१० ब्रह्मोत्तरखण्डः

श्री ब्रह्मपुराणे दशमोऽध्यायः

श्रीरस्तु
श्रीश्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्रीमते विष्वक्सेनाय नमः

(श्रीब्रह्मोत्तरखण्डान्तर्गतम्)
श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
हरिः ओम्
ब्रह्माणं प्रति वसिष्ठप्रार्थनया स्वपौरोहित्यपापनिवृत्तिः
ऋषय ऊचुः -
सूत ! वेदार्थतत्त्वज्ञ ! वेदव्यासकृपानिधे !
ब्रूहि नः सर्वतीर्थेषु तीर्थं सर्वाघनाशनम् ॥१
सूतः -
कथयामि कथां सम्यक् सर्वपापापनोदिनीम्
यस्याः श्रवणमात्रेण दृष्टादृष्टफलागमः ॥२
प्राप्नुवन्ति महत्पुण्यं इति सर्वर्षिसम्मतम्
कथायां कथ्यमानायां ये भवन्त्यपराङ्मुखाः ॥३
तस्मादेकाग्रहृदयैः कर्तव्यान्तरनिस्स्पृहैः
भवादृशैः पुण्यकथा श्रोतव्याऽञ्जलिकारिभिः ॥४
पुरा कदाचिद्विप्राणां उत्तमोत्तमतां गताः
वसिष्ठाद्या ब्रह्मसदः किञ्चित्कार्येच्छया गताः ॥५
तत्र देवैस्तथा सिद्धैः पुण्यश्लोकैश्च राजभिः
सनन्दसनकाद्यैश्च योगाचार्यैश्च सत्तमैः ॥६
गङ्गाद्याभिर्नदीभिश्च सर्वतीर्थैः सविग्रहैः
संसेव्यमानं सदसि ब्रह्माणं चतुराननम् ॥७
वेदैरनन्तैः शास्त्रैश्च मूर्तिमद्भिरुपासितम्
सुरज्येष्ठमुपागम्य वसिष्ठो मुनिसत्तमः ॥८
प्रणम्य सहजाऽऽनन्दो वाक्यमेतदुवाच ह
ब्रह्मन् ! समस्तलोकानां नायकामरशेखर ! ॥९
इदं वन्दनमायाति दयया मां विलोकय’
इति प्रणम्योत्थितं तं वसिष्ठमृषिसत्तमम् ॥१०
दयया विधिरालोक्य ’निषीदे’त्यब्रवीत्तदा
तत्र ब्रह्मसभामध्ये वर्तमानकथासु च ॥११
निवृत्तासु ततः पश्चात् उवाच च पितामहः
’किमर्थमागतोऽसी’ति वसिष्ठं वाक्यमब्रवीत् ॥१२
ततो वसिष्ठः प्रणतो विनयावनतो मुनिः
वाक्यं विज्ञापयामास ब्रह्मणेऽनन्ततेजसे ॥१३
वसिष्ठः -
’प्रसीद भगवन् ब्रह्मन् ! पङ्कजासन ! ते नमः
विज्ञाप्यं किञ्चिदस्त्येतत् दययाऽऽकर्णय प्रभो ॥१४
[[49]]
श्री ब्रह्मोत्तरखण्डे पञ्चाशत्तमोऽध्यायः

यद्वसिष्ठ वसिष्ठेति मानं कुर्वन्ति मे जनाः
तत्सर्वं मम दुःखाय जायते नात्र संशयः ॥१५
जानाति मां राजपुरोहितं भवान्
पुरोहितानां बहुलं हि पापम् ।
ते राजानो यद्यदघं चरन्ति
पुरोहितानां तदिति प्रवादः ॥१६
प्रायश्चित्तेनापवार्यं बहुलं पापमस्ति मे
तत्पापशान्तिमिच्छन्वै सदा व्यग्रो भवाम्यहम्
अन्यच्च किञ्चिदस्तीह तच्छृणुष्व महामते ! ॥१७
सर्वाबद्धोपाख्यानम्
क्वचिद्ग्रामे कश्चिदस्ति सर्वदा मत्परायणः
स नास्तिको दुष्प्रकृतिः सर्वपापरतः सदा ॥१८
