०५ हरिवंशः

श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यैनमः
श्री वेङ्कटाचलमाहात्म्यम्
(श्रीहरिवंशान्तर्गत श्रीशेषधर्मघटकम्)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
हरिः ॐ

अष्टचत्वारिंशोऽध्यायः


नारदादीनां भगवत्सेवार्थं श्रीवेङ्कटाचलागमनम्
युधिष्ठिरः-
’देवव्रत! महाभाग! सुरसिन्धुसुत! प्रभो!
श्रीनिवासस्य माहात्म्यं वद नो वदतां वर! ॥१
वैकुण्ठवासी देवेशो विष्णुः सर्वगतः प्रभुः
कथं प्राप्तो वृषगिरिं तन्मे त्वं कृपया वद’ ॥२
श्री भीष्मः-
’पुरा वै नारदः श्रीमान् ब्रह्मपुत्रो महाद्युतिः
हरिं द्रष्टुमनास्तात! वैकुण्ठं समुपागतः ॥३

[[342343]]
तत्र दृष्ट्वा हरिं पार्थ! क्षीरोदध्युपकण्ठतः
आयान्तमृषयो दृष्ट्वा मुदमापुश्च नारदम् ॥४
अगस्त्यप्रमुखाः सर्वे पाराशर्यपदानुगाः
अनुज्ञातो मुनिगणैः पाराशर्यो महाद्युतिः ॥५
व्यासो वचनमक्लीबं नारदं प्रत्युवाच ह
’कृतकृत्यो मुने! ब्रह्मान्! त्वमेको जगतीतले ॥६
विष्णुभक्तोऽसि नान्योऽस्ति सदा कीर्तयसे यतः
अहो खलु! मनुष्याणां मोक्षदो विष्णुरव्ययः ॥७
स त्वया सेव्यते नित्यं कृतकृत्यो भवानतः
स्रष्टा पालयिता हन्ता ह्येक एव जनार्दनः ॥८
स त्वया पूजितो नित्यं तस्मात् खलु कृती भवान्
योऽनन्तः सर्वभूतानां सेतुभूतो जगन्मयः ॥९
संसारपाशविच्छेदी स त्वया पूजितो हरिः
एते वयं मुनिश्रेष्ठ! द्रष्टुकामा जनार्दनम् ॥१०
तन्निवेशितचित्ता हि प्राप्ता परमधार्मिक!’
ईदृशं वचनं श्रुत्वा व्यासस्य जगतीपते
प्रोवाच नारदो धीमान् ऋषीन् वेदविदां वरः ॥११
’कृतकृत्योऽस्मि भद्रं वो यूयं भूतहिते रताः
शास्त्रेर्धर्मैः सदा लोकान् भक्त्या रक्षितुमिच्छत ॥१२
वैकुण्ठलोके सम्भूता वार्ता परमपावनी
अश्रावि सा मया सन्तो वक्ष्ये शृण्वन्तु तां कथाम् ॥ १३
’’मायावी परमानन्दः त्यक्त्वा वैकुण्ठमुत्तमम्
स्वामिपुष्करिणीतीरे रमया सह मोदते’’ ॥१४
इत्यद्भुततमं वाक्यं श्रुत्वा सेन्द्रा मरुद्गणाः
तत्र सेवितुमुद्युक्ताः तदाऽहञ्च जगद्गुरुम् ॥१५
किं करिष्यथ विप्रेन्द्रा ह्यत्र दुर्लभदर्शनम्
तस्मात्तत्र गमिष्याम इत्युक्त्वा खं समारुहम् ॥१६
अगस्त्यप्रमुखाः सर्वे ऋषयश्च तपोधनाः
जग्मुस्ते व्योममार्गेण यत्र धर्मगिरौ हरिः ॥१७
श्री वेङ्कटाचलवासि महाजनचरित्रवर्णनम्
स्वामिपुष्करिणीतीरं गत्वा तमृषयः सुराः
स्नात्वा पीत्वा शुभं तोयं हरिं द्रष्टुं तदाऽचरन् ॥ १८
पश्चिमं भागमासाद्य मुनयो विष्णुतत्पराः
तत्रापश्यन्महद्भूतं मेरुमन्दरसन्निभम् ॥१९
सहस्रादित्यसङ्काशं विद्युच्चञ्चललोचनम्
सर्वायुधधरं देवं दृष्ट्वा विस्मयमागताः ॥२०
दक्षिणां दिशमाजग्मुः स्वामिपुष्करिणीतटात्
तत्रासुरान् दानवादीन् राक्षसान् पिशिताशनान् ॥२१
नमस्यतो ध्यायतश्च जपतश्चापि तान् बहून्
दृष्ट्वा विस्मयमापन्नाः पूर्वं दिशमुपाययुः ॥ २२
तत्राऽऽसीनं देवपतिं त्रिदशैरुपसेवितम्
यक्षकिन्नरगन्धर्वचारणाद्यैरभिष्टुतम् ॥२३
श्रीहरिवंशे श्रीशेषधर्मे अष्टचत्वारिंशोऽध्यायः

