(श्री ब्रह्मपुराणान्तर्गतम्)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
हरिः ओम्
प्रथमोऽध्यायः
—–ठ्—–
दुर्वाससं प्रति दिलीपकृतप्रश्नः
श्रीसूतः-
राजा दुर्वाससं पृष्ट्वा दिलीपो गृहमागतम्
श्रुत्वा श्रीरङ्गमाहात्म्यं श्रीमुष्णस्य च वैभवम् ॥१
वेङ्कटाचलमाहात्म्यमथ पप्रच्छ सादरम्
दिलीपः-
निर्दिश्य देवदेवस्य स्वयंव्यक्ताष्टवैभवम् ॥२
श्रीरङ्गवैभवं तत्र श्रीमुष्णस्य च वैभवम्
उक्तं त्वया दयासिन्धो ! साम्प्रतं वद वैभवम् ॥३
XXII
श्री वेङ्कटाद्रिसञ्ज्ञस्य क्षेत्रस्यानुत्तमस्य च
वेङ्कटेश्वरदेवोऽसौ यत्र सन्निहितो हरिः ॥४
दिलीपं प्रति दुर्वाससा प्रोक्तं श्रीवेङ्कटाचलवैभवम्
तस्याऽगतिं वैभवं च तीर्थसङ्ख्यां तथैव च
येन प्रथा कृता लोके तदाचक्ष्व कृपा यदि’ ॥५
दुर्वासाः -
’शृणु राजन् ! प्रवक्ष्यामि वेङ्कटाचलवैभवम्
तस्याऽऽगतिं प्रवक्ष्यामि देवस्यापि महात्मनः ॥६
मेरोः पुत्रो महाशैलो जाम्बूनदनदीतटे
योजनत्रयविस्तीर्ण । त्रिंशद्योजनमायतः ॥७
’’वेङ्कटे’’ ति कृतं नाम पित्रा यस्य महात्मनः
अमृतस्येन्दिरायाश्च यतो विस्तारकारकः ॥८
जीवानां भारते वर्षे ततोऽयं गुणनामकः
निर्दोषविष्णोरयनं नारायणमिमं विदुः ॥९
वृषस्य भरणात्पोषात् वृषभं चापि तं विदुः
प्रसवादञ्जनादेव्या विदुरञ्जनसञ्ज्ञकम्
सशेषागमनाच्चापि शेषाद्रिं प्राहुरुत्तमाः ॥१०
दिलीपः -
’सशेषागमनं तस्य कुत एतन्महाविभो !
तदाचक्ष्व महाप्राज्ञ ! श्रोतुं कौतुहलं हि मे’ ॥११
वायुशेषयोः क्षीराब्धिप्रवृत्तकलहोपोद्घातादिवर्णनम्
दुर्वासाः -
’अनन्तशयनः श्रीमान् कदाचित् क्षीरसागरे
लक्ष्मीविलासनिर्विण्णो भगवान् ! मधुसूदनः ॥१२
ब्रह्मानन्दवने रेमे रमयाऽन्तः पुरे सह
समादिदेश च तदा भगवान् रमया युतः ॥१३
शेषमन्तःपुरद्वारे भाविकृत्यं च चिन्तयन्
तदाशयानुगः शेषः सर्वलोकधुरन्धरः ॥१४
तस्थावन्तःपुरद्वारे तस्य चानुमते तदा
ख्यापयामास चाऽऽत्मानं बलिष्ठं सर्वतोऽधिकम्१५
एतस्मिन्नन्तरे वायुः दुग्धाब्धिशयनं ययौ
तदा वायुं समारौत्सीत् फणीन्द्रो बलदैवतम् ॥१६
न च ते समयश्चात्र प्राप्तुमन्तःपुरं हरेः
नाऽऽत्मज्ञो हि भवान् वायो! कदा तेऽभूद्गतिः पुरा
इतःपरमतीत्य त्रिकक्ष्याऽन्तःपुरे गृहे’ ॥१७
इति तद्वचनं श्रुत्वा वायुस्तं प्रत्यवोचत
वायुः-
’नात्मज्ञोऽसि त्वमेवात्र त्वयोक्तमविचारतः’ ॥१८
[[23]]
श्री ब्रह्मपुराणे प्रथमोऽध्यायः
शेषः-
बहिरन्तश्च यो नित्यं अहं नाथसमीपगः
त्वं भृत्यो मीढुषोर्विष्णोः नान्तरङ्गो न मत्समः ॥१९
तिष्ठ तावद्धरेर्द्वारि’ इत्यहीशो वायुमब्रवीत्
तच्छ्रुत्वा प्रहसन् वायुः वायुभक्षमथाब्रवीत् ॥२०
वायुः-
’दासीदासजना ये तु ये चान्ये परिचारकाः
तान् वदन्ति तु मित्राणि न तेऽरछन्त्यासनं विभोः ॥२१
बिडालोऽन्तःस्थितो वाऽपि बहिष्ठेभसमो न हि
मां त्वं जानासि नाध्यक्षं प्राणिनां प्राणमीश्वरम् ॥२२
बले ज्ञाने विरागे च विष्णुभक्ता न मत्समः
साक्षाद्विष्णुप्रसादस्य पात्रभूतोऽस्मि सर्वदा ॥२३
मर्यादयाऽवस्थातव्यं वक्तुं नारछसि चाधिकम्’
इत्युक्तस्तेन सङ्क्रुद्धः प्रत्युवाच बिलेशयः ॥२४
वायुशेषाभ्यां कृता परस्परबलपरीक्षा
शेषः-
’किं जल्पितेन बहुना परीक्षाऽत्र विधीयताम्
आवाभ्यां बलशालिभ्यां दृश्यतेऽत्र बलाबलम्’ ॥२५
इत्युक्तस्तेन फणिना मातरिश्वाऽब्रवीत्ततः
वायुः-
’आवयोः स्यात् कथं चाऽत्र परीक्षा पौरुषे गतौ ॥२६
तद्वदस्व महाबाहो ! येन ते निश्चयो भवेत्’
एवं वृत्ते विवादे तु तत्रागाद्धरिरीश्वरः ॥२७
’’किमेत’’ दिति तौ पृष्ट्वा शेषेणोक्तोऽतिविस्तरात्
प्राहोद्वृत्तं तदा शेषं भाविकार्यं स चिन्तयन् ॥२८
श्रीभगवान् -
’लोकान्तरात्मा बलदेवता यः
प्राणो ममापि ह्यधिको मतोऽयम् ।
त्वं लोकभर्तेति महान् मदस्ते
तवापि वै कूर्मवरो हि वोढा’ ॥२९
तच्च्रुत्वा प्राह देवेशं शेषस्तस्याऽशयानुगः
शेषः -
’भगवन् ! मम वायोश्च पश्याद्य बलपौरुषे
योऽसौ मत्पालितः शैलो भारेण महता युतः ॥३०
मेरुपुत्रो महापुण्यो जाम्बूनदनदीतटे
योजनत्रयविस्तीर्णः त्रिंशद्योजनमायतः ॥३१
अहं मेरुमवष्टभ्य बद्ध्वा तं कायरज्जुना
स्थास्यामि तं महाशैलं वायुरुद्धरते यदि ॥३२
तदा मत्तोऽधिको वायुः प्रभो ! सत्यं न संशयः’
एवमुक्तो हृषीकेशः शेषेणात्यन्तगर्विणा ॥३३
वायुमुद्वीक्षयामास वायुर्ज्ञात्वेङ्गितं हरेः
’तथा कुर्वि’ति तं शेषं हरिणा प्रेरितोऽब्रवीत् ॥३४
[[45]]
श्री ब्रह्मपुराणे प्रथमोऽध्यायः
ततः शेषो ययौ भूमिं तत्रापश्यद्गिरिं शुभम्
तप्तहाटकसङ्काशं रत्नसानुं मनोहरम् ॥’३५
मेरोर्दक्षिणदेशे तु जाम्बूनदनदीतटे
मेरुपुत्रं महापुण्यं वेङ्कटाचलसञ्ज्ञकम्॥३६
मेरुवेङ्कटशैलेन्द्रौ अवष्टभ्य महारुषा
स्वकायरज्जुना बद्ध्वा शेषस्तस्थौ ज्वलन् रुषा ॥३७
सन्नद्धः सह सर्वाङ्गैः पश्चाद्वायुमुवाच ह
’यद्यस्ति ते बलं घेारं गिरिमुद्धर साम्प्रतम्’ ॥३८
इत्युक्तो वायुरायातः स्प्पशन् पादेन वेङ्कटम्
चिक्षेपाङ्गुष्ठतः शैलं दर्पेणानादरात्तदा ॥३९
अविचाल्यं यदा मेने शेषसंवेष्टितं गिरिम्
ततः प्रयेते बाहुभ्यां तं तोलयितुमादरात् ॥४०
न शशाक यदा वायुः बाहुभ्यामपि पीडयन्
तं चालयितुमीषद्वा भग्नदर्पस्तदाऽऽभवत्॥४१
अकीर्तिशङ्का च ततो वायुर्ब्रह्माण्डपूरणः
आत्मीयामखिलां शक्तिं कम्पने शोषणे तथा ॥४२
व्यञ्जयन् कम्पयामास सर्वान् स्थावरजङ्गमान्
अथ ब्रह्मादिभिर्देवैः अनुनीतेऽपि मारुते ॥४३
अकृतोपरमे शेषः साम्ना विज्ञापितस्तु तैः
लघुर्भूत्वा क्वचित् किञ्चित् फणां संश्लथयन् स्थितः ॥ ४४
ततस्तद्विवरं वायुः महावेगो विवेश ह
ततः क्षणेनोच्चलितः तूलराशिरिवाम्बरे ॥४५
प्रचलन् वर्त्म चोल्लङ्घ्य दूरं लक्षार्धयोजनम्
उत्तरे दक्षिणाम्भोधेः द्वात्रिंशद्योजनान्तरे ॥४६
पूर्वाम्भोधेः पश्चिमे तु पुण्ये स्वर्णमुखीतटे
पपात वेगतो वायोः शैलः शेषसमन्वितः ॥४७
सहस्रधा शीर्यमाणो बलेन बलशालिनः
ततस्तुष्टाव मरुतं मेरुः सुतहितेच्छया ॥४८
’त्राहि त्राहि जगत्प्राण ! पुत्रभिक्षां प्रयच्छ मे
अपराधो हि शेषस्य न च मे पुत्रहेतुकः’॥४९
इति तेन स्तुतो वायुः ’पालयामी’ ति चाब्रवीत्
तं गिरिं स्वयमाविश्य तेन सार्धं पपात ह ॥५०
वायोरावेशनाच्चैनं प्राहुरञ्जनसञ्ज्ञकम्
शेषो विशीर्णदेहस्तु तेन सार्धं पपात ह ॥५१
इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये दिलीपदुर्वासस्संवादे
वायुशेषयोः परस्परं बलपरीक्षादिवर्णनं नाम
प्रथमोऽध्यायः
—–ठ्—–
[[67]]
श्री ब्रह्मपुराणे प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अथि द्वितीयोऽध्यायः
—–ठ्—–
वेङ्कटाद्रौ शेषकृततपःप्रकारः
दिलीपः-
’किमर्थं देवदेवेशो हित्वा वैकुण्ठमुत्तमम्
सान्निध्यमकरोत्तत्र वेङ्कटाख्ये नगोत्तमे? ॥१
किं तत्र कारणं ब्रूहि श्रोतुं कौतूहलं हि मे’
दुर्वासाः-
शेषो गतमदः पश्चात् तस्मिन्नेव नगोत्तमे ॥२
वायव्ये स्वामिसरसो नागतीर्थे मनोरमे
नानासानुसमाकीर्णे नानापादपमण्डिते ॥३
उत्तरे शिखरे पुण्ये सान्निध्यार्थं जगत्पतेः
तपस्तेपे महाघेारं दिव्यं वर्षसहस्रकम् ॥४
शेषतपस्तुष्टभगवदाविर्भावः
तपसा तोषितो देवः प्रत्यक्षः समजायत
’वरं वरय भद्रे’ति तेनोक्तः शेष आह तम्॥५
शेषः-
’यदि प्रसन्नो भगवान् इदं मे देहि भो वरम्
यथा शेषे मदङ्गे त्वं वैकुण्ठे भुवनोत्तमे ॥६
शैलाकारे च मद्देहे नित्यमत्र वस प्रभो !’