दरिद्रश्च दुराचारः सर्वाबद्ध इति द्विजः
यज्ञस्थानेषु सर्वेषु सन्तिष्ठत्सु द्विजातिषु ॥१९
यत्किञ्चिद्दक्षिणापेक्षी सोऽप्यागत्य स्थितः क्वचित्
तं दृष्ट्वाऽवददन्यो वै द्विजो रोषेण पूरितः ॥२०
’सर्वाबद्ध ! किमर्थं त्वं इहागत्य द्विजातिषु
वसिष्ठवत्तिष्ठसि त्वं स्नानाऽचारविवर्जितः ॥२१
सर्वाबद्धस्तु तच्छ्रुत्वा गतोऽन्यत्रातिदुःखितः
’कोपाद्वसिष्ठवदिति मां प्रत्युक्तं द्विजन्मना ॥२२
स वसिष्ठो रक्षतु मां पावनं च करोतु माम्’
इति नित्यं वदत्येवं ध्यायते हृदये च माम् ॥२३
वाग्वसिष्ठ वसिष्ठेति सर्वदा तस्य वर्तते
कायिकं मानसं पापं वाचिकं नास्ति तद्भुवि ॥२४
यन्नाम्मा वै कृतं पापं तादृक्क्वाऽपि न मे मतः
तथाऽपि मामाश्रयते तस्मात्तस्मिन् कृपा मम ॥२५
मामाश्रितस्य मम च पापं राजपुरोधसः
यथा सिद्ध्यति तन्मे त्वं वद लोकपितामह ! ॥२६
श्रीसूतः -
’ब्रह्मा तदाऽब्रवीदेनं वसिष्ठं मुनिसत्तमम्
प्रायश्चित्तापनोद्यानि पापानीत्यवधारय’ ॥२७
वसिष्ठः -
मुनिर्ब्रह्माणमवदत् ’स्वामिंस्तच्छृणु साम्प्रतम्
मम तस्य च पापानि घनानि बहुलानि च ॥२८
प्रायश्चित्तैर्न नश्यन्ति तस्मात्त्वामागतोऽस्म्यहम्
नमस्करोमि धर्मात्मन् ! त्वामेव शरणं गतः ॥२९
आवयोरल्पयत्नेन नश्यन्ते पापराशयः
येन दृष्टं फलं च स्यात् तमुपायं वदस्व मे’ ॥३०
ब्रह्माऽऽज्ञया श्रीवेङ्कटाचलं प्रति वसिष्ठाद्यागमनम्
श्रीसूतः-
इति पृष्टस्ततो ब्रह्मा विचार्य हृदये हरिम्
वेङ्कटेशं नमस्कृत्य वसिष्ठमिदमब्रवीत् ॥३१
[[5051]]
श्री ब्रह्मोत्तरखण्डे पञ्चाशत्तमोऽध्यायः

ब्रह्मा -
’काश्या दक्षिणदेशे वा कश्चिदस्ति महीधरः
वेङ्कटाद्रिरिति ख्यातो विश्वलोकैकसम्मतः ॥३२
श्रीवेङ्कटेति यन्नाम मर्त्यो वाचा वदन्नपि
देवानां वन्दनीयत्वं याति तादृङ् महीधरः ॥३३
तत्र तीर्थानि सर्वाणि सर्वपापहराणि च
षड्षष्टिकोटितीर्थानि विद्यन्ते वेङ्कटाचले ॥३४
स्वामितीर्थमिति ख्यातं सर्वतीर्थोत्तमोत्तमम्
तत्तीरे दक्षिणे विष्णुः लक्ष्मा्य सह विमोदते ॥३५
अगस्त्यशङ्खणादीनां अभीष्टवरदायकम्
वेङ्कटेशं नमस्कृत्य दृष्टादृष्टं च विन्दति ॥३६
तस्य वेङ्कटशैलस्य मध्ये फेूणमिति स्मृतम्
एकं तीर्थं पवित्रं वै तत्र स्नातः शुचिः सदा ॥३७
मीनसंस्थे सवितरि पौर्णमास्यां महातिथौ
फेूणस्नानेन सर्वाणि नश्यन्ति दुरितानि हि ॥३८
त्वदाश्रितस्त्वं च तत्र गत्वा वेङ्कटभूधरे
मीनमासे पौर्णमास्यां स्नातौ पूतौ भविष्यथः’ ॥३९