[[344345]]
सिद्धकिम्पुरुषाद्यैश्च ऋषिभिश्चाप्सरोगणैः
स्तूयमानं हरिं साक्षात् श्रीनिवासं जगत्पतिम् ॥२४
’’कदा द्रक्ष्यामि तद्रूपं योगिनामपि दुर्लभम्
कदा मे जन्मसापल्यं भविष्यति सुरार्चित! ॥२५
देहि मे दर्शनं देव! प्रणतार्तिप्रणाशन!
त्वं गतिः सर्वभूतानां देवानामपि मोक्षदः ॥२६
पाहि पाहि जगन्नाथ! भूयो भूयो नमोऽस्तु ते’’
इति स्तुवन्तं देवेशं देवराजं पुरन्दरम् ॥२७
वेङ्कटाद्रेः पुरोभागे स्वामिपुष्करिणीतटे
देवताभिः समासीनं ध्यायन्तं पुरुषोत्तमम् ॥२८
तं दृष्ट्वा विस्मिताः सर्वे ह्यगस्त्यप्रमुखा द्विजाः
कौबेरीं दिशमाजग्मुः द्रष्टुकामा जनार्दनम् ॥२९
तत्रापश्यन् द्विजवरान् सप्तद्वीपनिवासिनः
राज्ञो मुनिगणांश्चैव भूसुरान् वेदवादिनः ॥३०
भूलोकवासिनश्चैव मनुजान् मनुजेश्वर!
मुदमापुर्महात्मानो मुनयः शुद्धबुद्धयः ॥३१
स्तुवन्ति नृत्यन्ति नमन्ति केचित् आनन्दजाश्रूणि सृजन्ति केचित्
आप्लुत्य चाप्लुत्य नदन्ति केचित् गायन्ति गीतं परितो महान्तः ॥३२
’रात्र्यां शशी देहभृताञ्च चक्षुः दीनार्तिहा नो दिनकृद्दिवा च
एकोऽपि विष्णुर्बहुधा विभिन्नो धाता जनानां दिवि देवतानाम्
कृपानिधिस्तत्र बभूव लक्ष्यः सर्वस्य लोकस्य हिताय नूनम्॥३३
वनैः पुष्पफलैः केचित् स्तोत्रैश्च विविधैर्जपैः
वेदपारायणैः केचित् पूजयन्ति जनार्दनम् ॥३४
धूपदीपैर्गन्धमाल्यैः अन्यैः सामादिकीर्तनैः
दीप्तहाटककुम्भैश्च तोरणैर्ध्वजराशिभिः ॥३५
विचित्रकुसुमैः केचित् पूजयन्ति जनार्दनम्
तुलसीमञ्जरीभिश्च करवीरैश्च जातिभिः ॥३६
मल्लिकाकेतकीपुष्पैः चम्पकैः पूजयन्ति ते
भूसुरा ऋषयश्चैव कलशैः परिपूरितैः ॥३७
पुण्योदकैर्मन्त्रपूतैः कमण्डलुगतैः शुभैः
पत्रकुम्भाहृतैः केचित् पूजयन्ति जनार्दनम् ॥३८
पत्रशाकैर्मूलफलैः नैवेद्यं कल्पयन्ति च
शुद्धोदकैर्मन्त्रपुष्पैः ध्यानैः स्तोत्रजपैः परे ॥३९
एवं तेषां तु पूजाभिः पूजितो मधुसूदनः
आस्ते तत्र जगन्नाथः स्वामिपुष्करिणीतटे ॥४०
’’हरे! मुरारे! पुरुषोत्तमे’’ ति वदन्ति केचित्परिरम्भयन्ति
तूष्णीं तु तिष्ठन्ति हसन्ति केचित् ध्यायन्ति केचित् कलशं वहन्ति॥४१
पूर्णं मुरारेरभिषेकहेतोः पुष्पाणि सौरभ्ययुतानि गन्दैः
कर्पूरकस्तूरिसुगन्धवासितान् आदाय सर्वे वृषभाद्रिनाथम्
ते मार्गमाणा विचरन्ति तत्र देवा मनुष्या अपि योगिनश्च॥४२
श्रीहरिवंशे श्रीशेषधर्मे अष्टचत्वारिंशोऽध्यायः