इति शेषेण सम्प्रोक्तः भगवान् प्रत्युवाच ह॥७
शेषप्रार्थनया भगवत्कृतवेङ्कटाद्रिवासाभ्युपगमः
’’पुरा विचारितं स्थानं भूमौ क्रीडास्पदं शुभम्
एतस्मिन्नन्तरे प्रायात् नारदो मुनिसत्तमः ॥८
दृष्टे मुनौ मया चोक्तं ऋषे ! कस्मादिहागतः ’’
सोऽपि मां प्राह विप्रेन्द्रो ’दृष्ट्वा भूगोलमागतः ॥९
इत्युक्तस्तेन चावोचं मम रन्तुं भुवः स्थले
योग्यं किं स्थानं?’ इत्युक्तः स चोवाच मुनीश्वरः ॥१०
नारद–
’अस्ति कश्चिद्गिरिवरो वेङ्कटाख्यो मनोहरः
त्रिंशद्योजनमायामी योजनत्रयविस्तृतः ॥११
अष्टोत्तरसहस्रेण तीर्थानां परिशोभितः ॥
जाम्बूनदनदीतीरे मेरुशैलस्य दक्षिणे ॥१२
किञ्चिदूनश्च वैकुण्ठात् विहारोऽयं मनोहरः
विहरस्व रमानाथ! वासयोग्यस्तवैव सः’ ॥१३
तदा तद्वचनं श्रुत्वा गन्तुमिच्छा बभूव मे
एतस्मिन्नन्तरे वायोः तव संवादहेतुना ॥१४
गिरिरत्रागतः पुण्यः त्वयाऽपि तपसाऽर्थितः
इष्टं मे प्रार्थितं पूर्वं तथाऽस्तु’’ इति वरं ददौ ॥१५
तेन विष्णुः समायातो हित्वा वैकुण्ठमुत्तमम्
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥१६
भगवतः स्वामितीर्थतीरैकवासनिमित्तम्
दिलीपः-
’तस्मिन्नगोत्तमे पुण्ये नानापादपमण्डिते
आदावन्ते च मध्ये च सन्ति तीर्थान्यनेकशः ॥१७
[[89]]
श्री ब्रह्मपुराणे द्वितीयोऽध्यायः
देशा मनोहराः पुण्याः सानूनि विविधानि च
हित्वा तत्सकलं स्थानं स्वामिपुष्करिणीतटम्
आश्रितो रमया तत्र मम तत्कारणं वद’ ॥१८
दुर्वासाः-
’पुरा सरस्वती देवी तीर्थोत्कृष्टत्वकाङ्क्षया
सरस्वती नदी नाम ब्रह्मावर्ते बभूव ह ॥१९
तस्यास्तीरे तपस्तप्तुं पुलस्त्यो भगवान् ययौ
पुत्रभावेन तं देवी नार्चयन्ती स्थिता मुनिम् ॥२०
ततस्तां कुपितः प्राह ’या ते काङ्क्षा सरस्वति !
तव सा विफला भूयात् नदीरूपेण सर्वदा ॥२१
गुणसामान्यभावेऽपि विष्णुपादप्रभावतः
तवाधिकेन यशसा भविष्यति सरिद्वरा ॥२२
तीर्थोत्कृष्टा सैव भूयात् भुवि गङ्गाख्यया शुभा’
इति शप्ता पुनर्देवी तं शशाप महामुनिम्२३
’राक्षसस्ते भवेद्वंशो विष्णोरप्रियकारकः’
पुनः प्रसादिता तेन विशापमपि सा ददौ२४
’अन्तिमो वैष्णवो भूयात् कल्पस्थायी विभीषणः’
पुनश्च तपसा देवी तीर्थोत्कृष्टत्वकाङ्क्षया
तोषयामास देवेशं तस्य सान्निध्यमावहत् ॥२५
’वाञ्चा मे विफला ब्रह्मन् ! ब्रह्मदण्डेन भूयसा
भूमावेव यथा तीर्थस्वामित्वं मे भवेद्ध्रुवम् ॥२६
वरयामि वरं देव ! देहि मे पुरुषोत्तम !’
तयैवं प्रार्थितो देवो देवीं तां प्रत्युवाच ह ॥२७
’ब्रह्मदण्डो नदीरूपे पुष्करिण्यां न वै कृतः
अतः शेषगिरिं गच्छ वासार्थं यामि तं गिरिम् ॥२८
गिरेर्दक्षिणभागे तु मूर्धदेशे सुखं वस
स्वामिपुष्करिणीनाम्ना वसेयं तव दक्षिणे ॥२९
तिस्रः कोट्योऽर्धकोटी च तीर्थानि भुवनत्रये
स्वस्वपापविमोक्षार्थं याचयिष्यन्ति मां शुभे ॥ ३०
तेषां पापविमोक्षार्थं त्वयि स्नानं ददाम्यहम्
’धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ॥३१
स्नानार्थमागतं तीर्थजालं प्रेष्यत्वमाप्नुयात्’’
तीर्थाधिराज्ये तत्तीर्थजालं त्वामभिषेक्ष्यति ॥३२
इति दत्त्वा वरं देवः तत्तीरे न्यवसत्प्रभुः
देवस्य पाचिका काचित् नाम्ना वकुलमालिका ॥३३
प्रसाद्य देवं पाकेन श्रिया सञ्चोदिता विभोः
तीर्थभूम्याधिपत्यं च लेभे परममुत्तमम् ॥३४
तत्रैव वासं देवस्य ययाचे सा पुनरछरिम्
१वाणीदेवी तीर्थरूपा भूमिरूपा च पालिका ॥३५
[[1011]]
श्री ब्रह्मपुराणे द्वितीयोऽध्यायः
१। वाणीदेवीत्यादि । जलनिधेर्भोगपत्न्या कृष्णवेण्या यमुनया च या
समा सा पाचिका वकुलमालिका भूमिरूपा तीर्थभूम्याधिपत्यवरलाभेन तीर्थभूम्य
भिमानितया तीर्थभूमिशरीरिणी । अत्र वकुलमालिकायास्तीर्थभूमिरूपतया
भोगपत्न्या जलनिधेः कृष्णवेण्या च या समा
इति सर्वं समाख्यातं देवसान्निध्यकारणम् ॥३६
इति श्रीब्रह्मपुराणे श्री वेङ्कटाचलमाहात्म्ये भगवतः स्वामितीर्थ-
तीरैकवासनिमित्तवर्णनं नाम द्वितीयोऽध्यायः
—–ठ्—–
तृतीयोऽध्यायः
अथ तृतीयोऽध्यायः
—–ठ्—–
वायोर्भगवद्दत्तप्रधानाङ्गत्वप्राप्तिः
दिलीपः -
’देवर्षिनरसङ्घेषु शैलस्यास्य प्रथा कथम् ?