इत्युक्तवन्तं ब्रह्माणं नमस्कृत्याऽथ हृष्टधीः
अवरुह्य ब्रह्मलोकात् अत्यन्तं त्वरयाऽन्वितः ॥४०
सर्वाबद्धमुपागम्य वसिष्ठो वाक्यमब्रवीत्
’रेरे ब्राह्मण ! मां नित्यं आश्रितोऽसि सदा वदन् ॥४१
त्वत्पापपरिहाराय किञ्चिद्वक्ष्यामि तच्छृणु
गच्छामि वेङ्कटगिरिं एहि शीफ्रुं मया सह’
इत्युक्तमात्रो विप्रोऽसौ तेन सार्धं जगाम ह ॥४२
फेूणतीर्थस्नानेन वसिष्ठादीनां पापनिवृत्तिः
स ब्राह्मणो वसिष्ठोऽसौ वेङ्कटाचलमीयिवान्
शुकस्य वरदं कृष्णं सुवर्णमुखरीतटे ॥४३
दृष्ट्वा प्रणम्य पश्चात्स वेङ्कटाचलमूलगः
कपिलाख्ये कृतस्नानः तीर्थे पापप्रणाशने
आरुह्य वेङ्कटं शैलं स्वामिपुष्करिणीं ययौ ॥४४
तत्र स्नात्वा भूवराहं प्रणम्य
ह्येनःशान्तिं प्रार्थयित्वा स विप्रः ।
लक्ष्मीनाथं दक्षिणे कूलभागे
नत्वा नाथं स्तोत्रयामास सम्यक् ॥४५
जय ! धातृगिरा निदर्शितो जय ! लोकावनदक्ष रक्ष माम्
जय ! शङ्खणपूजितेह मां द्विजमेनं च पुनीहि केशव ! ॥४६
तव वेङ्कटनायकाचले महति श्रीधर! फेूणतीर्थके
अभिषेकविधित्सयाऽऽगतो भगवंस्तत्र फलं प्रयच्छ मे’॥४७
इति स्तुत्वोत्तरे देशे पापनाशनतीर्थके
सर्वाबद्धेन सहितः स्नात्वा फेूणं जगाम ह ॥४८
एकादश्यां तत्र गत्वा पञ्चरात्रमुवास ह
मीनमासे पञ्चदश्यां मध्याह्ने स्नातुमागतान् ॥४९
[[5253]]
श्री ब्रह्मोत्तरखण्डे पञ्चाशत्तमोऽध्यायः

ऋषीन् देवांश्च यक्षांश्च गन्धर्वान्किन्नरांस्तथा
आश्चर्यं परमं गत्वा वसिष्ठो विप्रसंयुतः ॥५०
स्नात्वा सङ्कल्प्य विधिवत् देवर्षीनभितर्प्य च
सह विप्रेणोपविश्य जपं चक्रे विधानतः ॥५१
जपान्ते श्रीहरिं ध्यायन् समाधिस्थोऽभवन्मुनिः
स्नात्वा तिष्ठत्सु सर्वेघ तत्र फेूणे पुरो मुनेः ॥५२
आविरासीद्वेङ्कटेशः श्रिया सार्धं जगत्पतिः
गरुडासनमारूढः पीताम्बरधरो हरिः ॥५३
प्रसन्नवदनाम्भोजः सर्वप्राणिदयापरः
कटाक्षयन् करुणया सर्वांस्तीर्थार्थमागतान् ॥५४
सनन्दसनकाद्यैश्च सेनाशानन्तसंयुतः
सेव्यमानो वेङ्कटेशो वसिष्ठं वाक्यमब्रवीत् ॥५५
वसिष्ठं प्रति भगवद्वर्णितफेूणतीर्थमाहात्म्यम्
’वसिष्ठाहं प्रसन्नोऽस्मि तव ! वर्धस्व वै भवात्
मम तीर्थस्य माहात्म्यं श्रुत्वा ब्रह्ममुखाद्भवान् ॥५६
भक्त्या समागतो यस्मात् ततस्तुष्टोऽस्मि ते मुनेः
वरं वरय विप्रेन्द्र ! यत्ते मनसि वर्तते’
इत्युक्तो वेङ्कटेशेन मुनिः प्रोवाच केशवम् ॥५७
वसिष्ठः -
’नमोऽस्तु वेङ्कटाधीश ! विश्वरक्षामणे ! हरे !
