श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्रीमते विष्वक्सेनाय नमः
श्री वेङ्कटाचलमाहात्म्यम्
(श्रीवामनपुराणान्तर्गतम्)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
विंशोऽध्यायः
प्रयागमाहात्म्यम्.
हरिः ओम्
यच्छरीरं त्रयो वेदाः यच्चेष्टाऽऽथर्वणः स्मृतः
यदङ्गानि षडङ्गानि तस्मै वागात्मने नमः ॥१
व्यासः-
कदाचित् दुःखितः प्राह जनको मिथिलाधिपः
शतानन्दं महाभागं सर्वज्ञं तत्वदर्शिनम् ॥२
सीतादि स्वसुताविवाहाद्यर्थं जनकनृपकृतानुतापक्रमः
जनकः-
ब्रह्मन्! मां बाधते दुःखं सीतादर्शनजं महत्
केन दुःखमिदं त्यक्ष्ये क आराध्योऽघनाशनः ॥३
[[458]]
दुष्टात्मा रावणो रक्षःपतिर्वैश्रवणानुजः
हरेदयोनिजां सीतां किन्नु न ज्ञायते मया? ॥४
कमाराध्य महाभाग! लप्स्ये जामातरं वरम्
समानोत्तमवंश्यञ्च योग्यमस्या महामुने! ॥५
ममापि दुहिता चैषा ह्यूर्मिला नाम नामतः
कुशध्वजस्य च सुतेकनिष्ठभ्रातुरेव मे ॥६
माण्डवी श्रुतकीर्त्याख्ये सुशीले सुमनोहरे
क्वाऽऽसाञ्चक्रे वरान् ब्रह्मन्निति चिन्ताकुलोऽस्म्यहम्॥७
परमध्यात्मविद्योगी दृष्टलोकपरावरः
पुरोहितोऽस्य वंशस्य गतिर्मेऽस्तु भवानिह ॥८
वेदशास्त्रपुराणज्ञः कालवित् कालधर्मवित्
दुःखिनां दुःखहर्ता च सुखिनां स्मयनाशनः ॥९
त्वं मे गतिश्च परमा भवदुःखविनाशन!
राजानो विषयासक्ताः कामक्रोधसमन्विताः ॥१०
कन्यारत्ननिमित्तञ्च ह्यागमिष्यन्ति कोटिशः
तेभ्यो युद्धं कथं दास्ये एकोऽहं ब्रह्मवित्तम! ॥ ११
एतावन्तमहं कालं सुखं राज्यमशासिषम्
इदानीमस्मि दुःखार्तो वृद्धः पुत्री तपोधन! ॥१२
अजो विविक्तो विमलो विष्णुभक्तो ममात्मजाः
चत्वार एते शिशवः शिखिनो नास्त्रकोविदाः ॥१३
ममानुजस्य पुत्राश्च विचिकित्सो विकर्तनः
प्रतर्दन इति त्वेते त्रयश्च शिशवस्तथा ॥१४
वृद्धत्वादात्मनश्चैव पुत्राणाञ्चैव शैशवात्
कन्यकानाञ्च रत्नत्वात् दुःखितोऽहं तपोधन! ॥१५
कस्मादस्मादहं मोहात् निर्गमिष्याम्युपायतः
तं मे वद त्वं ब्रह्मर्षे! गमिष्यामीह कां गतिम् ॥ १६
येन मन्वादयस्तीर्णाः संसाराख्यं महार्णवम्
इह दुःखञ्च राजानः तन्मे ब्रूहि तपोधन! ॥१७
कं ध्यात्वा पुरुषो लोके भुक्तिं मुक्तिञ्च विन्दते
आपद्रक्षाकरः को वा? तं देवं ब्रूहि सत्तम! ॥१८
जनकनृपतापापनोदनार्थं शतानन्दोक्त पुरातनेतिहासः
शतानन्दः-
राजन्! मनुष्या अपि यं प्रपन्नाः
सन्त्यक्तदुःखाः सुखिनो भवन्ति ।
वक्ष्यामि देवं वरदं रमेशं
तं प्राप्य दुःखाम्बुनिधिं तरिष्यसि ॥१९
पुराऽहं चम्पकारण्यात् तमसातीरमुत्तमम्
वाल्मीकं मुनिशार्दूलं द्रष्टुमस्मि गतो नृप! ॥२०
तेनागमनतुष्टेन प्रत्युद्यातो नृपोत्तम!
उपचारैश्च पाद्याद्यैः अतिथिः पूजितोऽस्म्यहम् ॥२१
[[460461]]
श्रीवामनपुराणे क्षेत्रखण्डे विंशोऽध्यायः
अभिवन्द्य मुनिश्रेष्ठं तच्छिष्यैश्च नमस्कृतः ।
क्रियां माध्याह्निकीं कृत्वा भुक्त्वा वाल्मीकिना सह ॥२२
अन्यैश्च मुनिभिः सार्धं भरद्वाजादिभिस्तदा
वाल्मीकेराश्रमे रम्ये ह्यासं वाल्मीकिना सह ॥२३
उक्त्वा कालोचिता वार्ताः कथाश्चात्र पुरातनीः
हृष्टावन्योन्यसङ्गेन ह्यभूव परमं नृप! ॥२४
एतस्मिन्नन्तरे स्वर्गात् आजगाम च नारदः
शुद्धस्फटिकसङ्काशो महात्मा महतीं दधत् ॥२५
तं दृष्ट्वा मुनिशार्दूल मुदतिष्ठत्तदासनात्
सह शिष्यो मया सार्धं वाल्मीकिर्भगवान् ऋषिः ॥२६
कृताञ्जलिपुटो भूत्वा प्रीतिसंहृष्टमानसः
सशिष्यः कल्पयामास पूजां तस्य विधानतः ॥२७
’’इदं पाद्यमिदं त्वर्घ्यं इदमासनमेव च
इदं मूलं फलं स्वादु भगवन्! प्रतिगृह्यताम् ॥ २८
आगतस्त्वं चिराद्ब्रह्मन्! स्वागतं ते तपोधन!’’
शतानन्दः-
इति वाल्मीकिना शिष्यैः अभिवाद्य च पूजितः ॥२९
निषसाद च सुप्रीतो नारदो मृगचर्मणि
आस्वाद्य फलमूलानि श्रमं स्वमपनीय च ॥३०
कुशलं परिपप्रच्छ वाल्मीकिं मुनिपुङ्गवम्
’’निर्विघ्नं ते तपो ब्रह्मन्! वर्धते त्रिविधं मुने! ॥३१
अवन्ध्यास्तरवः काले भवन्त्यपि तवाऽऽश्रमे
अपि क्रियार्थाः समिधः सुलभाश्च कुशा अपि’’ ॥३२
इति पृष्टस्तदा प्रीत्या प्राह नारदमुत्तरम्
’’त्वत्प्रसादान्मुनिश्रेष्ठ! सर्वं मङ्गलमेव मे ॥३३
वर्धते च तपो ब्रह्मन्! त्रिविधं कालवित्तम!
अकालेऽपि फलन्त्येव तरवो वासवाज्ञया’’ ॥३४
इत्युक्तो नारदस्तेन प्रमुमोद महाद्युतिः ।
कृताञ्जलिपुटाः सर्वे परिवार्य च नारदम् ॥३५
तदागमनसंहृष्टाः तस्थुस्तद्वनवासिनः
नारदेनाभ्यनुज्ञातः प्राप्य कृष्णाजिनासनम् ॥३६
कृताञ्जलिपुटो भूत्वा प्रह्वो वाक्यविशारदः
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥३७
’’त्रैलोक्ये वैष्णवं क्षेत्रं किं श्रेष्ठं भुवि नारद!
आब्रह्मलोकं सर्वं त्वं विशेषं दृष्टवानसि ॥३८
यत्तीर्थे सर्वतीर्थानि सन्निधानं व्रजन्ति च
यत्क्षेत्रवासिनां पुण्य मनन्तमिति कीर्त्यते ॥३९
यत्राऽऽस्ते भगवान् विष्णुः सश्रीभूः पुरुषोत्तमः
तद्ब्रूहि मम देवर्षे! क्षेत्रं त्रैलोक्यपावनम्’’४०
नारदः-
’’साधु पृष्ठं त्वया ब्रह्मन्! सर्वेषां हितकाम्यया
तत्ते वक्ष्यामि वाल्मीकि! समाहितमनाः शृणु ॥४१
[[462463]]
श्रीवामनपुराणे क्षेत्रखण्डे विंशोऽध्यायः
इममेव पुरा प्रश्नं पृष्टः प्राह महेश्वरः
पुत्रेण षण्मुखेनैव जिष्णुना हिमवद्गिरौ ॥४२
स्कन्दः-
’हत्वा देवासुरे युद्धे तारकाख्यं महासुरम्
आगतोऽस्मि जयी तात! पादमूलं त्रिलोचन! ॥४३
बुभुक्षा बाधते तीव्रा बह्महत्यासमुद्भवा
स्नात्वा भोक्ष्यामि यत्तीर्थे तत्तीर्थं तात! मे वद’४४
स्कन्दं प्रति शङ्करो क्तब्रह्महत्याविमु क्तिहेतूपन्यासः
महेश्वरः-
सकृ ’’न्नारायणे’’ त्युक्त्वा पुमान् कल्पशतत्रयम्
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक!’ ॥४५
श्रुत्वा परममित्युक्त्वा भुक्त्वा पित्रा सहो मया
ततः पप्रच्छ पितरं शङ्करं लोकशङ्करम् ॥४६
’उक्तो नारायणो देवः त्वया सर्वाघनाशनः
जनैराराधितः केन कर्मणा दृश्यते भुवि ॥४७
स कुत्र सेव्यते देवः प्रियं तस्यापि किं पितः!’
नारदः-
’इति पृष्टः पुनस्तेन पुत्रं प्राहाऽथ शङ्करः ॥४८
यं योगिनो मुनिवरा हृदि सन्निषण्णं
ज्योतिर्मयं प्रणवरूपमचिन्त्यरूपम्
आदित्यमण्डलनिवासमनन्तमाद्यम्
आराधयन्ति सततं तमुदीरयामि ॥४९
शङ्करः-
’’पुरा दक्षाध्वरे पुत्र! तस्य शीर्षं मया हृतम्
तञ्च हस्ततले लग्नं ब्रह्महत्या च सङ्गता ॥५०
स्वर्गे कपाली भिक्षार्थी पर्यटन्नियतेन्द्रियः
न मोक्षं ब्रह्महत्याया अपश्यं तत्र पुत्रक! ॥५१
मेरौ ब्रह्मसरस्तीरे तप उग्रमुपाश्रितः
स्नातुमभ्यागतो ब्रह्मा मामपश्यच्चतुर्मुखः ॥५२
तञ्च दृष्ट्वा प्रणम्याह मतिष्ठं पुरत स्तदा
स मां कपालिनं दृष्ट्वा ’किमि’ त्याह पितामहः ॥५३
तच्छ्रुत्वा ब्रह्मणो वाक्यं ततो देवं व्यजिज्ञपम्
’’किं ब्रुवे तात! शप्तोऽस्मि दक्षं हत्वा तु तेन ह॥ ५४
हत्यामोक्षं न पश्यामि कुत्र वा केन कर्मणा?
दृष्टो भवान् मया दिष्ट्या शापमोक्षं वदस्व मे’’ ॥५५
इत्युक्तश्च मया पुत्र! बह्मा प्राह च मां तदा
बह्मा-
’मा विषीद महादेव! हत्यामोक्षं वदामि ते ॥५६
[[464465]]
श्रीवामनपुराणे क्षेत्रखण्डे विंशोऽध्यायः
प्रयागक्षेत्रस्य भगवद्वर्णित प्रयागाभिधाननिरुक्तिः
पुरा शङ्कर! गङ्गाया यमुनायाश्च सङ्गमे
धनुस्त्रिशतविस्तीर्णे पुण्यक्षेत्रे च माधवे ॥५७
माधवप्रीतये तत्र यज्ञाः सर्वे मया कृताः
प्रादुरासीत्तदा वेद्यां माधवो भक्तवत्सलः ॥५८
शङ्खचक्रगदापाणिः श्रीवत्साङ्कश्चतुर्भुजः
प्राञ्जलिस्तं प्रणम्याहं ’प्रसीदे’ त्यस्तुवं तदा ॥५९
प्रसन्नो माधवः प्राह ’ब्रह्मन्! प्रीतोऽस्मि तेऽध्वरैः
प्रकृष्टाश्च कृता यज्ञाः प्रीतोऽहञ्च त्वयाऽनघ! ॥ ६०
यत्तद्ब्रह्मन्निदं क्षेत्रं प्रयागाख्यं गमिष्यति
अस्यां वेद्यामहं नित्यं सन्निधानं करोमि ते’ ॥६१
इतः प्रभृति ये पापाः पुरुषा याः स्त्रियश्च वा
क्षेत्रेशं मां प्रपश्यन्ति मुक्ताः सर्वे भवन्तु ते’ ॥६२
इति दत्त्वा वरं देवो ममाभीष्टञ्च माधवः
आस्ते लक्ष्म्या महादेव! प्रयागे पुण्यसत्तमे ॥६३
त्वञ्च हत्यासमायुक्तो मोक्षं तत्र गमिष्यसि’’
शङ्करः-
इत्युक्त्वा मां ततो ब्रह्मा सत्यलोकं जगाम ह ॥६४
शङ्करहस्तात् कपालविनिर्मुक्ति प्रकारः
ततः प्रीतो वरं लब्ध्वा पुण्यक्षेत्रं गतोऽस्मि तत्
क्षेत्रे प्रविष्टमात्रे तु मया हत्या पृथक् स्थिता ॥६५
पञ्चक्रोशाद्बहिर्भूता क्रोशन्ती विस्वरं गता
कपालश्च च्युतो हस्तात् प्रससाद मनो मम ॥६६
ततः स्नात्वा प्रयागेऽहं देवं नत्वा च माधवम्
अयाचं ’माधवं क्षेत्रं देहीदं मे जनार्दन!’ ॥६७
इत्युक्तो माधवो दत्त्वा क्षेत्रं मे वरदः प्रभुः
श्रिया परमया युक्तः शङ्खचक्रगदाधरः ॥६८
स्वं लोकञ्च ययौ देवः ’तपः कुर्वि’ ति मां वदन्
तत्राहञ्च तपः कृत्वा ब्रह्महत्यां व्यपोह्य च
विहरन्नुमया सार्धं तत्रैव हि षडानन! ॥६९
लक्ष्मीसहायं रमणीयवेषं
अजं हरिं कालघनाभिरामम्।
पीताम्बरं पाटलपाणिपादं
ध्यात्वार्चयंस्तत्र वसामि पुत्र!’’ ॥७०
इति श्री वामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
प्रयागमाहात्म्यवर्णनं नाम विंशोऽध्यायः.
एकविंशोऽध्यायः
अथ एकविंशोऽध्यायः
अथ स्कन्दं प्रति शञ्करकृतं तपःसमुचित वेङ्कटाद्रिवर्णनम्
नारदः-
स्कन्दः श्रुत्वा पितुर्वाक्यं मङ्गलं पापनाशनम्
पुनः पप्रच्छ संहृष्टः पितरं तत्त्वदर्शिनम् ॥१
[[466467]]
श्रीवामनपुराणे क्षेत्रखण्डे एकविंशोऽध्यायः
’ममापि तपसो योग्यं क्षेत्रं ब्रूहि शुभान्वितम्
न विघ्नास्तपतो यत्र प्रभवन्ति मम प्रभो! ॥२
त्वयाऽऽज्ञप्तस्तपस्तप्स्ये भवदुःखविनाशन!
योगीन्द्रवन्द्यचरण द्वन्द्वानन्दैकलक्षण! ॥३
मम शङ्कर तद्ब्रूहि वैष्णवं क्षेत्रमुत्तमम्’
एवमुक्तस्ततः शम्भुः पुत्रेण प्राप्तकारिणा ॥४
उमामालोक्य संहृष्टो ध्यात्वा चैनं बभाण ह
’शृणु पुत्र महाभाग! देवदुःखविनाशन! ॥५
वृषो नाम महाशैलो वृषेणाराधितः पुरा
तं गच्छ शिखिना पुत्र कुरु त्वं तत्र वै तपः’ ॥६
नारदः-
इति प्रतिसमादिष्टः पुनराह च षण्मुखः
’उक्तो यस्तत्र भवता वृषाभिख्यो महागिरिः ॥७
नायं कुलाचलो नूनं कुत्राऽऽस्ते स महागिरिः
किमर्थञ्च वृष स्तत्र तपस्तेपे महातपाः ॥८
वृषः किं वृषभो धर्मो मनुर्वा नीललोहित !
प्रोक्तः कोऽयं भगवता ब्रूहि मे पुत्रवत्सल!’ ॥९
इति पृष्टस्ततस्तेन प्राह तं वृषभध्वजः
’नायं कुलाचलः पुत्र! मेरुपुत्रो महागिरिः ॥१०
अञ्जनो नाम नाम्ना च त्रिषु लोकेषु विश्रुतः
शैलः स्वर्णमयो वत्स! रत्नसानुः सुशोभनः ॥११
शेषमारुतसंवादे विधूतो दक्षिणां दिशम्
नियुक्तोऽयं गिरिः पुत्र! पूर्वमेव तु विष्णुना ॥१२
सर्वतीर्थमयः पुण्यः पावनोऽञ्जनभूधरः
सुदुर्लभो मनुष्याणां देवभूमौ वसन्निह ॥१३
स्थातव्यं भवता शैलदक्षिणस्यां दिशीति वै’
एवमुक्तोऽपि हरिणा पितृस्नेहवशेन सः ॥१४
पितुराज्ञामवेक्ष्यायं कञ्चित्कालमवर्तत
शेषमारुतसंवादे प्रवृत्ते लोकभीषणे ॥१५
मेरुणैवाऽभ्यनुज्ञातः प्रयातो दक्षिणां दिशम्
आस्ते पूर्वोदधेः पश्चात् वत्सायं पञ्चयोजने ॥१६
उत्तरे दक्षिणाब्धेस्तु षट्त्रिंशद्योजनान्तरे
तीरे पुण्यतमे पुत्र! रुक्मनद्यास्तथोत्तरे ॥१७
क्रोशद्वयार्धमात्रे तु हरिचन्दनमण्डिते
वने रम्यतमे वत्स! नानापादपमण्डिते ॥१८
सिद्धा मुनिगणास्तत्र तपः कुर्वन्ति नित्यशः
चण्डालयवनाद्यैस्तु वेदबाह्यैश्च नास्तिकैः ॥१९
नारोढुमपि यः शक्यः पावनः पर्वतोत्तमः
शुकाद्या मुनयः केचित् भृग्वाद्याश्च तपोधनाः ॥२०
पह्लादप्रमुखाः पुण्याः अम्बरीषादयो नृपाः
विष्णोरेवापरं देहं मन्वानास्तं नगोत्तमम् ॥२१
पद्भ्यामाक्रमितुं भीताः पर्यन्तेष्वेव वर्तनाः
तन्निर्गतनदीष्वेव कुर्वाणाः स्नानतर्पणे ॥२२
[[468469]]
श्रीवामनपुराणे क्षेत्रखण्डे एकविंशोऽध्यायः
तपः कुर्वन्ति वाञ्छन्तः साक्षात्कर्तुं जनार्दनम्
एवंविधः स शैलेन्द्रो नित्यमत्यन्तपावनः ॥२३
शिखरं यस्य दृष्ट्वैव सद्यः पापैः प्रमुच्यते
तत्राऽऽस्ते कोलरूपी तु महाविष्णुः सनातनः ॥२४
उद्धृतां धरणीं देवी मालिङ्ग्याङ्के निधाय च
आराधितो मुनिगणैः त्रिसन्ध्यं श्रद्धयाऽन्वितैः ॥२५
तदा प्रभृति तत्पुण्यं वाराहं क्षेत्रमुच्चते
तस्मिन् पुण्यतमे क्षेत्रे वाराहे वेङ्कटाचले ॥२६
सन्निधौ भूवराहस्य ये केचिन्नियतव्रताः
शास्त्रोक्तेन विधानेन वाराहं मन्त्रमुत्तमम् ॥२७
जपन्ति विजितात्मानो मासमेकं निरन्तरम्
गृहक्षेत्रादिकं तेषां सद्यः सिद्ध्यति वाञ्छितम् ॥२८
पृथिवीं ये च वाञ्छन्ति राजानः शासितुं चिरम्
ये तु तत्र प्रकुर्वन्ति महादानानि षोडश ॥२९
प्रीणयन्तो महीं देवीं दक्षिणाभिस्तदुद्धृताम्
तेषामादिवराहस्तु भगवान् भक्तवत्सलः ॥३०
प्रयच्छति चिरं कालं महीं सागरमेखलाम्
बुद्धजानपदोपेतां हतावग्रहकण्टकाम् ॥३१
अनादृत्य तु यस्तत्र वराहवदनं हरिम्
धरणीञ्च तदङ्कस्थां पृथ्वीं शासितुमिच्छति ॥३२
तेन दोषेण तद्राज्यं पीड्यतेऽवग्रहैः सदा
दस्युभिः शत्रुभिश्चैव महारोगैस्तथैव च ॥३३
तस्मात् तत्र स्थितं देवं वराहं धरणीयुतम्
सम्यगाराधयेद्राजा भक्तिश्रद्धासमन्वितः ॥३४
तस्याग्रे देवदेवस्य सरस्त्रैलोक्यपावनम्
स्वामिपुष्करिणी नाम सरसां वरमस्ति वै ॥३५
त्रैलोक्ये यानि तीर्थानि पावनान्यपि देहिनाम्
पुष्करिण्यश्च नद्यो याः सन्ति ब्रह्माण्डगोचराः ॥३६
तानि सर्वाणि षड्वक्त्र! स्वात्मनां पावनाय वै
वर्षे वर्षे समायान्ति तत्तीर्थे स्नातुमात्मज! ॥३७
वैवस्वते मनौ पुत्र! लोकं शासति चाऽज्ञया
धर्मो मनु स्तपस्तेपे सोऽयं वृष इतीरितः ॥३८
तपश्चरति तस्मिंस्तु ववृधे धर्म उत्तमः
ततः प्रसन्नो भगवान् महाकोलो महीयुतः ॥३९
समक्षमब्रवीद्धर्म शरन्मेघ इव स्थितः
’’धर्म! त्वया तपस्तप्तं वृषश्च ववृधे यतः ॥४०
तस्मादयं गिरिवरो वृषाभिख्यां गमिष्यति
तवापि लोकपालत्वं यमात्पश्चाद्भविष्यति’’ ॥४१
इत्युक्त्वाऽन्तर्दधे देवो गिरिमूर्ध्नि षडानन!
अथ लब्धवरो धर्मो जगाम च यथागतम् ॥४२
[[470471]]
श्रीवामनपुराणे क्षेत्रखण्डे एकविंशोऽध्यायः
इदानीञ्च महाभाग! वायुरास्ते तपश्चरन्
जपन् सतारकं मन्त्रं गणयन्नक्षमालया ॥४३
परात्परतरं राममर्चयन् विधिपूर्वकम्
श्रीभूमिसहितं देवं चतुर्बाहुं किरीटिनम् ॥४४
शङ्खचक्रधनुर्बाणपाणिं नीलोत्पलद्युतिम्
देवदेवं जगन्नाथं अपरोक्षं निरीक्षितुम्
सर्वप्राणात्मको वायुः तपस्तीव्रं चरत्यहो! ॥४५
ब्रह्मादिदेवा अपि देवदेवं
वाञ्छन्ति यं सेवितुमात्तभावाः ।
तं वै वरेण्यं सकलान्तरस्थं
द्रष्टुं तपो वर्धयते स वायुः’ ॥४६
नारदः-
इत्युक्तो गुरुणा स्कन्दः पप्रच्छ पितरं पुनः
’ममापि वैष्णवं मन्त्रं वैष्णवेष्वपि चोत्तमम् ॥४७
मन्त्रेषु वरदं शम्भो! ब्रूहि तत्प्राप्तिसाधनम्’
इति विज्ञापितः शम्भुः पुत्रेणाक्लिष्टकारिणा ॥४८
विधिनाऽऽशु ततः प्रादान्मन्त्रं तस्मै स तारकम्
लब्ध्वा मन्त्रं महादेवात् स्कन्दः प्रीतोऽभवत्पितुः ॥४९
प्रह्वः प्रदक्षिणं कृत्वा पितरं सोऽभ्यवादयत्
प्रणम्य मातरं पश्चात् प्रतस्थे शिखिवाहनः ॥५०
तपःकरणाय स्कन्दस्य श्रीवेङ्कटाचलगमनम्
तं प्रस्थितं ततो दृष्ट्वा देवास्त्विन्द्रपुरोगमाः
अनुजग्मुर्महात्मानं देवसेनापतिं विभुम् ॥५१
तैर्देवैरन्वितो गच्छन् शिखिना वेगगामिना
गिरिं स पादलक्षप्रस्रवणैरन्वितं ययौ ॥५२
अध्वश्रमहरे तस्मिन् निषण्णः समरुद्गणः
अदृष्ट्वा तत्र पितरौ विषण्णोऽभूत् सुराग्रणीः ॥५३
बृहस्पत्युक्तः स्कन्दोत्पत्तिक्रमः
तं विषण्णं ततो दृष्ट्वा गुरुः प्राहेन्द्रचोदितः
’मा विषीद महाबाहो! देवसेनापतेऽग्रणीः ॥५४
किं न स्मरसि चात्मानं वैष्णवं धाम शाश्वतम्’
नारदः-
इत्युक्तो गुरुणा स्कन्दः प्रीतः प्राह बृहस्पतिम् ॥५५
’कोऽहं ब्रूहि गुरो! नाहं जानाम्यात्मानमात्मना’
एवमुक्तो गुरुश्चैनं वक्ष्यामीत्याह कारणम् ॥५६
’उपप्लुतैस्तारकेण देवैः सेनापतीप्सुभिः
याचितः प्राह भगवान् ब्रह्मा कारणवित् सुरान् ॥५७
ब्रह्मा-
’सुरेन्द्र! दक्षेण विमानिताऽथ
सती यदा योगविसृष्टदेहा ।
तदा प्रतिज्ञां ह्यकरोत् त्रिनेत्रः
सतीं विनाऽन्यां न भजामि चेति ॥५८
[[472473]]
तपश्चचारातिमहत् सुघोरं
दिगम्बरः स्थाणुवदूर्ध्वबाहुः ।
त्रिलोचनस्तम्भितवायुचारो
विचिन्तयन्नात्मनि चात्मभावम् ॥५९
काले हि तस्मिन्नसुरास्तपोऽचरन्
मां प्रीणयन्नुग्रतपाः स तारकः ।
प्रीतस्ततोऽहं वरदस्तमब्रुवं
वरं वृणीष्वेति मनोरथेप्सितम् ॥६०
अयाचतान्येन तदा ह्यवध्यतां
विना च शम्भोस्तनयेन सोऽसुरः
तथाऽस्त्विति प्रत्तवरो मया ततो
नाशेऽसुरस्यास्य परो न विद्यते ॥६१
सती च सा पर्वतराजकन्यका
प्रवर्धते मेनकयोपलालिता ।
तयैव संयोज्य च शङ्करं विभुं
सुरेश्वरं प्रार्थय तारकान्तकम् ॥६२
विष्णोः कलांशो भविता भगवान् नः सुखावहः’
बृहस्पतिः-
एवमुक्तो विरिञ्चेन काममाहूय देवराट् ॥६३
रतिदेवीसमायुक्तं वसन्तसहितं तदा
अचोदयत्कर्मसिद्ध्यै देवानामेव शङ्करम् ॥६४
वशीकर्तुञ्च पार्वत्या संयोक्तुं कृतनिश्चयः
जगाम कामः स्थाणुं तं गिरिजायाश्च सन्निधौ ॥६५
जग्राहास्त्रं त्वभूद्दग्धः त्रिनेत्रेण तपोऽव्ययात्
कामं दग्ध्वा शिवस्तञ्च जहावाश्रममुत्तमम् ॥६६
तपस्विनामयुक्तं हि सन्निधानं तु योषितः
जगाम कैलासगिरेरु त्तरे चाश्रमोत्तमम् ॥६७
ततश्चोमातपः शक्त्या वशीकृतपराक्रमः
उपयेमे तदा शम्भुरुमां काममजीवयत् ॥६८
कैलासशृङ्गे हिमवत्प्रदेशे
कलाधरः कामवशं प्रपन्नः ।
रेमे हि सव्प्रूप्य मनोरथांस्तान्
उमासमेतः शरदां शतं सः ॥६९
ततस्तमिन्द्रप्रमुखाश्च देवा
ययाचिरे ’देहि सुतं भवेश!
पापेन तारेण हि पीडिताः स्मः
पापञ्च तं हन्तुमलं महान्तम्’ ॥७०
इति याचितो गिरिजापतिरेतानमरा
न्विजनो भवितेति बभाण ।
कुपितं गिरिशं मरुतो विदिताः
सहसा विविशुः ककुभो हि दशैते ॥७१
विससर्ज तदा तेज्ः क्षुभितं गिरिजापतिः
तञ्च तेजोमयं भूतमाववार हि मेदिनीम् ॥७२
[[474475]]
श्रीवामनपुराणे क्षेत्रखण्डे एकविंशोऽध्यायः
तेन तेजोमयेनेयं विकीर्णा सर्वमेदिनी
धर्तुं तदक्षमा देवी तेज्ः प्राह मरुद्गणान् ॥७३
’अहो दग्धाऽस्मि मरुतः! पान्तु मां भवतेजसः’
ततो दृष्ट्वा तु देवास्ते मेदिनीं परितापिताम् ॥७४
इत्यूचुरग्निदेवं स्वे तेजस्तेजसि धारय
इत्यादिष्टो धारयन्तं शाम्भवं जातवेदसम् ॥७५
ररक्ष मेदिनीं दीनामापदो हव्यवाहनः
तेजस्ततो धारयन्तं शाम्भवं जातवेदसम् ॥७६
प्रीताऽऽह पार्वतीदेवी ’त्वमग्ने! पुत्रवान् भव
धृतं तेजस्त्वया यस्मात् तमात्त्वं सर्वजन्तुषु ॥७७
गर्भे गर्भधरो भूत्वा विहर त्वं ममाऽज्ञया
प्रीताऽस्मि ते त्वया ह्यग्ने! स्कन्नं गर्भं धृतं यतः ॥ ७८
भक्त्या ये त्वां पूजयन्ति तेषां पुत्रा भवन्तु वै’
इति तस्मै वरं दत्त्वा शशाप मरुतः शिवा ॥७९
’इतः प्रभृति युष्माकमप्रजाः सन्तु पत्नयः’
उमा शशाप पृथ्वीञ्च ’पुत्रप्रीतिं न लप्स्यसे ॥८०
मत्पुत्रो न धृतो यस्मात् बहुभार्या भविष्यसि’
ततः प्रसन्ना सा देवी शङ्करेण समागता ॥८१
तपस्तप्तुं जगामाऽऽशु भृगुप्रस्रवणं तदा
ततो विमनसो देवाः पुनरूचुश्चतुर्मुखम् ॥८२
’भवदाज्ञा कृताऽस्माभिः व्यर्था सा चागमत्प्रभो!
शशाप सा तदास्मान्वै किं कुर्मो ब्रूहि का गतिः’ ॥८३
धाता विज्ञापितो देवैः आह तान् सा यथाऽब्रवीत्
’तद्वचः सत्यमेवास्तु तस्या वाङ् नानृता भवेत् ॥८४
किञ्च वक्ष्याम्युपायं वो जातवेदाः प्रदास्यति
यूयं गङ्गां प्रार्थयध्वं सा गर्भं धारयिष्यति’ ॥ ८५
इति तस्य वचः श्रुत्वा देवा जग्मुर्यथागतम्
गङ्गां सव्प्रूर्थयामासुः देवाः सर्वे समागताः ॥८६
ततः सा प्रार्थिता देवैः विसृष्टं वह्निना विभो!
त्वां दध्रे पार्वती गङ्गा तेजोराशिं महाद्युतिम् ॥८७
सा च त्वां व्यसृजद्गङ्गा सन्तप्ता तेजसा तव
उमाऽऽश्रमप्रदेशे तत् जातरूपमभूद्वनम् ॥८८
कुमारं त्वां तदा दृष्ट्वा जातं हृष्टा दिवौकसः
षट् कृत्याः प्रेषिता देवैः अदधुस्त्वां षडाननम् ॥८९
बृहस्पतिकृत स्कन्दस्तुतिः
एवम्प्रभावो बाल्ये त्वं कुमार! सुरतापहन्!
त्वां प्रपद्ये सुवर्णाभ! शङ्करात्मज! शङ्कर! ॥९०
त्वं विष्णुस्त्वं विधाता च त्वं रुद्रः कालरूपधृक्
शिखिवाहन! षड्वक्त्र! कुमारस्तारकान्तकः ॥९१
सुब्रह्मण्यः शिखी स्कन्दः कुमारः षोडशाब्दकः
शरज्न्मा शक्तिहस्तो गाङ्गेयोऽग्निसमुद्भवः ॥९२
[[476477]]
श्रीवामनपुराणे क्षेत्रखण्डे एकविंशोऽध्यायः
एकवक्त्रो द्विबाहुश्च कुमारः पुरुषोत्तमः
मातृप्रीत्या च षड्वक्त्रः पार्वतीप्रीतिवर्धनः ॥९३
उज्ज्वलषड्द्वितयाक्षिविराजत्षण्मुख शङ्करनन्दन वीर!
सर्वदिगीश्वरसैनिकनाथ! शं दिश शक्तिधरेश कुमार! ॥९४
द्वादशहस्तविराजित हे ते दुःखपरामरवैरिहरेश!
द्वादशकोटिरविद्युतितेजः! शं दिश शक्तिधरेश कुमार! ॥ ९५
ये तव बालरविद्युतिराजत्फुल्लसरोरुहकान्तिपदाब्जम्
नो शिरसा प्रणमन्ति कुमार! ते तनयं तु न हीह लभन्ते ॥९६
स्फुरन्तं चलन्तं तटित्कोटिकान्तिं
मयूराधिरूढं मनोहारिवेषम् ।
पुलिन्दापतिं त्वां प्रपद्ये कुमारं
कुमारञ्च मे देहि मृत्युञ्जय! त्वम्’’ ॥९७
नारदः-
प्रन्नो बभूवाथ वाग्भिः स्तुतोऽसौ
गुरुः प्राह भूतेशपुत्रो महात्मा
सुब्रह्मण्यः-
’वरं ते ददामीह पुत्रानभीष्टा
स्वमृत्युञ्जयत्वञ्च तारुण्यमेवम् ॥९८
स्तोत्रेणानेन यो मर्त्यः त्वयोक्तेन गुरो! भुवि
आनन्दयति मां नित्यं त्रिसन्ध्यं मानवोत्तमः ॥९९
स पुत्रधनधान्यादिसम्पदो लभते ध्रुवम्
अपमृत्युजयं चापि सौभाग्यं राजपूज्यताम्’ ॥१००
नारदः-
इति दत्त्वा वरं तस्मै देवान् सर्वान् विसृज्य च
जगाम शिखिना तस्मात् कुमारो वृषभाचलम् ॥१०१
तत्र रम्ये शुचौ देशे ददर्श सर उत्तमम्
स्नानार्थं देवपूजार्थं पद्मोत्पल सुशोभितम् ॥१०२
स्कन्दस्य तपःकरणप्रकारः
कृतस्नानः सरस्तीरे कुमारः समुपाविशत्
दृष्ट्वा तपन्तं वायुञ्च तत्समीपे षडाननः ॥१०३
त्रिसन्ध्यं देवदेवेशं नारायणमनुस्मरन्
आतिष्ठत्तप उग्रञ्च समाधिध्यानसंयुतः
ध्यायन्नारायणं देवं शङ्खचक्रधरं परम् ॥१०४
पादद्वयालङ्कृतभूमिभागो
भासा जलत्काञ्चनतुल्यतेजाः ।
ध्यायन् परं ब्रह्म कुमार आस्ते
परात्परं यन्महतो महत्तत् ॥१०५
इति श्री वामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्य्मे
सुब्रह्मण्यस्य वृषभाद्रिप्राप्तिवर्णनं नाम
एकविंशोऽध्यायः.
[[478479]]
श्रीवामनपुराणे क्षेत्रखण्डे एकविंशोऽध्यायः
द्वाविंशोऽध्यायः
अथ द्वाविंशोऽध्यायः
शङ्करकथित श्रीनिवासाविर्भावहेतूपोद्घातः
ऋषयः-
ततः किमकरोदम्बा कुमारे वृषशैलगे
सा पुत्रवत्सला नूनं भवानी शिवसंयुता ॥१
नारदः-
तपसोऽर्थे प्रयाते तु स्कन्दे काञ्चनतेजसि
देवसेनासमायुक्ते धनुःश क्तिधरे द्विजाः! ॥२
भर्तारं भक्तिनव्रूऽथ पुत्रवात्सल्यचोदिता
पप्रच्छ पार्वती शम्भुं हरं चन्द्रार्धशेखरम् ॥३
’किं करिष्यति? पुत्रो मे तत्र बालस्त्रिलोचन!
कथं द्रक्ष्यति तं देव मचिन्त्यो ब्रह्मणाऽपि यः’ ॥४
इति पृष्टः स तां प्राह सोत्प्रासं परमेश्वरः
’शृणु देवि! परं गुह्यं भविष्यत्ते मयोच्यते ॥५
सर्वे च मुनयस्तस्मिन् आगमिष्यन्ति पर्वते
द्रष्टुकामाः परं ब्रह्म तपस्तप्तुमनुत्तमम् ॥६
देवा मनुष्याः पितरो गन्धर्वा यक्षराक्षसाः
सिद्धाः साध्याश्च गरुडाः पन्नगा ऋषय स्तथा ॥७
चरिष्यन्ति तपस्तस्मिन् गिरौ गिरिवरात्मजे!
प्रत्यक्षं परमात्मानं द्रष्टुकामाः सनातनम् ॥८
अर्चयिष्यन्ति मां केचित् केचित् ब्रह्माणमेव च
केचित् स्कन्दं महात्मानं शक्रं केचित्तथाऽपरे ॥९
योद्धुकामास्तथा केचित् अमरैरमरारयः
उग्रं तपः करिष्यन्ति प्रीणयन्तश्च नः परम् ॥१०
आवां तत्र गमिष्यावः कालेन महता प्रिये!
द्रष्टुं तत्परमं ब्रह्म तत्त्वं नारायणं परम् ॥११
श्रीवेङ्कटाचले पुण्ये यत्तु प्रादुर्भविष्यति
तत्प्रादुर्भावहेतोर्वै कर्तुञ्चापि महत्तपः ॥१२
सुदर्शनस्य शङ्करसमीपप्राप्तिक्रमः
आवाभ्यामपि गन्तव्यं तथाऽन्यैर्दैवतर्षिभिः
यत्कालाख्यञ्च तच्चक्रं करिष्यति तपो महत् ॥१३
मदर्थं हिमवत्पुत्रि! मद्वियोगैकदुःखितम्
विष्णुनैवाऽभ्यनुज्ञातं चक्रतीर्थे वसिष्यति’ ॥१४
नारदः-
श्रुत्वैतत्पार्वती देवी वाक्यं शङ्करमब्रवीत्
’आश्चर्यमुक्तं भवता विष्णुचक्रं प्रतीश्वर! ॥१५
तत्पवित्रं करे विष्णोः वसत्येव सदा प्रभो!
त्वन्निमित्तं किमर्थं तत् तपस्तप्स्यति शङ्कर! ॥१६
त्वयि स्नेहश्च कस्तस्य ब्रूह्येतन्मे महाद्भुतम्’
[[480481]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वाविंशोऽध्यायः
नारदः-
एतृच्छ्रत्वाऽम्बिकां प्राह शङ्करो लोकशङ्करः ॥१७
’अनादिविधनं दिव्यं अप्रमेयपराक्रमम्
सहस्रारसमायुक्तं कोटिसूर्यसमप्रभम् ॥१८
सुदर्शनाख्यं तच्चक्रं विष्णोरेव तु पार्वति!
