[[349]]
श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्री वेङ्कटाचलमाहात्म्यम्
(ब्रह्माण्डपुराणान्तर्गतम्)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
हरिः ओम्
प्रथमोऽध्यायः
भृगुनारदसंवादात्मकसूतोक्त श्रीवेङ्कटाचलमाहात्म्यम्
ऋषयः-
कथितानि महाभाग! पुण्यक्षेत्राण्यनेकशः
प्रशस्तानि च तीर्थानि तानि तानि महीतले ॥१
तेभ्योऽधिकतमं क्षेत्रं तीर्थं पापविनाशनम्
यच्चास्ति तादृशं तीर्थं तन्नो ब्रूहि सुनिश्चितम् ॥२
यस्मिन्वसति सर्वात्मा माधवो भक्तवत्सलः
विहरन्मुदितो नित्यं श्रिया भूम्या च नीलया ॥३
यस्मिंश्च वसतिं प्राप्तो दुस्तरं भवसागरम्
सुखेन जन्तुस्तरति प्राप्तवित्तश्शुचं यथा ॥४
तस्य क्षेत्रस्य माहात्म्यं विस्तराद्वक्तुमरछसि
न च तेऽविदितं किञ्चित् पश्यामो भुवनत्रये ॥५
श्रीसूतः-
स्मारितोऽस्मि महाभागाः साव्प्रुतं वचनेन वः
कथयिष्यामि मुनयः शृणुतैकाग्रमानसाः ॥६
अमुमेवाधिकृत्यार्थं पुरा नारायणात्मकम्
अपृच्छन्मुनिशार्दूलं व्यासं सत्यवतीसुतम् ॥७
अथ पृष्टो मया प्राह व्यासस्सत्यवतीसुतः
श्रीवेदव्यासः-
शृणु सूत! पुरा वृत्तमाख्यानं कथयामि ते ॥८
कदाचित्पर्यटन्भूमिं नारदो मुनिसत्तमः
आजगामाश्रमं पुण्यं भृगोर्मुदितमानसः ॥९
शारदाभ्रनिभश्श्रीमान् वीणां च महतीं दधत्
उदतिष्ठद्भृगुश्शिष्यैः दृष्ट्वा देवर्षिमागतम् ॥१०
पूजयित्वा च तं हृष्टः पाद्यार्घ्यासनवन्दनैः
पृष्ट्वा च कुशलं भूयः पप्रच्छ मुनिपुङ्गवम् ॥११
भृगुः-
जगत्पर्यटितं सर्वं भगवन्नारद त्वया
तेन जानासि जगतां वृत्तान्तमखिलं मुने! ॥१२
श्रीब्रह्माण्डपुराणे तीर्थखण्डे प्रथमोऽध्यायः
[[350351]]
क्षेत्राणामधिकं क्षेत्रं तीर्थानां तीर्थमुत्तमम्
यद्यस्ति भुवि विप्रेन्द्र तन्मे ब्रूहि तपोनिधे! ॥१३
आस्ते विष्णुरचिन्त्यात्मा विहरन् रमया सह
यत्र साक्षात्कृतो देवो वरदस्सर्वदेहिनाम् ॥१४
तपांसि यत्र सिद्ध्यन्ति न चिरेण तपस्विनाम्
यस्मिंश्च निवसन् जन्तुः अञ्जसा मोक्षमाप्नुयात् ॥१५
एतदाचक्ष्व भगवन् विस्तरेण तपोनिधे!
ज्ञातुमर्थमिमं ब्रह्मन् न त्वदन्योऽस्ति भूतले ॥१६
वेङ्कटाचलस्यानेकनामानुवर्णनपूर्वकं माहात्म्यवर्णनम्
श्रीनारदः-
शृणुष्वैकमना ब्रह्मन्! मत्तः कथयतो मुने!
क्षेत्राणां क्षेत्रमुत्कृष्टं तीर्थानां तीर्थमुत्तमम् ॥१७
श्रीवेङ्कटगिरिर्नाम क्षेत्रं पुण्यं महीतले
सर्वपापप्रशमनं सर्वपुण्यविवर्धनम् ॥१८
वक्तुं न तस्य माहात्म्यं ब्रह्मणाऽपि सुरैरपि
शक्यते वा तथा स्मर्तुं मनसाऽपि महामुने! ॥१९
आराध्यः सर्वदेवानां माधवो भक्तवत्सलः
विहाय स्वं परं धाम रमते रमया सह ॥२०
’’अञ्जनाद्रिर्वृषाद्रिश्च शेषाद्रिर्गरुडाचलः
तीर्थाद्रिः श्रीनिवासाद्रिः चिन्तामणिगिरिस्तथा ॥२१
वृषभाद्रिर्वराहाद्रिः ज्ञानाद्रिः कनकाचलः
आनन्दाद्रिश्च नीलाद्रिः सुमेरुशिखराचलः ॥२२
वैकुण्ठाद्रिः पुष्कराद्रिः’’ इति नामानि विंशतिः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेतरजातयः
तन्नामानि पठेयुर्ये मुच्यन्ते तेऽघबन्धनात् ॥२३
’’वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन
वेङ्कटेशसमो देवो न भूतो न भविष्यति’’ ॥२४
तस्मिन् बहूनि तीर्थानि सुरसिद्धनिषेविते
रम्याणि सन्ति शतशः सर्वाघौघहराण्यपि ॥२५
सर्वतीर्थातिशायीनि सर्वाश्चर्यकराणि च
सर्वसिद्ध्यनुकारीणि सर्वमङ्गलदान्यपि ॥२६
स्वामिपुष्करिणी नाम सरसी राजते शुभा
यस्यास्तीरेऽरविन्दाक्षो वसति प्रीतमानसः ॥२७
भृगुः-
’तस्मिन् गिरौ श्रिया सार्धं हित्वा वैकुण्ठमुत्तमम्
किमर्थं वसति ब्रह्मन्! साक्षान्नारायणः स्वयम्’? ॥ २८
नारदकृतक्षीराब्धिवासि भगवद्वर्णनम्
श्रीनारदः-
’कथयिष्यामि ते सर्वं वैकुण्ठो येन हेतुना
तस्मिन् गिरिवरे रम्ये चिरमास्ते श्रिया सह ॥२९
श्रीब्रह्माण्डपुराणे तीर्थखण्डे प्रथमोऽध्यायः
[[352353]]
नारायणमहं द्रष्टुं कदाचित् क्षीरसागरम्
गतवांस्तत्र चाद्राक्षं श्वेतद्वीपं महोच्छ्रितम् ॥३०
तत्र कल्पद्रुमवने शातकुम्भमयं गृहम्
नानारत्नसमाकीर्णं अनेकस्तम्भशोभितम् ॥३१
सहस्रार्कप्रतीकारं दीप्यमानमिव श्रिया
दुष्प्रापममरेन्द्रैश्च सुप्रापं कृतभक्तिभिः ॥३२
तत्रापश्यं सभां दिव्यां देवदेवस्य शार्ङ्गिणः
अनन्तविहगाधीशसेनान्याद्यैरधिष्ठिताम् ॥३३
तत्रापश्यं हृषीकेशं सर्वलोकैककारणम्
सर्वाश्चर्यमयं देवं शयानं शेषतल्पके ॥३४
द्विलक्षयोजनोपेतविग्रहं कामरूपिणम्
रजताचलसंलीनतालजीमूतसन्निभम् ॥३५
पुण्डरीकविशालाक्षं पुराणपुरुषं शुभम्
तथा सर्वाविनीतानां शासितारं सुरोत्तमम् ॥३६
संवाह्यमानचरणं श्रिया भूम्या च सादरम्
श्रीवत्साङ्कमुदाराङ्गं शतपत्रनिभाननम् ॥३७
युगसन्निर्गतादित्यसहस्रसदृशद्युतिम्
शङ्खचक्रधरं देवं ज्वलच्चञ्चलकुण्डलम् ॥३८
वैजयन्त्या च विपुले विभूषितमुरःस्थले
सौदामिनीशताधिक्यज्वलत्पीताम्बरोज्ज्वलम् ॥३९
लावण्यामृतसन्दोहं भवसन्तापनाशकम्
युगान्तार्कसहस्राभमुकुटोज्ज्वलमस्तकम् ॥४०
अचलं मेघसङ्काशं अतीव प्रियदर्शनम्
कर्णभूषोज्ज्वलं दीप्तं कण्ठिकोद्योतिकौस्तुभम् ॥४१
अर्काभमणिरत्नाद्यैः ज्वलच्चञ्चलकुण्डलम्
प्रत्युज्ज्वलितहारञ्च वनमालाविभूषितम् ॥४२
स्फुरता ब्रह्मसूत्रेण प्रोद्भासितभुजान्तरम्
अनेकसूर्यसङ्काशकेयूरमणिकान्तिकम् ॥४३
मणिकाञ्चनमुक्ताढ्यैः कटकैरुपशोभितम्
अङ्गुल्याभरणैः सर्वैः नवरत्नैरलङ्कृतम् ॥४४
कर्पूरगन्धितास्याब्जं सुरक्ताधरपल्लवम्
तडिच्छतसहस्राभपीतनिर्मलवाससम् ॥४५
नूपुरैः कटिसूत्रेण तडिन्मालाम्बुदोपमम्
बालसूर्यसहस्राभनाभिपङ्कजमद्भुतम् ॥४६
मार्कण्डेयभरद्वाजपुण्डरीकशुकादिभिः
याज्ञवल्क्याम्बरीषाद्यै रन्यैश्च मुनिपुङ्गवैः ॥४७
चतुर्भुजैः स्वसदृशैः शङ्खचक्रगदाधरैः
प्रह्लादप्रमुखैर्भक्तैः स्तूयमानमनेकशः ॥४८
सनन्दसनकाद्यैश्च योगिमुख्यैरभिष्टुतम्
भुक्तिमुक्तिपदं नॄणां सर्वाभीष्टप्रदायिनम् ॥४९
श्रीब्रह्माण्डपुराणे तीर्थखण्डे प्रथमोऽध्यायः
[[354355]]
सेवितं विधिरुद्राद्यैः दिक्पालैश्च भयान्वितैः
प्रणम्य शिरसा देवं स्तुत्वा स्तुतिभिरीश्वरम् ॥५०
भक्त्या चाऽवनतो भूत्वा कृताञ्जलिरहं स्थितः
स्वागतं चैव पृष्ट्वा मां बहु मेने गदाधरः ॥५१
देवदेवोऽथ मां वीक्ष्य पौत्रस्नेहातिशीतलैः
वीक्षणैराछ्लदयन्नित्थं बभाषे मधुसूदनः ॥५२
नारदं प्रति धरातलविजिहीर्षुभगवदुक्तिः
श्रीभगवान््-
’नारद! श्रूयतां वत्स! त्वया दृष्टं जगत्त्रयम्
ब्रह्माण्डे कुत्र वा वासो मम देशे भवेदिह ॥५३
विहारयोग्यश्च तथा विश्रामस्थानमुत्तमम्
कथय त्वं महाभाग! यद्यस्ति भुवि तादृशम्’ ॥५४
नारदकृतभगवत्क्रीडारछदेशप्रकाशनम्
श्रीनारदः-
न त्वया विदितं किञ्चित् त्रिषु लोकेषु विद्यते
तथाऽप्ययं तव प्रश्नो मयि स्नेहवशात् प्रभो! ॥ ५५
त्वद्विहारोचितं स्थानं रमणीयं विलोक्यते
आश्चर्यप्रभवं स्थानं तत्समं नास्ति भूतले ॥५६
तव पादप्रभूताया गङ्गायाश्चैव दक्षिणे
दिग्भागे दण्डकारण्ये द्विशतैर्योजनैर्मिते ॥५७
दक्षिणाम्बुनिधेश्चापि दक्षिणेतरभागके
पूर्वाब्धेः पश्चिमे भागे पञ्चभिर्योजनैर्मिते ॥५८
रमणीयमिदं स्थानं क्रीडायोग्यं विभो! तव
तत्रत्याश्च जनाः सर्वे तपःस्वाध्यायवर्जिताः ॥५९
आधिव्याधिहताश्चैव पश्यन्ति शरणं न च
अनुग्रहाय वै तेषां स्थातव्यं भवता हरे! ॥६०
श्रीभगवान्-
’चोलराजसुतः कश्चित् कलौ खलु भविष्यति
’’चक्रवर्ती’’ ति मद्भक्तस्तत्र मामर्चयिष्यति
अनुग्रहाय तस्यापि तत्र स्थास्याम्यहं मुने!’ ॥६१
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे श्री वेङ्कटाचलमाहात्म्ये
भगवन्नारदसंवादे श्री वेङ्कटाचलमहिमानुवर्णनं
नाम प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः
अनन्तस्य भगवत्क्रीडाद्रित्वप्राप्तिः
अथाऽऽह भगवान् शेषं आहूय पुरतः स्थितम्
मेघगम्भीरया वाचा हर्षोत्फुल्लविलोचनः ॥१
श्रीभगवान् -
अनन्त! मत्प्रियो लोके न त्वदन्योऽस्ति कश्चन
तस्मान्मम प्रियं किञ्चित् कर्तव्यं भवताऽनघ! ॥२
श्रीब्रह्माण्डपुराणे तीर्थखण्डे द्वितीयोऽध्यायः
[[356357]]
श्रुतं हि भवता सर्वं नारदोदीरितं वचः
क्रीडासमुचिते देशे वस्तव्यमिति मे मतिः ॥३
तत्र भूत्वा गिरिवरो भवान् वसतु भूतले
त्वत्फणामण्डलभुवि स्थातव्यं रमया सह’ ॥४
शेषः-
’अनन्तोऽहं महादेव! स्थास्यामि गिरिरूपधृक्
भवता रमया सार्धं मम सानुषु रम्यताम् ॥५
गङ्गाद्याः सरितः पुण्याः तीर्थानि च सरांसि च
वसन्तु सर्वदा तत्र ममोपरि तवाज्ञया ॥६
ममोपरि प्रभूतानां जङ्गमस्थावरात्मनाम्
यद्यदिष्टं हि तत्सर्वं तवानुग्रहहेतुना
अस्त्वि’ ति प्रार्थयामास शेषः सर्वहिताय वै ॥७
श्रीभगवान्-
’सिद्ध्यत्वेवं फणीन्द्राऽद्य भवता यो वरो वृतः
तपांसि तत्र सिद्ध्यन्तु निर्विघ्नानि तपस्विनाम् ॥८
अहं हि सर्वजन्तूनां दृष्टिगोचरतां गतः
वसिष्यामि श्रिया सार्धं दददिष्टानि देहिनाम्’ ॥९
भगवतो लक्ष्म्यादिमहिषीपरिजनैः सह क्रीडाचलगमनम्
इत्युक्त्वाऽथ श्रियं प्राह भगवान् पार्श्ववर्तिनीम्
भूमिं नीलां तथा देवीं प्रसन्नवदनाम्बुजाम् ॥१०
श्रीभगवान्-
’सखीभिः सहिता यूयं समागच्छत तत्र वै
विहारयोग्यो देशोऽयं निर्दिष्टो मुनिनाऽमुना’ ॥११
इत्युक्त्वा भगवान् प्राह सेनापतिमरिन्दमम्
’त्वदीयानुचरैः सार्धं सर्वैः पारिषदैर्युतः ॥१२
ब्रह्माद्यैस्त्रिदशैः सार्धं यक्षरक्षोगणान्वितैः
सिद्धविद्याधरैश्चापि किन्नरैश्च महोरगैः ॥१३
ऋषिसङ्घैर्युतः शीफ्रुं याहि शेषाचलं प्रति
वस्तव्यं तत्र हि मया रमया सहितेन वै
अनुग्रहाय साधूनां नित्यञ्च प्रयतात्मनाम्’ ॥१४
इत्युक्त्वा भगवान् देवः श्रिया भूम्या च नीलया
विनतासुतमारूढो ययावहिमहीधरम् ॥१५
अथाद्रिरूपधार्यनन्तस्य शिरःपुच्छप्रदेशवर्णनम्
भृगुः-
’शेषः कथं गिरिवरो बभूव स महावपुः
कुत्र पुच्छप्रदेशोऽस्य शिरःपक्षभुवौ तथा?’ ॥१६
नारदः-
’तस्य दक्षिणकैलासनामकं स्थानमुत्तमम्
’’कालहस्ती’’ ति विख्यातं शिरोदेशः प्रकीर्तितः ॥१७
श्रीब्रह्माण्डपुराणे तीर्थखण्डे द्वितीयोऽध्यायः
[[358359]]
शिवस्य शिवदः पुण्यः शिरोदेशो विलोक्यते
पुच्छस्तूत्तरतः प्रोक्तो महतोऽस्य महीभृतः ॥१८
प्रसिद्धः पुच्छदेशोऽयं ’’श्रीशैल’’ इति विश्रुतः
श्रीशैलस्य प्रदेशेऽस्मिन् नीलकण्ठाश्रमे शुभे ॥१९
व्याफ्रुपादवृत्तान्तः
व्याफ्रुपादाभिधः कश्चित् तपस्वी नियतेन्द्रियः
चिरकालं तपस्तप्त्वा नीलकण्ठमुमापतिम् ॥२०
तोषयामास नियमैः समग्रस्तं तपोनिधिः
अथ केनापि कालेन नीलकण्ठो महाद्युतिः ॥२१
परितुष्टः प्रादुरभूत् दास्यन् वर मभीप्सितम्
आलिङ्गितो गिरिजया गाढमाश्रितपार्श्वया ॥२२
कैलासगौरमारुह्य वृषं गगनचारिणम्
प्रमथाद्यैः परिवृतो गणैः सव्री्पुतमानसैः ॥२३
कपर्दविलसत्सिद्धसिन्धुवीचिभिराकुलैः
सिद्धगन्धर्वयक्षाद्यैः पन्नगैः परिवारितः
भक्तानुकम्पां परमां भृशमावेदयन्निव ॥२४
व्याफ्रुपादः प्रणम्यैनं भक्त्या परमयाऽन्वितः
स्तुतिभिः परितुष्टाव पुष्कलाभिः पुनः पुनः ॥२५
व्याफ्रुपादः-
’’भगवन् करुणासार! सर्वलोकैककारण!