विज्ञापनां मदीयां त्वं सावधानमनाः शृणु ॥५८
अयं विप्रो मम सखा कृतवानपि पातकम्
मय्यनुग्रहबुद्ध्या च तीर्थस्नान प्रभावतः ॥५९
सर्वं सोढ्वा पवित्रं च कुरु पापविवर्जितम्’
उक्तो वसिष्ठेनैवं तु वेङ्कटाचलनायकः ॥६०
भगवान् -
’वसिष्ठ ! जातः सन्तोषो ममातीव महामुने !
ममाश्रितोऽयमित्येव दया तस्मिंस्त्वया कृता ॥६१
य आश्रितेषु वात्सल्यं कुरुते स इहोत्तमः
तस्मिन्मम महाप्रीतिः तन्मदीयगुणो महान् ॥६२
अयं च त्वयि विश्वासात् भक्तिं विहितवानहो
महत्सु भक्तिं यः कुर्यात् स एव पुरुषोत्तमः ॥६३
तस्य लक्ष्मा्य समेतोऽहं वसामि सततं हृदि
अयं तु बहुपापानि कृतवान् लोकगरिछतः ॥६४
एको गुणोऽपि नास्त्यस्मिन् सर्वाबद्ध इतीरितः
तथाऽपि त्वत्सहायेन तीर्थमागत्य भक्तितः ॥६५
स्नातश्च पूर्णिमायोगे पापं सर्वं लयं गतम्
सर्वे चास्मिन् गुणा जाताः सहवासेन ते मुने ! ॥६६
तस्मात् स सर्वसिद्ध्याख्यां अद्यप्रभृति यास्यति
अस्याहं हृदये तिष्ठन् सत्कर्माणि प्रवर्तयन् ॥६७
धनिकं धार्मिकं चैव करोमि सुखिनं तदा !
वसिष्ठ ! शृणु मद्वाक्यं एतेषां सन्निधौ ब्रुवे ॥६८
[[5455]]
श्री ब्रह्मोत्तरखण्डे पञ्चाशत्तमोऽध्यायः

पौरोहित्येन सञ्जातं तव दोषं हराम्यहम्
पुरुषो वाऽथवा नारी ब्राह्मणः क्षत्रियोऽपि वा ॥६९
पापान्मुक्तो वाञ्छितानि प्राप्नोति हि न संशयः
मामुद्दिश्य तपस्तप्त्वा तुम्बुरुर्भगवानिह ॥७०
तीर्थस्य स्वस्य नाम्नैव ख्यातिं प्रार्थितवानभूत्
अज्ञानाद्विहितं ज्ञानात् मनोवाक्कायकर्मभिः ॥७१
यत्पापं तदशेषं चाप्यत्र स्नानेन शाम्यति
नारी वा पुरुषो वापि स्नात्वा तीर्थे शुभे दिने ॥७२
इष्टार्थं स्वं स्वमाप्नोति नात्र कार्या विचारणा
दत्ता तुम्बुरुतीर्थाऽख्या तीर्थस्यास्य महामुने ! ॥७३
वर्षे वर्षे मीनमासे पूर्णिमायां शुभे दिने
स्नाति तुम्बुरुतीर्थेऽस्मिन् स धन्यो भुवनत्रये ॥७४
कन्या भर्तारमाप्नोति लोके सर्वगुणोत्तरम्
युवती दीर्घमाङ्गल्यं कुलोत्तारं सुतं तथा ॥७५
वृद्धा पापविनिर्मुक्ता पुत्रपौत्रादिसंयुता
धनान्विता बधुमती जीवद्भर्त्री चिरं वसेत् ॥७६
वन्ध्या पुत्रं प्रसूतेह स्नानादत्र न संशयः
पुरुषो धनमन्विच्छन् धनी भवति नित्यदा ॥७७
पुत्रार्थी लभते पुत्रं पौत्रं पौत्रेप्सुराप्नुयात्
मानार्थी लोकसम्मानं विद्यार्थी बहुविद्यताम्
लौकिके वैदिके कार्ये पटुर्भवति सर्वदा ॥७८