धर्तुमन्यैर्न शक्यं तत् तं विना पुरुषोत्तमम् ॥१९
तेन चक्रेण दिव्येन दग्धा वाराणसी पुरी
सा राजधानी मे दिव्या कृत्याहेतोर्विनाशिता ॥२०
कस्मिंश्चिदथ काले तु मयि प्रीतो जनार्दनः
किमिच्छसीति मां प्राह वरदानसमुद्यतः ॥२१
एवमुक्ते मया तस्मात् याचितं वरमुत्तमम्
’’येन चक्रेण मे दग्धा पुरी वाराणसी हरे! ॥२२
तद्यथा मद्वशं यायात् मम प्रेष्यञ्च माधव!
तथा कुरु मयि प्रीतो नान्यं वरमहं वृणे’’ ॥२३
एवं विज्ञापितो देवः प्रहस्य मधुसूदनः
हस्तेन मम हस्ताग्रं गृहीत्वेदमुवाच ह ॥२४
’’कथं सूर्यं परित्यज्य प्रभाऽन्यस्य भविष्यति
एवं श्रीः कौस्तुभं चक्रं गरुडः शारङ्गमेव च ॥२५
एवमादीनि वस्तूनि नित्यसिद्धानि शङ्कर!
नैतेषां जन्मविलयौ नान्यस्तेषां व्यपाश्रयः ॥२६
अशक्यमिदमत्यर्थं याचितं प्रमथाधिप!
न चाहमनृतं पक्ष्ये तथैवास्तु यथेप्सितम् ॥२७
एतत्सुदर्शनं दिव्यं कुतश्चित्कारणान्तरात्
ब्रह्मणा निर्मितं भूत्वा लेशेनावतरिष्यति ॥२८
अवतीर्णन्तु तच्चक्रं त्वत्प्रेष्यत्वं गमिष्यति
दिव्यं वर्षसहस्रं तु त्वत्समीपे वसिष्यति ॥२९
त्वया प्रत्यर्पितं पश्चात् स्वं भावमुपयास्यति’’
एवं विष्णुप्रसादेन वरदानसमागतम् ॥३०
देवि चक्रं ममैत्तद्धि सहस्ररविसन्निभम्
विष्णवे च पुरा दत्तं मया पुरविमर्दने ॥३१
मन्त्रोपदेष्ट्रे कालाख्यं दक्षिणार्थं हि पार्वति!
चिरं मया धृतं चक्रं बह्मणा निर्मितं पुरा ॥३२
रक्षणाय च देवानां नाशार्थं सुरवैरिणाम्
मया विहीनं यञ्चकं मदर्थञ्चैव तप्स्यति’ ॥३३
नारदः-
श्रुत्वैतत्पार्वती प्रीता पुनः पप्रच्छ शङ्करम्
’चक्रतीर्थमिति प्रोक्तं त्वया शङ्कर कुत्र तत् ॥३४
ब्रूहि मे विस्तरात् शम्भो! पावनं तीर्थमुत्तमम्’
इति पृष्टस्तु पार्वत्या प्राहैनां शङ्करः पुनः ॥३५
’वृषाद्रेर्दक्षिणे पार्श्वे बहुप्रस्रवणे तटे
सन्त्याश्रमाः सप्तदश चक्रादीनां महात्मनाम् ॥३६
[[482483]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वाविंशोऽध्यायः
तावन्ति चैव तीर्थानि तेषु पुण्यतमानि वै
तत्राद्यं चक्रतीर्थं यत् वज्रतीर्थादधःस्थितम् ॥३७
कालचक्रतपःस्थानं कपिलोद्गमजं सरः
तत्र स्नानेन नश्यन्ति सर्वपापानि वै नृणाम् ॥३८
तद्धि विष्णोः परं क्षेत्रं महापुण्यतमं स्मृतम्’
इत्युक्त्वा पार्वती प्राह भर्तारं भक्तिमत्यथ ॥३९
’वज्रतीर्थमिति प्रोक्तं केनेदं हेतुना सरः
यदूर्ध्वं चक्रतीर्थात्तु विद्यमानमुदीरितम्’ ॥४०
इन्द्रस्य सहस्राक्षत्व प्राप्तिप्रकारः
इति पृष्टस्तु पार्वत्या प्राहैनां शङ्करः पुनः
’पुरा शक्रो महातेजा गौतमस्य स्त्रियं प्रियाम् ॥४१
भामिनीं तां समाक्रम्य शप्तोऽभूच्च महर्षिणा
तवैकामिच्छतो योनिं तत्सहस्रं भवत्विति’४२
शङ्करः-
’इत्युक्तमात्रे मुनिना सर्वाङ्गे योनयाऽभवन्
दृष्ट्वा सहस्रं योनीनां विषण्णोऽभूच्छचीपतिः ॥४३
’कष्टं मया बत कृतं युक्तं गन्तुं क्व वे’ ति च
इति सञ्चिन्त्य सहसा जगाम ब्रह्मणः सरः ॥४४
तत्र पङ्कजनालेन निलीनोऽभूत्सुरेश्वरः
ततो देवाः सगन्धर्वाः ससिद्धाश्चारणैः सह ॥४५
द्रष्टुकामा महेन्द्रन्तं नापश्यन्नमरालये
अनिन्द्रं सुरसैन्यं तत् दीनं दृष्ट्वा सुरादयः ॥४६
आक्रम्य देवलोकञ्च विविशुश्चामरावतीम्
मरुतस्ते शचीं देवीं वाक्पतिप्रमुखा ययुः ॥४७
प्रणम्य तां महाभागां सर्वे प्राञ्जलयोऽब्रुवन्
’क्व यातस्ते पतिर्भद्रे! वयं शत्रुभिरर्दिताः ॥४८
अदृष्टा रक्षितारं तं अस्माकं व्यथिता वयम्’
इत्युक्ता सा शची देवी जगाद सुरसत्तमान् ॥४९
’तेनाहं निशि शय्यायां भर्त्रा सुप्ता सुरोत्तमाः!
क्व यातः स तु मायावी मया न ज्ञायते प्रभुः ॥ ५०
गुरुः सुराणामस्माकं नूनं जानाति वाक्पतिः’
शङ्करः-
इत्युक्तास्तेऽमराः सर्वे पुलोमसुतया तदा५१
प्रणम्य च गुरुं भक्त्या ब्रह्माणमिव शाश्वतम्
’अस्माकं ब्रूहि भगवन्! इन्द्रः क्वाऽऽस्ते महेश्वरः’ ५२
याचितः सोऽथ देवैस्तैः अपश्यद्योगवर्त्मना
विहस्य किञ्चिदमरान् प्राह वाचस्पतिस्तदा ॥५३
’कृत्वाऽकृत्यमसौ तस्य फलं प्राप्य शचीपतिः
आस्ते लज्जासमाविष्टो मेरौ पङ्कजनालके ॥५४
गच्छामस्तत्सरो देवा द्रक्ष्यामस्तं सुरेश्वरम्’
इत्युक्त्वा तान् सुरान् सर्वान् जगाम सह तैर्गुरुः ॥ ५५
[[484485]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वाविंशोऽध्यायः
तत्सरः प्राप्य तानाह ’गायध्वं सुरसत्तमाः’
इत्यादिष्टा जगुः सर्वे गन्धर्वाप्सरसां गणाः
देवाश्च ऋषिभिः सार्धं तौर्यत्रिकसमन्वितम् ॥५६
’नाथ! त्रयाणामपि विष्टपाना-
मुपप्लुताः स्मः सुरवैरिभिः प्रभो!
आगच्छ देवेन्द्र! जगच्च रक्ष
सरोजलीनोऽसि कृतञ्च किं त्वया’५७
शङ्करः-
श्रुत्वा गीतं सुरेशोऽथ ज्ञात्वा तानागतान् सुरान्
वहन् योनिशतं देवो दृश्योऽभूद्बलसूदनः ॥५८
निर्गत्यास्मात् पद्मनालात् स्वपदार्पितलोचनः
अवाङ्मुखो गुरोः पादौ जग्राह बलसूदनः ॥५९
उवाच दीनया वाचा देवेन्द्रोऽङ्गिरसः सुतम्
’आदित्यानां हितार्थाय तपोविघ्नं हि कुर्वता ॥६०
मया फलमिदं प्राप्तं गौतमस्य महात्मनः’
एतच्छ्रुत्वाऽथ धिषणो विहस्य गिरिजेऽवदत् ॥६१
’कृतमेतत्त्वया वज्रिन्! कामिना ज्ञातमेव मे
देवार्थं कर्म कृत्वैतत् फलं प्राप्तं भृगो रुषा ॥६२
देवा यूयं प्रार्थयध्वमेता मेढ्रा भव’ न्त्विति
गुरोरेतद्वचः श्रुत्वा देवाः सर्वे वरानने ॥६३
’तावन्मेढ्रा भवन्त्वेता योनयश्चेन्द्रमाश्रिताः
इत्थमुक्तेषु देवेषु योनयो मेढ्रतां ययुः ॥६४
अथ दृष्ट्वा सहस्रन्तु मेढ्राणामप्सरोगणाः
’ऊचुरस्मानलं भोक्तुं बह्वीरेकक्षणादयम्’ ॥६५
इति तासां वचः श्रुत्वा प्रीतोऽभूद्बलसूदनः
ततो विमानमारुह्य दंशनं चोद्वहन् महत् ॥६६
गीतवादित्रनिर्घोषैः पूरयन्नम्बरं दिशः
विवेश च पुरीमिन्द्रो निहत्य सुरवैरिणः ॥६७
सुखमात्यन्तिकं भेजे बहुभिः सोऽप्सरोगणैः
विजहारैकवारेण विषयासक्तचेतनः ॥६८
एवं स विहरन् नक्तं दिवा च गिरिकन्यके!
न तृप्तिमाययौ कामी कामभोगैः सुदुस्त्यजैः ॥६९
’’न जातु कामः कामानामुपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते’’ ॥७०
देवेन्द्रो विहरन्नेवं अशक्तः सोढुमद्रिजे!
मेहनानां सहस्रं तु तेषां मोक्षमचिन्तयत् ॥७१
केनैतत्कर्मणा भोक्तुं शक्यं शिश्नसहस्रकम्
’नाशयिष्याम्यहं त्वेतत्तपसे’ ति सुनिश्चितः ॥७२
धिषणेनाभ्यनुज्ञातो विष्वक्सेनसरो ययौ ।
विसृज्य देवानिन्द्राण्या ह्यातिष्ठत्तपसे सह ॥७३
विष्वक्सेनसरोऽधस्तात् वज्रेणाहत्य भूधरम्
स्नानार्थं देवपूजार्थं पातालात् जलमाददे ॥७४
[[486487]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वाविंशोऽध्यायः
क्षीराहारो जितक्रोधो जितकामो जितेन्द्रियः
पादाङ्गुष्ठेन सम्पीड्य ह्यतिष्ठन्मेदिनीं शुभे! ॥७५
जपंश्च नियतं देवीं गायत्रीं वेदमातरम्
पूर्णं वर्षसहस्रन्तु ततः प्रीतोऽभवद्धरिः ॥७६
वराहरूपो भगवान् धरण्या सह भूधरे
प्राह चेन्द्रं ’सुरेशाहं वरदस्ते समागतः ॥७७
वृणीष्व यदभीष्टं ते ददामि सुरसत्तम!’
एवमुक्तोऽथ देवेन्द्रः प्रणम्य धरणीधरम् ॥७८
प्रीतस्त्वमसि देवेश वरं देहि दयानिधे!
सहस्रमेतच्छिश्नानां विनैकं नश्यतां मम ॥७९
एवमेव वरं देहि ममैतावद्धि काङ्क्षितम्
ततो वराहो देवाय वरं दत्त्वा यथेप्सितम् ॥८०
तत्रैवान्तर्दधे देवो वृषभाद्रौ वरानने!
ततः शिश्नाः सहस्रं ते न्यपतन् वज्रिदेहतः ॥८१
सद्यस्तेजोमया भूत्वा ब्राह्मणा वेदपारगाः
सहस्रमब्रुवन्निन्द्रं प्रीत्या परमया युताः ॥८२
शृणु देव! वयं विप्राः पौलोमीसङ्गमेच्छया!
तपः कृत्वा ततो भूमौ तवाङ्गे देवसत्तम! ॥८३
व्रेुढाः सहस्रमेवैते गौतमस्य तपोबलात्
स्वर्गस्त्रियोऽनुभुक्ताश्च तथेन्द्राणीं यथासुखम् ॥८४
वरं ददाम ते प्रीता वृणीष्व जलसूदन!’
इति तेषां वचः श्रुत्वा प्रीत्या वज्र्यब्रवीद्धि तान् ॥८५
’यदि प्रीताः स्थ मे विप्रा व्रणानां तु सहस्रकम्
भवन्तु चक्षूंषि सदा भवतां तु प्रसादतः’ ॥८६
तथाऽस्त्विति ब्रुवन्तस्ते द्विजा जग्मुस्तपोधनाः
सहस्रदृक्च देवोऽथ जातोऽभूदद्भुताकृतिः ॥८७
सह शच्या विशालाक्ष्या प्रविवेशामरावतीम्
दिव्यमङ्गलवाद्यैश्च हर्षयन् सर्वदेहिनः ॥८८
ल्ब्ध्वा वरं देववरो वृषाद्रौ
तुङ्गं समारुह्य तुरङ्गयुक्तम् ।
वज्री रथं काञ्चनमप्सरोभिः
सुगीयमानश्च ययौ स्वगेहम्’ ॥८९
इति श्रीवामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये स्कन्दकृततपः
प्रकारादिवर्णनं नाम द्वाविंशोऽध्यायः.
त्रयोविंशोऽध्यायः
अथ त्रयोविंशोऽध्यायः
सुवर्चलायां श्रीविष्कक्सेनोत्पत्तिक्रमः
नारदः-
श्रुत्वा चित्रां कथां देवी पुनः प्रीताऽऽह शङ्करम्
’विष्वक्सेनश्च को वाऽसौ किमर्थञ्च तपोऽचरत् ॥१
[[488489]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रयोविंशोऽध्यायः
किं लेभे कुत्र चाऽस्तेऽसौ ब्रूहि मे तत्त्वदर्शन!’
श्रुत्वाऽथ पार्वतीवाक्यं प्रीतः प्राह महेश्वरः ॥२
’पुरा कृतयुगे देवी कु न्तला नाम चाप्सराः
दुर्वासस्याऽऽश्रमं प्राप्य रम्यमिन्द्रेण चोदिता ॥३
सा लास्यमकरोद्बाला महर्षेर्भाविताऽत्मनः
अग्रतो रुचिरां दृष्ट्वा सोऽशपत् कोपनो मुनिः ॥४
’किराती भव दुर्भद्धे कुन्तले नीलकुन्तले!’
सा शप्ता कुन्तला भीता प्राञ्जलिः प्रणताऽवदत् ॥५
’स्वाधीना नास्मि भगवन्! क्षमस्व मम दुर्नयम्’
प्राञ्जलिं प्रणतां दृष्ट्वा दुर्वासा वाक्यमब्रवीत् ॥६
’नानृता वाक् च मे बाले! शापमोक्षं वदामि ते
भीरु! पुत्रमुखं दृष्ट्वा पुनः स्वर्गं गमिष्यसि’ ॥७
इत्युक्त्वा सा पुनः प्राह ’पुत्रं विष्णुपराक्रमम्
दीर्घायुषं तपोनिष्ठं सूताऽस्मि तव वैभवात्’ ॥८
इति नव्रूं पुनस्तां तु ’तथाऽस्त्वि’ त्यब्रवीन्मुनिः
वीरबाहोः किरातस्य पत्न्यां जज्ञे सुवर्चला ॥९
पुत्री ह्यपुत्रिणस्तस्य ववृधे प्रीतिवर्धनी
वरा सा रूपलावण्यगुणैर्नारीगणेष्वभूत् ॥१०
धर्मपुत्राय भद्राय तां पिता प्रददौ तदा
पीनोन्नतस्तनी श्यामा सा बाला तनुमध्यमा ॥११
कदाचित् फाल्गुणे मासि शुक्लपक्षे शुभे दिने
ऋतुस्नाता नर्मदायां स्थिता ऋक्षवतस्तटे ॥१२
अपश्यत्तां तु वरुणः सङ्गम्य ह्यवदच्च ताम्
’प्रीतोऽहं सुभगे! सुभ्रु! वृणीष्व वरमीप्सितम्’ ॥ १३
सुवर्चला-
’प्रीतो यदि भवान् दद्याद्देव! मे पुत्रमु त्तमम्’
वरुणस्त्वाह ’कल्याणि! सुपुत्रा त्वं भविष्यसि’ ॥१४
शङ्करः-
इति दत्त्वा वरं तस्यै ययौ जलपतिस्ततः
तच्छ्रुत्वा वचनं तस्य प्रीता साऽभूत् सुवर्चला ॥१५
सासूत पुत्रं तपनीयगात्रं
पूर्णेन्दुवक्त्रं जलजाभनेत्रम् ।
शङ्खासिबाणासनकुम्भरेखा-
समुज्ज्वलद्रक्तकराङ्घ्रियुग्मम् ॥१६
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता
ववौ वायुः सुखस्पर्शः तज्जन्मदिवसे तदा ॥१७
पुष्यर्क्षे कर्कटे जातः सुवर्चलसुतो बली
ववृधे वीर्यवांस्तत्र शुक्लपक्ष इवोडुराट् ॥१८
पुत्रस्य दशमे वर्षे कालधर्मं ययौ च सा
ततस्त्यक्तश्च पित्राऽसौ काश्यपस्याश्रमं ययौ ॥१९
[[490491]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रयोविंशोऽध्यायः
आयान्तं तं मुनिर्दृष्ट्वा ज्ञात्वा तं वरुणात्मजम्
राजपुत्रं महात्मानं रूपलापण्यसंयुतम् ॥२०
प्रीतो जग्राह तं शिष्यं मन्त्रं प्रादान्महामुनिः
लब्ध्वा मन्त्रं मुनिवरात् वेदान् साङ्गानधीत्य च ॥२१
अनुज्ञातो ययौ तेन तपसे वृषभाचलम्
तपस्तप्त्वा चिरं कालं तैस्तैश्च नियमैः सह ॥२२
सम्पूर्णे द्वादशे वर्षे मासि चाश्वयुजे शुभे
पूर्वाषाढे च पुण्यर्क्षेवरं ल्ब्ध्वा जनार्दनात् ॥२३
सारूह्यं श्रीपतेस्तस्य सैनापत्यमवाप्य च
शङ्खचक्रगदापाणिः विष्ण्वाज्ञापरिपालकः ॥२४
पञ्चायुधाश्रमाधःस्थात् ययौ स्वाश्रमतस्तटम्
नारायणाद्रेर्गिरिजे! गन्धर्वैः परिवारितः ॥२५
चतुर्दशानां जगतामधीश्वरैः
महाबलैर्भूतगणैर्महास्वनैः ।
ज्वलच्छिखैरुज्ज्वलहेतिभिर्वृतो
नैबुत्यकोणे त्ववसद्गिरेस्तटम् ॥२६
विष्वक्सेनस्य यदिदं जन्म प्रोक्तं मया तव
आश्रमाणां प्रसङ्गेन न तत्कर्मनिबन्धनम् ॥२७
अवतीर्णस्तु देवोऽसौ देवैरभ्यर्थितः पुरा
विष्णोराज्ञां पुरस्कृत्य विष्णुतुल्यपराक्रमः ॥२८
चक्रादि सप्तदशतीर्थमाहात्म्यम्
विष्वक्सेनाश्रमादूर्ध्वं सरस्यः पञ्च चोज्ज्वलाः
पञ्चायुधैर्भगवतो देवि! नित्यमुपाश्रिताः ॥२९
तत्तदाकारयुक्तास्ताः दृश्यन्तेऽद्यापि पर्वते
तासामूर्ध्वं जातवेदाः तपस्तेपे सरोवरे ॥३०
तत्सरस्तु दुरारोहमगाधं पापनाशनम्
आग्नेयमिति विख्यातं तीर्थानामुत्तमोत्तमम् ॥३१
ब्राह्मं सरस्ततश्चोर्ध्वं पावनं परिकीर्तितम्
सप्तर्षीणां ततश्चोर्ध्वं आश्रमाश्च सरांसि च ॥३२
एषां सप्तदशानाञ्च ह्येकैकं पापनाशनम्
दर्शनात् कीर्तनाच्चापि स्नानात् पानाच्च पार्वति! ॥३३
नारदः-
श्रुत्वैतत् पार्वती प्राह भर्तारं भक्तवत्सलम्
’आदितः सरसामेषां माहात्म्यं वद शङ्कर! ॥३४
सर्वलोकहितार्थाय पावनं पुण्यवर्धनम्’
शङ्करः प्राह पद्माक्षि! शृणु दुर्वाससे पुरा ॥३५
ब्रह्मणा पृच्छते प्रोक्तं कापिलं लिङ्गमुत्तमम्
ऋषिणा कपिलाख्येन पाताले पूजितं सदा ॥३६
क्षीराभिषिक्तं सुरभेः उद्भिद्य भुवमुद्गतम्
कुपिता सुरभिस्तस्य मूर्ध्न्याधायान्वशात् खुरम् ॥३७
[[492493]]
’मा वर्धस्वे’ ति लिङ्गन्तु नावर्धत खुराङ्कितम्
आदौ रजतवर्णञ्च मध्ये स्वर्णप्रभं महत् ॥३८
अग्रेऽरुणाभं सम्भूतं पञ्चवक्त्रं त्रियम्बकम्
पञ्चवर्णं महाभीमं पातालाधिष्ठितं सदा ॥३९
महर्षिणा कृते पूर्वं कपिलेन प्रपूजितम्
’कपिलेश्वर’ इत्येतत्कृते ख्यातं युगे पुरा ॥४०
त्रेतायामग्निना पश्चात् ’आग्नेय’ मिति कीर्तितम्
अनाद्यन्तं महालिङ्गं द्वापरे चक्रपूजितम् ॥४१
कलौ युगे भविष्यं तत् कपिलापूजितं शिवम्
अग्रे कापिललिङ्गस्य सरोवरमनुत्तमम् ॥४२
पातालादुद्गतस्यास्य कपिलस्य महात्मनः
मार्गो हि तद्बलं गुह्यं कापिलं परिकीर्तितम् ॥४३
जलाभिपूरितं तत्तु सरोवरमनुत्तमम्
दर्शनादेव तत्तीर्थं सर्वाघौघविनाशनम् ॥४४
दर्शनात् स्वर्गदं पुंसां स्त्रीणामपि च पार्वति!
स्नाने पाने कृते तस्मिन् जरामरणनाशनम् ॥४५
सकृत्स्नातस्य तु फलं जनस्य शृणु पार्वति!
वाजहेयाश्वमेधानां पुष्कलं फलमश्नुते ॥४६
वाजपेयात्पुनर्जन्म सकृत्स्नातस्य न च्युतिः
तदूर्ध्वसरसि स्नातो ’’वज्रतीर्थ’’ मिति स्मृते ॥४७
दशाधिकफलं लब्ध्वा शक्रलोकं स गच्छति
वज्रतीर्थोर्ध्वतः कुण्डे ’’विष्वक्सेन’’ सरोवरे॥४८
स्नातस्तु यस्तस्य फलं शताधिकमितीरितम्
एवं सप्तदशानां तु तीर्थानामधिकं फलम् ॥४९
कापिलाख्यचक्रतीर्थस्नानकालनिर्णयादिः
त्रैलोक्ये सर्वतीर्थानि कार्तिके मासि पर्वणि
मध्याह्ने कापिले तीर्थे सान्निध्यं यान्ति पार्वति! ॥५०
तिष्ठन्ति प्राणिरक्षार्थं मध्याह्ने दश नाडिकाः
तत्र स्नातास्तु ये पापाः पुरुषा योषितोऽमले! ॥५१
सर्वपापविनिर्मुक्ता ब्रह्मलोकं प्रयान्ति वै
तत्र दानानि कुर्वन्ति ये नरास्तीर्थसन्निधौ ॥५२
तिलमात्रहिरण्यन्तु दत्तं मेरुसमं भवेत्
भिक्षामात्रं तथाऽन्नस्य दानं कापिलसन्निधौ ॥५३
कुर्वन्ति ये नरा देवि! सोमलोकं व्रजन्ति ते
कन्यागोभूप्रदातारो विद्यामन्त्रोपदेशकाः ॥५४
स्वर्गकैलासवैकुण्ठब्रह्मलोकान् व्रजन्ति ते
’वर्षे वर्षे तु कार्तिक्यां पौर्णमास्यां महातिथौ ॥५५
आयान्ति सर्वतीर्थानि मध्याह्ने कापिलं सरः
इमं मन्त्रं समुच्चार्य स्नातस्तत्फलमाप्नुयात् ॥५६
स्नानं तु दुर्लभं तत्र तद्विष्णोः परमं पदम्
इति ते कथितं सर्वतीर्थमाहात्म्यमुत्तमम्
अतः परं प्रवक्ष्यामि पवनस्य तपो महत्’ ॥५७
इति श्रीवामनपुराणे श्री वेङ्कटाचलमाहात्म्ये चक्रादिसप्तदश
तीर्थमाहात्म्यवर्णनं नाम त्रयोविंशोऽध्यायः.
[[494495]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रयोविंशोऽध्यायः
चतुर्विंशोऽध्यायः
अथ चतुर्विंशोऽध्यायः
भगवन्तमुद्दिश्य वाय्वादिकृततपःप्रकारः
शङ्करः-
’वायोस्तपः प्रभावन्तु शृणु देवि! ततः प्रिये!
ग्रीष्मे पञ्चतपा वायुः वर्षासु भुवि तिष्ठति ॥१
हेमन्ते शिशिरे चापि शेते स्वामिसरोजले
एवं वर्षसहस्रान्ते देवदेवो जनार्दनः ॥२
प्रादुर्भविष्यति हरिः वायोः प्रियचिकीर्षया
ततः पश्चात्तु शङ्खस्य राज्ञः प्रियचिकीर्षया ॥३
विश्वविख्यातसुमहाप्रादुर्भावं गमिष्यति
सर्वलोकहितायैव शङ्खव्याजेन वै हरिः ॥४
श्री वेङ्कटाचले पुण्ये प्रादुर्भावं गमिष्यति
तस्य हेतोस्ततः पूर्वं कर्तुञ्च सुमहत्तपः ॥५
आवां तत्र गमिष्यावः चिरकालादनन्तरम्
गमिष्यन्ति सुराः सर्वे सह सर्वैर्महर्षिभिः ॥६
तदा कुमारं द्रक्ष्यावो विष्णुभक्तिपरायणम्’
इत्युक्ता शङ्करेणाऽथ विरराम तदा सती ॥७
ततः कालेन महता शङ्करो गमनोन्मुखः
बभाषे पार्वतीं देवीं पुत्रदर्शनलालसाम् ॥८
शङ्करः-
’अयं स कालः सम्पाप्त्रो यः पुरा ते मयोदितः
श्रीवेङ्कटाह्वयं गन्तुं महापुण्यं नगोत्तम्’ ॥९
इति संस्मारिता देवी तदा पप्रच्छ शङ्करम्
पार्वती-
’किं नु वायोस्तपः पूर्णं? प्रादुर्भूतः किमीश्वरः? १०
कथं प्रत्यक्षतां यातो वायोर्नारायणो हरिः ?
किं नु तस्मै वरं प्रादात्? तत्सर्वं शंस मे विभो!’ ॥ ११
इति पृष्टो महादेवः पार्वतीमब्रवीत्तदा
शङ्करः-
’चचार खलु वै वायुः दारुणं सुमहत्तपः ॥१२
प्रादुर्भूतं भगवन्तमुद्दिश्य वायुकृत विश्वरूपस्तुतिः
ततो वर्षसहस्रान्ते देवदेवो जनार्दनः
प्रादुर्बभूव भगवान् परमात्मा सनातनः ॥१३
श्री भूमिसहितो देवो गरुडोपरि संस्थितः
सशेषः शङ्खचक्राभ्यां अन्वितः शार्ङ्गबाणधृक् ॥१४
तं दृष्ट्वा विस्मितो भूत्वा वायुः सर्वात्मगोचरः
आसनादुदतिष्ठत्सः मत्तोन्मत्त इव भ्रमन् ॥१५
[[496497]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुर्विंशोऽध्यायः
सम्पतन्नुत्पतन् हर्षात् उद्भ्रमन् विभ्रमन्नपि
’अद्भुतं किमिदं दृष्टं वृषभाद्रौ मयाऽद्य वै’ ॥ १६
इत्युन्मादात् विसञ्ज्ञोऽभूत् मुहूर्तं परमेश्वरि!
उदतिष्ठत्ससञ्ज्ञोऽथ ददर्श हरिमञ्जसा ॥१७
यो वेदैश्च तपोभिश्च योगिभिर्मुनिभिस्तथा
द्रष्टुं शक्यो न देवस्तु तमपश्यत्सनातनम् ॥१८
प्राणनाम पुनश्चापि साष्टाङ्गं पुरुषोत्तमम्
वायुस्तुष्टाव गिरिजे! भगवन्तं जनार्दनम्
तत्त्वार्थयुक्तया वाचा वेदवेद्यं सनातनम्’ ॥१९
’’नमस्ते देवदेवेश! पुराणपुरुषोत्तम!
श्रीधराऽनन्त! गोविन्द! जिष्णवे विष्णवे नमः ॥२०
एकस्त्वं पुरुषः साक्षात् आदौ मायासमन्वितः ।
जगदेकार्णवीकृत्य वेषे सागरसम्प्लवे ॥२१
त्वन्नाभिपङ्कजोद्भूतो ब्रह्मा ब्रह्मविदां वरः
येनेदं जगदुत्सृष्टं चराचरसमन्वितम् ॥२२
रजोगुणं समाश्रित्य जगत्सृष्टं त्वया विभो!
सत्त्वं गुणं समाश्रित्य रक्ष्यते ह्यखिलं जगत् ॥२३
तमोगुणं समाश्रित्य ह्रिायते च पुनस्त्वया
जातास्त्वयि ब्रह्मरूपे ते प्रजापतयो नव ॥२४
येभ्यः सम्भूतमेतत्तु देवमानुषराक्षसम्
मधुकैटभहन्ता त्वं सव्प्रूप्ते ब्रह्मसङ्कटे ॥२५
ततोऽसुरं सोमकाख्यं हत्वा वेदञ्च तत्करात्
गृहीत्वा ब्रह्मणे प्रादात् मीनरूपी महेश्वरः ॥२६
निराधारे जगत्मस्मिन् निरालम्बे चराचरे
आधारः कूर्मरूपी त्वं पुरुषोत्तम! तिष्ठसि ॥२७
गतामुद्धृत्य पातालं भुवं सगिरिकाननाम्
वोढाऽसि पोत्रिरूपेण त्वं महात्मा सनातनः ॥२८
पुनः कृतयुगादौ तु हिरण्याख्येऽसुरे सति
सैंहीं प्रह्लादरक्षार्थं नरार्धतनुमुद्वहन् ॥२९
स्तम्भात् कालायसाज्जातो विदार्याऽथ महासुरम्
लक्ष्मीमालिङ्ग्य भगवन्! रक्षिता त्वं जगत्त्रयम् ॥३०
अथ कालान्तरे विष्णो! यागे वैरोचनेर्विभो!
त्वमिन्द्रचोदितो देव! वामनो वाग्मिनां वरः ॥३१
पदानि त्रीणि याचित्वा प्रतिगृह्य महाबलेः
आक्रम्य भूर्भुवोलोकान् दत्त्वेन्द्राय जगत्त्रयम् ॥३२
चन्द्रमण्डलमासाद्य पद्मासनगतो विभो!
अमृताऽन्नाधिपो विष्णो! जगत्पासि चराचरम् ॥३३
जामदग्न्यो महाबाहो । राक्षसान् राजरूपिणः
हत्वा तद्रक्तकुण्डेषु कृत्वा पितृजलक्रियाम् ॥३४
महीं निःक्षत्रियां कृत्वा यज्ञं कृत्वाऽश्वमेधिकम्
दक्षिणार्थं महीं दत्त्वा काश्यपाय जगत्प्रभो! ॥३५
[[498499]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुर्विंशोऽध्यायः
गत्वा महोदधिं तत्र समुद्रेण कृतालयः
सह्यादौ रमणीये त्वं तपश्चरसि भार्गवः ॥३६
रावणे राक्षसे देव! सम्भूते देवकण्टके
ततस्त्रेतायुगे जिष्णो! रामो दाशरथिः स्वयम् ॥३७
लक्ष्मणानुचरो भूत्वा भार्याहर्तारमाहवे
सपुत्रपौत्रं सगणं सामात्यं संहरिष्यसि ॥३८
बलभद्रोऽथ कृष्णस्त्वं वासुदेवः सनातनः
कल्यन्ते कल्किरूपी च भविताऽसि त्रिलोकधृक् ॥३९
आदित्यानाञ्च विष्णुस्त्वं ज्योतिषां त्वं प्रभाकरः
वसूनां पावकश्च त्वं रुद्राणां शम्भुरुत्तमः ॥४०
ग्रहाणाञ्च बुधोऽसि त्वं देवानां बलभित् भवान्
सिद्धानां कपिलोऽसि त्वं देवर्षीणाञ्च नारदः ॥४१
यज्ञानां जपयज्ञोऽसि तपश्चासि तपस्विनाम्
यक्षाणाञ्च धनेशस्त्वं यमः संयमतां भवान् ॥ ४२
मत्स्यानां मकरोऽसि त्वं वरुणो यादसां पतिः
आपगानाञ्च गङ्गा त्वं सरसां सागरो भवान् ॥४३
वायूनां प्राणवायुस्त्वं विधातॄणां चतुर्मुखः
वर्णानां ब्राह्मणश्च त्वम् आश्रमाणां गृही भवान् ॥ ४४
तारकाणाञ्च चन्द्रस्त्वं इन्द्रियाणां मनो भवान्
सिंहोऽसि त्वं मृगाणाञ्च गजेन्द्रोऽसि चतुष्पदाम् ॥ ४५
द्विपदां ब्राह्मणश्चासि पक्षिणां गरुडो भवान्
वासुकिस्त्वन्तु सर्पाणां विषाणां कालकूटकम् ॥४६
नागानां त्वमनन्तोऽसि मेरुस्त्वं कुलभूभृताम्
गिरीणां हिमवांश्च त्वं वेदानां सामरूपधृक् ॥४७
छन्दसामपि गायत्री मन्त्राणां प्रणवो भवान्
पशूनां सुरभिश्च त्वं हुतभुक् यज्ञभोजिनाम् ॥४८
अचराणां गिरिश्च त्वं वृक्षाणां पिप्पलो भवान्
नेनानीनां भवान् स्कन्दः क्षमा शौर्यवतां भवान् ॥४९
बीजानामङ्कुरश्चासि प्राणिनां प्राणधृक् भवान्
ब्रह्मर्षीणां वसिष्ठस्त्वं चरतां पवनो भवान् ॥५०
महर्षीणां भृगुश्च त्वं व्यासो वेदविदां भवान्
वाल्मीकिश्च कवीनां त्वं जनानां त्वं जनेश्वरः ॥५१
यत्सत्त्वं सर्वलोकेषु तेजोबलसमन्वितम्
तद्भवानिति विज्ञेयमिति ब्रह्मविदो विदुः ॥५२
सहस्रशिरसे तुभ्यं पुरुषाय नमो नमः
भुजासहस्रयुक्ताय ते सहस्रपदे नमः ॥५३
नानाविधानि देव! त्वदायुधानि सहस्रशः
दीप्यमानानि सर्वाणि द्योतयन्ति दिशो दश ॥५४
वक्त्राणि तव तीव्राणि दंष्ट्राप्रतिभयानि च
बालार्कमण्डलाकारकुण्डलाभ्यां विभान्ति वै ॥५५
[[500501]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुर्विंशोऽध्यायः
त्वत्पादाम्भोरुहैरेतैः सहस्रैर्भाति ते पदम्
बालार्कद्युतिसम्भिन्नरक्ताम्भोजैरिवाञ्चितम् ॥५६
पृथिवी पूरिता पद्भिः आकाशं मूर्धभिस्तव
बाहुभिश्च दिशो व्याप्ता महाविष्णो! नमोऽस्तु ते ॥५७
वेदास्तवैव निःश्वासाः चन्द्रसूर्यौ तवाक्षिणी
ज्योतिष्कणाश्च ताराणि जगद्रूप! नमोऽस्तु ते ॥५८
कलाकाष्ठामुहूर्तादि दिनरात्रिशरीरिणे
चतुर्युगाय कालाय नमोऽनन्ताय ते विभो! ॥५९
कालदृक् कालरूपी च कालात्मा कालकारणम्
कालविद्भिरवेद्यस्त्वं विश्वमूर्ते! नमोऽस्तु ते ॥६०
अनादीनि च भूतानि महान्ति मधुसूदन!
तव मूर्तानि रूपाणि भूतभावन! ते नमः ॥६१
प्राणात्मा प्राणधृक् प्राणी साक्षी त्वं सर्वकर्मणाम्
नित्यः सर्वगतः स्थाणुः अचलस्ते नमो नमः ॥६२
शरीरभृत् शरीरी त्वं शरीरात्मा शरीरगः
शारीरकर्मणा स्पृष्टः शुद्धमूर्ते! नमोऽस्तु ते ॥६३
अणीयसामणीयांस्त्वं महीयांश्च महीयसाम्
बृहताञ्च बृहच्च त्वं विश्वमूर्ते नमोऽस्तु ते ॥ ६४
खस्थस्त्वं खगुणश्चापि खगुणातीत एव च
खमूर्तिः खगतिश्चासि खगेशारूढ! ते नमः ॥६५
ज्ञानात्मा ज्ञानदृक् ज्ञानी ज्ञानं ज्ञानवतां भवान्
ज्ञानविद्भिरविज्ञेयः तुभ्यं ज्ञेयाऽत्मने नमः ॥६६
वेदात्मा वेदवित् वेद्यो वैद्यो वेदविदां वरः
वेदान्तवेद्यरूपाय ब्रह्मरूपाय ते नमः ॥६७
अक्षराय क्षराद्याय ह्यक्षराकारधारिणे
क्षराक्षरविभक्तौ द्वौ अतीताय च ते नमः ॥६८
नमो निरन्तरानन्दमूलकन्दाय जिष्णवे
उष्णत्वमग्नौ शैत्यञ्च जले पृथ्व्याञ्च गन्धिता ॥६९
स्पर्शित्वञ्च भवान्वायौ नैर्मल्यं खे नमोऽस्तु ते
घनाः केशेषु नद्यस्ते भगवन्! सर्वसन्धिषु ॥७०
कुक्षौ च सिन्धवः सप्त नमस्ते जलमूर्तये
स्तोत्रैः स्तुताय स्तोत्राय स्तोत्रकृत्प्रियकारिणे ॥७१
स्तोत्रज्ञेयाय स्तुत्याय स्तोत्ररूपाय ते नमः
अद्भुताकाररूपाय नमस्ते शारङ्गपाणे ॥७२
भक्तप्रियाय शान्ताय भक्तचित्तानुवर्तिने
भक्तपापविनाशाय नमस्ते शारङ्गपाणये ॥७३
रक्षाकराय जगतां रक्षोघ्ने राक्षसारये
श्रीवत्सवक्षसे तुभ्यं शारङ्गपाणे! नमो नमः ॥७४
श्रिया सरोजकरया सरोजान्तरवर्णया
दिव्याभरणविद्योतिदेहया दिव्यवेषया ॥७५
[[502503]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुर्विंशोऽध्यायः
पलाशश्यामया देव्या धरिण्योत्पलहस्तया
संश्रितोभयपार्श्वाय नमस्ते शारङ्गपाणये ॥७६
चराचराणि भूतानि भीतानि चलितानि वै
लभन्ते न स्थितिं देव! भीमरूप! नमोऽस्तु ते ॥७७
युगान्तकालानलकोटितुल्य! प्रभाभिरापूरितलोकजाल!