देवेन केन देवेषु मुनिष्वपि च केन वा ॥१
नृणां केन नरेणात्र ? ब्रूहि विस्तरतः क्रमात्’
दुर्वासाः -
’पुरा वायुर्महातेजा विष्णोरमिततेजसः ॥२
१प्रधानाङ्गत्वमाकाङ्क्षन् तपस्तेपे नगोत्तमे
दिव्यवर्ष सहस्रान्ते सहस्रभुजकन्धरः ॥३
आविरासीत्तदा तस्मै नीलाम्बुदसमप्रभः
वरं प्रादात् ’’प्रधानाङ्गं भवे’’ ति पुरुषोत्तमः ॥४
’अहमत्र निवत्स्यामि वस त्वं च मया सह
तारकासुरविध्वंसजातदोषापनुत्तये ॥५
१। प्रधानाङ्गत्वमित्यादि । प्रधानाङ्गत्वं सर्वप्राणिनां स्वेतर देहेन्द्रियादि
सकलोपकरणसत्तानिर्वाहकत्वलक्षणप्राधान्य विशिष्ट प्राणा ख्याङ्गत्वरूपं
अमिततेजसो विष्णोः सकाशादाकाङ्क्षन् तपस्तेपे इत्यन्वयः ॥ छान्दोग्य
वाजसनेयकयोः प्राणविद्यायां ’’यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च
ह वै श्रेष्ठश्च भवति प्राणो ह वा व ज्येष्ठश्च श्रेष्ठश्च’’ इत्यादिनोक्तं स्वेतर
देहेन्द्रियादिसकलोपक रणसत्ताकायादि निर्वाहकत्व लक्षणं ज्यैष्ठ्यश्रैष्ठ्यादिरूपं
प्राणवायुगतं प्राधान्यमेवेह प्रधानाङ्गत्वम्यितनेन विवक्षितमित्यवगम्यते॥
[[1213]]
स्वामिपुष्करिणीरूपेण परिणतया सरस्वत्या सङ्गतत्ववर्णनं यमुना
नदीतुल्यत्ववर्णनं च सकलतीर्थाधिराज्यकामिन्याः स्वामिपुष्करिणितीर्थरूपेण
परिणतायाः सरस्वत्याः यमुनानदीसमशील वकुलमालिका समागमोऽस्तीति
प्रतिपादनाय कृतमित्यवगम्यते ॥
श्री ब्रह्मपुराणे तृतीयोऽध्यायः
कुमारधारिकातीर्थे स्कन्दोऽप्यत्र तपस्यति’
इति वायुं समादिश्य पश्चादन्तरधीयत॥६
मृडाद्या वशगा यस्य सोऽपि ब्रह्मा चतुर्मुख्ः
श्रीवेङ्कटाचले श्रीशं वायोरमिततेजसः ॥७
तपःफलप्रदानार्थं समायातं विदंस्ततः
तत्तपोबलसामर्थ्यात् सदा सान्निध्यमत्र वै ॥ ८
भविष्यच्चापि विज्ञाय तत्र तेपे स्वयं तपः
तथाऽन्ये ब्रह्मणाऽऽज्ञप्ताः तपस्तेपुः सुदुष्करम् ॥९
सब्रह्मेशाः सुराः सर्वे सनकाद्याश्च योगिनः
अगस्त्याद्याश्च मुनयः शङ्खाद्याश्च नृपास्थथा ॥१०
तथाऽन्येऽपि सहाद्राक्षुः आविर्भूतं वृषाचले
अप्राकृतविमानेन सार्धमेव श्रियःपतिम् ॥११
इत्थं वायुमुखा देवा ब्रह्मेशानमुखा अपि
भेजिरे चापरे सिद्धिं बहवः सिद्धिकाङ्क्षिणः ॥१२
यतोऽत्र तस्माच्छैलोऽयं ख्यातो देवेषु वायुना
दिलीपः-
’भगवन्नस्य शैलस्य केनाभून्मुनिषु प्रथा ? ॥१३
दुर्वासाः-
’देवं द्रष्टुं तपस्तेपे ह्यगस्त्यो मलयाचले
तदा गत्वाऽवदद्ब्रह्मा ’मुने ! वेङ्कटमाव्रज
तत्र ते भविता सिद्धिः’ इत्युक्त्वान्तर्दधे विभुः ॥१४
श्रीवेङ्कटाद्रौ अगस्त्यतपस्तुष्टभगवद्वाण्याविर्भावः
सोऽपि शैलं समासाद्य तपस्तेपे सुदुश्चरम्
ततो वर्षसहस्रान्ते तमेवाहाऽशरीरिवाक् ॥१५
’अष्टोत्तरसहस्राणि सन्ति तीर्थानि चात्र वै
स्नात्वा तीर्थेषु सर्वेषु लोके ख्यापय तानि च ॥१६
नान्यत्तपो द्विजातीनां ऋते शास्त्रोपदेशतः
किं कायक्लेशधर्मेण का सिद्धिर्भविता द्विज ! ॥१७
उक्तं माध्यन्दिने मन्त्रे माहात्म्यं भूधरस्य च
वदंस्त्वमन्तेवासिभ्यो गिरेः कुरु प्रदक्षिणम् ॥१८
एवं ते भविता तत्र कृते षष्ठे प्रदक्षिणे
ब्रह्मणो दर्शनं मध्ये रौद्रे देवादिदर्शनम् ॥१९
देवेन्द्रर्शनं पूर्वे ह्याग्नेये च हविर्भुजः
दक्षिणे चर्षिसङ्घानां सरुद्राणां भवेद्ध्रुवम् ॥२०
यक्षरक्षःपिशाचानां नैरृत्ये दर्शनं भवेत्
विष्वक्सेनऋषेः पश्चाद्वायव्ये गिरिदर्शनम् ॥२१
उत्तरे भगवद्योगिगणदर्शनमेव च
माहात्म्यज्ञानपूर्वं तु स्वामिपुष्करिणीतटे
ध्यानयोगं समासाद्य ततो ज्ञास्यसि तं विभुम्’ ॥२२
एतावदुक्त्वा विरराम वाणी
माहात्म्ययोगं स ततो विवृण्वन् ।
प्रदक्षिणं तस्य गिरेश्च कृत्वा
ध्यानाद्विभुं वीक्ष्य परां गतिं ययौ ॥२३
[[1415]]
श्री ब्रह्मपुराणे तृतीयोऽध्यायः
ततोऽगस्त्येन मुनिना शैलोऽयं प्रथितोऽभवत्
श्रीवेङ्कटाचले शङ्खाख्यनृपतपस्तुष्ट श्री श्रीनिवासाविर्भाववर्णनम्
दिलीपः- मानुषेष्वस्य शैलस्य केन जाता प्रथा भुवि ? ॥ २४
दुर्वासाः -
पुरा शङ्खो महाप्राज्ञः सूर्यवंशोद्भवो विभुः
साक्षात्कृत्य महाविष्णुं ययाचे वरमुत्तमम् ॥२५
’यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी
तावत्तिष्ठतु मे सेवा कृता विष्णोर्मया विभोः’ ॥२६
इति सञ्चिन्त्य मनसा राज्ये पुत्रं निधाय वै
गत्वा वसिष्ठं पप्रच्छ ’यत्र विष्णुः प्रसीदति ॥२७
तत् क्षेत्रं ब्रूहि विप्रेन्द्र! यत्र द्रक्ष्याम्यहं विभुम्’
इति पृष्टो मुनिः प्राह ’यत्रागस्त्यो दिदृक्षया ॥२८
तपश्चरति धर्मात्मा तमुद्दिश्य महामुनिः
भगवान् यत्र सर्वात्मा सान्निध्यं च करिष्यति ॥२९
त्वं च तं गच्छ शेषाद्रिं पुण्यं स्वर्णमुखीतटे
तत्र ब्रह्मशिला काचित् सरिन्मध्ये च वर्तते ॥३०
अगस्त्यतपसा पश्चात् गयासान्निध्यमत्र वै
पादा ईशानविष्ण्वादिदेवानां तत्र सन्ति हि ॥३१
सुवर्णमुखरी तत्र कुल्यया सङ्गता विभो !
तयोस्तु सङ्गमे राजन् ! ये केचन नरा भुवि ॥३२
सङ्कल्प्य विधिवत् स्नात्वा देवर्षीनभितर्प्य च
मध्ये ब्रह्मशिलायास्तु पितॄनुद्दिश्य भक्तितः ॥३३
श्राद्धतर्पणपिण्डादीन् श्रद्धया सह वै विभो !
समाचरन्ति राजेन्द्र ! तेषां सप्तकुलावधि ॥३४
गयायां पिण्डदानेन यथा तृप्ता भवन्ति वै
तथा तृप्यन्ति पितरः सत्यमेव न संशयः ॥३५
तस्मिन् दिनेऽन्नं दद्याच्च ताम्बूलं चन्दनादिकम्
गोभूतिलहिरण्यादिवस्त्रधान्यानि सर्वशः ॥३६
तत्र दत्तो यथाशक्ति रेणुर्मेरोः समो भवेत्
त्वं चापि तत्र राजेन्द्र ! महानद्योः समागमे ॥३७
स्नानदानक्रियादीनि श्राद्धपिण्डांस्तिलोदकम्
कृत्वा सर्वाणि कर्माणि ध्यानयोगं समास्थितः ॥३८
वासुदेवे मनः कृत्वा तपः कुरु वृषाचले
तदा कालान्तरेऽगस्त्यः सशिष्यः सङ्गमिष्यति ॥३९
मुनिनोक्तं च माहात्म्यं शृण्वन् कुर्वन् प्रदक्षिणम्
साकं तेन समाधिस्थः साक्षात्पश्यसि तं विभुम्
त्वयाऽपि संस्तुतो देवः तवाभीष्टं प्रयच्छति’ ॥४०
दुर्वासाः -
गुरुणा चोदितस्त्वेवं स गत्वा तं वृषाचलम्
तत्क्रमेण तपस्तप्त्वा मुनिना तेन सङ्गतः ॥४१
आविर्भूतं हरिं दृष्ट्वा ययाचे वरमुत्तमम्
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥४२
तावन्मया कृता सेवा शैलेन्द्रे तव सम्भवेत्’
इत्युक्तो भगवान् प्राह शृणु भूप ! वचो मम ॥४३
[[1617]]
श्री ब्रह्मपुराणे तृतीयोऽध्यायः
श्रीनिवासाज्ञया शङ्खनृपकृतभगवद्दिव्यविमानकथनम्
अर्चाविग्रहरूपोऽहं सच्चिदानन्दविग्रहः
स्वयंव्यक्तप्रदेशेषु दृश्यो ब्रह्मादियोगिनाम् ॥४४
तामेव प्रतिमां केचित् जानन्ति नृपपुङ्गव !
तथात्वेनापि वा योग्यं दर्शनं मे कलौ युगे ॥४५
युगेष्वपि च सर्वेषु दर्शनं यत्तु पापिनाम्
तद्रूपस्य पिधानाय सादृश्यध्यानहेतवे ॥४६
विमानं च शिलादारुलोष्टेष्टकचितं कुरु
प्रतिमां च शिलारूपां तां पश्यन्ति कुयोगिनः ॥४७
रूपद्वयं प्रपश्यन्ति ज्ञानिनो ब्रह्मवित्तमाः
भानुमान् भानुसङ्घैस्तु रसग्राही यथा भुवः ॥४८
साक्षात्पूजाश्रयो नित्यं अहं बिम्बान्तरेण च
यथा दृष्टं विमानं ते मद्रूपं पुरुषर्षभ ! ॥४९
तथा कुरु महाभाग ! तेन ते भविता गतिः’
इत्युक्त्वाऽन्तर्दधे देवः सर्वेषामेव पश्यताम् ॥५०
तेनोक्तमार्गेण विधाय फुण्यं
विमानवर्यं प्रतिमां च पुण्याम् ।
प्रख्याप्य शङ्खो नरलोकसङ्घे
जगाम विष्णोः पदमव्ययं शुभम् ॥५१
इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्मे्य शङ्खनृपादितपस्तुष्ट
भगवदाविर्भावादिवर्णनं नाम तृतीयोऽध्यायः
—–ठ्—–
चतुर्थोऽध्यायः
अथ चतुर्थोऽध्यायः
—–ठ्—–
श्रीवेङ्कटाचलस्थमुक्तिप्रदस्वामिपुष्करिण्यादिसप्ततीर्थवर्णनम्
दिलीपः -
’अस्मिन्नगोत्तमे पुण्ये कति तीर्थानि सन्ति हि ?