प्रसीद त्वं प्रसन्नाक्ष! विश्वाकार! वृषध्वज! ॥२६
रथ्या वेदस्त्रिपुरदहने वेदवक्ता च वेधाः
सूतो यस्य स्वयमुपगतौ पुष्पवन्तौ रथाङ्गे ।
चापो मेरुः त्रिदशवसतिर्वासुकिश्चापमौर्वी
बाणो विष्णुस्त्रिदशवपुषे कुर्महे ते नमस्याम् ॥’’२७
स्तुत्वैवं परया भक्त्या व्याफ्रुपादस्तपोनिधिः
तूष्णीं बभूव पुरतो मस्तके विहिताञ्जलिः ॥२८
व्याफ्रुपादं तपोनिष्ठं शान्तं धर्मपरायणम्
नीलकण्ठः समाहूय प्रहसन्निदमब्रवीत् ॥२९
नीलकण्ठः-
’तपसा परितुष्टोऽस्मि कृतेनाऽनेन सुव्रतः
वरं वरय भद्रं ते वरदोऽहमिहागतः ॥३०
व्याफ्रुपादः-
’आश्रमोऽस्मिन् महादेव! वस्तव्यं भवता सदा
भवन्नाम्ना सरश्चेदं प्रसिद्धिमधिगच्छतु ॥३१
अत्र स्नास्यति यो मर्त्यः तीरेऽस्मिन् सकृदाप्लुतः
स सिद्धिं यातु शुद्धात्मा पुमर्थानामभीप्सया’ ॥३२
नीलकण्ठः-
’’तथैवास्त्वि’’ ति तं प्रोक्त्वा तत्रास्ते चन्द्रशेखरः
चिरं गिरिजया सार्धं वरदः सर्वदेहिनाम् ॥३३
श्रीब्रह्माण्डपुराणे तीर्थखण्डे द्वितीयोऽध्यायः
[[360361]]
अथाद्रिरूपधार्यनन्तस्य पक्षप्रदेशवर्णनम्
अथ पक्षप्रदेशोऽस्य ह्यहोबिलमिति स्मृतः
परं स्थानं नृसिंहस्य सर्वसिद्धिप्रदायकम् ॥३४
हिरण्यकशिपुं हन्तुं ब्रह्मरुद्रपुरस्कृतः
प्रह्लादानुग्रहार्थाय ह्यवतीर्णोऽत्र वर्तते ॥३५
न तत्समं भुवि स्थानं अस्ति लोकत्रयेऽपि वा
अमृतत्वमवाप्नोति जन्तुर्दर्शनमात्रतः ॥३६
तस्मिन्नेकदिनं वाऽपि यो वा समधिगच्छति
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥३७
क्रीडाद्रित्वापन्नानन्तस्य फणामणिवर्णनम्
फणामणिप्रदेशोऽयं ’’वेङ्कटाद्रि’’ रिति स्मृतः
’’शेषाद्रिर्वृषभाद्रिश्च, नारायणगिरि’’ स्तथा ॥३८
न चास्य महिमा शक्यो वक्तुं वर्षशतैरपि
ब्रह्मरुद्रपुरोगैश्च सनकाद्यैश्च योगिभिः ॥३९
अगस्त्याद्या मुनिवराः तपसः सिद्ध्यपेक्षया
तपांसि सुचिरं तेपुः तन्र्झरसमाप्लुताः ॥४०
विष्णोरपरदेहत्वात् आक्रामन् न पदैर्गिरिम्
नारायणांशसम्भूतः शेषोऽहिर्गिरिरूपधृक् ॥४१
तस्योपरि प्रभूता ये तृणगुल्मलतादयः
ते हि स्थावररूपेण वसन्तो योगिपूरुषाः ॥४२
ब्रह्मरुद्रादिदेवेभ्यो योगिनोऽमिततेजसः
सर्वदा यक्षगन्धर्वसिद्धकिन्नरचारणैः ॥४३
विद्याधरगणैश्चापि महोरगगणैस्तथा
ऋषिभिर्देवबृन्दैश्च सेवावसरकाङ्क्षिभिः
सेव्यतेऽहर्निशं प्रीत्या महागिरिवरो ह्ययम्’ ॥४४
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे श्री वेङ्कटाचलमाहात्म्ये
भृगुनारदसंवादे श्री वेङ्कटाचलविस्तारवर्णनं नाम
द्वितीयोऽध्यायः
तृतीयोऽध्यायः
अथ तृतीयोऽध्यायः
भगवत्क्रीडाचलवर्णनम्
भृगुः-
श्री वेङ्कटगिरिं प्राप्य भगवान् पुरुषोत्तमः
आवासमकरोत्तत्र ततः किमकरोत् स्वयम्? ॥१
उदन्तमिममाचक्ष्व विस्तरेणैव नारद!
न त्वदन्योऽस्ति विप्रेन्द्र! रहस्यानां हि वेदिता’ ॥२
नारदः-
’इदं रहस्यं वक्ष्येऽद्य विस्तरेणैव ते भृगो!
न त्वदन्योऽस्ति विप्रेन्द्र कथायाः श्रवणे रतः ॥३
श्रीब्रह्माण्डपुराणे तीर्थखण्डे तृतीयोऽध्यायः
[[362363]]
यदैव रमया सार्धं अनादिः पुरुषोत्तमः
अवतीर्णो गिरिवरं नानाधातुविभूषितम् ॥४
गिरिर्झरसंयुक्तं नदीप्रस्रवणैर्युतम्
विविधैर्वृक्षखण्डैश्च पुष्पितैरुपशोभितम् ॥५
मालतीकुन्दकुटजैः सिन्धुवारैः कुरुण्टकैः
कदम्बार्जुनवंशैश्च चन्दनैः पनसैस्तथा ॥६
अशोकवकुलैर्गुञ्जैः तमालैः समलङ्कृतम्
नानाविहगसङ्घुष्टं मयूरारावनादितम् ॥७
तुष्टपुष्टमृगाकीर्णं सिंहशार्दूलशोभितम्
विगलन्मदधारैश्च गजसङ्घैः सुशोभितम् ॥८
गोलाङ्गूलगणैश्चापि वानरैर्मदगर्जितैः
क्रीडाविलासनिरतैः मृगपक्षिभिरावृतम् ॥९
नानारत्नसमाकीर्णं सानुभिर्भूषितं गिरिम्
ब्रह्मणा च समादिष्टो नारायणदिदृक्षया ॥१०
नारायणाख्यविप्रवृत्तान्तः
नारायणाख्यो विप्रेन्द्रो गिरावस्मिन् शुभोत्तरे
स्वामिपुष्करिणीतीरे सुरसिद्धनिषेविते ॥११
इन्द्रियाणि नियम्यान्तः आस्थितो योगभावनाम्
नारायणं त्रिजगतामधीशं भक्तवत्सलम् ॥१२
श्रीभूमिनीलासहितं ध्यायन् हृदि शुभास्पदम्
नासाग्रन्यस्तनयनो विशुद्धात्मा चिरं द्विजः ॥१३
तपश्चचार धर्मात्मा दुश्चरं दुष्टमानसैः
विशुद्धात्मनि विप्रेन्द्रो तपस्यति चिरं तदा ॥१४
फलन्ति विविधा वृक्षाः तत्रत्याः समयं विना
सत्त्वेषु बलवत्सत्त्वं बबाधे नैव दुर्बलम्
तपस्यति द्विजे शान्ते शान्तं सर्वमभूद्वनम् ॥१५
नारायणाख्यविप्रतपस्तुष्टस्य भगवतः आविर्भावः
अथास्मिन्नन्तरे तस्य तपसा परितोषितः
वासुदेवः प्रादुरभूत् वरदः सर्वदेहिनाम् ॥१६
विनतासुतमारूढः समेरुशिखरोपमम्
दयितामङ्कमारोप्य ज्वलत्काञ्चनमालिनीम् ॥१७
युगपत्स्फुरितानेकतडित्सदृशवर्चसम्
सहधर्मचरीं विष्णोः अवतारानुकारिणीम् ॥१८
भक्तानुकम्पाभरितैः अपाङ्गैः शीतलैः सदा
आह्लादयन्तीमसकृत् जगत् स्थावरजङ्गमम् ॥१९
पद्मप्रियां पद्महस्तां पद्मालयनिवासिनीम्
उन्निद्रपद्मनयनां पद्मनाभमनःप्रियाम् ॥२०
नीलजीमूतसङ्काशः स्फुरत्पीताम्बरोज्ज्वलः
तुलसीदामहृद्येन स्फुरच्छ्रीवत्सलक्ष्मणा ॥२१
कौस्तुभद्युतिदीप्तेन वपुषा सुविराजितः
निबद्धोदरबन्धेन तनुमध्येन शोभितः ॥२२
विधातृगृहनालीकमुकुलोद्भवहेतुना
नाभिह्रादेन निम्नेन गम्भीरावर्तशोभिना ॥२३
श्रीब्रह्माण्डपुराणे तीर्थखण्डे तृतीयोऽध्यायः
[[364365]]
रम्भेभहस्तशोभाभ्यां ऊरुभ्यामुपशोभितः
जङ्घाभ्यां चारुतूणीरसदृशीभ्यां विराजितः ॥२४
प्रसन्नवदनाम्भोजः पद्मपत्रनिभेक्षणः
ज्योतिर्मयेन वपुषा दीप्यमानोऽग्रतः स्थितः ॥२५
अथ नारायणं विप्रो हर्षपर्याकुलेक्षणः
सर्वदाऽऽनन्दसन्दोहनयनाश्रुसमाप्लुतः ॥२६
आनन्दामृतसाराब्धौ मग्नः किञ्चिन्न बुध्यते
प्रदक्षिणं तदा कृत्वा भगवन्तं दयानिधिम् ॥२७
भक्त्या परमयाऽऽविष्टो विवेदानन्तरं न सः
किङ्कर्तव्यमजानानो मुहूर्तं स्मावतिष्ठते
अथैनं परितुष्टाव वाग्भिरग्र्याभिराकुलः ॥२८
नारायणाख्यविप्रकृतभगवत्त्सुतिः
विप्रः-
’’देवदेव! जगन्नाथ! प्रसीद पुरुषोत्तम!
परिपालय मां भक्तं शरणागतवत्सल! ॥२९
कालाभ! करुणासार! करीन्द्रवरद! प्रभो!
अवलोकय मां नाथ! शीतलैर्नयनाञ्चलैः ॥३०
त्वमेव धाता सर्वस्य जगतोऽस्य जगन्मय!
रक्षिता च त्वमेवास्य संहर्ता च सुरेश्वर! ॥३१
प्रकृतिः पुरुषश्चैव सर्गकाले सुसङ्गतौ
तवेक्षणवशेनैव सृजतो जगदव्ययम् ॥३२
न त्वत्समोऽस्ति लोकेऽस्मिन् नाथ! लोकत्रयेऽपि वा
कुतस्त्वदधिकस्तस्मात् निस्समाभ्यधिको भवान् ॥३३
वेत्ता त्वमसि वेद्यञ्च वेदनोपाय एव च
वेदनञ्च फलं तस्य त्वदृते नास्ति किञ्चन ॥३४
पिता त्वमसि लोकस्य सर्वस्य जगतः पते!
माता स्वयं विशालाक्षी लक्ष्मीरेवानपायिनी ॥३५
विधातृप्रमुखा देवाः सनकाद्याश्च योगिनः
महता तपसा वाऽपि न त्वां जानन्ति तत्त्वतः ॥३६
न वेदाध्ययनेन त्वां न यज्ञैर्नियमैरपि
न दानैश्च तपोयोगैः विना भक्त्या न दृश्यसे ॥३७
मद्भाग्योपचयेन त्वं दृग्गोचरमुपागतः
निजरूपञ्च देवेश! प्रदर्शय दयानिधे! ॥३८
धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन तव प्रभो!
चक्षुषोः सफलं जन्म जातमद्य सुरेश्वर! ॥३९
न त्वां पश्यति यो मर्त्यो व्यर्थजन्मा स मे मतः
दर्शनेनैव मच्चित्तं आप्नोत्युन्मत्ततुल्यताम्’’ ॥४०
एवं स्तुवति विप्रेन्द्रे भगवान् प्रीतमानसः
तमुवाच प्रसन्नाक्षो मेघगम्भीरया गिरा ॥४१
श्रीभगवान्-
’तपश्चरसि विप्रेन्द्र! कस्त्वमत्र जितेन्द्रियः
किमर्थञ्च वदाऽद्य त्वं दास्याम्यहमभीप्सितम्’ ॥४२
श्रीब्रह्माण्डपुराणे तीर्थखण्डे तृतीयोऽध्यायः
[[366367]]
भगवन्तमुद्दिश्य विप्रकृतसर्वजनदृश्यत्वादिप्रार्थना
नारायणः-
’वरदो यदि देवेश श्रीनिधे! करुणानिधे!
वृणोमि वरमिष्टं मे शृणुष्व प्रीतमानसः ॥४३
अहं नारायणो नाम भवद्दर्शनकाङ्क्षया
भुवं सर्वां परिक्रम्य नापश्यं त्वामहं प्रभो! ॥ ४४
ब्रह्माणं तपसाऽऽराध्य तन्निर्दिष्टोऽहमागतः
स्वामिपुष्करिणीतीरे तपसाऽऽराधितो भवान् ॥४५
तपश्चरन् वसाम्यद्य चिरेण नियतेन्द्रियः
एवं किल तपश्चर्तुं अशक्यं भुवि मानवैः ॥४६
तेषामनुग्रहार्थाय सर्वप्रत्यक्षगोचरः
सर्वाभीष्टं ददन्नित्यं स्वामिपुष्करिणीतटे ॥४७
अनन्तविहगेशानसेनापतिमुखैः सदा
सेव्यमानः श्रिया सार्धं विहरन् वस माधव!
गिरिश्चायं हि मन्नाम्ना प्रसिद्धिमधिगच्छतु’ ॥४८
भगवत्कृतनारायणाख्यविप्रप्रार्थनाभ्युपगमप्रकारः
श्रीभगवान्-
’तथा भवतु विप्रेन्द्र! वचनं तव सुव्रत
ब्राह्मणो यदि वा वैश्यः क्षत्रियः शूद्र एव वा ॥४९
सपापो यदि वाऽपापः स्वामिपुष्करिणीजले
स्नात्वा चात्र वसन्तं मां ये समस्यन्ति मानवाः ॥५०
ददाम्याकल्पमेवाहं तेषां वासं त्रिविष्टपे
यः करोत्याप्लवं स्वामिसरसीजलमध्यतः ॥५१
सोऽतीत्य निरयं सर्वं ब्रह्मभूयाय कल्पते
भुक्तिमुक्तिप्रदं नॄणां सर्वसिद्धिप्रदायकम्
इदं स्थानं सरश्चेदं नात्र कार्या विचारणा ॥५२
अद्यप्रभृति चैवायं गिरिस्त्वास्तमतः सदा
’’नारायणाचल’’ इति प्रसिद्धो भवतु द्विज’ ॥५३
इति तस्मै वरं दत्त्वा स्वसायुज्यं ददौ हरिः
स्वामिपुष्करिणीतीरे स्वसङ्कल्पागते ततः ॥५४
दिव्ये विमाने सर्वेषां विलोचनपथं गतः
श्रीभूमिनीलासहितः शङ्खचक्रगदाधरः ॥५५
कोटिकन्दर्पलावण्यो नीलजीमूतसन्निभः
दयापरवशो नित्यं वसति प्रीतमानसः ॥५६
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे भृगुनारद संवादे
श्री वेङ्कटाचलमाहात्म्ये भगवदाविर्भाववर्णनं नाम
तृतीयोऽध्यायः
श्रीब्रह्माण्डपुराणे तीर्थखण्डे तृतीयोऽध्यायः
[[368369]]
चतुर्थोऽध्यायः
अथ चतुर्थोऽध्यायः
भगवतः क्रीडाद्रौ लीलार्थं मृगयाविहारः
भृगुः-
’तत्र वास मुपेत्याथ देवः किमकरोत्ततः?