अत्र स्नाता मुक्तपापाः समस्ताः
धान्यं द्रव्यं पुत्रभाग्यं च लब्ध्वा ।
सौख्यं लब्ध्व्वा बन्धुमध्ये समस्तं
आयुष्मन्तो विष्णुलोकं व्रजन्ति ॥७९
अत्र तीर्थेऽत्र दिवसे स्नात्वा ये भाग्यशालिनः
दानं कुर्वन्ति विप्रेभ्यः तेष्वत्यन्तदया मम ॥८०
सुवर्णं ये प्रयच्छन्ति तेषां लक्ष्मीः स्थिरा भवेत्
गोदानं राजतं दानं भूदानं च फलं तिलान् ॥८१
विद्यां वस्त्रं च विप्रेभ्यो दाता सोऽतीव मे प्रियः
ताम्बूलं च सुगन्धं च दधि तक्रं गुडोदकम् ॥ ८२
दत्त्वा ब्रह्मशिवादीनां वन्दनीया भवन्ति ते
ये ब्राह्मणान् भोजयन्ति भक्त्या भागवतानिह ॥८३
तानालोक्य महाऽनन्दो मम लक्ष्मा्यश्च जायते
कलौ युगे च प्रख्यातं तीर्थमेतद्भविष्यति ॥८४
स्नानं दानं मनुष्याणां सर्वाघौघविनाशनम्
अत्र मार्गे प्रपां ये वै कुर्वन्ति श्रमहारिणीम् ॥८५
तान् मदंशान् ऋषिगणान् वदन्त्यत्र न संशयः
सर्वं दानं कोटिगुणं भवत्यत्र न संशयः ॥८६
तस्मात् कुर्वन्तु दानानि सर्वे मनुजपुङ्गवाः !
सर्वदाऽस्मिन् पुण्यदिने सन्निधिं विदधाम्यहम् ॥८७
[[5657]]
श्री ब्रह्मोत्तरखण्डे पञ्चाशत्तमोऽध्यायः

स्नातानामत्र सर्वेषां वाञ्छितानि ददाम्यहम्
तीर्थार्थमागतान् सर्वान् आहूय घननिःस्वनः
भगवान् वेङ्कटाधीशो वाक्यमर्थवदब्रवीत् ॥८८
सर्वेषां वः सर्वपापक्षयोऽभूत्
सर्वेषां वो वाञ्छितं दत्तमेव ।
सर्वेषां वः सन्तु कालान्तरे च
लोकाः श्रेष्ठाः योगिनामप्यलभ्याः ॥८९
कलौ तु भारते वर्षे मानुषं जन्म दुर्लभम्
ततो वेङ्कटयात्रा तु दुर्लभा सुकृतं विना ॥९०
ततोऽप्यस्मिन् दिने पुण्ये तीर्थे तुम्बुरुनामके
स्नानं दानं च लब्धं चेत् ते कृतार्था न संशयः’ ॥९१
इत्युक्त्वा वेङ्कटाधीशो हरिर्गरुडवाहनः
रमया सहितो रेमे वेङ्कटाख्ये महीधरे ॥९२
एवं तुम्बुरुतीर्थे वै स्नात्वा देवर्षिमानवाः
हरिं नत्वा तद्वदनसुधां पीत्वा यथागतम्
प्रशंसन्तस्तु तत्तीर्थं ययुः सन्तुष्टमानसाः ॥९३
फेूणस्नानेन सर्वसिद्धं सर्वाबद्धं प्रति वसिष्ठादिप्रशंसा
वसिष्ठस्सर्वसिद्धेन तुष्टः स्वाऽऽवासमागमत्
किञ्चित्कालानन्तरं तं वसिष्ठो वाक्यमब्रवीत् ॥९४
’गच्छ विप्र ! स्वकं ग्रामं धनवत्स्वगृहं व्रज
वेङ्कटेशप्रसादेन धनधान्यादिकं बहु ॥९५
स्नानदानजपादीनि विप्रकर्माणि चाऽऽचर
महत्सु पूजां कुर्वाणो भोजयन् ब्राह्मणानपि ॥९६
वेङ्कटेशेत्यभिवदन् पुत्रपौत्रैः सुखी भव’
इत्युक्तः स वसिष्ठेन नत्वा तत्पादपङ्कजम् ॥९७