तेषां सङ्ख्यां च मे ब्रूहि कति मुख्यानि तत्र वै ? ॥१
तत्राप्यत्यन्तमुख्यानि वद मे मुनिसत्तम !
सद्धर्मरतिदान्यत्र कति सङ्ख्यान्वितानि च ॥२
कति च ज्ञानदान्यत्र भक्तिवैराग्यदानि च
मुक्तिप्रदानि कान्यत्र तानि मे वद सुव्रत ! ? ॥३
दुर्वासाः -
षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे
अष्टोत्तरसहस्रं तु तेषु मुख्यानि सुव्रत ! ॥४
तीर्थानि सम्मतानीह सद्धर्मरतिदानि वै
अष्टोत्तरसहस्राच्च मुख्यतीर्थानि वै ततः ॥५
सद्विज्ञानप्रदान्यत्र तीर्थान्यष्टोत्तरं शतम्
तस्माच्चाष्टोत्तरशतं मुख्यतीर्थानि भूपते ॥६
भक्तिवैराग्यदान्यत्र षष्टिमष्टोत्तरां विदुः
मुक्तिदान्यत्र सप्तैव मुक्तिदान्यत्र ते ब्रुवे ॥७
(१)स्वामिपुष्करिणी चैव (२) वियद्गङ्गा ततः परम्
पश्चात् (३) पापविनाशं च (४) पाण्डुतीर्थं ततः परम् ॥८
[[1819]]
श्री ब्रह्मपुराणे चतुरोऽध्यायः
(५) कुमारधारिकातीर्थं (६) तुम्बोस्तीर्थं ततः परम्
(७) कृष्णतीर्थमिति ख्यातं सर्वपापहरं शुभम् ॥९
तत्र स्नान्ति च ये मर्त्याः ते यान्ति परमं पदम्
वर्षे वर्षे च तीर्थानां सप्तानां पर्वतोत्तमे ॥१०
तिथिनक्षत्रयोगेन सर्वतीर्थसमागमः
तं च कालं प्रवक्ष्यामि समाहितमना भव ॥११
मकरस्थे रवौ राजन् ! पौर्णमास्यां महातिथौ
पुष्यनक्षत्रयुक्तायां स्नानकालो विधीयते ॥१२
तद्दिने स्नाति यो मर्त्यः कृष्णतीर्थे महामतिः
सर्वपापविनिर्मुक्तः सर्वकामान् लभेत सः ॥१३
कुम्भमासे पौर्णमास्यां मघायोगो यदा भवेत्
कुमारधारिकां यान्ति सर्वतीर्थानि वै तदा ॥१४
तत्र यः स्नाति राजेन्द्र ! राजसूयफलं लभेत्
पुत्रो विजायते तस्य तस्मिन्नेव हि जन्मनि ॥१५
मुक्तिश्च भविता तत्र नात्र कार्या विचारणा
कुमारधारिकायां च सार्धं दक्षिणया विभो ॥१६
अन्नदानं च कर्तव्यं पितॄनुद्दिश्य यत्नतः
युक्ते चोत्तरफल्गुन्या शुक्लपक्षीयपर्वणि ॥१७
तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः
अपराह्णे समायान्ति तत्र स्नात्वा न जायते ॥१८
विवाहमौञ्जीबन्धौ च कारयेद् द्रव्यदानतः
मेषसङ्क्रमणे भानौ संयुतायां तु चित्रया ॥१९
पौर्णमास्यां समायान्ति वियद्गङ्गां तथैव च
तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत् ॥२०
सुवर्णदानं कर्तव्यं कन्यादानं विशेषतः
वृषभस्थे रवौ राजन् ! द्वादश्यां रविवासरे ॥२१
शुक्ले वाऽप्यथवा कृष्णे भौमस्यापि च वासरे
पाण्डुतीर्थं समायान्ति गङ्गादीनि जगत्त्रये ॥२२
तत्र स्नात्वा च गां दत्त्वा मुच्यते प्रतिबन्धकात्
कालस्तु सङ्गवस्तत्र ऋषिभिः परिकीर्तितः ॥२३
आश्विने शुक्लपक्षे तु भानुवारेण सप्तमी
योत्तराषाढया युक्ता तस्यां पापविनाशने ॥२४
प्राप्तायामुत्तराभाद्रां द्वादश्यां वा समागतः
तदा पापविनाशाख्ये स्नातुर्मुक्तिर्भविष्यति ॥२५
सालग्रामशिलां दत्त्वा स्नात्वा च विधिपूर्वकम्
मुच्यते सर्वपापैश्च जन्मकोटिशतोद्भवैः ॥२६
धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये
आयान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले ॥२७
तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः
येन जन्मसहस्रेषु पुण्यमेवार्जितं पुरा ॥२८
तस्य स्नानं तत्र भवेत् नान्यस्यासुकृताऽत्मनः
तत्र स्नानं सकृद्यस्य जन्मकोटिशतेषु सः ॥२९
गङ्गादिसर्वतीर्थेषु स्नातो भवति मानवः
विभवानुगुणं दानं कार्यं तत्र यथाविधि ॥३०
[[2021]]
श्री ब्रह्मपुराणे चतुरोऽध्यायः
सालग्रामशिलां चान्नं गां च दद्याद्विशेषतः
भूमिं दद्यात्प्रयत्नेन ब्रह्मलोकजिगीषया ॥३१
पितॄनुद्दिश्य दातव्यं श्राद्धाद्यं तत् क्षणेन वै
अरुणोदयमारभ्य तत्र षड्घटिकाऽवधि
सङ्गमः सर्वतीर्थानां तत्र पुण्यमनन्तकम् ॥३२
इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्मे्य मुक्तिप्रद
स्वामिपुष्करिण्यादिसप्ततीर्थमहिमानुवर्णनं नाम
चतुर्थोऽध्यायः
—–ठ्—–
पञ्चमोऽध्यायः
अथ पञ्चमोऽध्यायः
—–ठ्—–
श्री वेङ्कटाचलस्थाष्टषष्टितीर्थमहिमानुवर्णनम्
दिलीपः -
भक्तिवैराग्यदानां तीर्थानां नामवैभवम्
श्रोतुमिच्छामि चाऽत्रेय ! प्राप्तानां चाष्टषष्टिताम् ॥१
दुर्वासाः -
भक्तिवैराग्यदं पुण्यं सद्यः पापविनाशनम्
तीर्थानामष्टषष्टेस्तु तव वक्ष्यामि वैभवम् ॥२
तीर्थानां चात्र पुण्यानां नामसङ्कीर्तनान्नृणाम्
सद्य एव महापापकोटीनां च क्षयो भवेत् ॥३
किमु स्नानादिसत्कर्मनिरतानां महात्मनाम्
तानि क्रमेण वक्ष्यामि समाहितमना भव ॥४
देवस्य पूर्वदिग्भागे तत्रैवाग्नेयकोणके
चक्रतीर्थमिति ख्यातं चक्रेणाधिष्ठितं पुरा ॥५
तस्योपरि तदाख्यातं वज्रतीर्थं मनोहरम्
वैष्वक्सेनं तथा तीर्थं शक्रपापहरं परम् ॥६
ततः पञ्चायुधं तीर्थं तन्मध्ये च हलायुधम्
तत ऐशान्यभागे तु नारसिंहं मनोहरम् ॥७
ततः काश्यपतीर्थं च मान्मथं तु ततः परम्
ब्रह्मतीर्थं चाग्नितीर्थं गौतमं तु ततः परम् ॥८
[[2223]]
श्री ब्रह्मपुराणे पञ्चमोऽध्यायः
दैवतीर्थं देवलं च वैश्वामित्रमतः परम्
भार्गवस्तु तथा तीर्थं आष्टावक्रमतः परम् ॥९
दुरारोहणतीर्थं तत् आग्नेय्यामस्ति वै दिशि
ऐशान्यां भैरवं तीर्थं पिशाचानां विमोचनम् ॥१०
मेहतीर्थमिति ख्यातं उदरव्याधिनाशनम्
क्षेत्रपालशिलातीर्थे पश्चिमे पाण्डवं तथा ॥११
वायुतीर्थं तथा पुण्यं सेवितं भूरि वायुना
अस्थितीर्थं महापुण्यं मृतास्थिक्षेपणादिह ॥१२
पूर्वदेहसमायुक्ताः पुनर्जीवन्ति जन्तवः
मार्कण्डेयं तथा तीर्थं स्नानादायुष्यवर्धनम् ॥१३
तथा जाबालितीर्थं च वालखिल्यमतः परम्
ततो ज्वरहरं तीर्थं सर्वज्वरनिवारणम् ॥१४
ततो विषहरं तीर्थं आस्तिकेन विनिर्मितम्
तक्षकेणापि सन्दष्टः स्नानेनैवेह निर्विषः ॥१५
