श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्रीमते विष्वक्सेनाय नमः
श्री वेङ्कटाचलमाहात्म्यम्
(श्रीमार्कण्डेयपुराणान्तर्गतम्)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
प्रथमोऽध्यायः
तीर्थयात्रेच्छया पितृनिकटे मार्कण्डेयविज्ञप्तिः
ऋषयः-
’सूत! सर्वार्थतत्त्वज्ञ! वेदावेदान्तपारग!
वेङ्कटाचलमाहात्म्यं वदस्व मुनिपुङ्गव!’ ॥१
श्रीसूतः-
पुरा मृकण्डुतनयः पुरुषोत्तमसेवया
दीर्घमायुरवाप्याथ मुदा परमया मुनिः ॥२
स्वमाश्रमपदं गत्वा तपस्विजनसन्निधौ
मातुः पितुः स मतिमान् प्रणाममकरोद्भुवि ॥३
अतस्ताभ्यां यथावृत्तमाख्याय मुनिपुङ्गवः
श्रेयस्करं किञ्चिदिच्छन् कर्तुं वै वाक्यमब्रवीत् ॥४
’मातः पितर्ममेष्टं यत् शृणुतं ब्रुवतो मम
देवतानुग्रहादायुः परिपूर्णमभूत् किल ॥५
पुण्यस्थलेषु तीर्थेषु चरितुं विद्यते मतिः
’सुखं गच्छे’ति कृपया मां प्रस्थापयतं युवाम् ॥६
लौकिके वैदिके कार्ये पित्रनुज्ञा विशिष्यते’
अथाब्रवीत् मृकण्डुस्तु स्वपुत्रं पुत्रवत्सलः ॥७
’पालितोऽहं त्वया पुत्र कुलञ्च मम पालितम्
पुण्यस्थले पुण्यतीर्थे चलनेच्छा यतस्तव ॥८
तस्मात्तव मतिः सौम्य! सम्यगेवेति मे मतिः
त्वां प्रस्थापयितुं पुत्र! कथं भवति मानसम् ॥९
पुत्रमात्रस्य पित्रोस्तु विरहो दुःसहो भवेत्
लोके सर्वत्र विदितं सत्पुत्रस्य तु किं पुनः? ॥१०
उत्तमोत्तमपुत्रस्त्वं वियोगस्तेऽतिदुःसहः
सत्पुत्रलक्षणं सद्भिरुच्यते तत्तथैवहि ॥११
यः प्रीणयेत् स्वचरितैः पितरं स पुत्रः
यद्भर्तुरेव हितमिच्चति तत्कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं यत्
एतत्त्रयं जगति पुण्यकृतो लभन्ते ॥१२
आवयोः प्रियकृत्त्वं तु मतिमानास्तिकोऽप्यसि
कथं त्वद्विरहः सह्यो भविष्यति सुताऽवयोः? ॥१३
आनन्देषु च सर्वेषु स एकानन्द उत्तमः
मातापित्रोः समीपे तु वर्तते तनयो यतः ॥१४
तनयस्य स चानन्दस्तदेव सुकृतं महत्
पित्रोः शुश्रूषमाणस्तु सञ्चरेत समीपतः ॥१५
[[425]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे पञ्चमोऽध्यायः
अत आवां विहाय त्वं कथं गच्छसि तद्वद’
श्रीसूतः-
मार्कण्डेयः स इत्युक्तः पितरौ वाक्यमब्रवीत्॥१६
’मातः! पितर्मा च शोको युवयोर्मत्कृते क्वचित्
प्रत्यब्दं सर्वथाऽऽगत्य युवां पश्यामि सर्वदा॥१७
पुण्यक्षेत्राऽभिगमने पुण्यतीर्थावगाहने
यत्पुण्यं तत्कुलं सर्वं पावयेदिति हि श्रुतम्॥१८
कृत्वाऽऽशीर्वचनं भूयः प्रस्थापयतमञ्जसा’
इत्युक्तवाक्ये तनये नयशालिनि तावुभौ ॥१९
आलिङ्ग्य तनयं गाढमाशीर्वादपरौ तदा
’चिरं जीव सुपुत्र त्वं चिरमानन्दवान् भव ॥२०
चिरं धर्मपरश्च त्वमावयोरछर्षमावहन्’
इत्युक्तस्तनयः कृत्वा प्रदक्षिणमुदारधीः ॥२१
पित्रनुज्ञया मार्कण्डेयकृतपुण्यदेशतीर्थ यात्राक्रमः
तीर्थयात्रां जिगमिषुः खेचरेण जगाम ह
काशीस्थलेऽवरुह्यासौ स्नात्वा गङ्गाजले शुचिः ॥२२
तीरमारुह्य विश्वेशं नत्वा क्वचिदवस्थितः
तत्राऽऽकाशे चरन्तं तं ददर्श खगपुङ्गवम्
वैष्णवाग्रेसरं श्रीमद्गरुडं पृष्टवानसौ ॥२३
मार्कण्डेयः-
’विष्णुवाह! नमस्तुभ्यं क्व गच्छसि महामते!
पुण्यस्थलं पुण्यतीर्थमिच्छन्नहमिहागतः ॥२४
अतीव पुण्यं किं किं यत् तन्मे वद खगेश्वर’!
मार्कण्डेयं प्रति गरुडोपदिष्टश्रीवेङ्कटाचलमाहात्म्यम्
श्रीसूतः-
इत्युक्तो गरुडस्तस्मै रहस्यमुपदिष्टवान्॥२५
गरुडः-
’मार्कण्डेय! मुनिश्रेष्ठ! शृणु तत्त्वं वदामि ते
तीर्थानामधिकं तीर्थं स्थलानामपि चोत्तमम् ॥२६
सर्वेष्वपि च तीर्थेषु शृणुष्व गदतो मम
इतो दक्षिणदिग्भागे सुवर्ण मुखरीतटे ॥२७
अस्ति श्रीमान् वेङ्कटाख्यो नगेन्द्रः
स्वस्ति प्राप्तुं शक्यते तत्र सर्वैः ।
वस्तुं द्रष्टुं परमं योगिवर्याः
स्तोतुं वासं सर्वदा कुर्वतेऽत्र ॥२८
नामानि सन्ति सुबहूनि हि तस्य लोके
तानि ब्रवीमि शृणु पुण्यतमानि तत्र।
श्री वेङ्कटाद्रिरिति शेषमहीधरेति
भूयांसि सन्ति भुवनोत्तमपावनानि ॥२९
तत्कीर्तनं सकलपापहरं मुनीन्द्र!