स्वग्राममगत् सिद्धः सर्वैरभ्युद्गतोऽभवत्
’सर्वसिद्ध ! भवान् धन्यो वेङ्कटेशकृपानिधिः ॥९८
वसिष्ठस्य प्रसादेन त्वत्समः पुरुषो न हि
एवं सम्पूजितः सर्वैः ब्राह्मणक्षत्रियादिभिः ॥९९
धनधान्ययुतः सपुत्रपौत्रः
स सदाचारयुतः सदानधर्मः ।
अथ वेङ्कटनायकेति जल्पन्
अवनौ ब्राह्मणपुङ्गवो बभूव ॥१००
एवं सत्सङ्गमहिमा त्वेवं वेङ्कटवैभवः
एवं तुम्बुरुतीर्थस्य महिमा लोकसम्मतः ॥१०१
इमं प्रसङ्गं यो विद्वान् वेङ्कटाचलवैभवम्
मीनमासे पूर्णिमायां पठते जनसंसदि ॥१०२
वक्तुश्च भक्त्या श्रोतॄणां वाञ्छितानि ददात्यसौ
यस्तु वेङ्कटमाहात्म्यकथाकथनकोविदः
विष्ण्वंशं तं प्रशंसन्ति व्यासाद्या मुनयस्तथा ॥१०३
श्रीसूतः -
वेङ्कटाचलमाहात्म्यं श्रुतं वा पावनं द्विजाः !
यस्मिञ्छ्रुतेऽन्यमाहात्म्यश्रवणेच्छा न जायते ॥१०४
[[5859]]
श्री ब्रह्मोत्तरखण्डे पञ्चाशत्तमोऽध्यायः

नास्ति तुम्बुरुतीर्थस्य समं पापप्रणाशनम्
तन्मीनपौर्णमास्यां चेत् सर्वपुण्योत्तमोत्तमम् ॥१०५
इति श्री ब्रह्मोत्तरखण्डे श्री वेङ्कटाचलमाहात्म्ये तीर्थमाहात्म्ये
फेूणतीर्थमाहात्म्यवर्णनं नाम पञ्चाशत्तमोऽध्यायः
—–ठ्—–

एकपञ्चाशत्तमोऽध्यायः

अथ एकपञ्चाशत्तमोऽध्यायः
—–ठ्—–
तुम्बुरोर्नारदशापेन फेूणतीर्थप्राप्तिः
ऋषयः-
सूत ! सर्वार्थविज्ञानविचक्षण ! महामते !
किञ्चित् ब्रूमो वयं सर्वे तन्नो वक्तुं त्वमरछसि ॥१
तुम्बुरुर्नाम भगवान् कस्माद्वेङ्कटपर्वते
तपस्तप्त्वा क्वचित्तीर्थे लब्धवान् किं फलं वद ॥२
कस्माद्वा फेूणतीर्थस्य स्वाख्यां प्रार्थितवानभूत्
किमुद्दिश्य तपस्तप्तं अस्माकं वक्तुमरछसि ॥३
श्रीसूतः -
वेङ्कटेशं नमस्कृत्य कथां कल्मषनाशिनीम्
प्रवदामि मुदा युक्ताः शृणुत ब्रह्मवादिनः ! ॥४
कदाचिद्गगने यान्तौ वीणावादनतत्परौ
ध्यायन्तौ हरिमेकाग्रौ मुनी तुम्बुरुनारदौ ॥५
आकाशमार्गे देवर्षिः तुम्बुरुं वीक्ष्य विस्मितः
सर्वरत्नमयीं वीणां दधतं वाक्यमब्रवीत् ॥६
’तुम्बुरो ! तव वीणेयं मद्वीणातो विराजते
केनैवं शोभते वीणा पूर्वमेवं न शोभिता ॥७
सत्यं वदे’ति पृष्टोऽसौ तुम्बुरुर्वाक्यमब्रवीत्
’प्राचीनबरिछषं भूपं गत्वाऽहं स्तुतिमुक्तवान् ॥८
[[6061]]
श्री ब्रह्मोत्तरखण्डे एकपञ्चाशत्तमोऽध्यायः

सन्तुष्टस्तेन मे वीणामेवं राजा त्वकारयत्’
नारदस्तद्वचः श्रुत्वा कोपाविष्टो जगाम ह ॥९
नारदः-
