स्मृताः ॥४३
धर्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये
तेषां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥४४
व्याकुर्वन्ति पुराणानि तानि शृण्वन्ति ये तथा
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥४५
ये गोब्राह्मणशुश्रूषां कुर्वन्ति सततं नराः
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥४६
अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः
हरिनामपरा ये च ते वै भागवतोत्तमाः ॥४७
आरामारोपणरताः तटाकपरिरक्षकाः
कासारकूपकर्तारः ते वै भागवतोत्तमाः ॥४८
ये वै तटाककर्तारो देवसद्मानि कुर्वते
गायत्रीनिरता ये च ते वै भागवतोत्तमाः ॥४९
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः
रोमाञ्चितशरीराश्च ते वै भागवतो त्तमाः ॥५०
तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः
तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥५१
तुलसीगन्धमाफ्रूय सन्तोषं कुर्वते तु ये
तन्मूलमृद्धरा ये च ते वै भागवतोत्तमाः ॥५२
स्वाश्रमाचारनिरताः तथैवातिथिपूजकाः
ये च वेदार्थवक्तारः ते वै भागवतोत्तमाः ॥५३
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये
सर्वत्र गुणभाजो ये ते वै भागवतोत्तमाः ॥५४
[[134135]]
श्रीस्कान्दपुराणे एकादशोऽध्यायः

पानीयदाननिरता ह्यन्नदानरताश्च ये
एकादशीव्रतपराः ते वै भागवतोत्तमाः ॥५५
गोदाननिरता ये च कन्यादानरताश्च ये
मदर्थकर्मकर्तारः ते वै भागवतोत्तमाः ॥५६
मन्मानसाश्च मद्भक्ता ये मद्भजनलोलुपाः
मन्नामस्मरणासक्ताः ते वै भागवतोत्तमाः ॥५७
बहुनाऽत्र किमुक्तेन ? सङ्क्षेपात्ते ब्रवीम्यहम्
सद्गुणाय प्रवर्तन्ते ते वै भागवतोत्तमाः ॥५८
एते भागवता विप्राः केचिदत्र प्रकीर्तिताः
ममापि गदितुं शक्या नाब्दकोटिशतैरपि ॥५९
रामानुज ! महाभाग ! मद्भक्तानां च लक्षणम्
मयि भक्ते त्वयि प्रीत्या ह्युक्तं किल महामते’ ! ॥६०
श्रीसूतः-
एवं वः कथितं विप्राः ! शौनकाद्या ! महौसः !
वृषाद्रौ च वियद्गङ्गातीर्थमाहात्म्यमुत्तमम् ॥६१
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्मे्य आकालगङ्कमाहात्म्य
रामानुजव्रतचर्यादिवर्णनं नाम एकादशोऽध्यायः
—–ठ्—–

द्वादशोऽध्यायः

अथ द्वादशोऽध्यायः
—–ठ्—–
दानारछसत्पात्रनिर्णयः
ऋषयः-
’भगवन् सूत ! सर्वज्ञ ! वेदवेदान्तकोविद !
दानानि कस्मै देयानि दानकालश्च कीदृशः
कश्च तत्प्रतिगृह्णीयात् सर्वं नो वक्तुमरछसि ॥१
श्रीसूतः-
महापुण्यप्रदे क्षेत्रे वेङ्कटाख्ये द्विजोत्तमाः !
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ॥२
तस्मै दानानि देयानि स तारयति पण्डितः
ब्राह्मणः प्रतिगृह्णीयात् वर्जयित्वा त्ववर्णकम् ॥३
षण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च
वेदविद्वेषिणशै्चव द्विजविद्वेषिणस्तथा ॥४
स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम्
परदाररतस्यापि परद्रव्यरतस्य च ॥५
गायकस्यापि विप्रस्य दत्तं भवति निष्फलम्
असूयाविष्टमनसः कृतघ्नस्य च मायिनः ॥६
ज्ञानशून्यस्य विप्रस्य दत्तं भवति निष्फलम्
नित्यं याच्ञापरस्यापि हिंसकस्याबलस्य च ॥७
नामविक्रयिणशै्चव वेदविक्रयिणस्तथा
स्मृतिविक्रयिणशै्चव धर्मविक्रयिणस्तथा ॥८
[[136137]]
श्रीस्कान्दपुराणे द्वादशोऽध्यायः

परोपतापशीलस्य दत्तं भवति निष्फलम्
ये केचित्पापनिरता निन्दिताः सुकृतैस्तथा ॥९
न तेभ्यः प्रतिगृह्णीयात् न देयं वापि किञ्चन
सत्कर्मनिरतायैव श्रोत्रियायाऽऽहिताग्नये ॥१०
वृत्तिहीनाय वै देयं दरिद्राय कुटुम्बिने
देवपूजासु सक्ताय पुराणकथकाय च ॥११
देयं प्रयत्नतो विप्राः ! दरिद्राय विशेषतः
बहुना किमिहोक्तेन ! शृणुध्वं द्विजसत्तमाः ! ॥१२
सर्वेषां ब्राह्मणानां च प्रदातुं शक्यते सदा
वन्ध्याभर्त्रे प्रदत्तं चेत् रासभो जायते नरः ॥१३
नास्तिकं भिन्नमर्यादं पुत्रहीनं जडं खलम्
स्तेयिनं कितवं चैव कदाचिन्नाभिवादयेत् ॥१४
पाषण्डं पतितं व्रात्यं वेदविक्रयिणं तथा
कृतघ्नं पापनिरतं कदाचिन्नाभिवादयेत् ॥१५
तथा स्नानं प्रकुर्वन्तं समित्पुष्पकरं तथा
उदपात्रधरं चैव भुञ्जन्तं नाभिवादयेत् ॥१६
विवादशीलिनं चण्डं वमन्तं जनमध्यगम्
भिक्षान्नधारिणं चैव शयानं नाभिवादयेत्१७
वन्ध्यां च तथा जारां सूतिकां गर्भपातिनीम्
व्रतघ्नीं च तथा चण्डीं कदाचिन्नाभिवादयेत्१८
सभायां यज्ञशालायां देवतायतनेष्वपि
प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुरातनम् ॥१९
श्राद्धव्रते नियुक्तं च देवताभ्यर्चकं तथा
यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् ॥२०
कुर्वते वन्दनं यस्तु न कुर्यात्प्रतिवन्दनम्
नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव च ॥२१
तस्मात्सर्वेषु कालेषु बुद्धिमान् ब्राह्मणोत्तमः
वन्ध्यापतिं द्विजं क्रूरं कदाचिन्नाभिवादयेत् ॥२२
आकाशगङ्गामाहात्म्यम्
श्रीसूतः-
अत्रेतिहासं वक्ष्यामि पुण्यशीलस्य धीमतः
सनत्कुमारमुनये नारदेन प्रभाषितम्
तद्वक्ष्यामि मुनिश्रेष्ठाः ! शृणुध्वं सुसमाहिताः ॥२३
पुरा गोदावरीतीरे सर्वधर्मपरायणः
पुण्यशीलो द्विजवरः सत्यवादी जितेन्द्रियः ॥२४
दयावान् सर्वभूतेषु देवाग्निद्विजपूजकः
कर्मणा जन्मशुद्धश्च मातापितृहिते रतः ॥२५
गुरुभक्तिः सदाक्षिण्यो ब्रह्मण्यः साधुसम्मतः
एतादृशगुणैर्युक्तः पुण्यशीलस्य धीमतः ॥२६
गृहं सम्प्राप्तवान् विप्रो वेदवेदाङ्गपारगः
प्रार्थितः पुण्यशीलेन पितृश्राद्धेऽतिवेगतः ॥२७
तं विप्रं श्रोत्रियं शान्तं पितृश्राद्धे नियोज्य वै
श्राद्धं चकार धर्मात्मा प्रत्याब्दिकमनुत्तमम् ॥२८
[[138139]]
श्रीस्कान्दपुराणे द्वादशोऽध्यायः