रत्नाङ्गदालङ्कृतबाहुदण्ड! नमो नमस्तेऽस्तु सहस्रबाहो!॥ ७८
नमोऽस्तु देवा आपि लोकपाला भूताविशेषेण विरूपनेत्र!
विमानगास्ते प्रणमन्ति चैते प्रसीद देवेश! जगन्निवास! ॥ ७९
पश्यामि देवेश तवैव देहे चराचराणीह गतागतानि
भूतानि चैतानि च भूतवास तपःप्रभावाच्च भवत्प्रसादात् ॥८०
अनेकरत्नान्वितभूषणानां प्रभाभिरादीपितलोकजाल !
तडिद्गुणालङ्कृतमेघकान्ते! प्रसीद देवेश! जगन्निवास! ॥८१
त्वदीयवक्त्राणि महाद्युतीनि कल्पान्तसूर्यानलसन्निभानि
दंष्ट्राकरालानि महास्वनानि बिभेमि पश्यन् भगवन्! प्रसीद॥ ८२
ब्रह्मत्रिणेत्रप्रमुखांश्च देवान् सयक्षगन्धर्वमहोरगांश्च
पश्यामि सर्वांस्तव देव! देहे प्रसीद देवेश जगन्निवास ॥८३
दिशो न जाने न लभे च शर्म सीदाम्यहो! देववर! प्रसीद
भक्तानुकम्पिन्! परमार्थरूप! प्रसीद विष्णो! भगवन्! प्रसीद’’ ८४
शङ्करः-
’’प्रसीदे’’ ति नमस्कृत्य वायुः प्राङ्जलिरास वै
प्रीतोऽथ भगवान् विष्णुः शङ्खचक्रगदाधरः ॥८५
श्रीभूमिसहितो देवो वरदो वायुमब्रवीत्
’वरं वृणीष्व भद्रं ते वायो! यन्मनसेच्छसि’ ॥८६
वायुः-
’वरं न याचे देवेश! श्रीनाथ! परमेश्वर!
त्वत्सान्निध्यं ममैवेदं नित्यमस्तु रमापते!८७
वायुं प्रति भगवत्कृतानवरतस्वसान्निध्यवरप्रदानम्
शङ्करः-
एतच्छ्रुत्वा हरिः प्राह देवतानाञ्च सन्निधौ ।
श्रीभगवान्-
’चतुःषष्टिं त्वयोक्तानां श्लोकानां यः पठेन्नरः ॥८८
भुक्तिं मुक्तिं स लभते मत्प्रसादान्न संशयः
त्रिसन्ध्यं यः पठेत् भक्त्वा पूजयन् मामनन्यधीः ॥ ८९
षण्मासान्मम सान्निध्यं लभते स न संशयः
तवास्तु यद्यदिष्टं तत् देवानामपि दुर्लभम् ॥९०
अस्य स्कन्दकुमारस्य पूजनं मम नित्यशः
आकल्पान्तं मया दत्तं तथा सान्निध्यमत्र वै’ ॥९१
शङ्करः-
वायुर्लब्ध्वा वरान् विष्णोः ययावथ सुराऽलयम्
आस्ते वृषाचले देवः श्रीभूमिसहितोऽनघे ॥९२
[[504505]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुर्विंशोऽध्यायः
अप्रत्यक्षालयो दृश्यो विहरन् गिरिमूर्धनि
नानाद्रुमलताकीर्णे सर्वर्तुगणसंयुते ॥९३
स्वामिवापीसमीपे तु कोटिकन्दर्परूपवान्
आस्ते लक्ष्म्या च धरया रमन् षोडशवार्षिकः ॥९४
दृष्ट्वा गुहोऽपि तं देवं चैत्रमासि शुभे तिथौ
आराधयंस्त्रिसन्ध्यं वै देवगन्धर्वकिन्नरैः ॥९५
नृत्यैरप्सरसाञ्चैव गीतवादित्रनिःस्वनैः
रमयंश्च रमानाथं उत्तरे गह्वरे गिरेः ॥९६
कुमारधारिका नाम तत्र निरञ्झ
रिणी शुभा
मयूरवाहको देवि! तस्यास्तीरे वसत्यहो! ॥९७
ब्रह्महत्या तु या तस्य दुःसहा घोररूपिणी
सा वृषाचलशृङ्गाग्रे दृष्टमात्रे बहिः स्थिता ॥९८
स कामयानः शेषाद्रौ नित्यसेवां हरेरसौ
पुनरागमनं देवि! षण्मुखो नाभिवाञ्छति ॥९९
अथ काले गते देवि! बहुवर्षगणायुते
गरुत्मांस्तु वृषाद्रिं तं काञ्चनं रत्नमण्डितम् ॥१००
उद्धृत्य ’अहं विष्णुलोकं गमिष्यामी’ त्यचिन्तयत्
तज्ज्ञात्वा भगवान् विष्णुः गरुडं त्वाह सुस्मितः ॥१०१
श्रीभगवान्-
’पक्षिराज! महासत्त्व शृणु कारणमुत्तमम्
गरुत्मन्निह सर्वे वै वसाम गिरिमूर्धनि ॥१०२
त्वं गिरेर्दक्षिणं सानुमासाद्य वस नित्यशः
शेषाऽऽगच्छ वसेह त्वं ताराक्ष्य्
धः शैलरूपधृक् ॥१०३
तावन्नित्यं मम प्रीत्यै शैलमाश्रित्य सर्वतः
आकल्पान्तं वसामीह जगत्पालनकारणात् ॥१०४
युगे युगे गिरिरयं नामानि विविधानि वै
गमिष्यति वराण्येव वरदोऽयं वृषाचलः ॥१०५
कृते वृषाद्रिं वक्ष्यन्ति त्रेतायां गरुडाचलम्
द्वापरे शेषशैलञ्च वेङ्कटाद्रिं कलौ युगे ॥१०६
वेङ्कारोऽमृतबीजन्तु कटमैश्वर्यमुच्यते
अमृतैश्वर्यसङ्घत्वाद्वेङ्कटाद्रिरिति स्मृतः ॥१०७
विविधा मुनयश्चैव मनुष्याश्च युगे युगे
नारायणाद्रिं वक्ष्यन्ति नामभिर्विविधैरमुम्’ ॥१०८
इत्याज्ञाप्य च तौ देवो रमया विहरन् सदा
आस्ते सुरासुरैर्वन्द्यः स्वामिपुष्करिणीतटे ॥१०९
आवां गच्छाव तं शैलं गिरिजे! गणसंयुतौ
नित्यं वसाव तत्रैव पश्यन्तौ गुहमव्ययम्
देवसेनापुलिन्दाभ्यां विहरन्तं वृषाचले’ ॥११०
देव्या सहागतस्य शम्भोः शेषाचलाग्नेयदिगवस्थानम्
नारदः-
इत्युक्त्वा वृषमारूढः पार्वत्या सह शङ्करः
सगणश्च ययौ स्कन्दं द्रष्टुं तं पृषभाचलम् ॥१११
[[506507]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुर्विंशोऽध्यायः
उषित्वा वसतीस्तिस्रो मार्गे पर्वतमूर्धसु
आराधितस्तदा तत्र देवैः सोमो वृषध्वजः ॥११२
स जगामास्थिकूटाख्यं वृषभाद्रौ सरोवरम्
मृतानामस्थिकूटानि प्रक्षिप्तानि सरोवरे ॥११३
येषान्तु पूर्वरूपास्ते समुद्गच्छन्ति तज्जलात्
तस्मात् तदस्थिकूटाख्यं आगच्छ सर उत्तमम् ॥११४
अवरुह्य च तत्तीरे वृषभादुमया सह
स्नात्वा तीर्थे महादेवः पार्वत्या सह शूलभृत् ॥११५
नत्वा श्रीकं वृषाद्रीशं दृष्ट्वा स्कन्दं ततः परम्
मयूरवाहनं बालं सोमः सोमकलाधरः ॥११६
आससाद सरोमुख्यं शिवः स्वामिसरस्ततः
स्नात्वा श्रीशाभ्यनुज्ञातः पूर्वदक्षिणतो गिरेः ॥११७
कपिलस्य सरस्तीरे कापिलं लिङ्गमुत्तमम्
अपश्यद्वृषभारूढः चक्रपूजितमत्र वै ॥११८
प्रादुर्बभूव सगणः सुदर्शनपुरः शिवः
चक्रतीर्थे तपस्यन्तं सुदर्शनं प्रति शङ्करवचनम्
दृष्ट्वा सुदर्शनो देवो नत्वा बद्धाञ्जलिः स्थितः ॥११९
प्रीतोऽथ भगवानाह सुदर्शनमुमापतिः
’प्रीतस्ते तपसा चक्र! यदभीष्टं वृणीष्व ते ॥१२०
ददामि देवैरपि यत् प्रार्धितं दुर्लभञ्च तत्’
सुदर्शनो वरं वव्रे ज्ञात्वा प्रीतञ्च शङ्करम् ॥१२१
’यदि प्रीतो गिरीश! त्वं अन्तरात्मनि मे वस
नित्यं भीमश्च सौम्यश्च वरदो मृत्युहा भव’ ॥१२२
नारदः-
’गिरीशः प्राह सुप्रीतः कालचक्रमनुत्तमम्
’’हेतिराज! महाबाहो! पर्याप्तं तपसा तव ॥१२३
विष्णोर्वरप्रसादेन स्नेहो मयि तवाधिकः
प्रागेव दर्शितः सम्यक् शाठ्यं तत्र न किञ्चन ॥१२४
दृष्टवानहमद्य त्वां मां प्रीणयसि किं! पुनः
तदलं तपसा देव नाऽवयोर्विद्यतेऽन्तरम् ॥१२५
अन्तरात्मनि ते वासः प्रार्थितो यस्त्वयाऽनघ!
तदशक्यं महाचक्र! विष्णोरन्यस्य कस्यचित् ॥१२६
अन्तरात्मा हि सर्वेषामेको नारायणः प्रभुः
स्नेहातिशयतस्त्वेवं भवानाहेति मे मतिः ॥१२७
दक्षिणार्थं तु दत्तस्त्वं चिरमाकाङ्क्षितोऽपि यत्
तत्रैवाशङ्कमानेन हरिणा त्वमुदीरितः ॥१२८
’प्रसादय पुनः शम्भुं’ इत्याहूय महात्मना
तदेतद्विदितं सर्वं मया योगबलेन वै ॥१२९
उपायश्चात्र दृष्टो मे त्वयि वासो ममेप्सितः
ममापि हि मतं तावत् त्वया निर्वर्त्यतां सखे! ॥१३०
[[508509]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुर्विंशोऽध्यायः
शुद्धसत्त्वस्य तद्विष्णोः सर्वयज्ञमयं वपुः
साक्षात् स्प्रष्टुमहं भीतः तमोगुणसमाश्रयः ॥१३१
वस्तव्यञ्च मया विष्णोः दिव्यमङ्गलविग्रहे
त्वामेव तदहं नित्यं विष्णोर्नित्यानपायिनम् ॥१३२
अनुप्रविश्य तद्देहे वसिष्यामि सुदर्शन!
एवं सति ममाभीष्टं प्रार्थितं च तवाद्भुतम् ॥१३३
उभयं प्रार्थ्यते तस्मात् कुरुष्व वचनं मम
ज्वालामालावृतो नित्यं वह मां हृदये स्थितम् ॥ १३४
सुवर्णाभं शतभुजं अष्टाविंशतिहस्तकम्
अथवा षोडशभुजं अष्टबाहुं चतुर्भुजम् ॥१३५
ज्वालाकेशं त्रिनयनं ब्रह्मविष्णुशिवात्मकम्
अर्चयिष्यन्ति मां लोके वसन्तं त्वयि नित्यशः ॥१३६
उपचारैस्तथा साङ्गैः पीठे शैवे च वैष्णवे
पुरुषा वा स्त्रियो वाऽपि भवन्तु फलभागिनः’ ॥१३७
इति दत्त्वा वरं तस्मै वरदो वृषभध्वजः
आस्ते तत्रेश्वरो नित्यं अदृश्यः सगणस्तटे ॥१३८
वरं लब्ध्वाऽथ चक्रोऽपि पञ्चायुधसरो ययौ
आसाद्य स्वं सरोऽदृश्यः तपश्चरति नित्यशः ॥१३९
शतानन्दः-
’श्रुत्वैतन्मुनयः प्रीता आख्यानं नारदेरितम्
सार्थं वाल्मीकिना सर्वे जग्मुस्तं वृषभाचलम् ॥१४०
अहं तैरभ्यनुज्ञातो मिथिलामागतो नृप!
इति ते कथितं सर्वमाख्यानं तु यथाश्रुतम्’ ॥१४१
व्यासः-
’श्रुत्वा सविस्तरं वाक्यं अद्भुतं रोमहर्षणम्
पुनः प्रीतोऽभवद् राजा शतानन्दं पुरोधसम् ॥१४२
’शृण्वतस्ते कथां ब्रह्मन्! तृप्तिर्मे नोपजायते
भूयः कथय मे ब्रह्मन्! वेङ्कटाद्रीश्वरं प्रति’ ॥१४३
व्यासः-
शतानन्दः पुनः प्राह जनकं मिथिलापतिम्
’वक्ष्यामि विस्तरेणाऽहं सावधानमनाः शृणु ॥१४४
वामदेवेन मुनिना कथितां जनकाय वै
निमिपुत्राय च पुरा कथां यज्ञान्तरे नृप! ॥१४५
इति श्री वामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्य्मे
वायुं प्रति भगवत्सान्निध्यवरप्रदानादिवर्णनं नाम
चतुर्विंशोऽध्यायः
[[510511]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुर्विंशोऽध्यायः
पञ्चविंशोऽध्यायः
अथ पञ्चविंशोऽध्यायः
जनकं प्रति शतानन्दोक्तभगवदाविर्भावकथोपोद्घातः
शतानन्दः-
पुरा तु जाह्नवीतीरे जनकं शंसितव्रतम्
अश्वमेधे महायज्ञे दीक्षितं मुनयोऽभ्ययुः ॥१
तानभ्यर्च्य मुनीन् सर्वान् राजा न ऋषिसत्तमान्
जनकः प्रीतिसंहृष्टो वाक्यमेतदुवाच ह ॥२
’अद्य मे सफलं जन्म सुतप्तञ्च महत्तपः
सज्गम्य यूयमस्माकं यज्ञवाटमिहागताः’ ॥३
तेनैव मुनयः सर्वे संहृष्टाः परमां मुदम्
ययुस्तत्र निशामेकां अवसन् मुनिसत्तमाः ॥४
बहु सम्भाषमाणानां अन्योन्यं वै महात्मनाम्
पर्यस्ता रजनी चापि प्रातःकालो हव्यर्तत ॥५
कृत्वा प्रातस्तनीं सन्ध्यां मुनयश्च समागताः
यज्ञवाटं महात्मानो जनको यत्र तिष्ठति ॥६
नारायणकथाश्चापि कथयन्तः परस्परम्
आसीनास्तत्र ते सर्वे जनकेन महात्मना ॥७
तस्मिन् काले महातेजाः पर्यटन् पृथिवीमिमाम्
ब्रह्मर्षिर्वामदेवस्तु सङ्गतो मुनिसत्तमः ॥८
अभ्युत्थितास्ततः सर्वे ऋषयो वेदपारगाः
पप्रच्छुः सङ्गताः सर्वे वामदेवं द्विजोत्तमम् ॥९
’भूरियं वामदेवाऽद्य परिक्रान्ता त्वया विभो!
श्रोतुमिच्छामहे त्वत्तो नारायणकथां शुभाम् ॥१०
क्व वा वसति देवेशः श्रीनिवासो जगत्पतिः?
उत्कण्ठा विद्यते चास्य जनकस्य महात्मनः’ ॥११
इति तैः परिपृष्टस्तु वामदेवस्तदाऽब्रवीत्
’नारायणगिरिर्नाम भूधरेन्द्रो द्विजोत्तमाः! ॥१२
इतो दक्षिणतश्चापि द्विशते योजने पुनः
तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥१३
वसन्ति नियताऽऽहारा वेङ्कटाह्वयभूधरे
अहमप्यागतस्तत्र भूधरेन्द्रे द्विजोत्तमाः१४
अगस्त्यं नारदञ्चैव पुलस्त्यं पुलहं तथा
क्रतुमाङ्गिरसञ्चैव दक्षं जाबालिमेव च ॥१५
योगाभ्यासरतांस्तांस्तु दृष्ट्वाऽहं पुनरब्रुवम्
’किमत्र सङ्गता यूयमासीना पर्वते द्विजाः’ ॥१६
इति पृष्टास्तु ते सर्वे प्रत्यूचुर्मे न किञ्चन
अगस्त्यः परमर्षिस्तु मामाहूय महायशाः ॥१७
उवाच मुनिशार्दूलो निवासे तत्र कारणम्
’भगवन्तमुपासीनो नारदो योगवित्तमः ॥१८
[[512513]]
श्रीवामनपुराणे क्षेत्रखण्डे पञ्चविंशोऽध्यायः
वसन् गोदावरीतीरे न ददर्श श्रियः पतिम्
वैकुण्ठे तु परे लोके तेनोद्विग्नमना मुनिः ॥१९
ब्रह्माणं समुपागम्य पर्यपृच्छत् सनातनम्
’निवासः सर्वभूतानां परमात्मा सनातनः ॥२०
क्व प्रयातः परो देवः? तन्मे ब्रूहि पितामह!’
इति पृष्टस्तदा तेन ब्रह्मा लोकपितामहः ॥२१
’ध्यात्वा चिरमुवाचेदं नारदं प्राञ्जलिं स्थितम्
नारायणगिरिर्नाम भूमौ क्वापि महामुने! ॥२२
तस्मिन् हि रमया सार्धं रमते पुरुषोत्तमः
प्रीतिः सुमहती जाता तस्मिंस्तु गिरिमूर्धनि ॥२३
गच्छ नारद! सर्वेशं द्रष्टुमिच्छसि चेत्प्रभुम्’
इति तेन समादिष्टो नारदो मुनिसत्तमः ॥२४
ततस्तस्मादपाक्रम्य सशैलेन्द्रमुपागमत्
आगच्छन्तं वयं सर्वे सङ्गताः पथि नारदम् ॥२५
अस्माभिः सह सङ्गत्य पर्वतेन्द्रमुपागमत्
ततश्चतुर्मखश्चापि देवैः सह समागतः ॥२६
अस्माभिः सहितः पूर्वं तस्मिन्पर्वतसत्तमे
चचार भगवान् ब्रह्मा परमात्मानमव्ययम् ॥२७
अदृष्ट्वा नारदं चास्मान् इत्युवाच पितामहः
’यावत्यः सरितश्चास्मिन् सरांसि च महामुने ॥२८
याश्च सन्ति महापुण्याः पुष्करिण्यः शुभोदकाः
तटाकान्युदपानानि तथा प्रस्रवणानि च ॥२९
वाप्यश्च सर्वदा पुण्या ह्रादाश्च मुनिसेविताः
यानि सन्त्येवमादीनि पुण्येऽस्मिन् पर्वतोत्तमे ॥३०
तानि सर्वाणि विप्रेन्द्र! सेवमानः समन्ततः
कुर्वन् प्रदक्षिणञ्चैव विचरस्व महीधरम् ॥३१
यावता भगवान् देवः कालेन द्रक्ष्यते हरिः
तावत्कालमिहैव त्वं विचरस्व महामुने!’३२
इत्युक्त्वा भगवान् देवो ब्रह्मा लोकपितामहः
स्वानुगैः सह देवैश्च तत्रैवान्तरधीयत ॥३३
वामदेवः-
अगस्त्योऽथ महीपाल! तैरेव मुनिभिः सह
प्रणम्य तस्मै देवाय ब्रह्मणेऽव्यक्तजन्मने ॥३४
चिन्तयन् वासुदेवाख्यं परब्रह्मस्वरूपिणम्
द्रष्टुकामश्च तं देवं वृषभाद्रिनिवासिनम् ॥३५
अगस्त्यस्य शेषाचलवायव्यदिशि महाभूतविलोकनम्
अतीत्य पश्चिमं भागं पर्वतस्य महीयसः
उदीचीं दिशमभ्यायात् तपसा च समन्वितः ॥३६
चिन्तयन् देवदेवेशं भूपाल! हरिमीश्वरम्
संस्मरन् ब्रह्मणो वाक्यं विचचार ततस्ततः ॥३७
[[514515]]
श्रीवामनपुराणे क्षेत्रखण्डे पञ्चविंशोऽध्यायः
ऋषिभिः सहितः सर्वैः तपसा भावितात्मभिः
आदित्यकल्पतेजोभिः जटामण्डलधारिभिः ॥३८
संयुक्तो विचरंस्तत्र भूपते! पर्वतोत्तमे
वायव्यां दिशि चाद्राक्षीत् इदमाश्चर्यमुत्तमम् ॥३९
’’शुद्धस्फटिकसङ्काशा तत्राऽसीन्महती शिला
दर्शनीयतमा स्निग्धा विस्तीर्णा विमला शुभा ॥४०
तस्यां शिलायामास्ते स्म समुच्छ्रिततनुः पुमान्
दीप्यमानः स्ववपुषा पर्वतेन्द्र इवापरः ॥४१
महाबाहुर्विशालाक्षो महादंष्ट्रा महाहनुः
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ॥४२
बिभ्रद्रक्ते तथा दिव्यकुण्डले रत्नभूषिते
बिभ्रच्छन्द्रप्रतीकाशं स्निग्धहेमविभूषितम् ॥४३
अनेकरत्नसञ्छन्नैः भूषणैः सुविभूषितम्
श्यामं नानाविधैः रत्नैः शोभमानकिरीटकम् ॥४४
तमुपेत्य महाकायं महावीर्यं महाभुजम्
अगस्त्यो विस्मयाऽऽविष्टो भूयो भूयोऽन्ववैक्षत ॥४५
ततस्तमृषिशार्दूलः प्राह चैवं वचो नृप!
प्रणम्य तस्मै देवाय ज्वलद्भास्करतेजसे ॥४६
अगस्त्यः -
’को भवान् सुमहावीर्य! कस्य वा प्रियदर्शन!
एतन्नस्त्वं तु तत्त्वेन पृच्छतां ब्रूहि नानृतम्’ ॥४७
वामदेवः-
एवमुक्ते ततस्तेन नरेन्द्र! मुनिना तदा
शृण्वतां प्रीतिदायिन्या वाचा मधुरया गिरा ॥४८
महौजसं मुनीन्द्रं तं न किञ्चित्प्रत्यभाषत
स्तुवन्तञ्च तदाऽगस्त्यमुदैक्षत पुनः पुनः ॥४९
पश्यताञ्चैव सर्वेषां मुनीन्द्राणां महात्मनाम्
अन्तर्दधे महातेजाः तदद्भुतमिवाभवत् ॥५०
तत स्ते मुनयः सर्वे विस्मयोत्फुल्ललोचनाः
’’अहो दृष्टम्! अहो दृष्टम् आश्चर्य’’ मिति चाब्रुवन् ॥ ५१
’दर्शयित्वा महाश्चर्यं रूपं भास्करसन्निभम्
मायया मोहयित्वाऽस्मान् सद्यो ह्यन्तरधीयत’५२
इति ब्रुवन्तस्ते सर्वे मुनयोऽद्भुततेजसः
प्रणम्य तस्मै देवाय व्यचारंस्तं महीधरम् ॥५३
संवृतो मुनिभिः सर्वैः अगस्त्यो भगवांस्तदा
तमेव देवदेवेशं द्रष्टुकामोऽनपायिनम् ॥५४
भागं परित्यज्य नरेन्द्र! पश्चात्
नारायणाद्रेः विमलं विशालम् ।
द्विजेन्द्रवर्यः सहसा महात्मा
तस्योत्तरं भागमथ प्रपेदे ॥५५
इति श्री वामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये
भगवदाविर्भावोपोद्घातो नाम पञ्चविंशोऽध्यायः.
[[516517]]
श्रीवामनपुराणे क्षेत्रखण्डे पञ्चविंशोऽध्यायः
षड्विंशोऽध्यायः
अथ षड्विंशोऽध्यायः
शेषाचलोत्तरदिशि अगस्त्यादिकृत भगवदन्वेषणप्रकारः
वामदेवः-
ततस्तस्मिन् महातेजाः विचरन् पर्वतोत्तमे
उत्तरं भागमाश्चर्यं ददर्शाद्भुतदर्शनम् ॥१
लम्बमानमहाशाखैः जम्बूवृक्षैश्च पाण्डुरैः
शुद्धस्फटिकसङ्काशैः फलवद्भिः सुशोभितम् ॥२
सरितः पुण्यदास्तत्र ददर्श विमलोदकाः
सर्वपापहराः शुद्धाः शतशः शुभदर्शनाः ॥३
सर्वासु तासु पुण्यासु सरित्सु विमलासु च
मुनीन्द्रो मुनिभिः सार्धं कृतशौचो यथाविधि ॥४
स्नानं चक्रे प्रयत्नेन प्रयतः सुसमाहितः
चिन्तयन् वासुदेवाख्यं हृदि नारायणं हरिम् ॥५
कृत्वा स्नानक्रियाः सर्वाः अर्चयामास केशवम्
अर्चयित्वा जगन्नाथं जगाम सुसमाहितः ॥६
नरेन्द्र! मुनिभिः सार्धं द्रष्टुकामः सुरेश्वरम्
विचरन् सर्वशस्तत्र मुनीन्द्रः पर्वतोत्तमे ॥७
ददर्श चोत्तरं भागं शोभितं विविधैर्द्रुमैः
मेघैः शैलनिभैश्चापि शोभितं शुभदर्शनम् ॥८
मृगसर्पमहाव्यालद्विजसङ्घनिषेवितम्
बहुपुष्पलताभिश्च सुसञ्छन्नमहीतलम् ॥९
सुखवातानुचरितं शीतोदकतटाककम्
भ्रमरैर्गीयमानञ्च पिबद्भिः पुष्पजं मधु ॥१०
शैलकन्दरनिष्क्रान्तैः कोकिलैर्मधुरस्वनैः
सुस्वरैर्गीयमानञ्च गन्धर्वैस्तु निषेवितम् ॥११
नृत्यद्भिश्च महापक्षैः मयूरैरुपशोभितम्
अश्वत्थप्लक्षबिल्वैश्च शोभितं बहुशाखिभिः ॥१२
तिलकैः पुष्पितैश्चापि कृतमालैश्च पुष्पितैः
करञ्जैः कोविदारैश्च पाटलैश्चापि पुष्पितैः ॥१३
अङ्कोलैः मातुलुङ्गैश्च शोभितं चित्रशाखिभिः
शिरीषशिंशुपोत्तालहिन्तालपनसैस्तथा ॥१४
तिमिशैर्नक्तमालैश्च स्यन्दनैश्चन्दनैस्तथा
वकुलैः पुष्पितैश्चापि राजद्भी रक्तचन्दनैः ॥१५
एवं बहुविधैर्वृक्षैः नानाशाखोपशोभितैः
शोभितं शुभगन्धाढ्यं नानाधातुसमन्वितम् ॥१६
पर्वतस्योत्तरं भागं मणिप्रवरसेवितम्
ददर्श नृपते! धीमान् मुनिभिर्भगवांस्तदा ॥१७
अथ तैर्मुनिभिः सार्धं विचरन् गिरिमूर्धनि
ददर्श दिव्यामाश्चर्यां पद्मिनीं पद्मशोभिताम् ॥१८
उत्फुल्लैरुत्पलैश्चापि प्रपुल्लैः कुसुमैस्तथा
शोभितं शुभगन्धाढ्यं नानाधातुसमन्वितम् ॥१९
[[518519]]
श्रीवामनपुराणे क्षेत्रखण्डे षड्विंशोऽध्यायः
पर्वतस्योत्तरं भागं मणिप्रवरसेवितम्
सिंहव्याफ्रुमृगैश्चापि निनदद्भिर्निषेविताम् ॥२०
जलार्थिभिश्च मातङ्गैः शोभितां शुभदंष्ट्रिभिः
क्रौञ्चैः प्लवङ्गैर्वाराहैः शोभितां शुभदंष्ट्रिभिः ॥२१
अधिकं शोभमानां तां कूजद्भिश्च विहङ्गमैः
सेवितां देवगन्धर्वयक्षविद्याधरादिभिः ॥२२
एवमत्यद्भुतां तां तु सर्वदुःखप्रणाशिनीम्
दृष्ट्वा स विस्मयाविष्टो मुनीन्द्रः प्राह तान् मुनीन् ॥ २३
अगस्त्यः-
’अस्यां स्नात्वाऽथ गच्छामो दिशं प्राचीं महागिरेः
लोकेऽस्मिन् श्रूयते चैषा पापहानिप्रदेति वै ॥२४
सर्वपापहरा शुद्धा पद्मिनी लोकविश्रुता
सर्वदुःखहरा चापि सर्वतीर्थफलप्रदा’ ॥२५
एवमुक्त्वा तु तैः सार्धं ऋषिभिर्भावितात्मभिः
निवेश्य हृदि देवेशं ममज्ज सहसा जले ॥२६
स्नानं कृत्वाऽथ देवेशं प्रणम्याऽत्मनि तं प्रति
अभ्यर्च्य च हृषीकेशं वासुदेवं सनातनम्
विचचार यथापूर्वं ऋषिभिः सहितो मुनिः ॥२७
अगस्त्यादीनां सनत्कुमारविलोकनपूर्वकं पूर्वदिग्गमनम्
तस्या एवोत्तरे तीरे वृक्षमूलं समाश्रितान्
समाहितान् समासीनान् पद्मिन्याः सुमहौजसः ॥२८
दक्षिणाभिमुखान् भूप! योगीन्द्रान् स ददर्श ह
सनत्कुमारप्रमुखान् भगवन्न्यस्तमानसान् ॥२९
भक्त्या परमया युक्तान् निमीलितविलोचनान्
तान् दृष्ट्वा सहसा हृष्टो योगीन्द्रान् योगपारगान् ॥ ३०
तेषां समीपमभ्यागात् अगस्त्योऽथ महामुनिः
तमायान्तं ततो दृष्ट्वा मुनीन्द्रं मुनिभिः सह ॥३१
सनत्कुमारप्रमुखाः योगीन्द्रास्तमपूजयन्
सङ्गम्य सहिताः सर्वैः योगीन्दैर्मुनिपुङ्गवैः ॥३२
सम्पूजितो यथान्यायं ततस्तैर्मिथिलेश्वर!
अथ तान् मधुरं वाक्यमुवाचेदं महामुनिः ॥३३
अगस्त्यः-
’किमत्र दृष्टमाश्चर्यं? कोवाऽत्र वसते पुमान्?
युष्माभिश्चिन्त्यमानः कः किं वा यूयं समागताः? ॥३४
एतदिच्छाम्यहं श्रोतुं एतन्मे शंसताऽमलाः!’
एवं पृष्टा स्तदा तेन मुनिना भावितात्मना ॥३५
सनत्कुमारप्रमुखाः! योगीन्द्रास्तमथाब्रुवन्
’सर्वात्मा भगवान् विष्णुः वसत्यस्मिन् महागिरौ ॥३६
चिन्तनीयः स एवैको मुनीन्द्र! पुरुषोत्तमः
तमचिन्त्यं विधातारं चिन्तयामोऽनपायिनम् ॥३७
नान्यं वयं जगन्नाथात् चिन्तयामो जनार्दनात्
द्रक्ष्यसे तं महात्मानं त्वं चापि पुरुषोत्तमम् ॥३८
[[520521]]
श्रीवामनपुराणे क्षेत्रखण्डे षड्विंशोऽध्यायः
अचिरेणैव कालेन ब्रह्मभूतं सनातनम्
नारायणं हरिं विष्णुं सर्वलोकपरायणम् ॥३९
दृष्टवन्तो वयं चापि सकृत्तममरार्चितम्
वेङ्कटाख्यगिरावस्मिन् पूर्वं पुण्यप्रदायिनि ॥४०
अस्त्यन्यादृष्टमाश्चर्यं प्राच्यां दिशि महामुने!
पर्वतस्यास्य दिव्यस्य शृणु तद्वदतां वर! ॥४१
शक्रश्च सहितो देवैः साक्षात् वज्रधरः स्वयम्
द्रष्टुकामो गिरावस्मिन् वसत्यव्यक्तरूपिणम् ॥४२
त्वं चापि सुरलोकेशं द्रक्ष्यसे तं शचीपतिम्
एतैः सार्धं मुनीन्द्रैस्त्वं प्राचीं गच्छ शुभां दिशम्’ ॥ ४३
वामदेवः-
इत्युक्त्वाऽन्तरिछताः सर्वे मुनीन्द्रास्तं महौजसः
सनत्कुमारप्रमुखाः तदद्भुतमिवाभवत् ॥४४
अन्तरिछतेषु सर्वेषु योगीन्द्रेषु महात्मसु
अगस्त्यो मुनिभिः सार्धं सर्वैस्तैर्मुनिसत्तमः ॥४५
पराजितायामद्राक्षीत् आश्चर्यं दिशि भूपते!
तस्यां दिशि महावृक्षः इन्द्रकेतुरिवोच्छ्रितः ॥४६
लम्बमानमहाशाखः पुष्पभारनिपीडितः
आसीदाच्छादयन् सर्वं भूधरं छायया नृप !४७
तन्मूले तु समासीनाः आदित्यसमतेजसः
सप्तर्षयो महात्मानो भगवन्न्यस्तमानसाः ॥४८
तान् दृष्ट्वा स मुनिस्तेषां समीपमगमत् नृप !
अगस्त्यो मुनिभिः सार्धं तपसा भावितात्मभिः ॥४९
तमायान्तं ततो दृष्ट्वा मुनयो यमिनां वरम्
स्नेहान्विता यथान्यायं महात्मानमपूजयन् ॥५०
ततोऽब्रवीन्महातेजाः अभिवाद्य च तान् मुनीन्
अर्थवन्मधुरं वाक्यं प्रश्रयान्मृदुलाक्षरम् ॥५१
अगस्त्यः-
’किमर्थमागता यूयं दिव्येऽस्मिन् पर्वतोत्तमे?
को वा ध्येयो महादेवो युष्माकं मुनिसत्तमाः? ॥ ५२
एतदाख्यात मे यूयं सर्वं सत्येन पृच्छतः
पृच्छामि श्रोतुकामोऽहं कौतूहलसमन्वितम्’ ॥५३
वामदेवः-
एवं पृष्टास्तदा तेन मुनिना मुनिपुङ्गवाः
इदं प्रोचुर्महात्मानं ’वक्ष्यामः श्रूयता’ मिति ॥५४
ऋषयः-
’वयमत्रागता ब्रह्मन्! द्रष्टुं देवं जनार्दनम्
नारायणं विशालाक्षं जगत्त्रातारमीश्वरम् ॥५५
स एव देवः सर्वात्मा ध्येयो नः पुरुषोत्तमः
न चान्यो विद्यते ध्येयः तमृते जगतां पतिम् ॥५६
तमजं सर्वलोकेशं कृष्णमच्युतमीश्वरम्
पूज्यं वरेण्यं वरदं चिन्तयिष्याम हे वयम् ॥ ५७
[[522523]]
श्रीवामनपुराणे क्षेत्रखण्डे षड्विंशोऽध्यायः
त्वं चापि सर्वलोकेशं द्रष्टाऽसि कमलेक्षणम्
सिंहाख्ये पर्वते ह्यस्मिन् गच्छ प्राचीं दिशं मुने’ ॥५८
वामदेवः-
एवमुक्तो मुनिश्रेष्ठैः नृपश्रेष्ठ! महामुनिः
अभ्यनुज्ञाय तान् सर्वान् जगाम मुनिसत्तमः ॥५९
चिन्तयन् मनसा देवं विश्वकर्तारमीश्वरम्
चिन्तयन् मनसा वाक्यं पितामहमीरितम्
जगाम सहसा दिव्यां दिशं प्राचीं गिरेस्ततः ॥६०
नृपेन्द्र दृष्ट्वा भगवानगस्त्यः
तस्योत्तरं भागमदृष्टपूर्वम् ।
तत्राप्यदृष्ट्वा भगवन्तमाद्यं
द्रष्टुं तदा पूर्वमथ प्रपेदे ॥६१
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
अगस्त्यादीनां सनत्कुमारादि दर्शनपूर्वकं भगवदन्वेषण
प्रकारादिवर्णनं नाम षड्विंशोध्यायः.
सप्तविंशोऽध्यायः
अथ सप्तविंशोऽध्यायः
शेषाचलपूर्वदिशि अगस्त्यादीनां अद्भुतवस्तुदर्शनम्
वामदेवः-
अथ पूर्वां समासाद्य दिशं तां मुनिभिः सह
नारायणगिरेस्तस्य द्रुममण्डलभूषिताम् ॥१
विचचार यथापूर्वं सहितस्तैर्महात्मभिः
ज्वलद्भास्करतेजोभिः मुनिभिर्भावितात्मभिः ॥२
सोऽपश्यद्गिरिशृङ्गाभान् वृक्षान् पुष्पफलान्वितान्
लम्बमानमहाशाखान् मृदुपल्लवशोभितान् ॥३
समदान् वारणांश्चापि सुदंष्ट्रान् सम्यगुच्छ्रितान्
नदतश्च महासिंहान् वराहांश्चापि धावतः ॥४
गुह्यकिन्नरगन्धर्वान् यक्षाद्यांश्च सहस्रशः
एवमाद्यैस्तथाऽन्यैश्च शोभितं पर्वतोत्तमम् ॥५
पश्यन् समन्तात् सोऽगस्त्यो विचचार महामुनिः
विचरन् स ददर्शाथ मुनिप्रवरसेवितम् ॥६
महाभागं महापुण्यं मृगयूथपसेवितम्
नित्यपुष्पफलोपेतैः द्रुमैर्नानाविधैर्युतम् ॥७
मत्तद्विपानुचरितं मत्तकोकिलनादितम्
महद्भिरुच्छ्रितैः शृङ्गैः शोभनीयैश्च शोभितम् ॥८
भयङ्करमहानागं महासानुं शुभावहम्
उच्छ्रितामलकैश्चापि फलवद्भिश्च शोभितम् ॥९
[[524525]]
एवम्भूतं महाश्चर्यं महाभोगं महागिरिम्
अगस्त्यो भगवान् पूर्वां दिशं दृष्ट्वा महागिरेः ॥१०
दृष्ट्वाऽथ विचचाराशु मुनिभिस्तैः समावृतः
तत्राद्भुतमथापश्यत् अगस्त्यः पर्वतोत्तमे ॥११
बिलं पातालसङ्काशं पश्यतां भयदायकम्
महान्तं भैरवं दुर्गं अदृष्टं मानुषैर्नृप! ॥१२
निपतेयुरिछ पश्यन्तो नरा यस्मिन् विमोहिताः
तद्बिलं समुपागम्य मुनीन्द्रो मुनिभिः सह ॥१३
पुनः पुनर्निरीक्ष्येदं वचः प्रोवाच धर्मवित्
अगस्त्यः-
’दृष्ट्वा चैवंविधं सर्वे निपतिष्यन्ति मोहिताः ॥१४
मानवा द्रष्टुकामा ये समारूढा महीधरम्
तस्मादेतन्न चैवास्मिन् भवेदिति मतिर्मम ॥१५
बिलन्तु भैरवं घोरं मृत्युवक्त्रसमं गिरौ’
वामदेवः-
इत्युक्तो मुनिना तेन सद्यश्चान्तरिछतं बिलम् ॥१६
अगस्त्यस्य प्रभावेण तदद्भुतमिवाभवत्
अन्तरिछते ततस्तस्मिन् विचचार महामुनिः ॥१७
तस्मिन्नेव महापुण्ये वेङ्कटाख्ये महागिरौ
ददर्शाऽथ चिरं तत्र शतशाखसमुच्छ्रितम् ॥१८
सालं महाद्भुताकारं मृदुपल्लवशोभितम्
महान्तं महदाश्चर्यं अदृष्टं भुवि मानुषैः ॥१९
तं दृष्ट्वा शीफ्रुमभ्यायात् अगस्त्योऽथ महामुनिः
तत्समीपे महातेजाः विस्मयाविष्टचेतनः ॥२०
भगवतः साक्षात्काराय तपः कुर्वन्तं इन्द्रं प्रति अगस्त्योक्तिः
तमुपेत्य महासालं मुनीन्द्रो मुनिभिः सह
ददर्श शक्रमासीनं देवं साक्षात् शचीपतिम् ॥२१
सालस्कन्धप्रतीकाशबाहुशाखं शतक्रतुम्
रत्नजालोपसम्पन्नमकुटेन विराजितम् ॥२२
वैडूर्यमणिरत्नाढ्यकुण्डलाभ्यामलङ्कृतम्
वज्रपाणिं विशालाक्षं नारायणमिवापरम् ॥२३
सूर्याग्नि यमवस्वश्विकुबेरवरुणैस्तथा
गन्धर्वकिन्नरेन्द्रैश्च शुभकुण्डलधारिभिः ॥२४
दिव्याम्बरधरैरारात् सर्वैः समुपसेवितम्
तं दृष्ट्वा नृपते! देवं देवजन्मा महामुनिः ॥२५
तत्समीपं महातेजाः सहसा व्यगमत्तदा
संवृतं देवदेवेशं त्रैलोक्याधिपतिं द्विजः ॥२६
मुनिभिः सहितः सर्वैः अपूजयदरिन्दमम्
देवाश्च सह शक्रेण मुनीन्द्रानागतांस्तथा ॥२७
अपूजयन् यथान्यायं स्थिताः सार्धं महात्मना
तानुवाच सशक्रांस्तु ततोऽगस्त्यः सुरोत्तमान् ॥२८
[[526527]]
श्रीवामनपुराणे क्षेत्रखण्डे सप्तविंशोऽध्यायः
’श्रूयता’ मिति चाभाष्य प्रहसन्निव विस्मितः
’किमर्थमागता यूयं किं वा चिन्तयतामराः ॥२९
आश्चर्यञ्चापि किं दृष्टमस्मिन् पुण्ये नगोत्तमे?