लक्ष्मीतीर्थं ततः पश्चात् पूर्वस्यां दिशि संस्थितम्
वायव्यां दिशि तीर्थानि चोत्तरस्यां तथैव च ॥१६
ऋषितीर्थं महापुण्यं शतानन्दसुतीक्ष्णकम्
वैभाण्डकं महापुण्यं बिल्वतीर्थमतः परम् ॥१७
अधस्ताद्विष्णुतीर्थं च पुण्यं मारुतिनिर्मितम्
सर्वतीर्थमिति ख्यातं शारभं तु ततः परम् ॥१८
ततो वायव्यदेशे तु ब्रह्मतीर्थं मनोहरम्
अश्वमेधेन यत्रेजे भगवन्तं सनातनम् ॥१९
अधस्तादिन्द्रतीर्थं तु भारद्वाजमतः परम्
ततस्त्वम्बरगङ्गाख्यं ततः प्राचेतसं तथा ॥२०
ततः पापविनाशं च तीर्थं सारस्वतं तथा
यत्र पापानि सर्वाणि क्षालितानि च सर्वशः ॥२१
तोये च श्वेततां यान्ति जनानां पापकारिणाम्
कुमारधारिका नाम वायव्यां दिशि वर्तते ॥२२
अधस्ताद्गजतीर्थं तु ऋष्यशृङ्गमतः परम्
ततस्तुम्बुरुतीर्थं च नारदाद्यैश्च सेवितम् ॥२३
तन्मध्येऽष्टादशं तीर्थं सर्वपापविनाशनम्
दशावतारतीर्थं च हालायुधमतः परम् ॥२४
ततः सप्तर्षितीर्थं च गजकोणमतः परम्
वैष्वक्सेनं तथा तीर्थं पश्चिमे तु विराजितम् ॥२५
पश्चाद्युद्धसरस्तीर्थं विष्वक्सेनजयावहम्
इति मुख्यानि तीर्थानि महापातकसङ्क्षये२६
इति श्रीब्रह्मपुराणे श्री वेङ्कटाचलमाहात्म्ये भक्तिवैराग्यप्रद
अष्टषष्टितीर्थनामवैभववर्णनं नाम पञ्चमोऽध्यायः
—–ठ्—–
[[2425]]
श्री ब्रह्मपुराणे पञ्चमोऽध्यायः
षष्ठोऽध्यायः
अथ षष्ठोऽध्यायः
—–ठ्—–
मन्वाद्यष्टोत्तरशततीर्थनामानि
दुर्वासाः -
मन्विन्द्रवसुसञ्ज्ञानि रुद्रादित्याह्वयानि च
नवप्रजेशसञ्ज्ञानि ह्याश्विनं शुक्रसञ्ज्ञितम् ॥१
वारुणं जाह्नवीतीर्थं कापेयं काण्वमेव च
आग्नेयं नारदं तीर्थं सोमतीर्थं च भार्गवम् ॥२
धर्मतीर्थं यज्ञतीर्थं पशुतीर्थं गणेश्वरम्
भौमाश्वं पारिभद्रं च जगज्जाड्यहरं परम् ॥३
विश्वकल्लोलतीर्थञ्च तीर्थं यमविनिर्मितम्
बारछस्वत्यं रोमहर्षं अजामोदं जनेश्वरम् ॥४
इष्टसिद्धिः कर्मसिद्थिः दशप्राचेतसं तथा ॥५
गारुडं शेषतीर्थं च वासुकिर्विष्णुवर्धनम्
कर्मकाण्डं पुण्यवृद्धिः ऋणमोचनमेव च ॥६
पार्जन्यं मेघतीर्थं च यत्र नित्यप्रवर्षणम्
साङ्कर्षणं वासुदेवं नारायणमतः परम् ॥७
देवतीर्थं यक्षतीर्थं कालतीर्थं च गोमुखम्
प्राद्युम्नमानिरुद्धं च पितृतीर्थमतः परम् ॥८
आर्षेयं वैश्वदेवं च स्वधास्वाहाविनिर्मिते
अस्थितीर्थं चाऽञ्जनेयं शुद्धोदकमतः परम् ॥९
अष्टभैरवतीर्थं च शतमष्टोत्तरं त्विदम्
तीर्थजातमिदं नॄणां ज्ञानप्रदमनुत्तमम् ॥१०
तीर्थान्यष्टोत्तरशतं सन्ति नैर्ऋतकोणके
दक्षपुत्रसहस्रेण यत्र तप्तं महत्तपः ॥११
नारदस्योपदेशेन यच्च तैरेव निर्मितम्
अस्ति तीर्थसहस्रं तत् सद्यः सिद्धिप्रदायकम् ॥१२
काश्यपाश्रममारभ्य ह्यर्धयोजनमध्यतः
कुमारधारिकातीर्थात् पश्चिमे संस्थितं च तत्
साष्टभैरवतीर्थं तत् कर्मसिद्धिप्रदं नृणाम् ॥१३
इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये मन्वाद्यष्टोत्तरशत-
तीर्थनामानुवर्णनं नाम षष्ठोऽध्यायः
—–ठ्—–
[[2627]]
श्री ब्रह्मपुराणे षषोऽध्यायः
सप्तमोऽध्यायः
अथ सप्तमोऽध्यायः
—–ठ्—–
तॊण्डमान्नामकनृपोत्पत्तिक्रमः
दिलीपः -
’केन नाम्ना प्रसिद्धोऽसौ भगवान् हरिरीश्वरः ?
किंलक्षणश्च तत्राऽऽस्ते ? तन्मे ब्रूहि तपोधन ! ॥१
दुर्वासाः -
श्रीनिवासाख्यया देवः शङ्खचक्रधरो विभुः !
शान्तभावं समापन्नो मृगयोद्दामलोचनः ॥२
कटिं स्पृशन् वामकरात् वरमुद्रां च दक्षिणात्
तिरोहितरमाभूभ्यां दृश्यते मृगयुर्यथा ॥३
नीलजीमूतसङ्काशः पीतकौशेयशोभितः
पीनवृत्तबृहद्बाहुः सुनासश्चारुलोचनः ॥४
दोषगन्धविदूरश्च गुणसान्द्रः सुखोचितः
कोटिकन्दर्पलावण्यः स्फुरन्मकरकुण्डलः ॥५
बृहद्वक्षःस्थलावास महालक्ष्म्या च शोभितः
तत्तदिष्टतमं कामं ददद्भक्तानुकम्पया ॥६
दर्शयन् भक्तवात्सल्यं यो ददौ हस्तगे शुभे
शङ्खचक्रे नृषेन्द्राय ’’चक्रवर्ती’’ति यं विदुः ॥७
अत एवारिशङ्खाभ्यां दृश्येते रहितौ करौ
अर्चारूपशिलारूपविग्रहस्य महात्मनः ॥८
दिलीपः-
’कोऽयं नृपश्चक्रवर्ती किम्पूर्वः सुचिरादभूत्
इदानीं वर्तते क्वायं का वाऽभूद्विपदस्य वै ॥९
यदर्थं देवदेवेन शङ्खचक्रे प्रसादिते
ब्रूहि विस्तरतो ब्रह्मन् ! श्रोतुं कौतूहलं हि मे’ ॥१०
दुर्वासाः-
पुरा कश्चिद्द्विजवरः आसीद्वैखानसो नृप !
कृष्णक्षेत्रे चोलदेशे या हरिद्रा नदी शुभा ॥११
तत्तीरे वर्तते प्रीत्या हरिर्गोपालवेषवान्
तप्ते तपसि चोलेन ’धृतवर्मा’ ऽभिधेन च ॥१२
गोपालकृष्णरूपस्य दर्शनार्थं कलौ युगे
पञ्चविंशे तु यो भूमौ पुरा वैवस्वतेऽन्तरे ॥१३
भविष्य(भावि) कृष्णावतारस्य कथां श्रुत्वाऽतिकौतुकात्
तदानीमेव तद्रूपदर्शनाह्लादकामतः ॥१४
नित्यत्वात्स्वयरूपाणां तथा प्रत्यक्षतां गतः
वैखानसो द्विजस्तत्र तपसा तमतोषयत् ॥१५
मुक्त्यर्थं प्रीतिमान् विष्णौ तस्य स्वप्ने हरिः स्वयम्
’’त्वया ध्येयः श्रीनिवासो नाहं ध्येयो द्विजोत्तम ! ॥१६
यो योग्यो यस्य जीवस्य तेन ध्येयः स एव हि
योग्योपासनया जीवा मुक्तिं यान्ति न संशयः ॥१७
अभिधा श्रीनिवासस्य तव योग्या द्विजोत्तम
वेङ्कटाद्रिं ततो गच्छ श्रीनिवासः स्वयं हरिः ॥१८
[[2829]]
श्री ब्रह्मपुराणे सप्तमोऽध्यायः
स्वामिपुष्करिणीतीरे रमया सह मोदते’’
इत्याह भगवान् कृष्णः पुनः स्वप्नान्तरेऽवदत् ॥१९
’’पुरा कृतयुगे पश्चात्भागे शङ्खेन वै कृतम्
विमानं कल्पप्रलये नष्टप्रायमभूद्द्विज ! ॥२०
वल्मीकस्यान्तरे विष्णोः प्रतिमा वर्तते शुभा
शङ्खेन निर्मिता पुण्या सर्वपापहराऽमला ॥२१
जानुमात्रे निमग्ना हि तिन्त्रिणीवृक्षमूलतः
धनुर्द्वयान्तरे पुण्यं भूतीर्थं वर्तते शुभम् ॥२२
पाकार्थं देवदेवस्य भूम्या वै निर्मितं पुरा
तत्राऽस्ते गौतमी धेनुः सिञ्चको पयसा विभुम् ॥२३