पुण्यशीलस्य वन्ध्यापतिनिमन्त्रणेन गर्दभमुखत्वप्राप्तिः
ततः कालान्तरे तस्य पुण्यशीलस्य चानने
वैरूप्यं प्राप्तमत्युग्रं रासभाननवत्तदा ॥२९
ततः खिन्नमना भूत्वा पुण्यशीलोऽतिधार्मिकः
निःश्वस्य बहुधा खिन्नः प्रपेदेऽगस्त्ययोगिनः ॥३०
सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते
आश्रमं परमं दिव्यं सर्वकामफलप्रदम् ॥३१
तत्राऽऽश्रमे मुनिवरैः सेव्यमानमहर्निशम्
दृष्ट्वाऽगस्त्यं महात्मनं सर्वलोकहितैषिणम्
प्रणाममकरोत्तस्मै गार्दभास्योऽतिदुःखितः ॥३२
पुण्यशीलः-
’तपोनिधे ! नमस्तुभ्यमगस्त्य ! मुनिसेवित !
कुत्सितास्यं महापापं रक्ष रक्ष दयानिधे ! ॥३३
केन दोषेण मे चात्र मुखस्यासीद्विरूपता
मयि प्रीत्या महाभाग ! वदस्व मुनिसत्तम’३४
आगस्त्यः-
’विप्रवर्य ! महाभाग ! पुण्यशील ! महामते !
आननस्य विरूपं वै शृणु नान्यमना द्विज ! ॥३५
वन्ध्यापतेः श्राद्धनिमन्त्रणानरछत्वप्रशंसा
कञ्चिद्विप्रं गुणनिधिं वेदवेदाङ्गपारगम्
श्रोत्रियं पुत्ररहितं श्राद्धे त्वं विनियुक्तवान् ॥३६
तेन दोषेण महता मुखे तव विरूपता
ये लोके हव्यकव्यादौ वन्ध्यायाः स्वामिनं द्विजम् ॥३७
नियोजयन्ति ते यान्ति मुखे गर्दभरूपताГु
शुभकर्मणि वा विप्र ! पैतृके वाऽपि कर्मणि ॥३८
वन्ध्यापतिं महापापं कदाचिन्न निमन्त्रयेत्
वन्ध्यापतिं महाक्रूरं वृषलीपतिमेव वा ॥३९
श्रेयस्कामी हि विप्रेन्द्र ! श्राद्धे तु न निमन्त्रयेत्
वेदशास्त्रादियुक्तो पि कुलीनः कर्मठोऽपि वा ॥४०
वन्ध्याभर्ता द्विजश्रेष्ठ ! श्राद्धे त्याज्यः कथञ्चन
ज्योतिष्टोमादियज्ञेषु व्रतेषु च तपस्सु च ॥४१
समर्थोऽपि द्विजश्रेष्ठः श्राद्धे वन्ध्यापतिं त्यजेत्
अलभ्ये तु द्विजे पात्रे तन्तुमात्रोपजीविनम् ॥४२
पुत्रवन्तं सदाचारं श्राद्धार्थं तु निमन्त्रयेत्
तदभावे द्विजश्रेष्ठ ! पुत्रं वाऽनुजमेव वा ॥४३
आत्मानं वा नियुञ्जीत श्राद्धे वन्ध्यापतिं त्यजेत्
पुण्यशील ! महाभाग ! चोद्धृत्य भुजमुच्यते ॥४४
सर्वथा पुत्रहीनं तु श्राद्धार्थं न नियोजयेत्
वन्ध्यापतिं द्विजं यस्तु श्राद्धकर्ता नियोक्ष्यति
तच्छ्राद्धमासुरं ज्ञेयं कर्ता च नरकं व्रजेत् ॥४५
[[140141]]
श्रीस्कान्दपुराणेे द्वादशोऽध्यायः

आकाशगङ्गास्नानेन पुण्यशीलस्य दद्विकृतिनिवृत्तिः
बहुनाऽत्र किमुक्तेन तद्दोषविनिवृत्तये
उपायं ते प्रवक्ष्यामि स्वर्णमुख्यास्तटे शुभे ॥४६
वर्तते देवसङ्घैश्च सेवितो वेङ्कटाचलः
मेरुपुत्रो महापुण्यः सर्वकामफलप्रदः ॥४७
तस्मिन् वेङ्कटशैलेन्द्रे सुरासुरनमस्कृते
वियद्गङ्गेति नाम्ना वै तीर्थमस्ति महत्तरम् ॥४८
सर्वपापप्रशमनं आयुरारोग्यवर्धनम्
त्वं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीजले ॥४९
स्नात्वा सङ्कल्पपूर्वन्तु गङ्गातीर्थमनन्तरम्
गत्वा तीर्थविधानेन स्नानं कुरु महामते ! ॥५०
स्नानमात्रात्ततः सद्यो मुखस्यास्य महामते !
वैरूप्यं तत्क्षणादेव नश्यत्येव न संशयः’ ॥५१
श्रीसूतः-
एवमुक्तः पुण्यशीलो ह्यगस्त्येन महात्मना
तं प्रणम्य महात्मानं वेङ्कटाद्रिं ततो ययौ ॥५२
तत्र गत्वा महाभागः स्वामिपुष्करिणीजले
स्नात्वा नियमपूर्वं तु वियद्गङ्गासमीपगः ॥५३
तत्र स्नानेन धर्मात्मा कामवक्त्रोपमं मुखम्
प्राप्तवान् पुण्यशीलस्तु अहो तीर्थस्य वैभवम् ! ॥५४
एवं वः कथितं विप्राः ! नारदेन प्रभाषितम्
सनत्कुमारमुनये शौनकाद्या महौजसः ! ॥५५
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्मे्य आकाशगङ्गामाहात्म्य
वर्णनं नाम द्वादशोऽध्यायः
—–ठ्—–
[[142143]]
श्रीस्कान्दपुराणे द्वादशोऽध्यायः

त्रयोदशोऽध्यायः

अथ त्रयोदशोऽध्यायः
—–ठ्—–
चक्रतीर्थमाहात्म्यम्
श्रीसूतः-
अथाहं सम्प्रवक्ष्यामि द्विजेन्द्राः ! सत्यवादिनः !
चक्रतीर्थस्य माहात्म्यं सर्वपापप्रणाशनम् ॥१
ये शृण्वन्ति महापुण्यं चक्रतीर्थस्य वैभवम्
ते यान्ति विष्णुभवनं पुनरावृत्तिवर्जितम् ॥२
अन्नदाने च विमुखा जलदाने तथैव च
गोदानविमुखा ये च शुद्धास्तेऽत्र निमज्जनात्
तस्मात्पुण्यतमं तीर्थं चक्रतीर्थमनुत्तमम् ॥३
पद्मनाभाख्यद्विजकृततपस्तुष्टभगवदाविर्भावः
श्रीसूतः-
पुरा श्रीवत्सगोत्रीयः पद्मनाभो जितेन्द्रियः
चक्रपुष्करिणीतीरे सोऽतप्यत महत्तपः ॥४
दयायुक्तो निराहारः सत्यवादी जितेन्द्रियः
आत्मवत्सर्वभूतानि पश्यन् विषयनिःस्पृहः ॥५
सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत् ॥६
कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः
एवं द्वादशवर्षाणि पद्मनाभो महामुनिः ॥७
अतप्यत तपो फेूरं देवैरपि सुदुष्करम्
अथ तत्तपसा तुष्टो भगवान् कमलापतिः ॥८
प्रत्यक्षतामगात्तस्य शङ्खचक्रगदाधरः
विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः
उन्मील्य चक्षुषी तत्र दृष्टवान् वेङ्कटेश्वरम् ॥९
शङ्खचक्रधरं शान्तं श्रीनिवासं कृपानिधिम्
दृष्ट्वा देवं महात्मानं स्तोतुं समुपचक्रमे ॥१०
पद्मनाभाख्यद्विजकृतश्रीनिवासस्तुतिः
’नमो देवाधिदेवाय वेङ्कटेशाय शारि
ङग्
णे
नारायणाद्रिवासाय श्रीनिवासाय ते नमः ॥११
नमः कल्मषनाशाय वासुदेवाय विष्णवे
शेषाचलनिवासाय श्रीनिवासाय ते नमः ॥१२
नमस्त्रैलोक्यनाथाय विश्वरूपाय साक्षिणे
शिवब्रह्मादिवन्द्याय श्रीनिवासाय ते नमः ॥१३
नमः कमलनेत्राय क्षीराब्धिशयनाय ते
दुष्टराक्षससंहर्त्रे श्रीनिवासाय ते नमः ॥१४
भक्तप्रियाय देवाय देवानां पतये नमः
प्रणतार्तिविनाशाय श्रीनिवासाय ते नमः ॥१५
योगिनां पतये नित्यं वेदवेद्याय विष्णवे
भक्तानां पापसंहर्त्रे श्रीनिवासाय ते नमः’ ॥१६
[[144145]]
श्रीस्कान्दपुराणेे त्रयोदशोऽध्यायः