एतत् सत्येन मे सर्वं आख्येयं त्रिदशेश्वराः! ॥३०
श्रोतुमिच्छाम्यहं त्वेतत् युष्माभिः समुदीरितम्’
वामदेवः-
अगस्त्येनैवमुक्तास्ते सर्व एव ततः सुराः ॥३१
एवमूचुर्मुनिश्रेष्ठं नृपश्रेष्ठासुरार्दनाः
’द्रष्टुकामा वयं देवं पद्मपत्रनिभेक्षणम् ॥३२
नारायणं हृषीकेशं शङ्खचक्रगदाधरम्
प्रणतार्तिहरं विष्णुं ब्रह्मभूतं सनातनम् ॥३३
समागम्य मुनिश्रेष्ठ! सिंहाख्येऽस्मिन् नगोत्तमे
जयं देवजिदादीनां दैत्येन्द्राणां महौजसाम् ॥३४
प्रार्थयामो वयं ब्रह्मन्! देवदेवात् जनार्दनात्
तं द्रष्टुमजरं देवं समासीनं महौजसम् ॥३५
चिन्तयन्तस्तमेवेशं सृष्टिस्थित्यन्तकारणम्’
एवमूचुर्मुनिश्रेष्ठं नृप श्रेष्ठासुरार्दनाः ॥३६
’स एव भगवान् देवो ध्येयोऽस्माभिः सनातनः
नान्यो ध्येयः पुमान् यस्मात् विद्यते न च दृश्यते ॥ ३७
दृष्टं चापि महाश्चर्यं पर्वतेऽस्मिन् महामुने!
शुभे तु दक्षिणे भागे गिरेरस्य महीयसः ॥३८
इन्द्रोक्त्या अगस्त्यस्य शङ्करदर्शनाय आग्नेयदिग्गमनम्
आश्चर्यभूतो भगवान् वसतीशः सदा हरः
पिनाकपाणिः सर्वात्मा सर्वशक्तिर्महेश्वरः ॥३९
स्वैरेव संवृतो भूतैः किन्नरोरगराक्षसैः
तत्र गत्वा च देवेशं द्रष्टाऽसि भुवनेश्वरम् ॥४०
ऋषिं दुर्वाससञ्चापि नन्दिकेश्वरमेव च
ये चाप्यनुचरास्तत्र तांश्चापि द्रक्ष्यसे मुने! ॥४१
इतो गच्छ हितं देशं यत्राऽऽस्ते भगवान् हरः
एभिर्मुनिवरैः सार्धं मा विलम्बितुमरछसि’ ॥४२
वामदेवः-
एवमुक्तः सुरैः सर्वैः अभ्यनुज्ञाय तान् सुरान्
पूर्वभागं विहायाथ भूधरस्य महीयसः ॥४३
अभ्यगात् दक्षिणं भागं तैरेव मुनिभिः सह
स पश्यन् दक्षिणं भागं अगस्त्योऽथ महामुनिः ॥४४
आग्नेय्यां दिशि चाद्राक्षीदिदमाश्चर्यमुत्तमम्
शङ्खचक्रगदाशार्ङ्गशक्तिलाङ्गलनन्दकान् ॥४५
स्वैः स्वैः रूपैः समासीनान् भ्राजयद्भिर्दिशो दश
दिव्याभरणमालाभिः भ्राजितान् शुभदर्शनान् ॥४६
रक्तचन्दनदिग्धाङ्गान् दिव्यमाल्योपशोभितान्
शुभनूपुरकेयूरकटकादिविभूषितान् ॥४७
[[528529]]
अथ तान् सहसा दृष्ट्वा मुनीन्द्रः पुरुषर्षभान्
तेषां समीपमागम्य सहर्षो मुनिभिः सह ॥४८
अगस्त्यश्च ततस्तेभ्यः प्रणाममकरोत्तदा
प्रणम्य प्राञ्जलिर्भूत्वा प्रस्तूय च महाद्युतिः ॥४९
कृत्वा प्रदक्षिणञ्चापि दक्षिणां दिशमभ्यगात्
अत्यन्तं विस्मयाऽविष्टो मुनिभिः सहितो नृप! ॥५०
आदिदेवं महादेवं द्रष्टुकामो जनार्दनम्
आश्चर्यरूपमारुह्य प्रेक्षमाणो महागिरिम् ॥५१
परीत्य तस्यैव नगोत्तमस्य
प्राचीं दिशं देवगणाभिजुष्टाम् ।
अवाप्य तस्यैव गिरेर्महात्मा
तं दक्षिणं भागमसौ प्रपेदे ॥५२
इति श्री वामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये
अगस्त्यस्य शेषाचलवासीन्द्रादितपःप्रकार भगवद्दिव्यायुधदर्शनादि
वर्णनं नाम सप्तविंशोऽध्यायः.
अष्टविंशोऽध्यायः
अथ अष्टविंशोऽध्यायः
अगस्त्यकृत शेषाचलदक्षिणभागस्थशङ्करसेवाक्रमः
वामदेवः-
तस्याथ दक्षिणं भागं भूधरस्य महीयसः
अवाप परया प्रीत्या मुनीन्द्रो मेघसन्निभम् ॥१
शुभगुल्मलतागूढं नानापादपसङ्कुलम्
मार्जारैर्वानरैश्चापि गोपुच्छैश्च निषेवितम् ॥२
फलवद्द्रुमखण्डैश्च पुष्पभारनिपीडितैः
दर्शनीयतमैर्दिव्यैः शोभितं शुभशाखिभिः ॥३
भिन्नाञ्जनचयाकारं शिलाभिरुपशोभितम्
हंससारसगृध्रैश्च शतपत्रैश्च शोभितम् ॥४
शोभितं रमणीयैश्च चक्रवाकैर्महास्वनैः
नानाधातुसमाकीर्णं नानाप्रस्रवणाकुलम् ॥५
गुह्यविद्याधराद्यैश्च सभार्यैः शुभदर्शनैः
शोभितं शुभगन्धाढ्यं शुभमारुतसेवितम् ॥६
गायद्भिः किन्नरैश्चापि गन्धर्वैश्च निषेवितम्
प्रसादयद्भिर्देवेशं कृष्णमक्लिष्टकारिणम् ॥७
एवमत्यद्भुतं दिव्यं दक्षिणं भागमात्मवान्
ददर्श मुनिशार्दूलः पर्वतस्य महीयसः ॥८
तत्रापि नृपतेऽद्राक्षीत् पुष्पितं बहुशाखिनम्
अत्युच्छ्रितं महाश्चर्यं दर्शनीयतमं नृप! ॥९
अतीव शुभगना
ढ्
ढ्यं मृदुपल्लवशोभितम्
वृक्षं महाद्भुतं दिव्यं यो न दृष्टः पुरातनैः ॥१०
तं दृष्ट्वा सहसाऽगस्त्यो ययौ शीफ्रुतरं मुनिः
मुनीन्द्रैः सहितः सर्वैः नरेन्द्रः सोऽतिविस्मितः ॥११
तत्समीपं समागम्य कौतूहलसमन्वितः
उदैक्षत महातेजाः तं वृक्षं बहुशाखिनम् ॥१२
[[530531]]
श्रीवामनपुराणे क्षेत्रखण्डे अष्टविंशोऽध्यायः
तत्राऽऽसीनं ततोऽपश्यत् भगवन्तमुमापतिम्
नेत्रैः रक्तैः समायुक्तं त्रिभिस्त्रिभिरिवाग्निभिः ॥१३
उदङ्मुखं महाश्चर्यजटामण्डलधारिणम्
चतुर्भुजं महादेवं नीलकण्ठं पिनाकिनम् ॥१४
तरुणादित्यसङ्काशं ज्वलन्तं स्वेन तेजसा
स्वेनैवं तेजसा देवं भासयन्तं दिशो दिश ॥१५
कपिलाक्षं विशालाक्षं चार्वोष्ठं चारुवक्षसम्
समुन्नततनुं सौम्यं सर्वलोकनमस्कृतम् ॥१६
नानामणिगणच्छन्नज्वलत्कुण्डलधारिणम्
तैस्तैरनुचरैश्चापि नानारूपधरैस्तथा ॥१७
अनेकबाहुसाहस्रैः बलवद्भिर्निषेवितम्
नन्दिकेश्वरदुर्वासोबाणाद्यैश्च निषेवितम् ॥१८
यक्षकिन्नरगन्धर्वैः देवैश्चापि निषेवितम्
हाहाहूहूभ्याञ्च तथा गन्धर्वाभ्यां निषेवितम् ॥१९
तैस्तैरभिष्टुतञ्चैव महादेवं महाद्युतिम्
दृष्ट्वा शम्भुं तदाऽगस्त्यो ननाम शिरसा भुवि ॥२०
प्रणेमुर्मुनयश्चापि भगवन्तं महेश्वरम्
ब्रुवन्तो देवदेवेशं ’प्रसीदे’ ति पुनःपुनः ॥२१
प्रस्तूय तं महादेवं भगवन्तं महेश्वरम्
उवाच च तदाऽगस्त्यो समासीनं महौजसम् ॥२२
नानारत्नविचित्रैश्च वलयैश्च विभूषितम्
जाम्बूनदमयैश्चापि केयूरैः समलङ्कृतम्
वरदं सर्वभूतानां सर्वदेवनमस्कृतम् ॥२३
’किं न मां भाषसे देव! त्वत्समीपमिहागतम्
को वा ध्येयस्त्वया देवः कोऽस्मिन् वा विवसत्यहो!’ ॥२४
सेवाकाङ्क्षिणमगस्त्यं प्रति शङ्करोक्तिः
वामदेवः-
एवमुक्तो महातेजा महादेवो महामुनिम्
जलदस्वनगम्भीरवचसा वाक्यमब्रवीत् ॥२५
शङ्करः-
’परावरपतिर्देवो विश्वयोनिर्जनार्दनः
मया चान्यैश्च सर्वाऽत्मा ध्येयो नारायणो हरिः ॥२६
नान्यो ध्येयः पुमांल्लोके दृश्यते नच विद्यते
तमृते जगतां नाथं सर्वव्यापिनमीश्वरम् ॥२७
नारायणगिरावस्मिन् वसत्येष सनातनः
नारायणो जगद्योनिः भगवान् पुरुषोत्तमः ॥२८
अस्मिन् न्यस्तं मनो यस्मात् मया सर्वेश्वरे हरौ
तस्मात् समागतं त्वाऽहं नाभिभाषे न चान्यथा ॥२९
त्वञ्चापि तं विशालाक्षं जनानामीश्वरेश्वरम्
शरण्यं सर्वभूतानां अनादिनिधनं हरिम् ॥३०
[[532533]]
श्रीवामनपुराणे क्षेत्रखण्डे अष्टविंशोऽध्यायः
ज्वलन्मकुटकेयूरकटकादिविभूषितम्
मालया दिव्यया चापि वैजयन्त्या विराजितम् ॥३१
पतत्रिराजमारूढं द्रक्ष्यसे विश्वरूपिणम्
ब्रह्मणाऽपि मया चात्र प्रोक्तमेतत् तवानघ! ॥३२
द्रष्टासीति जगन्नाथं भवत्येतत् न संशयः
अचिरेणैव कालेन भगवान् पुरुषोत्तमः ॥३३
करिष्यति स विश्वात्मा सान्निध्यं तव केशवः
विचरस्व यथापूर्वं पर्वतेऽस्मिन् महामुने! ॥३४
मा विषादं कृथा ब्रह्मन्! तस्मिन् न्यस्तमना भव’
एवमुक्तस्तु देवेन शम्भुना परमेष्ठिना ॥३५
पुनः पुनः प्रणम्येशं तस्मान्नैवाभ्ययान्मुनिः
स्नेहान्वितो मुनिश्रेष्ठः तस्मिन् देवे पिनाकिनि ॥३६
पश्यतान्तु मुनीन्द्राणां अगस्त्यस्य तु पश्यतः
सानुगः सहसा शम्भुः तत्रैवान्तरधीयत ॥३७
मुनयश्चापि तं देवं संस्तूय परमेश्वरम्
प्रणम्य च मुनीन्द्रेण सह तेऽभ्यगमंस्तदा ॥३८
एवमेतन्महाश्चर्यं संवादं शम्भुना सह
ऋषिभिर्विस्तृतं लोके ह्यगस्त्यस्य महात्मनः ॥३९
आख्यातं ते मया चापि मिथिलेश! महाद्भुतम्
सर्वपापप्रशमनं किमन्यत् श्रोतुमिच्छसि ॥४०
जनकः-
’आश्चर्यमिदमाख्यानं कथितं मे महामुने!
श्रुतञ्चापि मया सम्यक् प्रहृष्टेनान्तरात्मना ॥४१
ततः परं मुनीन्द्रोऽसौ अकरोत् किं? महाद्युतिः
एतदाचक्ष्व मे ब्रह्मन्! श्रोतुमिच्चा प्रवर्तते’ ॥४२
वामदेवः-
अगस्त्योऽथ महातेजाः प्रणिपत्य महेश्वरम्
त्यक्त्वाऽथ दक्षिणं भागं नैरृतीं दिशमास्थितः ॥४३
तं दक्षिणं भागमतीत्य भूपते!
नारायणाद्रेः सह तैर्मुनीश्वरैः ।
अथोत्तमां दक्षिणपश्चिमां दिशं
द्रष्टुं परेशं प्रययौ प्रतापवान् ॥४४
इति श्री वामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये अगस्त्य-
कृत शेषाचलदक्षिणभागवासि शङ्करदर्शनादिवर्णनं नाम
अष्टाविंशोऽध्यायः.
[[534535]]
श्रीवामनपुराणे क्षेत्रखण्डे अष्टाविंशोऽध्यायः
एकोनत्रिंशोऽध्यायः
अथ एकोनत्रिंशोऽध्यायः
शेषाचलनैरृतदिशि अगस्त्यादीनां विष्वक्सेनदर्शनम्
वामदेवः-
तां दिशं समनुप्राप्य नैरृतीं भगवानथ
मन्दराद्रिप्रतीकाशं शतशाखं महोच्छ्रितम् ॥१
वटं महान्तमाश्चर्यं ददर्श स महामुनिः
तस्य मूले समासीनं भगवन्तं सुरेश्वरम् ॥२
शिलायामद्भुतायान्तु महत्यां दीप्ततेजसम्
विष्वक्सेनं सुराध्यक्षं भगवन्न्यस्तमानसम् ॥३
सर्वैरनुचरैश्चापि महेन्द्रसमविक्रमैः
संवृतं बलिभिर्देवैः शतक्रतुमिवापरम् ॥४
ग्रसन्तमिव चाकाशं भक्षयन्तमिव प्रजाः
दैत्येन्द्रा बलवन्तस्तं परिवार्योपतस्थिरे ॥५
शतशो दृष्टकर्माणो राक्षसाश्च भयावहाः
गन्धर्वपतयश्चापि यक्षाश्चापि सहस्रशः ॥६
तमासीनं महावीर्यं विष्वक्सेनं नराधिप!
उपातिष्ठन्त ते सर्वे गृहीतविविधायुधाः ॥७
भूतयूथानि चोग्राणि वैष्णवानि सहस्रशः
मेरुमन्दरसङ्काशरूपवन्ति महान्ति च ॥८
क्रुद्धानि यानि भूतानि निर्दहेयुरिमाः प्रजाः
पिबेयुः सहसा सर्वान् उदधींश्चापि सर्वशः ॥९
तानि चाऽवार्य तं देवं उपातिष्ठन्त सर्वशः
एवमेतैस्तथान्यैश्च समेतैस्तत्र भूधरे ॥१०
उपास्यमानं तं देवं प्रासतोमरपाणिभिः
सुस्वरैर्गायमानाश्च गन्धर्वास्तस्य सन्निधौ ॥११
जग्मुर्नारायणं देवं किन्नरेन्द्रास्तु सर्वशः
गायन्त्यः सुस्वनाश्चापि नृत्यन्त्योऽप्सरसस्तथा ॥१२
विष्वक्सेनस्य देवस्य सन्निधौ तस्य धीमतः
देवा ब्रह्मर्षयश्चापि सिद्धाश्चापि सहस्रशः ॥१३
उपतस्थुरिछ तं देवं नारायणमिवापरम्
तं दृष्ट्वा विस्मयाऽविष्टो रोमाञ्चिततनुस्तदा ॥१४
अगस्त्यो मुनिशार्दूलः तत्समीपमुपेयिवान्
तत्समीपमुपागम्य प्रणाममकरोद्भुवि ॥१५
व्यापरन् श्लक्ष्णया वाचा ’’प्रसीदे’’ति पुनः पुनः!
प्रणेमुर्मुनयश्चापि तमासीनं महाबलम् ॥१६
सुखासीनं महेष्वासं नारायणमिवापरम्
शङ्खचक्रगदापाणिं अभयोद्यतपाणिकम् ॥१७
तानब्रवीन्महावीर्यो विष्वक्सेनो नराधिप!
अगस्त्यप्रमुखान् सर्वान् ऋषीन् परपुरञ्जय ॥१८
[[536537]]
श्रीवामनपुराणे क्षेत्रखण्डे एकोनत्रिंशोऽध्यायः
अगस्त्यादीन् प्रति विष्वक्सेनोक्तभगवद्दर्शनोपायः
विष्वक्सेनः-
’युष्माभिर्भगवान् देवो विश्वरूपधरो हरिः
अस्मिन्गिरौ महातेजा द्रष्टुं शक्यो हि सोऽव्ययः ॥१९
सर्ववेदोदितस्यास्य देवस्यानुचरानयम्
दृष्टवन्तोऽजितं पूर्वं समासीनं महौजसम् ॥२०
नारायणं सुराध्यक्षं शङ्खचक्रासिधारिणम्
वसत्यस्मिन् स विश्वात्मा नारायणगिरौ द्विजाः ॥२१
विचरध्वं यथापूर्वमस्मिन् पर्वतसत्तमे
एतस्मिन् पर्वते दिव्ये प्रसादात् तस्य शार्ङ्गिणः ॥२२
अदृष्टरूपमाश्चर्यं दृष्टवन्तः पुरा वयम्
तपस्तप्यन्ति ये चास्मिन् द्रष्टुकामास्तमीश्वरम् ॥२३
ददाति भगवांस्तेषां दर्शनं पुरुषोत्तमः
यूयमप्यत्र चास्माभिः विमले पर्वतोत्तमे ॥२४
परमं तप आस्थाय भक्त्या परमया युताः
चरताऽशेषभूतानामीश्वरे न्यस्तमानसाः
विष्णौ ब्रह्मणि गोविन्दे जगद्धातरि केशवे’ ॥२५
वामदेवः-
एवमुक्त्वाऽथ भगवान् विष्वक्सेनः स वीर्यवान्
अन्तर्दधे तदा देवः तत्रैव नृपते! प्रभुः ॥२६
सर्वैरनुचरैः सार्धं सर्वदेवनमस्कृतः
पश्यतामेव सर्वेषां मुनीन्द्राणां महात्मनाम् ॥२७
मुनयश्चापि ते सर्वे सहसैव महाद्युतिम्
प्रणम्य तं महात्मानं विष्वक्सेनं मुदा युताः ॥ २८
अगस्त्यादीनां शेषाचलस्थविष्वक्सेनानुचरावलोकनम्
पुनश्चापि यथापूर्वं विचेरुरवनीपते!
वेङ्कटाख्ये गिरौ तस्मिन् वृक्षषण्डविभूषिते ॥२९
गिरिमूर्ध्नि चरन्तस्ते मुनयः सर्व एव तु
ददृशुस्तत्र रम्याणि शिखराणि महान्ति च ॥३०
पुष्पितद्रुमषण्डेैश्च मण्डितानि सहस्रशः
नीलजीमूतवर्णानि पाण्डुराभ्रनिभानि च ॥३१
देवदानवगन्धर्वयक्षकिम्पुरुषैस्तथा
गुह्यविद्याधराद्यैश्च सेवितानि महात्मभिः ॥३२
शिखरात् शिखरं गत्वा चरन्तस्ते महीपते!
ददृशुः शिखरे रम्ये कस्मिंश्चिन्मुनयोऽमलाः ॥३३
समासीनान् महावीर्यान् महाबलनिभांस्तथा
कामरूपधरान् घोरान् वायुवेगसमान् जवे ॥३४
मेरुमन्दरसङ्काशान् समवेगान् सहस्रशः
किन्नरांश्चापि गन्धर्वान् यक्षांश्चापि महासुरान् ॥३५
तान् दृष्ट्वा स मुनीन्द्रस्तु मुनीन्द्रानिदमब्रवीत्
विस्मयोत्फुल्लनयनो विस्मयोत्फुल्ललोचनान् ॥३६
[[538539]]
श्रीवामनपुराणे क्षेत्रखण्डे एकोनत्रिंशोऽध्यायः
अगस्त्यः-
’नूनमेतैः पुरा शक्रो बलवीर्यसमन्वितैः
देवासुरमहायुद्धे दैतेयानजयत् द्विजाः! ॥३७
एते हि बलिनः सर्वे विचित्राद्भुतवाससः
नानाप्रहरणोपेता दृश्यन्तेऽद्भुतरूपिणः ॥३८
एतान् दृष्ट्वाऽथ गच्छामो द्रष्टुमेतं महागिरिम्
आलयं सर्वभूतानां ईश्वरस्याऽव्ययात्मनः’ ॥३९
वामदेवः-
इति निश्चित्य मनसा नरेन्द्र! मुनिभिर्वृतः
तेषां समीपमभ्यायात् गन्धर्वाणां तरस्विनाम् ॥४०
तमायान्तं ततो दृष्ट्वा मुनीन्द्रं मिथिलेश्वर!
उपतस्थुरिछ ते सर्वे ब्रह्माणं त्रिदशा इव ॥४१
प्रणेमुश्च महात्मानं तत्समीपमुपागमन्
तानुवाच ततोऽगस्त्यो ब्रह्मर्षिः श्लक्ष्णया गिरा ॥४२
अगस्त्यः-
’श्रूयता’ मिति चाभाष्य मधुरं वदतां वरः
’यूयं सर्वे महावीर्याः शृणुध्वं मधुरं वचः ॥ ४३
कस्य यूयं किमर्थं वा चरन्त इह पर्वते
आश्चर्यं वा महात्मानो द्रष्टव्यं दृष्टमेव वा? ॥४४
एतद्यूयं समासेन सर्वमाख्यात तत्त्वतः
पृच्छामि श्रोतुकामोऽहं युष्मान् सर्वान् समागतान् ॥ ४५
अगस्तादीन् प्रति विष्वक्सेनवरिजनकृतस्वोदन्तज्ञापनम्
गन्धर्वाद्याः-
एवं ब्रुवाणं ब्रह्मर्षिं प्रोचुस्तं ’श्रूयता’मिति
’देवस्यानुचरास्तस्य वयं ब्रह्मन्! महात्मनः ॥४६
बलवीर्याभिजुष्टस्य विष्वक्सेनस्य धीमतः
यः सर्वलोकनाथस्य मधुकैटभघातिनः ॥४७
हरेरनुचरस्तस्य वयं ब्रह्मन्! निदेशगाः
उपतिष्ठन्ति यं सर्वे विष्वक्सेनं समाहिताः ॥४८
यद्वशे वर्धते विप्र! जगदेतच्चराचरम्
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥४९
मुनयो देवगन्धर्वाः दैत्याः सिद्धास्तथोरगाः
प्रणेमुर्यं महावीर्यं नारायणमिवापरम् ॥५०
देवदेवेन चाऽऽज्ञप्तो ऋषभं योऽवधीत् पुरा
दैत्येन्द्रं सुमहावीर्यं शक्रतुल्यपराक्रमम् ॥५१
देवासुरे महायुद्धे दारुणे रोमहर्षणे
सूदिता येन दैत्येन्द्राः शतशोऽथ सहस्रशः ॥५२
सदा हि यो जगद्धातुः निदेशे परिवर्तते
अचिन्त्यबलवीर्यौजाः विष्णुपादाब्जसंश्रयः ॥५३
सङ्क्रुद्धः सहसा लोकान् हन्तुं शक्तः स वासवान्
सयक्षनागगन्धर्वगुह्यकिन्नरराक्षसान् ॥५४
[[540541]]
एवम्प्रभावो यो देवो हरेरनुचरो बली
विश्रुतः सर्वलोकेषु तस्यैवानुचरा वयम्’ ॥५५
वामदेवः-
एवमुक्तस्तदा तैस्तु गन्धर्वाद्यैर्नरेश्वर!
प्रशशंस तदा देवं विष्वक्सेनं महामुनिः ॥५६
प्रणम्य च तदा देवं हरिं भक्त्या च तैः सह
तपोबलसमायुक्तैः मुनिभिर्भावितात्मभिः ॥५७
ताननुज्ञाप्य संहृष्टो गन्धर्वाद्यांस्तपस्विनः
विचचार यथापूर्वं नारायणदिदृक्षया ॥५८
अगस्त्यादिकृतशेषाचलस्थानेकपुण्यतीर्थावलोकनम्
तस्मिन् गिरिवरे रम्ये वृषभाख्ये महीयसि
गिरिमूर्धनि राजेन्द्र! विचरन् वै ततस्ततः ॥५९
ददर्श शतशो वृक्षान् पुष्पितान् पर्वतोपमान्
शुभोदकवहाः शुद्धाः सरितश्चातिशोभनाः ॥६०
गुहाश्च विविधास्तत्र द्रुमषण्डविभूषिताः
कन्दराणि च दिव्यानि दरीश्च प्रियदर्शनाः ॥६१
शिखराणि च मुख्यानि नीलमेघनिभानि च
तटाकांश्च तथा दिव्यान् शोभितांश्च शुभैर्जलैः ॥६२
हंसकारण्डवाकीर्णान् सारसैश्चानुनादितान्
जीवञ्जीवैश्च सारङ्गैः वारणैश्च सदामदैः ॥६३
राजद्भिश्चक्रवाकैश्च शकुन्तैरनुनादितान्
एवमाद्यैस्तथान्यैश्च शोभितान् विमलोदकान् ॥६४
सरसीश्च तथा दिव्या नारायणमहागिरौ
कुन्दैर्नीपैस्तथा सालैः अर्जुनैस्तिलकैस्तथा ॥६५
चम्पकाशोकपुन्नागकोविदारासनादिभिः
तीरजैर्द्रुमषण्डैश्च शोभितेषु सरःसु च ॥६६
प्रीत्या स्नात्वा तथा चक्रुः देवपूजां यथाविधि
स गच्छन्नथ विप्रेन्द्रो नरेन्द्र! मुनिभिर्वृत ॥६७
ददर्श पर्वते भूयो दर्शनीयतमान् मुनीन्
शष्पाङ्कुरकृताहारान् हरिणान् वनचारिणः ॥६८
चरतः सर्वतो भूप! स्थलेषु मृगपोतकान्
कुञ्जरान् मेघसङ्काशान् शुभदन्तविभूषितान् ॥६९
शिखराच्छिखरं शीफ्रुं पततश्चापि वानरान्
एवमाद्यैस्तथान्यैश्च शोभितो गिरिमूर्धनि ॥७०
विचचार तथाऽगस्त्यः चिरकालं नृपेश्वर!
ऋषिभिः सहितः सर्वैः पितामहवचः स्मरन् ॥७१
दिदृक्षुर्देवदेवेशं भगवन्तं सनातनम्
अन्यानपश्यत् सोऽगस्त्यः तस्मिन्नद्रौ जलाशयान् ॥७२
सरितश्च महापुण्यवैडूर्यविमलोदकाः
पुष्करिण्यः शुभाश्चापि सरांसि विमलानि च ॥७३
[[542543]]
श्रीवामनपुराणे क्षेत्रखण्डे एकोनत्रिंशोऽध्यायः
सर्वेषु तेषु पुण्येषु तीर्थेषु मुनिसत्तमः
स्नात्वा स्नात्वा जगन्नाथं अर्चयामास भक्तिमान् ॥७४
अगस्त्यादीनां कुमारधारास्नानम्
एकदा तु स धर्मात्मा विचरन् गिरिमूर्धनि
कौमारीं महतीं धारां पतन्तीं ददृशे मुनिः ॥७५
अत्युच्चगिरिपृष्ठात्तु कार्तिकेयेन सेविताम्
तां दृष्ट्वा विस्मयाऽविष्टः सर्वपापहरां शुभाम् ॥७६
देवर्षिसिद्धमनुजैः सेवितां पुण्यकाङ्क्षिभिः
यत्र सा निपतत्युच्चात् शिखराद्विमलोदका ॥७७
तटाके विमले दिव्ये पवित्रे पापनाशने
यस्मिन् वसति राजेन्द्र! शम्भुपुत्रः प्रतापवान् ॥७८
दारुणं तप आस्थाय प्रीतये मधुघातिनः
देवसेनापतिः श्रीमान् सुब्रह्मण्योऽसुरार्दनः ॥७९
त्रिकालमर्चयन् विष्णुं श्रीनिवासं जगत्पतिम्
तस्मिन् गत्वा मुनीन्द्रस्तु नरेन्द्र! मुनिभिः सह ॥८०
आचम्य प्रयतो भूत्वा ममज्ज सुसमाहितः
सर्वपापहरे शुद्धे तीर्थे तस्मिन् सदाऽमले ॥८१
चिन्तयन् देवदेवेशं नारायणमनामयम्
स्नात्वा मुनिवरस्तस्मिन् आचम्य च यथाविधि ॥८२
देवदेवं जगद्योनिं वासुदेवमथोक्षजम्
अर्चयामास गोविन्दं दिव्यैः पुष्पैः सुगन्धिभिः ॥८३
ऋषयश्च महात्मानः स्नात्वा तस्मिन् महोदके
अर्चयामासुरव्यग्रं देवदेवं जनार्दनम् ॥८४
समाधाय मनस्तस्मिन् ब्रह्मण्यमिततेजसि
मनो निवेश्य जगतामीश्वरे पुरुषोत्तमे ॥८५
नारायणे जगद्धाम्नि सर्वपापहरे हरौ
अथ तं वरदं विष्णुं सर्वलोकनमस्कृतम् ॥८६
प्रणेमुर्मुनिशार्दूलाः वेङ्कटाद्रिनिवासिनम्
प्रणतार्तिहरं देवं कृष्णं सर्वेश्वरं हरिम् ॥८७
रमन्तं रयया सार्धं अर्चयित्वा सुरोत्तमम्
यथापूर्वं मुनिश्रेष्ठः चचार गिरिमूर्धनि ॥८८
विचरंश्च ततस्तत्र तीर्थौघान् पापनाशनान्
देवदानवगन्धर्वैः सिद्धचारणपन्नगैः ॥८९
ऋषिभिर्वालखिल्यैश्च सेवितं पर्वतोत्तमम्
अगस्त्यो मुनिभिस्तत्र ददर्श विमलं गिरिम् ॥९०
इति श्री वामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये अगस्त्यादि
महर्षिकृत विष्वक्सेनतत्पारिषदादिदर्शनं नाम
एकोनत्रिंशोऽध्यायः.
[[544545]]
श्रीवामनपुराणे क्षेत्रखण्डे एकोनत्रिंशोऽध्यायः
त्रिंशोऽध्यायः
अथ त्रिंशोऽध्यायः
अथ श्रीवेङ्कटाचलस्थपुण्यतीर्थवर्णनम्
जनकः-
’मुनिना तेन दृष्टानां अगस्त्येन महात्मना
नामानि तेषां तीर्थानां पर्वतेन्द्रनिवासिनाम् ॥१
माहात्म्यं चापि सर्वेषां पापहानिं वदस्व मे
यद्वा सम्प्राप्यते मर्त्यैः स्नात्वा तेषु फलं मुने! ॥२
विस्तरेणैतदाश्चर्यं वक्तुमरछस्यशेषतः
श्रोतुकामो ह्यहं ब्रह्मन्! पृच्छामि त्वां तपोधन!’ ॥३
वामदेवः-
श्रूयतां नृपते! वक्ष्ये यत्पृष्टोऽहमिह त्वया
तीर्थानां नामधेयानि माहात्म्यञ्च तथाऽद्भुतम् ॥४
विस्तरात् नैतदाख्यातुं शक्यं वर्षशतैरपि
सङ्क्षेपेण मया त्वेतत्कथ्यमानं निशामय ॥५
’’वाराहं वामनं सौम्यं दिव्यं पञ्चनदं तथा
शिलातोयं महातीर्थं पाद्मं सौरं तथाऽपरम् ॥६
पापनाशनमैन्द्रञ्च वायव्यं वारुणं तथा
ब्रह्मतीर्थं तथाऽघघ्नम् आग्नेयं सर्वकामदम् ॥७
पञ्चतीर्थं महापुण्यं शङ्खतीर्थमतः परम्
गौरीतीर्थञ्च विख्यातं आश्विनं पारमेश्वरम् ॥८
चक्रतीर्थं महापुण्यं शङ्खतीर्थमतः परम्
विजयं विमलञ्चापि शोकनाशनमेव च ॥९
मात्स्यं कौर्मं तथा दिव्यं गारुडं पाण्डवं तथा
मायामयं महातीर्थं काण्डवं काहलं तथा ॥१०
दाडिमं मधुरञ्चापि सर्वपापप्रणाशनम्’’
तीर्थान्येतानि पुण्यानि विद्यन्ते वेङ्कटाचले ॥११
अथ कपिलतीर्थपश्चिमभागस्थपञ्चतीर्थमाहात्म्यम्
जनकः-
’पञ्चतीर्थमिति प्रोक्तं यत्त्वया मुनिसत्तम!
तन्मे ब्रूहि महाभाग! श्रोतुमिच्छामि तत्त्वतः’ ॥१२
वामदेवः-
कापिलं नाम यत्तीर्थं तस्य पश्चिमभागतः
’’पञ्चतीर्थ’’ मिति ख्यातं पावनं पुण्यवर्धनम् ॥१३
विप्रक्षत्रियविट्शूद्रा ये चान्त्याः पापयोनयः
तेषां क्रमेण तीर्थानि पञ्चैतानि नरोत्तम! ॥१४
देवास्तत्र तपस्यन्ति पञ्चजात्यभिमानिनः
वसन्ति कापिलं लिङ्गं पश्यन्तः परया मुदा ॥१५
वराहरूपिणं देवमञ्जनाद्रिनिवासिनम्
अर्चयन्तः स्तुवन्तश्च सदा तद्भावभाविताः ॥१६
[[546547]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रिंशोऽध्यायः
’’उपरि प्रथमं तीर्थं ब्राह्मणानां शुभोदकम्
सद्यः सिद्धिकरं तेषां स्नानपानजपादिभिः ॥१७
तस्याधस्तान्महातीर्थं क्षत्रियाणामभीष्टदम्
अनन्तरञ्च वैश्यानां तीर्थमाशु फलप्रदम् ॥१८
तस्य त्वनन्तरं तीर्थं शूद्राणामघनाशनम्
चतुर्णामप्यधस्तात्तु चण्डालानां च पापिनाम् ॥१९
तीर्थं पर्वतमूले तु सद्यः पापनिबरछणम्
वाराहरूपी भगवान् विष्णुर्भक्तानुकम्पया ॥२०
तेषु पञ्चसु तीर्थेषु सान्निध्यं कुरुते सदा
वर्णाश्रमाणामाचारवैकल्यं नाशयत्यहो!’’ ॥२१
तेषामन्यतमं तीर्थं सेवमानो नरो नृप!
तांस्तांश्च समवाप्नोति कामांस्तीर्थप्रभावतः ॥२२
प्रसादात्तस्य देवस्य प्राप्नोति शुभमुत्तमम्
तीर्थान्येतानि सम्भूय वर्तन्ते पर्वतोत्तमे ॥२३
नद्यः समस्ताः पापघ्य्नः तासां सङ्ख्या न विद्यते
तथाऽपि शृणु वक्ष्यामि षट्षष्टिः कोटयस्तथा ॥२४
नारायणाचले तस्मिन् अञ्जनाख्ये नगोत्तमे
देवर्षिसिद्धगन्धर्वयक्षराक्षसपन्नगैः ॥२५
गुह्यविद्याधरैश्चापि ह्यप्सरोभिः समन्तत्तः
किन्नरैर्गरुडैश्चापि देवैर्देवाधिपैरपि ॥२६
एवमाद्यैस्तथाऽन्यैश्च सेविताः पुण्यकाङ्क्षिभिः
तीर्थानि तेषां माहात्म्यं गदितुं नैव शक्यते ॥२७
यस्मिन् यस्मिन् गिरेः शृङ्गे वारि सन्दृश्यते शुभम्
तदद्भुतं महापुण्यं तीर्थेभ्यः सम्भवं नृप! ॥२८
तेषु तेषु च तीर्थेषु स्नात्वा स्नात्वा बुधो जनः
आभ्यन्तरविशुद्ध्यर्थं विचरेत् सुसमाहितः ॥२९
वामदेवः-
पुनरत्र प्रवक्ष्यामि तीर्थानि मुनिसत्तम!
यानि तानि तु सर्वाणि शृणुष्वैकमना विभो! ॥३०
अथ स्वामिपुष्करिण्यादिसर्वतीर्थमाहात्म्यवर्णनम्
पर्वतस्योत्तरे भागे पुण्यतीर्थानि मे शृणु
सर्वदोषप्रशमनं गिरिरूपमतः परम् ॥३१
शालिवाहं तथा चान्यत् रोगघ्नं शान्तमेव च
सर्वदुःखप्रशमनं कृष्णनिध्यानमेव च ॥३२
स्वामितीर्थं महापुण्यं सर्वपापप्रणाशनम्
यस्य तीरे जगन्नाथो रमते रमया सह ॥३३
विश्रुतं सर्वलोकेषु विशेषेण नृपात्मज!