विस्तरेण समाख्याहि पृच्छतो मम सर्वशः ॥१
नारदः-
ततः कदाचिन्मृगयाविहाराकाङक्षिमानसः
सेनापतिमुवाचेदं प्रहसन्निव माधवः ॥२
श्रीभगवान्-
’सेनेश! विपिनोद्देशे विहर्तुं मतिरस्ति मे
सिंहव्यालसमाकीर्णे मत्तद्विपनिषेविते ॥३
सज्जीभवन्तु सैन्यानि निदेशाद्भवतोऽधुना
चतुरङ्गसमेतानि समरेष्वजितानि वै ॥४
इत्युक्त्वा भगवांस्तूर्णं निर्ययौ मृगयामतिः
सेनापतिमुखाश्चापि तमेवानुययुस्तदा ॥५
अथोत्तरगिरौ रम्ये विचचार स दैत्यहा
सिंहव्यालगणान् विद्ध्यन् शरैराशीविषोपमैः ॥६
तत्रत्याः शबराऽधीशाः सोपहाराः समागताः
प्रणम्य देवदेवेशं अतिष्ठन् नव्रुमौलयः ॥७
निर्दिश्यमानमार्गस्तु तैस्तैः शबरपालकैः
विचचार बहून् देशान् मृगयाऽऽकृष्टमानसः ॥८
वृषभाख्यासुर वृत्तान्तः
तस्मिन् काले शिवे भक्तो वृषभाख्यो महासुरः
श्रीशैलाद्दक्षिणे देशे विचचार महामनाः ॥९
ततो गिरिवरं दृष्ट्वा प्रादुर्भूतं सुविस्तृतम्
विस्मयाविष्टचेतास्तु चिन्तयामास कारणम् ॥१०
’अहो कोऽप्यस्य मायावी स्रष्टाऽद्रेरुपरि ध्रुवम्
तमन्वेष्टुं यतिष्येऽहं मायिनं गतभीरहम्
अन्विष्य सहसाऽनेन योत्स्यामि गतभीरहम्’ ॥११
इति सञ्चिन्त्य तत्रायं मृगयन्नपकारिणम्
बलगर्वसमाविष्टः तत्र तत्र चचार ह ॥१२
वृषभासुर शबरवेषधारि भगवतोः युद्धप्रकारः
अथापश्यत् स देवेशं विहरन्तमभीतवत्
शार्ङ्गपाणिं हयारूढं शबराकृतिधारिणम् ॥१३
तं दृष्ट्वा दैत्यराट्क्रुद्धः सोऽययेवेति निश्चितः
अभ्यधावत तं तूर्णं ’तिष्ठ तिष्ठे’ ति चाब्रवीत् ॥१४
ततः समभवद्युद्धं घोररूपं भयानकम्
शबराधिपतिं दैत्यः समाहूयाऽशपत्तदा ॥१५
ततः स शबरः क्रुद्धः सर्वसन्नाहसंयुतः
श्वगणैः स्वगणैश्चैव बाणैश्च निशितैस्तथा ॥१६
श्रीब्रह्माण्डपुराणे तीर्थखण्डे चतुर्थोऽध्यायः
[[370371]]
प्रासैः खड्गैर्गदाभिश्च शक्तिशूलपरश्वथैः
कुन्तैर्मुसलसङ्घैश्च वृक्षैः पाषाणराशिभिः ॥१७
अयुध्यत तदा तेन घोरं युद्धमभूद्वने
ततस्तान् शबरान् सर्वान् विनिर्जित्याग्रतः परम् ॥१८
आयान्तमसुरं दृष्ट्वा विष्वक्सेनं दिदेश सः
सोऽपि गन्धर्वसङ्घैश्च सहितः प्रत्ययुध्यत ॥१९
ततः सुतुमुलं युद्धं बभूव भयदायकम्
अस्त्रैः शस्त्रैर्जघानाऽशु विष्वक्सेनः प्रतापवान् ॥२०
दैत्यस्तं दुर्जयं ज्ञात्वा मायावी च मदोद्धतः
ततः स्वमायामास्थाय दैत्यः पुरपुरञ्जयः ॥२१
असृजद्राक्षसान् घोरान् शतशोऽथ सहस्रशः
अस्त्राण्यपि च दिव्यानि शस्त्राणि विविधानि च ॥२२
प्रायुङ्त्क दैत्यराट्क्रुद्धो नारायणजिघांसया
यदनेन प्रयुक्तं वै शस्त्रमस्त्रमथापि वा ॥२३
भस्मीकृतञ्च तत्सर्वं हरिणा निजमायया
ततस्तमसुरो मत्वा दुर्जयं हरिमाहवे ॥२४
मायां प्रयुज्य मायावी स्वयमन्तर्दधे ततः
तां मायामायतीं दृष्ट्वा ततः सर्वेश्वरो हरिः ॥२५
प्रेषयामास नाशाय ततश्चक्रं जनार्दनः
नाशकं सर्वदुष्टानां सर्वदेवनमस्कृतम् ॥२६
चक्रराजात्ततो ज्वालाः प्रादुर्भूताः सहस्रशः
ताभिस्तत्सैन्यमत्युग्रं ज्वलितं काननं यथा ॥२७
ज्वलत्कञ्चुकिनो वीरा दग्धश्मश्रुशिरोरुहाः
आयुधानि विचित्राणि दग्धान्यासन् हविर्भुजौ ॥२८
तेन चक्रप्रभावेण ह्यासुरं बलमद्भुतम्
न किञ्चित् दृश्यते तत्र पर्वते परमाद्भुते ॥२९
ततः समीक्ष्य दैत्यो वै मायां स्वीयां विनाशिताम्
चिन्तयामास च मुने विस्मयाकुलमानसः ॥३०
भगवन्तं प्रति संहाराभ्युपगन्तृ वृषभासुरप्रार्थना
निहनिष्यति माञ्चापि चक्रं नूनं तदीरितम्
समयो मरणस्यापि संवृत्तो नैव संशयः ॥३१
अमानुषमिमं मन्ये परब्रह्मस्वरूपिणम्
स्रष्टारं सर्वलोकानां सर्वदेवनमस्कृतम् ॥३२
अनेन निहतो नूनं विमुक्तः सर्वकिल्बिषात्
संसारार्णवमुत्तीर्य गमिष्ये मुक्तिसम्पदम् ॥३३
इति सञ्चिन्तयन् देवं वधात् संहृष्टमानसः
प्रार्थयामास चाभीष्टं किञ्चिद्धृदयसंश्रितम् ॥३४
वृषभः-
’’देवदेव! जगन्नाथ! सर्वलोकैककारणम्
शरणं त्वामनुप्राप्तः प्रणतार्तिहर! प्रभो! ॥ ३५
श्रीब्रह्माण्डपुराणे तीर्थखण्डे चतुर्थोऽध्यायः
[[372373]]
त्वया ततमिदं सर्वं जगत् स्थावरजङ्गमम्
त्वया विहीनां नो किञ्चित् त्रिषु लोकेषु विद्यते ॥३६
ब्रह्माद्याः सकला देवाः त्वन्निदेशकरा मताः
निदेशात् वाति ते वातः सूर्यश्चोदेति चान्वहम् ॥३७
वह्निर्ज्वलति ते भीतः शक्रः शासति शासनात्
यमो धावति भीतस्ते इति वेदानुशासनम् ॥३८
त्राहि त्राहि महादेव! न जाने शरणं परम्
योगिनो यं विचिन्वन्ति नियतास्त्वां विमुक्तये ॥३९
स त्वमद्य महाबाहो! दृग्गोचरगतोऽसि मे
क्षमस्व मत्कृतं सर्वमपकारं सुदुःसहम् ॥४०
कृतागसां त्वादृशेषु प्रणामः खलु निष्कृतिः
जीवितं तु न याचेऽहं क्षुद्रं पापस्य कारणम् ॥ ४१
अतो यास्यामि निहतः चक्रेण परमां गतिम्
तस्मात् क्षमस्व भगवन्! श्रीनिधे! करुणानिधे!
त्रातारं नैव पश्यामि त्वां विना मधुसूदन! ॥४२
असुरप्रार्थनया क्रीडाद्रेः भगवद्दत्त वृषभनामधेयप्राप्तिः
अद्य प्रभृति चायं वै गिरिरुच्छ्रितशेखरः
मदाख्यया प्रथां यातु ’वृषभाचल’ इत्यपि’’ ॥४३
इत्येवं शोकसन्तप्तमश्रुपूर्णाकुलेक्षणम्
वृषभं तमुवाचेदं प्रहसन् गरुडध्वजः ॥४४
श्रीभगवान् -
’वृषभासुर! मद्भक्त्या विमुक्तिं यास्यसि ध्रुवम्
गिरिश्चायं भवन्नाम्ना प्रसिद्धिमधिगच्चतु’ ॥४५
इत्युक्तवति गोविन्दे दैत्येन्द्रः प्रीतमानसः
चिन्तयामास निधनमनुग्रहमथो मुने ॥४६
वृषभासुरवध प्रकारः
ततः सुदर्शनश्चापि ज्वालाजटिलविग्रहः
जहार सुरशत्रोरिछ कण्ठनालात् शिरोऽम्बुजम् ॥४७
ततो निपातिते भूमावसुरे युद्धदुर्मदे
ववृषुः पुष्पवर्षाणि देवाः सव्री्पुतमानसाः ॥४८
देवदुन्दुभयो नेदुः ननृतुश्चाप्सरोगणाः
दिशः प्रसेदुर्विमला वाताश्चैव सुखं ववुः ॥४९
गोविन्दोऽपि दयासारो वरं दत्त्वाऽसुराय वै
पुनरभ्येत्य शेषाद्रौ यथास्थानं स्थितो मुने! ॥५०
अञ्जनादेव्युत्पत्तिक्रमः
भृगुः-
’भूयः कथय देवस्य चरितानि महात्मनः
शृण्वतो नास्ति मे तृप्तिः अद्भुतानि महामुने!’ ॥५१
श्रीनारदः-
श्रुणुष्वैकमना ब्रह्मन्! मत्तः कथयतो मुने!
माहात्म्यं देवदेवस्य चित्रं हि मुनिकीर्तितम् ॥५२
श्रीब्रह्माण्डपुराणे तीर्थखण्डे चतुर्थोऽध्यायः
[[374375]]
त्रेतायुगेऽसुरः कश्चित् ’केसरी’ त्येव विश्रुतः
पुत्रार्थी देवमुद्दिश्य तपस्तेपे महामनाः ॥५३
नियतात्मा शुचिर्नित्यं निराहारो जितेन्द्रियः
पञ्चाक्षरेण जप्येन तोषयामास शङ्करम् ॥५४
प्रीतः प्रादुरभूदग्रे शङ्करो लोकशङ्करः
भक्त्या तमानतं भूमावुवाच च हसन्निव ॥५५
शङ्करः-
’परितुष्टोऽस्मि भद्रं ते तपसाऽनेन सुव्रत!
वरं वृणीष्व दास्यामि मनसा यदिहेच्छसि’ ॥५६
केसरी-
’देवदेव’! महाप्राज्ञ! परितुष्टोऽपि चेन्मम
वरदो भव मेऽभीष्टं वरयामि सुनिश्चितम् ॥५७
पुत्रमिच्छामि बलिनं समरेष्वनिवर्तिनम्
महाधैर्यं महाप्राज्ञं त्वत्तः सन्तुष्टमानसात्’ ॥५८
शङ्करः-
’न पुत्रं दातुमिच्छामि परितुष्टोऽप्यहं तव
यस्माच्च विधिना पूर्वं विहिता पुत्रहीनता ॥५९
तथाऽपि दास्ये कन्यां वै रूपयौवनशालिनीम्
तस्यामुत्पत्स्यते पुत्रः त्वदभीष्टोऽचिरात् ध्रुवम्’ ॥६०
इति सन्दिश्य भर्गोऽपि तत्रैवान्तरधीयत
असुरेन्द्रोऽपि लब्ध्वाऽयं वरमिष्टं मुदं ययौ ॥६१
ततस्तस्याभवत्कन्या लोकविस्मयकारिणी
चकार नाम तस्या वै ’ह्यञ्जने’ति स दैत्यराट् ॥६२
क्रमेण ववृधे सेयमञ्जना मञ्जुभाषिणी
कलेव शशिनः पक्षे सिते नयननन्दिनी ॥६३
पितुस्तस्याञ्च ववृधे प्रमोदस्तु दिनेदिने
पुत्रप्रीतिरभूत् तस्य तस्यामिति च नः श्रुतम् ॥६४
प्रक्रान्तकन्दुकक्रीडामालिभिः सह कन्यकाम्
वीक्ष्य वीक्ष्य ययौ तृप्तिं प्रहर्षोत्फुल्ललोचनः ॥६५
ततः कपिवरः कश्चित् ’केसरी’ति भुवि श्रुतः
अभिगम्य ययाचे तां कन्यां यौवनशालिनीम् ॥६६
तस्मै तामञ्जनां प्रादात् दैत्यः सव्री्पुतमानसः
स चिक्रीड कपिश्चायं कन्यया कामरूपया ॥६७
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे भृगु नारदसंवादे
श्रीवेङ्कटाचलमाहात्म्ये वृषभाचलोत्पत्ति अञ्जनादेव्युत्पत्तिवर्णनं
नाम चतुर्थोध्यायः
श्रीब्रह्माण्डपुराणे तीर्थखण्डे चतुर्थोऽध्यायः
[[376377]]
पञ्चमोऽध्यायः
अथ पञ्चमोऽध्यायः
अञ्जनायाः श्री वेङ्कटाद्रौ तपःकरणेन आञ्जनेयाख्यसुतोत्पत्तिः
नारदः-
विहरन्ती चिरं तेन कपिना साधु कन्यका
न लेभे सदृशं पुत्रं चिन्ताशोकपरायणा ॥१
’अहो! मम पिता मां वै पुत्रस्नेहसमाकुलः
नारीणां पुत्रहीनानां न सुखं पारलौकिकम् ॥२
तस्या मे मन्दभाग्यायाः सन्ततिश्च विना कृता
नारीणां पुत्रहीनानां न सुखं पारलौकिकम् ॥३
पुत्रेण मे विहीनायाः किन्न विश्रम्यते कुलम्
धन्याः खलु स्त्रियस्ता वै याः पश्यन्ति शुचिस्मितम् ॥४
मुखमङ्केशयानानां पुत्राणां पुत्रवत्सलाः
इति सञ्चित्य बहुधा पुत्रार्थं सा सुलोचना ॥५
द्विजानभ्यर्च्य विधिवदाशिषो वाचयन्त्यथो
ददावभीस्सितं तेभ्यः सर्वदैव यशस्विनी ॥६
निमित्तज्ञांश्च पृच्छन्ती तानुवाच तदाऽञ्जना
व्रतेषु चाप्यनेकेघ नियता चावसत्स्वयम् ॥७
आस्तीर्यमुसलांश्चापि गोष्ठेषु नियतेन्द्रिया
उपवासपरा भूत्वा तुष्टाव जगदीश्वरम् ॥८
एवंविधान्यनेकानि कृत्वा नियतमानसा
चरन्ती नैव लेभे सा पुत्रजन्मकृतं सुखम् ॥९
कस्यचित्त्वथ कालस्य दयया धर्मदेवता
बिभ्रती पुल्कसीरूपं धृत्वा वेत्रञ्च पुत्रिकाम् ॥१०
’पृच्छद्ध्वं चे’ त्यनुपदं भाषमाणा गतश्रमा
पश्यन्ती बालिशान् पाणौ वदन्ती लक्षणान्यथ ॥११
अञ्जनायाः समीपं वै प्रयाता धर्मदेवता
अञ्जना तां समाहूय विनिवेश्य वरानने ॥१२
शूर्पे स्वर्णमये मुक्तातण्डुलान् प्रणिधाय वै
तर्पयित्वा निमित्तज्ञां पर्यपृच्छदनाकुला ॥१३
अञ्जना-
’निमित्तज्ञे! कथं ब्रूहि मम पुत्रोऽस्ति वा न वा?