[[346347]]
भीष्मः-
’’एवं कृत्येषु देवेषु ऋषिगन्धर्वकोटिषु
पुष्पवृष्टिः पपाताऽऽशु पर्वतोपरि सर्वतः ॥४३
भेरीमृदङ्गपटहैः निस्साणाद्यैश्च डिण्डिमैः
शङ्खकाहलसन्नादैः सङ्कुलं समजायत ॥४४
तस्मिन्नवसरे विष्णुः प्रादुरासीत्सरस्तटे
मेरुमन्दरसङ्काशैः जाम्बूनदपरिष्कृतैः ॥४५
नानारत्नचितैर्दिव्यैः विमानैरुपशोभितः
कोटिसूर्यप्रतीकाशः चन्द्रकोटिसुशीतलः ॥४६
स्वर्लोकात् भूमिपर्यन्तं प्रादुरासीच्छ्रियः पतिः
स्वामिपुष्करिणीतीरे रविमण्डलसन्निभे
विमाने सेवितो देवैः श्रीनिवासोऽवसत्प्रभुः ॥४७
’’ब्रह्मा शिवश्चन्द्रदिवाकरौ स सेन्द्रो यमाग्नी धनराट् च पाशी
रक्षोऽनिलोऽसौ वसवश्च दस्रौ विरिञ्चिकोट्यो गणदेवताश्च॥४८
पिता पितॄणां जनकः सुराणां
माता शिशूनां महतां महात्मा ।
पतिः प्रियाणां तरणिर्जनानां-
निधिः कृशानामिव निर्धनानाम् ॥४९
आविर्बभूवात्र महोज्ज्वलाङ्गः श्रिया युतः श्रीवृषभाद्रिनाथः
प्रसन्नमूर्तिर्जगदेकबन्धुः प्रसन्नधामाऽथ जगन्निवासः ॥ ५१
श्रीनिवाससेवार्थं श्री भीष्मकृत युधिष्ठिरप्रेरणम्
तस्मात्पूजयितुं राजन्! श्रीनिवासं जगद्गुरुम्
गच्छ सौम्य सदाऽऽनन्दं भुक्तिमुक्तिफलप्रदम् ॥५१
महापातकयुक्तो वा युक्तो वा सर्वपातकैः
यस्य स्मरणमात्रेण नरः पापैः प्रमुच्यते ॥५२
श्रीनिवासस्य सेवार्थं यो वा को वा व्रजेद्यदि
तस्यैव वंशजाः सर्वे मुक्ता एव न संशयः ॥५३
यानि क्षेत्राणि पुण्यानि तीर्थान्यायतनानि च
तानि सर्वाणि सेवन्ते श्रीनिवासं जगन्मयम् ॥५४
इदं ये पुण्यमाख्यानं शृण्वन्ति श्रद्धया नराः
तेषां मुक्तिः करस्थैव गतानां किमु वैभवम्’’ ॥५५
हरि ओम् ॥ तत्सत् ॥
इति श्रीहरिवंशे श्री शेषधर्मे श्री वेङ्कटाचलमाहात्म्यवर्णनं
नाम अष्टचत्वारिंशोऽध्यायः
इति श्रीहरिवंशे शेषधर्मे श्री वेङ्कटाचलमाहात्म्यं
॥सम्पूर्णम्॥