एवं स्तुतो महाभागः श्रीनिवासो जगन्मयः
पद्मनाभाख्यऋषिणा चक्रतीर्थनिवासिना
सन्तोषं परमं प्राप्य वेङ्कटेशो दयानिधिः ॥१७
वद्मनाभं द्विजवरं शान्तं धर्मपरायणम्
सुधाधारोपमं वाक्यं अभ्रवीत् पुरुषोत्तमः ॥१८
पद्मनाभस्य चक्रतीर्थे निरन्तरवासाय भगवन्नियमनम्
श्रीभगवान्-
’द्विजवर्य ! महाभाग ! मत्पादकमलार्चक !
चक्रतीर्थस्य तीरे त्वं आकल्पं पूजयन् वस’ ॥१९
इत्युक्त्वा भगवान् विष्णुः तत्रैवान्तरधीयत
अन्तर्धानं गते देवे श्रीनिवासे जगद्गुरौ ॥२०
चक्रतीर्थस्य तीरे तु वासं चक्रे महामतिः
ततः कालान्तरे कश्चित् राक्षसो भीमदर्शनः ॥२१
मुनिं तं पद्मनाभाख्यं नारायणपरायणम्
आययौ भक्षितुं क्रूरः क्षुधया परिपीडितः ॥२२
ब्राह्मणं तरसा सोऽयं राक्षसो जगृहे तदा
गृहीतस्तरसा तेन विप्रो वेदाङ्गपारगः ॥२३
प्रचुक्रोश दयाम्भोधिं आपन्नानां परायणम्
नारायणं चक्रपाणिं रक्ष रक्षेति वै मुहुः ॥२४
’वेङ्कटेश ! दयासिन्धो ! शरणागतपालक !
त्राहि मां पुरुषव्याफ्रु ! रक्षोवशमुपागतम् ॥२५
लक्ष्मीकान्त ! हरे ! विष्णो ! वैकुण्ठ ! गरुडध्वज !
मां रक्ष राक्षसाक्रान्तं ग्राहाक्रान्तं गजं यथा ॥२६
दामोदर ! जगन्नाथ ! हिरण्यासुरमर्दन !
प्रह्लादमिव मां रक्ष राक्षसेनातिपीडितम्’ ॥२७
पद्मनाभहननोद्युक्तासुरवधाय भगवत्कृतचक्रप्रेषणम्
इत्येवं स्तुवतस्तस्य पद्मनाभस्य हे द्विजाः !
स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिर्दयानिधिः ॥२८
स्वचक्रं प्रेषयामास भक्तरक्षणकारणात्
प्रेरितं विष्णुचक्रं तत् विष्णुना प्रभविष्णुना ॥२९
आजगामाथ वेगेन चक्रपुष्करिणीतटम्
अनन्तादित्यसङ्काशं अनन्ताग्निसमप्रभम् ॥३०
महाज्वालं महानादं महासुरविमर्दनम्
दृष्ट्वा सुदर्शनं विष्णोः राक्षसोऽथ प्रदुद्रुवे ॥३१
भगवत्प्रेषितचक्रकृतासुरवधः
द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम्
शिरश्चकर्त सहसा ज्वालामालादुरासदम् ॥३२
ततो विप्रवरो दृष्ट्वा राक्षसं पतितं भुवि
मुदा परमया युक्तः तुष्टाव च सुदर्शनम् ॥३३
पद्मनाभः-
विष्णुचक्र ! नमस्तेऽस्तु विश्वरक्षणदीक्षित !
नारायणकराम्भोजभूषणाय ! नमोऽस्तु ते ॥३४
[[146147]]
श्रीस्कान्दपुराणेे त्रयोदशोऽध्यायः

युद्धेष्वसुरसंहारकुशलाय महारव !
सुदर्शन ! नमस्तुभ्यं भक्तानामार्तिनाशन ! ॥३५
रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात्
स्वामिन् ! सुदर्शन ! विभो ! चक्रतीर्थे सदा भवान् ॥३६
सन्निधेहि हिताय त्वं जगतो मुक्तिकाङ्क्षिणः’
ब्राह्मणेनैवमुक्तं तत् विष्णुचक्रं मुनीश्वराः !
तं प्राह पद्मनाभाख्यं प्रीणयन्निव सौहृदात् ॥३७
द्विजप्रार्थनया चक्रकृतवरदानादिः
सुदर्शनः-
’पद्मनाभ ! महापुण्यं चक्रतीर्थमनुत्तमम्
अस्मिन् वसामि सततं लोकानां हितकाम्यया
त्वत्पीडां परिचिन्त्याहं राक्षसेन दुरात्मना३८
प्रेरितो विष्णुना विप्र ! त्वरया समुपागतः
त्वत्पीडकोऽपि निहतो मयाऽयं राक्षसाधमः ॥३९
मोचितस्त्वं भयादस्मात् त्वं हि भक्तो हरेः सदा
चक्रतीर्थे महापुण्ये सर्वपापहरे द्विज ! ॥४०
सततं लोकरक्षार्थं सन्निधानं करोमि ते
अस्मिन् मत्सन्निधानात्ते तथाऽन्येषामपि द्विज ! ॥४१
इतः परं न पीडा स्यात् भूतराक्षससम्भवा
अस्मिन् मत्सन्निधानात्स्यात् ’चक्रतीर्थ’ मिति प्रथा ॥४२
स्नानं येऽत्र प्रकुर्वन्ति चक्रतीर्थे विमुक्तिदे
तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि ॥४३
विधूतपापा यास्यन्ति तद्विष्णोः परमं पदम्’
इत्युक्त्वा विष्णुचक्रं तत् पद्मनाभस्य पश्यतः ॥४४
अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः !
चक्रपुष्करिणीं तां तु प्राविशत् पापनाशिनीम् ॥४५
श्रीसूतः-
चक्रतीर्थस्य माहात्म्यं विप्रेन्द्राः ! पापनाशनम्
युष्माकं कथितं सर्वं शौनकाद्याः ! महौजसः ! ॥४६
चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति
अत्र स्नात्वा नरो विप्राः ! मोक्षभाजो न संशयः ॥४७
कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः
चक्रतीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ॥४८
इति श्री स्कान्दपुराणे श्री वेङ्कटाचलमाहात्मे्य चक्रतीर्थमहिमानु
वर्णनं नाम त्रयोदशोऽध्यायः
—–ठ्—–
[[148149]]
श्रीस्कान्दपुराणे त्रयोदशोऽध्यायः

चतुर्दशोऽध्यायः

अथ चतुर्दशोऽध्यायः
सुन्दराख्यगन्धर्वस्य राक्षसत्वप्राप्तिनिवृत्त्योरुपोद्घातः
ऋषयः-
भगवन् ! राक्षसः कोऽसौ सूत पौराणिकोत्तम !
विष्णुभक्तं महात्मानं यो ब्राह्मणमबाधत ॥१
श्रीसूतः-
वक्ष्यामि राक्षसं क्रूरं तं विप्राः ! शृणुताऽऽदरात्
यथा च राक्षसो जातो मुनीनां शापवैभवात् ॥२
पुरा वैकुण्ठसदृशे श्रीरङ्गे विष्णुमन्दिरे
वसिष्ठात्रिमुखाः सर्वे विष्णुभक्ता महौजसः ॥३
श्रीरङ्गनाथं देवेशं भक्तानामभयप्रदम्
उपासाञ्चक्रिरे मुक्त्यै श्रीरङ्गपुरवासिनः ॥४
कदाचित्तत्र गन्धर्वो वीरबाहुसुतो बली
सुन्दरो नाम विप्रेन्द्राः ! विटगोष्ठीपरायणः ॥५
ललनाशतसंयुक्तो विवस्त्रः सलिलाशये
चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा ॥६
कवेरजायास्तीर्थे तु वसिष्ठो मुनिभिः सह
माध्याह्निकं कर्तुमनाः ययौ श्रीरङ्गमन्दिरात् ॥७
तानृषीनवलोक्याथ रामास्ता भयकातराः
वासांस्याच्छादयामासुः सुन्दरो न तु साहसी
ततो वसिष्ठः कुपितः शशापैनं गतत्रपम् ॥८
वसिष्ठः-
’यस्मात्सुन्दर ! गन्धर्व ! दृष्ट्वा स्मांल्लज्जया त्वया
वासो नाच्छादितं शीफ्रुं याहि राक्षसतां ततः’ ॥९
एवमुक्ते वसिष्ठेन रामाः प्राञ्जलयस्तदा
प्रणिपत्य वसिष्ठं तं भक्तिनव्रेुण चेतसा
मुनिमण्डलमध्ये तु वसिष्ठमिदमब्रुवन् ॥१०
रामाः-
भगवन् ! सर्वधर्मज्ञ ! चतुरानननन्दन !
दयासिन्धोऽवलोक्यास्मान् न कोपं कर्तुमरछसि ॥११
पतिरेव हि नारीणां भूषणं परमुच्यते
पतिहीना तु या नारी शतपुत्राऽपि सा मुने ! ॥१२
विधवेत्युच्यते लोके तासां जन्म निरर्थकम्
तत्प्रसादं कुरु मुने ! पत्यावस्माकमादरात् ॥१३
एकोऽपराधः क्षन्तव्यो मुनिभिस्तत्त्वदर्शिभिः
क्षमां कुरु दयासिन्धो ! युष्मच्छिष्येऽत्र सुन्दरे’ ॥१४
श्रीसूतः-
वसिष्ठः प्रार्थितस्त्वेवं सुन्दरस्याङ्गनाजनैः
प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमः ॥१५
सुन्दराख्यस्य वसिष्ठोक्तराक्षसत्वनिवृत्त्युपायः
वसिष्ठः-
’न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः
उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ॥१६
[[150151]]
श्रीस्कान्दपुराणे चतुर्दशोऽध्यायः