सत्येन वद धर्मज्ञे! पृच्छन्त्या मम सर्वशः ॥१४
यद्यहं प्राप्नुयां पुत्रमिष्टं बलिनमञ्जसा
दास्यामि तव तत्सर्वं यद्यदिच्छसि चेतसा’ ॥१५
पुल्कसी-
’अभीष्टस्तव पुत्रो वै भविष्यति न संशयः
मा शोकं कुरु कल्याणि! धर्मेण मम ते शपे ॥१६
श्रीवेङ्कटगिरौ सप्तसाहस्रं वत्सरान् पुनः
तपः कुरु ततः पुत्रमवाप्स्यसि सुशोभनम्’ ॥१७
श्रीब्रह्माण्डपुराणे तीर्थखण्डे पञ्चमोऽध्यायः
[[378379]]
इत्युक्त्वा सा निमित्तज्ञा यथागतमथो ययौ
अञ्जना चिन्तयन्ती तद्वाक्यं तस्या मनोरमम् ॥१८
प्रचक्रमे तपश्चर्तुं श्रीवेङ्कटगिरेस्तटे
आकाशगङ्गानिकटे सिद्धसङ्घनिषेविते ॥१९
वाय्वाहारा च वायुं वै समुद्दिश्य सुदारुणम्
तपश्चचार दान्तेयं प्रीणयन्ती व्रतैरिमम् ॥२०
ततः प्रीतमना वायुः फलमेकं दिनेदिने
भक्षणार्थं ददौ तस्यै दृग्गोचरमुपागतः ॥२१
अतीते सप्तसाहस्रे वत्सराणामनन्तरम्
पार्वतीसहितः शम्भुः तदाश्रममुपागमत् ॥२२
विजहार च तत्रायं तत्र तत्र वनान्तरे
तस्मिन्नवसरे तत्र विलासार्थमुपागतम् ॥२३
चिक्रीड वानरद्वन्द्वं तदद्भुतमिवाभवत्
पार्वत्यै दर्शयामास ’पश्य पश्ये’ति धूर्जटिः ॥२४
सा च दृष्ट्वा कपिद्वन्द्वं तदद्भुतमिवाभवत्
अथ तस्या मनश्चासी ’दावां कपितनूधरौ ॥२५
विहरिष्याव’ इति हि लोकस्य रुचिरीदृशी
ततः कपियुगं भूत्वा पार्वतीपरमेश्वरौ ॥२६
चिक्रीडतुर्वनान्तेऽस्मिन् उभौ मुदितमानसौ
तयोर्वीर्यं तदा वायुरथ पत्रपुटान्तरे ॥२७
आहृत्य प्रददौ तस्या अञ्जनायाः करान्तरे
मन्वाना भक्ष्यमित्येव तद्भक्षितवती ह्यसौ ॥२८
दधौ दोहदचिह्नानि क्रमेण नियतेन्द्रिया
अञ्जना कञ्जनयना प्रफुल्लनलिनानना ॥२९
चिन्तयन्ती किमेतन्मे निर्दोषायाः समागतम्
अथवा विधिवैरूप्यमहो मे मन्दभाग्यता ॥३०
केन दोषेण चाहं वा ईदृशं रूपमागता
चिन्तयन्ती चिरं सा वै व्रीडिता दुःखिता स्थिता ॥३१
आश्वासयन्ती तां प्राह दिवि वागशरीरिणी
’मा विषादं गमः पुत्रि! भवतव्यमिदं तव ॥३२
दुष्टात्मा रावणो नाम राक्षसो लोककण्टकः
स तु देवस्त्रियः सर्वा बन्दिग्राहं ग्रहीष्यति ॥३३
त्रिलोकीमपि यस्माद्वै रावयिष्यति कर्मणा
तस्मा ’द्रावण’ इत्येव प्रसिद्धिमधियास्यति ॥३४
ततस्तन्निग्रहार्थाय हरिः प्रत्यर्थितः सुरैः
आगमिष्यति भूलोके रघूणामन्वये शुभे ॥३५
ततस्तस्य सहायार्थमसह्यबलविक्रमः
शौर्यधैर्यगुणोपेतो बलीयान् विजितेन्द्रियः ॥३६
अप्रमेयगुणोपेतः पुत्रस्तव भविष्यति’
इमामाकाशगां वाचं श्रुत्वा सव्री्पुतमानसा ॥३७
पित्रे न्यवेदयत्सर्वं चरितञ्च नभस्वतः
तच्छ्रुत्वा च पिता तस्याः प्रययौ परमां मुदम् ॥ ३८
श्रीब्रह्माण्डपुराणे तीर्थखण्डे पञ्चमोऽध्यायः
[[380381]]
सुतोत्पत्तिमथाकाङ
क्ष्
न् तस्या निभृतमुन्मनाः
आपाण्डरीकृता तस्या रराज तनुवल्लरी ॥३९
कलङ्कहीना चन्द्रस्य लेखेवासितपक्षके
विनीलचूचुकं रेजे कुचमण्डलमुन्नतम् ॥४०
पद्मकोशस्य संलीनभ्रमरस्य श्रियं दधत्
न शशाक भुवं गन्तुं गर्भस्यातिभरात्ततः
इत्थं प्रववृधे तस्या गर्भः प्रीतिविवर्धनः ॥४१
अञ्जनेयोत्पत्तिमासदिवसनक्षत्रनिर्णयः
ततो वै दशमे मासि सव्प्रूप्ते नलिनेक्षणा
असूत पुत्रं बलिनमुदयत्यहिमत्विषि ॥४२
श्रावणे मासि नक्षत्रे श्रवणे हरिवासरे
कुण्डलोद्भासिगण्डान्तमुपवीतिनमुज्ज्वलम् ॥४३
कौपीनोद्भासितञ्चैव दीप्यमानमिव श्रिया
बिभ्राणं वानराणां वै रूपमत्यद्भुतं महत् ॥४४
रक्त्यास्यपुच्छमूलन्तु सुवर्णसदृशद्युतिम्
अतोऽयं जातमात्रोऽपि नितरां तु बुभुक्षितः ॥ ४५
आञ्जनेयस्य फलबुद्ध्या रविमण्डलं प्रत्युत्पतनम्
उदयाचलसंरूढं ददर्श रविमण्डलम्
नितान्तरक्तवर्णेन फलबुद्धिरभूत्तदा ॥४६
फलमित्येव मन्वानो रविं भक्षितुमुद्यतः
ग्रहिष्यामीति निश्चित्य श्री वेङ्कटगिरेस्तटात् ॥४७
उदतिष्ठन्महावेगादुदयाचलशेखरम्
ग्रहीतुमुद्यते तस्मिन् बिम्बं सूर्यस्स वै बलात् ॥४८
हाहाकृतमभूत्सर्वं जगत्थ्सावरजङ्गमम्
ततश्चतुर्मुखो ब्रह्मा स्वयमागत्य वेगतः ॥४९
ब्राह्ममस्त्रं युयोजास्मै कुपितस्तं जिघांसया
तदाश्रमागतं दृष्ट्वा बालं क्रीडन्निव क्षणात् ॥५०
निरस्य पुच्छप्रान्तेन बभूव विगतज्वरः
प्रत्याख्यातं ततो दृष्ट्वा तदस्त्रं ब्रह्मणेरितम् ॥५१
विसिष्मिये सुराणां वै गणः कमिदमित्यपि
कथमाकाशयानं वै कथं सूर्याभिधावनम् ॥५२
प्रत्याख्यानं कथञ्चासीदित्यूचुर्विस्मितास्तदा
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥५३
भुवनं विस्मयं प्राप कर्म दृष्ट्वाऽद्भुतं कपेः
हनूमानपि तं दृष्ट्वा सूर्यं निर्विण्णमानसः ॥५४
भूमौ पपात तेजस्वी ब्राह्मेणास्त्रेण ताडितः
अथाञ्जना समागत्य शोकपर्याकुला स्वयम्
अश्रुपूर्णाक्षिपक्ष्माग्रा बभाषे सुरसत्तमान् ॥५५
अञ्जना-
’भवन्तो निर्घृणा देवा जातमात्रे शिशौ कथम्
ब्राह्ममस्त्रं प्रयुज्याशु कृतार्था इव सव्प्रुति ॥५६
श्रीब्रह्माण्डपुराणे तीर्थखण्डे पञ्चमोऽध्यायः
[[382383]]
ईदृशा भवतां पुत्रा न सन्ति किमु देवताः
प्रारब्धमीदृशं कर्म कथं घोरतरं महत्’ ॥५७
आञ्जनेयस्य ब्रह्मादिदत्तसर्वावध्यत्व वरप्राप्तिः
वदन्तीं परुषं वाक्यमञ्जनामित्थमञ्जसा
सान्त्वयन्तः सुराः सर्वे वीर्यजातमुमापतेः
देवकार्यञ्च संवीक्ष्य वाचमूचुरिमां तदा ॥५८
देवाः-
’अञ्जने! मा विषीद त्वं तव पुत्रस्य धीमतः
दास्यामो दुर्लभानस्य वरान् वयममानुषान् ॥५९
ससुरासुरगन्धर्वैः यक्षरक्षोगणैस्तथा
पिशाचैर्गुह्यकैः सोऽयमवध्यो भवतु ध्रुवम् ॥६०
तथा च शस्त्रसङ्घैश्च बाणैश्च विविधैरपि
अवध्यत्वमवाप्नोति शासनान्नस्तवाऽत्मजः ॥६१
बलेन प्रज्ञया चापि यातु सर्वातिशायिताम्
शत्रूणामपि दुर्धर्षः पुत्रस्तव भविष्यति’ ॥६२
इति दत्वा वरं देवगणेषु विरतेष्वथ
चतुर्मुखः समाहूय चाञ्जनामिदमब्रवीत् ॥६३
क्रीडाद्रेरञ्जनाचलनामधेयप्राप्तिः
ब्रह्मा-
’’अञ्जने! त्वं हि शेषाद्रौ तपस्तप्त्वा सुदारुणम्
पुत्रं सूतवती यस्मात् लोकत्रयहिताय वै ॥६४
प्रसिद्धं यातु शैलोऽयमञ्जने! नामतस्तव
’अञ्जनाचल’ इत्येव नात्र कार्या विचारणा’’ ॥६५
इति तस्यै वरं दत्त्वा देवा ब्रह्मपुरोगमाः
स्वं स्वं स्थानं समुद्दिश्य यथागतमथो ययुः ॥ ६६
अञ्जना पुत्रमादाय श्री वेङ्कटगिरेस्तटम्
पुनरागम्य सामोदमलञ्चक्रे निजाश्रमम् ॥६७
इति श्रीब्रह्माण्डपुराणे भृगुनारदसंवादे तीर्थखण्डे श्रीवेङ्कटा
चलमाहात्म्ये अञ्जनाचलाभिधानहेतुवर्णनं नाम
पञ्चमोऽध्यायः
षष्ठोऽध्यायः
अथ षष्ठोऽध्यायः
क्रीडाद्रेः श्री वेङ्कटाभिधानोपोद्घातः
भृगुः-
’’अयं शिलोच्चयः केन ’वेङ्कटाचल’ इत्यपि
मुनीन्द्र भुवि विख्यातः? तद्वदस्व सहेतुकुम्’’ ॥१
नारदः-
अत्रापि कारणं वक्ष्ये शैलोऽयं येन हेतुना
वेङ्कटाद्रिरिति ख्यातः शृणुष्वैकमना मुने! ॥२
श्रीब्रह्माण्डपुराणे तीर्थखण्डे षष्ठोऽध्यायः
[[384385]]
श्रीगिरेः पश्चिमे भागे पुरं नन्दनसञ्ज्ञकम्
हस्त्यश्वरथसम्बाधं बभूव भुवि विश्रुतम् ॥३
पुरन्दराभिधः कश्चित् सोमयाजी द्विजोत्तमः
उवास तस्मिन् नगरे याजको वेदपारगः ॥४
तस्य जङ्ञेऽतिमतिमान् पुत्रो माधवसञ्ज्ञकः
कालक्रमेण ववृधे वेदाध्ययनतत्परः ॥५
यो गुणैः पितरं सर्वैः अत्यक्रामदिवाञ्जसा
क्रमेण मांसलौ बाहू बभार द्विजपुत्रकः ॥६
यौवने समनुप्राप्ते वक्षस्यतिविशालताम्
तस्यासीच्चन्द्रलेखाख्या पत्नी कमललोचना ॥७
सर्वलक्षणसम्पन्ना दिव्यनारीव भामिनी
स तस्यामनुरक्तोऽभूत् भृशं द्विजकुमारकः ॥८
तन्व्याहृतो यौवनेन रूपेणाप्रतिमेन च
विहरन् मुदितो नित्यमास्ते स्म सह भार्यया ॥९
विहारयोग्ये देशे च वनोद्देशे मनोहरे
अथास्मिन्नन्तरे काले वसन्तः प्रादुरास ह ॥१०
उपदेष्टुमिव क्रीडाविशेषांस्तु द्विजन्मनः
पुंस्कोकिलाश्चुकूजुर्वै चूतवृक्षसमाश्रिताः ॥११
वियोगिमानसेष्वन्तः जनयन्तः परां रुजम्
अशोककुसुमं लोकान् मदनस्य दिधक्षतः ॥१२
प्रतप्तमिव नाराचं व्यरोचत मनोहरम्
प्रसूनापचयं कर्तुं निर्गतश्चन्द्रलेखया ॥१३
विलासविपिनोद्देशे सर्वपुष्पमनोरमे
आरामे विहरंस्तस्मिन् तत्र तत्र स भार्यया ॥१४
सरसीं सत्त्वसम्पन्नां ददर्श विमलोदकाम्
पद्मखण्डैश्च सम्पूर्णामिन्दीवरवनाकुलाम् ॥१५
सुगन्धिभिः प्रसूनैश्च पूरितां तटभूरुहाम्
तन्व्या च सञ्चरंस्तीरे स्निग्धच्छायासमावृते ॥१६
चण्डालकन्यकां तन्वीं ददर्श सुमनोहराम्
इन्दीवरदलश्यामां प्रफुल्लकमलेक्षणाम् ॥१७
पीनोन्नतकुचां तन्वीं पूर्णचन्द्रनिभाननाम्
मूर्तामिवाऽज्ञां मारस्य सुस्निग्धकुटिलालकाम् ॥१८
तनुमध्यां वरारोहां ’मालिनीं’ नाम नामतः
तां दृष्ट्वा विस्मयाऽविष्टश्चिन्तयामास वै द्विजः ॥१९
जातेरननुरूपां तां मत्वा द्विजकुमारकः
’’अत्युद्भुतमिदं रूपं विधिना केन निर्मितम् ॥२०
मन्ये द्रष्टुमशक्यं वै विधेर्वा रूपमीदृशम्
अन्धः खलु जगत्स्रष्टा विधाता रूपमीदृशम् ॥२१
यतश्चकार वै व्यर्थमभोग्यमपि मादृशाम्
अथ वा किमु रत्नस्य व्यर्थया जातिचिन्तया ॥२२
श्रीब्रह्माण्डपुराणे तीर्थखण्डे षष्ठोऽध्यायः
केनेदमद्भुतं रूपं लभ्यते सुकृतं विना
अथैनामुपसर्पामि सोऽहं स्पृश्येतरामपि ॥२३
चण्डालवाटिकादृष्टं किं रत्नं दुष्यतेऽथ वा’’
इति सञ्चित्य वै तस्याः समीपमुपजग्मिवान् ॥२४
अनुरागवती चास्मिन् विप्रे चण्डालकन्यका
तयोर्विद्धमभूच्चेतः शितैर्मदनसायकैः ॥२५
प्रापयित्वा गृहं भार्यां चन्द्ररेखां द्विजोत्तमः
शनैः शनैः समीपं वै तस्याः स्वयमुपागमत् ॥२६
अथैनां वरयामास हृष्टो द्विजकुमारकः
अविचार्य महत्पापं तत्सङ्गमसमुद्भवम् ॥२७
’’मा भैषीस्त्वं वरारोहे! द्विजोऽयमिति भामिनि!