तद्वन्दनं सकलसौख्यदमेव लोके ।
यात्राऽपि तं प्रति सुरैरपि पूजनीया
तादृङ्महान् भवति वेङ्कटशैलमुख्यः ॥३०
तस्यानुभावं प्रवदामि भूयः
समस्ततीर्थानि भवन्ति तत्र।
[[426427]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे पञ्चमोऽध्यायः
एवं समस्तेषु च मुख्यतीर्थं
श्रीस्वामिनाम्नाऽस्ति सरोवरं तत् ॥३१
माहात्म्यमेतस्य मयोच्यते कथं
यत्पश्चिमे रोधसि भूवराहः ।
आलिज्ग्य कान्तामतिसौम्यमूर्तिः
विराजते विश्वजनोपकारी ॥३२
तद्दक्षिणतटे रम्ये वैकुण्ठपुरवल्लभः
आलिङ्गितवपुर्लक्ष्म्या वरदो वर्तते चिरम् ॥३३
कुर्वन्त एव तत्सेवां वर्तन्ते सर्वनिर्जराः
त्वं वेङ्कटाचलं गत्वा स्नात्वा स्वामिसरोजले ॥३४
विलोक्य वेङ्कटाधीशमानन्दात्मा भविष्यसि
अहञ्च तत्र गच्छामि सेवितुं वेङ्कटेश्वरम् ॥३५
विषक्सेनश्च शेषश्च सेवेते तं दिवानिशम्
पुण्यदेशो वेङ्कटाद्रेः तुल्यो नैव महीतले
स्वामिपुष्करिणीतीर्थतुल्यं भुवि न विद्यते’ ॥३६
श्रीसूतः-
इत्युक्त्वा गरुडस्तत्र वेङ्कटाचलमागतः
स मुनिर्गारुडगिरा विस्मयाऽऽविष्टमानसः॥३७
’अहो! श्रुतं महापुण्यस्थलं तीर्थं गरुत्मता’
इति मत्वाऽद्रिसेवायामभवच्चाभिलाषवान्॥३८
इति श्रीमार्कण्डेयपुराणे श्री वेङ्कटाचलमाहात्म्ये गरुड
मार्कण्डेयसंवादो नाम प्रथमोऽध्यायः.
द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः
मार्कण्डेयस्य शुद्धाख्यागस्त्यशिष्येण सह श्री वेङ्कटाचलागमनम्
श्रीसूतः-
मार्कण्डेयोऽथ मतिमान् सुवर्णमुखरीं गतः
तत उत्तरदिग्भागे दृष्टवान् शेषभूधरम् ॥१
दैवादगस्त्यशिष्योऽपि शेषाद्रिनिकटं गतः
वेङ्कटाद्रेरधोभागे तीर्थं किञ्चित् समागतः ॥२
यत्तीर्थं कापिलं चापि चक्रतीर्थं विदुर्बुधाः
तस्योपरि क्रमात्सन्ति तीर्थानि कतिचिद्गिरौ ॥३
इन्द्रस्य विष्वक्सेनस्य चक्रादीनाञ्च पञ्चकम्
अग्नितीर्थं ब्रह्मतीर्थं सप्तर्षीणां क्रमेण च ॥४
आगत्य शिष्यसहितो मार्कण्डेयो महामुनिः
चक्रादिसप्तदशसु तीर्थेषु स्नानकृत् शुचिः ॥५
तत्पश्चिमे च तीर्थानि विद्यन्ते वेङ्कटाचले
ब्रह्मक्षत्रविडन्त्यानामवरोहक्रमेण तु ॥६
स्नात्वा तेष्वपि शुद्धेनागस्त्यशिष्येण संयुतः
आरुह्य वेङ्कटं शैलं मध्येमार्गं ददर्श सः
नारसिंहगुहास्थानं लोके विख्यातवैभवम् ॥७
’’लक्ष्मीनृसिंह! प्रह्लादवरदानन्दवैभव!
दासानुदासं देवेश! मां पाहि मधुसूदन!’’ ॥८
[[428429]]
मार्कण्डेयस्य स्वामितीर्थ स्नानपूर्वक श्रीवराहसेवाप्राप्तिः
इति प्रणम्य शुद्धेन स्वामिपुष्करिणीं गतः
तत्र स्नात्वा महातीर्थे सङ्कल्प्य विधिपूर्वकम् ॥९
तत्पश्चिमतटे श्वेतसूकरं वसुधाधरम्
साष्टाङ्गं च प्रणम्याथ स्तोतुं समुपचक्रमे ॥१०
मार्कण्डेयः-
’’जलौघमग्ना सचराचरा धरा
विषाणकोट्याऽखिलविश्वमूर्तिना।
समुद्धृता येन वराहरूपिणा
स मे स्वयम्भूर्भगवान् प्रसीदतु ॥११
पोत्रिरूप! नमस्तुभ्यं पुरुषोत्तम! ते नमः
स्वामिपुष्करिणीतीरवासिने वरदाच्युत! ॥१२
श्री वेङ्कटवराहाय विश्वमङ्गलकारिणे
भक्तानां रक्षिणे तुभ्यं भगवान्! सततं नमः’’ ॥१३
श्री मार्कण्डेयकृत श्री श्रीनिवासस्तुतिः
इति स्तुत्वाऽथ पीत्वा च तत्पादसलिलं मुदा
निर्गत्य दक्षिणे तीरे जगाम हरिमन्दिरम् ॥१४
नमस्कृत्य विमानान्तः प्रविश्यासौ ददर्श ह
शङ्खचक्रधरं देवं वरदं वारिजेक्षणम्
वेङ्कटेशं प्रणम्यासौ चकार स्तुतिमुत्तमाम् ॥१५
’’भास्वच्चन्द्रसमे यदीयनयने भार्या यदीया रमा
यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा ।
नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे ॥१६
पाहि मां वेङ्कटाधीश! प्रणतार्तिप्रभञ्जन!
आत्मबन्धो! कृपासिन्धो! सततं ते नमो नमः ॥१७
नारायणाद्रिकृतवास! हरे! नमस्ते
नारायणाखिलजगत्पतये नमस्ते
कारुण्यपूर्ण! कमलापतये नमस्ते
कञ्जाक्ष! रक्ष कमनीयतनो! नमस्ते॥१८
१. विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे! वेङ्कटेश प्रसीद प्रसीद;
प्रियं वेङ्कटेश! प्रयच्छ प्रयच्छ ॥१९
२. अहं दूरतस्ते पदाम्भोजयुग्म-
प्रणामेच्छयागत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश! ॥२०
३. अज्ञानिना मया दोषानशेषान् विहितान् हरे!
क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे!’’ ॥२१
मार्कण्डेयः-
इति स्तुत्वा तु भावेन शुद्धेन सह सादरम्
तूष्णीं बभूव पुरतो मस्तके विहिताञ्जलिः ॥२२
[[430431]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे द्वितीयोऽध्यायः
मार्कण्डेयस्य भगवद्दत्त भिक्तिनैरन्तर्यवरप्राप्तिः
तमाह वेङ्कटाधीशो मार्कण्डेयं महामुनिम्
’मार्कण्डेय! महाबुद्धे! प्रसन्नोऽस्मि तवानघ! ॥२३
श्रुत्वा गरुडवाक्यं तदागतो यत् वृषाचलम्
स्तुतिरिछ विहिता सम्यक् तस्मादिष्टं ददामि ते’ ॥२४
इत्युक्तः स मुनिः प्राह ’ममेष्टं किं जनार्दन!
यथा तव स्मृतिर्भूयात् सततं वेङ्कटेश्वर! ॥२५
तथा मां पाहि देवेश! भक्तवत्सल! ते नमः’
तथाऽस्त्विति कृपां कृत्वा हरिः शुद्धमुवाच ह॥२६
शुद्धाख्यागस्त्यशिष्यस्य भगवदनुग्रहेण निष्पापत्वप्राप्तिः
शुद्ध! शुद्ध! दुरन्तानि पापानि विहितानि ते
तानि सर्वाणि शान्तानि सेवया मे न संशयः ॥२७
गुर्वाश्रममितो गत्वा धर्मतन्त्रं समाचर
प्रदक्षिणं मद्विमानं कुरुता’ दिति चोक्तवान् ॥२८
प्रदक्षिणं ततः कृत्वा विमानं सव्प्रुणम्य च
त्रिरावृत्त्या क्वचित्तिष्ठन् शुद्धं मुनिरथाब्रवीत् ॥२९
’कुतस्त्वमागतः शुद्धः! को गुरुः कुत्र वाऽऽश्रमः
त आसन् कानि पापानि शान्तानि हरिसेवया? ॥३०
मार्कण्डेयं प्रति शुद्धकृतस्वोदन्तज्ञापनम्
एतत्सर्वं वद क्षिप्रं सखे! मयि दया यदि’
इति पृष्टोऽगस्त्यशिष्यः ’सखे! शृण्वि’ ति चाब्रवीत् ॥३१
’’यथार्थं शृणु मत्तस्त्वं मार्कण्डेय मुनीश्वर!