षोडशाब्दावधिः शापो भर्तुर्वै भविता ध्रुवम्
षोडशाब्दावधौ चैव सुन्दरो राक्षसाकृतिः ॥१७
यदृच्छया वेङ्कटाद्रिं सर्वपापहरं शुभम्
गत्वाऽसौ चक्रतीर्थं तत् गमिष्यति सुराङ्गनाः ! ॥१८
आस्ते तत्र महायोगी पद्मनाभो मुनीश्वरः
भक्षार्थं तं मुनिं सोऽयं राक्षसोऽभिगमिष्यति ॥१९
ततो ब्राह्मणरक्षार्थं प्रेरितं चक्रमुत्तमम्
विष्णुनाऽस्य शिरः कायात् हरिष्यति न संशयः ॥२०
ततः स्वं रूपमासाद्य शापान्मुक्तः स सुन्दरः
पतिर्वस्त्रिदिवं भूयो गन्ता नास्त्यत्र संशयः ॥२१
ततस्त्रिदिवमासाद्य सुन्दरो यं पतिरिछ वः
रमयिष्यति सुन्दर्यो ! युष्मान् सुन्दरवेषभृत्’ ॥२२
श्रीसूतः-
इत्युक्त्वा तु वसिष्ठस्ताः सुन्दरस्य वराङ्गनाः
स्वाश्रमं प्रययौ तूर्णं श्रीरङ्गेश्वरभक्तिमान् ॥२३
अथ रामास्तमालिङ्ग्य सुन्दरं पतिमात्मनः
रुरुदुः शोकसन्तप्ताः दुःखसागरमध्यगाः ॥२४
दृश्यमानासु तास्वेवं सुन्दरो राक्षसोऽभवत्
महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः ॥२५
तं दृष्ट्वा भयसंविग्नाः जग्मुः रामास्त्रिविष्टपम्
ततो राक्षसवेषोऽयं सुन्दरो भैरवाकृतिः ॥२६
भक्षयन् प्राणिनः सर्वान् देशाद्देशं वनाद्वनम्
भ्रमन्ननिलवेगोऽयं वेङ्कटाद्रिं नगोत्तमम् ॥२७
प्रविश्यासौ महापापी चक्रतीर्थं ततो ययौ
एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा ॥२८
ततस्तु षोडशाब्दान्ते राक्षसोऽयं मुनीश्वराः !
भक्षितुं पद्मनाभं तं चक्रतीर्थनिवासिनम् ॥२९
उपाद्रवद्वायुवेगः स चास्तौषीज्जनार्दनम्
योगिना च स्तुतो विष्णुः तदा चक्रमचोदयत् ॥३०
रक्षितुं पद्मनाभं तं राक्षसेन प्रपीडितम्
अथाऽगत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत् ॥३१
सुन्दराख्यस्य राक्षसत्वविमुक्तिपूर्वकं स्वस्वरूपप्राप्तिः
ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेबरः
विमानवरमारुह्य सुन्दरः पुष्पवर्षितः ॥३२
प्राञ्जलिः प्रणतो भूत्वा ववन्दे तत्सुदर्शनम्
तुष्टाव श्रुतिरम्याभिः वाग्भिरग्र्याभिरादरात् ॥३३
सुन्दरः-
’सुदर्शन ! नमस्तेऽस्तु विष्णुहस्तैकभूषण !
नमस्ते सुरसंहर्त्रे सहस्रादित्यतेजसे ॥३४
कृपावेशेन भवतः त्यक्त्वाऽहं राक्षसीं तनुम्
स्वं रूपमभजं विष्णोः चक्रायुध ! नमोऽस्तु ते ॥३५
[[152153]]
श्रीस्कान्दपुराणे चतुर्दशोऽध्यायः

अनुजानीहि मां गन्तुं त्रिदिवं विष्णुवल्लभ !
भार्या मे परिशोचन्ति विरहातुरचेतसः ॥३६
त्वन्मनस्को भविष्यामि यावज्जीवं यथा ह्यहम्
तथारूपं कुरुष्व त्वं मयि चक्र ! नमोऽस्तु ते’ ॥३७
एवं स्तुतं विष्णुचक्रं सुन्दरेण सभक्तिकम्
अनुजग्राह सहसा ’तथाऽस्त्वि’ति मुनीश्वराः ! ॥३८
चक्रायुधाभ्यनुज्ञातः सुन्दरो ब्राह्मणोत्तमम्
प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ ॥३९
सुन्दरे तु गते स्वर्गं पद्मनाभो मुनीश्वरः
तच्चक्रं प्रार्थयामास ’विष्ण्वायुध ! नमोऽस्तु ते ॥४०
चक्रायुध ! नमामि त्वां महासुरविमर्दन !
सन्निधानं कुरुष्व त्वं चक्रतीर्थेऽमले शुभे ॥४१
त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह
पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम् ॥४२
’चक्रतीर्थ’मिति ख्यातिं लोकेऽस्य परिकल्पय
त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम् ॥४३
इतः परं भवत्वार्य ! चक्रायुध ! नमोऽस्तु ते
भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो’ ! ॥४४
इति सम्प्रार्थितं चक्रं पद्मनाभेन योगिना
’तथैवास्त्वि’ति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम् ॥४५
श्रीसूतः-
एवं वः कथितं विप्राः ! राक्षसस्योद्भवो मया
माहात्म्यं चक्रतीर्थस्य कथितं च मलापहम्
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥४६
इति श्री स्कान्दपुराणे श्री वेङ्कटाचलमाहात्मे्य चक्रतीर्थमहिमानु
वर्णनं नाम चतुर्दशोऽध्यायः
—–ठ्—–
[[154155]]
श्रीस्कान्दपुराणेे चतुर्दशोऽध्यायः

पञ्चदशोऽध्यायः

अथ पञ्चदशोऽध्यायः
—–ठ्—–
जाबालितीर्थमाहात्म्यवर्णनम्
श्रीसूतः-
भो भो तपोधनाः सर्वे नैमिशारण्यवासिनः
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ॥१
ततो जाबालितीर्थस्य महात्म्यं वर्णयाम्यहम्
दुराचाराभिधो यत्र स्नात्वा मुक्तोऽभवत् द्विजाः ! ॥२
मुनयः-
दुराचाराभिधः कोऽसौ सूत ! तत्त्वार्थकोविद !
किञ्च पापं कृतं तेन दुराचारेण वै मुने ! ॥३
कथं वा पातकान्मुक्तः तीर्थेऽस्मिन् स्नानवैभवात्
एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने ! ॥४
कावेरीतीरवासिदुराचाराख्यद्विजोदन्तः
श्रीसूतः-
मुनयः श्रूयतां तस्य दुराचारस्य पातकम्
जाबालितीर्थस्नानेन यथा मुक्तश्च पातकात् ॥५
दुराचाराभिधो विप्रः कावेरीतीरमाश्रितः
कश्चिदास्ते द्विजः पापी क्रूरकर्मरतः सदा ॥६
ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः
सदा संसर्गदुषोऽसौ तैः साकं न्यवसत् द्विजाः ॥७
महापातकसंसारदोषेणास्य द्विजस्य वै
ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः ॥८
महापातकिभिः सार्धं दिनमेकं तु यो द्विजः
निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः ॥९
ब्राह्मण्यस्य तु चैकांशो नश्यत्येव न संशयः
द्विदिनं सेवनात्स्पर्शात् दर्शनाच्छयनात्तथा ॥१०
भोजनात् सहपङ्क्तौ च महापातकिभिर्द्विजाः
द्वितीयभागो नश्येत ब्राह्मण्यस्य न संशयः ॥११
त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः
चतुर्दिनाच्चतुर्थांशो विलयं याति हि ध्रुवम् ॥१२
अतः परं च तैः साकं शयनासनभोजनैः
तत्तुल्यपातकी भूयात् महापातकिसङ्गवान् ॥१३
तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विजः
ग्रस्तो भवद्भीषणेन व्यालेनेव बलीयसा ॥१४
असौ परवशस्तेन वेतालेनातिपीडितः
देशाद्देशं भ्रमन् विप्रो वनाचै्चव वनान्तरम् ॥१५
पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः
वेङ्कटाद्रिं महापुण्यं सर्वपातकनाशनम् ॥१६
जाबालितीर्थस्नानात् दुराचारवेतालयोर्महापातकादिनिवृत्तिः
अनुद्रुतः पिशाचेन वेतालेन द्विजो ययौ
न्यमज्जयत्स वेतालो महापातकनाशने ॥१७
[[156157]]
श्रीस्कान्दपुराणे पञ्चदशोऽध्यायः