पाण्डुराभ्रघनप्रख्यैः राजहंसैर्निषेवितम् ॥३४
कोकिलैश्च तथा मत्तैः चक्रवाकैश्च शोभनैः
द्रुमैर्नानाविधैश्चापि पुष्पभारनिपीडितैः ॥३५
[[548549]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रिंशोऽध्यायः
तोयार्थमापतद्भिश्च शैलेन्द्रसदृशैर्गजैः
ऋक्षैः सिंहैर्वराहैश्च वृकैश्च हरिणैः शिवैः ॥३६
एवमाद्यैस्तथान्यैश्च लोलितम् विमलोदकम्
धनुःशतेन विस्तीर्णं चन्द्रकान्तामलोदकम् ॥३७
मुख्यान्येतानि राजेन्द्र! तीर्थानि कथितानि ते
सर्वतीर्थानि कथितुं न शक्यं नृपसत्तम! ॥३८
उद्देशतस्तवोक्तानि नारायणमहीधरे
या मया भवतः प्रोक्ता ’’स्वामिपुष्करिणी’’ शुभा ॥३९
तस्याः प्रभावमतुलं ससुरैरपि मानुषैः
वक्तुं न शक्यते चापि यस्यास्तीरे हरिः स्वयम् ॥४०
रमते ह्यधिकं तस्मिन् नारायणगिरावपि
यां गत्वा सर्वपापघ्नीं देवर्षिगणसेविताम् ॥४१
विश्रुतां सर्वलोकेषु पूजितां त्रिदशैरपि
अनेकबहुसाहस्रैः पापकैरपि संवृतः ॥४२
नरस्तेभ्यः समस्तेभ्यः पापेभ्योऽपि प्रमुच्यते
साक्षान्नारायणस्याद्रेः सर्वलोकविमोहिनी ॥४३
सर्वदोषप्रशमनी मायैषा परमेश्वरी
वरिष्ठा सर्वतीर्थेभ्यः स्वामिपुष्करिणी नृप! ॥४४
ये नराः प्रातरुत्थाय ’’स्वामिपुष्करिणी’’ति वै
कीर्तयन्ति महात्मानः ते यान्ति परमां गतिम् ॥४५
तस्यां स्नात्वा च तद्वारि दृष्ट्वा च महदद्भुतम्
सर्वपापविनिर्मुक्ताः सर्वशोकविवर्जिताः ॥४६
विमानं दिव्यमारुह्य व्रजन्ति त्रिदशालयम्
ये चाप्यस्यास्तथा वारि पिबन्ति मिथिलाधिप! ॥४७
अनेकबहुसाहस्त्रेः पातकैश्चापि संयुताः
नरास्तेभ्यो विमुच्यन्ते पापेभ्यः पापकृत्तमाः ॥४८
मुच्यन्ते रोगिणो रोगात् मुच्यन्तेऽसुखिनोऽसुखात्
मुच्यन्ते मोहमापन्नाः नरा मोहान्नराधिप! ॥४९
शोकसागरमापन्नाः मुच्यन्ते शोकसागरात्
संसारदुःखतापार्ताः पुरुषा ध्वस्तमानसाः ॥५०
यां समाश्रित्य तद्ब्रह्म प्राप्नुवन्ति सदाऽमलम्
या पुरा देवदेवेन विष्णुना प्रभविष्णुना ॥५१
ब्रह्मणा लोकनाथेन प्रभुणाऽव्यक्तरूपिणा
’’गङ्गाद्यैः सकलैस्थीर्तैः सर्वपापप्रणाशनैः ॥५२
प्रोक्ता समे’’ति देवेन मेघगम्भीरया गिरा
शृण्वतां सर्वदेवानां ऋषीणाञ्च तथा नृप! ॥५३
जनकः-
कथं प्रोक्ता पुरा ब्रह्मन्! ’स्वामिपुष्करिणी शुभा
गङ्गाद्यैः सकलैस्थीर्तैः समे’ ति हरिणा पुरा ॥५४
एतद्ब्रह्मन् महाभाग! याथार्थ्येनाद्य शंस मे
एतच्छ्रोतुमिहेच्छामि त्वत्तोऽहं मुनिपुङ्गव! ॥५५
[[550551]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रिंशोऽध्यायः
शतानन्दः-
एवं पृष्टस्तदा तेन जनकेन महात्मना
मुनिः प्राह नरेन्द्रं तं ’वक्ष्येऽहं श्रूयता’मिति ॥५६
इति श्री वामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये स्वामि-
पुष्करिण्यादिसर्वतीर्थमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः.
अथैकत्रिंशोऽध्यायः
अथ शङ्खाख्यनृपवृत्तान्तः
वामदेवः-
शङ्खो नाम पुरा राजा राजन्! आसीन्महाद्युतिः
हैहयानां कुले जातः कर्मणा विश्रुते भुवि ॥१
श्रुतस्य बलिनो राज्ञ्ः पुत्रः परपुरञ्जयः
सोऽन्वशासन्महीं कृत्स्नां सशैलवनकाननाम् ॥२
सोऽभवत् भगवद्भक्तः प्रह्लादेन समो भुवि
गुणैः नर्वैः समायुक्तः श्रीमान् परमधार्मिकः ॥३
सोऽयजत् सर्वभूतेशं अश्वमेधादिभिर्मखैः
नारायणं जगन्नाथं प्रणतार्तिहरं हरिम् ॥४
अददात् भक्तिमान् देवे दक्षिणाश्च सहस्रशः
सर्वेषु तेषु यज्ञेषु प्रीतये मधुघातिनः ॥५
न चाद्राक्षीत्स तैर्यङ्ञैः भगवन्तं सनातनम्
श्रद्धया परया युक्तो विविधैर्भूरिदक्षिणैः ॥६
द्रष्टुं तमजरं देवं कृतवानपि तान् मखान्
श्रद्धया परया युक्तो विविधैर्भूरिदक्षिणैः ॥७
सोऽभवत् दुःखसन्तप्तः ततोऽपश्यज्जनार्दनम्
भक्तिभावेन मनसा चेष्ट्वा सर्वमखैरपि ॥८
[[552553]]
स्वामिपुष्करिण्या भगवदु क्तगङ्गाद्यशेषपुण्यतीर्थसाम्यम्
एकदा तु महात्मानं भूपते! भूपतिं विभुः
अन्तरिछतो जगादैवं भगवान् पुरुषोत्तमः ॥९
तस्य दुःखं समालोक्य वासुदेवो महीपते!
शृण्वतां सर्वभूतानां मेघगम्भीरया गिरा ॥१०
’’नारायणगिरौ मां त्वं द्रक्ष्यसे हे महीपते!
भक्तिभावेन मनसा तपस्तप्त्वा सुदुश्चरम् ॥११
तत्र पुष्करिणी दिव्या विमला पापहारिणी
धनुःशतपरीणाहा वैडूर्यविमलोदका ॥१२
त्रैलोक्यविश्रुता पुण्या ’’स्वामिपुष्करिणी’’ति वै
गङ्गाद्यैः सकलै स्तीर्थैः सा समा विमलोदका ॥१३
तस्यां स्नात्वा भविष्यन्ति नराः पापविवर्जिताः
तस्यास्तीरे महापुण्ये पुष्करिण्यां नृपात्मज! ॥१४
महता तपसा युक्तः तिष्ठ त्वं सुसमाहितः
वत्सराणां सहस्रे तु समतीते महामुनिः ॥१५
आयास्यति महातेजाः अगस्त्यो मुनिभिः सह
अनेकशतसाहस्रैः परीतस्तं महीधरम् ॥१६
द्रष्टुकामश्च मां विप्रो विचरन् गिरिमूर्धनि
वहन् मयि परां भक्तिं सर्वब्रह्मविदां वरः ॥१७
आगतेऽथ मुनौ तस्मिन् अचिरेणैव मां नृप!
द्रष्टाऽसि मत्प्रसादेन तेन सार्धं महात्मना ॥१८
त्वया न शोकः कर्तव्यो दास्ये तव यथेप्सितम्
मा विषादं कृथा वीर! गच्छ त्वं तं महीधरम्’’ ॥१९
वामदेवः-
एवं पुरा हि भगवान् गङ्गाद्यैः साम्यमादिशत्
देवदेवो जगन्नाथः स्वामिपुष्करिणीं प्रति ॥२०
भगवदुक्त्या शङ्खनृपकृत स्वामितीर्थतपःप्रकारः
शङ्खोऽपि नृपतिर्धीमान् गदितं तस्य शार्ङ्गिणः
नारायणस्य देवस्य विष्णोरन्तरिछतस्य सः ॥२१
निशम्य मधुरं वाक्यं नरेन्द्रोऽथ नरेश्वर!
अभिषिच्य सुतं वीरं महेन्द्रसमविक्रमम् ॥२२
सौम्यं पुरुषशार्दूलं वज्रपाणिमिवापरम्
नारायणालयं दिव्यं नारायणगिरिं तदा ॥२३
अभ्यगात् द्रष्टुकामः स वासुदेवं नराधिप!
तत्र गत्वा महीपालः स तेपे परमं तपः ॥२४
स्वामिपुष्करिणीतीरे यथोक्तं परमेष्ठिना
विषयेभ्यः समस्तेभ्यः समाहृतमनोरथः ॥२५
निवेश्य च मनस्तस्मिन् परे ब्रह्मणि केशवे
तपश्चरंश्च विश्वेशं अर्चयंश्च यथाविधि ॥२६
वत्सराणां सहस्रन्तु सोऽभवन्नियतात्मवान्
एवमेषा महापुण्या स्वामिपुष्करिणी शुभा ॥२७
[[554555]]
श्रीवामनपुराणे क्षेत्रखण्डे अथैकत्रिंशोऽध्यायः
एनां पुरातनीं पुण्यां सेवमानो न सीदति
नरः समस्तपापैस्तु संयुक्तोऽपि नरेश्वर! ॥२८
यस्त्वेनां सेवते भक्त्या स गच्छेत्परमां गतिम्
देवदेवप्रसादेन कृष्णस्य परमात्मनः ॥२९
सकामाश्चापि सेवन्ते ये नरा नियतेन्द्रियाः
स्वामिपुष्करिणीमेनां तान् कामानाप्नुवन्ति हि ॥३०
ऋषयो वालखिल्याश्च सिद्धाश्चापि सहस्रशः
अस्यां स्नात्वा जगन्नाथं अर्चयन्ति दिनेदिने ॥३१
अस्यास्तीरं समागम्य गन्धर्वाश्च सहस्रशः
प्रसादयन्तो देवेशं सुस्वरं बहु किन्नराः ॥३२
गायन्ति विविधैर्दिव्यैः कर्मभिस्तमहर्निशम्
नृत्यन्त्यप्सरसश्चापि गायन्ति शुभलोचनाः
प्रसादयन्त्यो देवेशं दिवारात्रमतन्द्रिताः ॥३३
एषा महाश्चर्यतमा महीपते!
महीतले देवगणैरभिष्टुता
नारायणाद्रिप्रवरं समाश्रिता
नारायणेनाप्युदिता प्रियेति सा ॥३४
इति श्री वामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये स्वामि
पुष्करिणीमाहात्म्यवर्णनं नाम एकत्रिंशोऽध्यायः
द्वात्रिंशोऽध्यायः
अथ द्वात्रिंशोऽध्यायः
स्वामिपुष्करिणीतीर्थे भगवन्तमुद्दिश्य अगस्त्यादिकृत तपश्चिन्ता.
वामदेवः-
अगस्त्योऽथ मुनीन्द्रस्तु नरेन्द्र! मुनिभिः सह
एतानि तीर्थानि मुनिः स्वामिपुष्करिणीं विना ॥१
मनःप्रह्लादजननीं दृष्ट्वा हर्षमुपागमत्
तेषु तेषु च सर्वेषु तीर्थेषु शुभवारिषु ॥२
स्नात्वा स्नात्वा प्रणम्येशं अर्चयामास केशवम्
मुनयश्चापि ते सर्वे परां प्रीतिमुपागताः ॥३
दृष्ट्वा तीर्थानि पुण्यानि शतशोऽथ सहस्रशः
ते चापि तेषु तेष्वेवं स्नात्वा स्नात्वा द्विजो त्तमाः ॥४
अर्चयामासुरव्यग्रा भगवन्तं सनातनम्
अथ तैः सहितैः सर्वैः अगस्त्यो नियतात्मवान् ॥५
अर्चयित्वा जगन्नाथं अभ्यगात्पुरुषोत्तमम्
द्रष्टुकामो महीपाल! भूतभव्यभवत्प्रभुम् ॥६
आदिदेवं विशालाक्षं कृष्णमक्लिष्टकारिणम्
मुनीन्द्रः परमायत्तो विचरन् गिरिमूर्धनि ॥७
कालेन महता चापि नाद्राक्षीत् पुरुषोत्तमम्
स्रष्टारमीश्वरं देवं सर्वलोकपरायणम् ॥८
[[556557]]
दुःखेन महताऽऽविष्टो मुनीन्द्रो मुनिभिः सह
निषसाद ततो भूप! कस्मिंश्चित् गिरिगह्वरे ॥९
भूधरं सर्वतः पश्यन् ’’किमेत’’ दिति चिन्तयन्
यत्पुरा ब्रह्मणा प्रोक्तं ’’द्रष्टाऽसी’’ति सुरेश्वरम् ॥ १०
तच्चापि संस्मरन् वाक्यं निषसाद सुदुःखितः
ऋषयश्चापि दुःखार्ता ह्यपश्यन्तः सुरेश्वरम् ॥११
परिवार्य मुनीन्द्रं तं निषेदुरवनीपते!
राजंस्तेषां मुनीन्द्राणां चरतां तत्र भूधरे ॥१२
वेङ्कटाख्येऽभ्यगात्पुण्ये वर्षाणामधिकं शतम्
ततस्तेषूपविष्टेषु मुनीन्द्रेषु महीधरे ॥१३
भगवत्सेवार्थं वेङ्कटाचलं प्रति गुरुशुक्राद्यागमनम्
आजग्मुः शिखरे तस्मिन् द्रुमषण्डविभूषिते
बृहस्पतिश्च भगवान् शुक्रश्चापि तथाऽऽत्मवान् ॥१४
तथा च भगवद्भक्तो राजोपरिचरो वसुः
सान्निध्यं कुरुते यस्य सदा कृष्णो महीपते! ॥१५
यः पुरा विप्रशापेन पातालतलपातितः
उद्धृतो हरिणा तस्मात् संसारगहनादिव ॥१६
जनकः-
’कथं स विप्रशापेन पातालतलपातितः?
उद्धृतो हरिणा कस्मात् संसारगहनादिव ॥१७
एतन्मुने! महाश्चर्यं श्रोतुमिच्छाम्यशेषतः
नारायणाश्रितत्वेन प्रसादसुमुखो वद’ ॥१८
शतानन्दः-
इत्थं निशम्य वचनं जनकस्य मुनिस्तदा
वामदेवो ’महीपाल! श्रूयता’ मिति चाब्रवीत् ॥१९
वामदेवः-
’इदं चोवाच भगवान् सर्वशास्त्रविशारदः
पुण्यमेतन्महाश्चर्यं श्रुत्वा चैवावधारय ॥२०
वासुदेवाश्रयं पुण्यं इतिहासं पुरातनम्
ऋषयश्च पुरा राजन्! सेन्द्राश्च त्रिदिवौकसः ॥२१
तं देशं प्रस्थिताः सर्वे यत्रोपरिचरो वसुः
धर्मसंशयमापन्ना द्रष्टुं तं वसुधाधिपम् ॥२२
उपरिचरवसुवृत्तान्तः
अत्रान्तरे समायातः सोऽयं मार्गवशाद्वसुः
अभिजग्मुश्च तं देवा ऋषयश्च तदा वसुम् ॥२३
तानागतांस्ततो दृष्ट्वा देवान् ब्रह्मर्षिभिः सह
पूजयामास धर्मात्मा समुत्थाय वरासनात् ॥२४
सम्पूज्य तान् यथान्यायं प्रणम्य च कृताञ्जलिः
सकौतुकं समाविष्टः प्राह चेदं वचो नृप! ॥२५
’कृतार्थोऽस्मि महाभागा यद्यूयं मम चान्तिकम्
आगतास्त्रिषु लोकेषु पूजिता वेदपारगाः ॥२६
[[558559]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वात्रिंशोऽध्यायः
एष्वासनेषु सर्वेषु विशन्तु च यथाविधि
प्रसीदस्तु भवन्तोऽत्र देवा ब्रह्मर्षयोऽमलाः!’ ॥२७
इत्युक्त्वा प्रददौ तेषां आसनानि महान्ति वै
मणिकाञ्चनचित्राणि दीप्यमानान्यनेकशः ॥२८
मुनीन्द्राणाञ्च सर्वेषां त्रिदशानाञ्च धर्मवित्
तेषु तेषूपविष्टेषु देवेषु मुनिभिः सह ॥२९
कृताञ्जलिर्मुदा युक्तः पप्रच्छाथ स चेदिराट्
’किमर्थमागता यूयं किं कार्यं भवतां मया?
एतत्सर्वं समासेन त्वाख्यात मुनिसत्तमाः! ॥३०
उपरिचरवसुं प्रति महर्षिकृतप्रश्नप्रकारः
वामदेवः-
इत्युक्ता वसुना दृष्ट्वा मुनीन्द्रास्ते सुरैः सह
धर्मसंशयमापन्ना आचख्युस्तस्य भूपते! ॥३१
’धर्मसंशयमापन्ना वयं सर्वे समागताः
धर्मतत्त्वं परिप्रष्टुं चिन्धि नो धर्मसंशयम् ॥३२
भो राजन्! केन यष्टव्यं सद्भिः किं पशुनाऽथवा
औषधैरेव यष्टव्यं? तदेतद्वद तत्त्वतः ॥३३
एनं नः संशयं छिन्दि प्रमाणं नो भवान् मतः’
इत्येवमुक्तः स वसुः कृताञ्जलिरभाषत ॥३४
’कस्य वै को मतः पक्षो ब्रूत सत्यं द्विजोत्तमाः’
इत्युक्ता ऋषयः प्रोचुः पक्षौ द्वौ च पृथक् पृथक् ॥ ३५
धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप!
पशुपक्षस्तु देवानां मतो राजन्! वदस्व नः’ ॥३६
निशम्य वचनं तेषां नृपेन्द्रो वसुरात्मवान्
प्रश्नमेतं समाधित्सुः मनस्येवमचिन्तयत् ॥३७
’महर्षिदेवतामध्ये पूर्वं पूज्या हि देवताः
ततो मयाऽद्य सङ्ग्राह्यः पक्षोऽत्र मरुता’मिति ॥३८
देवानान्तु मतं ज्ञात्वा वसुस्तत्पक्षसंश्रयात्
’’छागेनै व तु यष्टव्यम् इत्यूचुरमरास्तु यत्
एवमेवैतत्’ इत्याह ’नान्य’थेति नरोत्तम! ॥३९
महर्षिशापेन उपरिचरवसोः पातालकुहरप्राप्तिः
तेनोक्तं वचनं श्रुत्वा वसुना रक्तवीक्षणाः
मुनीन्द्रास्ते तु सङ्क्रुद्धाः प्रोचुरेवं वचो नृपम् ॥४०
’यदि त्वयोक्तः परमो धर्मो न स्यात्परन्तप!
रसातलतलं घोरं विविशेथा ह्यकामतः ॥४१
यदि स्यात्परमो धर्मः त्वयोद्दिष्टो नरेश्वर!
वयमेवाद्य तद्घोरं प्रविशेम रसातलम् ॥४२
विधाता भगवान् देवः सर्वात्मा परमेश्वरः
नारायणः स भगवान् कृष्णः कमललोचनः ॥४३
स एतदेव देवेशो वेत्त्येष मधुसूदनः
न वेदान्यः पुमांल्लोके वेदैतद्वा पितामहः ॥४४
[[560561]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वात्रिंशोऽध्यायः
वेद देववरः साक्षात् शङ्करो वा पुरान्तकः
यं विदुः सर्वभूतानां संहर्तेति पुराविदः’ ॥४५
एवमुक्ते ततस्तैस्तु निपपात स चेदिराट्
अनिच्छन्नेव भूपाल! घोरदुर्गे रसातले ॥४६
भावयन् हृदि देवेशं त्रातारं मधुघातिनम्
भक्त्या परमया युक्तः कृष्णमक्लिष्टकारिणम् ॥४७
पतमानं ततो वायुः विचरन् वै तदा बिले
दधौ परमया प्रीत्या भक्तोऽयमिति शार्ङ्गिणः ॥४८
वहन्नेव शनैर्देवो वायुस्तं चेदिपुङ्गवम्
प्रवेशयामास तदा पातालं दैत्यसेवितम् ॥४९
प्रविष्टः स नरेन्द्रोऽथ चेदिराट् विश्रुतो भुवि
मनस्यच्युतमीशेशं कृत्वा सर्वेश्वरं हरिम् ॥५०
वासुदेवं सुराध्यक्षं शङ्खचक्रगदाधरम्
स्थितिसंयमकर्तारं कृष्णमक्लिष्टकारिणम् ॥५१
नारायणं समस्तानां लोकानां प्रभुमीश्वरम्
द्वादशाक्षरमैवेकं परं मन्त्रं जजाप ह ॥५२
सर्वेन्द्रियाणि संयम्य भक्त्या परमया युतः
विषादं नागमद्घोरं प्रविष्टोऽपि रसातलम् ॥५३
भगवत्प्रेरित चक्रकृतवसुहननोद्युक्तासुरवध प्रकारः
शोकं मोहं भयञ्चापि नागमत् पृथिवीपतिः
प्रविष्टमथ तं दृष्ट्वा चेदिराजं जिघांसवः ॥५४
पूर्ववैरं स्मरन्तस्तु दैतेयाः शस्त्रपाणयः
आजग्मुः सङ्घशस्तत्र शतशोऽथ सहस्रशः ॥५५
महाबला महावीर्या महादंष्ट्रा महौजसः
ते समेत्य महात्मानं चेदिराजं महाभुजम् ॥५६
निजघ्नुः सहसा तैस्तैरस्त्रैः शस्त्रैस्तरस्विनः
न शेकुस्तं महात्मानं हन्तुं दैतेयदानवाः ॥५७
ब्राह्माद्यैरस्त्रजालैश्च शस्त्रैश्चापि सुदारुणैः
चक्रं भगवताऽऽज्ञप्तं रक्षार्थं तस्य धीमतः ॥५८
आगतं तत्र पाताले दुर्दर्शं तत्दुरासदम्
चक्राग्नौ दैत्यनिर्मुक्तशस्त्राण्यस्त्राणि भूपते! ॥५९
लयं यातानि सर्वाणि पतङ्गा इव पावके
अथ ते पापकर्माणो दैतेया दानवास्तदा॥६०
जग्मुर्यथागतं सर्वे स्वालयात् मिथिलेश्वर!
वसुश्चापि स राजर्षिः चिन्तयन् मधुसूदनम् ॥६१
इष्टाभिर्वाग्भिरीशेशं तुष्टाव पुरुषोत्तमम्
भगवानपि विज्ञाय चेदिराजं रसातले ॥६२
वस्वानयनाय पातालबिलं प्रति भगवत्कृत गरुडप्रेषणम्
पतितं विप्रशापेन सर्वेशः सर्वभावनः
परः परात्मा पुरुषः परमात्मा सनातनः ॥६३
अव्यक्तरूपो विश्वात्मा विष्णुर्नारायणः स्वयम्
नागेन्द्रशयने रम्ये शयानो मधुसूदनः ॥६४
[[562563]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वात्रिंशोऽध्यायः
भक्तानुकम्पी देवेशः क्षीरार्णवनिकेतनः
वैनतेयं जगन्नाथः सस्मार शुभलोचनः ॥६५
संस्मृतो गरुडस्तेन विनतानन्दनस्ततः
शीफ्रुमेव हरेस्तस्य पार्श्वमभ्यागमत्तदा ॥६६
आगतं तं गरुत्मन्तं समीक्ष्य वसुधाधिप!
मेघगम्भीरया वाचा प्रोवाचेदं प्रजापतिः ॥६७
श्रीभगवान्-
’वैनतेय! स राज्ष्रिर्वसुर्नित्यं मम प्रियः
विप्रशापभयाद्घोरे पाताले पतितः किल ॥६८
पतितोऽपि स पाताले भक्त्या परमया युतः
मामेव भजते नित्यं मय्यावेश्य मनोगतिम् ॥६९
तमानयस्व भूपालं गरुत्मन्! वचनान्मम
तस्मादुद्धृत्य पातालात् स्वदेशं प्रापयाव्ययम् ॥७०
क्षिप्रं त्वं गच्छ राजर्षिः मद्भक्तो यत्र हि स्थितः
नैवमरछति भूपालः स वसुर्गरुडामलः’ ॥७१
वासुदेवः-
इत्युक्तो गरुडस्तेन हरिणा परमेष्ठिना
’तथे’ त्युक्त्वा ततः शीफ्रुं अभ्यगाद्वै रसातलम् ॥७२
भूप! प्रविशतस्तस्य पातालन्तु तरस्विनः
गरुडस्योग्रवेगस्य पक्षवातेन वेगतः ॥७३
आहताः शतशो नेशुः पन्नगेन्द्रा रसातले
पातालवासिनश्चापि दैतेयाः शतशस्तथा ॥७४
तद्भयाच्च महावीर्या निपेतुः शतशस्ततः
चुक्षुभुः सागरश्चापि पर्वताश्च चकम्पिरे ॥७५
समूला न्यपतन् वृक्षा भग्नस्कन्धाः समुच्छ्रिताः
परित्यज्य तदाऽऽकाशं खेचराः प्रययुर्दिवम् ॥७६
अन्तर्गत्वाऽथ पाताले गरुत्मान् विनतासुतः
ददर्श तं समासीनं चेदिराजं महीपतिम् ॥७७
भगवन्तं जगन्नाथं स्तुवन्तं पुरुषोत्तमम्
गरुत्मन्तं ततो दृष्ट्वा सहसा वसुरुत्थितः ॥७८
धृताञ्जलिर्महातेजाः पूजयामास भक्तिमान्
गरुडश्चापि भूपालं सम्पूज्येदमथाब्रवीत्
स्मयन्निव महावीर्यो हर्षयन्निव तं वसुम् ॥७९
’श्रूयतां भूपते! वाक्यं कृष्णस्याक्लिष्टकारिणः
सृष्टिसंयमनेशस्य विष्णोरमिततेजसः ॥८०
’’आनयस्व वसुं भक्तं रसातलतलं गतम्
स्तुवन्तं मां समावेश्य मय्येव मतिमुत्तमम्’’ ॥८१
इत्युक्तो लोकनाथेन तवानयनकर्मणि
आगतोऽहं महीपाल! समारोह ममोपरि’ ॥८२
[[564565]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वात्रिंशोऽध्यायः
वामदेवः-
वैनतेयेन तेनैव प्रोक्तः स पृथिवीपतिः
उवाच परया प्रीत्या गरुत्मन्तं वसुर्नृपः ॥८३
’तव पृष्ठं समारोढुं न चेच्छामि शुभेक्षण!
यत्राऽऽरोहति गोविन्दः कृष्णः शुभविलोचनः ॥८४
नाथश्च जगतां धाता यस्मिंश्चक्रगदाधरः
आरोहति मया तस्मिन् आस्थातुं नैव चोचितम्’ ॥८५
वामदेवः-
इत्युक्तो गरुडस्तेन चेदिराजेन धीमता
’तवानुरूपं वचनमुक्त’ मित्यब्रवीत्ततः ॥८६
इत्युक्त्वा तं तथाभूतं गरुत्मान् पन्नगाशनः
बाहुभ्यां सम्परिष्वज्य प्राह चैनं पुनः पुनः ॥८७
उत्पपाताशु वेगेन बाहुभ्यां परिगृह्य तम्
महाजवो महावीर्यो महादंष्ट्रो महामनाः ॥८८
तत उत्पततस्तस्य गरुडस्य तरस्विनः
पक्षवातेन सन्त्रस्ताः पातालतलवासिनः ॥८९
महोरगा महावीर्याः प्रययुः सर्वतो दिशम्
दैतेया दानवाश्चापि राक्षसाश्च सहस्रशः ॥९०
दिशो दश समाजग्मुः कृष्णागमनशङ्कया
पातालं समतीत्याथ वैनतेयः प्रतापवान् ॥९१
स्वदेशं प्रापयामास तं वसुं चेदिपुङ्गवम्
हस्ताभ्यां भुवि निक्षिप्य तं वसुं गरुडस्तदा ॥९२
’अत्रैव स्थीयतां राजन्!’ इत्युक्त्वा प्रययौ बली
वसुश्चापि स राजर्षिः स्वराज्यं प्राप्य भूपतिः ॥९३
बुभुजे सकलान् कामान् शशास च वसुन्धराम्
विष्णोरेव प्रसादेन सर्वभूतिनिवासिनः ॥९४
जगद्धातुरनन्तस्य पश्चात् मुक्तिमवाप्तवान्
एवमेतत्पुरावृत्तं कथितं ते नृपोत्तम ॥९५
नारायणाश्रितं पुण्यं यः पठेत् भक्तिमान् नरः
प्रणम्याच्युतमीशेशं स याति परमां गतिम् ॥९६
नारायणेतिहासं यः शृणोति श्रावयिष्यति
श्रद्धया भगवद्भक्तिं प्राप्नोति स नराधिप! ॥९७
मुच्यन्ते ते नराः सद्यो दुष्कृतैः सकलैर्नृप!
उद्ध्रियन्ते च संसारात् पातालाच्चेदिराडिव ॥९८
विभुना वासुदेवेन कृष्णेनैव दयालुना
हरिणा लोकनाथेन सर्वकामप्रदायिना ॥९९
इति श्री वामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये
उपरिचरवसूपाख्यानं नाम द्वात्रिंशोऽध्यायः.
[[566567]]
श्रीवामनपुराणे क्षेत्रखण्डे द्वात्रिंशोऽध्यायः
त्रयस्त्रिंशोऽध्यायः
अथ त्रयस्त्रिंशोऽध्यायः
शङ्खादीनां भगवद्दिव्यमज्गलविग्रहसेवा
वामदेवः-
ततस्ते त्रय आश्चर्यं गिरेस्तत्र समाययुः
शिखरं मेरुसङ्काशं नानाधातुविभूषितम् ॥१
श्रिया परमया युक्तं भासयन्तः स्वतेजसा
शिखरेण च येनैव पर्वतः स विराजितः
यस्मिंश्चापि समासीना मुनयः शतशो नृप! ॥२
अगस्त्यप्रमुखाः सर्वे भास्करोपमतेजसः
आगत्य सहसा भूप! दीप्यमाना इवाग्नयः ॥३
भासयन्तो दिशः सर्वाः तेजोभिर्भास्करोपमाः
अगस्त्यप्रमुखान् विप्रान् सर्वांस्तान् ददृशुस्तदा ॥४
निषण्णांस्तस्य शिखरे विषण्णान् भृशदुःखितान्
तानागतांस्ततो दृष्ट्वा ह्यादित्यानपरानिव ॥५
समुत्तस्थुर्द्विजास्तत्र निषण्णा ये नगोत्तमे
पूजयन्ति स्म तान् सर्वान् अगस्त्यप्रमुखांस्तथा ॥६
सङ्गत्य मुनिभिः सर्वैः त्रयस्तेऽथ महौजसः
प्रोचुः परमसंहृष्टा नादयन्तो दिशो दश ॥७
’शुभा व्युष्टा निशाऽस्माकं शुभाश्च तिथयोऽमलाः
युष्माभिः सङ्गता यस्मात् वयं ब्रह्मर्षिसत्तमाः! ॥८
किमर्थमागता यूयं पर्वतेऽस्मिन् महीयसि
विषण्णाश्च किमर्थं वा कं वा द्रष्टुमिहागताः? ॥९
एतन्मुनिवरा यूयं अस्माकं पृच्छतां द्विजाः
सर्वमाख्यात तत्त्वेन श्रोतुमिच्छामहे वयम्’ ॥१०
एवं मुनिवरास्तैस्तु सम्यक् पृष्टा महात्मभिः
’श्रूयता’ मिति चाऽभाष्य प्रोचुस्ते मिथिलेश्वर! ॥११
ऋषयः-
शङ्खचक्रधरं देवं प्रीतवाससमच्युतम्
नारायणगिरावस्मिन् वसन्तं पुरुषोत्तमम् ॥१२
ईशितारं समस्तस्य स्रष्टारं जगतोऽव्ययम्
तं वयं शुभदातारं द्रष्टुकामाः समागताः ॥१३
न च दृष्टो जगन्नाथो विचरद्भिः समन्ततः
कालेन महता चापि विषण्णास्तेन ते वयम् ॥१४
अदृश्यमाने गोविन्दे हरावव्यक्तजन्मनि
शोकेन महताऽऽविष्टा भृशमुद्विग्नमानसाः ॥१५
विषण्णाश्च शुभे ह्यस्मिन् शिखरे धातुमण्डिते’
एवमुक्ते मुनीन्द्रैस्तु ततस्तैर्जनकामराः
मुनीन्द्रास्तान् समाभाष्य प्रोचुस्ते ’श्रूयता’ मिति ॥१६
वस्वादयः-
’शङ्खो नाम महीपालो हैहयाधिपतिः प्रभुः
आसीत् श्रुतस्य तनयः सत्पथे निष्ठितः शुभे ॥१७
[[568569]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रयस्त्रिंशोऽध्यायः
स्वामिपुष्करिणीतीरे स च राजाऽर्चयन् हरिम्
तपश्चरति राजेन्द्र! तस्य राज्ञो जनार्दनः ॥१८
सान्निध्यं कुरुते देवो भगवानिति विश्रुतम्
सोऽयं समागतः कालो यस्मिन् काले जनार्दनः ॥१९
शङ्खेन दृश्यते राजन्! विश्वरूपधरो हरिः
तान्तु गच्छामहे पुण्यां स्वामिपुष्करिणीं शुभाम् ॥२०
सर्वकामप्रदां शुद्धां सेवितां त्रिदशैरपि
तत्र गत्वा वयञ्चापि द्रक्ष्यामः पुरुषोत्तमम् ॥२१
सर्वकामप्रदातारं सर्वेशं सर्वभावनम्
तस्माद्यूयं वयं चापि गच्छाम द्विजसत्तमाः! ॥२२
नात्र स्थेयं क्षणमपि त्वर्यतां त्वर्यता’ मिति
इत्युक्तेऽथ तदा भूप! वस्वाद्यैस्तैर्महात्मभिः ॥२३
संहृष्टमनसः सर्वे बभूवुर्द्विजसत्तमाः
प्रोचुश्च ’शीफ्रुमेवास्मात् गम्यतां गम्यता’ मिति ॥२४
गतमोहा महात्मानो गतशोका गतज्वराः
मुनयोऽथ ययुः सर्वे वस्वाद्यैः सहिता नृप! ॥ २५
स्वामिपुष्करिणीतीर्थं मुनीनां गणसेवितम्
गच्छन्तस्तेऽथ संहृष्टाः प्रोचुरेवं परस्परम्
नरेन्द्र! मुनिशार्दूला वीक्षमाणा महीधरम् ॥२६
’अयं किल जगद्धातुः वासुदेवस्य शारिङ्गणः
भूधरो बहुवृक्षाढ्यः सदा प्रियतमो भुवि ॥२७
एनं समाश्रिताः पुण्यं मुनयश्च पुरातनाः
पुरातनं सुराध्यक्षं दृष्टवन्तः किलाव्ययम् ॥२८
भक्ताश्चापि जगद्धातुः स्तुवन्तः पुरुषोत्तमम्
एनमारुह्य शैलेन्द्रं द्रक्ष्यन्ति पुरुषाः किल ॥२९
स्थानेभ्यश्च समस्तेभ्यः तस्येशस्य महात्मनः
अयं गिरिर्महान् दिव्यः सम्यक् प्रियतरः किल ॥३०
’’नारायणाद्रि’’ रित्येतत् नामैव वदति स्वयम्
नारायणस्य स्थानेषु नैतस्मात् विद्यते परम् ॥३१
एवंविधानि वाक्यानि ब्रुवन्तस्ते द्विजोत्तमाः
ययुस्ते सर्वतस्तत्र शतशो मिथिलेश्वर! ॥३२
एतस्मिन्नन्तरे तत्र समाजग्मुः सहस्रशः
तद्विज्ञाय ततः सिद्धाः श्वेतद्वीपनिवासिनः ॥३३
यैः प्राप्तं देवसारूह्यं प्रसादात् तस्य शारिङ्गणः
नारायणस्य देवस्य हरेः क्षीरोदशायिनः ॥३४
सर्वदाऽनुगता ये वै प्रीणयन्ति जनार्दनम्
क्षीरोदशायिनं देवं विश्वकर्तारमीश्वरम् ॥३५
ते सङ्गतास्तु तैः सर्वैः अगस्त्यप्रमुखैर्द्विजैः
तपसा महता युक्तैः विचरद्भिर्महीधरम् ॥३६
अगस्त्यप्रमुखान् सर्वान् श्वेतद्वीपनिवासिनः
हर्षेण महता युक्ता यथान्यायमपूजयन् ॥३७
[[570571]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रयस्त्रिंशोऽध्यायः
ते चापि मुनयः सर्वे प्रहर्षोत्फुल्ललोचनाः
तानागतांस्ततो दृष्ट्वा भास्करोपमतेजसः ॥३८
अपूजयन्महात्मानो यथान्यायमरिन्दमम्!
सर्वे ते सङ्गतास्तत्र तैः सर्वैर्मुनिपुङ्गवैः ॥३९
ययुः परमया प्रीत्या श्वेतद्वीपनिवासिनः
स्वामिपुष्करिणीतीरं देवासुरनिषेवितम् ॥४०
सर्वे मुनिवराश्चापि सिद्धाश्चापि सहस्रशः
बृहस्पतिश्च भगवान् शुक्रश्चापि तथा वसुः ॥४१
स्वामिपुष्करिणीतीरं अवापुरवनीपते!
सान्निध्यं कुरुते यत्र भगवान् भूतभावनः ॥४२
तत्र गत्वाऽथ ते सर्वे नापश्यन् पुरुषोत्तमम्
नीलमेघप्रतीकाशं पद्मपत्रनिभेक्षणम् ॥४३
तत्रापश्यंस्ततो राजन्! तप्यन्तं सुमहत्तपः
विष्णोराराधनार्थाय शङ्खञ्च नियतेन्द्रियम् ॥४४
तानागतांस्ततो दृष्ट्वा शङ्खोऽथ नृपतेः सुतः
रोमाञ्चिताङ्गः सहसा परां प्रीतिमुपागमत् ॥४५
कृतकृत्यं तदाऽऽत्मानां मेने नरवरात्मजः
संस्मरन् पूर्वमेवोक्तं हरिणा हरिमेधसा ॥४६
’अथ तेषु मुनीन्द्रेषु द्रष्टाऽसी’ति वचः स्मरन्
सहसोत्थाय तान् सर्वान् प्रणनाम नृपस्तदा ॥४७
व्याकुलीकृतसर्वाङ्गः ततः सव्भ्रून्तमानसः
सिद्धांश्चापि तथा सर्वान् श्वेतद्वीपनिवासिनः ॥४८
वागीशञ्च तथा शुक्रं वसुञ्चापि महामतिम्
कृताञ्जलिपुटो भूत्वा प्रणनाम च तान् नृप! ॥४९
अगस्त्यप्रमुखाश्चापि सिद्धाश्चापि सहस्रशः
बृहस्पतिश्च भगवान् शुक्रश्चापि महामुनिः ॥५०
तथा च भगवद्भक्तो राजोपरिचरो वसुः
श्रुतस्य तनयश्चापि शङ्खः परपुरञ्जयः ॥५१
एते सर्वे महात्मानः समवेता ह्यकल्मषाः
स्वामिपुष्करिणीतीरे द्रष्टुकामा जनार्दनम् ॥५२
अपश्यन्तस्तु ते सर्वे गोविन्दं विभुमच्युतम्
अनादिमध्यनिधनं सर्वभूतनिवासिनम् ॥५३
तपः परममास्थाय प्रयता नियतेन्द्रियाः
चिन्तयन्तस्तु देवेशं तत्रातिष्ठंस्ततो नृप! ॥५४
तस्यामेव तदा सर्वे स्नात्वा पीत्वा मुदान्विताः
पुष्करिण्यां शुभायान्तु विमलायां दिने दिने ॥५५
अर्चयन्तो हृषीकेशं दिव्यैः पुष्पैः सुगन्धिभिः
अकुर्वंस्ते तपो घोरं द्रष्टुमव्यक्तरूपिणम् ॥५६
त्रिरात्रमेवं भूपाल! व्यतिष्ठंस्ते दिवानिशम्
ततो विमल आदित्ये चतुर्थेऽह्नि शुभे दिने ॥५७
[[572573]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रयस्त्रिंशोऽध्यायः
तपसोऽन्ते च पुण्यर्क्षे विमले चाम्बरे शुभे
तदा प्रसन्नः सर्वात्मा साक्षान्नारायणः स्वयम् ॥५८
आविर्भभूव भगवान् नृपते! पुरुषोत्तमः
भ्राजयन् सर्वलोकेशः सर्वान् लोकान् स्वतेजसा ॥५९
इति श्रीवामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये शङ्खादीनां
भगवत्सेवाप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः.