काञ्चीदेशे मध्यराष्ट्रे द्विजो बहुकुटुम्ब्यहम् ॥३२
कुटुम्बभरणार्थाय दुर्दानानि गृहीतवान्
वसनासनहीनत्वात् भ्रमामि जगतीतले ॥३३
एकोद्दिष्टं षोडशानि बहु भुक्तानि पापिना
धनं धनमिति भ्रान्तं भ्रान्तचित्तेन केवलम् ॥३४
स्नानं सन्ध्या जपो होमो देवार्चाऽतिथिकर्म च
वैश्वदेवं ब्रह्मयज्ञो न कदाचित् कृतं मया ॥३५
पापिनं मां समालोक्य सर्वे ग्रामे महाजनाः
’’महाब्राह्मण’’ इत्येव शपन्तौ नाम चक्रिरे ॥३६
रेवती नाम मे भार्या मामवोचन्मनीषिणी
’बहूनि पातकान्यत्र कुटुम्बभरणेच्छया ॥३७
कुर्वन्नपि धनं किञ्चित् न प्राप्नोषि क्वचिद्द्विज
प्रेतोद्देशकृता गावो गृहीताः प्रेतभोजनम् ॥३८
प्रेतवासांसि बहुशो निन्द्यं कर्म सदा कृतम्
एवं कृतेषु पापेषु गृहे किञ्चिन्न दृश्यते ॥३९
अद्याऽऽहारो नैव गृहे क्षुधिताः पुत्रबालिकाः
तव मे बालकानाञ्च चादनं नैव विद्यते ॥४०
अतीव दीनोऽहमिति निश्चयं नाधिगच्छसि
’’आयुरारोग्यमैश्वर्यं दातुं सर्वमनोरथम् ॥४१
[[432433]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे द्वितीयोऽध्यायः
सकृदप्यानतिकृतां शक्तो वेङ्कटनायकः’’
इति प्राज्ञा वदन्तीह तत्प्रयाणं कुरु द्विज! ॥४२
उत्तरस्यां दिशि नदी सुवर्णमुखरीति वै
तत्तीरे वेङ्कटो नाम हरिक्षेत्रं महीधरः ॥४३
तत्र वेङ्कटनाथस्य सेवां कर्तुमितो व्रज
लक्ष्म्यंशा योषितः सर्वा इति विद्वद्भिरीरितम्
प्रमाणीकृत्य मद्वाक्यं शीफ्रुं गच्छ सुखाय वै’ ॥४४
शुद्धः-
आकर्ण्य प्रेयसीवाक्यं पञ्चभिर्दिवसैरहम्
सुवर्णमुखरीं प्राप्य अगस्त्याश्रममुपेयिवान् ॥४५
सुवर्णमुखरीतीरे तपस्यन्तं शिवाग्रतः
प्रणाममाचरं दृष्ट्वा ’नमस्तुभ्य’ मिति ब्रुवन् ॥४६
कुम्भोद्भवोऽथ मां दृष्ट्वा कृपालुः ऋषिसत्तमः
’कुतस्त्वं केन दुःखित्वं किं कार्यं?’ इति पृष्टवान्
शुद्धः-
’मां पाहि करणासिन्धो पापिनामपि पापिनाम् ॥४८
मत्कृत्यं तपसा सर्वं त्वमेव ज्ञातुमरछसि
काञ्चीप्रदेशे मद्ग्रामः तद्ग्रामस्य महाजनाः ॥४९
पापीति कृत्वा मां सर्वे ’महाब्राह्मण’ मब्रुवन्
तस्मादहं दुःखितः स वेङ्कटाद्रीच्छयाऽऽगतः ॥५०
मत्पुण्येन भवान् मध्ये मार्गे दृष्टोऽसि केवलम्
पूर्वपुण्यविपाकेन दृश्यन्ते खलु सज्जनाः ॥५१
प्रतिगृह्णीष्व मां शिष्यं तव शिष्योस्मि साव्प्रुतम्
पापोऽहं पापकर्माणं पावनीकुरु मां मुने’! ॥५२
इति वादिनमालोक्य मामुवाच महामुनिः
बहु त्वया कृतं पापं विदितं तपसा मम ॥५३
बुद्धिर्वेङ्कटयात्रायां यतः शुद्धोऽसि साव्प्रुतम्
’अयं शुद्धोऽस्त्वि’ति ब्रूत सर्वे विप्रा इति ब्रुवन् ॥५४
मामाह त्वरितं गत्वा वेङ्कटाह्वयभूधरम्
भूवराहञ्च ल्क्ष्मीशं सेवित्वा पुनराव्रज ॥५५
नष्टपापस्य ते पश्चात् श्रेयो दास्यामि मा चिरम्’
इत्येवमुक्त्वा भगवानगस्त्यः
सेवाक्रमं चापि ममोपदिश्य।
प्रस्थापयामास तदाऽऽगतोऽहं
मार्गे भवन्तं खलु दृष्टवान् मुदा॥५६
एवं त्वगस्त्यशिष्योऽहं शुद्धनामाऽस्मि साव्प्रुतम्
याम्याश्रमं नदीतीरे ह्यगस्त्यस्य दयानिधेः ॥५७
वेङ्कटाचलमाहात्म्यविदामग्रेसरं मुनिम्
द्रष्टुं मया सह त्वञ्च किमायासि वदाधुना’’ ॥५८
मार्कण्डेयस्य शुद्धेन सह सुवर्णमुखरीतीरस्थागस्त्याश्रमगमनम्
इति ब्रुवन्तं तं शुद्धं मार्कण्डेयोऽब्रवीद्वचः
’अहमप्यागमिष्यामि द्रष्टुं तं मुनिपुङ्गवम् ॥५९
[[434435]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे द्वितीयोऽध्यायः
सुवर्णमुखरीतीरे मां नयस्व तदाश्रमम्’
इत्युक्त्वा सहितौ विप्राववरुह्य गिरेरधः ॥६०
सुवर्णमुखरीतीरे त्वगस्त्याश्रममीयतः
तत्राऽऽश्रमे महर्षिभिः सेव्यमानमनेकशः ॥६१
वेङ्कटेशकथाव्याख्यातत्परं तमपश्यताम्
तेभ्यो नमस्कृत्य तदा तं प्रणम्य विशेषतः ॥६२
तपोधनेनागस्त्येन बहुमानेन पूजितौ
मार्कण्डेयश्च शुद्धश्च तस्मिन् सदसि तस्थतुः ॥६३
अगस्त्यवर्णित श्रीवेङ्कटाचलवैभवम्
विप्रा वेङ्कटमाहात्म्यं शृणुतेति प्रसन्नधीः
उवाचाऽनन्दभरितो लोपामुद्रापतिस्तदा ॥६४
अगस्त्यः-
’सुवर्णमुखरीतीरद्वयनित्यनिवासिनः
वेङ्कटाचलमाहात्म्यं श्रोतव्यं पापनाशनम् ॥६५
श्रीवेङ्कटाचलो नाम पुण्यक्षेत्रं महीतले
शेषाद्रिर्वृषशैलश्च गरुडाचल इत्यपि
पुण्यानि सन्ति नामानि पुनरन्यानि कानिचित् ॥६६
वैकुण्ठलोकात् गरुडेन विष्णोः
क्रीडाचलो वेङ्कटनामधेयः ।
आनीय च स्वर्णमुखीसमीपे
संस्थापितो विष्णुनिवासहेतोः ॥६७
तत्राचले वसन् विष्णुः कमलालयया सह