जाबालितीर्थेऽथ विप्रेन्द्राः ! महापातकिसङ्गिनम्
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ॥१८
उत्थितोऽसौ द्विजो विप्राः ! तस्मात्तीर्थात्तु पावनात्
स्वस्थो व्यचिन्तयत् ’कोऽयं स्वर्णमुख्याः समीपतः ॥१९
कथं मया गतमहो! कावेरीतीरवासिना’
इति चिन्ताकुलः सोऽयं जाबालेस्तीर्थमुत्तमम् ॥२०
जाबालिं च महात्मानं योगीन्द्रवरमुत्तमम्
समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत ॥२१
’न जाने भगवन् विप्र ! पर्वतोऽयं वदाधुना
कावेरीतीरनिलयो दुराचाराभिधो ह्यहम् ॥२२
कृपया ब्रूहि मे ब्रह्मन् ! मयाऽत्र कथमागतम्’
इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः
ध्यात्वा मुहूर्तमवदत् दुराचारं कृपानिधिः ॥२३
जाबालिवर्णितपार्वणश्राद्धाकरणदोषप्रशंसा
जाबालिः-
’महापातकिसंसर्गात् दुराचारस्य ते पुरा
ब्राह्मण्यं नष्टमभवत् वेतालस्त्वां ततोऽग्रहीत् ॥२४
तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः
न्यमज्जयत्ता्वं वेतालः तीर्थेऽस्मिन्नतिपावने ॥२५
अत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान्
जाबालितीर्थे ये स्नानं पुण्यं कुर्वन्ति मानवाः ॥२६
तेषां नश्यन्ति वै सत्यं पञ्चपातकसञ्चयाः
सत्कर्मसाधने पुण्यतीर्थेऽस्मिन् स्नानमात्रतः ॥२७
महापातकिसंसर्गदोषस्ते विलयं गतः
त्वामग्रहीद्यो वेतालः पुराऽयं ब्राह्मणोऽभवत् ॥२८
मृतेऽहनि पितृश्राद्धं नाकरोत्पार्वणेन वै
तेन स्वपितृभिः शप्तो वेतालत्वमगादयम् ॥२९
सोऽपि जाबालितीर्थस्य जले स्नानप्रभावतः
वेतालत्वं विहायैव विष्णुलोकमवाप्तवान् ॥३०
न कुर्याद्यो नरः श्राद्धं मातापित्रोर्मृतेऽहनि
वेतालत्वमवाप्याशु पश्चान्नरकमश्नुते’ ॥३१
श्रीसूतः-
दुराचारो महापापी तीर्थेऽस्मिन् स्नानमात्रतः
प्राप्तवान् विष्णुलोकं वै पुनरावृत्तिवर्जितम् ॥३२
एवं वः कथितं पुण्यं दुराचारविमोक्षणम्
तस्मात्पुण्यतमं तीर्थं सर्वपापहरं शुभम् ॥३३
यत्र हि स्नानमात्रेण दुराचारो विमोचितः
यानि निष्कृतिहीनानि पापान्यपि विनाशयेत् ॥३४
शूद्रेण पूजितं लिङ्गं विष्णुं वा यो नमेत् द्विजः
प्रायश्चित्तं न स्मृतिषु तस्योक्तं परमर्षिभिः ॥३५
नश्येत्तस्यापि तत्पापं तीर्थे जाबालिसञ्ज्ञके
विप्रनिन्दाकृतां चैव प्रायश्चित्तं न विद्यते ॥३६
[[158159]]
श्रीस्कान्दपुराणेे पञ्चदशोऽध्यायः

विश्वासघातुकानां च कृतघ्नानां च निष्कृतिः
भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते ॥३७
तेषां जाबालितीर्थे वै स्नानाच्छुद्धिर्भविष्यति
एवं वः कथितं विप्राः ! जाबालेस्तीर्थवैभवम्
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥३८
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये जाबालितीर्थ
महिमानुवर्णनं नाम पञ्चदशोऽध्यायः
—–ठ्—–

षोडशोऽध्यायः

अथ षोडशोऽध्यायः
—–ठ्—–
(तुम्बुरु) घोणतीर्थमाहात्म्यम्
श्रीसूतः-
अत्राहं सम्पवक्ष्यामि शौनकाद्या महौजसः !
फेूणतीर्थस्य माहात्म्यं सर्वपातकनाशनम् ॥१
तत्र स्नानं जनानां तु जन्मान्तरतपः फलम्
उत्तराफल्गुणीयुक्त शुक्लपक्षीयपर्वणि ॥२
तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः
अपराह्णे समायान्ति गङ्गादीनि जगत्त्रये ॥३
ऋषयः-
भगवन् सूत ! सर्वज्ञ ! सर्वशास्त्रार्थपारग !
गङ्गाद्याः सरितः सर्वा फेूणतीर्थेऽतिपावने
किमर्थं स्नान्ति वै तत्र मीनसंस्थे प्रभाकरे ॥४
श्रीसूतः-
’पापिनो मनुजाः सर्वे ह्यस्मासु स्नान्ति यत्नतः
विसृज्य पापजालानि कृतार्था यान्ति वै जनाः ॥५
अस्माकं पापजालं तत् कथं नश्यति सर्वतः’
एवमालोच्य तीर्थानि गङ्गादीनि प्रयत्नतः ॥६
संस्मृत्य ब्रह्मपुत्रस्य नारदस्य महात्मनः
वाक्यं मनोहरं दिव्यं सर्वपापनिषूदनम् ॥७
[[160161]]
श्रीस्कान्दपुराणेे षोडशोऽध्यायः

गत्वा श्रीवेङ्कटं शैलं ब्रह्महत्यादिशोधकम्
तत्र स्नात्वा तीर्थवर्ये स्वामिपुष्करिणीजले ॥८
अनन्तरं ततो विप्राः ! फेूणतीर्थेऽतिपावने
उत्तराफल्गुणीयुक्तशुक्लपक्षीयपर्वणि ॥९
स्नान्ति तीर्थानि सर्वाणि मीनसंस्थे प्रभाकरे
तस्य तीर्थस्य माहात्म्यं को वेत्ति ? भुवनत्रये ॥१०
फेूणतीर्थस्नानविमुखानां महादोषवर्णनम्
तस्मात्पुण्यतमं तीर्थं फेूणतीर्थं द्विजोत्तमाः !
आरामच्छेदकं क्रूरं कन्यातुरगविक्रयम्
फेूणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम् ॥११
देवद्रव्यापहर्तारं तथा दत्तापहारकम्
फेूणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम् ॥१२
तटाकसेतुभेत्तारं परस्त्रीसङ्गलोलुपम्
फेूणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१३
’ददामी’ति द्विजायोक्ता्व पश्चाद्यो नास्तिकोऽधमः
फेूणस्नानपरित्यक्तं सुरापं तं विदुर्बुधाः ॥१४
गुरुविप्रजनद्वेषं आत्मस्तुतिपरायणम्
फेूणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१५
असंस्कृतान्नभोक्तारं पितृशेषान्नभोजिनम्
फेूणस्नानपरित्यक्तं तमाहुः स्तेयिनं द्विजाः ॥१६
पितृशेषान्नदातारं मातापितृविरोधिनम्
फेूणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१७
परस्त्रीसङ्गनिरतं भ्रातृभार्यारतिप्रियम्
फेूणस्नानपरित्यक्तं तमाहुर्गुरुतल्पगम् ॥१८
चण्डालभाषिणं विप्रं सदैवादर्भपाणिकम्
फेूणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम् ॥१९
रजस्वलाश्वचण्डालध्वनिं श्रुत्वाऽन्नभोजिनम्
फेूणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम् ॥२०
पुराणोद्वाहमौञ्ज्यादिधर्माणां विघ्नकारकम्
फेूणस्नानपरित्यक्तं तमाहुः पशुघातुकम् ॥२१
शरणागतहन्तारं सर्वतीर्थपराङ्मुखम्
फेूणस्नानपरित्यक्तं तमाहुर्भ्रूणहं बुधाः ॥२२
पितृयङ्ञपरित्यागं त्यक्तभार्यं कुलाधमम्
फेूणस्नानपरित्यक्तं तमाहुर्गोविघातुकम् ॥२३
महापापसमानानि क्षुद्रपापानि यानि च
फेूणस्नानपरित्यक्तं आश्रयन्ति द्विजोत्तमाः ! ॥२४
फेूणस्नानस्य सर्वपापापनोदकत्ववर्णनम्
महापापरतं विप्राः ! श्वपचं वा कुलाधमम्
क्रूरं कुलान्तकं कष्टं अदत्तं कर्मवर्जितम् ॥२५
पशुघ्नं च परद्रोहमाश्रितं पिशुनं तथा
असत्यभाषिणं दम्भं परपाकरतं तथा ॥२६
मित्रद्रोहं कृतघ्नं च भ्रूणहं चातिपातकम्
परदाररतं पापं पराणामर्थसूचकम् ॥२७
[[162163]]
श्रीस्कान्दपुराणेे षोडशोऽध्यायः