स्त्रीरत्नं दुष्कुलाच्चापि ग्राह्यमित्यनुशासनम् ॥२८
अतोऽहं भवतीं याचे वाचा मधुरपूरया
मम चानुमतिं दातुं त्वया रन्तुमिहारछसि’’ ॥२९
इत्युक्त्वा पाणिमस्या वै स्विन्नं जग्राह पाणिना
सङ्गतः सोऽथ मालिन्या तया द्विजकुमारकः ॥३०
तदीयमेव मांसादिमाहारं रोचयन् सदा
सुरामपि पिबन्नित्यं चिक्रीड चिरमुन्मनाः ॥३१
चिरकाले व्यतीते तु दरिद्रश्चाभवद् द्विजः
विधाय चौर्यहत्यादिपापानि धनमार्जयन् ॥३२
तच्च तस्यै ददद्वित्तं किञ्चित्कालं निनाय सः
ततस्तत्राप्यशक्तोऽयं तदीयैश्च निराकृतः ॥३३
चचार भुवने भ्रान्तो न वासं प्राप्य कुत्रचित्
आजगाम चरन् सोऽयं समीपं शेषभूभृतः ॥३४
आरुरोह गिरिं चापि कथञ्चिद्दीनचेतसा
तस्मिन्नेव क्षणे तस्य शरीरमभितस्तदा ॥३५
आपादचूडं जज्वाल तदद्भुतमिवाभवत्
तत्तस्य पापजातञ्च भस्मीभूय क्षणान्तरात् ॥३६
कृत्वा चटचटारावं पतितं धरणीतले
ज्वाज्वल्यमानो विप्रोऽपि ब्रह्मतेजोभिरञ्जसा ॥३७
रराज विगतैनस्कः शरदीव दिवाकरः
तं दृष्ट्वा विस्मिताः सर्वे मुनयस्तत्र सङ्गताः ॥३८
पप्रच्छुस्तं महाभागा द्विजपुत्रं महर्षयः
’किमिदं वद विप्रेन्द्र! न परो विस्मयो महान् ॥३९
आचक्ष्वास्माकमामूलात् वृत्तान्तमिह सर्वतः’
इति तेषां वचः श्रुत्वा माधवो विस्मितो द्विजः ॥४०
तच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः
ऊचुर्वचनमक्लिष्टं वृषशैलाश्रितं महत् ॥४१
ऋषयः-
अनेन पापजातं वै यस्माद्दग्धं द्विजन्मनः
’वेङ्कटाचल’ इत्यस्य प्रसिद्धिर्भुवि वर्तताम् ॥४२
[[386387]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे षष्ठोऽध्यायः
’’सर्वपापानि वें प्राहुः कटस्तद्दाह उच्यते
सर्वपापदहो यस्मात् वेङ्कटाचल इत्यभूत्’’ ॥४३
इत्युक्त्वा मुनयः सर्वे यथागतमथो ययुः
द्विजोऽपि शान्तचित्तोऽस्मिन् अचले संयतेन्द्रियः
दुश्चरं वै तपः कृत्वा तेन कैवल्यमाप्तवान् ॥४४
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे श्री वेङ्कटाचलमाहात्म्ये भृगुनारद
संवादे श्रीवेङ्कटाचलनामधेयहेतुवर्णनं नाम षष्ठोऽध्यायः
सप्तमोऽध्यायः
अथ सप्तमोऽध्यायः
श्रीवेङ्कटेशाराधक चोलराजसुतोत्पत्तिक्रमः
भृगुः-
’’चोलराजसुतः कश्चित्कलौ खलु भविष्यति
’चक्रवर्ती’ स शेषाद्रौ वैकुण्ठं ह्यर्चयिष्यति’’ ॥१
इत्येवं कथितं पूर्वं त्वया मे मुनिसत्तम!
तन्ममाचक्ष्व विप्रेन्द्र विस्तरेणैव नारद! ॥२
चोलराजसुतः कोऽयं कुत्र देशे वसिष्यति?
कथं वा शेषशैलेन्द्रमर्चयिष्यति भक्तितः? ॥३
तस्य वा कीदृशी भक्तिः भविष्यति रमापतौ?
न त्वदन्योऽस्ति भूलोके वेदिता भाविनां क्वचित्
मय्यनुग्रहबुद्ध्या त्वं कथयस्व कथामिमाम्’ ॥४
श्रीनारदः-
कलौ चोलनृपः कश्चित् बभूव भुवि विश्रुतः
धार्मिको नीतिशास्त्रज्ञः शशास पृथिवीमिमाम् ॥५
स कदाचिद्वने रन्तुमाखेटेन महीपतिः
किङ्करान् वनपालांश्च व्यादिदेश महामनाः ॥६
स्वयं विनिर्ययौ तूर्णं हयमारुह्य रंहसा
शेषाचलवनोद्देशे विचचार मृगान्तकः ॥७
अश्वानाञ्च गजानाञ्च श्रुत्वा घोरं महारवम्
गुहाभ्यः प्रतिनिर्याताः सिंहव्याफ्रुमुखा मृगाः ॥८
’इतः सिंहा इतो व्याफ्रू इतश्च वनवारणाः’
इति निर्दिश्यमानान्वै जघान मृगयूथपान् ॥९
सङ्घशश्च वराहाणां यूथानि निशितैः शरैः
खड्गान् खड्गेन नृपतिः विव्याध विपिनान्तरे
मृगयाऽकृष्टचित्तोऽयं विचरन् कानने मुहुः ॥ १०
चोलराजस्य मृगयाविहारकाले नागकन्यकादर्शनादिः
न लेभे विश्रमं राजा यथेन्द्रियवशं गतः
ततस्तेन नरेन्द्रेण कन्या काञ्चनरूपिणी ॥११
नलिनोत्फुल्लनयना चन्द्रबिम्बनिभानना
विश्वविस्मयलावण्या श्यामा पीनपयोधरा ॥१२
राजहंसी चरन्तीव दृष्टा यौवनशालिनी
ततः प्रसूनापचयं कुर्वन्ती सा मनोरमम् ॥१३
[[388389]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे सप्तमोऽध्यायः
जहार चेतस्तस्येयं नदीव पुलिनं जलैः
प्रसूनान्यपचिन्वन्त्याः सन्नमध्यवलित्रयम् ॥१४
उन्नमत्कुचमालोक्य वपुस्तस्या भृशोत्सुकः
न शशाक वनोद्देशात् पदात्पदमपि स्वयम् ॥१५
चलितुं नृपतिस्तत्र व्याधविद्धो मृगो यथा ।
निर्जितः स्मरबाणेन सोऽयं मर्मसु भेदिना ॥१६
विसृज्य सर्वसैन्यानि तत्समीपं ययौ नृपः
ततः सा च वरारोहा विलोक्य नृपतिं तदा ॥१७
मनोज्ञवेषं सव्प्रूप्तं न्यस्तचापमिव स्मरम्
विद्धा मन्मथबाणेन बभूवाऽयतलोचना ॥१८
अपचेतुं न पुष्पाणि शक्ता तद्गतमानसा
मुहुर्विलोकयन्त्येनं राजानं सा मनस्विनी ॥१९
करेण पुष्पापचयं दृग्भ्यां राजावलोकनम्
कुर्वती तन्मनास्तन्वी तथा च स्मरविभ्रमान् ॥२०
दर्शयन्ती तथा तन्वी नातिक्रान्ता च दृक्पथम्
ततो राजा समागम्य पृष्टवान् मञ्जुभाषिणीम्
कुलं वृत्तञ्च शीलञ्च तस्याः स्वयमनिन्दितम् ॥२१
राजा-
’’का त्वं चरसि कल्याणि! वने विगतभीः कथम्
पिता को? जननी का? वा कुत्र वा वसतिस्तव? ॥२२
परिग्रहोऽसि कस्य? त्वं न वा पाणिग्रहस्तव?
पाणिग्रहणकालोऽयं वर्तते तव शोभने ॥२३
न चेत्परिग्रहोऽन्यस्य वराङ्गि? वरये तदा
स्वायत्तीकर्तुमात्मानं जीवितञ्च त्वमरछसि’’ ॥२४
कन्यका-
’’धनञ्जयाभिधानस्य सर्पराजस्य धीमतः
पुत्री वसामि पाताले लालिता पितुरन्तिके ॥२५
भोगानमानुषांश्चापि भुञ्जाना तत्प्रसादतः
क्रीडन्ती च वयस्याभिः पाताले न्यवसं चिरम् ॥२६
पाणिग्रहणकाले वै सव्प्रूप्तेऽपि पिता मम
चिन्तयामास को वाऽस्य भविता? सदृशो वरः ॥२७
पित्रा नानुमता चाहमभिलाषं तव प्रभो!
बन्धुभिश्च ततोऽभीष्टैः नानुमन्तुमिहोत्सहे ॥२८
पितरं मम पृच्छस्व गत्वा पातालमञ्जसा
दास्यत्यनुमतिं नूनं गुणतः शीलतस्तव ॥२९
विनयं रक्ष कल्याण! कथञ्चिदपि चानघ
चन्द्रोदयविवृद्धोऽब्धिः किं वेलामतिलङ्घते?’’ ॥३०
राजा-
’’नायं व्यतिक्रमः सुभ्रूः! नाधर्मश्चात्र विद्यते
गान्धर्वोऽयं विवाहोऽपि मुनिभिः परिकीर्ततः ॥३१
परस्परानुरागेण सङ्गता राजकन्यकाः
श्रूयन्ते बहवश्चापि न विहातुमिहारछसि ॥३२
अयं विवाहो धर्म्यश्च स्वर्ग्यश्च नलिनेक्षणे!
अस्मिन्नर्थे विशालाक्षि! प्रत्यवायो न विद्यते ॥३३
[[390391]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे सप्तमोऽध्यायः
अतस्त्वय्यनुरक्तं मां कृतार्थयितुमरछसि
जीवितं वा सुखं वापि त्वां विहाय न रोचते’’ ॥३४
इति ब्रुवति भूपाले कन्या कामवशंवदा
लज्जानतमुखी भूमिं लिखन्ती नखरेण सा ॥३५
वक्तुकामेव संरब्धा संहृता लज्जया मुहुः
अङ्गीचकार चोद्वाहः राज्ञा नागस्य कन्यका ॥३६
जोषमास्थाय विपुलं मुहूर्तं स्मावतिष्ठते
अथानया समागत्य लतामण्डपसंश्रितः ॥३७
अन्वभूत्सुरतं तस्या भूयो रागविवर्धनम्
यामावशेषेऽथ दिने गन्तुकामा कृतत्वरा ॥३८
आमन्त्रयामास नृपं कथञ्चिद्विरहाकुला
नृपश्च दुःखितोऽत्यर्थमाश्लिष्याश्लिष्य भामिनीम् ॥३९
कथञ्चिदनुमन्तुं वै शशाक गमनं तदा
नृपेणानुमता साऽथ सङ्गमश्रमविह्वला ॥४०
निमीलितार्धनयना निर्गता वरवर्णिनी
ततः पातालमाविश्य गत्वा च पितुरन्तिकम् ॥४१
चोलराजस्य चरितं कथयामास सर्वतः
नागराजोऽपि तां श्रुत्वा कथितां कन्यया कथाम् ॥ ४२
प्रहर्षमतुलं लेभे सदृशोऽयमिति ब्रुवन्
निर्गत्य नृपतिश्चापि लतामण्डपसंश्रयात् ॥४३
भावयन् विभ्रमांस्तस्या जगाम मृगयंश्चमूम्
पश्चिमाचलशृङ्गाग्रे लम्बमाने दिवाकरे ॥४४
व्यलोकत महाराजः सेनामनुगतां तदा
अपरं दिशमासाद्य ह्यन्वरज्यत भास्करः ॥४५
विभ्रती कुङ्कुमारक्तं पयोधरभरं तदा
बभौ सना
ढ्
्यरुणं व्योम स्फुरत्तारकमण्डलम् ॥४६
प्रवालरक्तो मुक्ताभिः रञ्जितो वारिधिर्यथा
जगाहे जगदण्डान्तस्तिमिरञ्च शनैः शनैः ॥४७
हृदयं विषयासक्तमविद्यातिमिरं तथा
स च सैन्यान्वितस्तावत् प्रययौ निजमास्पदम्
स्मारंस्मारं विशालाक्षीं सुरतश्रमविह्वलाम् ॥४८
चोलराजस्य नागकन्यायां सार्वभौमलक्षणोपेत सुतोत्पत्तिः
आपन्नसत्त्वा ददृशे नागराजस्य कन्यका
सर्वलक्षणसम्बन्ना पितुर्विदधती मुदम्॥४९
तामथालोक्य दैवज्ञा इदमूचुर्वचस्तदा
’’अस्यामुत्पत्स्यते पुत्रः चक्रवर्ती महाद्युतिः॥५०
पृथिवीं सागरोपेतां सशैलवनकाननाम्
पालयिष्यति धर्मेण महेन्द्रसदृशः प्रभुः’’॥५१
अथ सा दशमे मासि पुत्रं प्रासूत सुन्दरम्
सर्वलक्षणसम्पन्नं सार्वभौमपदोचितम्॥५२
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे भृगुनारद संवादे श्री वेङ्कटाचल
माहात्म्ये चोलराजसुतोत्पत्तिवर्णनं नाम सप्तमोऽध्यायः.
[[392393]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे सप्तमोऽध्यायः
अष्टमोऽध्यायः
अथ अष्टमोऽध्यायः
चोलराजसुतस्य पातालात् स्वपित्रन्तिके आगमनम्
श्रीनारदः-
पुत्रस्य मुखलावण्ये पुत्रिकाया धनञ्गनः
तृप्तिं न विन्दति स्मायं प्रीत्युत्फुल्लेन चक्षुषा ॥१
ववृधे नागराजस्य परितोषेण वै शिशुः
चन्द्रमा इव कृष्णान्यपक्षे सति दिने दिने ॥२
कस्यचित्त्वथ कालस्य पोषितो मातुरन्तिके
प्रपच्छ मातरं बालः ’पितरं दर्शयेति’ ह ॥३
तच्छ्रुत्वा पूर्ववृत्तान्तं सा माताऽस्मै न्यवेदयत्
तदाकर्ण्य च बालोऽयं पुनः प्रपच्छ मातरम् ॥४
’’पितरं वीक्षितुं शीफ्रुं क्षोणीतलनिवासिनम्
वर्तते ह्यभिलाषो मे महान् मनसि सम्प्रति ॥५
भूलोकगमने योग्यं मार्गमावेदयस्व मे
येनाहं पितुरुत्सङ्गं गमिष्यामि मुदान्वितः’’ ॥६
इति तस्य वचः श्रुत्वा प्रहृष्टा नागकन्यका
भूलोकगमने योग्यं बिलञ्चादर्शयत्तदा ॥७
सोऽपि तेनैव मार्गेण प्राप्याऽशु धरणीतलम्
चोलराजमुपागम्य ववन्दे पादयोस्तदा ॥८
पप्रच्छ प्रणतं भूमौ ’कस्त्वम्?’ इत्यवनीपतिः
पृष्टः प्राह स बालोऽयं वृत्तान्तमखिलं मुने! ॥९
वृत्तान्तमखिलं राजा श्रुत्वा तु तदुदीरितम्
ग्रहणे बालकस्यास्य संशयं परमं ययौ ॥ १०
संशयाविष्टचित्तोऽयं जोषमास्थाय भूपतिः
मुहूर्तमिव भूयोऽपि तमेवालोकयन् स्थितः ॥११
चोलराजसुतस्याशरीर्युक्त्या पितृकृतराज्याभिषेकक्रमः
ततश्चाकाशगा वाणी नृपं संशयितं मुहुः
आश्वासयन्ती वचनैः उच्चचार न वीक्षिता ॥१२
’’मा विचारय राजेन्द्र! पुत्रोऽयं तेन संशयः
चक्रवर्ती महाराजो भविष्यत्यसमो भुवि ॥१३
अतीव विष्णुभक्तश्च भविष्यति महामतिः
शेषाद्रौ च स्वयंव्यक्तं विष्णुमभ्यर्चयिष्यति ॥१४
प्रीतश्चापि महादेवो ह्यर्चाभावमतिक्रमन्
सल्लापं तेन सुचिरं करिष्यति दिने दिने ॥१५
अभिषेचय राजेन्द्र! पुत्रं राज्येऽविचारतः’’
इति राजा समाकर्ण्य नानृतं सुरभाषितम् ॥१६
श्रद्दधे पुत्रमित्येनं जयन्तं वासवो यथा
ततो राजा समागम्य संवृत्तो यत्र सङ्गमः ॥१७
आत्मनस्तस्य मातुश्च तं देशं सुमनोरमम्
तत्र निर्माय विपुलं पुरं पुत्रस्य नामतः ॥१८
[[394395]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे अष्ठमोऽध्यायः
तत्राभ्यषेयच्चैनमाधिराज्ये समागतः
ततः स ’चक्रवर्ती’ति प्रथितो भुवि पार्थिवः
शशास पृथिवीं कृत्स्नां समुद्रवसनान्विताम् ॥१९
चक्रवर्तिनं प्रति गोपालनिवेदित वेङ्कटाचल वल्मीकोदन्तः
ततः कदाचित् गोपालाः तदाज्ञापरिपालकाः
समागम्य महीपालमिदं वचनमब्रुवन् ॥२०
गोपालाः-
’’शेषाचले वयं राजन्! विहरामो गवां व्रजात्
क्षीरं निदेशाद्देवस्य भाण्डेषु निहितं सदा ॥२१
तदानयनकाले वै दृश्यते महदद्भुतम्
विवृद्धं तत्र वल्मीकमेकं वसति भूधरे ॥२२
आगच्छामो हि मार्गेण वयं तेन महीपते!