नरस्तुतिः कृता साधो ! लोके सत्सु विनिन्दिता
तस्मान्मत्सङ्गयोग्यत्वं न पश्याम्यधमे त्वयि ॥१०
सर्वेषामपि लोकानां नायकं केशवं विना
नरं न स्तोत्रयाम्येव तादृगस्मि हरिप्रियः ॥११
मया सह नते सख्यं उचितं तन्नरस्तुतेः
अवाक्छिराः पत त्वं तु खेचरत्वं न ते भवेत्’ ॥१२
इत्युक्तमात्रे मुनिना नारदेन तथैव सः
अवाक्छिराः पपाताऽशु वेङ्कटाचलमध्यतः ॥१३
फेूणतीर्थे क्वचिद्भागे मनुष्यादिविवर्जिते
सिंहशार्दूलसहिते भीरूणां भयदायिनि ॥१४
पतन्नपि हरिं ध्यायन् प्रणतः प्रीतिकारकम्
न व्यथामाप्तवान् फेूणमध्यं केवलमाप्तवान् ॥१५
फेूणतीर्थे भगवद्ध्यानपूर्वकतुम्बुरुकृत तपःप्रकारः
ततो दृष्ट्वा तु तं फेूणं दिशः समवलोक्य च
हरिभक्त्या धीरबुद्धिः एवं चिन्तां चकार ह ॥१६
’वेङ्कटाद्रेर्मध्यदेशो नान्यो भवितुमरछति
तस्मादेतद्वेङ्कटेशो मां रक्षतु सदा हरिः ॥१७
गतिर्वेङ्कटनाथो मे नान्या गति’ रिति ब्रुवन्
सशङ्खचक्रं लक्ष्मीशं तं ध्यातुमुपचक्रमे ॥१८
स्नात्वा तीर्थे तत्र भक्त्या प्राङ्मुखस्तूपविश्य च
प्राणायामशतं कृत्वा तुम्बुरुर्ध्यानमास्थितः ॥१९
पीताम्बरं पीनभुजाचतुष्कं
भुजान्तरालस्थितलक्ष्मियुक्तम् ।
प्रसन्नवक्त्रं प्रकटीभवत्कृपा-
पाथोधिनेत्रं परमं पुमांसम् ॥२०
अनन्तपक्षेशचमूपमुख्य भक्तैः समेतं परमर्षिसेव्यम् ।
देवादिदेवं दितिजान्तचक्रं सेवापराणां सुलभं निधानम् ॥२१
हृदम्बुजे हृद्यपपुर्धरन्तं
सञ्चिन्तयन् वेङ्कटशैलनाथम् ।
समुच्चरंस्त्र्यक्षरमर्थयुक्तं
निवातनिष्कम्प इव स्थितोऽभूत् ॥२२
तुम्बुरुतपस्तुष्टभगवदाविर्भावादिः
एवं तु नियमेनैव संवत्सरमुवास ह
ततः फाल्गुणमासे तु पौर्णमास्यां महातिथौ ॥२३
प्रादुर्बभूव भगवांस्तत्र वेङ्कटनायकः
पीताम्बरो दिव्यगन्धस्रग्भूषाभिरलङ्कृतः ॥२४
राकाचन्द्रोपममुखो राजीवाऽऽयतलोचनः
लक्ष्म्या सर्वजगन्मात्रा रमणीयभुजान्तरः
समस्तवाद्यनिनदसङ्घुष्टगिरकन्दरः ॥२५
[[6263]]
श्री ब्रह्मोत्तरखण्डे एकपञ्चाशत्तमोऽध्यायः

श्रीभगवान् -
’तुम्बुरो ! तुम्बुरो ! वत्स ! मां पश्य किमपेक्षसे’
इति ब्रुवन्तं तमृषिः ददर्शोन्मील्य चक्षुषी ॥२६
साष्टाङ्गं तं प्रणम्याथ देवदेवं ददर्श ह
तस्य पार्श्वे सेवमानं ददर्शानन्तमव्ययम् ॥२७
गरुडं गिरिसङ्काशं विष्वक्सेनं महाप्रभुम्
अगस्त्यऋषिमुख्यं च देवपादावलोकिनम् ॥२८
अन्यान् द्वैपायनादींश्च ऋषीनञ्जलिबन्धनान्
सनकाद्यान् योगिनश्च वैखानसमुनीनपि ॥२९