अनृतं कृषिकर्माणं स्वामिद्रोहं च वञ्चकम्
सलोभं पितृहन्तारं सर्वदेवपराङ्मुखम् ॥२८
आत्मप्रशंसां कुर्वाणं धर्मविघ्नकरं शठम्
अपात्रव्ययकर्तारं सानुकूल्यविभेदकम् ॥२९
सुपल्लवफलोपेतवृक्षविच्छेदकारकम्
विश्वासघातुकं चैव वीरहत्यापरायणम् ॥३०
अनग्निकमपुत्रं च विषकर्मप्रयोगिणम्
गुरुद्वेषकरं पापं दम्पत्योर्विरसावहम् ॥३१
ग्रामाधिपत्यं कुर्वाणं तथा देवालयस्य च
भृतकाध्यापकं विप्रं क्रूरकर्मपरायणम् ॥३२
प्रकटीकृतपापौघं गुह्याघौघपरायणम्
अज्ञानादघकर्तारं ज्ञानात् दुष्कर्मकारकम् ॥३३
एतान् सर्वांश्च विप्रेन्द्राः ! फेूणतीर्थं मनोहरम्
पुनाति स्नानपानाद्यैः अहो ! तीर्थस्य वैभवम् ॥३४
तुम्बुर्वाख्यगन्धर्वचरितम्
श्रीसूतः-
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम्
सर्वपापप्रशमनं अपवर्गफलप्रदम् ॥३५
पुरा गार्ग्यो महातेजाः सर्वविद्याविशारदः
सर्वज्ञो नीतिमान् विप्रः प्राह चेत्थं जितेन्द्रियः ॥३६
देवलं च महात्मानं नमस्कृत्य प्रसन्नधीः
’कथयस्व माहाभाग ! मयि कारुणिको भव
फेूणतीर्थस्य माहात्म्यं सर्वपापहरं शुभम्’ ॥३७
देवलः-
’तुम्बुरुर्नाम गन्धर्वो भार्यां शप्त्वा पतिव्रताम्
अत्र स्नात्वा समभ्यर्च्य वेङ्कटेशं दयानिधिम्
प्राप्तवान् विष्णुलोकं वै पुनरावृत्तिवर्जितम्’ ॥३८
गार्ग्यः-
’किमर्थं देवल ! ऋषे ! भार्यां रूपवतीं स्त्रियम्
तुम्बुरुर्नाम गन्धर्वः वेङ्कटेशं दयानिधिम्३९
शप्तवान् केन दोषेण भार्यां सर्वगुणान्विताम्
तद्वदस्व महाभाग ! श्रोतुं कौतूहलं हि मे’ ॥४०
स्वभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः
देवलः-
तुम्बुरुर्नाम गन्धर्वो भार्यां प्रीत्या ह्युवाच ह
’माघत्रये मया साकं स्नानं कुरु मलापहम् ॥४१
माघमास्युदिते सूर्ये सर्वकल्मषनाशने
तीरेऽस्मिन् विष्णुपूजार्थं गोमयालेपनं कुरु ॥४२
रङ्गवल्ल्यादिभिः शुभ्रपद्मस्वस्तिकधातुभिः
शुश्रूषां कुरु मे विष्णोः मासेऽस्मिन् मङ्गलप्रदे ॥४३
माघेऽस्मिन् माधवस्यास्य कुरु त्वं दीपवर्तिकाम्
सधूपं पावकं भक्त्या समर्पय हरेः पुरः ॥४४
[[164165]]
श्रीस्कान्दपुराणेे षोडशोऽध्यायः

कुरु पाकं शुचिर्भूत्वा माधवाय महात्मने
प्रदक्षिणनमस्कारैः भक्त्या माघे मया सह ॥४५
कुरुष्व देवदेवस्य सपर्यां विष्णवेऽन्वहम्
पुराणश्रवणं विष्णोः कुरु नित्यमतन्द्रितः ॥४६
नित्यं स्नात्वा प्रयत्नेन पिब पादोदकं हरेः
कृष्ण ! विष्णो ! मुकुन्देति नारायण ! जनार्दन ! ॥४७
अच्युतानन्त ! विश्वात्मन् इति कीर्तय सन्ततम्
क्रोधमात्सर्यलोभादीन् त्यक्वा त्वं व्रतमाचर
तेन ते जायते मुक्तिः विष्णुलोकश्च शाश्वतः’ ॥४८
भार्यां प्रति तुम्बुरुदत्तशापद्विमुक्तिप्रकारौ
इत्थं सा भर्तृगदितं श्रुत्वा गन्धर्ववल्लभा
भर्तारमब्रवीत्कोपात् असह्यं दुर्गतिप्रदम् ॥४९
’माघे चोद्भूतशीते तु प्रातर्मन्दोदिते रवौ
कथं निमज्जयेदस्मिन् माघे शीतार्तिदेऽनघ ! ॥५०
यत्त्वयोक्तानि कर्माणि न शक्यानि मया सकृत्
न करोमि पते ! स्नानं प्रातःकाले त्वया सह ॥५१
मृते शीतातिपातेन न च मे रक्षको भवान्’
इत्येवमुदितं श्रुत्वा पतिर्गन्धर्ववल्लभः ॥५२
स शान्तोऽपि शशापाथ भार्यां चाप्रियवादिनीम्
’पुत्रं च धर्मविमुखं भार्यां चाप्रियभाषिणीम् ॥५३
अब्रह्मण्यं च राजानं सद्यः शापेन दण्डयेत्’
इति न्यायं विचिन्त्यासौ शशापेत्थं सतीं तदा ॥५४
’वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने
फेूणतीर्थसमीपे च पिप्पलद्रुमकोटरे ॥५५
तत्राम्बुरहिते मूढे ! मण्डूका भव केवलम्’
इत्येवं भर्तृवाक्यं तत् श्रुत्वा गन्धर्ववल्लभा ॥५६
पतित्वा पादयोस्तस्य तुम्बुरुं प्रार्थयत् सती
विशापमवदत् पश्चात् भर्ता वै तुम्बुरुस्तदा ॥५७
अगस्त्यो वै महाभागः तपस्वी विजितेन्द्रियः
फेूणतीर्थवरे स्नात्वा पौर्णमास्यां महातिथौ ॥५८
शिष्येभ्यो वै यदा तस्मिन् अश्वत्थद्रुमसन्निधौ
फेूणतीर्थस्य माहात्म्यं वक्ति वै ब्राह्मणोत्तमः५९
तदा पिप्पलवृक्षस्य कोटरे त्वं समाहिता
श्रुत्वा वै घोणतीर्थस्य माहात्म्यं मोक्षदायकम् ॥६०
विधूय सर्वपापानि मया साकं रमिष्यसि’
इत्युक्त्वा विररामाथ धर्मपत्नी पतिव्रता ॥६१
भर्तृशापान्महाघोरात् मण्डूकतनुमाश्रिता
शेषाद्रिशिखरे तस्मिन् घोणतीर्थस्य दक्षिणे ॥६२
शनैः शनैर्गता नारी पिप्पलद्रुमकोटरम्
अब्दायुतं गतं तस्याः अश्वत्थद्रुमकोटरे ॥६३
[[166167]]
श्रीस्कान्दपुराणेे षोडशोऽध्यायः