चिञ्चावृक्षस्य वायव्ये भूतीर्थे वासमीयुषि
युगान्तप्रलये धेन्वा पूजितो वर्तते विभुः ॥२४
दासनाम्ना च शूद्रेण सह तं पूजय प्रभुम्
त्वदागमनकाले तु पाण्ड्यदेशात्सुधीः शुभः ॥२५
’’रङ्गदास’’ इति ख्यातः शूद्रस्त्वां सङ्गमिष्यते
उभाभ्यां पूजितो देवः इषसिद्धिं प्रयच्छति’’ ॥२६
एतावदुक्त्वा स्वप्ने तु ’’गोपीनाथे’’ति नाम च
ददौ तस्य प्रियं विष्णुः सोऽतिबुद्ध्वाऽतिविस्मितः ॥२७
प्रीत्या जगाम शैलेन्द्रं वेङ्कटाख्यं स्वसिद्धये
गिरिप्रवेशकाले तु रङ्गदासः समागमत् ॥२८
पुष्पोद्यानकरः शूद्रः पूजकश्च द्विजोत्तमः
तिन्त्रिणीवृक्षमूलस्थ वल्मीकस्थं हरिं वरम् ॥२९
उद्धृत्य पश्चिमे भागे स्थापयामासतुश्च तौ
सुलाशिल्पिकौशलाभिश्च शि(अ)भिर्भित्तिमञ्जसा ॥३०
कृत्वा तदन्तरे रम्यं तृणैः कृत्वा च मण्डपम्
तन्मध्ये देवदेवस्य परिचर्यां च चक्रतुः ॥३१
भूस्वामिपुष्करिण्योश्च मध्ये क्रीडास्पदं हरेः
पुष्पोद्यानं चकारासौ शूद्रो भागवतोत्तमः ॥३२
उपाहृत्य च पुष्पाणि त्रिकालेऽपि च दामकृत्
पूजाकाले विप्रहस्ते प्रत्यहं च समर्पयत् ॥३३
पश्यन्तौ तावुभौ पुण्यौ प्रत्यहं च दिवौकसाम्
पूजाभिकाङ्क्षिणां सङ्घं विस्मयं जग्मतुः परम् ॥३४
वन्यैः फलैश्च पुष्पैश्च कन्दमूलादिभिश्च तौ
सपर्यां चक्रतुः सम्यक् भक्त्युद्रिक्तसुखान्वितौ ॥३५
ततः कालान्तरे कश्चित् गन्धर्वो नाम कुण्डलः
दिव्यं विमानमारुह्य सस्त्रीको गिरिगह्वरे ॥३६
स्वामिपुष्करिणीतीरे देवं दृष्ट्वाभिपूज्य च
तत उत्तरदेशे तु मनोरम्ये वनान्तरे ॥३७
नानाविलासभावाभिः रेमे रामाभिरञ्जसा
तं दृष्ट्वा रङ्गदासोऽपि पञ्चबाणशरार्दितः ॥३८
निरीक्ष्य कुञ्जे लीनः सन् रेतः सद्यो विमुक्तवान्
पश्चाद्गतमदो भूत्वा मनसैवातिशङ्कितः ॥३९
तदोपहृतपुष्पाणि विसृज्याधिगतत्रपः
शुद्धिकामो ममज्जाथ स्वामिपुष्करिणीजले ॥४०
[[3031]]
श्री ब्रह्मपुराणे सप्तमोऽध्यायः
पुनराहृत्य पुष्पाणि तान्यादायाऽलयं ययौ
गोपीनाथोऽपि तं दृष्ट्वा प्राह स्माऽताव्रुलोचनः ॥४१
’पूजाकालो गतः क्वाद्य गतोऽसि गतसंस्मृतिः
किं ते विलम्बहेतुस्तु क्वावात्सीः कथ्यता’ मिति ॥४२
गोपीनाथेनैवमुक्तो रङ्गदासोऽतिलज्जया
न प्रत्युवाच तं विप्रं तदाऽवनतकन्धरः ॥४३
पुनः पुनः कृते प्रश्ने तस्मिंस्तूष्णीं स्थितेऽपि च
आकाशवाणी तं प्राह ’’शृणु शूद्रे’’ति सादरम् ॥४४
’’कामेन व्याकुलं चित्तं नैव स्वास्थ्यं गमिष्यति
अस्वस्थचित्तो न क्वा पि सिद्धिमेति न संशयः ॥४५
तस्माद्विसृज्य कायं त्वं व्रज देहान्तरं शुभम्
तस्मिन् नृपोत्तमो भूत्वा जीर्णमेतं ममाऽऽलयम् ॥४६
गोपुराद्यैः शुभैः पूर्णं मण्डपैरद्भुतैरपि
शोभमानं नवं कुर्याः तेन ते भविता गतिः ॥४७
तदा नारीसहस्राणि भोक्ष्यसे त्वं न संशयः
भुक्त्वा भोगाननेकांश्च मत्पादाऽऽसक्तचेतसः ॥४८
तस्मिन् जन्मनि ते शत्रुपीडा चैव भविष्यति
तदा तव जयार्थाय चक्रशङ्खौ जयावहौ ॥४९
दास्यामि चान्ते मुक्तिं च सकुलस्य न संशयः’’
इत्युक्त्वाऽऽकाशवाणी तु विरराम ततः परम् ॥५०
रङ्गदासो निराहारः क्रमात्त्यक्तकलेबरः
नारायणपुरे जज्ञे ’’चक्रवर्ती’’ति नामतः ॥५१
’’तॊण्डमा’’निति तं प्राहुः द्राविडा द्रविडेश्वरम्
जन्मप्रभृति दासः सन् सदा विष्णुपरायणः ॥५२
मण्डलाधिपतिर्भूत्वा दिव्यनारीसहस्रभुक्
प्रत्यहं च बिलद्वारात् गत्वा वेङ्कटपर्वतम् ॥५३
श्रीवेङ्कटाद्रौ तॊण्डमान्नृपकृतगोपुरादिक्रमः
अन्वहं च करोति स्म पूजां तस्य महात्मनः
भक्त्युद्रिक्तमना भूत्वा ददौ ग्रामाननेकशः ॥५४
प्राकारद्वयसंयुक्तं गोपुरद्वयसंयुतम्
गर्भागारसमायुक्तं अकरोद्दिव्यमालयम् ॥५५
तथा महानसागारं यागमण्डपमेव च
धान्यागारं च गोशालां यद्यदङ्गं हरेः शुभम् ॥५६
कारयामास तत्सर्वं अष्टाविंशे कलौ युगे
तथोत्सवविधिं तस्य कारयामास वै द्विजैः ॥५७
भूषणानि ददौ तस्य नानारत्नाञ्चितानि च
स्थिते कदाचित्क्षितिपे श्रीनिवासस्य सन्निधौ ॥५८
तॊण्डमान्नृपस्य भगवद्दत्तचक्राद्यायुधप्राप्तिः
शत्रवश्च बलोद्रिक्ता रुरुधुस्तस्य वै पुरीम्
श्रुत्वा बलार्णवं फेूरं आयान्तं नातिशङ्कितः ॥५९
[[3233]]
श्री ब्रह्मपुराणे सप्तमोऽध्यायः
योद्धुकामो जगामाथ पुनस्तैश्च पराजितः
ततः खिन्नमना भूत्वा तमेव शरणं ययौ ॥६०
बिलद्वारेण देवेशं गत्वा पादौ प्रगृह्य च
रुरोद ’’त्राहि त्राही’’ति तं प्राहार्चास्वरूपवान् ॥६१
’’मा भैषीः पुत्र ! भद्रं ते चक्रशङ्खौ ददामि ते
ताभ्यां गच्छ पुरीं दिव्यां तौ ते शत्रून् हनिष्यतः’’ ॥६२
इत्युक्त्वा तौ ददौ तस्मै ताभ्यां सह जगाम सः
तौ च शत्रून्निहत्याशु कृत्वा राज्यमकण्टकम् ॥६३
आजग्मतुः क्षितिभृता साकं देवस्य सन्निधौ
राजा देवं ववन्देऽथ स्तुत्वा स्तोत्रैरनेकशः ॥६४
बिम्बादौ शङ्खचक्राभावे कारणवर्णनम्
’’वरं वरय भद्रे’’ति देवो राजानमब्रवीत्
राजा -
मयाऽऽयुधप्रदानस्य ख्यात्यै’ देवोत्तम प्रभो ! ॥६५
अर्चाबिम्बे शिलाबिम्बे चक्रशङ्खौ न धारय’’
इति सम्प्रार्थितो देवो न दधार पुनश्च तौ ॥६६
अदृश्यौ तिष्ठतश्चोभौ पार्श्वतः शार्ङ्गधन्वनः
इत्येतत्कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ
सकारणं चक्रदानं किमन्यच्छ्रोतुमिच्छसि’ ॥६७
इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये तॊण्डमान्नामक
नृपोत्पत्ति भगवद्दत्तशङ्खचक्रधारणप्राप्त्यादि वर्णनं
नाम सप्तमोऽध्यायः
—–ठ्—–
अष्टमोऽध्यायः
अथ अष्टमोऽध्यायः
—–ठ्—–
श्री वराहस्य स्वामितीर्थवायव्यभागस्थितिवर्णनम्
दिलीपः -
’स्थितानि स्वामिसरसि तीर्थानि मुनिपुङ्गव !
कति तानि च पुण्यानि नामधेयानि कानि च ॥१
का देवता ? किं फलं च ? वद विस्तरतो मुने !’