शुकमानसपुत्रांश्च शुकं च मुनिसत्तमम्
देवगन्धर्वसिद्धांश्च विश्वावसुमुखानपि ॥३०
यक्षान् किम्पुरुषांश्चैव किन्नरोरगनायकान्
जय देव ! जगन्नाथ ! सावधान मनोजय ॥३१
इति मेघरवोदग्रान् वेत्रपाणींश्च कांश्चन
आब्रह्मलोकादायातान् अप्सरोगणमागतम् ॥३२
आहूयाशेषलोकं तं आह शेषगिरीश्वरः
’भोभोः ! सर्वेऽपि तीर्थेऽस्मिन् स्नानं कुरुत मा चिरम् ॥३३
समस्तपापहरणे सर्वश्रेयोविधायिनि’
इति वाक्यं समाकर्ण्य भक्त्या सङ्कल्प्य वाग्यताः ॥३४
’गोविन्दे’ति ततः स्नात्वा तीरमारुरुहुश्च ते
शुद्धहृत्तुम्बुरुश्चापि स्नात्वा तैः सहितस्तथा ॥३५
भगवत्सन्निधिं प्राप्ताः स्तोत्रं चक्रुः पृथक् पृथक्
’जय ! सर्वगुहाऽऽवास ! लोकरक्षामणे हरे ! ॥३६
भक्तार्तपालनपर ! प्रणतार्तिहर ! प्रभो !
लक्ष्मीनाथ ! जयानन्त ! रक्षिताशेषभूसुर !
पुनीहि सकलांल्लोकान् पालय त्वं कृपालय’ ! ॥३७
तुम्बुरुः -
’वन्दे सदा वेङ्कटशैलनाथं
त्वामेव मे पापहरो भव त्वम् ।
तीर्थानुभावं च तवानुभावं
श्रोतुं ममेच्छा परिवर्धते हि ॥३८
भगवदाज्ञयाऽगस्त्यवर्णिततुम्बुरुतीर्थमाहात्म्यम्
श्रीसूतः -
इति स्तुतो वेङ्कटेशः कुम्भसम्भवमब्रवीत्
’एतेषामद्य सर्वेषां वेङ्कटाचलवैभवम् ॥३९
माहात्म्यमपि तीर्थस्य वद किञ्चिन्महामते’
इत्युक्तो देवदेवेन तत्रागस्त्योऽब्रवीदिदम् ॥४०
’पुण्योऽयं वेङ्कटगिरिः सर्वपुण्यस्थलेष्वपि
समस्ततीर्थान्यत्रैव पुण्यानि निवसन्ति हि ॥४१
भक्तापराधान् सोढ्वैव वेङ्कटेशो दयापरः
रक्षत्येव ततः सोऽयं सेव्यः श्रीवेङ्कटेश्वरः ॥४२
स्नातानामत्र तत्तीर्थे सर्वपापक्षयो भवेत्
सर्वश्रेयांसि सिद्ध्यन्ति नात्र कार्या विचारणा ॥४३
[[6465]]
श्री ब्रह्मोत्तरखण्डे एकपञ्चाशत्तमोऽध्यायः

सुवर्णमन्नं ताम्बूलं सुगन्धं शीतलं जलम्
अत्र दत्त्वा नरः पूतः सर्वान् कामानवाप्नुयात् ॥४४
तुम्बुरुः -
’भगवन् ! मम नाम्नैव तीर्थमेतत् प्रसिद्ध्यतु’
’तथाऽस्त्वि’ त्युक्तवान् विष्णुः तुम्बुरुं पुनरब्रवीत् ॥४५
श्रीभगवान् -
’नारदेन सहैव त्वं पूतो मत्कीर्तनं कुरु
येऽत्र फाल्गुणराकायां स्नानदानादि कुर्वते ॥४६
इह लोके परत्रापि तेषामिष्टं ददाम्यहम्’
इत्युक्तास्तुम्बुरुमुखाः तुष्टा याता यथागतम् ॥४७
इति श्री ब्रह्मोत्तरखण्डे श्री वेङ्कटाचलमाहात्मे्य तीर्थमाहात्म्ये
तुम्बुरुतीर्थमाहात्म्यवर्णनं नाम
एकपञ्चाशत्तमोऽध्यायः
—–ठ्—–