आनन्दनिलये चै व वर्तते लोकरक्षकः ॥६८
श्रीनिवाससेवार्थं ब्रह्मरुद्रादीनां श्रीवेङ्कटाचलगमन वर्णनम्
पुरा कदाचित् कतिचित्समेता
वयं हरिं सर्वजगच्छरण्यम् ।
अन्विष्य वैकुण्ठपुरेऽप्यदृष्ट्वा
समागता ब्रह्मगिरा वृषाद्रिम् ॥६९
समागतास्तत्र तपो विधातुं समाः शतं सर्वतपस्विसङ्घाः
श्रीस्वामितीर्थस्य जले पवित्रे स्नानादि सर्वं कृतवन्त एव ॥ ७०
तत्राऽगता ब्रह्ममुखाः समस्ताः
तत्राऽगता जिष्णुमुखाः सुराश्च ।
तत्राऽगतास्ते सनकादियोगिनः
सेवापरास्ते वृषशैलभर्तुः ॥७१
गणैश्च सर्वैः सह शम्भुरागतः क्षीराब्धिवासा अपि सिद्धसङ्घाः
बृहस्पतिश्चैव गुरुश्च शुक्रो वसुश्च राजा हरिभक्तमुख्यः ॥
७२
देवाश्च ऋषयः सिद्धाः चारणा वसुकिन्नराः
सर्वे च स्वामिसरसि स्नात्वा प्रयतमानसाः
ध्यायन्तो देवदेवेशमवतस्थुश्च तत्तटे ॥७३
श्रीभगवत्प्रादुर्भाववर्णनम्
प्रादुर्भूतं ततस्तेज एकमत्यद्भुतं तदा
विमानमेकं तन्मध्ये ददृशे दिव्यमङ्गलम् ॥७४
[[436437]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे द्वितीयोऽध्यायः
तन्मध्यस्थं दिव्यमूर्तिं वरेण्यं
शङ्खं चक्रं धारयन्तं कराभ्याम्।
सेव्यत्वेन स्वं पदाम्भोजयुग्मं
सर्वेषां सन्दर्शयन्तं करेण ॥७५
स्वाङ्घ्रिद्वन्द्वं संश्रितानां जनानां
संसाराब्धिर्जानुदघ्नः किलेति ।
न्यस्तेनोरौ वामतो दर्शयन्तं
सव्येनान्येनापि हस्तेन सम्यक्७६
सर्वाभीष्टं दातुमुद्युक्तहेतिं
भक्तानां श्रीवासवक्षःस्थलञ्च ।
मन्दस्मेरश्रीमुखं भूषणाढ्यं
सर्वे श्रीमद्वेङ्कटेशं ह्यपश्यन् ॥७७
कृतप्रणामान्ते सर्वे स्तोत्रयामासुरीश्वरम्
ब्रह्मरुद्रादिकृत श्री श्रीनिवासस्तुतिः
’’जय देव! जगन्नाथ! सर्वलोकैकवन्दित! ॥७८
जय वेङ्कटशैलेश! करुणाकर! पाहि नः
त्वां नमामो वयं विष्णो! वेङ्कटाचलनायक! ॥७९
अस्माकं वाञ्छितं दत्वा पाहि पाहि जगद्गुरो’’
इति स्तुतः श्रीनिवासो देवैः सिद्धैश्च चारणैः ॥८०
मुनिभिर्वसुमुख्यैश्च ब्रह्माद्यैः शङ्करेण च
सर्वान् विलोक्य तानाह करुणापयसां निधिः ॥८१
’सर्वेषामपि युष्माकं प्रसन्नोऽस्मि सुरेश्वराः!
युष्माकं यद्यदिष्टं स्यात् तत्तद्दत्तं मयाऽनघाः’ ॥८२
इति तेभ्यो वरं प्रादात् सर्वेभ्यो वेङ्कटेश्वरः
अथ ते मुनयः सर्वे ब्रह्माद्याः किञ्चिदब्रुवन् ॥८३
’’कृपानिधे! नमस्तुभ्यं वरदाय नमो नमः
वेङ्कटाधीश! विश्वेश! शतकृत्वो नमो नमः ॥८४
विज्ञाप्यं किञ्चिदस्तीह शृणुष्व करुणाकर!
अनुगृह्णन्नशेषांस्त्वं दददिष्टानि सर्वशः ॥८५
मानवानामपि सहन् अपराधानशेषतः
दयालुत्वं प्रकटयन् इह त्वं तिष्ठ केशव! ॥८६
दृग्गोचरं त्वामालोक्य वेङ्कटाद्रिशिरोमणे!
कलौ युगे मनुष्याश्च भूयासुर्वीतकल्मषाः ॥८७
एवं सर्वोपकारार्थं अत्र स्वामिसरस्तटे
रमासमेतः सन्तिष्ठस्वैतन्नः प्रार्थितं हरे’’
इति सव्प्रूर्थितः सर्वैः तत्रैवाऽऽस्ते कृपानिधिः ॥ ८८
इति श्रीमार्कण्डेयपुराणे श्री वेङ्कटाचलमाहात्म्ये
श्री श्रीनिवासाविर्भाववर्णनं नाम द्वितीयोऽध्यायः.
[[438439]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे द्वितीयोऽध्यायः
तृतीयोऽध्यायः
अथ तृतीयोऽध्यायः
अगस्त्यकृत श्रीस्वामितीर्थमाहात्म्यभगवद्दिव्योत्सवयोर्वर्णनम्
अगस्त्यः-
एतादृशो वेङ्कटाद्रिः सर्वलोकेषु विश्रुतः
गङ्गादिकानि तीर्थानि तत्र सन्ति बहून्यपि ॥१
तानि वक्तुं न शक्नोमि बहुत्वात् ऋषिसत्तमाः!
राजते सर्वतीर्थानां स्वामि स्वामिसरोवरम् ॥२
तत्र स्नातुं समायान्ति प्रतिवर्षं जना भुवि
धनुर्मासे शुक्लपक्षे द्वादश्यामरुणोदये ॥३
आया न्ति सर्वतीर्थानि तत्र स्नाता निरेनसः
तस्य श्रीवेङ्कटेशस्य ब्रह्मा लोकपितामहः ॥४
चकार कन्यामासे तु ध्वजारोहमहोत्सवम्
प्रतिवर्षञ्च तत्सेवानिमित्तं सर्वमानवाः॥५
अङ्गकोसलकर्णाटकाशीगुर्जरदेशगाः
चोलकेरलपाण्ड्यादिसर्वदेशमुद्भवाः ॥६
सकुटुम्बाश्च सेवार्थं आयान्ति प्रतिवत्सरम्
देवाश्च ऋषयः सिद्धा योगिनः सनकादयः ॥७
ये भाद्रपदमासे तु वेङ्कटेशमहोत्सवे
सेवां कुर्वन्ति ते सर्वे निष्पापा उत्तमोत्तमाः ॥८
पुनस्त्वहं प्रवक्ष्यामि तीर्थवैभवमद्भुतम्
तच्छृणुध्वं सावधानं श्रवणेऽपि महाफलम् ॥९
उत्तरे स्वामितीर्थस्य पापनाशनसञ्ज्ञकम्
तीर्थं महत्सर्वपापविनिर्मोचनसाधनम् ॥१०
कुमारधारामाहात्म्यम्
ततो वायव्यदिग्भागे कौमारं तीर्थमुत्तमम्
’कुमारधारिका’ चेति नाम लोके प्रशस्यते ॥११
अद्भुतं तस्य माहात्म्यं शृणुत द्विजपुङ्गवाः!