ततः कालान्तरेऽगस्त्यो वेङ्कटाद्रिं मनोहरम्
गत्वा श्रीस्वामितीर्थे च स्नात्वा नियमपूर्वकम् ॥६४
वराहस्वामिनं देवं नत्वा तीर्थस्य दक्षिणे
वेङ्कटेशालयं गत्वा श्रीनिवासं कृपानिधिम् ॥६५
वेदवेद्यं विशालाक्षं देवदेवं सनातनम्
नत्वाऽगस्त्यो महाभागो फेूणतीर्थं ततो ययौ ॥६६
तत्र स्नात्वा तीर्थवर्ये स्वशिष्यैर्योगिनां वरः
पिप्पलद्रुमछायायां शिष्येभ्यो भक्तिपूर्वकम् ॥६७
फेूणतीर्थस्य माहात्म्यं ब्रह्महत्याविनाशकम्
सर्वमङ्गलदं पुण्यं सर्वसम्पत्प्रदायकम्
उक्तवान् योगिनां श्रेष्ठो ह्यगस्त्यो भगवानृषिः ॥६८
फेूणतीर्थे अगस्त्यदर्शनेन तुम्बुरुपत्ना्यः वर्षाभूत्वनिवृत्तिः
तदा श्रुत्वा तु वर्षाभूः पादयोस्तस्य योगिनः
पतित्वा ज्ञानदीपेन विदित्वा वैभवं मुनेः ॥६९
पूर्वरूपं समासाद्य नारीरूपं मनोहरम्
’अगस्त्य ! योगिनां श्रेष्ठ ! रक्ष रक्ष दयानिधे ! ॥७०
मां रक्ष दयया ब्रह्मन् ! पतिवाक्यविरोधिनीम्’
इत्युक्त्वा तं विशालाक्षी विरराम ततः परम् ॥७१
अगस्त्यः-
’का त्वं सुश्रोणि ! भद्रं ते भेकजन्मप्रदायकम्
पापं पूर्वभवे चासीत् तद्वदस्व च मा चिरम्’ ॥७२
नारीः-
’तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः
तस्य भार्याऽस्म्यहं विप्र ! ह्यगस्त्य ! मुनिसेवित ! ॥७३
भर्ता मे सर्वधर्मज्ञः तुम्बुरुर्मुनिसत्तमः
सर्वधर्मान् मनोज्ञा त्वं कुरु नित्यं मया सह’ ॥७४
पतिवाक्यं तदा श्रुत्वा परलोकोपकारकम्
असह्यं वाक्यमत्युग्रं दुर्गतिप्रदमेव हि
मया चोक्तं हि दुर्बुद्ध्या हे तात ! मुनिसत्तम ! ॥७५
अगस्त्यकथितपतिव्रताधर्माः
अगस्त्यः-
’कुशाग्रबुद्धिस्ते भर्ता शशाप त्वां रुषाऽन्वितः
एवं शापो युक्त एव पतिवाक्यविरोधिनीम् ॥७६
पतिवाक्यमनादृत्य स्वेच्छया वर्तते तु या
सा नारी निरये फेूरे पतत्याचन्द्रतारकम् ॥७७
न स्वातन्त्र्यं तु नारीणां नोल्लङ्घ्यं पतिभाषणम्
पातिव्रत्येन पुण्येन पतिशुश्रूषणेन च ॥७८
स्त्रियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः
पतिर्माता पतिर्विष्णुः पतिर्ब्रह्मा पतिः शिवः ॥७९
पतिर्गुरुः पतिस्तीर्थं इति स्त्रीणां विदुर्बुधाः
पतिवाक्यमपाकृत्य या नारी सुकृतैः परैः ॥८०
[[168169]]
श्रीस्कान्दपुराणेे षोडशोऽध्यायः

सदैव युज्यते सापि नैव शुद्धा भवेत्सकृत्
पतिहीना तु या नारी गुरुभिर्धर्मवित्तमैः ॥८१
सा कृतज्ञा विदध्यात्तु व्रतं धर्मफलप्रदम्
पतिना प्रेरिता सैव पतिबुद्धिपरायणा ॥८२
पतिपादाब्जतीर्थेन या स्नाता सा हरिप्रिया
सा स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः ॥८३
तस्मात्त्वत्कृतदोषस्तु त्वामायातीति तत्फलम्
भुञ्जन्त्यास्तेऽत्र शृण्वन्त्या फेूणतीर्थस्य वैभवम्
मुक्तिरासीच्छुभाङ्गं तत् नारीरूपं पुनर्यथा’ ॥८४
श्रीसूतः-
तस्माद्घोणस्य तीर्थस्य तुम्बुतीर्थमितीह वै
लोके प्रसिद्धिरभवत् अहो तीर्थस्य वैभवम् ॥८५
फेूणतीर्थस्नातॄणां नानाविधफलप्राप्तिः
फेूणतीर्थे महापुण्ये सर्वपापविनाशिनि
स्नान्ति ये पौर्णमास्यां वै शौनकाद्याः ! महौजसः ॥८६
तेषां क्रतुफलं पुण्यं तीर्थायुतफलं भवेत्
कपिलागोसहस्रं तु यो ददाति दिने दिने ॥८७
तत्फलं समवाप्नोति स्नानात्तुम्बुरुतीर्थके
रत्नकोटिसहस्राणि यो ददाति दिने दिने ॥८८
मत्तेभानां सहस्राणि तथैवाश्वायुतान्यपि
तत्फलं समवाप्नोति फेूणतीर्थावगाहनात् ॥८९
कन्याकोटिप्रदानेन यत्फलं ऋषिभिः स्मृतम्
तत्फलं समवाप्नोति फेूणतीर्थाच्च पावनात् ॥९०
हेमाम्बरसहस्रं यः कुरुक्षेत्रे प्रयच्छति
तत्फलं समवाप्नोति फेूणतीर्थस्य वैभवात् ॥९१
गुर्वर्थे ब्राह्मणार्थे वा स्वाम्यर्थे यस्त्यजेत्तनुम्
तत्फलं समवाप्नोति फेूणतीर्थस्य वैभवात् ॥९२
आपन्नार्तिहराणां च तीर्थसेवापरात्मनाम्
सत्यव्रतानां यत्पुण्यं फेूणतीर्थाच्च तद्भवेत् ॥९३
यत्फलं श्राद्धकर्त ॄणां पितॄणामिन्दुसङ्क्षये
तत्फलं समवाप्नोति फेूणतीर्थाद्धि पावनात् ॥९४
गङ्गायां नर्मदायां च सरयूचन्द्रभागयोः
सर्वेषु पुण्यतीर्थेषु यः स्नानं कुरुते नरः ॥९५
तत्फलं समवाप्नोति फेूणतीर्थाद्धि पावनात्
तस्मात्पुण्यतमं तीर्थं फेूणतीर्थं विदुर्बुधाः ॥९६
य इमं शृणुते ध्यायं सर्वपापनिबरछणम्
वाजपेयफलं तस्य विष्णुलोकश्च शाश्वतः ॥९७
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये तुम्बुरुतीर्थ
माहात्म्य वर्णनं नाम षोडशोऽध्यायः
—–ठ्—–
[[170171]]
श्रीस्कान्दपुराणेे षोडशोऽध्यायः