चतुस्त्रिंशोऽध्यायः
अथ चतुस्त्रिंशोऽध्यायः
आविर्भूतभगवद्दिव्यङ्गलविग्रहवर्णनम्
जनकः-
’कीदृशं वै हरेस्तस्य रूपमव्यक्तरूपिणः
कियन्तो वा भुजास्तस्य कियन्ति वदनानि च ॥१
कियन्तो वा धृतास्तेन तीक्ष्णा प्रहरणास्तथा?
ब्रूहि तद्रूपसंस्थानं विश्वमूर्तेरछरेर्मुने!
दृष्टवन्तो यथा सिद्धा मुनयश्च पुरातनाः ॥२
शतानन्दः-
जनकेनैवमुक्तस्तु वामदेवो महामुनिः
’श्रूयतामि’ त्यथाऽऽभाष्य जनकं तं वचोऽब्रवीत् ॥३
वक्ष्येऽहं नृपते! सम्यक् श्रूयतामिदमादरात्
यथाश्रुतं मयाऽगस्त्यात् मुनीन्द्रात् कुम्भजन्मनः ॥४
वामदेवः-
तद्रूपं वासुदेवस्य हरेरव्यक्तरूपिणः
उद्यतादित्यसङ्काशैः नयनैः शोभितं शुभैः
नानारत्नचितैश्चित्रैः किरीटैरुपशोभितम् ॥५
प्रसन्नैर्बहुभिश्चापि वदनैरुपशोभितम्
प्रवालमणिहेमाद्यैः चित्रितैरेछमकुण्डलैः ॥६
[[574575]]
नानावर्णैरनेकैश्च रुचिरैः समलङ्कृतम्
दिव्याभरणजालैश्च नानारत्नविचित्रितैः ॥७
अनेकशतसाहस्रैः शोभितं शुभलोचनैः
कम्बुग्रीवं महोरस्कं महाबाहुं महाद्युतिम् ॥८
सहस्रबाहुकं दिव्यं रत्नजालविभूषितम्
आयताश्च सुपीनाश्च सुवृत्ताश्च भुजाः शुभाः ॥९
नानाप्रहरणोपेताः नानाभूषणभूषिताः
सालस्कन्धोपमाश्चापि भूषिता भूषणोत्तमैः ॥१०
श्यामाः पृथुतरा दिव्याः तरुणादित्यतेजसः
तरुणाः स्निग्धवर्णाश्च सुखस्पर्शनखाङ्कुराः ॥११
शुभरेखाः सुरक्ताश्च समा मृदुतरास्तथा
दृश्यन्ते शतशस्तत्र राजन्! करिकरोपमाः ॥१२
यैरण्डमेतत् भूपाल! ससागरमहीधरम्
सपातालतलं सर्वं सदेवासुरमानुषम् ॥१३
ससप्तलोकं सद्वीपं सर्वभूतसमाकुलम्
रक्षितं बहुशो दिव्यैः निहता यैश्च दानवाः ॥१४
ये दुःखहानिदा नित्यं वैष्णवानां विशेषतः
वसन्ति यान् समाश्रित्य दैत्येभ्यो निर्भयाः सुराः ॥१५
ते कराः सुरनाथस्य दृश्यमानाश्चकाशिरे
उदयादुद्यतस्तस्य भास्करस्य करा इव ॥१६
सद्रत्नजालकाकीर्णहारेणापि सुशोभितम्
मेघकाले तटिन्मालाशोभितस्य महात्मनः ॥१७
मेघजालस्य वर्णेन सदृशं रुचिरं वपुः
चारुरक्ततलोष्ठं तत् चारुरक्ततरेक्षणम् ॥१८
मृदुचारुकपोलैश्च कुण्डलैरुपशोभितम्
शोभमानं ज्वलद्भिश्च ललाटफलकैरपि ॥१९
शोभमानैस्तथा चारुभ्रूचापैरुपशोभितम्
ऐरावतकराकारचारुपीनशुभोरुकम् ॥२०
द्युतिमन्मणिरत्नाढ्यचलन्नूपुरशोभितम्
काञ्चनेन विचित्रेण ब्रह्मसूत्रेण शोभितम् ॥२१
सहस्रादित्यसङ्काशमचिन्त्यं महदद्भुतम्
मेरुमन्दरसङ्काशं नीलपर्वतसन्निभम् ॥२२
समुच्छ्रितोरसं सौम्यं समायतविलोचनम्
दिव्यपीताम्बरधरं दिव्यगन्धानुलेपनम् ॥२३
दिव्यया वैजयन्त्या च सुस्कन्धगतया तथा
चकाशे तद्यथा मेघो विद्युन्मालाविराजितः ॥२४
जाम्बूनदमयैर्दिव्यैः निस्स्वनद्भिरनेकशः
किङ्किणीजालसङ्घैश्च शोभनैः रुचिरप्रभैः ॥२५
स्वनद्भिर्मणिजालैश्च शोभयद्भिर्दिशो दश
सुरक्तैर्बहुसाहस्रैः ज्वलद्भिर्भास्करोपमैः ॥२६
[[576577]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुस्त्रिंशोऽध्यायः
उद्यदिन्दुप्रतीकाशैः दिव्यैश्च नखमण्डलैः
रक्तान्तैरुन्नतैश्चापि शोभमानं सदाऽम्बुजैः ॥२७
अङ्कुशध्वजचक्राब्जशङ्खवज्राङ्कितैस्तथा
सुपादतलपद्मैश्च शोभितं वसुधाधिप! ॥२८
मुक्तादामभिरन्यैश्च वज्रसूर्यांशुसन्निभैः
प्रभया द्योतमानैश्च शोभमानपदाम्बुजम् ॥२९
अनेकशतसाहस्रैः अङ्गुलीयकभूषणैः
नानारत्नचितैश्चापि संशोभिकरशाखिभिः ॥३०
मूर्धजैः कुञ्चितैश्चापि नीलैर्मृदुतरैस्तथा
लम्बमानैर्विनिष्क्रान्तैः किरीटात् शुभदर्शनात् ॥३१
प्रच्छाद्यमानवदनं मेघैरिव निशाकरम्
रत्नस्यूतेन सूत्रेण काञ्चनेन विराजितम् ॥३२
नानामणिनिबद्धेन शोभमानेन शोभितम्
शोभितं दिव्यमालाभिः भूषितं पृथुलोचनम् ॥३३
नानाश्चर्यसमायुक्तं नानामणिगणान्वितम्
समन्ताद्दीप्यमानं तत् भूरिणा स्वेन तेजसा ॥३४
आदित्य इव तेजोभिः उद्यतं तूदयाद्रितः
तेजोभिः काञ्चनाभैश्च समन्तान्निर्गतैस्तथा ॥३५
जाज्वल्यमानं तद्रूपं चकाशेऽद्भुतदर्शनम्
स्वभासा दुर्निरीक्ष्यं तत् मुनिभिश्च सुरैरपि ॥३६
तप्यते तेजसा तस्मात् निर्गतेन स्म भूरिणा
ससुरासुरगन्धर्वं जगदेतत् चराचरम् ॥३७
ज्वलद्भिरर्कवर्णैश्च जाम्बूनदमयैस्तथा
अनेकशतसाहस्रैः संयुक्तं हेमभूषणैः ॥३८
करेषु तेषु संयुक्ताः तीक्ष्णाः प्रहरणास्तथा
ज्वलन्तश्च स्फुरन्तश्च मिथिलेश! चकाशिरे ॥३९
अर्चींषि तेभ्यो निष्पेतुः यैर्दिशो विमलीकृताः
उदयाद्रिसमारूढात् सूर्यात् दीप्तांशवो यथा ॥ ४०
व्यालोला लोकनाथस्य प्रसन्नाः शुभदर्शनाः
आयताः कृष्णरक्ताश्च भ्रूचापा दृष्टिमार्गणाः ॥४१
रक्तपद्मदलप्रख्याः कान्तिमन्तः सुवर्चसः
श्रिया परमया युक्ताः पक्ष्मराजिविराजिताः ॥४२
येषां निपातैर्दैतेयाः नेदुर्भीताः सहस्रशः
रक्षांसि दानवाश्चापि जग्मुर्वैवस्वतक्षयम् ॥४३
दुर्लभञ्चापि देवत्वं प्राप्नुवन्ति नरा अपि
अन्यांश्च दुर्लभान् कामान् मुक्तिञ्चापि सुदुर्लभाम् ॥ ४४
यान् द्रष्टुकामास्तद्भक्ताः शोचन्ति हि दिवानिशम्
ते भूप! शतशो दिव्या राजन्ते रुचिरप्रभाः ॥४५
अनेकशतसाहस्राः कालाग्निसदृशप्रभाः
नानाप्रहरणा घोराः संयुक्तास्तत्र बाहुषु ॥४६
[[578579]]
श्रीवामनपुराणे क्षेत्रखण्डे चतुस्त्रिंशोऽध्यायः
भयदाः सुरशत्रूणां दैत्येन्द्राणां महौजसाम्
सर्वगाः सर्वदेशेषु भक्तानामभयप्रदाः ॥४७
जाज्वल्यमानास्तेजोभिः रूक्षकैः सौम्यकैरपि
अकुर्वन्निष्प्रभौ सद्यः चन्द्रसूर्यौ स्वरश्मिभिः ॥४८
तद्रूपमाश्चर्यमनेकवर्णं
किरीटमालाभिरशेषमूर्तेः ।
व्यराजताऽदित्य इवान्तकाले
स्वरश्मिमालाभिरनेकरश्मिः ॥४९
तद्दीप्तवक्त्रं विमलं विशोकं
जाज्वल्यमानं महता स्वतेजसा ।
अशोभताऽद्यं वपुरद्भुतेक्षणं
युगान्तकालाग्निरिव प्रदीप्तम् ॥५०
इदि श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये भगवद्दिव्य
मङ्गलविग्रहवर्णनं नाम चतुस्त्रिंशोऽध्यायः.
पञ्चत्रिंशोऽध्यायः
अथ पञ्चत्रिंशोऽध्यायः
आविर्भूतं भगवन्तं प्रति महर्षिकृतप्रणामादिक्रमः
वामदेवः-
एवंविधं हरिस्तेभ्योऽदर्शयद्भगवान् वपुः
यन्न देवा न मुनयो नापि सिद्धा न चारणाः ॥१
न योगिनो न गन्धर्वा नापि विद्याधरा अपि
न च यक्षा न चाप्यन्ये वालखिल्याश्च तापसाः ॥२
नोरगा नापि दैतेया नापि किम्पुरुषास्तथा
दृष्टवन्तः पुरा राजन्! कृष्णस्य वपुरद्भुतम् ॥३
ततस्तु मुनयो दिव्यं रूपं तद्विश्वतोमुखम्
अनेकरत्नसञ्छन्नकिरीटोज्ज्वलिताननम् ॥४
व्यालोलमानै र्बहुभिः कुण्डलैः समलङ्कृतम्
पिबन्त इव नेत्रैस्ते सङ्क्षोभस्तिमितैस्तदा ॥५
ददृशुर्मुदिताः सर्वे नरेन्द्रानिमिषेक्षणाः
’भृशमार्ताः स्म देवे’ति सहसा भुवि भूपते! ॥६
निपेतुरथ ते सर्वे सव्भ्रून्तमनसोऽमलाः
अथ दृष्ट्वा जगन्नाथं वेङ्कटाद्रिनिवासिनम् ॥७
सहस्रशः समागम्य भक्तिभारावनामितैः
शिरोभिरवनीपाल! प्रणेमुः सहसा भुवि ॥८
[[580581]]
बृहस्पतिरगस्त्यश्च शुक्रश्चापि वसुस्तथा
भगवन्तं ततो दृष्ट्वा गरुडोपरि संस्थितम् ॥९
जाम्बूनदाद्रिशिखरे नीलमेघमिवोत्थितम्
भक्त्या प्रणेमुस्तं देवं वीक्षमाणा इतस्ततः ॥१०
उत्थायोत्थाय ते सर्वे भूयो भूयो निरीक्ष्य तम्
’प्रसीदे’ति ब्रुवन्तस्तं प्रणेमुर्बहुशो नृप! ॥११
भगवदाविर्भावकाले देवताद्यापूरितशङ्खादिमङ्गलवाद्यक्रमः
एतस्मिन्नन्तरे खस्थैः शतशोऽथ सहस्रशः
पाञ्चजन्योपमाः शङ्खाः दध्मिरे हेमभूषणाः ॥१२
अवाद्यन्त च दिव्यानि वाद्यानि बहुशोऽम्बरे
मृदङ्गादीनि सर्वाणि हेमरत्नचितानि वै ॥१३
महता शङ्खनादेन वादित्राणां स्वनेन च
जगदापूरितं सर्वं क्षुभिताश्चापि दानवाः ॥१४
निवसन्ति च ये तत्र नारायणगिरौ नृप!
ते सर्वे सहसा हृष्टाः समुत्तस्थुश्च सङ्घशः ॥१५
तस्मिञ्ञ्छब्दे श्रुते सर्वे सिंहपक्षिमृगास्तथा
प्रसन्नतां ययुः सर्वे वेङ्कटाद्रिनिवासिनः ॥१६
भगवत्सेवार्थं वेङ्कटाचलं प्रति ब्रह्मरुद्राद्यागमनम्
श्रुत्वा तं शब्दमतुलं ब्रह्मा लोकपितामहः
ज्ञात्वाऽथ वासुदेवं तं हरिं प्रत्यक्षतां गतम्
आजगामाथ तत्पार्श्वं कृष्णस्याक्लिष्टकारिणः ॥१७
मुनीन्द्रैर्देवसङ्घैश्च गन्धर्वैश्च समावृतः
भगवान् शङ्करश्चापि त्र्यम्बकस्त्रिपुरान्तकः ॥१८
ज्वलद्भास्करसङ्काशजटामण्डलशोभितः
तेन शब्देन विज्ञाय सान्निध्यं हरिमेधसः ॥१९
अभ्यगादाशु तत्पार्श्वं द्रष्टुं तं वसुधाधिप!
दुर्वाससा मुनीन्द्रेण नन्दिना च समं विभुः ॥२०
शक्रश्च त्रिदशश्रेष्ठः श्रुत्वा तं शब्दमद्भुतम्
हरिं प्रत्यक्षतां यान्तं ज्ञात्वा देवं जनार्दनम् ॥२१
देवैः परिवृतः पार्श्वं ययावव्यक्तजन्मनः
ततः शङ्खध्वनिं श्रुत्वा विष्वक्सेनः प्रतापवान् ॥२२
ज्ञात्वा प्रत्यक्षतां यान्तं नारायणमनामयम्
सहसोत्थाय भूपाल! शीफ्रुमेवाभ्यगात्तदा ॥२३
सप्तभिः सचिवैः सार्धं सकाशं शारङ्गधन्वनः
अनुरक्तैर्महावीर्यैः प्रयतैः सुसमाहितैः ॥२४
सनन्दनादयश्चापि योगिनस्तेऽथ चक्रिणः
पार्श्वमभ्याययुः श्रुत्वा तं शब्दं मिथिलेश्वर! ॥२५
सप्तर्षयश्च ये पूर्वं मयोक्ता मुनिसत्तमाः
तेऽपि श्रुत्वा च तं शब्दं हरेः पार्श्वं ययुस्तदा ॥२६
यश्चापि मुनिभिर्दृष्टो वायव्यां दिशि भूभृतः
शिलातले समासीनः पुरुषोऽद्भुतदर्शनः ॥२७
[[582583]]
श्रीवामनपुराणे क्षेत्रखण्डे पञ्चत्रिंशोऽध्यायः
सोऽपि शङ्खध्वनिं श्रुत्वा भगवत्पार्श्वमाययौ
ब्रह्मा प्रजापतिश्चापि भगवान् शम्भुरेव च ॥२८
विष्वक्सेनश्च भगवान् शक्रश्च त्रिदशाधिपः
सप्तर्षयश्च मुनयः सनकाद्याश्च योगिनः ॥२९
वायव्यां दिशि यो दृष्टो मुनिभिः सोऽपि भूपते!
एते सर्वे समागम्य सकाशं शारङ्गधन्वनः ॥३०
भक्त्या परमया युक्ताः राजन्! संहृष्टमानसाः
ददृशुस्ते समारूढं वैनतेयं महाबलम् ॥३१
हरिं हेमाद्रिशिखरे नीलमेघमिव स्थितम्
शिरोभिस्ते प्रणेमुस्तं विश्वेशं विश्वरूपिणम् ॥३२
’’जयदेव! जयेशे’’ति वदन्तः सहसा भुवि
सर्वे देवगणाश्चापि प्रणेमुः पृथुलोचनम् ॥३३
’’प्रसीद देवदेवे’’ति वदन्तस्ते पुनः पुनः
ब्रह्माद्या देवताश्चापि मुनयश्च तपोधनाः ॥३४
सिद्धाश्चापि तथा सर्वे श्वेतद्वीपनिवासिनः
एते सर्वे हरेस्तस्य रूपं परपुरञ्जय! ॥३५
द्रष्टुं नाशक्नुवन् नेत्रैः तेजसा तस्य तापिताः
प्रतपन्तमिवादित्यं संहारसमये नराः
न्यमीलयन्त नेत्राणि ब्रह्माद्यास्ते ततो नृप! ॥३६
ब्रह्मकृतभगवत्त्पुतिः
तेजसा पीडितास्तस्य देवदेवस्य शार्ङ्गिणः
तुष्टावाथ तदा ब्रह्मा देवाधिपतिमव्ययम्
पतत्रिराजमारूढं शिरोभिः प्रणिपत्य तम् ॥३७
ब्रह्मोवाच-
’’नमामि त्वां जगन्नाथ! सहस्रवदनेक्षण!
ज्वलत्किरीटसाहस्रधारिणं पुरुषोत्तमम् ॥३८
रुचिरैर्बहुभिर्दिव्यैः बाहुभिः परिघोपमैः
संयुक्तं त्वां नमाम्याद्यं विश्वेशं विश्वतोमुखम् ॥ ३९
अणीयसामशेषाणां अणीयांसं सनातनम्
भूतादीनां समस्तानां गरिष्ठञ्च गरीयसाम् ॥४०
नारायणं त्वां वरदं नमामि परमेश्वरम्
योगिभिर्गम्यमानं त्वां जनोलोकगतं विभुम् ॥४१
परं पुराणं पुरुषं नमामि सुरनायकम्
प्रसीदतु भवान् विष्णो! रहितः प्राकृतैर्गुणैः ॥४२
शुद्धः पुमान् समस्तेभ्यो भूतेभ्यः सर्वसम्भवः
साक्षिभूतः समस्तस्य जगतोऽस्य जगत्पते! ॥४३
नमामि त्वामहं नित्यं व्यालोलायतलोचनम्
यः प्रोच्यते विशुद्धो हि सर्वेश इति केशव! ॥४४
तं त्वां नमाम्यशेषाणां आत्मानं सर्वदेहिनाम्
समस्तकारणानां त्वं कारणं प्रभुरव्ययः ॥४५
[[584585]]
ब्रह्मविद्योगिनाञ्चासि प्रजानाञ्च प्रजापतिः
यं न जानन्ति मुनयो नापि देवा न दानवाः ॥४६
नाहं न शम्भुर्विष्ण्वाख्यं तत्पदं परमं भवान्
इन्द्राद्याः शतशो यस्य देवास्त्रिभुवनेश्वराः ॥४७
द्रष्टुकामा न जानन्ति रूपमव्यक्तरूपिणः
तदहं विमलं देव! शाश्वतं पदमव्ययम् ॥४८
न स्तोतुमीशो न च देव वक्तुं
गुणांस्तवेशाच्युत! लोकनाथ! ।
प्रसीद वेदाधिपते! समस्तान्
आलोकयास्मान् विमलैः सुनेत्रैः’’ ॥४९
शम्भुकृतभगवत्त्सुतिः
इत्युक्ते ब्रह्माणा तेन शम्भुरव्यक्तरूपिणम्
अस्तौषीद्भगवन्तं तं अच्युतं पुरुषोत्तमम् ॥५०
शम्भुः-
’’परावरेशं पुरुषं दुष्टदैत्येन्द्रघातिनम्
जगत्पालनकर्तारं जगदुत्पत्तिकारणम् ॥५१
प्रजापतीनां सर्वेषां स्रष्टारममलेक्षणम्
भक्तार्तिहानिदातारं भक्तानां प्रियकामदम् ॥५२
त्वां नमामि हरे! दिव्यं परब्रह्मस्वरूपिणम्
प्रधानपुंसोरजयोः जगत्कारणभूतयोः ॥५३
नित्ययोर्व्यापिनोश्चापि प्रभुं त्वां कारणं परम्
तं त्वां नमामि भूतेशं भूतानामपि कारणम् ॥५४
सूरयो यच्च पश्यन्ति परमं धाम शाश्वतम्
तत्त्वमेतत्परं धाम परं ब्रह्म सनातनम् ॥५५
तं त्वां नमामि गोविन्दं सहस्रादित्यसन्निभम्
मुनयस्त्वां समभ्यर्च्य बहुवर्षशतानि वै ॥५६
त्वत्प्रसादाच्च देवेश! त्वय्येव लयमागताः
पुरन्दरोऽपि देवेश! त्वामेव पुरुषोत्तम! ॥५७
अश्वमेधशतैरिष्ट्वा देवेन्द्रत्वमवाप्तवान्
ब्रह्माऽश्वमेधसाहस्त्रेः त्वामिष्ट्वा जगदीश्वरम् ॥५८
प्राप ब्रह्मपदं दिव्यं दुःखशोकविवर्जितम्
अहमाराध्य देव! त्वां सर्वमेधे महाक्रतौ ॥५९
प्राप्तवान् देवदेवत्वं दुर्लभं सर्वदैवतैः
त्वमेवेश! जगद्धाता त्वमेव जगतो गतिः ॥६०
स्रष्टा त्वमेव जगतः संहर्ता च त्वमेव हि
तं त्वां नमामि शोकार्तिमोहहानिप्रद्रायिनम् ॥६१
प्रसीदेश! महामाय! सहस्रवदनेक्षण!
सर्वलोकपते! नाथ! सर्वलोकपरायण! ॥६२
विष्णो! तवैतद्बहुबाहुशाखं
तमालवर्णं बहुवक्त्रनेत्रम् ।
ज्वलत्किरीटैर्बहुरत्नवद्भिः
जाज्वल्यमानं प्रणमामि रूपम्’’ ॥६३
[[586587]]
श्रीवामनपुराणे क्षेत्रखण्डे पञ्चत्रिंशोऽध्यायः
महर्षिकृतभगवत्त्सुतिः
वामदेवः-
एवं स्तुते जगन्नाथे शम्भुना परमेष्ठिना
तुष्टुवुर्मुनयो भूप! प्रणम्यामलचेतसः ॥६४
मुनयः-
’’नमः कृष्णाय हरये परस्मै ब्रह्मरूपिणे
नमो भगवते तस्मै विष्णवे परमात्मने ॥६५
सर्वभूतशरण्याय सर्वज्ञाय नमो नमः
वासुदेवाय भक्तानां सर्वकामप्रदायिने ॥६६
नमः पङ्कजनेत्राय जगद्धात्रेऽच्युताय च
हृषीकेशाय सर्वाय नमः कमलमालिने ॥६७
अनन्तनागपर्यङ्के सहस्रफणशोभिते
दीप्यमानेऽमले दिव्ये सहस्रार्कसमप्रभे ॥६८
योगनिद्रामुपेताय तस्मै भगवते नमः
यद्रूपं न च पश्यन्ति सूरयो न च योगिनः ॥६९
तं नताः स्म जगन्नाथं क्षीरोदार्णवशायिनम्
त्वामेवार्ताः प्रपन्नाः स्म शरण्यं वयमीश्वरम् ॥७०
अस्मान् पाहि शरण्येश! प्रणतार्तिहराव्यय!
त्वद्रूपमेतद्गोविन्द! सहस्रार्कसमद्युते! ॥७१
कुरु प्रसादमस्माकं प्रसन्नवदनेक्षण!
त्वमेव गतिरस्माकं सर्वेषामेव केशव! ॥७२
नताः स्म दिव्यं पुरुषं पुराणं
त्वामेव सर्वेश्वरमीश्वराणाम् ।
युगान्तकालाग्निसमप्रतापं
प्रदीप्तवक्त्रेक्षणमप्रमेयम्’’ ॥७३
सप्तर्ष्यादिकृत भगवत्त्सुतिः
वामदेवः-
इति तेषां मुनीन्द्राणां वचः श्रुत्वा ततो नृप!
सप्तर्षयो महात्मानो वागीशश्च महाद्युतिः ॥७४
वसुश्च भगवद्भक्तो महेन्द्रश्च प्रतापवान्
तुष्टुवुर्देवदेवेशं शिरोभिः प्रणिपत्य तम् ॥७५
सप्तर्ष्यादयः-
’’नमो नमोऽस्तु विश्वात्मन्! त्वं ब्रह्मा त्वं पिनाकधृत्
चन्द्रेन्द्रार्काश्विमरुतः त्वमेव जगतः पते! ॥७६
सहस्रादित्यसङ्काशचक्रहस्ताय ते नमः
शङ्खहस्ताय ते नित्यं नमो विष्णो! महात्मने ॥७७
नमः किरीटिने नित्यं नमः कौस्तुभधारिणे
नीलमेघप्रतीकाशवपुषे ब्रह्मणे नमः ॥७८
असिरत्नगदाचापशक्तितोमरपाणये
प्रदीप्तायुधजालाय प्रदीप्तवपुषे नमः ॥७९
यज्ञेशाय नमस्तुभ्यं ज्वलत्कुण्डलधारिणे
नमोऽस्तु पद्मनाभाय नमस्ते विश्वयोनये ॥८०
[[588589]]
श्रीवामनपुराणे क्षेत्रखण्डे पञ्चत्रिंशोऽध्यायः
परावराणां पतये करालवपुषे नमः
कालनेमिहिरण्याक्षहिरण्यादिविघातिने ॥८१
उग्ररूपाय ते नित्यं नृसिंहायाप्यनादये
नमोऽस्तु पद्मनाभाय नमोऽस्तु वरदाय च
भूयो भूयो नमो नित्यं व्यापिने शारङ्गपाणये ॥८२
नताः स्म चैतत्तव विश्वरूपं
सर्वायुधोपेतमपास्तदोषम् ।
विद्मो न चाद्यं परमं तवाद्य
रूपं परं वेद न चाब्जयोनिः’’ ॥८३
सनकादि परमयोगि कृत भगवत्त्सुतिः
वामदेवः-
एवमुक्ते ततस्ते तु सनकाद्याश्च योगिनः
प्रणम्य तुष्टुवुर्देवं वैनतेयोपरि स्थितम् ॥८४
सनकाद्याः-
’’जय यज्ञपते देव! जय नाथ! जयाक्षर!
जय शङ्खधराचिन्त्य! जय चक्रधराव्यय! ॥८५
विभो! जय विशालाक्ष! परमात्मन्! जयाच्युत!
जय दंष्ट्राग्रविन्यस्तमहीपद्म! जयेश्वर! ॥८६
जय सर्वद! सर्वेश! जय सर्वहृदि स्थित!
पद्मनाभ! जयाजय्य! जय पूरुष! मानद! ॥८७
मायया तव मोहिन्या देवाश्चापि विमोहिताः
अनेकरत्नसञ्छन्नसुवर्णमकुटाय ते ॥८८
नताः स्मोऽचिन्त्यरूपाय योगिध्येयाय ते नमः
नताः स्मोऽत्यन्तशुद्धाय सर्वज्ञायादिवेधसे ॥८९
परब्रह्मस्वरूपाय! नताः स्मो वरदायिने
अव्यक्तायाप्रमेयाय श्रीधराय सुवर्चसे ॥९०
श्रियः कान्ताय दान्ताय भक्तानां मुक्तिदायिने
शक्रादिलोकपालानां पालयित्रे नमोऽस्तु ते
पीताम्बराय ते नित्यं नताः स्म पुरुषोत्तम! ॥९१
व्याप्तं त्वया नाथ! तमः सुदीप्तं
विश्वात्मना शेषनिवासिना विभो! ।
त्वामद्य सर्वे वयमीशितारं
नताः स्म पद्माभविलोललोचनम् ॥९२
तन्नास्ति किञ्चिद्रहितं त्वया हरे!
समस्तलोकेष्वपि जातु यत्स्यात् ।
वन्दामहे त्वां विमलार्कवर्णं
किरीटहारोज्ज्वलितं शुभोरुकम् ॥९३
एतत्परं रूपमपेतजन्म
जरादि दोषं विमलं विशोकम् ।
अदृष्टपूर्वं मनुजामराद्यैः
नताः स्म विद्युज्ज्वलितोरुशोभम्’’ ॥९४
इन्द्रादिदिक्पालकृतभगवत्त्सुतिः
वामदेवः-
एवं स्तुते जगन्नाथे सनकादिमहात्मभिः
शक्राद्या लोकपालास्तं तुष्टुवुर्मधुसूदनम् ॥९५
[[590591]]
श्रीवामनपुराणे क्षेत्रखण्डे पञ्चत्रिंशोऽध्यायः
वन्दमानाः शिरोभिस्तं भूतभावनभावनम्
अञ्जलिं मूर्ध्नि सन्धाय विस्मयोत्फुल्ललोचनाः ॥९६
इन्द्रादयः-
’’नमोऽस्तु विश्वरूपाय पीताम्बरधराय ते
नमस्तेऽस्तु जगद्धात्रे शारङ्गचापासिधारिणे ॥९७
मधुहन्त्रे नमो नित्यं नमः कैटभघातिने
कालाग्निसमचक्रेण निहन्त्रे सुरवैरिणाम् ॥९८
सर्वकल्याणभूताय वरदाय वरार्थिनाम्
नमो नित्यमदृश्याय दृश्यरूपाय ते नमः ॥९९
परस्मै ब्रह्मणे तुभ्यं नमो यज्ञस्वरूपिणे
नमो भव्याय ते नित्यं श्रीवत्साङ्कितवक्षसे ॥१००
भयदाय नमो नित्यं दैत्येन्द्राणां बलीयसाम्
भोगदाय नमो नित्यं अस्माकं स्वर्गदायिनाम् ॥१०१
वरेण्याय नमो नित्यं अचलायाऽव्ययाय च
शरण्याय नमो नित्यं नमः क्षीरोदशायिने ॥१०२
योगात्मने नमो नित्यं नमो दामोदराय च
क्षयवृद्धिविहीनाय निर्गुणाय नमो नमः ॥१०३
यत्तत्परमनिर्देश्यं अचिन्त्यमजमक्षरम्
अव्यक्तमजरं नित्यं अव्ययं धाम शाश्वतम् ॥१०४
अरूपममलं ब्रह्म सर्वेशमचलं विभुम्
यद्ब्रह्म तत्परं धाम भवानेव न चापरः ॥१०५
तन्न विद्मः परं रूपं तव यत्तु पुरातनम्
एतच्चापि न जानीमो यदेतद्दर्शितं त्वया ॥१०६
प्रसीद विश्वेश्वर! विश्वतोमुख! प्रसीद विश्वक्षयपालनेश!
प्रसीद विश्वालय! विश्वमूर्ते! विश्वस्ययोने! भगवन् प्रसीद’’ १०७
श्वेतद्वीपवासिसिद्धकृतभगवत्त्सुतिः
वामदेवः-
एवं स्तुतेऽथ देवेशे शक्राद्यैस्त्रिदशेश्वरैः
तुष्टुवुस्तं प्रणम्येशं श्वेतद्वीपनिवासिनः ॥१०८
सिद्धाः-
’’यं विष्णुमाद्यं पुरुषं पुराणं
देवा नमस्यन्ति शुभोरुबाहुम् ।
नताः स्म तं देवमजं सुरेशं
विश्वस्य कर्तारमनादिमूर्तिम् ॥१०९
नताः स्म तस्मै वरदाय पुंसे
सर्वात्मने शेषविभूतिदायिने ॥११०
येनेदमण्डं सकलं महीयसा
व्याप्तं त्वयैकेन सुरारिघातिना ।
तं त्वां नताः स्माऽच्युतमीडितारो
वयं विभुं लोकविभूतिहेतुम् ॥१११
[[592593]]
श्रीवामनपुराणे क्षेत्रखण्डे पञ्चत्रिंशोऽध्यायः
येनान्तकाले जगदेतदादिना
ग्रस्तं त्वया ह्यक्षयशक्तिरूपिणा ।
ज्ञानैकदृश्यं परमार्थतत्त्वं
तं बालरूपं प्रणमाम नित्यम् ॥११२
येनादिकाले विभुना महीयसा
स्वनाभिपद्मान्तरुपेतमण्डलम् ।
विसृष्टमप्सु स्वपताऽऽत्मलीलया
तं त्वां नताः स्मामरलोकनाथ! ॥११३
येनेदमण्डं बहुशो विभूतं
दुरात्मभिर्दैत्यवरैः सुघोरैः ।
निहत्य दैत्यान् सहसा महारणे
संरक्षितं तं प्रणमाम नित्यम् ॥११४
जानन्ति यन्नैव पितामहाद्याः
परं पदं नैव वयं च नान्ये ।
त्वं तत्पदं वृद्धिविनाशहीनं
रक्षस्व चास्मान् भगवन्! प्रसीद’’११५
इदि श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये ब्रह्मादिकृत
भगवत्त्सुतिपरम्परा नाम पञ्चत्रिंशोऽध्यायः.
षट्त्रिंशोऽध्यायः
अथ षट्त्रिंशोऽध्यायः
वामदेवः-
एवं स्तुत्वाऽथ ते सर्वे ब्रह्माद्या देवतागणाः
अगस्त्यप्रमुखाश्चापि मुनयोऽमलचेतसः ॥१
सिद्धाश्चापि तथा सर्वे श्वेतद्वीपनिवासिनः
वागीशवसुशुक्राश्च दुर्वासाश्च महामुनिः ॥२
सप्तर्षयश्च राजेन्द्र! सनकाद्याश्च योगिनः
सर्व एते महीपाल! ये चाप्यन्ये समागताः ॥३
द्रष्टुं तमीश्वरं देवं तत्प्रसादानुवर्तिनः
भूयो भूयः प्रणम्येशं नारायणमरिन्दमम् ॥४
कृताञ्जलिपुटास्तन्तु परिवार्योपतस्थिरे
ततस्तेषां स भगवान् मध्ये राजीवलोचनः ॥५
स्मयन्निव महाबाहुः विनतानन्दनास्थितः
अतिष्ठद्देवदेवेशः स तान् सर्वान् विलोकयन् ॥६
दीप्यमानः स्वतेजोभिः अंशुमानिव रश्मिभिः
एतस्मिन्नन्तरे देवं वाय्याहाराङ्गना नृप! ॥७
अगायन् कर्मभिर्दिव्यैः दिव्यभूषणभूषिताः
रावणादिवधं केचित् गन्धर्वपतयो जगुः ॥८
कंसकेशिजरासन्धसाल्वादीनां वधं तथा
बाणदुर्योधनादीनां वधञ्चापि महाद्भुतम् ॥९
[[594595]]
अगायन्नपरे तत्र गन्धर्वपतयोऽमलाः
हिरण्यकशिपोस्तत्र वधञ्चापि जगुः परे ॥१०
अवतारेषु चान्येषु यानि यानि कृतानि वै
केचिज्जगुर्जगत्सृष्टिं ब्रह्मादिस्थावरान्तिकाम् ॥११
गन्धर्वपतयस्तत्र सुस्वरा हरिसन्निधौ
नृत्यन्त्योऽप्सरसस्तत्रादृश्यन्त शतशो नृप! ॥१२
गायन्त्यो देवदेवेशं नादयन्त्यो दिशो दश
ब्रह्मादीनां भगवद्विश्वरूपदर्शनम्
अथ ते प्रेक्षमाणास्तं नारायणमनामयम् ॥१३
विस्मयाविष्टहृदया ब्रह्माद्या देवतागणाः
अगस्त्यप्रमुखाश्चापि मुनीन्द्राश्च सहस्रशः ॥१४
ददृशुर्देवदेवस्य दिव्ये रूपे महाद्भुते
तस्मिन् महति भूपाल! पद्मपत्रनिभेक्षणे ॥१५
अण्डमेतदशेषं वै साद्रिग्रामनदीवनम्
सपर्वतं सपातालं सदेवासुरमानुषम् ॥१६
ससप्तलोकं सद्वीपं सयक्षोरगराक्षसम्
सासुरं सामरपुरं जङ्गमाजङ्गमाकुलम् ॥१७
सतिर्यक्तरुपाषाणं सकाननमहोरगम्
एवमाद्यैस्तथान्यैश्च संयुक्तं महदद्भुतम् ॥१८
अदृष्टपूर्वमाश्चर्यं दृष्ट्वा हर्षमुपागमन्
विस्मिताश्चाभवंस्तेऽथ मुदिताश्चाभवन् नृप! ॥१९
व्याकुलीकृतनेत्रास्ते व्याकुलीकृतमानसाः
व्याकुलीकृतसर्वाङ्गा आसन् सर्वे भयाकुलाः ॥२०
अथ तान् भगवान् भूप! प्रसन्नैर्विमलैः शुभैः
पद्मोत्पलदलाभैस्तेः नेत्रैस्तान् समलोकयत् ॥२१
अथ ते भूपते! सर्वे ब्रह्माद्यास्तेन शार्ङ्गिणा
प्रसन्नैर्नयनैर्दिव्यैः आयतैरवलोकिताः ॥२२
प्रसन्नतां ययुः सर्वे त्यक्तमोहभयाः स्थिताः
मुनीन्द्रानवलोक्याथ भगवानिदमब्रवीत् ॥२३
नृपते! सर्वलोकेशो विश्वरूपधरो हरिः
शृण्वतां सर्वदेवानां ब्रह्मादीनां सनातनः ॥२४
मेघगम्भीरया वाचा श्राव्यया श्लक्ष्णरूपया
जगदापूरयत्सर्वं सुतरां प्रीतया तदा॥२५
महर्षीन् प्रति भगवदुक्तिः
श्रीभगवान्-
’युष्माभिर्भूरितेजोभिः मत्तो यत्प्रार्थ्यते द्विजाः ! ॥२६
व्रियतां तदशेषेण नात्र कार्या विचारणा
मां दृष्ट्वा प्रार्थितान् कामान् प्राप्नुवन्ति नरा भुवि ॥२७
[[596597]]
श्रीवामनपुराणे क्षेत्रखण्डे षट्त्रिंशोऽध्यायः
अचिरेणैव कालेन मुक्तिञ्चापि सुदुर्लभाम्
अप्राप्य प्रार्थितान् कामान् न यास्यन्ति द्विजोत्तमाः ॥२८
मयि दृष्टेऽचिरात्तस्मात् ब्रूत प्रार्थितमुत्तमम्’
मुनयः-
कृतार्थाः स्म वयं देव! त्वयि दृष्टे सनातने ॥२९
त्वत्प्रसादं विना नाथ! न त्वं द्रष्टुं हि शक्यसे
त्वां द्रष्टुकामा गोविन्द विचरन्तो वयं विभो! ॥३०
नारायणगिरावस्मिन् त्वत्पादतलवासिते
त्वां दृष्ट्वा भृशमुद्विग्ना भगवन् पुरुषोत्तम! ॥३१
संसारात् मोक्षमिच्छन्तो देव! त्वत्पादमाश्रिताः
मुक्तिं प्रयच्छ देवेश संसारात् भीतिवर्धनात्’ ॥३२
वामदेवः-
एवमुक्तोऽथ गोविन्दो वरेण्यः पुरुषोत्तमः
भगवान् भूतभव्येशः प्रोवाचेदं वचो नृप ॥३३
’येन यत्प्रार्थितं मत्तो दत्तं तद्धि न संशयः
मुक्तिर्न चैषा भवतां प्रसन्ने मयि दुर्लभा ॥३४
कल्पान्ते मत्प्रसादेन मुक्तिं प्राप्स्यथ सत्तमाः
तावत्कालं जगत्यस्मिन् तपसे कृतनिश्चयाः ॥३५
शृण्वन्तः श्रावयन्तश्च मत्कथां मुनिसत्तमाः
तिष्ठन्तु तप आस्थाय महत्परमदारुणम्’ ॥३६
वामदेवः-
एतस्मिन्नन्तरे राजन्! ब्रह्मा लोकपितामहः
शिरस्यञ्जलिमाधाय प्रणम्य जगतां पतिम् ॥३७
मुनीनाश्वासयन्तं भगवन्तं प्रति ब्रह्मकृतविज्ञ्प्तिः
ब्रह्मा-
इदं विज्ञापयामास देवायामिततेजसे
’भगवन् सर्वलोकेश! सर्वयज्ञमयाऽच्युत! ॥३८
दैत्यैर्निराकृता ह्येते देवाः सर्वे सवासवाः
यज्ञभागांश्च दैतेया भुञ्जन्ते न दिवौकसः ॥३९
तान् हन्तुं समरे ह्येते न शक्ता देवतागणाः
विवृद्धान् घातयाऽद्येश! तान् सर्वानसुरोत्तमान्’ ॥४०
वामदेवः-
इत्युक्ते ब्रह्मणा राजन्! प्रहसन्निदमब्रवीत्
भगवत्कृत ब्रह्माद्यभीष्ट वरप्रदानम्
श्रीभगवान्-
’एते च दानवा घोरा बाधन्ते देवतागणान् ॥४१
महावीर्या महामाया महाकाया महौजसः
रणकर्मणि संयुक्ता दुर्जया दुर्निवारणाः ॥४२
एतांस्त्वमद्य दैत्येन्द्रान् हन्याः सर्वान् सबान्धवान्’
एवमुक्त्वा हृषीकेशो विष्वक्सेनं प्रतापिनम् ॥४३
[[598599]]
श्रीवामनपुराणे क्षेत्रखण्डे षट्त्रिंशोऽध्यायः
विलोक्य सर्वभूतात्मा वसुं नारायणोऽब्रवीत्
’तव दत्तं महावीर्य! चेदिराज! नृपोत्तम! ॥४४
संसारबन्धनान्मोक्षमचिरेणाऽथ गच्छसि
मद्भक्तस्तत्समो नैव त्रिषु लोकेषु विद्यते ॥४५
हिरण्यकशिपोः पुत्रं ऋते दैत्येन्द्रसत्तम!