पुरा कश्चित् द्विजो वृद्धो दारिद्र्येण च पीडितः ॥१२
कुटुम्बभरणायोग्यो विललाप दिवानिशम्
’इह लोके परे लोके सौख्यहेतुर्धनं किल ॥१३
तन्नास्ति मम पापेन पूर्वजन्मकृतेन च
परलोकहितं धर्माचरणेन हि साध्यते ॥१४
शक्तिस्तदस्ति कर्तुं न वृद्धत्वाद् दुर्बलस्य मे
वृथा जन्म ममैतद्धि कर्तव्यं किमतः परम्’ ॥१५
इति निन्दापरो भूत्वा पुत्रदारान् विहाय च
आगत्य दुःखितः सोऽथ स्वर्णमुख्याः समीपतः ॥१६
दारिद्र्यदुःखासहमानवृद्धद्विजकृतभृगुपतनयत्नः
’अहं शेषाद्रिशिखरात् पतिष्ये’ इति निश्चितः
आरुह्य वेङ्कटं शैलं भृगोः पातसमीहया ॥१७
उच्चैःस्वरेण चुक्रोश तत्र स्थित्वा स भूसुरः
’ब्रह्मविष्णुमहेशानाः! चन्द्रसूर्यौ तथाऽश्विनौ! ॥१८
[[440441]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे तृतीयोऽध्यायः
सर्वभूतानि शृण्वन्तु दुःखितस्य वचो मम
दारिद्र्यात् वृद्धभावाच्च जन्म व्यर्थमभूदिति ॥१९
पतिष्येऽहं पतिष्येऽहं पतिष्येऽहं न संशयः’
इत्याक्रोशन्तमागत्य वेङ्कटेशो ददर्श ह ॥२०
मृगयारसिकस्तत्र सञ्चरन् मुनिपुङ्गवम्
अधस्तात् पर्वतप्रान्ते राजपुत्राकृतिं दधत् ॥२१
भृगुपतनोद्युक्तं वृद्धं प्रति भगवदुक्तिः
हस्तमुद्धृत्य तं पश्यन् उवाचेदं द्विजं तदा
’विप्र! विप्राऽवरोह त्वं मा साहसमिदं कुरु ॥ २२
विप्रस्य तु भृगोः पातः शास्त्रेषु न हि निश्चतः
तस्मात् प्रेत्य च दुःखाय मा साहसमिदं कुरु ॥ २३
मयोच्यते तव हितं अवरुह्य शृणुष्व तत्’
श्रुत्वेति तं नृपाकारं दृष्ट्वा वृद्धो महीसुरः ॥२४
अवरुह्य तमाहेदं पुण्यात् शैलोत्तमात् तदा
’पुत्रदारांश्च मां रक्ष महैश्वर्यप्रदो भव’ ॥२५
इत्युक्तवति विप्रेऽस्मिन् माधवो वाक्यमब्रवीत्
’सर्वं ददामि हस्तं त्वमवलम्ब्यानुयाहि माम्’ ॥ २६
वृद्धस्य कुमारधारास्नानेन कौमारसम्पत्प्राप्तिः
इत्युक्तस्तत्करालम्बं कृत्वा मन्दं ययौ द्विजः
तमादाय हरिः श्रीमद्वेङ्कटाचलनायकः ॥२७
पापनाशादुत्तरतः एत त्तीर्थं निनाय तम्
उवाच खिन्नं स भृशं खेदशान्त्यर्थमत्र वै ॥२८
’स्नानं कुरु ततः खेदशान्तिस्तत्र भविष्यति’
इत्युक्ते तत्र तत्तीर्थे स्नात्वोत्थाय युवाऽभवत् ॥२९
मनः प्रसन्नतां यातं कुमारश्च तदाऽभवत्
तीरं तु सर्वतः पश्यन् तमदृष्ट्वाऽन्वतप्यत ॥३०
मदिष्टदेवो मामत्र त्यक्त्वा कुत्र गतो नु किम्’
अन्तरिछतः स भगवान् आकाशस्थोऽब्रवीदिदम् ॥३१
कुमारधारास्नानप्राप्तयौवनवृद्धं प्रति अन्तरिछतभगवदुक्तिः
’अयं तु वेङ्कटाधीशः तव स्वामी न संशयः
दत्तं तव कुमारत्वं तीर्थस्नानेन भूसुर! ॥३२
वेङ्कटेशेन ते दत्त मैश्वर्यमिह भूसुर!
त्वद्देशं गच्छ शीफ्रुं वै स्त्रीबालसहितो भव ॥३३
शरीरे च बलं जातं शारीरं धर्ममाचर
दानानि दिश विप्रेभ्यो बन्धुभ्यश्च धनं दिश ॥३४
भोजनं दिश विप्रेभ्यः स्वयं भुङ्क्ष्व यथासुखम्
अनिषिद्धसुखत्यागी पशुरेव न संशयः ॥३५
निषिद्धसुखभोक्ता च पशुरेव न संशयः
’’श्रीवेङ्कटेशः प्रीयता’’ मित्येव सकलं कुरु ॥३६
स्त्रीत्यागभोगाकरणे निन्द्यमेव विदुर्बुधाः’
इत्युक्ते सर्वदेवाश्च समागत्याऽब्रुवन् वचः ॥३७
[[442443]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे तृतीयोऽध्यायः
’अस्य तीर्थस्य महिमा ह्यहो! वाचामगोचरः
कुमारत्वं धनित्वञ्च सद्य एव द्विजोऽभवत् ॥३८
यतः कुमारतां यातः सद्यो वृद्धमहीसुरः
तस्मात् ’कुमारधा’ रेति लोके ख्यातिं गमिष्यति ॥३९
कुमारतीर्थे यः स्नातो निष्पापः स सुखी भवेत्’
इत्युक्त्वा सर्वदेवेषु गतेषु त्रिदिवं द्विजः ॥४०
यातः स्वदेशं सन्तोषात् महदैश्वर्यमाप्तवान्
पुत्रदारादिसहितो बहु धर्मं चकार ह ॥४१
’’श्रीवेङ्कटेशः प्रीयता’’ मित्येव कथयन् सदा
दृष्टं फलमवाप्यान्ते विष्णुलोकं जगाम ह
’कुमारधारिके’त्येव विष्णुनाऽप्येकदोदितम् ॥४२
तत्कदाऽऽगत्य देवेन विष्णुना प्रभविष्णुना
कुमारधारिकेत्येतदुक्तं तद्विस्तराद्वद ॥४३
इति श्रीमार्कण्डेयपुराणे श्री वेङ्कटाचलमाहात्म्ये कुमारधारा
माहात्म्यवर्णनं नाम तृतीयोऽध्यायः.
चतुर्थोऽध्यायः
अथ चतुर्थोऽध्यायः
स्कन्दस्य कुमारधारातीर्थे तपःकरणेन तारकवधोत्थ
ब्रह्महत्याविमुक्तिः
अगस्त्यः-
कुमारधारिकाख्यानं वेङ्कटेशकथाऽन्वितम्
सर्वे शृणुत विप्रेन्द्राः! वाजपेयफलादिकम् ॥१
कदाचिच्छङ्करसुतः तारकाख्यं महासुरम्
हत्वा तत्कर्मपाकेन ब्रह्महत्यामवाप्तवान् ॥२
शम्भोः सकाशमागत्य दुःखितस्तारकान्तकः
उवाच पितरं ’स्वामिन्! मत्पापं शृणु मे पितः! ॥३
देवानामुपकारार्थं तारको निहतो मया
तेन तस्य वधेनैव हत्वा मां बाधतेऽधिकम् ॥४
तत्प्रायश्चित्तमधुना प्रब्रूहि मम शङ्कर’!