आदाय भाण्डं क्षीराणां सर्वं तत्र हि भज्यते! ॥२३
सावधाना आपि वयं न पश्यामोऽत्र कारणम्
विचारय महीपाल! किमेतदिति सव्प्रुति’’ ॥२४
राजा दैविकमेवेति स निश्चित्य सुविस्मितः
सायं ध्यायन् हृषीकेशं तद्गतेन्तरात्मना ॥२५
शुचिर्भूतश्च सुष्वाप यतवाक्कायमानसः
ददर्श स्वप्नमेकञ्च नृपस्तस्मिन्निशान्तरे ॥२६
चक्रवर्तिनो भगवत्प्रकाशित स्वप्नदर्शनम्
प्रातरुत्थाय विधिवत् सन्ध्यामन्वास भूपतिः
आहूय मन्त्रिप्रवरानिदं वचनमब्रवीत् ॥२७
राजा-
’’मन्त्रिणः शृणुतास्यां वै निशायां स्वप्नमद्भुतम्
अदृष्टपूर्वञ्चान्येन गुह्याद्गुह्यतरं महत् ॥२८
कालमेघनिभः कश्चिदतिसुन्दरमूर्तिमान्
अद्भुतः पुरुषो दृष्टः पुण्डरीकायतेक्षणः ॥२९
अपृच्छं पुरुषं चाहं ’कुत्रत्यः को भवा’ निति
’किमिर्थं चागतो ऽस्यद्य तव किं करवाण्यहम्?’ ॥ ३०
इति पृष्टो मया प्राह ’देवेन्द्रगिरिवासिना
प्रेषितो ऽहं नरव्याफ्रु! श्रीनिवासेन धीमता ॥३१
अहं वसामि शेषाद्रेः सदा तस्यान्तिके मुदा
’’श्रीवेङ्कटगिरेरस्य प्रभावं तु महाद्भुतम् ॥३२
निवेदये’ति देवेन प्रेषितो ऽस्मि तवान्तिकम्
शिलोच्चयेऽत्र वै शङ्खचक्रावनतहस्तकः ॥३३
श्रीभूमिसहितो नित्यं विहरन् राजतेतराम्
अद्रेर्दक्षिणतस्तस्य राजधानी विराजते ॥३४
गजराजिरथोपेता सर्वाद्बुतमयी सदा
तस्मिन् गिरौ त्रयस्त्रिंशत्कोटिसङ्ख्याश्च देवताः ॥३५
सर्वे महर्षयश्चापि सिद्धा योगिवरास्तथा
वसन्ति सर्वतीर्थानि तस्मिन् गिरिवरे शुभे ॥३६
अणिमा महिमा चैव गरिमा लघिमा तथा
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः ॥३७
तस्याद्रेः पूर्वभागे वै चरन्ति विपुलं तपः
पूर्वस्यां दिशि तस्याद्रेः ’कालहस्ती’ति विश्रुतम् ॥३८
[[396397]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे अष्ठमोऽध्यायः
पुरे तस्मिन् महादेवो वसति स्वयमादरात्
कालहस्त्युत्तरे भागे सुवर्णमुखरी नदी ॥३९
सर्वपापप्रशमनी दृश्यते मुनिसेविता
शुकादयो मुनिवराः तस्यास्तीरे यतेन्द्रियाः ॥४०
शेषशैलेशमुद्दिश्य तपस्तप्यन्ति दारुणम्
तस्याद्रेः परितः सप्तयोजनान्तःस्थिता जनाः ॥४१
सर्वपापविनिर्मुक्ता विष्णुलोकं प्रयान्ति वै
अष्टार्णं मनुराजं तं जप्त्वा तु किमुत प्रभो! ॥४२
तं द्रष्टुं देवदेवेशं द्रष्टुं सद्म च शोभनम्
एहि शेषाचलं शीफ्रुं’’ इत्थमाहूतवान् स माम् ॥ ४३
अथ तेनैव वुंसाऽहं शेषाचलमुपागमम्
व्योमान्तर्विततोदारशृङ्गान्तःस्तम्भितद्रुमम् ॥४४
तत्र गत्वा स पुरुषो ज्वलत्काञ्चनशोभितम्
दिव्यं प्रदर्शयामास विमानं रत्नशोभितम् ॥४५
स्वयमन्तर्दधे सोऽयं पश्यतो मम पूरुषः
अन्तर्दधे विमानञ्च तस्मिन्नेव क्षणान्तरे’’ ॥४६
इति स्वप्नो मया दृष्टो ह्यद्भुतो रोमहर्षणः
अदृष्ट पूर्वश्चान्येन किमेतदिति चिन्त्यताम् ॥४७
मन्त्रिणः-
’’देवेन त्वयि कारुण्यात् दर्शितं राजसत्तम!
स वल्मीकस्थान एव देवस्तिष्ठत्यसंशयम् ॥४८
क्षीरभाण्डञ्च गोपाला भग्नमावेदयंस्तव
गोपालैः यत्समादिष्टं वल्मीकस्थानमुत्तमम्
तत्र क्षीराभिषेकेण देवो व्यक्तिं गमिष्यति’’ ॥४९
नृपनिकटं प्रति शेषाचलोदन्तज्ञापनाय शबरागमनम्
इति सञ्चिन्त्यमाने वै शबरः कश्चिदाययौ
कालमेघनिभो धन्वी खड्गतूणीरभूषितः ॥५०
बरिछपिच्छान्वितशिरा लतापल्लवभूषितः
तूर्णमागत्य राजानं प्रणम्य शिरसा ततः ॥५१
व्यजिज्ञपच्च राजानं प्रणतः प्राञ्जलिः स्थितः
स्वामिन्! वसामि शेषाद्रौ प्रियङ्गुकृषिमाचरन् ॥५२
तेन जीवामि सततं सपुत्रः सहबान्धवः
कश्चिच्छ्वेतो वराहो वै तत्राऽगत्य दिने दिने ॥५३
प्रियङ्गुं भक्षयत्येव निश्शेषं मिषताञ्च नः
तदर्थं रक्षणे तस्य नियुज्य मम पुत्रकम् ॥५४
प्रियं प्रियङ्गुं देवाय निवेदयितुमुद्यतः
मध्वर्थमगमं सोऽहं सुदूरं तत्र पर्वते ॥५५
तस्मिन्नवसरे पुत्रः प्रियङ्गुं लोलुपः करे
नम्मर्द्य भक्षयित्वाऽऽन्ते तदपश्यं समागतः ॥५६
देवानिवेदिते प्रीतिर्मम नासीत् कदाचन
ततः क्रुद्धो रुदन्तं वै पुत्रं हन्तुं समुद्यतः ॥५७
तदा ह्याकाशगा वाणी मामवोचत् सुदारुणम्
’’मा वधीः पुत्रमेनं वै प्रियङ्गुमनिवेदितम् ॥५८
देवः स्वीकृतवानेव त्वद्वृत्तेनैव तोषितः
चक्रवर्तिसमीपञ्च गत्वा स्वप्नञ्च दर्शितम् ॥५९
[[398399]]
अभिज्ञानतया चोक्त्वा तमागच्छेति वै वद’’
इति तेन समाख्यातं वाचा व्योमगया तदा ॥६०
वचः श्रुत्वा विचार्याथ ’किमेत’ दिति मन्त्रिभिः
राजाऽथ गोपवाक्यञ्च स्वप्नं शबरभाषितम् ॥६१
एकीकृत्य सहानेन निर्ययौ शबरेण सः
आदिश्य मन्त्रिणश्चैव गोसहस्रभवं भुवि
क्षीरमानयतेत्येतत् शेषाचलतटं ययौ ॥६२
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे भृगुनारद संवादे श्री
वेङ्कटाचलमाहात्म्ये चोलराजस्वप्नवृत्तान्तकथनं नाम
अष्टमोऽध्यायः.
नवमोऽध्यायः
अथ नवमोऽध्यायः
चक्रवर्तिनः शबरेण सह वराहदर्शनार्थं शेषाचलगमनम्
श्रीनारदः-
निर्गत्य राजा शबरेण सार्धं प्रियं प्रियङ्गुं प्रतिभक्षयन्तम्
श्वेतं वराहं शबरोपदिष्टं दिव्यं विमानञ्च दिदृक्षुरत्र ॥१
विलोकयन् श्वेतवराहमेकं प्रियङ्गुसस्यं किल भक्षयन्तम्
गर्जन्तमायान्त मितस्ततोऽपि घोणारवं भीमपराक्रमञ्च ॥२
दिव्यं विमानञ्च ददर्श तत्र नृपस्तदा रत्नविभूषितं तत्
अनेकसाहस्ररविप्रकाशं स्वप्नेऽद्भुतं दृष्टमदृष्टपूर्वम् ॥३
ततो वराहः सहसा प्रियङ्गुं व्याधस्य हृष्टस्तमथोपभुज्य
दृग्गोचरं तस्य समीपजातं वल्मीकमेष प्रविवेश भूयः ॥४
न तद्विमानञ्च ददर्श भूयः तस्मिन् क्षणे विस्मितचित्त एषः
पप्रच्छ तं शाबरमेव ’तस्य हेतुं वद’स्वेति स राजपुत्रः ॥५
चक्रवर्तिकृतक्षीराभिषेकेण वल्मीकात् श्रीनिवासाविर्भावः
स शाबरस्तस्य च तेन हेतुं तत्त्वेन पृष्टः स जगाद तस्मै ।
’अयं वराहो न वराहमात्रं देवः स्वयं यो धरणीं बभार॥६
इदं विमानञ्च तदीयमेव दिव्यं त्वया दृष्टमदृष्टपूर्वम्
वासोऽस्य वल्मीकमिदं महात्मन्! महत्तरं नूनमितस्तु हेतोः ॥७
वल्मीकतोऽस्माच्च विनिर्गतोऽसौ भूयोऽपि तत्रैव विलीन आस्ते ।
अतोऽत्र राजन्! निशितैः खनित्रैः वल्मीकमेतत् प्रविदार्य सद्यः ॥८
विलोक्यतां नूनमिहैव देवो वसिष्यतीति प्रतिभाति मेऽद्य’
श्रुत्वा च तत् शाबरवाक्यमेष वल्मीकमेतत् न बिभेद भीतः ॥९
अथाभ्यषिञ्चत् स तमेव भक्त्या गोपाहृतैः क्षीरघटैरनेकैः ।
स तत्र वाचां मनसामभूमिं ददर्श रत्नोज्ज्वलमद्भुतञ्च ।
दिव्यं विमानोत्तममाशु दृष्ट्वा हृष्टश्च मूर्ध्ना प्रणनाम भूयः ॥१०
तन्मध्येऽसौ ’’नीलजीमूतकल्पं पद्माऽऽवासं संश्रितत्राणहेतुम् ।
श्रीवत्साङ्कं पुण्डरीकायताक्षं शङ्खं चक्रं धारयन्तं कराभ्याम् ॥११
दातारं तं पाणिना वै वराणा- मन्येनाङ्कं बिभ्रतं भ्राजमानम् ।
पीतं वस्त्रं बिभ्रतं राजमानं कोटीिरान्तप्रोतरत्नोपशोभम् ।
शान्ताकारं शाश्वतं श्रीनिवासं सेव्यं देवैर्वासुदेवं ददर्श ॥१२
[[400401]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे नवमोऽध्यायः
स राजपुत्रो दृष्ट्वाऽथ देवेशं भक्तवत्सलम्
प्रादुर्भूतं प्रणम्यैनं तुष्टाव स्तुतिभिः स्वयम् ॥१३
चक्रवर्तिकृत श्रीनिवासस्तुतिः
राजपुत्रः-
’’ब्रह्मा रुद्रो वसवो ये च साध्याः विश्वेदेवा मरुतः सप्तपूर्वे ।
एते चान्ये देवमुख्या नियोगं पश्यन्तस्ते विष्टपान् वर्तयन्ते ॥१४
नाकारं वा रूपमत्यद्भुतं ते पश्यन्त्येते योगिमुख्याः पुराणाः ।
इत्थं भूते मादृशानुग्रहार्थं प्रत्यक्षं ते रूपमेतद्बभूव ॥१५
होतव्यं त्वं पावकान्तस्तु होत्रं होता च त्वं पावकोऽपि त्वमेव।
उद्देशस्त्वं सिद्धिरस्य त्वमेव त्वत्तः किञ्चिन्नान्यदत्रास्ति देव! ॥१६
सदैवैकस्त्वं परं ब्रह्म पूर्वं यस्मान्नान्यं प्राहुरेतत्प्रपञ्चम्
यत्सङ्कल्पात् प्राकृतः सर्व आदौ यच्चान्तःस्थं शासि सर्वात्मनेमम्॥१७
न ब्रह्माऽसीत् पूर्वमीशो न चाऽसीत् नेमे व्याप्ते रोदसी वाऽप्यभूताम् ।
एकस्त्वं वै जागरूकस्तु शेषे शेषे तल्पे चारु सृष्ट्वा तदाऽऽपः॥१८
नो लोकस्त्वां वेद वेत्थ त्वमेनं नाऽदिर्मध्यं विद्यते तेऽथवान्तः
सत्यं रूपं ते श्रुतिः कीर्तयन्ती ज्ञानाकारं यत्तदेतन्नमामि ॥१९
कालोऽसि त्वं लोकसंहारहेतुः स्रष्टा चादौ रक्षकश्च त्वमेव ।
संहार्यस्त्वं सृज्यवस्तु त्वमेव प्रायो रक्ष्यं त्वं हि कर्ता च कर्म ॥२०
त्वं यज्ञो दीक्षितस्त्वञ्च स्वाहाऽसौ त्वं हुताशनः
त्वया व्याप्तमिमं लोकमनुव्याप्ता रमा तव ॥२१
सोऽहं त्वां शरणं प्राप्तः पद्मासखमजं विभुम्
शेषिणां सर्वजगतां प्रणतार्तिहरं शुभम् ॥२२
श्रीनिवासस्य चक्रवर्तिप्रार्थनया सर्वजनदृश्यत्वाभ्युपगमः
स्तुत्वेति भूपः प्रणतः पृथिव्यां
तुष्टाव भूयः प्रणनाम भूयः ।
अथास्य भक्तिं स विलोक्य देवो
नृपात्मजं प्रीतमना जगाद ।
गुहासु बद्धैः प्रतिशब्दजातैः
मुहुस्तिरस्कृत्य पयोधिघोषम् ॥२३
श्रीभगवान्-
’प्रीतोऽस्मि राजेन्द्र! परं तवाहं भक्त्यानयाचान्यसुदुर्लभञ्च ।
वरं वृणीष्वाद्य यदिच्छसि त्वं दास्यामि सर्वं तव मा विषादः’ ॥२४
राजपुत्रः-
’यत्तद्रूपं दुर्लभं योगिवर्यैः रम्यं भूयादीदृशं सर्वदृश्यम् ।
अत्रैव त्वं सर्वदा वासमीयाः सर्वेषां वै मानवानां हिताय’॥२५
’ओ’ मित्युक्त्वाऽथापरं प्राह वाक्यं ’मद्भक्तस्त्वं नास्ति तुल्यस्त्वयाऽन्यः ।
सन्तुष्टोऽहं मत्सखित्वं प्रदास्ये वेत्थ त्वं मां सुहृदं भक्तवश्यम्’॥२६
इत्यूचिवान् माधवो राजपुत्रं भूयः प्राहास्मै स्मेरवक्त्रारविन्दः ।
’सेवां राजन्! अन्वहं मे त्रिसन्ध्यं कर्तुं भूयः शासनान्मेऽरछसि त्वम् ॥२७
एतच्छ्रुत्वा राजपुत्रः स धीमान् सेवां नित्यं नो जहौ प्रीतचित्तः ।
सेवां कुर्वन् वेङ्कटेशस्य राजा तस्मिन् वासं पत्तने स्म प्रयाति ॥२८
सेवाकालेषु तस्यायं राज्ञो वै भक्तवत्सलः
अर्चाभावमतिक्रम्य हितार्था न व्युपादिशत् ॥२९
[[402403]]
श्री श्रीनिवासमहोत्सवसेवार्थं ब्रह्मरुद्राद्यागमनम्
स कदाचित् ध्वजारोहमहोत्सवमतन्द्रितः
अकारयच्च धर्मेण कन्यां याति दिवाकरे ॥३०
ध्वजं निर्माय विधिवत् गरुडाधिष्ठितं शुभम्
आरोपयत् समभ्यर्च्य ध्वजस्तम्भमनुत्तमम् ॥३१
ब्रह्माणमीशं सगणं शतक्रतुं ये चैवान्ये सन्ति दिक्पालमुख्याः ।
तानञ्जसा मन्त्रवर्यैर्द्विजाश्च सेवार्थं वै स्वैरमाहूतवन्तः ॥३२
ततो हंसं समारुह्य प्राञ्जलिः कमलासनः
आगतो मुनिभिः सार्धं काङ्क्षन् सेवां रमापतेः ॥३३
शङ्करोऽपि वृषारूढः सेवायै गिरिजान्वितः
प्रमथाद्यैः पारिषदैरन्वितः प्रययौ मुदा ॥३४
इन्द्रोऽपि सान्द्रसिन्दूर प्रस्फुरत्कुम्भमण्डलम्
आरुह्यैरावतं नागं द्रष्टुं यात्रोत्सवं ययौ ॥ ३५
अन्ये चापि दिशापालाः स्वं स्वं वाहनमास्थिताः
शेषाचलतटीदेशमगमन् आदृतोत्सवाः ॥३६