प्रह्लादः सर्वभूतेभ्यो यः पुरा रक्षितो मया’ ॥४६
वामदेवः-
एवमुक्त्वा महीपाल! चेदिराजं प्रजापतिः
अगस्त्यमवलोक्याऽथ बाष्पपर्याकुलेक्षणम् ॥४७
’भक्त्या परमया युक्तं जगादेदं वचो विभुः
प्रसन्नोऽहं द्विजश्रेष्ठ! व्रियतां यत्तवेप्सितम् ॥४८
मत्तः सुदुर्लभं चापि तत्ते दास्याम्यसंशयम्’
वामदेवः-
एवमुक्तस्तु देवेन हर्षात् किञ्चिदिदं वचः ॥४९
विज्ञापयामास मुनिः परस्मै हरिमेधसे
मूर्धन्यञ्जलिमाधाय प्रोत्फुल्लपुल्कोद्गमः ॥५०
अगस्त्यः-
’नारायणगिरावस्मिन् चरतो मम केशव !
समतीतं महाबाहो ! वर्षाणामधिकं शतम् ॥५१
सुचिरं कालमत्रैव विचरन् वै ततस्ततः
न चावश्यं विशालाक्षं त्वामाद्यमजमक्षरम् ॥५२
ततोऽहं भृशमुद्विग्नो विषादं चाप्यवाप्तवान्
दिष्ट्या दृष्टो जगत्स्वामी त्वमद्य पुरुषोत्तम ! ॥५३
वृणे तत्त्वप्रसादेन प्राप्तुं यद्वाञ्छितं मया
भूते भव्ये तथा काले वर्तमाने तथा प्रभो ! ॥५४
सर्वेषामेव भूतानां दुर्ज्ञेया गतिरुत्तमा
दुर्ज्ञेयामपि तां सम्यग् ज्ञातुमिच्छाम्यहं हरे ॥५५
सहस्रशस्तु या श्रुत्वा दुर्ज्ञेया च सुरैरपि
त्वत्प्रसादेन भगवन् ! भवेत् सा विदिता मम ॥५६
त्वयि भक्तिः परा चापि निश्चला स्यात् ममाऽमला’
वामदेवः-
इत्युक्ते मुनिना भूप ! प्रहसन्निव लोकधृत् ॥
उवाच श्लक्ष्णया वाचा मेघगम्भीरया तदा५७
श्री भगवान् -
’अगस्त्य! यत्त्वया प्रोक्तमेतद्दत्तं मया तव ॥
प्रसन्नेनात्र भवता पूजितेन महीधरे’ !५८
अगस्त्यः-
’त्वञ्च दृश्यो वसेहेश ! सर्वेषां प्राणिनामपि’ ॥५९
श्रीभगवान्-
’अहं दृश्यो वसामीह श्रीभूमिसहितोऽसघ!
विमानं मम दिव्यं तु गूढं मुक्तिपरं भवेत् ॥६०
[[600601]]
श्रीवामनपुराणे क्षेत्रखण्डे षट्त्रिंशोऽध्यायः
आकाशगमचिन्त्यञ्च नानारत्नसमन्वितम्
अन्येऽपि ये मुनीन्द्रास्मिन्नारायणगिरौ नराः ॥६१
समारुह्यामलाञ्चेमां स्वामिपुष्करिणीं शुभाम्
दृष्ट्वा स्नात्वाऽथ पीत्वा तु तस्याः पुण्यजलं शुभम् ॥६२
अस्यास्तीरे महत्यस्मिन् विमाने मदधिष्ठिते
मम प्रीतिकरे पुण्ये सर्वपापहरे शुभे ॥६३
भक्ता मामर्चयिष्यन्ति मयि सन्न्यस्तमानसाः
ददामीष्टतमान् कामांस्तेषामपि सुदुर्लभान् ॥६४
ये नराः कुर्वते विप्र ! योजनानां शतेष्वपि
प्रणामं दिशमुद्दिश्य भक्त्या मत्पर्वतोत्तमे ॥६५
ते नरा मत्प्रसादेन पापराशिं व्यपोह्य वै
प्राप्नुवन्ति पदं पुण्यं अप्रविष्टं दुरात्मभिः ॥६६
य एनां सेवते नित्यं स्वामिपुष्करिणीं शुभाम्
सोऽपि भुक्तिमवाप्नोति मुक्तिञ्चापि न संशयः ॥६७
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये भगवत्कृत
अगस्त्याभीष्टवरप्रदानवर्णनं नाम षट्त्रिंशोऽध्यायः.
सप्तत्रिंशोऽध्यायः
अथ सप्तत्रिंशोऽध्यायः
महर्षीणां भगवद्दिव्यविमानदर्शनम्
वामदेवः-
मुनयस्तेऽथ भूपाल ! तद्वाक्यसमनन्तरम् ॥१
ददृशुर्विमलं दिव्यं विमानं भास्करोपमम्
स्वामिपुष्करिणीतीरे दक्षिणे लोकविश्रुते ॥२
नारायणाश्रितं दिव्यं नित्यञ्च महदद्भुतम्
पाण्डुराभ्रघनप्रख्यं नानाशृङ्गैरलङ्कृतम् ॥३
अनेकरत्नसञ्छन्नं मुक्तादामविभूषितम्
भासयत्तेजसा सर्वा दिशो दश नराधिप ! ॥४
दीप्यमानं स्वतेजोभिः नानारत्नविभूषितम् ॥
अत्युच्छ्रितं सुदुष्प्रेक्षं पश्यतां हर्षवर्धनम् ॥५
यन्न दृष्टं मुनीन्द्रैस्तैः दैवैरपि सवासवैः
तस्मिन् महीधरे दिव्ये विचरद्भिरितस्ततः ॥६
मुनीन्द्रास्ते तु तद् दृष्ट्वा विमानं परमाद्भुतम्
अदृष्टपूर्वमन्यस्मिन् काले नरवरात्मज ! ॥७
इतस्ततो विचिन्वद्भिः तस्मिन्नेव महीधरे
विस्मयं परमं जग्मुः ततो मुनिगणास्तदा ॥८
किमिदं नैव चास्माभिः दृष्टमासीत् पुरातनम्
पुरा विमानमाश्चर्यं विचरद्भिरितस्ततः ॥९
[[602603]]
विमानमद्भुताकारं तञ्चापि पुरुषोत्तमम्
दृष्ट्वा तत्प्रोचुराश्चर्यं ते हर्षोत्फुल्ललोचनाः ॥१०
अहो बत ! महाश्चर्यं नूनमेतन्महात्मना
अनेनान्तरिछतं यस्मात् पूर्वं तन्न ह्यदृश्यत ॥११
विमानं पुण्यमाश्चर्यं ज्वलद्भास्करसन्निभम्
अस्या एव शुभे तीरे पुष्करिण्याः स्थितैरपि ॥१२
अस्माभिः सहितैः सर्वैः सद्भिरत्रैव चादरात्
हरिणा ध्रुवमेतत्स्यात् अनेनैव स्वमायया ॥१३
अन्तरिछतं कृतं दिव्यं विमानं सिद्धसेवितम्
एवंविधानि वाक्यानि मुनयस्ते परस्परम्
प्रोचुर्देवाधिदेवस्य सन्निधौ तस्य शार्ज्गिणः ॥१४
शङ्खनृपन्य वरं प्रदाय भगवत्तिरोधानम्
एतस्मिन्नन्तरे देवः शङ्खं प्रोवाच केशवः
हेहयाधिपतेः पुत्रं श्रुतस्य सुमहात्मनः ॥१५
श्रीभगवान् -
’वरं वरय भूपाल ! यत्ते मनसि वर्तते
तद्दास्ये तव तुष्टोऽहं वरदः समुपस्थितः’१६
वामदेवः -
इदं निशम्य वचनं गदितं तस्य शार्ज्गिणः ॥
जगद्धातुरनन्तस्य विश्वयोनेर्महात्मनः ॥१७
शङ्खः परमसंहृष्टो रोमाञ्चिततनुस्तदा
इत्थं विज्ञापयामास ब्रह्मणेऽव्यक्तजन्मने ॥१८
शङ्खः -
’त्वल्लोकं प्राप्तुमिच्छामि त्वत्प्रसादादधोक्षज ! ॥१९
त्वत्पदे वस्तुकामोऽहं तपस्तीव्रं समास्थितः
त्वं ममैतत्प्रयच्छाऽऽशु विष्णो ! राजीवलोचन ! ॥२१
नान्यदिच्छामि देवेश ! त्वत्तः प्राप्तुं सुरेश्वर !’
वामदेवः-
इत्युक्तस्तु प्रहस्यैनं शङ्खं प्राह जनार्दनः ॥
हर्षयन्निव भूतानि स्वया मधुरया गिरा२२
वामदेवः-
इत्युक्त्वा भगवान् देवः तत्रैवान्तरधीयत ॥२३
पश्यतामेव सर्वेषां ब्रह्मादीनां सुरेश्वरः
नारायणः परो नित्यः परमात्मा प्रजापतिः ॥२४
सर्वस्वभूतो भक्तानां सर्वलोकपरायणः
अन्तरिछते ततस्तस्मिन् जगद्धातरि केशवे ॥२५
भगवदन्तर्धानानन्तरं देवाद्यनुभूतानुतापवर्णनम्
विष्णौ समस्तजगतां आधारे पुरुषोत्तमे
सर्वस्वभूते देवानां सर्वेशे परमात्मनि ॥२६
तेजोराशियुते कृष्णे राजीवायतलोचने
देवा ब्रह्मर्षयश्चापि मुनीन्द्राश्च तपोधनाः ॥२७
[[604605]]
श्रीवामनपुराणे क्षेत्रखण्डे सप्तत्रिंशोऽध्यायः
सिद्धाश्चापि तथा सर्वे मुनीन्द्रा विमलाशयाः
वागीशवसुमुख्याश्च सनकाद्याश्च योगिनः ॥२८
सर्वे सप्तर्षयश्चापि श्वेतद्वीपनिवासिनः
एते चान्ये च ये तत्र समेता द्रष्टुमीश्वरम् ॥२९
सर्व एते महीपाल भूयो भूयः सनातनम्
अन्तर्धानं गतं देवं प्रणेमुर्विस्मितेक्षणाः ॥३०
दीनचित्तास्ततः सर्वे पश्यन्ति स्म दिशो दश
एते सर्वे मुनिश्रेष्ठाः रुरुदुस्तेऽथ तत्र वै ॥३१
प्रणम्य हरये तस्मै देवायान्तरिछताय ते
ब्रह्माद्यास्तेऽथ भूपाल ! सर्व एवेदमब्रुवन् ॥३२
’’अहो भगवतस्तस्य माहात्म ्यममितौजसः
ब्रह्माण्डकमशेषन्तु तेन व्याप्तं स्वतेजसा ॥३३
आयुधानि ज्वलन्ति स्म चक्रादीनि धृतानि वै
दहन्तीव जगत्सर्वं शोषयन्तीव चोदधीन् ॥३४
प्रसन्नास्ते कटाक्षाश्च दीपयन्तो दिशो दश
चकाशिरे स्वतेजोभिः शतशस्तस्य शार्ज्गिणः ॥३५
शतशो बाहवश्चापि हरेः करिकरोपमाः
स्पर्धन्त इव चान्योन्यं रेजिरे रुचिरप्रभाः ॥३६
वदनानि ज्वलन्ति स्म पूर्णेन्दुसदृशानि वै
शोभितान्यमलैर्दिव्यैः सरत्नैः कुण्डलैस्तथा ॥३७
इन्दुमण्डलसङ्काशनखमण्डलशोभिते
पादपद्मे हरेस्तस्य शोभिते विमलप्रभे ॥३८
अहो हि भूधरेन्द्रस्य माहात्म्यममितौजसः
यस्मिन्नेवंविधो देवो निवसत्यच्युतो हरिः ॥३९
न शक्यमस्य माहात्म ्यं वक्तुं वर्षशतैरपि
अस्माभिः सहितैः सर्वैः विमलेनापि तेजसा ॥४०
’’वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन
वेङ्कटेशसमो देवो न भूतो न भविष्यति’’ ॥४१
नास्ति पुण्यतमं तीर्थं स्वामिपुष्करिणीसमम्
सममस्तीति यो ब्रूयात्तत्समो नास्ति पातकी ॥४२
याश्च सप्त महापुर्यः कीर्त्यन्ते मुक्तिदायिकाः
ता वेङ्कटाद्रिपर्यन्तग्रामकोट्यंशशक्तयः’’ ॥४३
वामदेवः-
एवं विधानि वाक्यानि वदन्तः सुबहूनि वै
सर्वे संहृष्टमनसो ब्रह्माद्यास्ते सुरोत्तमाः ॥४४
भगवद्विमानादि दृष्ट्वा ब्रह्मादिनिर्गमनम्
स्वामिपुष्करिणीतीर्थे स्नात्वा पीत्वा द्विजोत्तमाः
ददृशुस्ते महाश्चर्यं विमानं पुनरद्भुतम् ॥४५
अप्यदृष्टं पुरा सर्वैः ब्रह्माद्यैरपि सत्तमैः
प्रहृष्टास्ते महात्मानो विमाने हरिमेधसः ॥४६
ददृशुर्देवदेवेशं विमलार्कसमप्रभम्
चतुर्बाहुमशेषेशं दिव्यकुण्डलधारिणम् ॥४७
[[606607]]
श्रीवामनपुराणे क्षेत्रखण्डे सप्तत्रिंशोऽध्यायः
तिष्ठन्तमच्युतं देवं नानाभूषणभूषितम्
शोभमानं किरीटेन नानारत्नचितेन वै ॥४८
सुधृतायुधजातं तं वरदं सर्वदेहिनाम्
दिव्यरत्नचितैश्चित्तैः वलयैरुपशोभितम् ॥४९
दिव्याम्बरधरं सौम्यं दिव्यरत्नविभूषितम्
प्रणतार्तिहरं विष्णुं त्रैलोक्यतिलकं विभुम् ॥५०
स्फुरन्मणिगणच्छन्नचारुहारविराजितम्
स्फुरन्नूपुरसंशोभिपादं पद्मनिभेक्षणम् ॥५१
सेव्यमानं श्रिया चापि स्वपार्श्वगतया तथा
चारुमत्या पृथिव्या च सेव्यमानं स्वकान्तया ॥५२
एवम्भूतं तदा दृष्ट्वा ब्रह्माद्या विस्मितेक्षणाः
प्रणेमुर्मुदिताः सर्वे शिरोभिर्भुवि केशवम् ॥५३
प्रस्तूय च जगद्योनिं स्तुतिभिः शुभलोचनाः
निश्चक्रमुस्तदा तस्मात् विमानात् दीप्तचक्रिणः ॥५४
निष्क्रम्य सहिता नेमुः शिरोभिर्भुवि केशवम्
कृत्वा प्रदक्षिणञ्चापि तद्विमानमनुत्तमम् ॥५५
यथागतं ययुः सर्वे प्रशंसन्तो महीधरम्
पितामहश्च भगवान् खेचरैः परिवारितः ॥५६
संस्तूयमानस्त्रिदशैः निजलोकमथाभ्यचलम्
पिनाकपाणिर्भगवान् शङ्करस्त्रिपुरान्तकः ॥५७
जगाम विश्रुतं दिव्यं कैलासं रजताचलम्
नानारत्नैर्विराजन्तं पारिजातैरलङ्कृतम् ॥५८
नानातपस्विभिर्युक्तं नानासिद्धनिषेवितम्
ऋषयश्च तथा सर्वे कैलासं प्रति निर्ययुः ॥५९
इति श्रीवामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये
भगवद्विमानदर्शनपूर्वकब्रह्मादिनिर्गमनादिवर्णनं
नाम सप्तत्रिंशोऽध्यायः.
[[608609]]
श्रीवामनपुराणे क्षेत्रखण्डे सप्तत्रिंशोऽध्यायः
अष्टत्रिंशोऽध्यायः
अथ अष्टत्रिंशोऽध्यायः
श्रीवेङ्कटाचलात्कैलासं प्रति शङ्करगमनम्
जनक उवाच -
कथं स भगवान् ! शम्भुः शङ्करश्चन्द्रशेखरः
प्रयातः पर्वताद्दिव्यं कैलासं स्वालयं शिवः ॥१
एतन्मुनिवराशेषं श्रोतुमिच्छामि तत्त्वतः
कथयैतन्महाश्चर्यं शृण्वतां हर्षवर्धनम् ॥२
वामदेवः -
श्रूयतामिदमाश्चर्यं वक्ष्यामि नृपते ! तव
यदा हि भगवान् देवः प्रयातः स्वालयं प्रति ॥३
वृषभं तं महावीर्यं मेरुमन्दरसन्निभम्
नानामणिगणैश्चित्रैः स्वनवद्भिरनेकशः ॥४
अलङ्कृतं महावीर्यं महाकायं महाबलम्
मेघाभं मेघसन्नादं द्विषतां शोकवर्धनम् ॥५
विश्रुतं सर्वलोकेषु सर्वरत्नविभूषितम्
उदग्रककुदं दिव्यं वायुवेगसमं जवे ॥६
रज्जुभिश्च तथा दिव्यैः जाम्बूनदमयैः शुभैः
स्फुरन्मणिगणाकीर्णैः समन्तात्परिवेष्टितम् ॥७
आकाशगं महाशृज्गं हेममालापरिष्कृतम्
जाज्ज्वल्यमानं वपुषा दर्शनीयतमं शुभम् ॥८
अनेकशतसाहस्रैः जाम्बूनदमयैस्तथा
किङ्किणीजालसज्घैश्च समन्तात् परिवेष्टितम् ॥९
मुक्तादामभिरालोलैः भ्राजमानैः सुरश्मिभिः
अलङ्कृतमहाकर्णं महाकायं महोक्षकम् ॥१०
आरुह्य भगवान् देवः सर्वपापहरो हरः
बलिभिर्भूतसङ्घैश्च वेतालैश्च महाबलैः ॥११
अनेकबाहुभिश्चैव संवृतः परमेश्वरः
संस्तूयमानः सदृशैः खेचरैरप्यभिष्टुतः ॥१२
स्वभासा भासयन् दिव्यं जगदेतच्चराचरम्
शृण्वंश्च वदतां तेषां नारायणगिरेः कथाः ॥१३
शनैर्जगाम भूपाल ! कैलासनिलयं शिवः
समस्ताः परिवार्यैनं भूतसङ्घाः सहस्रशः ॥१४
तन्निदेशकरा जग्मुः नानारूपभयावहाः
केचिन्नीलाचलप्रख्याः केचिद्बिसनिभास्तथा ॥१५
सन्ध्यामेघनिभाः केचित् केचिद्वै सूर्यवर्चसः
केचित् कालागरुनिभाः केचित् अग्निशिखोपमाः ॥१६
केचित् दशभुजा राजन् ! केचिदेकभुजास्तथा
जानुदेशशिराः कश्चित् ऊरुदेशशिरास्तथा ॥१७
[[610611]]
श्रीवामनपुराणे क्षेत्रखण्डे अष्टत्रिंशोऽध्यायः
पाणिदेशशिराः कश्चित् तत्रासीन्मिथिलेश्वर !
तेषां वर्णञ्च रूपञ्च वक्तुं नाम न शक्यते ॥१८
केचित् द्विपमुखास्तत्र केचित् अश्वमुखास्तदा
केचित् खराभवदनाः केचित् व्याफ्रुमुखास्तदा ॥१९
शक्यं देवैर्न कालेन महता चापि तानि वै
रूपाणि तेषां भूतानां वक्तुं नानाकृतीनि वै ॥२०
एवंविधैरनेकैस्तु भूतसङ्घैः समावृतः
त्रिपुरान्तकरो देवो जगाम रजताचलम् ॥२१
हरस्य तद् रूपमपास्तदोषं
सिताचलाभं शितकण्ठकायम् ।
व्यराजताशेषजगत्प्रभोस्तत्
नारायणस्येव वपुस्त्रिविक्रमे ॥२२
नृपेन्द्र ! संशान्तमपेतदोषं
समीक्ष्य देवं त्रिपुरारिमीशम् ।
सर्वाणि भूतानि समेत्य पार्श्वं
भक्त्या प्रणेमुः प्रणतैः शिरोभिः ॥२३
अथ तं भीमकर्माणं भगवन्त मुमापतिम्
वहन् वृषेन्द्रः प्रययौ लीलयैवान्तरिक्षगः ॥२४
रराज सोऽत्यद्भुतचारुशृङ्गः
सन्तप्तचामीकरचारुभूषणः ।
हंसेन्दुकुन्दस्फटिकाचलाभो
गच्छन् महामेघ इवान्तरिक्षे ॥२५
तं यान्तमनुजग्मुस्ते देवा ब्रह्मर्षयस्तदा
कृताञ्जलिपुटा देवं स्तुवन्तस्त्रिपुरान्तकम् ॥२६
जनकः-
स्तुवन्ति स्म कथं देवं देवा ब्रह्मर्षयस्तदा
शूलपाणिं प्रयास्यन्तं कैलासनिलयं प्रति ॥२७
शतानन्दः-
जनकेनैवमुक्तस्तु वामदेवो महातपाः
’वक्ष्येऽहमेतद्भूपाल ! श्रूयता’ मित्यथाब्रवीत् ॥२८
देवाद्याः-
’’पिनाकपाणिं देवेशं नताः स्म गिरिजेश्वरम्
गरुत्मति तथा विष्णुं तद्रूपमिव संस्थितम् ॥२९
त्रिपुरस्य नियन्तारं त्रिनेत्रं शूलधारिणम्
विष्णुभक्तं विरूपाक्षं विष्णुप्रियकरं शुभम् ॥३०
दुष्टदैत्यनिहन्तारं कैलासनिलयं हरम्
शर्वं भवन्तमीशानं शङ्करं कामरूपिणम् ॥३१
उग्ररूपं महादेवं अप्रधृष्यं दुरासदम्
नीलकण्ठं विरूपाक्षं सर्वसंहारमूर्तिकम् ॥३२
कपिलाक्षं विशालाक्षं जटामकुटधारिणम्
नताः स्म चर्मवसनं वयं त्वां वृषभध्वजम् ॥३३
त्राह्यस्मान् सर्वलोकेश ! त्वामद्य शरणं गतान्
त्वमेव गतिरस्माकं सर्वेषामेव शङ्कर !’’ ॥३४
[[612613]]
श्रीवामनपुराणे क्षेत्रखण्डे अष्टत्रिंशोऽध्यायः
एवं स्तुवन्तो देवेशं देवा ब्रह्मर्षयस्तदा
प्रपेदे तं महापुण्यं कैलासं पर्वतोत्तमम् ॥३५
एवं संस्तूयमानोऽसौ तदा पशुपतिर्नृप !
प्रपेदे तं महापुण्यं कैलासं पर्वतोत्तमम् ॥३६
तत्रापि स्वालयं दिव्यं सर्वभूतनिषेवितम्
देवर्षिसिद्धमनुजैः गन्धर्वैश्चापि सेवितम्
अतीव शुभगन्धाढ्यं प्रपेदे त्रिदशेश्वरः ॥३७
तेषां मुनीनामथ पश्यतां तदा गौरीश्वरो देववरः प्रतापवान्
अन्तर्दधे सानुचरप्रभावः तत्रैव राजंस्तदभून्महाद्भुतम्॥३८
अन्यदिच्छसि किं भूयस्तत्तच्छ्रोतुं महीपते !
वासुदेवाश्रितं पुण्यं तत्पृच्छ कथये तव ॥३९
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचलात्
शङ्करस्य कैलासगमनादिवर्णनं नाम अष्टत्रिंशोऽध्यायः.
एकोनचत्वारिंशोऽध्यायः
अथ एकोनचत्वारिंशोऽध्यायः
भगवद्विमानान्तर्धान हेतुनिरूपणम्
जनकः-
’अन्तरिछतं कथं तेषां मुनीनामञ्जनाचले
आसीद्विमानमाश्चर्यं श्रोतुमिच्छाम्यशेषतः ॥१
आख्याहि मे महाश्चर्यं एतत्पुण्यमनुत्तमम्’
वामदेवः-
लीलया देवदेवेन विष्णुना प्रभविष्णुना ॥२
तदाऽऽसीदद्भुतं दिव्यं विमानं मुनिसेवितम्
अन्तरिछतं कृतं राजन् ! मायया दिव्यया स्वया ॥३
सर्व एते मुनिश्रेष्ठाः सुचिरं गिरिमूर्धनि
चरेयुरिति देवेन ह्यादावन्तरिछतं कृतम् ॥४
स्वेनैव तेषां सर्वेषां मुनीन्द्राणां महात्मनाम्
मायामपास्य स्वं दिव्यं विमानं दर्शितं पुनः ॥५
तस्मान्मुनिवराः पूर्वं नापश्यन् दिव्यमुत्तमम्
विमानं सर्वपापघ्नं सर्वलोकेषु विश्रुतम् ॥६
अप्राकृतमनाद्यन्तं वैकुण्ठादागतं महत्
श्रीसहायस्य तद्विष्णोः विहारायतनं सदा ॥७
दृष्टवन्तश्च तद्दिव्यं प्रसादात् जगदीशितुः
हरेर्भगवतस्तस्य तदद्भुतमिवाभवत् ॥८
[[614615]]
एतच्चापि समाख्यातं यत्पृष्टोऽहं त्वया नृप !
श्रोतव्यं यत्त्वया चान्यत् तत्पृच्छ कथयामि ते’ ॥९
जनकः-
’अगस्त्यप्रमुखास्तत्र किमकुर्वंस्ततः परम्
मुनयो मुनिशार्दूल ! तन्मे कथय सुव्रत ! ॥१०
स्वामिपुष्करिण्यां अगस्त्यादिकृतभगवन्मन्त्रोपासनाप्रकारः
वामदेवः-
’अगस्त्याद्यास्ततस्तस्मिन् भगवत्यच्युतेऽमले
अन्तरिछते जगद्धाम्नि परे ब्रह्मणि केशवे ॥११
कृतवन्तो महात्मानो यत्तत्र कथयामि तत्
चिरकालं विमानेऽस्मिन् पुण्ये पुण्यप्रदायिनि ॥१२
वसाम तत्परं ब्रह्म चिन्तयामो जनार्दनम्
पुष्करिण्या विशालायाः तस्या एव शुभे जले ॥१३
सर्वपापहरे शुद्धे स्नात्वा स्नात्वा दिनेदिने
सर्वे सम्पूज्य तपसा तमासाद्य दिवानिशम् ॥१४
एवमुक्त्वा ततः सर्वे मुनयोऽमलचेतसः
ऊषुस्तस्मिन् विमाने ते द्वादशाब्दं नराधिप ! ॥१५
तपस्तीव्रं समास्थाय विष्णोराराधनोद्यताः
स्वामिपुष्करिणीं दिव्यां सेवमाना अहर्निशम् ॥१६
जेपुरष्टाक्षरं मन्त्रं मुक्तिबीजमनुत्तमम्
विद्वद्भिः प्रेक्ष्यते पूर्वैः यो मन्त्रो मुक्तिकाङ्क्षिभिः ॥१७
अर्थार्थिभिस्तथान्यैश्च कामसंसिद्धये नृप !
जजाप यं परं मन्त्रं पुरा ब्रह्म सनातनम् ॥१८
कल्पादौ सर्वदेवेशः सिसृक्षुर्विविधाः प्रजाः
तथा संहारसमये सव्प्रूप्ते चन्द्रशेखरः ॥१९
यमभ्यस्य महामन्त्रं शक्तिं प्राप्नोति दुर्लभाम्
यत्समं चाधिकं वा न त्रिषु लोकेषु विद्यते ॥२०
तथा सर्वेषु मन्त्रेषु वैदिकेषु शुभेषु च
यं ज्ञात्वा सर्वपापेभ्यो विमुच्यन्तेऽत्र मानवाः ॥२१
सर्वान् कामांश्च विन्दन्ति यं जप्त्वा मन्त्रमुत्तमम्
तं मन्त्रं सर्वपापघ्नं सर्वशोकप्रणाशनम् ॥२२
जेपुस्ते मुनयः सर्वे द्वादशाब्दमहर्निशम्
समाप्ते द्वादशे वर्षे मुनयस्ते तपोधनाः ॥२३
अगस्त्यादिकृतो भगवत्सेवापूर्वकः स्वावासगमनोद्योगः
अगस्त्यप्रमुखाः सर्वे समाराध्य जगत्पतिम्
शङ्खचक्रधरं देवं चतुर्बाहुं किरीटिनम् ॥२४
श्रीभूमिसहितं देवं उदयादित्यसन्निभम्
सहस्रशो विमानं तत् कृत्वा चापि प्रदक्षिणम् ॥२५
प्रणम्य च जगन्नाथं सर्वलोकेश्वरं हरिम्
गन्तुं प्रचक्रमुस्तस्मात् वेङ्कटाख्यात् नगोत्तमात् ॥२६
[[616617]]
श्रीवामनपुराणे क्षेत्रखण्डे एकोनचत्वारिंशोऽध्यायः
भगवद्विमानमन्तरिछतं दृष्ट्वा अगस्त्यादिकृता चिन्ता
एतस्मिन्न न्तरे तत्र विमानं मुनिसेवितम्
पश्यतामेव सर्वेषां मुनीन्द्राणां महात्मनाम् ॥२७
पुनश्चापि जगद्धातुः मायया दिव्यया स्वया
अन्तरिछतं कृतञ्चासीत् तदद्भुतमिवाभवत् ॥२८
ततस्तु मुनयः सर्वे परं विस्मयमागताः
मुनयः-
’अहोऽतीव महाश्चर्यं कृतमेतन्महात्मना ॥२९
पुनश्च देवदेवेन हरिणाऽ द्भुतकारिणा
यदेतन्महदाश्चर्यं विमानं पुण्यसेवितम् ॥३०
अन्तरिछतं कृतं पूर्वं दर्शितञ्च पुनस्तथा
इदानीञ्च पुनस्तेन माययाऽन्तरिछतं कृतम् ॥३१
अहो बत ! महाश्चर्यं अहो बत ! महाद्भुतम्
दृष्टमेतत्तदध्यक्षे सेविते माधवे शुभे’ ॥३२
एवंविधानि वाक्यानि प्रोच्य प्रोच्य पुनः पुनः
विस्मयाविष्टहृदयाः तस्थुस्तत्रैव ते द्विजाः’ ॥३३
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये भगवद्विमान
अन्तर्धानहेत्वादिरूपणं नाम एकोनचत्वारिंशोऽध्यायः.
चत्वारिंशोऽध्यायः
अथ चत्वारिंशोऽध्यायः
शेषाद्रिवायव्यभागस्थितमहाभूतस्य नारायणाद्रित्ववर्णनम्
जनकः-
वायव्यां दिशि यो देवो गिरेस्तस्य महीयसः
दृष्टो मुनिवरैः पूर्वं कोऽसौ ब्रह्मन् ! वदस्व मे ॥१
वामदेवः-
स राजन् नगराजस्तु नारायणगिरिः स्वयम्
आसीनो वपुरास्थाय स्वकं दिव्यं महाद्भुतम् ॥२
वसोर्भगवन्मन्त्रोपासनापूर्वकं स्वामितीर्थस्थितिवर्णनम्
जनकः-
अन्तरिछते जगन्नाथे वसुः परमधार्मिकः
तपः परं स राजर्षिः अकरोत्किं महामुने ! ॥३
वामदेवः-
स राजाऽन्तरिछते देवे देवदेवे सनातने
कृतवान् यन्महीपाल ! तदाख्यास्ये निशामय ॥४
तस्मिन्नेव विमानेऽसौ राजोपरिचरो वसुः
आराधयन् हृषीकेशं वासुदेवं सनातनम् ॥५
द्वादशाक्षरमेवैकं परं मन्त्रं जजाप ह
सेवमानश्च तां दिव्यां स्वामिपुष्करिणीं शुभाम् ॥६
[[618619]]
उवास परया भक्त्या द्वादशाब्दं महामतिः
’नृपेन्द्र ! कथयिष्येऽन्यत् श्रूयता’ मित्यथाब्रवीत् ॥७
श्वेतद्वीपवासिसिद्धादीनां श्रीवेङ्कटाचलात् स्वावासगमनम्
ते सर्वे सङ्गतास्तत्र नारायणगिरौ नृप !
शङ्खचक्रधराः सर्वे श्वेतद्वीपनिवासिनः ॥८
’’नमो भगवते वासुदेवा’’ येत्यजपंस्तदा
तस्मिन् विमाने न्यवसन् चिरकालमथो नृप ! ॥९
अर्चयन्तश्च गोविन्दं भक्त्या परमया तदा
अनुज्ञाताश्च देवेन श्वेतद्वीपमथागमन् ॥१०
एतच्चापि समाख्यातं यत्प्रुष्टोऽहं त्वया नृप !
यदन्यत्तव वक्तव्यं तत्प्रृच्छ कथयामि ते ॥११
जनकः-
’सनकाद्या महात्मानो येऽन्ये तत्र समागताः
अन्तरिछते जगन्नाथे किमकुर्वंस्ततः परम्’ ॥१२
वामदेवः-
’सप्तर्षयश्च देवाश्च शुक्रश्चापि महामतिः
बृहस्पतिश्च भगवान् सनकाद्याश्च योगिनः ॥१३
सर्व एते महाभागा नमस्कृत्य जनार्दनम्
महीधरं प्रशंसन्तः स्वालयान् प्रतिपेदिरे ॥१४
शङ्खश्चापि जगद्धातुः प्रसादादेव भूपते !
विमानमद्भुताकारं अप्सरोगणसेवितम् ॥१५
आरुह्य गीयमानस्तु शक्रलोकमवाप्तवान्
विष्वक्सेनश्च भगवान् सचिवैर्बलिभिर्वृतः ॥१६
सप्तभिर्भूरितेजोभिः महेन्द्रसमविक्रमैः
असुराणां वधं चक्रे यथोक्तं परमेष्ठिना’ ॥१७
जनकः-
अन्तरिछते ततस्तस्मिन् विमाने मुनिसेविते
अगस्त्यो भगवान् ब्रह्मन् ! अकरोत् किं महामुनिः ?॥१८
अगस्त्यकृतभाविविमानाविर्भावहेतुनिरूपणम्
वामदेवः-
अगस्त्यो भगवान् भूप ! मुनीन्द्रानिदमब्रवीत्
यदेतद्दर्शितं दिव्यं विमानं लोकपावनम् ॥१९
पूर्वं भगवता तेन विष्णुना प्रभविष्णुना
तदत्रैव महाशैले सदा तिष्ठति पूजितम् ॥२०
अन्तरिछतं न केनापि शक्यते द्रष्टुमञ्जसा
युगे युगे तु यः कश्चित् तपसा भावयेद्धरिम् ॥२१
स तस्य कृपया दिव्यं विमानं पश्यति ध्रुवम्
आगामिनि कलौ चापि सव्प्रूप्ते पुण्यमुत्तमम् ॥२२
विमानं सर्वपापघ्नं विष्णुनाऽधिष्ठितं सदा
पश्यतां सर्वभूतानां आह्णादजनकं शुभम् ॥२३
देवर्षिदैत्यगन्धर्वदेवसिद्धनिषेवितम्
मनुजैरेव तद्भक्तैः कारितं लक्षणान्वितम् ॥२४
[[620621]]
श्रीवामनपुराणे क्षेत्रखण्डे चत्वारिंशोऽध्यायः
भविष्यति महाश्चर्यं मुनीन्द्रा नात्र संशयः
तत्रैव भगवान् विष्णुः स्थास्यत्यक्षयशक्तिधृक् ॥२५
विमाने तु जगन्नाथः पूर्वं दृष्टो हरिः स्वयम्
शङ्खचक्रधरः श्रीमान् चतुर्बाहुस्वरूपवान् ॥२६
अस्मिन् जगति विप्रेन्द्राः ! विश्रुतञ्च भविष्यति
विमानं तदघौघघ्नं त्रैलोक्यतिलकोपमम् ॥२७
वामदेवः-
एवमुक्त्वा मुनीन्द्रांस्तान् अगस्त्यो भगवांस्तदा ।
गन्तुं चक्रे मनस्तस्मात् प्रणिपत्य जनार्दनम् ॥२८
अगस्त्योऽथ महातेजाः वरान् प्राप्य सुदुर्लभान् ।
मुनिभिः संवृतो राजन् ! महेन्द्रमगमद्गिरिम् ॥२९
एवमेषा पुरा वृत्ता कथा ते कथिता मया
विश्रुता सर्वलोकेषु किमन्यत् ज्ञातुमिच्छसि’? ॥३०
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये भविष्यद्विमान
प्रादुर्भाववर्णनं नाम चत्वारिंशोऽध्यायः.