सर्वज्ञः शङ्करः प्राह पुत्रं देवहितावहम् ॥५
सकृत् ’’नारायणे’’ त्युक्त्वा पुमान् कल्पशतत्रयम्
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक! ॥६
एतत्प्राह रहस्यं वै सदा मनसि तिष्ठतु
अन्यच्च किञ्चित्ते वक्ष्ये प्रायश्चित्तमनुत्तमम् ॥७
सुवर्णमुखरीतीरे लक्ष्मीपतिनिवासभूः
वेङ्कटाद्रिरिति ख्यातः सर्वलोकेषु वर्तते ॥८
[[444445]]
तत्र तीर्थान्यनन्तानि तेषु किञ्चिद्वदामि ते
चक्रतीर्थं स्वामितीर्थं मत्स्यपाण्डवतीर्थकम् ॥९
नागतीर्थं बिल्वतीर्थं जाबालेस्तीर्थमेव च
आकाशगङ्गातीर्थञ्च पापनाशनमेव च ॥१०
तुम्बुवामनतीर्थे च कौमारं मुख्यमेव च
वेङ्कटाचलतीर्थानि यः कीर्तयति सर्वदा ॥११
अनेकज्न्मपापानि नश्यन्त्येव न संशयः
स्वामितीर्थस्य तीरे तु श्रीनिवासः परात्परः ॥१२
नित्यं वसति सर्वेषां लोकानां हितकाम्यया
तत्र वेङ्कटशैलेशं ’वेङ्कटेशे’ ति सर्वदा ॥१३
यो वै स्मरति तं नित्यं तस्य विष्णुः प्रसीदति
गत्वा तञ्च प्रणम्य त्वं कौमारं व्रज तीर्थकम् ॥१४
तत्र स्नात्वा तीर्थवर्ये त्रिकालं विजितेन्द्रियः
’’श्रीवेङ्कटेशाय नमः’’ एवं प्रणवपूर्वकम् ॥१५
मन्त्रं जपन् महाबुद्धे! तपः कु’ र्वित्यचोदयत्
पितृवाक्यं ततः श्रुत्वा देवसेनापतिस्तदा ॥१६
चक्रतीर्थे कृतस्नानः स्वामिपुष्करिणीं ययौ
वेङ्कटाद्रेः क्रोशमात्रे क्रोशन्ती विस्वरं स्थिता ॥१७
ब्रह्महत्या तस्य गिरेः माहात्म्यं वर्ण्यते कथम्!
प्रयातः स्वामिसरसि स्नात्वा सूनुरुमापतेः॥१८
वेङ्कटेशं प्रणम्याऽथ कृत्वा चापि प्रदक्षिणम्
’ब्रह्मरुद्रादिवन्द्यं त्वां भजे वेङ्कटनायकम् ॥१९
निवारयन्ननिष्टानि साधयेष्टानि माधव’
इति स्तुत्वा वेङ्कटेशं पापनाशनमाययौ ॥२०
तत्र स्नानेन सर्वाणि पापानि विलयं ययुः
ततो वायव्यदिग्भागे काञ्चिद्धारां जगाम सः ॥२१
धारारूपेण पतितां अत्यन्तगिरिगहछरे
चूतमन्दारपनसकुटजैश्चापि चार्जुनैः ॥२२
नयनानन्दजननैः बहुशाखिभिरावृते
सिंहशार्दूलशरभैः हरिणादिमृगान्विते ॥२३
तापसैर्नियताहारैः तपोनिष्ठैः समन्विते
तस्मिंस्तीर्थे कृतस्नानः कृतदेवर्षितर्पणः ॥२४
वसानो वाससी शुद्धे यतवाक्कायमानसः
प्राङ्मुखः सुखमासीनो वेङ्कटेशमनुस्मरन् ॥२५
लक्ष्मीमहीभ्यां सहितं भूषणोत्तमभूषितम्
स्मेराननाम्बुजं पीतवाससं तमधोक्षजम् ॥२६
महादेवोक्तमन्त्रेण जपं कुर्वन् दिवानिशम्
फलाहारो जलाहारो निराहारस्ततः स्थितः ॥२७
कुमाराधारातीरे स्कन्दतपस्तुष्टभगवदाविर्भावः
तपः कुर्वति शेषाद्रौ नीलकण्ठात्मजे शुभे
कुम्भमासे पौर्णमास्यां मघायां सौम्यवासरे ॥२८
[[446447]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे चतुर्थोऽध्यायः
मध्याह्ने प्रादुरभवत् यथा मनसि चिन्तितः
’’भोः कुमार! कुमारे’’ति प्राह गम्भीरया गिरा
उन्मील्य चक्षूंषि तदा षण्मुखोऽपश्यदन्तिके ॥२९
शङ्खं चक्रं धारयन्तं कराभ्यां
फलप्रदर्श्यूरुगवामहस्तम् ।
’’प्राप्ये इमे’’ इत्यपरेण पादौ
सन्दर्शयन्तं करपङ्कजेन ॥३०
लक्ष्मीमहीभ्यां ललिताकृतिभ्यां
अशेषभूषोत्तमभूषिताभ्याम्।
अतिप्रसन्नाननपङ्कजाभ्यां
निषेव्यमाणं नितरां प्रहृष्टम् ॥३१
दृष्ट्वोत्थितो देववरः कुमारः
प्रदक्षिणानां त्रितयं विधाय
प्रणम्य साष्टाङ्गमनन्यचेताः
कृताञ्जलिः स्तोत्रमथो चकार ॥३२
’’जय देव! जगन्नाथ! जय लक्ष्मीपते! हरे!
जय लोकेश! सर्वेश! दोषापह! नमो नमः’’ ॥३३
भगवत्सेवार्थं कुमारधाराव्प्रुति ब्रह्मरुद्राद्यागमनम्
सर्ववाद्यान्यवाद्यन्त शङ्खध्वनिरभून्महान्
तुम्बुरुर्नारदश्चैव वीणाहस्तौ समागतौ
ब्रह्मा च स्कन्दसान्निध्यं ज्ञात्वा सर्वैः समागतः ॥३४
पार्वतीसहितः शम्भुः पुत्रस्नेहादुपागतः
आरुह्य वृषभं विघ्नराजाद्यैः प्रमथैर्वृतः ॥३५
इन्द्रादयो लोकपालास्त्वशेषा अमृतान्धसः
वैखानसा वालिखिल्या ऋषयो ये तपोधनाः ॥३६
गन्धर्वाप्सरसां सङ्घा नागविद्याधरादयः
ये देवयोनयः सन्ति तेऽपि सर्वे समागताः ॥३७
’’जय जय वेङ्कटशैलनाथ! विष्णो!
मुनिजनसेवित! शेषशैलवास!
सकलजनहितावतीर्ण! देव!
जय जय भक्तजनाभिराम! पाहि’’३८
इति स्तुत्वा प्रणम्याऽथ ददृशुर्वेङ्कटेश्वरम्
श्रीभूमिसहितं विष्णुं चतुर्बाहुं किरीटिनम् ॥३९
शङ्खचक्रधरं देवं वनमालाविभूषितम्
शेषेण पक्षिराजेन विष्वक्सेनेन पार्षदैः ॥४०
प्रत्यहं सेव्यमानञ्च प्रह्लादादिभिरेव च
शुकेन शुकसन्तानैः छत्रचामरधारिभिः
प्रसन्नं वेङ्कटाधीशं प्रणम्य पुनरुत्थिताः ॥४१
व्यासादयः प्रणम्याऽथ सर्वे तूष्णीं स्थितास्तदा
सर्वेषु शृण्वत्सु तदा हरसूनुस्तमब्रवीत् ॥४२
[[448449]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे चतुर्थोऽध्यायः
स्कन्दकृत श्री श्रीनिवासस्तुतिः
’’नमाम्यहं वेङ्कटनाथ! विष्णो!