नारदोऽपि हरिनामसहस्रं कलयन् विमृशन्महतीञ्च मुहुः ।
आययौ हृदि च भास्वरभूतं कलयन् विवृणन्निगमादिमपि॥३७
अथाययुर्द्रष्टुकामा महान्तं क्षोणीपालाः प्राणिनः सर्व एव ।
पुत्रं नेत्रं प्रार्थयानाश्च भूयो नानादिग्भ्यो नव्रुशीर्षास्तदानीम् ॥३८
तस्य चोत्सवयात्रायां शेषाचलपतेस्तदा
वेङ्कटेशं प्रार्थयन्तो नानादिग्भ्यः समागताः ॥३९
किङ्कराश्चैव गायन्ति कीर्तिं तस्य महात्मनः
इत्थं प्रववृधे तस्य दिव्यः शौरेर्महोत्सवः ॥४०
अदृष्टपूर्वः सर्वेषां विस्मयं व्यतनोत् भृशम्
पङ्गवो जवना आसन् काणा वै दूरदर्शनाः
बभूवुर्वाग्मिनो मूका जनास्तस्मिन् महोत्सवे ॥४१
तदाप्रभृति यस्मिन् वै वर्षे वर्षे महोत्सवे
नमस्यति हरिं तत्र वृद्धिं यास्यति ध्रुवम् ॥४२
तस्य चोत्सवयात्रायां शेषाचलपतेस्तदा
पयोदा विरजीचक्रुः प्रतोलीर्वासवाऽऽज्ञया ॥४३
श्री श्रीनिवासस्य रथोत्सवावभृथोत्सवप्रकारः
सौवर्णं कल्पयामास रथं रत्नपरिष्कृतम्
तस्मिन् रथवरे रम्ये दीव्यति स्माष्टमे दिने ॥४४
अथाष्टसु व्यतीतेषु दिवसेषु महोत्सवे
श्रवणे विष्णुनक्षत्रे मुहूर्ते तु शुभे तदा ॥४५
चक्रं भगवताऽऽज्ञप्तं स्वामिपुष्करिणीजले
चकाराऽवभृथस्नानं मखेऽस्मिंश्च समापिते ॥४६
अथास्यां विधिवद्रात्रौ ध्वजस्याप्यवरोहणम्
चक्रुर्विप्रवरास्तत्र महानैवेद्यमेव च ॥४७
अथान्यस्मिन् दिने देवमानर्च विधिवत्तदा
प्रसूनैर्विविधैश्चापि सुगन्धैः सुमनोहरैः ॥४८
हरिर्विसर्जयामास देवान् सेवार्थमागतान्
ब्रह्मरुद्रपुरोगांश्च प्रणव्रुशिरसस्तदा ॥४९
[[404405]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे नवमोऽध्यायः
इत्थं स राजा वृषशैलभर्तुः
महोत्सवं दिव्यमिमं समाप्य ।
हृष्टः कृतार्थं बहुमन्यमानो
ह्यात्मानमावास मियाय भूयः ॥५०
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे भृगु नारद संवादे श्री
वेङ्कटाचलमाहात्म्ये श्री श्रीनिवासाविर्भावादिवर्णनं
नाम नवमोऽध्यायः
दशमोऽध्यायः
अथ दशमोऽध्यायः
चक्रवर्तिसमीपागत कृष्णशर्माख्य विप्रोदन्तः
नारदः-
उत्सवान्ते द्विजः कश्चित् आजगाम तदन्तिकम्
भार्यया सहितश्चैव तदैवाऽचिरसूतया ॥१
द्विजं तमागतं राजा पाद्यार्घ्यासनवन्दनैः
अभिपूज्य यथान्यायं दृष्ट्वा कुशलमब्रवीत् ॥२
राजा-
’कस्ते देशो द्विजश्रेष्ठ! किमर्थमित आगतः
वदस्व किमहं वा ते करवाणि निदेशकृत्?’ ॥३
विप्रः-
’दक्षिणाम्भोनिधेस्तीरे श्रुता चन्द्रपुरी शुभा
तस्यां वसति धर्मज्ञः कूर्मो नाम द्विजोत्तमः ॥४
तस्याहं वै सुतो राजन्! कृष्णशर्मेति विश्रुतः
भार्या सुधर्मिणी नाम्ना ममेयं पुत्रिणी शुभा ॥५
काशीक्षेत्रमहं द्रष्टुं प्रयास्ये मुक्तिसाधनम्
अस्याः शिशुस्त्रिमासोऽयं दुर्बला चैव भामिनी ॥६
प्रवासायोग्यतामस्या दुर्बलायाश्च मन्त्रयन्
त्वत्सकाशमहं राजन्! सम्प्राप्तस्त्वं हि रक्षिता ॥७
विलोक्य काशीमायास्ये सेयं तावन्मनस्विनी
समीपे तव राजेन्द्र! वासं यात्विति मे मतिः’ ॥८
’ओ’ मित्युक्तोऽथ भूपेन त्यक्त्वा भार्यां सुतान्विताम्
आमन्त्र्य च महीपालं ययौ काशीं प्रति द्विजः ॥९
राजा च तस्या वासार्थं गृहमेकं प्रकल्प्य सः
धान्यं षण्मासपर्याप्तं दापयामास च स्वयम् ॥१०
’न निर्गच्छ गृहा’ च्चेति शशास द्विजभामिनीम्
स्वव्यापारे स्थितो राजा नैव सस्मार तां ततः ॥११
कृष्णशर्मा ततो विप्रो गत्वा प्रस्थानमुत्तमम्
पुनरागत्य भूपालमिदं वचनमब्रवीत् ॥१२
कृष्णशर्मा–
’आगतः कृष्णशर्माऽहं गङ्गां दृष्ट्वा सुशोभनाम्
न्यस्ता तवाऽन्तिके भार्या दीयतां विरहातुरा’ ॥१३
इत्युक्तो भूपतिस्तेन चिन्तयामास दुःखितः
’अहो! मया प्रमत्तेन विषयाऽसक्तचेतसा ॥१४
[[406407]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे दशमोऽध्यायः
न चिन्तिता महाभागा भामिनी तु द्विजन्मनः
धान्यं षण्मासपर्याप्तं दत्तमस्यै पुरा मया ॥१५
स कालस्तु व्यतीतोऽद्य किं करोतु द्विजन्मजा
गृहान्निर्गमनं चास्याः प्रतिषिद्धं मया तदा ॥’१६
इत्थं सञ्चिन्त्य राजाऽसौ प्रेषयामान पूरुषम्
द्रष्टुं स्वनिर्मिते गेहे नपुत्रां द्विजभामिनीम् ॥१७
स विलोक्यागतस्तूर्णं राजानं तं व्यजिज्ञपत्
’शिशुना सह भार्याऽस्य कालधर्ममुपागता ॥१८
शरीरे चानयोः शुष्के वर्तेते चिरकालतः’
इति तस्य वचः श्रुत्वा स राजा भृशदुःखितः ॥१९
द्विजमाहूय सम्भ्रान्तमिदं वचनमब्रवीत्
राजा-
’तव भार्या द्विजश्रेष्ठ! मामनुज्ञाप्य भामिनी ॥२०
देवदेवस्य सेवार्थमिदानीमेव निर्गता
श्व आनेष्यामि भद्रं ते गतां सेवार्थमञ्जसा ॥२१
दिनमेकं च विश्रम्य ततो यास्यसि भार्यया’
इत्युक्त्वाऽथ द्विजश्रेष्ठ नृपः शङ्कितमानसः ॥२२
गृहान्निर्गत्य शेषाद्रिमारुरोह क्षणान्तरात्
देवस्यावसरं वीक्ष्य प्राञ्जलिः प्रयतः स्थितः ॥२३
स मुहूर्तं विनिश्वस्य सखेदं च व्यजिज्ञपत्
’’स्वामिन्! विज्ञापनामद्य श्रुणुष्वैकमना मम ॥२४
सोऽहं हि भवता रक्ष्यः शरणं गत इत्यपि
अप्रबुद्धेन मत्तेन मया वै दुष्कृतं कृतम् ॥२५
न्यासीकृतां महाभागां द्विजवर्येण धीमता
न व्यचारयमासक्तो विषयेषु यशस्विनीम् ॥२६
इदानीमागते विप्रे पूर्ववृत्तमनुस्मरन्
किमेतदिति भीतोऽहं तदुदन्तं विचारयन् ॥२७
श्रुत्वा मृतां निराहारां सपुत्रां शुष्कदेहिनीम्
परं निर्विण्णचित्तोऽहमवदं द्विजमग्रतः ॥२८
’गता सा देवसेवार्थं श्व आनेष्यामि तां प्रियाम्
सपुत्रां तव भार्यां वै मा भैषीर्द्विजसत्तम!’ ॥२९
भविष्यति कथं चेति भृशं चिन्तामुपागतः
त्वामेव शरणं देव! प्रणतार्तिहरं गतः ॥३०
यथा पापं न विन्देयं चरितार्थो यथा द्विजः
देवदेव! तथा कर्तुं शक्तो नान्यस्त्वया विना ॥३१
त्राहि मां शरणं प्राप्तमितस्त्वं दुःखसागरात्
गतिस्त्वमेव चास्माकं नान्योऽस्ति जगतीपते! ॥’’३२
इति प्रणम्य देवेशं स्थितस्तूष्णीं नृपोत्तमः
सान्त्वयन् मधुरैर्वाकैः उवाच मधुसूदनः ॥३३
श्रीभगवान्-
’मा ते व्यथा भूद्राजर्षे! मा भैषीस्त्वं कदाचन
तवोपायमहं वक्ष्ये द्विजभार्याप्रजीवने ॥३४
[[408409]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे दशमोऽध्यायः
विप्रः काशीं प्रयास्यन्मां दृष्ट्वाऽनुज्ञाप्य वै गतः
सुधर्मिणी च मद्भक्ता साध्वी मद्गतमानसा ॥३५
ततस्तदीया प्राणा वै यमाय किल नार्पिताः
शरीरे मम राजेन्द्र! स्थापितास्तु प्रियासवः ॥३६
इत्युक्त्वाऽऽश्वास्य भूपालं विष्वक्सेनमभाषत
प्राञ्जलिं विनयानव्रुं वेत्रपाणिं पुरःस्थितम्
’’विष्वक्सेन! महाभाग मदीयाज्ञामिमां श्रुणु ॥३७
अस्थिकूटाभिधसरोवर माहात्म्यम्
इत ईशानदिग्भागे त्वस्थिकूटाभिधं शुभम्
तीर्थमस्ति ततस्तोयं समाहृत्य सुपावनम् ॥३८
सुधर्मिण्याः सुतस्यापि शरीरमभिषेचय
सपुत्रा सा प्रसुप्तेव तत उत्थास्यति ध्रुवम् ॥३९
विष्वक्सेन ’स्तथे’ त्युक्त्वा तोयमाहृत्य तीर्थतः
सुधर्मिण्याः शरीरं तदभ्यषिञ्चत्सुतस्य च ॥४०
उत्थिता ससुता साध्वी द्विजभार्या सुधर्मिणी
अथ राजानमाहूय प्रोवाच मधुसूदनः ॥४१
’दृष्टो गिरिवरस्याऽयं महिमा भवतानघ!
प्रभावमचलस्यास्य सनकाद्याश्च योगिनः ॥४२
ब्रह्माद्याः सकला देवा न जानन्ति यथा मम
यद्यदिच्छति वै जन्तुर्मनसाऽभीप्सितं नृप! ॥४३
तथा सिध्यति तत्सर्वं गिरेरस्य प्रभावतः’
अथ विप्रं समाहूय भार्यां चाऽस्य सुधर्मिणीम् ॥ ४४
द्विजभार्यामथापृच्छत् ’वद ते किमभीप्सितम्?
सा तथोक्ता तु देवेन वरयामास माधवम् ॥४५
’त्वद्भक्तिश्च दृढा चास्तु मम देवेश! नित्यशः’
एवं सम्प्रार्थितो देवो ददौ तस्या अभीप्सितम् ॥४६
ततो विधिशिवाद्याश्च सनकाद्याश्च योगिनः
वृषाद्रिमगमन् सर्वे द्रष्टुकामास्तदद्भुतम् ॥४७
कृष्णशर्मा च सन्तुष्टो विस्मितश्च महामुने!
प्रणम्य स्तोत्रयामास देवदेवं रमापतिम् ॥४८
देवदेवो नृपं प्राह न चास्य सदृशो भुवि
विप्रस्य मयि भक्तस्य तथैव नियतात्मनः ॥४९
असौ जन्मान्तरे राजन्! त्रय्यन्तार्थप्रवर्तकः
भविष्यति तदन्ते च मत्सायुज्यमवाप्स्यति ॥५०
राजा च विप्रमाहूय सभार्यं पुरुषर्षभम्
स्वाऽऽवासं प्रेषयामास प्रहृष्टेनाऽन्तरात्मना ॥ ५१
तदनु च नृपतिर्वृषाचलं तं
स्वय मधिगम्य दिने दिने महात्मा ।
विरचितदृढभक्तिरस्य कुर्वन्
विविधमनोरथकिङ्करत्वमासीत् ॥५२
कथितं भाविवृत्तान्तं देवदेवस्य शार्ङ्गिणः
अर्चितश्च कलौ भक्तै रद्भुतानि प्रदर्शयन् ॥५३
विहरन् रमया चैव साकं तत्र महीधरे
वसिष्यति च हृष्टात्मा सुरसिद्धनिषेवितः’ ॥५४
[[410411]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे दशमोऽध्यायः
इत्येवं भृगवे तस्मै कथयामास नारदः
वेङ्कटाचलमाहात्म्यं परं व्यासेन कीर्तितम् ॥५५
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे भृगुनारदसंवादे
श्री वेङ्कटाचलमाहात्म्ये अस्थिकूटतीर्थमाहात्म्य वर्णनं नाम
दशमोऽध्यायः
एकादशोऽध्यायः
अथ एकादशोऽध्यायः
सिंहादाख्यासुरवृत्तान्तः
भृगुः-
’नमो नमस्ते देवर्षे! सर्वज्ञ करुणानिधे!
वेङ्कटाचलमाहात्म्यं भूतं भावि च मे श्रुतम् ॥१
केनाकारेण भगवान् आकल्पं निवसिष्यति
किं करिष्यति वा देवः श्रीमान् वेङ्कटनायकः? ॥२
एतत्सर्वं सङ्ग्रहेण ब्रूहि मे मुनिसत्तम!
यस्य श्रवणमात्रेण श्रोतव्यं नावशिष्यते’ ॥३
नारदः-
श्रूयतामिदमाख्यास्ये चरितं वेङ्कटेशितुः
सम्भाषितमगस्त्येन भाविवृत्ते प्रसङ्गतः ॥४
चक्रवर्ती च भूपालः शासिष्यति वसुन्धराम्
भविष्यति तदा दैत्यः सिंहादो नाम वीर्यवान् ॥५
स दुरात्मा तपस्तेपे निध्यायन् परमेष्ठिनम्
उत्तरे पापनाशस्य सार्धयोजनदूरतः ॥६
सरस्यघविनाशाख्ये कुर्वंस्त्रिषवणाप्लवम्
’’प्रजापते! त्वदन्यो न विश्वोपरि बभूव ह! ॥७
वयं श्रेयस्विनः स्याम सोऽस्तु यो नो मनोरथः’’
इति मन्त्रं जपन्नित्यं आरराध चतुर्मुखम् ॥८
वर्षे पूर्णे स भगवान् हंसारूढः सरोजभूः
आविर्बभूव पुरतः सिंहादस्य तपस्विनः ॥९
ब्रह्मा-
’’उत्तिष्ठोत्तिष्ठ भद्रं ते सिंहाद! कुशली भव
तपसा तव तुष्टोऽस्मि वरं वरय सुव्रत!’’ ॥१०
सिंहादः-
’’नमो नमस्ते विश्वेश! सर्वकारणकारण!
यदि प्रीतोऽसि भगवन्! देहि मे वरमुत्तमम् ॥११
देवदानवगन्धर्वयक्षराक्षसपन्नगाः
वशे तु मम वर्तन्तां तेभ्यो न च भयं मम’’ ॥१२
सिंहादवचनं श्रुत्वा ’’तथाऽस्त्वि’’ति विरिञ्चिनः
आभास्याऽन्तर्दधे साकं योगीशैरस्य पश्यतः ॥१३
तदाप्रभृति दुष्टात्मा बबाधे देवतागणान्
क्षत्रियैः सह देवांशैः मुनीनन्यांश्च मानवान् ॥१४
[[412413]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे एकादशोऽध्यायः
सिंहादभीतदेवानां श्रीनिवाससमीपागमनम्
एवं तेनार्दिता देवा मुनयश्च तपोधनाः
शरण्यं शरणं जग्मुः वेङ्कटेशं यथाविधिम् ॥१५
देवाः-
’’दैत्यारे! देवदेवेश! शरणागतवत्सल!