एकचत्वारिंशोऽध्यायः
अथ एकचत्वारिंशोऽध्यायः
देवजिदाद्यसुरकृतलोकोपद्रववर्णनम्
जनकः-
ब्रह्मन्नित्युक्तो देवेन विष्वक्सेनः स वीर्यवान्
तेषां वधं कथं चक्रे दैत्येन्द्रेणां तरस्विनाम् ॥१
एतन्मे महदाश्चर्यं चरितं तस्य धीमतः
विष्वक्सेनस्य देवस्य तत्त्वेनाख्यातुमरछसि ॥२
वामदेवः-
एतत्ते कथयिष्यामि शृणुष्व श्रद्धयाऽन्वितः
पुराऽवधीत् यथा दैत्यान् विष्वक्सेनो महाबलः ॥३
पुराऽभवन्महावीर्याः हिरण्याक्षस्य वंशजाः
’’देवजिन्मृत्युजिच्चापि शत्रुजि’’च्चेति ते त्रयः ॥४
भ्रातरः सुमहासत्त्वाः महामाया महौजसः
ब्रह्माणं ते समाराध्य स्रष्टारं भुवनेश्वरम् ॥५
सर्वदेवैरवध्यत्वं अवापुर्मनुजेश्वर !
ततः सकलदैतेयैः महामात्यैर्महाबलैः ॥६
अनेकशतसाहस्रैः संवृतास्ते महीमिमाम्
विचेरुरवनीपाल ! नाशयन्त इमाः प्रजाः ॥७
[[622623]]
क्षोभितास्तैस्तु सहसा शोषिता वरुणालयाः
तेषां वीर्येण महता पर्वताश्च चकम्पिरे ॥८
ययुर्विनाशं सहसा प्रजाः सर्वाः प्रजेश्वर !
यज्ञभागभुजो देवा यज्ञभागं न लेभिरे ॥९
त एव बुभुजुर्दैत्याः यज्ञभागान् सुदुर्मदाः
न यज्ञाः समवर्तन्त तपश्चक्रुर्न तापसाः ॥१०
न तताप तदा सूर्यो न जज्वाल च पावकः
निर्जिताश्चाभवन्देवा युद्धे परमदारुणे ॥११
दैतेयैर्विजिता देवाः शरणं प्रतिपेदिरे
नारायणाचले दिव्ये वसन्तं पुरुषोत्तमम् ॥१२
देवजिदाद्यसुरवधार्थं सपरिकरस्य विष्वक्सेनस्य गमनम्
एवं प्रवृत्ते लोकेऽस्मिन् दै तेयैस्तैर्मदोत्कटैः
विष्वक्सेनः समाज्ञप्तो विभुना हरिणा बली ॥१३
तेषां वधार्थं सर्वेषां दैत्येन्द्राणां बलीयसाम्
अभ्यगात्सचिवैः सार्धं सप्तभिर्बलशालिभिः ॥१४
अनेकशतसाहस्रैर्भूतसङ्घैः समावृतः
महाबलैर्महावीर्यैः भूभारहरणक्षमैः ॥१५
संवृतस्तैर्महातेजाः सोगऽच्छद्विमलेऽम्बरे
व्यराजत यथा शक्रः संवृतस्त्रिदशेश्वरैः ॥१६
आकाशं तदनाकाशं कृतमासीदभास्करम्
आयान्तमथ चाकर्ण्य विष्वक्सेनं च तद्बलम् ॥१७
तेऽपि दैत्या महावीर्या बलवन्तो यशस्विनः
आहूय सर्वानसुरान् पातालतलवासिनः ॥१८
सागरेषु च शैलेषु नदीषु च वनेषु च
ये वसन्ति महावीर्याः दारुणा दानवेश्वराः ॥१९
तान्सर्वांस्ते समाहूय समरेष्वनिवर्तिनः
युद्धाभिमानिनस्तेऽथ सह दैतेयदानवैः ॥२०
देवजित्प्रमुखा जग्मुः योद्धुं तेन महात्मना
विष्वक्सेनेन ते तेन गिरिशेनेव राक्षसाः ॥२१
विष्वक्सेनासुरसैनिकयोर्युद्धक्रमः
देवस्य सैनाकाश्चापि दैत्येन्द्राणाञ्च सैनिकाः
ततो युद्धं महारौद्रं समवर्तत दारुणम् ॥२२
सेनयोरुभयोश्चापि दैवासुरमिवापरम्
नानाप्रहरणैरुग्रैः निजघ्नुस्ते परस्सरम् ॥२३
विष्वक्सेनानुगाश्चापि दैत्येन्द्राश्च बलीयसः
तैर्मुक्तैरस्त्रजालैश्च शस्त्रौघैश्चापि संयुगे ॥२४
दह्यमानमिवाकाशं आसीत्सर्वग्रहाकुलम्
जाज्वल्यमानं तं दृष्ट्वा गगनं गगनेचराः ॥२५
परित्यज्य नृपाऽकाशं भयाज्जग्मुर्दिशो दश
ततो देवजिता मुक्ताः घोरा माया महौजसा ॥२६
तान् सर्वान् मोहयामासुः विष्वक्सेनस्य सैनिकान्
विष्वक्सेनस्य सचिवस्ततः क्रुद्धो महामतिः ॥२७
[[624625]]
श्रीवामनपुराणे क्षेत्रखण्डे एकचत्वारिंशोऽध्यायः
’’मेधावी’’ नाम बलवान् सर्वमायाविशारदः
मायाबलेन तां मायां अजयत्सर्वमोहिनीम् ॥ २८
ततो दनुर्महद्दिव्यं आदाय विमलप्रभम्
अच्छेद्यं सर्वशत्रूणां दत्तमव्यक्तरूपिणा ॥२९
अनेकरत्नसञ्छन्नं जाम्बूनदपरिष्कृतम्
मुमोच निशितान् बाणान् दैत्येन्द्राणां महौजसाम् ॥ ३०
निहतास्तेन दैतेयाः शतशोऽथ सहस्रशः
मुक्त्वा प्रियतरान् प्राणान् निपेतुर्धरणीतले ॥३१
नियतांस्तानथालोक्य मृत्युजित् क्रोधमूर्छितः
मोहयामास सर्वांस्तान् मायया देवसैनिकान् ॥३२
’’शत्रुघ्नो’’ नाम शत्रुघ्नः क्रोधेन महताऽन्वितः
असिरत्नं समादाय विमलार्कसमप्रभम् ॥३३
चिच्छेद तस्य दैत्यस्य शिरो ज्वलितकुण्डलम्
तस्यासीद्भूय एवाशु शिरस्तुङ्गकिरीटवत् ॥३४
शत्रुजित्तस्य तत्कर्म शत्रुघ्नस्य बलीयसः
सम्पश्यन् घोरसङ्काशो मायामुग्रामथाऽऽददे ॥ ३५
विजेतुं दुर्मदः सर्वान् विष्वक्सेनमुखान् मृथे
तया ते निष्प्रभा आसन् विष्वक्सेनस्य सैनिकाः ॥३६
तां हृष्ट्वा सहसा क्रुद्धः सचिवस्तस्य धीमतः
मायामुग्रां महातेजाः ’’कालाग्नि’’ र्नाम वीर्यवान् ॥ ३७
आसुरीं नाशयामास तदद्भुतमिवाभवत्
आददे महतीं शक्तिं शत्रुजिद्वधकारणात् ॥३८
मुमोचाथ सतां दीप्तां ’’कालाग्नि’’ स्तरसा बली
शक्त्या विदारितो दैत्यः पपाताथ महीतले ॥३९
गतासुरिव निश्चेष्टः पुनश्चापि समुत्थितः
देवजिन्मृत्युजिच्चापि शत्रुजिच्चाप्यथाऽत्मवान् ॥४०
क्रोधेन महताऽऽविष्टाः त्रयस्त्रय इवाग्नयः
धनूंष्याकृष्य दिव्यानि दत्तान्यव्यक्तजन्मना ॥४१
ब्रह्मणा देवदेवेन कल्पादौ परेमेष्ठिना
महास्त्रञ्च तथा दिव्यं भीमं पाशुपतं तथा ॥४२
वायव्यं वारुणञ्चापि सौरमाग्नेयमेव च
ऐन्द्रञ्चापि तथा रौद्रं याम्यञ्चापि सुदुस्तरम् ॥४३
विमोहनकरं घोरं गान्धर्वञ्च सुदुर्जयम्
जृम्भणास्त्रं तथा घोरं कौबेरं वारुणं तथा ॥४४
एवमादीनि चान्यानि दिव्यान्यस्त्राणि संयुगे
मुमुचुः शतशो राजन्! सेनायां तस्य धीमतः ॥४५
ब्रह्मास्त्राद्यैस्तथा दीप्तैः अस्त्रैः शत्रुभयङ्करैः
ज्वालार्चिष्मत्तदाकाशं अपेतग्रहभास्करम् ॥४६
अपेतचन्द्रतारौघं निपतच्छुकसारिकम्
दृश्यते सङ्कुलं तत्र संहारसमये यथा ॥४७
[[626627]]
श्रीवामनपुराणे क्षेत्रखण्डे एकचत्वारिंशोऽध्यायः
विष्वक्सेनकृतनारायणस्त्रयोगपूर्वकासुरवधप्रकारः
ततो देवः स भगवान् विष्वक्सेनः प्रतापवान्
दृष्ट्वा विस्मयमापन्नो दैतेयांस्तानलोकयत् ॥४८
’’साधु साध्वि’’ति चाभाष्य जहर्ष च ननाद च
स्वकं धनुर्महद्दिव्यं तप्तजाम्बूनदप्रभम् ॥४९
विष्फार्य स महातेजाः शार्ङ्गञ्चापमिवापरम्
नारायणीयं सहसा सन्दधेऽस्त्रं शरासने ॥५०
तदस्त्रं मृत्युसङ्काशं अनिवार्यं सुरासुरैः
कालाग्निरिव जज्वाल कल्पान्ते सर्वनाशनः ॥५१
ततः सङ्क्षोभमायातं जगदेतच्चराचरम्
चुक्षुभुः सागराः सर्वे पर्वताश्च चकम्पिरे ॥५२
तदस्त्रं तेन निर्मुक्तं ज्वालामालि महात्मना
समीक्ष्य सर्वभूतानि राजन्! नेदुः सुदारुणम् ॥५३
आगतास्तेऽपि ये तत्र शुद्धदर्शनलालसाः
ते सर्वे गगनं त्यक्त्वा दुद्रुवुः सर्वतो दिशम् ॥५४
देवाश्चापि तदा सर्वे मुनयश्च तपोधनाः
दृष्ट्वा तदस्त्रमत्युग्रं प्रोचुरेवं परस्परम् ॥५५
संहारसमयः प्राप्तो विस्मयः क्रियतेऽत्र किम्?
नारायणेन भूतानां आदिभूतेन शार्ङ्गिणा ॥५६
संहारः क्रियते नूनं लोकानामद्य विष्णुना
विष्वक्सेनेन सर्वात्मा जगत्संहारमीश्वरः ॥५७
करोति नूनं भगवान् संहारकुतुकी हरिः
किमयं क्रियते तेन व्यापारः परमेष्ठिना ॥५८
अकाले जातमस्माकं निष्फलं दर्शनं विभोः
एवंविधान्यनेकानि वाक्यानि त्रिदशालयाः ॥५९
वदन्तो भृशमुद्विग्ना जग्मुस्ते सर्वतो दिशम्
अथ देवः स भगवान् विष्वक्सेनस्तदा नृप! ॥६०
नारायणीयमस्त्रं तत् मुमोचादित्यसन्निभम्
मुक्तं तदस्त्रमत्युग्रं सर्वसंहारकारणम् ॥६१
अदहद्वाहिनीं तां तु दैत्येन्द्राणां दुरात्मनाम्
देवजित्प्रमुखैः सार्धं वृत्रकल्पैर्महाबलैः ॥६२
सा तु सेना प्रजज्वाल दह्यमानास्त्रपावकैः
शम्भुना दह्यमानानि त्रिपुराणि यथा पुरा ॥६३
अस्त्राग्निदग्धदेहास्ते साश्वाः सरथकुञ्जराः
देवजित्प्रमुखाः सर्वे सानुगाः सहबान्धवाः
निपेतुर्धरणीपृष्ठे दग्धपक्षा इव द्विजाः ॥६४
गतासवस्ते न्यपतन् सहस्रशो
नरेन्द्र भूमौ दितिजेश्वरात्मजाः ।
प्रच्छादयन्तः सकलां महीमिमां
प्रदग्धकेशाम्बरभूषणोत्तमाः ॥६५
सा चोग्रवेगा दितिजेश्वराणां
सेनाऽतिभीमा समेरेष्वजेया ।
अस्त्राग्निदग्धा न च भूतसङ्घैः
अदृश्यताऽऽकाशगतैर्न देवैः ॥६६
[[628629]]
श्रीवामनपुराणे क्षेत्रखण्डे एकचत्वारिंशोऽध्यायः
देवादिकृतविजयोपचारस्तुत्यादिः
ततस्तु देवाश्च निशाचराश्च
गन्धर्वयक्षोरगपन्नगाश्च ।
महर्षयश्चाप्रतिमप्रभावाः
निपातितांस्तानवलोक्य दैत्यान् ॥६७
अपूजयंस्ते समुपेत्य सर्वे
देवं महावीर्यमुपस्थितं तम् ।
प्रणम्य देवाधिपतेरमात्यं
शिरोभिरुत्फुल्लविलोललोचनम् ॥६८
तमूचुरेनं वचनैर्नरेन्द्र!
सर्वे सुराद्याः परमं प्रहृष्टाः ।
समं ततस्तं परिवार्य देवं
गृहीतचापं निहतेन्द्रशत्रुम् ॥६९
इन्द्रादयः
कृतं त्वयैतद्भगवन्! सुराणां
सुदुष्करं कर्म तवानुरूपम् ।
अन्तर्दधे सानुचरः सवाहनः
तत्रैव तेषामथ पश्यतां तथा ॥७०
तैरेवमुक्तः सहसा महात्मा
सम्पूजितस्तान् प्रतिपूज्य सर्वान् ।
अन्तर्दधे सानुचरः सवाहनः
तत्रैव तेषामथ पश्यतां तथा ॥७१
मया नृपेन्द्राखिलमेतदुक्तं
तवाद्भुतं देवजिदादिनाशनम् ।
एवंविधं नैव पुरा प्रवृत्तं
ऋते दशग्रीववधात् सुघोरात् ॥७२
इति श्रीवामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये
विष्वक्सेनकृत देवजिदादिवधवर्णनं नाम
एकचत्वारिंशोऽध्यायः.
[[630631]]
श्रीवामनपुराणे क्षेत्रखण्डे एकचत्वारिंशोऽध्यायः
द्विचत्वारिंशोऽध्यायः
अथ द्विचत्वारिंशोऽध्यायः
भविष्यच्छ्रीभगवद्दिव्यविमानवर्णनम्
वामदेवः-
’एवं दैत्यवधं देवो विष्वक्सेनस्तु वीर्यवान्
चक्रे पुरा महीपाल! देवदेवाज्ञया बली ॥१
एतन्मया समाख्यातं पुरावृत्तमनुत्तमम्
इतिहासं महापुण्यं सर्वलोकेषु विश्रुतम् ॥२
वेङ्कटाख्ये गिरौ तस्मिन् अत्यर्थं तेन धीमता
अगस्त्येन मुनीन्द्राणां भविष्यत्कथितं नृप! ॥३
अगामिनि युगे चापि सव्प्रूप्ते तु कलौ युगे
अदृश्यत्वाद्विमानस्य नित्यस्यामिततेजसः ॥४
तस्या एव शुभे तीरे पुष्करिण्या महाद्भुतम्
अतुलं कारितं भक्तैः विमानं सूर्यसन्निभम् ॥५
भविष्यतीति तस्यापि माहात्म्यं कथये तव
तञ्चापि महदाश्चर्यं विमानं सुरपूजितम् ॥६
शोभितं देवदेवेन भविष्यति न संशयः
बहुवर्षशतैः राजन्! न च शक्यं सुरैरपि ॥७
वक्तुं तस्य विमानस्य माहात्म्यं विस्तरेण तु
यत्र देवाधिदेवोऽसौ सान्निध्यं कुरुते हरिः ॥८
स्वभक्तानां हितार्थाय त्रैलोक्यानुग्रहाय च
शोभितं देवदेवेन श्रीभूमिसहितेन तत् ॥९
विमानं मनुजैः राजन्! यैर्दृष्टं पापनाशनम्
विष्णोस्तस्य प्रसादेन ते नरा ध्वस्तबन्धनाः ॥१०
प्राप्नुवन्ति परं धाम ब्रह्म यत्तत्सनातनम्
तत्रापि तु युगे राजन्! तद्विमानदिदृक्षवः ॥११
देवाः सर्वेऽपि गच्छन्ति सिद्धाश्च सहचारणैः
ऋषयश्च सगन्धर्वा यक्षाश्च सहपन्नगैः ॥१२
आदित्या वसवो रुद्रा दिक्पाला मरुतस्तथा
ब्रह्मा चतुर्मुखो देवो भगवान् शम्भुरेव च ॥१३
एवमाद्यास्तथाऽन्ये च भक्त्या परमया युताः
उपतिष्ठन्ति तं देवं देवदेवेशमीश्वरम् ॥१४
स्नात्वा च मनुजास्तस्मिन् स्वामिपुष्करिणीजले
प्रणम्य देवदेवेशं नारायणमनामयम् ॥१५
तस्मिन् विमाने गोविन्दं वसन्तं पुरुषोत्तमम्
स्तुवन्ति दिव्यैः स्तोत्रैश्च नमन्तश्चाप्यहर्निशम् ॥१६
सर्वे पातकिनश्चापि तद्दृष्ट्वा पुण्यमुत्तमम्
विमानं सर्वशोकघ्नं सर्वरोगप्रणाशनम् ॥१७
विमुक्ताः सर्वपापेभ्यो भविष्यन्ति संशयः
यत्र क्वापि वसन् देशे विमानाभिमुखं नरः ॥१८
[[632633]]
श्रीवामनपुराणे क्षेत्रखण्डे द्विचत्वारिंशोऽध्यायः
वेङ्कटाद्रिं नमस्कृत्य सद्यः पापैर्विमुच्यते
सङ्क्षेपेण मयाऽप्येतन्माहात्म्यं कथितं तव ॥१९
तस्य पुण्यस्य भूपाल! विमानस्य महीयसः
अतः परं तु स्नेहेन स्वयमेव वदाम्यहम् ॥२०
त्वया न पृष्टं राजेन्द्र! गुह्यात् गुह्यातरं महात्
अत्यद्भुतमिदं भूप! शृणुष्व गदतो मम ॥२१
नारायणगिरौ तस्मिन् आस्ते नारायणः स्वयम्
गुहासु चापि सर्वासु सर्वेषु शिखरेषु च ॥२२
कन्दरेषु च सर्वेषु निर
ञ्झ
रेषु शुभेषु च
भगवान् देवदेवेशः सर्वस्मिन् गिरिमूर्धनि ॥२३
नानाविधानि रूपाणि बिभ्रद्विहरति स्वयम्
क्वचिच्च देवरूपेण क्वचिन्मानुषरूपतः ॥२४
क्वचिच्च मृगरूपेण क्वचिद्वृक्षादिरूपतः
यत्र कुत्रचिदासीनः तस्मिन् दिव्ये महागिरौ ॥२५
देवदेवं समाराध्य य उपान्ते जनार्दनम्
करोति तस्य सान्निध्यं भगवानादिकृद्धरिः ॥२६
वृषभाचलभूभागे घटिकामपि यो वसेत्
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥२७
ये तत्र कुर्वते पापं अज्ञानाद्वेङ्कटाचले
हन्युस्तान् सर्व एवैते गन्धर्वाः शस्त्रपाणयः ॥२८
आज्ञया तस्य देवस्य विष्वक्सेनस्य धीमतः
तस्मान्न कुर्यात्पापन्तु नरस्तस्मिन् महीधरे ॥२९
न हि तत्र गिरौ कश्चित् वृक्षः पक्षी मृगोऽथ वा
प्राकृतो जायते देवाः सर्वे तद्रूपिणस्तथा ॥३०
तस्य देवस्य सेवार्थं सान्निध्यं कुर्वते सदा
एवं प्राह पुराऽगस्त्यो भगवान् मुनिसत्तमाः ॥३१
मया पृष्टः समाचख्यौ गन्धमादनपर्वते
नारायणगिरेस्तस्य माहात्म्यं परमाद्भुतम् ॥३२
विस्तरेण समाख्यातं मयाऽपि तव भूपते!
अन्यच्चापि समाख्यास्ये त्वयाऽपृष्टं नराधिप! ॥३३
तस्मिन्नद्रौ तु यत्पुण्यं दानानि ददतां नृप!’
इत्युक्तो जनकस्तेन पप्रच्छाऽथ मुनिं पुनः ॥३४
इति श्रीवामनपुराणे क्षेत्रखण्डे श्रीवेङ्कटाचलमाहात्म्ये
भविष्यद्विमानवर्णनं नाम द्विचत्वारिंशोऽध्यायः.
[[634635]]
श्रीवामनपुराणे क्षेत्रखण्डे द्विचत्वारिंशोऽध्यायः
त्रिचत्वारिंशोऽध्यायः
अथ त्रिचत्वारिंशोऽध्यायः
स्वामिपुष्करिणीतीरकृतान्नदानादिप्रशंसा
जनकः-
’श्रुतमेतन्मयाऽऽख्यानं वामदेव! त्वयोदितम्
सर्वज्ञं सरमं ब्रह्म जानीमो मुनिसत्तम! ॥१
क्षेत्रखण्डे त्वया सर्वाण्युक्तानि तपतां वर!
क्षेत्राणि यानि पुण्यानि तीर्थानि विमलानि च ॥२
तेषु तेषु च दानानि प्रशस्तानि त्वया मुने!
नारायणगिरावस्मिन् कृत्वा दानमनुत्तमम् ॥३
यत्फलं प्राप्नुयाद्देही पापराशिं विधूय वै
तद्वदस्व मुनिश्रेष्ठ! श्रोतुं कौतूहलं हि मे’ ॥४
शतानन्दः-
इति पृष्टस्तदा तेन जनकेन महात्मना
यत्पुण्यं ददतां तत्र दानानाञ्च यथाफलम् ॥५
तत्सर्वं मुनिशार्दूलो वक्तुं समुपचक्रमे
वामदेवः-
’शृणुष्वावहितो राजन्! यत्पृष्टोऽहमिह त्वया ॥६
नारायणगिरावस्मिन् स्वामिपुष्करिणीतटे
अन्नदानं प्रशस्तं हि दानानां दानमुत्तमम् ॥७
नित्यमस्मिन्निवसतां अन्नपानादिकन्तु यः
प्रयच्छेत् स इहैवाऽऽशु सर्वरोगैर्विमुच्यते ॥८
भूमेर्गोश्च हिरण्यस्य वस्त्रगन्धादिकस्य च
कन्यायाश्च चरेद्दानं तिलानामपि यो नरः ॥९
प्रेत्य सोऽनुत्तमान् लोकान् प्राप्नुयात् पुण्यकर्मणाम्
तेषां वसति लोकेषु यावत्कल्पमरिन्दम! ॥१०
ततो भक्तिं परां प्राप्य विष्णुलोके महीयते
निष्कामो यो ददात्यन्नं स्वामिपुष्करिणीतटे ॥११
स पुष्कलः प्रशस्तात्मा विष्णुभक्तिं प्रयास्यति
तद्भक्तभावमापन्नः कालेनाल्पेन भूपते ॥१२
प्राप्य योगं मुनिप्रोक्तं परमां गतिमाप्नुयात्
स्वामिपुष्करिणीं प्राप्य स्नात्वा पीत्वा च तज्जलम् ॥१३
विधूय सर्वपापेभ्यो विष्णुलोके महीयते
यावच्छक्त्यनुसारं वै सुवर्णं गामथापि वा ॥१४
वस्त्राणि वसुधां वापि तिलान् गन्धाननुत्तमान्
यो ददाति स दीर्घायुः आरोग्यञ्चापि विन्दति ॥१५
प्राप्नुयात्सर्वकामांश्च भोगान् भुङ्ते च पुष्कलान्
मुक्तश्च सर्वपापेभ्यः प्राप्नुयात् परमां गतिम् ॥१६
वामदेवं प्रति ब्रह्मोपदिष्टस्वामिपुष्करिणीमाहात्म्यम्
शृणु चास्मिन् पुरावृत्तं आख्यानं पर्वतोत्तमे
यथा मे कथितं पूर्वं ब्रह्मणा परमेष्ठिना ॥१७
[[636637]]
श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे त्रिचत्वारिंशोऽध्यायः
पूर्वं भूमिधरेन्द्रेऽस्मिन् ब्रह्माणं कमलासनम्
उपासीनः समासीनो वर्षाणामधिकं शतम् ॥१८
अहं तीव्रं तपोऽकार्षं ब्रह्माणं प्रति भूमिप!
कालेन महता तात! भगवान् कमलासनः ॥१९
आविर्बभूव पुरतः तपसा तोषितो मया
स्वयमेव चतुर्वक्त्रो मां प्रबोध्य जनाधिप! ॥२०
मेघगम्भीरया वाचा प्रसन्नो वाक्यमब्रवीत्
’’परितुष्टोऽस्मि ते ब्रह्मन्! वामदेव द्विजोत्तम! ॥२१
यदिच्छसीह तद्दातुं वरदोऽहमिहागतः
वरं वरय भद्रं ते यदिच्छसि महामुने ॥२२
इत्युक्तो ब्रह्मणा तेन प्रसन्नेन महात्मना
अहमेवं नृपश्रेष्ठ! वृणे वरमनुत्तमम् ॥२३
स्वामिपुष्करिणी येयं अत्रास्ते पर्वतोत्तमे
तस्या एव तु माहात्म्यं ज्ञातुमिच्छामि तत्त्वतः ॥२४
माहात्म्यञ्च फलञ्चापि दर्शने स्नानपानयोः
अस्यास्तीरे च दानानां यत्फलं तद्वदस्व मे ॥२५
ब्रह्मोवाच-
’अस्यास्तीरे पुरा ब्रह्मन्! चन्द्रः! क्षीरोदसम्भवः
सौवर्णं भूषणं दत्त्वा लावण्यं परमं ययौ ॥२६
कन्यां दत्त्वा पुरा ब्रह्मन्! कामः कामत्वमाप्तवान्
धनदोऽपि धनेशत्वं स्वर्णदानादवाप्तवान् ॥२७
इन्द्रः षोडशदानानि स्वामिपुष्करिणीतटे
कृत्वा बलादीनसुरान् दुर्जयानजयत् पुरा ॥२८
अस्मिन् गिरौ पुरा कश्चित् आगत्य ब्राह्मणोत्तमः
जिज्ञासुः काव्यविन्नाम ब्रह्मज्ञानस्य मानद! ॥२९
स्वयमाहूय विप्रेन्द्रं ब्रह्मज्ञानमनुत्तमम्
ददत् परमधर्मात्मा वाचस्पतिरभून्मुने! ॥३०
धरण्यां नित्यसान्निध्यं वेङ्कटाद्रौ विशेषतः
तस्मात्तत्रैव कार्याणि महादानानि पार्थिवैः ॥३१
यत्किञ्चिच्च मुने! तस्मिन् स्वामिपुष्करिणीतटे
दद्यादनुत्तमान् लोकान् आप्नुयात्पुण्यकर्मणाम् ॥३२
ब्रह्मकारित श्रीवेङ्कटाचलाधीशमहोत्सवप्रशंसा
मासि भाद्रपदे पुण्ये शुक्लपक्षे तु चैत्रभे
स्वामिपुष्करिणीतीरे देवस्य परमात्मनः ॥३३
उत्सवः कारितः पूर्वं मयैव प्रीतये हरेः
तत्र तत्र युगे चास्य विष्णोः स्वामिसरस्तटे ॥३४
उत्सवान् कारयिष्यन्ति नराः पुण्यकृतोऽमलाः
किञ्चिदाराधनेनैव विष्णुर्भाद्रपदोत्सवे ॥३५
ददाति सर्वलोकानां वरानत्यन्तदुर्लभान्
उत्सवेषु च देवस्य नारायणगिरिं प्रति
गच्छन्ति ये नराः पुण्याः तेषामपि फलं शृणु ॥३६
[[638639]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रिचत्वारिंशोऽध्यायः
[[640641]]
श्रीवामनपुराणे क्षेत्रखण्डे त्रिचत्वारिंशोऽध्यायः
यानि त्वादधते पदानि च मुने! नारायणाद्रिं प्रति
स्तोकं स्तोकमपि द्विजा अपि जनान्तेषां फलं यच्छृणु
यावद्वेङ्कटशैलमात्मगृहतस्तावत्पदानां क्रमात्
प्रायश्चैव पदेपदे क्रतुफलं भूयाद्भुवि प्राणिनाम् ॥ ३७
महोत्सवसेवार्थमागतजनाराधकपुण्यफलवर्णनम्
ये सेवार्थमुपागतान् वृषगिरौ देवस्य दिव्योत्सवे
यावच्छक्त्युपलालयन्ति भगवांस्तेषामभीष्टप्रदः
यस्तेषामुपकारमीषदपि वा कुर्यान्न लोभादिना
तस्याऽकल्पमवस्थितिः शृणु मुने! घोरे महारौरवे ॥ ३८
यः स्वामिसरसस्तीरे पुष्पोद्यानानि कारयेत्
नन्दनोपवने तस्य यावत्कल्पमवस्थितिः ॥३९
किमनेन बहूक्तेन यः स्वामिसरसस्तटे
यत्किञ्चित्कुरुते पुण्यं तस्यान्तो नैव विद्यते’ ॥४०
वामदेवः-
इत्युक्त्वा भगवान् ब्रह्मा लोककृल्लोकपूजितः
अन्तर्दधे तदा तस्मात् श्रुतमेतन्मया पुरा’ ॥४१
शतानन्दः-
इतीरितं तन्मुनिना समस्तं
श्रुत्वा महौजा जनको महात्मा ।
प्रफुल्लनेत्रः पुलकाञ्चिताङ्गो
नारायणाद्रिं प्रययौ प्रहृष्टः ॥४२
समाप्य यज्ञं जनको महात्मा
धुरं धरित्र्याः सचिवे नियोज्य ।
द्रष्टुं परं ब्रह्म वृषाद्रिमूर्ध्नि
स्वयं ययौ मैथिलराजराजः ॥४३
इति श्रीवामनपुराणे क्षेत्रखण्डे श्री वेङ्कटाचलमाहात्म्ये
श्रीस्वामि पुष्करिणीतीरकृतदानफलवर्णनं नाम
त्रिचत्वारिंशोऽध्यायः.
[[642643]]
चतुश्चत्वारिंशोऽध्यायः
अथ चतुश्चत्वारिंशोऽध्यायः
स्वामिपुष्करिणीं प्रति सार्धत्रिकोटितीर्थागमनकाल निर्णयः
व्यासः-
श्रुत्वैतदथ माहात्म्यं स्वामिपुष्करिणीं प्रति
जनकस्तु शतानन्दं पप्रच्छेदं मुदाऽन्वितः ॥१
जनकः-
’लोकेषु सर्वतीर्थानि कथमायान्ति तज्जले
किमर्थं वा तदेतन्मे कथयस्व महामुने!’ ॥२
शतानन्दः-
पुरा भागीरथीतीरे मार्कण्डेयो महामुनिः
तपः परममास्थाय स तेपे परमं तपः ॥३
ध्यायन् विश्वस्य जगतः स्रष्टारं भुवनेश्वरम्
ततः कालेन महता ब्रह्मा लोकपितामहः ॥४
सान्निध्यमकरोत्प्रीत्या मार्कण्डेयस्य धीमतः
वचनं व्याजहारेदं मार्कण्डेयं पितामहः ॥५
’वरं वरय दास्यामि यमिच्छसि महामुने!’
मार्कण्डेयः-
’वरं देहि मम ब्रह्मन्! याचे श्रद्धासमन्वितः ॥६
त्रैलोक्ये यानि पुण्यानि सन्ति तीर्थानि वै प्रभो
तेषु सर्वेषु तीर्थेषु यात्रायां शक्तिरस्त्विति’ ॥७
तस्य तद्वचनं श्रुत्वा भगवांश्चतुराननः
प्रहसन् व्याजहारेदं मार्कण्डेयं तपस्विनम् ॥८
ब्रह्मा-
’लोके सर्वेषु तीर्थेषु स्नानं वर्षशतैरपि
कर्तुं न शक्यते ब्रह्मन्! न मया न च शम्भुना ॥९
अन्यं वक्ष्यामि ते ब्रह्मन्! उपायं मुनिसत्तम!
इतो दक्षिणदिग्भागे मुने! द्विशतयोजने ॥१०
अस्ति श्रीवेङ्कटो नाम प्रथितः पर्वतोत्तमः
द्रविडेषु महापुण्यः सेवितस्त्रिदशैर्गिरिः ॥११
तस्य शृङ्गे सुमहति पुण्या पापविनाशिनी
’’स्वामिपुष्करिणी’’ नाम सरसी सर्वकामदा ॥१२
त्रैलोक्यवर्तिनां ब्रह्मन्! तीर्थानां स्वामिनी हि सा
मासे तु मार्गशीर्षाख्ये द्वादश्यां पूर्वपक्षके ॥१३
अरुणोदयवेलायां त्रिषु लोकेषु विश्रुताः
तिस्रः कोट्योऽर्धकोटीश्च तीर्थानां सुमहामते ॥१४
सान्निध्यं तत्र कुर्वन्ति स्वामिपुष्करिणीजले
पापं स्वेषु विनिर्मुक्तं लोकैरघसमन्वितैः ॥१५
निरछरन्तीह तीर्थानि तस्यास्तीर्थसमन्वयात्
मार्कण्डेय! महाभाग! भुवनत्रयवासिनाम् ॥१६
श्रीवामनपुराणे क्षेत्रखण्डे चतुश्चत्वारिंशोऽध्यायः
[[644645]]
तीर्थानां तत्र गत्वा त्वं सेवाफलमवाप्नुहि
स्वामिपुष्करिणीत्येतत् नामधेयञ्च तत्कृतम् ॥१७
मार्कण्डेय! समस्तानां तीर्थानां स्वामिनी यतः
अन्यच्च तव वक्ष्यामि रहस्यं धर्मगोचरम् ॥१८
यत्ज्ञात्वा मुनिशार्दूल! ज्ञातव्यं नावशिष्यते
गङ्गादिपुण्यतीर्थानि यावन्तीह महीतले ॥१९
यानि वा मेरुशृङ्गाग्रे कैलासे मन्दरोपरि
पाताले सिन्धुतीरेषु तथा द्वीपान्तरेष्वपि ॥२०
तेषु तेषु च दानानां व्रतानां जपहोमयोः
श्रुतिस्मृतिपुराणेषु विविधं श्रूयते फलम् ॥२१
तत्सर्वं युगपत्प्राप्तं य इच्छेन्मुनिसत्तम!
स मार्गशीर्षद्वादश्यां शुक्लायां नियतात्मकः ॥२२
वेङ्कटाद्रौ महापुण्ये स्वामिपुष्करिणीतटे
कुर्यादेकतमं दानं विप्राय श्रुतशालिने ॥२३
विष्णुभक्ताय शान्ताय दरिद्रायानसूयवे
तेन सर्वेषु तीर्थेषु तद्दत्तं नात्र संशयः ॥२४
यानि षोडश दानानि महान्त्याहुर्मुनीश्वराः
तेषामेकं तु यः कुर्यात् स्वामिपुष्करिणीतटे ॥२५
मार्गशीर्षे सिते पक्षे द्वादश्यां विजितेन्द्रियः
तेन षोडश दानानि तीर्थेषु सकलेष्वपि
मार्कण्डेय! कृतानि स्युः युगपत्तन्महाद्भुतम् ॥२६
’’धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये
आयान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले’’ ॥२७
इमं मन्त्रं समुच्चार्य स्नातस्तत्फलमाप्नुयात्
एतत् गुह्यं पुरा विष्णुः प्रोवाच भगवान् मम’ ॥२८
शतानन्दः-
इत्युक्त्वाऽन्तर्दधे ब्रह्मा मार्कण्डेयस्य पश्यतः
मार्कण्डेयस्तु नृपते! विस्मयाविष्टमानसः ॥२९
नारायणगिरिं प्रायात् तथैव प्रीतमानसः
गत्वा तस्मिन्गिरौ पुण्ये स्वामिपुष्करिणीं शुभाम् ॥३०
दृष्ट्वा स्नात्वाऽथ तस्या वै विपुले विमले जले
तस्यास्तीरे महीपाल! भगवन्तं जनार्दनम् ॥३१
समभ्यर्च्य हृषीकेशं प्रसन्नेनान्तरात्मना
वत्सराणां त्रयं राजन्! उवास स महीधरे ॥३२
प्रतिवर्षञ्च तीर्थनामागमं प्रेक्ष्य तत्तिथौ
मार्कण्डेयो महीपाल! प्रसादात् शारङ्गधन्वनः
अवाप परमानन्दं अनन्तं शाश्वतं मुनिः ॥३३
वामदेवः-
’य इदं श्रावयेन्नित्यं स्वामितीर्थस्य वैभवम्
शृणोति परया भक्त्या द्वादश्यां मार्गशीर्षके ॥३४
तस्य प्रसन्नो भगवान् सर्वमिष्टं प्रयच्छति
एकादश्यामुपोष्यास्मिन् पर्वते वेङ्कटाह्वये ॥३५
श्रीवामनपुराणे क्षेत्रखण्डे चतुश्चत्वारिंशोऽध्यायः
[[646647]]
द्वादश्यां मार्गशीर्षे तु पूर्वपक्षे च ये नराः
स्नानं कृत्वा यथान्यायं स्वामितीर्थे समागताः ॥ ३६
प्रणमन्ति जगन्नाथं तत्तीरतलवासिनम्
ते नरास्तत्प्रसादेन पापराशिं विधूय वै
तत्प्रयान्ति परं धाम शाश्वतं ब्रह्मसञ्ज्ञितम् ॥३७
स्वामिपुष्करिणीतीर्थस्नानार्थं श्रीवेङ्कटाचलं प्रति
जनकनृपागमनम्
शास्त्राणां परमो वेदो देवानां परमो हरिः
तीर्थानां परमं तीर्थं स्वामिपुष्करिणी नृप! ॥३८
तस्मात्त्वमपि राजेन्द्र! गत्वा नारायणाचलम्
स्वामिपुष्करिणीतोये स्नात्वा नियतमानसः ॥३९
तत्तीरवासिनं देवं शरण्यं सर्वदेहिनाम्
नारायणं समाराध्य सर्वान् कामानवाप्स्यसि’ ॥४०
श्रीवेदव्यासः-
एतच्छ्रुत्वा तु जनकः शतानन्दोदितं तदा
प्रहर्षमतुलं लब्ध्वा मन्त्रिभिः सहितो नृपः ॥४१
गत्वा वृषाचलं तीव्रं स्वामिपुष्करिणीजले
स्नात्वा दृष्ट्वाऽथ देवेशं श्रीभूमिसहितं ततः ॥४२
तत्र स्थित्वा चिरं कालं सर्वान् कामानवाप्य च
आगत्य मिथिलां राजा शशास पृथिवीमिमाम् ॥४३
इति श्रीवामनपुराणे क्षेत्रख्ण्डे श्रीवेङ्कटाचलमाहात्म्ये
स्वामिपुष्करिणीं प्रति सार्धत्रिकोटितीर्थागमन तत्कालकृत
दानफलादिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः
इत्थं श्रीवामनपुराणे विंशतिप्रभृतिचतुश्चत्वारिंशपर्यन्तं
पञ्चविंशाध्यायात्मकः श्री वेङ्कटाचलमाहात्म्य
परोभागः समाप्तिमगमत् ।
श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान्।
अभङ्गुरविभूतिर्नः तरङ्गयतु मङ्गलम् ॥
श्रीवामनपुराणे क्षेत्रखण्डे चतुश्चत्वारिंशोऽध्यायः