दुर्वासाः -
तीर्थानामुत्तमं तीर्थं स्वामिपुष्करिणी शुभम् ॥२
स्मर्तव्या सर्वतीर्थेषु गङ्गेवाघापहारिणी
तस्या वायव्यभागे तु वाराहं तीर्थमुत्तमम् ॥३
यदाहृतं काश्यपेन भूतलं ब्रह्मणा तदा
संस्तुतो भगवान्विष्णुः भूम्युद्धरणमिच्छता ॥४
तन्नासापुटसम्भूतः किटिः पोत्री महाबलः
गत्वा रसातलं हत्वा हिरण्याक्षं महाबलम् ॥५
उज्जहार क्षितिं दंष्ट्राकोट्या च पुरुषोत्तमः
तद्रूपं लोकरक्षार्थं स्थापितं वेङ्कटाचले ॥६
स्वामिपुष्करिणीतीरे ब्रह्मणा परमेष्ठिना
जलाधिवासनं तस्य वायव्येऽस्यां चकार सः ॥७
ब्रह्मप्रार्थनया श्रीनिवासाभ्युपगतप्राथमिकवराहसेवाक्रमः
ममज्जाथ प्रतिष्ठान्ते देवर्षिपितृभिः सह
उवाच वचनं चेदं सर्वलोकस्य पश्यतः ॥८
[[3435]]
श्री ब्रह्मपुराणे अष्टमोऽध्यायः
’वराहतीर्थनाम्ना च भागोऽयं प्रथितो भवेत्
योऽत्राऽऽयाति हरिं सोऽत्र नास्नात्वैवाऽशुचिर्नमेत् ॥९
वराहदर्शनात्पूर्वं श्रीनिवासं नमेन्न च
दर्शनात्प्राग्वराहस्य श्रीनिवासो न तृप्यति’ ॥१०
इति कृत्वा व्यवस्थां स परमेष्ठी पितामहः
दृष्ट्वाऽथ श्रीनिवासं च स्तुत्वा च विविधैः स्तवैः ॥११
पादौ प्रगृह्य देवस्य ययाचे वरमुत्तमम्
’मत्थ्सापितवराहस्य पूर्वं स्यात्पूजनं हरे ! ॥१२
’तथाऽस्त्वि’ति वरं दत्त्वा कारयामास तत्तथा
तस्मात्पुण्यतमं तीर्थं वायव्यां दिशि संस्थितम् ॥१३
निषादकृतवराहदर्शनप्रकारः
पुनर्युगान्तसमये नष्टे देवालयेऽपि च
निषादोऽभूद्गिरिवरे श्यामाकाऽवापकः शुचिः ॥१४
आर्द्रीभूतः स श्यामाकतण्डुलं प्रत्यहं नृप
वैखानसे द्विजवरे दत्त्वा पाकं विधाय च ॥१५
दापयित्वा च नैवेद्यं स्वयं भुङ्क्ते तदेव च
कदाचित्तण्डुलं कृत्वा दत्त्वा पुत्रवशे त्वगात्
वनाद्वनान्तरं व्याधो मध्वन्वेषणतत्परः ॥१६
तस्मिन्नेवान्तरे पुत्रः क्षुधया परिपीडितः
कृत्वा श्यामाकपक्वान्नं मनसा विष्णवेऽर्पयत् ॥१७
अभुङ्क्ताथ पिताऽप्यागात् मधुच्छत्रं प्रगृह्य च
’श्रीनिवासस्य नैवेद्यं तण्डुलं देहि पुत्रक !’ ॥१८
पित्रेत्युक्तः सुतः प्राह ’ताताहं क्षुधयाऽर्दितः
तान् पक्त्वा भुक्तवानस्मि विष्णवे मनसाऽर्पयन्’ ॥१९
इत्युक्तवति पुत्रे स तच्छ्रुत्वा क्रोधमूर्छितः
प्रायश्चित्तं चिकीर्षुः सन् करवालमथाऽऽददे ॥२०
शिरश्छेत्तुं स्वपुत्रस्य तदा वल्मीकगः किटिः
प्रगृह्य तरसा खड्गं तं निषादमुवाच ह ॥२१
’नापराधोऽस्ति ते पुत्रे यतोऽन्नं चार्पितं मम
त्वत्तोऽप्यधिकभक्तोऽयं भक्त्या तदहमद्मि वै’ ॥२२
इत्युक्तो विह्वलः पश्चात् ददर्शाद्भुतकर्म तत्
पुनर्विमृश्य तद्रूपं बहुधा न च दृष्टवान् ॥२३
तमेव द्रष्टुकामः स निषादोऽन्नविवर्जितः
वने चचार धर्मात्मा तदा कोलं महाद्भुतम् ॥२४
श्यामाकवनमध्यस्थं श्यामाकाङ्कुरभक्षणम्
कुर्वन्तं श्वेतमुद्वीक्ष्य तं हन्तुं चान्वगाद्रुषा ॥२५
सोऽपि नानावनोद्देशान् चारयित्वा पुनः क्रमात्
प्रविवेश स्ववल्मीकं स्वामिपुष्करिणीतटे ॥२६
’अयमेव विभुर्विष्णुः’ इति ज्ञात्वा ययौ द्रुतम्
वल्मीकं परया भक्त्या जगौ प्राकृतया गिरा ॥२७
[[3637]]
श्री ब्रह्मपुराणे अष्टमोऽध्यायः
तदा वल्मीकगः प्राह हरिरेवं मृगान्तकम्
’नाहं दृश्योऽस्मि ते पुत्र ! सच्चिदानन्दविग्रहः ॥२८
किन्तु वक्ष्यामि ते पुत्र ! ब्रह्मणा स्थापितं पुरा
शिलारूपं च वल्मीके वर्तते तत्समुद्धर ॥२९
विमानं कारयित्वा च तस्य पुष्करिणीतटे
ब्राह्मणैश्च विधानज्ञैः पूजां कारय मे विभोः ॥३०
इत्युक्तमात्रेण निषादवर्यो
वल्मीकगं विष्णुमथोज्जहार ।
वायव्यभागे च विमानवर्यं
विधापयामास विधानकोविदैः (वित्तमैः) ॥३१
स्वामितीर्थमध्यगतधनदादिनवतीर्थवर्णनम्
ततो निषादं तं प्राह किटिरूपी हरिः स्वयम्
पूर्वं सेव्यं विमानं मे तीर्थं च श्रीनिवासतः
ततःप्रभृति तत्तीर्थं पूर्वं सेव्यं बभूव ह ॥३२
उत्तरे धनदं तीर्थं धनदेन विनिर्मितम्
यत्र स्नात्वाऽघनिर्मुक्तो धनसम्पदमाप्नुयात् ॥३३
ऐशान्यां गालवं तीर्थं गालवेन विनिर्मितम्
तत्र स्नात्वा च पीत्वा च भुक्तिं मुक्तिं च विन्दति ॥३४
मार्कण्डेयं पूर्वभागे मार्कण्डेयविनिर्मितम्
तत्र स्नान्ति नरा ये तु तेषामायुः प्रवर्धते ॥३५
अग्निना निर्मितं तीर्थमाग्नेय्यां पापमोचनम्
दक्षिणे यमतीर्थं तु नरकोत्तारकारणम् ॥३६
वसिष्ठनिर्मितं तीर्थं राक्षसं त्वृणमोचनम्
वारुणे वायुतीर्थं च सद्यः कैवल्यदायकम् ॥३७
मध्ये सरस्वतीतीर्थं महापातकनाशनम्
य एषु नवतीर्थेषु स्नानमेकदिने नरः ॥३८
कृत्वा पश्येच्छ्रीनिवासं न पुनर्जायते तु सः
स्वामिपुष्करिणीस्नानं श्रीनिवासस्य दर्शनम् ॥३९
सहस्रनामपठनं नाल्पस्य तपसः फलम्
अस्नातुर्नवतीर्थे तु वराहं चाप्यपश्यतः ॥४०
सर्वं निष्फलतां याति श्रीनिवासो न तुष्यति
फलं धर्मादिकं चैव न यच्छति नृणां विभुः ॥४१
तत्तत्प्रशंसिनीं दिव्यां कथां न शृणुयाद्यदि
तीर्थयात्रा च विफला भस्मन्येव हुतं यथा
तस्मात्कुरु महाभाग ! कथायाः श्रवणं सदा ॥४२
इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवराहाविर्भाव
स्वामि पुष्करिणीगततीर्थमाहात्म्यवर्णनं नाम अष्टमोऽध्यायः
—–ठ्—–
[[3839]]
श्री ब्रह्मपुराणे अष्टमोऽध्यायः
नवमोऽध्यायः
अथ नवमोऽध्यायः
—–ठ्—–
श्रीवेङ्कटाद्रिगतपुण्यतीर्थस्नानप्रशंसा
दिलीपः -
को विधिस्तीर्थयात्रायां ! कः कालः ! किं फलं ! भवेत्
एतद्विस्तार्य मे ब्रूहि तृप्तिर्नाद्यापि जायते ॥१
दुर्वासाः -
भुवि जन्म समासाद्य संस्कारैरपि संस्कृतः
अधीतविद्यो बाल्ये च स्नातकव्रतनिष्ठितः ॥२
तीर्थयात्रां प्रकुर्वीत शास्त्राणां प्रत्ययाय च
नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम् ॥३
तत्र नैमित्तिकं प्राहुः तीर्थयात्रां महत्तमाः
नाविद्यस्याधिकारोऽत्र विद्याविधिरनुत्तमाः ॥४
न तीर्थयात्रां कुर्वीत मनीषी मनने रतः
यात्रायां मननाभावात् चित्तविक्षेपहेतुतः ॥५
नरो विस्मृतविद्यत्वात् ज्ञानहीनो भवेत्स्वयम्
नष्टसञ्ज्ञो विमार्गस्थो निरयं चाधिगच्छति ॥६
निरागमस्तु तीर्थस्य तथा चाकृतसत्क्रियः
न तत्फलमवाप्नोति श्रम एव हि केवलम् ॥७
सत्सङ्गी सत्कथां शृण्वन् सदाचारसमन्वितः
तीर्थयात्रां प्रकुर्वाणो ब्रह्मनिर्वाणमृच्छति ॥८
तीर्थयात्रापरो यस्तु विधिज्ञो विधिवित्तमैः
निर्धूताखिलपापः सन् स याति परमां गतिम् ॥९
काम्यं न कुर्वीत नरः कामाद्याज्जन्म चाश्नुते
जातः कर्माणि कुरुते कर्मणा च पुनर्जनिः ॥१०
ऐहिकामुष्मिकं सर्वं निष्कामो लभते फलम्
सर्वेषामेव जन्तूनां विद्यया मनने विधिः ॥११
अभ्यस्तानां च विद्यानां श्रवणान्मननादपि
परापरोक्षशास्त्रार्थप्रत्ययो लेशतो भवेत् ॥१२
दृष्टप्रत्ययशास्त्रार्थे पुनः श्रद्धाऽभिजायते
श्रद्धया जायते भक्तिः भक्त्या तुष्यति केशवः ॥१३
तीर्थयात्रां प्रकुर्वीत शास्त्रालापसमन्वितः
शास्त्रालापाच्च जानाति मनसा विभुमव्ययम् ॥१४
तथा देवाश्च ऋषयः सदालापसमन्विताः
उपासते सञ्जानाना भगवन्तमधोक्षजम् ॥१५
वसिष्ठाद्याश्च ऋषयो देवता अपि सर्वशः
तीर्थे कृताधिवासाश्च समाधिस्थाः परं ययुः ॥१६
अनागमस्तु यो मर्त्यो पश्चात् ज्ञातविधिस्तथा
न स्नानफलमाप्नोति काकमण्डकवत्तु सः ॥१७
अधीतविद्यः सुकृती कृतस्नानादिसत्क्रियः
शुद्धान्तरो ज्ञानवांश्च तेन मोक्षं च विन्दति ॥१८
सत्कर्मसन्ततिर्या तु ज्ञानविज्ञानसंयुता
अपरोक्षदृशा चापि भक्तिश्रद्धाविरक्तिभिः ॥१९
[[4041]]
श्री ब्रह्मपुराणे नवमोऽध्यायः
पुंसः कैवल्यदा सा हि क्रमेण सुकृतात्मनः
दृष्टश्रुतानुभावा ये देवाश्च ऋषयस्तथा
विशुद्ध्यर्थं प्रकुर्वन्ति सत्क्षेत्रस्यानुवर्तनम् ॥२०
भक्तिश्रद्धाविहीनानां मनुष्याणां तु का कथा !