त्राहि नः पुण्डरीकाक्ष! सिंहादादसुराधमात् ॥१६
त्रिलोकीं बाधते नित्यमनुभुङ्त्के च रूपिणीम्
सिंहादः क्रूरचारित्रः पापः प्राप्तवरो विधेः’’ ॥१७
इति तेषां वचः श्रुत्वा भगवान् भूतभावनः
मेघध्वनिगभीरेण वचसाऽन्वग्रहीत् सुरान् ॥१८
अभयागतदेवानां चक्रवर्तिनिकटगमनाय भगवदाज्ञा
श्रीभगवान्-
’’अभयं ब्रह्मणा दत्तं देवेभ्यः सुरसत्तमाः
न दानवाश्च तं घ्नन्ति नासुरा न च पन्नगाः ॥१९
नैव शक्तिर्मनुष्याणां संहारेऽस्य दुरात्मनः
सहायास्तस्य बहवः सन्ति दैत्यांशसम्भवाः ॥२०
खरः कडारः पिङ्गाक्षः कनकः कद्रुकः कपिः
एते हि रण्डाकुलजाः षट् बाणस्यात्र सन्ति हि ॥२१
प्रह्लादाय वरो दत्तः पुरा प्रीतिजुषा मया
तद्वंश्या नैव हन्तव्याः सत्यपि त्रिजगत्क्षये ॥२२
तत्रोपायं प्रवक्ष्यामि सिंहादक्षपणाय वः
चक्रवर्ती वसत्यत्र कालहस्तिसमीपतः ॥२३
सुवर्णमुखरीतीरे पश्चिमे पुण्यधामनि
समाप्यायत स्वांशैर्मद्भक्तं चक्रवर्तिनम् ॥२४
सिंहादं सुमहाबाहुं महाबलपराक्रमम्
स संहरिष्यति बली राक्षसानिव राघवः ॥२५
स्वस्था भवत देवेशाः! सर्वं भद्रं भविष्यति’’
इत्युक्त्वा भगवान् विष्णुः सर्वभूतात्मभावनः ॥
विसर्जयामास सुरान् विमानं चाविशत् प्रभुः२६
भगवदाज्ञया देवानां द्विजवेषेण चक्रवर्तिनिकटगमनम्
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
अनुग्रहीतुकामास्तं आजग्मुश्चक्रवर्तिनम् ॥२७
ब्राह्मणाकारमालम्ब्य देवगन्धर्वतापसाः
शुभाशिषं प्रयुञ्जाना राजानमुपतस्थिरे ॥२८
आगतांस्तान् महाभागः पूजयित्वा यथाविधि
पप्रच्छ कुशलं सर्वान् अभिवादनपूर्वकम् ॥२९
पूजितास्तेन भूपेन देवा ब्राह्मणविग्रहाः
अब्रुवन्नेककण्ठास्ते राजानं प्रश्रयानतम् ॥३०
सिंहादवधाय चक्रवर्तिनं प्रति देवकृतचोदना
ब्राह्मणाः-
’’राजन्! कुशलमस्माकं त्वयि शासति मेदिनीम्
न हि सूर्ये प्रतपति लोके सम्पद्यते तमः ॥३१
सिंहादो नाम दैत्येन्द्रो बाधते ब्राह्मणानिह
न यज्ञाः सव्प्रुवर्तन्ते न होमा न च सत्क्रियाः ॥ ३२
[[414415]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे एकादशोऽध्यायः
उत्तरे पापनाशस्य सार्धयोजनदूरतः
स वसत्यसदाचारः खलो ब्राह्मणहिंसकः ॥३३
तं संहर दुरात्मानं सर्वलोकैककण्टकम्
कृतस्तेऽनुग्रहोऽस्माभिः सर्वदेवात्मभिर्नृप!’’ ॥३४
चक्रवर्ती-
’’अनुग्रहेण युष्माकं संहरामि न संशयः
सिंहादः कीदृशस्तस्य ब्रूत किं वा बलं बुधाः!’’ ॥३५
ब्राह्मणाः-
’’विरिञ्चिना दत्तवरः सिंहादः क्रूरविक्रमः
अवध्यः सर्वदेवानां देवस्य च रथाङ्गिणः ॥३६
त्वमेव तस्य राजेन्द्र! संहर्ता न च संशयः
देवाः कुर्वन्तु सर्वेऽपि सन्निधानं त्वयि प्रभो!’’ ॥३७
इत्युक्त्वा ब्राह्मणाः सर्वे सम्प्रयुज्य जयाऽऽशिषः
अन्तर्धानं गतास्तत्र तदद्भुतमिवाभवत् ॥३८
सिंहादवधोपायवेदनाय भगवत्सन्निधिं प्रति चक्रवर्तिगमनम्
अथ राजा महातेजाश्चक्रवर्ती स धार्मिकः
मन्त्रिभिर्मन्त्रयामास वधोपायं दुरात्मनः ॥३९
निश्चित्य कृत्यवित् कृत्यं मन्त्रिभिः सह मन्त्रवित्
जगाम वेङ्कटेशस्य सन्निधिं परया मुदा ॥४०
स्वर्णपत्रैः स्वर्णपुष्पैः तुलसीदलसंयुतैः
अर्चयित्वा यथापूर्वं वेङ्कटेशं नृपोऽवदत् ॥४१
’ब्राह्मणप्रवराः स्वामिन्! सिंहादेन निपीडिताः
तत्संहारनियोगं मे प्रददुः किं करोम्यहम्?’ ॥ ४२
चक्रवर्तिकृतासुरवधार्थकभगवद्दत्त पञ्चायुधधारणम्
श्रीभगवान्-
’शङ्खचक्रे प्रदास्यामि भाविसायुज्यसूचके
तथा कौमोदकीं शार्ङ्गं नन्दकं च महामते! ॥४३
पञ्चायुधधरो भूत्वा दुरात्मानं सुरद्रुहम्
सबन्धुवर्गं सामात्यं जहि सङ्ग्राममण्डले’ ॥४४
इत्युक्त्वा प्रददौ तस्मै शुचये चक्रवर्तिने
शङ्खचक्रगदाशार्ङ्गखड्गानि मधुसूदनः ॥४५
सिंहादेन सह युद्धाय किरातरूपेण चक्रवर्तिगमनम्
ततः स राजतनयः पुनश्च स्वपुरं गतः
सेनां संयोजयामास देवतेजस्समेधिताम् ॥४६
सर्वदैवततेजोभिरुपबृंहितविग्रहः
कैरातं वपुरास्थाय प्रतस्थे सहसैनिकः ॥४७
किरातवपुषः सर्वे सहिता विश्वकद्रुभिः
समेतं मृगयासक्तं चक्रवर्तिनमन्वयुः ॥४८
घ्नन्तो व्याफ्रून् वृकान् सिंहान् तरक्षून् शल्यकान् किटीन्
प्रतीरं पापनाशस्य प्रापू राजेन्द्रसद्भटाः ॥४९
चोलराजकुमारस्य वाहिनी बलगर्विता
मन्दं मन्दं प्रतीयाय घोरसिंहादकाननम् ॥५०
[[416417]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे एकादशोऽध्यायः
वनदुर्गाद्विनिष्क्रम्य सिंहादो दैत्यभूपतिः
अवैक्षत किरातांस्तान् निर्विषादः स्मिताननः ॥५१
’न देवा न च दैतेया न गन्धर्वा न दानवाः
न चक्रवर्तिनः सैन्यं किमर्थं नो भयाढ्यता?’ ॥५२
इति निश्चित्य धीरात्मा निर्गतः सैनिकैः सह
सिंहादः सिंहमारुह्य प्रतीयाय प्रभोर्बलम् ॥५३
कोट्या शतसहस्रेण खरसैन्येन निर्ययौ
सर्वतः सहितः सैन्यैः कडारः षष्टिकोटिभिः ॥५४
पिङ्गाक्षः सप्तकोटीभिः कनको दशकोटिभिः
कद्रुकोऽन्योर्बुदानीकः कपिः पद्मासुरावृतः ॥५५
अन्ये च दैत्यपतयः स्वस्व सैन्यसमावृताः
आगताः सर्व एवैते मिलित्वाऽक्षौहिणीशतम् ॥५६
पापनाशनतीर्थसमीपप्रवृत्तचक्रवर्तिसिंहादयुद्धक्रमः
त्रिदशाक्षौहिणीनाथः चक्रवर्ती महाबलः
सिंहादेन समं युद्धं चकार भगवत्प्रियः ॥५७
सेनयोरुभयोश्चाथ सिंहादहरिभक्तयोः
समरः सुमहानासीत् गङ्गायमुनयोर्यथा ॥५८
विमानरत्नान्यारुह्य प्रवीरवरणोत्सुकम्
आगतं देवगाणिक्यं मध्येगगनमण्डलम् ॥५९
आगता देवताः सर्वाः परमेष्ठिपुरोगमाः
द्रष्टुकामा महायुद्धं दैत्यराजाधिराजयोः ॥६०
ततो युद्धं समभवत् सिंहादनृपसेनयोः
वरार्थे कलहं चक्रुः देव्यश्चाप्सरसो मिथः ॥६१
सेनासु क्षीयमाणासु चक्रवर्ती धृताग्रहः
शार्ङ्गं धनुरुपादाय सन्दधे निशितान् शरान् ॥६२
बाणेनैकेन राजेन्द्रो जघान दशविंशतिम्
शतं सहस्रमयुतं नियुतं प्रयुतं तथा ॥६३
तस्य विक्रममालोक्य सिंहादः सिंहवाहनः
गदया राजराजाश्वं निजघानाऽतिरंहसा ॥६४
निहते तुरगे राजा गजमैरावतोपमम्
आरुह्य मघवेवाऽन्यो गदां कौमोदकीं दधौ ॥६५
सा विसृष्टा नृपेन्द्रेण हत्वा सिंहादवाहनम्
ममर्दाक्षौहिणीषष्टिं पुना राजानमाश्रिता ॥६६
मायामास्थाय सिंहादः प्रभूताञ्च क्षणान्तरे
पुनरुज्जीवयामास सेनां कौमोदकीहताम् ॥६७
सैनिकोज्जीवनं दृष्ट्वा सिंहादस्य महौजसः
विस्मिताः सस्मिताश्चासान् दिवि देवाश्च तापसाः ॥६८
अर्धचन्द्रेण बाणेन शार्ङ्गमादाय वीर्यवान्
शतवारं च चिच्छेद सिंहादस्य शिरो नृपः ॥६९
कृत्तं कृत्तं पुनः कृत्तं पुनर्जातं पुनःपुनः
वीक्षमाणाः शिरो देवा विषादं प्रतिपेदिरे ॥७०
अस्त्रं सन्धाय गान्धर्वं शार्ङ्गे श्रीपतिवल्लभः
प्रायुङ्त्क वैरिसेनायां रामो मूलबले यथा ॥७१
[[418419]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे एकादशोऽध्यायः
खादन्तः प्रहरन्तश्च दैतेयास्ते परस्सरम्
उन्मत्ता इव भूतेन ग्रस्ता इव च बभ्रमुः ॥७२
समरसमये चक्रवर्तिने वायुकृतसुदर्शनमन्त्रोपदेशः
विरिञ्चेनाभ्यनुज्ञातो वायुर्ब्राह्मणरूपधृत्
जजाप नृपते कर्णे सौदर्शनषडक्षरम् ॥७३
’गोब्राह्मणहितार्थाय चक्रेण नृपनन्दन!
हर दैत्यशिरः शीफ्रु’ मित्युक्त्वाऽन्तर्दधे च सः ॥७४
चक्रायुधेन चक्रवर्तिकृतसिंहादवधप्रकारः
ब्राह्मणस्य वचः श्रुत्वा चक्रवर्ती महामनाः
सुदर्शनं सहस्रार मादधे भगवानिव ॥७५
चक्रपाणिं नृपं वीक्ष्य मत्वा चक्रधरं हरिम्
भयविभ्रान्तचित्तस्य सिंहादस्य शिरस्तदा
सुदर्शनेन चिच्छेद चक्रवर्त्यपुनर्भवम् ॥७६
अन्ये तु तस्यानुचरा दैत्यवीराः ससैनिकाः
गान्धर्वमोहितास्तस्थुः तत्रैव रणमण्डले ॥७७
तस्योपरि नरेन्द्रस्य पुष्पवर्षाणि जज्ञिरे
अथ चामरवाद्यानि वाद्यन्ते स्म समन्ततः ॥७८
अशरीरिगिरं श्रुत्वा चोलराजस्य नन्दनः
अस्त्रस्य मोहनस्याऽस्य न चक्रे प्रतिसंहृतिम्’ ॥७९
श्रीनारदः-
एवमुक्तमगस्त्येन यथोक्तं भवतो मया
अन्यञ्च किञ्चिद्वक्तव्यं उच्यते चरितं मया ॥८०
कलौ युगे नराः सर्वे तत्राऽऽयोधनमण्डले
श्रोष्यन्ति दैत्यवीराणां रात्रौ कोलाहलं सदा ॥८१
क्षेत्रपालाज्ञया सर्वे सिंहादासुरसैनिकाः
नयनागोचरा नॄणां भ्रमिष्यन्ति ततस्ततः ॥८२
ततः सिंहादसंहारी चक्रवर्ती महीपतिः
व्यजिज्ञपत् स्ववृत्तान्तं वेङ्कटेशाय सर्वतः ॥८३
शङ्खचक्रगदाशार्ङ्गनन्दकान् नृपनन्दनः
अर्पयामास हरये वेङ्कटाद्रिनिवासिने ॥८४
भगवत्कृतपञ्चायुधकृत्यनिर्णयः
राजानञ्च तथा पञ्चायुधान्यपि च माधवः
उवाच मेघनिर्घोषगम्भीरिमभृता गिरा ॥८५
’राजन्! यदेच्छसि जयमजय्ये साम्परायके
तदेमान्यायुधान्युच्चैः साहाय्यं कुर्वतां तव’ ॥ ८६
’हे शङ्ख! चक्र! शार्ङ्ग! असे! कौमोदकि! महागदे!
राज्ञोऽस्य कामदाः काले स्वस्वतीर्थेषु तिष्ठत ॥८७
स्नातानां स्वस्वतीर्थेषु मम सायुज्यभोगदाः
विहरध्वं यथाकामं मयि ध्यानपरायणाः ॥८८
[[420421]]
श्रीब्रह्माण्डपुराणे तीर्थखण्डे एकादशोऽध्यायः
दत्तैर्युष्माभिरेतस्य सायुज्यं यदिहाऽदिशम्
तन्न व्याहन्यतां सद्यः पुनरागमनेन वः ॥८९
मनसा मे स्त सद्योऽहं प्रत्यक्षविगतायुधः
कञ्चित् कालं वसिष्यामि ततः केनापि हेतुना ॥९०
कलौ कश्चिन्महाभागः शङ्खचक्रे तु कृत्रिमे
कारयित्वा स्थापयिता विमानादींश्च मे पुनः ॥९१
ततस्तद्भक्तिवशगः सर्वप्रत्यक्षगोचरः
आकल्पं निवसिष्यामि वराभयदहस्तकः ॥९२
ऊर्ध्वाभ्यामपि चान्याभ्यां हस्ताभ्यामतिसुन्दरे
दधानः शङ्खचक्रे च कल्पिते लोकतुष्टये’ ॥९३
’दत्तं हि मम सायुज्यं मया ते राजनन्दन!
गच्छ प्रशाधि राज्यञ्च मां सेवस्व दिवानिशम्’ ॥९४
इत्याज्ञप्ता भगवता शङ्खचक्रगदासयः
शार्ङ्गञ्च स्वस्वतीर्थानि पुण्यानि प्रतिपेदिरे ॥९५
पुत्रोऽपि चोलराजस्य देवताऽशास्यवैभवः
जगाम नगरीं स्वीयां मघवेवामरावतीम् ॥९६
इत्थं नारदवाक्यानि श्रुत्वा भृगुरुदारधीः
वेङ्कटेशे परां प्रीतिमविन्दत महामनाः ॥९७
भृगुरपि वृषभाचलप्रभावं
मुनिवरसङ्कथितं निशम्य भूयः ।
तदनु स च विलोकितुं रमेशं
स्थिरमतिना मनसा ययौ गिरीन्द्रम् ॥९८
इति श्री ब्रह्माण्डपुराणे तीर्थखण्डे भृगुनारदसंवादे श्री
वेङ्कटाचलमाहात्म्ये चक्रवर्तिपराक्रमवर्णनं नाम एकादशोऽध्यायः
॥ हरिः ॐ। ॐ तत्सत् ॥
श्री वेङ्कटेश्वरचरणारविन्दार्पणमस्तु
इत्थं श्री ब्रह्माण्डपुराणे तीर्थखण्डे भृगुनारदसंवादे आदित एकादश
पर्यन्तस्य एकादशाध्यायात्मकस्य श्रीवेङ्कटाचलमाहात्म्यस्य
विषयो भागः समाप्तिमगमत् ॥
[[422]]श्रीब्रह्माण्डपुराणे तीर्थखण्डे एकादशोऽध्यायः423