सप्तदशोऽध्यायः

अथ सप्तदशोऽध्यायः
—–ठ्—–
श्रीवेङ्कटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम्
ऋषयः-
वेङ्कटाद्रौ महापुण्ये सर्वसङ्कटनाशने
सन्ति वै कति तीर्थानि ? सूत ! पौराणिकोत्तम ! ॥१
तेषां सङ्ख्यां च मे ब्रूहि कति मुख्यानि ? तत्रपै
तत्राप्यत्यन्तमुख्यानि वद नो मुनिसत्तम ! ॥२
सद्धर्मरतिदान्यत्र कति मुख्यानि ? तानि च
कानि च ज्ञानदान्यत्र ? भक्तिवैराग्यदानि च ?
मुक्तिप्रदानि कान्यत्र ? तानि मे वद सुव्रत ! ॥३
श्रीसूतः-
षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे
अष्टोत्तरसहस्राणि तेषु मुख्यानि सुव्रत ! ॥४
सद्धर्मरतिदान्यत्र सन्ति चाष्टोत्तरं शतम्
सहस्रेभ्यश्च मुख्यानि पृथक् तेभ्यश्च तानि च
भक्तिवैराग्यदान्यत्र षष्टिरष्टोत्तरे शते ॥५
मुक्तिदान्यत्र षट् चैव वेङ्कटाचलमूर्धनि
स्वामिपुष्करिणी चैव वियद्गङ्गा ततः परम् ॥६
पश्चात्पापविनाशं च पाण्डुतीर्थमतःपरम्
कुमारधारिकातीर्थं तुम्बोस्तीर्थमतः परम् ॥७
स्वामिपुष्करिण्यादिषट्तीर्थस्नानकालनिर्णयः
कुम्भमासे पौर्णमास्यां मघायोगो यदा भवेत्
कुमारधारिकां यान्ति सर्वतीर्थानि हे द्विजाः ! ॥८
तत्र यः स्नाति विप्रेन्द्राः ! राजसूयफलं लभेत्
मुक्तिश्च भविता तत्र नात्र कार्या विचारणा ॥९
अन्नदानविधिस्तत्र सार्धं दक्षिणया द्विजाः !
उत्तराफल्गुणीयुक्तशुक्लपक्षीयपर्वणि ॥१०
तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः
अपराह्णे समायान्ति तत्र स्नातो न जायते ॥११
मौञ्जीबन्धं विवाहं च कारयेत् द्रव्यदानतः
मेषसङ्क्रमणे भानौ चित्रानक्षत्रसंयुते ॥१२
पौर्णमास्यां समायान्ति वियद्गङ्गां तथैव च
तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत् ॥१३
सुवर्णं तत्र दातव्यं कन्यादानं विशेषतः
वृषभस्थे रवौ विप्राः ! द्वादश्यां हरिवासरे ॥१४
शुक्ले वाऽप्यथ कृष्णे वा भौमेनापि समन्विते
पाण्डुतीर्थं समायान्ति गङ्गादीनि जगत्त्रये ॥१५
तत्र स्नात्वा च गां दत्त्वा मुच्यते प्रतिबन्धकात्
आश्वयुक्छुक्लपक्षे च सप्तम्यां भानुवासरे ॥१६
उत्तराषाढयुक्तायां तथा पापविनाशनम्
उत्तराभाद्रयुक्तायां द्वादश्यां वा समागतः ॥१७
[[172173]]
श्रीस्कान्दपुराणेे सप्तदशोऽध्यायः

सालग्रामशिलां दत्त्वा स्नात्वा च विधिपूर्वकम्
मुच्यते सर्वपापैश्च जन्मकोटिशतोद्भवैः ॥१८
धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये
आयान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले ॥१९
तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः
यस्य जन्मसहस्रेषु पुण्यमेवार्जितं पुरा ॥२०
तस्य स्नानं भवेद्विप्राः ! नान्यस्य त्वकृतात्मनः
विभवानुगुणं दानं कार्यं तत्र यथाविधि
सालग्रामशिलादानं गां दद्याच्च विशेषतः ॥२१
पुराणश्रवणस्य विशेषतः प्राशस्त्यवर्णनम्
ये शृण्वन्ति कथां विष्णोः सदा भुवनपावनीम्
ते वै मनुष्यलोकेऽस्मिन् विष्णुभक्ता भवन्ति हि ॥२२
यद्यशक्तः सदा श्रोतुं कथां भुवनपावनीम्
मुहूर्तं वा तदर्धं वा क्षणं वा विष्णुसत्कथाम् ॥२३
यः शृणोति नरो भक्त्या दुर्गतिर्नास्ति तस्य हि
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥२४
सकृत्पुराणश्रवणात् तत्फलं विन्दते नरः
कलौ युगे विशेषेण पुराणश्रवणादृते ॥२५
नास्ति धर्मः परः पुंसां नास्ति मुक्तिप्रदं परम्
पुराणश्रवणं विष्णोः नामसङ्कीर्तनं परम् ॥२६
उभे एव मनुष्याणां पुण्यद्रुममहाफले
पिबन्नेवामृतं यत्नात् एकः स्यादजरामरः
विष्णोः कथामृतं कुर्यात् कुलमेवाजरामरम् ॥२७
पुराणवक्तुः सर्वपूजनीयत्ववर्णनम्
बालो युवाऽथ वृद्धो वा दरिद्रो दुर्भगोऽपि वा
पुराणज्ञः सदा वन्द्यः स पूज्यः सुकृतात्मभिः ॥२८
नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥२९
भवकोटिसहस्रेषु भूत्वा भूत्वाऽवसीदताम्
यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः ॥३०
व्यासासनसमारूढो यदा पौराणिको द्विजः
आसमाप्तेः प्रसङ्गस्य नमस्कुर्यान्न कस्यचित् ॥३१
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते
देशे न द्यूतसदने वदेत् पुण्यकथां सुधीः ॥३२
सुग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये
पुण्ये वाऽथ नदीतीरे वदेत् पुण्यकथां सुधीः ॥३३
श्रद्धाभक्तिसमायुक्ताः नान्यकार्येषु लालसाः
वाग्यताः शुचयो व्यग्राः श्रोतारः पुण्यभागिनः ॥३४
अभक्त्या ये कथां पुण्यां शृण्वन्ति मनुजाधमाः
तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि ॥३५
[[174175]]
श्रीस्कान्दपुराणेे सप्तदशोऽध्यायः

पुराणं ये तु सम्पूज्य ताम्बूलाद्यैरुपायनैः
शृण्वन्ति च कथां भक्या न दरिद्रा न पापिनः ॥३६
कथायां कथ्यमानायां ये गच्छन्त्यन्यतो नराः
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ॥३७
सोष्णीषमस्तका ये च कथां शृण्वन्ति पावनीम्
ते बालकाः प्रजायन्ते पापिनो मनुजाधमाः ॥३८
ताम्बूलं भक्षयन्तो ये कथां शृण्वन्ति पावनीम्
श्वविष्ठां भक्षयन्त्येते नरके च पतन्ति हि ॥३९
ये च तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः
अक्षय्यान्नरकान् भुक्त्वा ते भवन्त्येव वायसाः ॥४०
ये च वीरासनारूढाः ये च सिंहासनस्थिताः
शृण्वन्ति सत्कथां ते वै भवन्त्यर्जुनपादपाः ॥४१
असम्प्र्यणम्य शृण्वन्तो विषवृक्षा भवन्ति हि
तथा शयानाः शृण्वन्तो भवन्त्यजगरा हि ते ॥४२
यं शृणोति कथां वक्तुः समानासनसंस्थितः
गुरुतल्पसमं पापं सप्राप्य नरकं व्रजेत् ॥
ये निन्दन्ति पुराणज्ञं सत्कथां पापहारिणीम्
ते वै जन्मशतं मर्त्याः शुनकाश्च भवन्ति हि ॥४३
कथायां कीर्त्यमानायां ये वदन्ति दुरुत्तरम्
ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ॥४५
कदाचिदपि ये पुण्यां न शृण्वन्ति कथां नराः
ते भुक्त्वा नरकान् फेूरान् भवन्ति वनसूकराः ॥४६
कथायां कीर्त्यमानायां विष्णुं कुर्वन्ति ये नरा
कोट्यब्दं नरकान् भुक्त्वा भवन्ति ग्रामसूकराः ॥४७
ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः
अशृण्वन्तोऽपि ते यान्ति शाश्वतं पदमव्ययम् ॥ ४८
ये श्रावयन्ति मनुजाः पुण्यां पौराणिकीं कथाम्
कल्पकोटिशतं साग्रं तिष्ठन्ति ब्रह्मणः पदे ॥४९
आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः
कम्बलाजिनवासांसि तथा मञ्चकमेव वा ॥५०
स्वर्गलोकं समासाद्य भुक्त्वा भोगान् यथेप्सितान्
स्थित्वा ब्रह्मादिलोकेषु पदं यान्ति निरामयम् ॥५१
पुराणस्य प्रयच्छन्ति ये च सूत्रं नवं वरम्
भोगिनो ज्ञानसम्पन्नाः ते भवन्ति भवे भवे ॥५२
ये महापातकैर्युक्ता ह्युपपातकिनश्च ये
पुराणश्रवणादेव ते यान्ति परमं पदम् ॥५३
वेङ्कटाद्रेस्तु माहात्म्यं श्रुत्वा ते ऋषयस्ततः
व्यासप्रसादसम्पन्नं सूतं पौराणिकोत्तमम्
पूजयित्वा यथान्यायं प्रहर्षमतुलं गताः ॥५४
इति श्री स्कान्दपुराणे श्री वेङ्कटाचलमाहात्मे्य सर्वतीर्थमहिमोप
संहारपूर्वकपुराणश्रवणप्रक्रियाद्यनुवर्णनं नाम
सप्तदशो ध्यायः
॥ प्रथमो भागः समाप्तिमगात् ॥
॥ हरिः ॐ तत्सत् ॥
॥ श्रीरस्तु ॥