लब्धविद्याधिकारश्च सत्सङ्गत्यागसंयुतः ॥२१
यः शृण्वन् श्रावयंश्चापि सतां सङ्गेन संयुतः
तीर्थवैभवमाकर्ण्य संयुक्तेनैव निर्वृतः ॥२२
तीर्थयात्रां प्रकुर्वीत भक्तिश्रद्धासमन्वितः
तेन निर्धूतपापः सन् स याति परमां गतिम् ॥२३
यत्र यत्र त्वया कार्या तीर्थयात्रा क्षितीश्वर !
तत्रानेन विधानेन प्रीणयस्व जनार्दनम् ॥२४
त्वदीयधनधान्यादीन् भक्त्या कुरु समर्पितान्
वेङ्कटेशस्य यात्रां वै कुरु नित्यमतन्द्रितः ॥२५
इति श्री ब्रह्मपुराणे श्री वेङ्कटाचलमाहात्मे्य तीर्थयात्राप्रकार
वर्णनं नाम नवमोऽध्यायः
—–ठ्—–
दशमोऽध्यायः
अथ दशमोऽध्यायः
—–ठ्—–
श्रीवेङ्कटाचलकर्तव्यमहादानप्रशंसा
दिलीपः -
कानि दानानि शस्तानि कर्तव्यानि महीधरे
प्रीतये श्रीनिवासस्य तानि मे वद सुव्रत ! ॥१
दुर्वासाः -
शृणु भूप ! प्रवक्ष्यामि कर्तव्यानि महीधरे
अन्नदानं पितृश्राद्धं द्वयमेव प्रशस्यते ॥२
सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः
ते यान्ति मोक्षममृतं वासोदा आयुरेव च ॥३
काङ्क्षन्ति पितरः सर्वे श्राद्धं वेङ्कटभूधरे
कृते श्राद्धे प्रहृष्यन्ति प्रयान्ति परमां गतिम् ॥४
यः कुर्यात् कपिलादानं प्रीतये श्रीपतेर्नृप !
लोमसङ्ख्याप्रमाणेन विष्णुलोके महीयते ॥५
यो दद्याद्देवभोगाय गां भूमिं भक्तिसंयुतः
स सद्यो मुक्तिमाप्नोति ज्ञानाज्ञानकृतादघात् ॥६
देवभोगाय यो दद्यात् गामनड्वाहमेव च
स मोक्षभोगमाप्नोति न पुनर्जायते भुवि ॥७
कर्पूरं चन्दनं शङ्खं यानि वै भूषणानि च
यो विष्णवे प्रदद्यात्स गुरुतल्पं व्यपोहति ॥८
गुरुभिर्भूषणैर्यस्तु पूजां कृत्वा जगत्पतेः
लिङ्गभङ्गमवाप्नोति स्वानुभूतिं च विन्दति ॥९
[[4243]]
श्री ब्रह्मपुराणे दशमोऽध्यायः
समस्तदेवपूजार्थं यो वै ग्रामान् प्रयच्छति
स याति परमां सिद्धिं निर्धूताखिलबन्धनः ॥१०
कन्याकोटेः प्रदानाद्यत् स्यादर्बुदगवां तथा
एकस्माद्रथनिर्माणात् विष्णोस्तत्फलमश्नुते ॥११
छत्रं च कनकं चैव व्यजनं चामरं स्रजम्
यो दद्याच्छ्रीपतेर्विष्णोः वेङ्कटाख्ये महीधरे ॥१२
आब्रह्मकल्पपर्यन्तं महीपालो भवेत् ध्रुवम्
पश्चान्मोक्षमवाप्नोति पितृपैतामहैर्वृतः ॥१३
यो दद्याद्गजमश्वं वा भुवनाधिपतेर्विभोः
स लोकपालतामेति नात्र कार्या विचारणा ॥१४
यद्यदिष्टतमं वस्तु दीयते मधुघातिनः
तेनाक्षयफलं प्राप्य मोदते विष्णुमन्दिरे ॥१५
फलं पात्रानुगुण्यात्स्यात् पात्रमत्र हरिः स्वयम्
अक्षय्यमिति किं ब्रूयात् ? यत्किञ्चिदपि मोक्षदम् ॥१६
तत्र पुण्यतमे काले श्रोत्रिये ब्राह्मणोत्तमे
यत्किञ्चिद्दीयते तत्तु वर्धते वटबीजवत् ॥१७
मुक्तिकामेन दातव्या कन्या पृथ्वी सरस्वती
न तासां सदृशं दानं त्रिषु लोकेषु विद्यते ॥१८
गीतवादित्रनृत्याद्यं यः कारयति मानवः
सद्य एव स मुच्येत महापातककोटिभिः ॥१९
कुर्याद्ध्वजपताकाभिः सपर्यां परमात्मनः
तेन धूताखिलाघः सन् स याति परमां गतिम् ॥२०
घण्टां ददाति यो मर्त्यो विष्णवे परमात्मने
दिव्यज्ञानमवाप्नोति प्रतिष्ठां चाधिगच्छति ॥२१
यः कुर्यादुत्सवं विष्णोः सध्वजैर्गरुडादिभिः
देवेन्द्रपदमाप्नोति मोक्षं चैवाधिगच्छति ॥२२
पञ्च पर्वाणि देवस्य यः कारयति मानवः
तस्यापराधसाहस्रं क्षमते नात्र संशयः ॥२३
इहापि भुक्त्वा भोगांश्च मोक्षं चैवाधिगच्चति
यः कारयति नैवेद्यं स्वादु षड्रससंयुतम् ॥२४
ऐहिकामुष्मिकांल्लोके सर्वान् कामानवाप्नुयात्
सहस्रनामभिः पूजां श्रीपतेः कारयेत्तु यः ॥२५
तेनैव सकला पूजा कृतैव स्यान्न संशयः
शारिकाशुकपूर्वांश्च विहङ्गान् मर्कटान् गुरून् ॥२६
सारङ्गान् गवयान् वन्यान् दत्त्वा स्वर्गमवाप्नुयात्
पुष्पोद्यानानि रम्याणि वनानि विविधानि च ॥२७
क्रीडास्पदानि हर्म्याणि यः करोति स मुच्यते
यः कुर्याद्दीपदानं तु नित्यं विष्णोश्च सन्निधौ ॥२८
ब्रह्महत्यासहस्राणि गुरुतल्पार्बुदानि च
तथास्य पापकोटीश्च निर्दहेत्सूर्यवद्धिमम् ॥२९
[[4445]]
श्री ब्रह्मपुराणे दशमोऽध्यायः
विष्णुवृद्धाख्यद्विजबन्धुवृत्तान्तः
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
श्रवणात्सर्वपापघ्नं सर्वमङ्गलदायकम् ॥३०
द्विजबन्धुः पुरा कश्चित् विष्णुवृद्धा (वर्धा)भिधो नरः
हत्वा स्वं गुरुमत्युग्रो देवस्वामीति यं विदुः ॥३१
दासवृत्त्या गृहे तिष्ठन् तस्य पत्नीसहस्रकम्
निवृत्तार्यपथो मूर्खो बुभुजे काममोहितः ॥३२
भूयान् कालोऽ त्ययात्तस्य प्रत्यहं पापवर्त्मनः
तेन दोषेण महता श्वेतकुष्ठ्यभ्यजायत ॥३३
अङ्गानि व्यग्रतां प्रापुः रोगोत्कृत्तानि खण्डशः
दरिद्रा गुरुपत्न्यस्ताः पातित्यात्यन्तदुःखिताः ॥३४
मदादैश्वर्यजाद्भुक्ता बलात्तेन तदाऽपि च
ततो लोकापवादाच्च गृहस्याप्यग्निदाहनात् ॥३५
अयं च बन्धुभिस्त्यक्तो वनमेवाविशत्खलः
सृगालभक्ष्यतां प्राप्तो नीतोऽयं यमकिङ्करैः ॥३६
जगाम नरकं फेूरं चण्डकोलाहलं परम्
यत्र वै नारकं दुःखं सकलं चापि वर्तते ॥३७
वेङ्कटाद्रौ वेदाभिधद्विजकृतदीपारोपप्रशंसा
तत्पुत्रो वेदनामा च कदाचिद्वेङ्कटाचले
पितुः पापं च संस्मृत्य देवदेवस्य सन्निधौ ॥३८
अहोरात्रं ददावेकदिने दीपं नृपोत्तम !
तत्पिता तेन पुण्येन विध्वस्ताखिलपातकः ॥३९
धिक्कृत्य यमदूतांश्च विष्णुलोकमुपाययौ
तस्माद्दीपप्रदो मर्त्यो न पुनर्दुःखमश्नुते ॥४०
यत्किञ्चित्कुरुते दानं वेङ्कटाचलमूर्धनि
तदाकल्पमविच्छिन्नं वर्धते वटबीजवत् ॥४१
तदेतत्सकलं श्रुत्वा वेङ्कटेशस्य वैभवम्
चलति स्वगृहाद्यस्तु कृतनिश्चयया धिया ॥४२
पदेपदे सोऽश्वमेधफलं प्राप्नोत्यसंशयम्
वेङ्कटेशस्य माहात्मे्य श्लोकं चार्धं च भक्तितः ॥४३
पदं चाप्यक्षरं चापि यः पठेच्छृणुयात्स तु
ब्रह्महत्यासहस्राणि पातकान्यपराण्यपि ॥४४
उपपातकमुख्यानि निर्दहेत्सूर्यवद्धिमम्
वेङ्कटेशस्य माहात्म्यं यस्य गेहे प्रवर्तते
आयुरारोग्यमैश्वर्यं सोऽन्ते विष्णुपदं लभेत् ॥४५
सूतः -
इति श्रुत्वा दिलीपोऽपि वैभवं परमाद्भुतम्
आनन्दाम्बुधिसम्मग्नो न हि वेद तदा परम् ॥४६
अश्रुत्वा महिमानं तु फलं न प्राप्यते नरैः
श्रुत्वा चैव फलं यान्ति विष्णोः सायुज्यमप्यथ ॥४७
इति श्री ब्रह्मपुराणे श्री वेङ्कटाचलमाहात्मे्य श्रीवेङ्कटाचले
महादानमाहात्म्यवर्णनं नाम दशमोऽध्यायः
—–ठ्—–
[[4647]]