नारायणाशेषजगन्निवास ।
भक्तार्तिहारिन्! भगवन्! मुरारे!
भान्विन्दुनेत्राखिललोकपूज्य! ॥४३
ब्रह्मरुद्रादिवन्द्याय ब्रह्मणेऽनन्तशक्तये
नारायणगिरीशाय नमो नारायणाय ते ॥४४
देवाधिदैवतपते! सततं नमस्ते
सेवापरेषु सुतरां करुणाकराय
दावानलाय महते दनुजाटवीनां
श्रीवास! वक्षसि धृतोत्तमकौस्तुभाय ॥४५
पश्यन्ति त्वां भाग्यवन्तो हि लोके
विश्वत्राणायोद्यतं वेङ्कटेशम् ।
लक्ष्मीभूभ्यां पार्श्वयुग्मस्धिताभ्यां
द्वाभ्यां नित्यं सेवितं नित्यबन्धुम् ॥४६
अहो! भाग्यमहो भाग्यम्! अहो भाग्यमहो महत्
वेङ्कटेशं कृपासिन्धुं दृष्टवानस्मि साव्प्रुतम्’’ ॥४७
इत्युक्त्वा पार्वतीपुत्रः प्रेमावेशवशात्तदा
अशेषवदनैर्विष्णुं आबभाषे घनध्वनिः ॥४८
’’चक्षूंषि मे कृतार्थानि दर्शनाद्वेङ्कटेश! ते
श्रीसूक्तामृतसेकेन कर्णानपि तथा कुरु’’ ॥४९
इति वादिनि पुत्रे तु महादेवमुवाच ह
हरिः स्मेरमुखाम्भोजः शृण्वत्सु सकलेष्वपि ॥५०
’धन्योऽसि सुतरां शम्भो! सत्पुत्रेणाऽमुना त्वहो!
अनेकजन्मतपसां फलं सत्पुत्रता खलु ॥५१
अनेकजन्मपापानां फलं दुष्पुत्रता भुवि’
इत्युक्त्वा पुनरूचे तं तनयं शूलपाणिनः ॥५२
’धन्योऽसि कृतकृत्योऽसि वरं वरय साव्प्रुतम्
तपसा तव सन्तुष्टिः स्तोत्रेण च ममाभवत् ॥५३
प्रमाणीकृत्य वचनं पितुः प्रामाणिकोत्तम!
द्वादशाब्दं तपः कृत्वा शान्तोऽसीह सुखी भव’ ॥५४
स्कन्दः-
अतः परं किं करणीयमास्ते
मयाद्य लब्धा तव देव सेवा ।
समस्तलोकैरपि वेङ्कटेश!
सव्प्रूर्थ्यते तावकपादसेवा ॥५५
अहो! ह्यस्यापि भूभर्तुः महिमा सुतरां हरेः!
ममाद्य तारकवधोद्भूता हत्या पृथक् स्थिता
श्रीनिवास दयाम्भोधे! दुरितक्षयकारक! ॥५६
भगवद्वर्णितकुमारधारास्नानकालादिनिर्णयः
श्रीभगवान्-
’’मदीयं मन्त्रमुच्चार्य सुखी भव महामते!
एतत्पर्वतमारोढुं वाञ्छा यस्याविवेकिनः ॥५७
[[450451]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे चतुर्थोऽध्यायः
पातकं दूरतो नश्येत् किमु भक्तिमतस्तव
तत्रापि स्वामिसरसि स्नानं कोट्यघनाशनम् ॥५८
शृण्वन्तु देवताः! सर्वाः शृणु स्कन्द! वचो मम
’कुमारधारिके’त्येव त्वन्नाम्नेदं भविष्यति ॥५९
तत्र स्नाति पुमान् स्त्री वाऽवश्यं कोऽपि तु मानवः
तस्य पापानि नश्यन्ति सत्यं सत्यं वदाम्यहम् ॥६०
यो माघमासे वरपञ्चदश्यां
मघायुतायामथवाऽपि कश्चित् ।
स्नात्यत्र भक्त्या च कुमारधारिका-
तीर्थे स वन्द्यो विधिरुद्रजिष्णुभिः ॥६१
मदाविर्भावदिवसे यः स्नाति मनुजोत्तमः
तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥६२
वर्षे वर्षे च दिवसे स्नातव्यमखिलैरपि
कुमारधारिकास्नानमशेषाघहरं विदुः ॥६३
तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते
तस्मिंस्तीर्थे स्वर्णदानं अणु मेरुसमं भवेत् ॥६४
वस्त्रादानञ्च गोदानं भूदानञ्च ततोऽधिकम्
यो वा ददाति मत्प्रीत्या तस्य लक्ष्मीर्गृहे स्थिता ॥६५
अन्नं ददाति चैकस्मै तत्तीर्थदिवसे तु यः
फलं स लभते विप्रः सहस्रान्नप्रदानजम् ॥६६
प्रपां यः कुरुते मार्गे शीतलोदकपूरिताम्
तत्सन्ततिमहं सर्वां रक्षामि कृपयाऽनघ ॥६७
ताम्बूलं चन्दनं वाऽपि ब्राह्मणानां ददाति यः
ते निष्पापा भवन्त्येव दशपूर्वैर्दशापरैः ॥६८
कुम्भमासे पौर्णमास्यां प्रादुर्भावदिने हरेः
कुमारधारिकास्नानं कुलकोटिं समुद्धरेत्’’ ॥६९
इति मन्त्रं समुच्चार्य स्नात्वाऽनन्तफलं लभेत्
वर्षे वर्षे कुम्भमासे पौर्णमास्यां मघायुजि ॥७०
देवा मनुष्याः सर्वे च स्नातुमायान्तु सर्वदा
पुण्यदेशेषु सर्वेषु वेङ्कटाद्रिर्विशिष्यते ॥७१
तत्र सर्वेषु तीर्थेषु स्वामिपुष्करिणी वरा
ततोऽप्येतद्वरं तीर्थं मदाविर्भाववासरे ॥७२
इह शम्भुकुमार! त्वं आकल्पं पूजयन् वस
एतत्तीर्थस्य माहात्म्यं बुद्ध्वा वै सर्वदेवताः ॥७३
प्रतिवर्षं स्नातुमत्र मां द्रष्टुञ्च तपोधनाः
आयान्ति सावधानं वै ममाऽविर्भाववासरे ॥७४
तस्माच्छम्भुकुमार! त्वं सर्वदा वस पर्वते’
इत्युक्त्वा तं तु हस्तेन पस्पर्श गुहमच्युतः ॥७५
इति श्रीमार्कण्डेयपुराणे श्रीवेङ्कटाचलमाहात्म्ये कुमारधारा-
स्नानेन स्कन्दस्य तारकवधजनितब्रह्महत्याविनिर्मुक्ति
वर्णनं नाम चतुर्थोऽध्यायः
[[452453]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे चतुर्थोऽध्यायः
पङ्चमोऽध्यायः
अथ पङ्चमोऽध्यायः
अगस्त्यादीनीं कुमारधारातीर्थस्नानार्थं श्रीवेङ्कटाचलागमनम्
अगस्त्यः-
’ततस्तु देवा ऋषयश्च सर्वे
गन्धर्वविद्याधरयक्षसिद्धाः
’’आश्चर्यमाश्चर्य’’ मिति ब्रुवाणा
दिव्यं हरेर्नाम च कीर्तयन्तः ।
कुमारधारां सततं स्तुवन्तो
ययुः स्वधामानि मुदान्वितास्ते ॥१
शिवात्मजोऽपि तत्रैव भजन् वेङ्कटनायकम्
कुमारधारिकातीरे तिष्ठत्येव चिरं किल ॥२
वर्षे वर्षे समायान्ति सिद्धगन्धर्वदानवाः
ऋषयश्च तथा सर्वे भूलोके प्राणिनस्तथा ॥३
स्नातुं तस्मिन् महातीर्थे त्वहो वेङ्कटवैभवम्
सुवर्णमुखरीतीरे लोपामुद्रापतिः स्वयम्’ ॥४
इत्युक्त्वा मुनिमुख्येभ्यः पुनरेवमुवाच ह
’’पञ्चषेभ्यो दिनेभ्योऽथ सेयं पञ्चदशी शुभा ॥५
यूयं सर्वेऽपि मुनयो मार्कण्डेय! महामुने!
शुद्धकाञ्चीप्रदेशीया! सर्वे गच्छत वेङ्कटम् ॥६
पुनः स्वामिसरस्तीरे वेङ्कटेशं विलोक्य च
तदुत्तरे पापनाशतीर्थे स्नानादिकारिणः ॥७
कुमारधारिकां गत्वा स्नानं कुरुत सत्तमाः
सर्वपापविशुद्ध्यर्थं ऐश्वर्यसमवाप्तये ॥८
मार्कण्डेय! महाभाग! किं तीर्थाचरणेन ते
सर्वतीर्थस्नानफलं अमुनैव भविष्यति’ ॥९
श्रीसूतः-
इत्युक्त्वा सर्व एवैते समारुह्य वृषाचलम्
स्वामिपुष्करिणीस्नानं कृत्वा दृष्ट्वा च केशवम् ॥१०
पूर्णिमादिवसे माघे पापनाशे कृताऽऽप्लवाः
कुमारधारिकातीर्थे स्नातुं सर्वे समागताः ॥११
समस्तदेशजान् मर्त्यान् सर्वान् देवान् ऋषीनपि
योगिनः सनकाद्यांश्च सिद्धगन्धर्वकिन्नरान् ॥१२
समागतान् स्वर्णमुखीतीरजान् ऋषिसत्तमान्
अगस्त्यशिष्यं शुद्धञ्च मार्कण्डेयमथाग्निजः ॥१३
दृष्ट्वा स स्नातुमायातान् प्रहृष्टहृदयोऽभवत्
सर्वे कुमारधारायां सस्नुः सङ्कल्पपूर्वकम् ॥१४
वेङ्कटेशार्पणं कृत्वा दानं चक्रुश्च केचन
गन्धर्वयक्षोरगसिद्धसाध्यदेवादिबृन्देष्वपि तीर्थवर्ये
स्नातेषु सर्वेषु मुदाऽन्वितोऽसौ
सस्नौ स्वयं शङ्करनन्दनोऽपि ॥१५
[[454455]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे पञ्चमोऽध्यायः
विष्णोर्नुकञ्च श्रीसूक्तं भूसूक्तञ्च जपन् सदा
तीरमारुह्य विप्राणां नमश्चक्रे प्रसन्नधीः ॥१६
’नमो ब्रह्मण्यदेवाये’ त्युच्चरन् पार्वतीसुतः
तदा प्रादुरभूद्देवो वरदः शङ्खचक्रधृक् ॥१७
पश्यन्तस्तं सिन्धुजाकाश्यपीभ्यां
युक्तं देवा ऋषयो मानुषाश्च
मार्कण्डेयः स्वर्णमुख्या द्विजाश्च
शुद्धास्तेनुः सर्व एव प्रणामम् ॥१८
लक्ष्मीमहीसेवित! वेङ्कटेश!
कृपानिधे! कृष्ण! जगत्त्रयेश!
मां पालयाऽनाथ!नाथबन्धो!
नमो नमस्ते चरणाम्बुजाय’’ ॥१९
इति कृतनतीन् दृष्ट्वा देवः प्रसन्नमनास्तदा
विजितजलदध्यानं वाक्यं स्वयं हरिरब्रवीत् ।
’इह विधिकृतं स्नानं दानं मम प्रियबुद्धितः
सकलदुरितं हत्वा दत्ते सुखान्यखिलान्यपि ॥२०
मार्कण्डेय! महाबुद्धे! सर्वतीर्थफलं तव
अनेन दत्तं शुश्रूषां मातापित्रोः कुरुष्व ह॥२१
अगस्त्यशिष्य! विप्रेन्द्र! त्वत्पापान्यखिलान्यपि
गतान्यनेन दत्तानि श्रेयांसि बहुशो मया ॥२२
पुत्रदारादिसंयुक्तः सदाचाररतः सदा
दानानि बहु कुर्वाणः सुखी भव सुखी भव’ ॥२३
इति ब्रुवन् वेङ्कटेशो दृग्गोचरमथो ययौ
इत्थं देवस्वामिनोक्ते गतेष्वपि सुरेषु च ॥२४
शुद्धः स्वदेशमागत्य पुत्रदारसमन्वितः
स्नानं दानं जपं कुर्वन् ’वेङ्कटेश’ इति ब्रुवन् ॥२५
इह लोके परत्रापि परं सौख्यमवाप्तवान्
मृकण्डोराश्रमं गत्वा मार्कण्डेयः प्रसन्नधीः ॥२६
पितरौ तु नमस्कृत्य वृत्तान्तं सर्वमब्रवीत्
वाक्यं गरुत्मतः पूर्वं वेङ्कटाचलवैभवम् ॥२७
अगस्त्यशिष्यवृत्तान्तं सुवर्णमुखरीस्थलम्
श्रीवेङ्कटेशसेवाञ्च स्वामिपुष्करिणीतटे ॥२८
कुमारधारिकातीर्थमाहात्म्यं स्कन्दवैभवम्
आविर्भावं तस्य हरेः वाक्यं तस्य सुधामयम् ॥२९
उक्त्वा स्वपित्रोः सकलं शुश्रूषामकरोत्तदा
श्रीसूतः-
वेङ्कटेशस्य माहात्म्यं यः शृणोत्यपि वा सकृत् ॥३०
सर्वपापविनिर्मुक्तः सर्वश्रेयो भविष्यति
वेङ्कटाद्रेस्तु माहात्म्यं कुमारसरसस्तथा
शृणोति वा पठति वा तस्य पुण्यमनन्तकम् ॥३१
कुमारधारिकातीर्थतीरे पठति यस्त्विदम्
शृणोति वा तस्य तस्य सर्वाभीष्टप्रदो हरिः॥३२
[[456457]]
श्रीमार्कण्डेयपुराणे तीर्थखण्डे पञ्चमोऽध्यायः
इति श्रीमार्कण्डेयपुराणे श्रीवेङ्कटाचलमाहात्म्ये अगस्त्यादीनां
कुमारधारातीर्थस्नानादिवर्णनं नाम पञ्चमोऽध्यायः
॥ हरिः ॐ । ॐ तत्सत् ॥
श्री वेङ्कटेश चरणारविन्दार्पणमस्तु
इत्थं श्रीमार्कण्डेयपुराणान्तर्गतः प्रथमप्रभृतिपञ्चमपर्यन्त
पञ्चाध्यायायात्मकः श्रीवेङ्कटाचलमाहात्म्यपरो भागः
समाप्तिमगमत् ॥