०४ गारुडपुराणम्

श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः
श्री वेङ्कटाचलमाहात्म्यम्
(श्रीगारुडपुराणान्तर्गतम्)
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
हरिः ॐ

त्रिषष्टितमोऽध्यायः


वसिष्ठं प्रति श्री वेङ्कटाद्रिमाहात्म्य श्रवणेच्छ्वरुन्धतीप्रश्नः
श्रीगरुडः-
अरुन्धती समस्तानामङ्गनानां पतिव्रता
पतिं स्वं परिपप्रच्छ लोकानां हितकाम्यया ॥१
अरुन्धती-
’ब्रह्माऽत्मज! नमस्तुभ्यमिदं विज्ञापनं शृणु
’’पतिशुश्रूषणादन्यत् स्त्रीणां धर्मो न विद्यते ॥२

[[334335]]
न यागयोगौ न तपो न तीर्थं न सुरार्चनम्
सर्वधर्माधिकं स्त्रीणां पत्युरेव प्रहर्षणम्’’ ॥३
इति श्रुतं मया त्वत्तः ऋषिभोऽन्येभ्य एव च
तथाऽपि जायते प्रीतिर्मम काचिद्गरीयसी ॥४
विष्णुक्षेत्रे क्वचित्पुण्य तीर्थे सर्वातिशायिनि
कञ्चित्कालं तपः कृत्वा विष्णुमुद्दिश्य यत्नतः ॥५
विष्णोर्मुखेन सद्धर्मं वाचयित्वा जगत्कृते
सर्वधर्मोत्तमं नॄणां दर्शयामीति मे मतिः ॥६
अनुज्ञया स्त्रियो भर्तुः धर्माचरणमुत्तमम्
विष्णुक्षेत्रं तादृशं मे वद तीर्थोत्तमं तथा’ ॥७
गरुडः-
अरुन्धत्या पृष्ट इत्थं वसिष्ठो वाक्यमब्रवीत्
’सम्यक्पृष्टमिदं देवि! सर्वलोकहितेच्छया ॥८
तथा वदामि शृणु मे यथा हृत्सव्प्रुहृष्यति
श्रोतर्यप्रतिपत्तौ तु वक्तुर्वाक्यं तथा भवेत् ॥९
यथाऽन्धे भर्तरि स्त्रीणां सौन्दर्यं सकलं वृथा
सावधानमना भूत्वा शृणु तस्माद्वचो मम ॥१०
वसिष्ठवर्णित श्री वेङ्कटाचलमाहात्म्यम्
सुवर्णमुखरीतीरे कश्चिदस्ति महीधरः
वेङ्कटाचलनामाऽसौ सर्वभूभृत्कुलोत्तमः ॥११
अतिप्रीतिर्महाविष्णोः तत्र वेङ्कटभूधरे
श्वेतद्वीपाच्च वैकुण्ठात् भानुमण्डलमध्यतः ॥१२
यन्नाम कीर्तयित्वाऽपि सर्वपापक्षयो भवेत्
समस्तश्रेयसां सिद्धिः तादृशो वेङ्कटाचलः ॥१३
यस्मै वेङ्कटशैलाय नमस्कृत्यापि दूरतः
सर्वपापैः प्रमुच्येत तत्पुण्यं क्षेत्रमुत्तमम् ॥१४
तत्र स्वामिसरो नाम तीर्थमेकं विराजते
तत्पश्चिमे भूमिकोलः तटे राजति देवराट् ॥१५
श्रीमद्वराहदेवस्य वेङ्कटाचलवासिनः
न मया शक्यते वक्तुं महिमा बहुहायनैः ॥१६
दक्षिणे स्वामितीर्थस्य तीरे नीरजलोचनः
श्रीवेङ्कटेशो भक्तानां वरदः श्रीनिकेतनः ॥१७
निवसत्यच्युतो नित्यं सुलभस्सर्वदेहिनाम्
तस्य सेवामपेक्षन्ते ब्रह्मरुद्रादिदेवताः ॥१८
तस्य वेङ्कटशैलस्य सन्ति नामान्यनेकशः
कीर्तनात्पापहारीणि श्रेयोदानि शृणुष्व मे ॥१९
’’अञ्जनाद्रिश्शेषगिरिः वृषाद्रिर्वृषभाचलः
नारायणाद्रिस्सिंहाद्रिः श्रीशैलस्सिंहभूधरः’’ ॥२०
एवमादीनि नामानि यः कीर्तयति मानवः
प्रातःकाले प्रतिदिनं तस्य पुण्यमनन्तकम् ॥२१
श्रीगारुडपुराणे त्रिषष्टितमोऽध्यायः

[[336337]]
तस्मिन् श्रीवेङ्कटाधीशे भक्तिमन्तः कलौ युगे
मनोरथान्प्राप्नुवन्ति मनुष्या भाग्यशालिनः ॥२२
श्री वेङ्कटाचलस्थ आकाशगङ्गा पापनाशन तुम्बुतीर्थ प्रशंसा
उत्तरे स्वामितीर्थस्य वियद्गङ्गा विराजते
तस्या माहात्म्यमतुलं प्रवदन्ति मनीषिणः ॥२३
ततः पापविनाशाख्य उत्तरे तीर्थनायकः
स्नानेन तत्र नश्यन्ति पापानि विविधान्यपि ॥२४
तत उत्तर ऐशाने भागे गिरिवनान्तरे
तुम्बुतीर्थमिति ख्यातः कश्चिदस्ति वरानने ॥२५
अनेकवृक्षविततिसिंहशार्दूलसंयुते
निम्नोन्नतस्थले तत्र प्रकृष्टस्तीर्थनायकः ॥२६
देवगन्धर्वमुनयः तुम्बुतीर्थे कृताप्लवाः
कृतार्था अभवन् पूर्वं इति मे ब्रह्मणश्श्रुतम् ॥२७
स्वामिपुष्करिणीं गत्वा स्नात्वा तत्र यथाविधि
आदिपोत्रिणमालोक्य वेङ्कटेशे कृताऽनतिः ॥२८
आकाशगङ्गातीर्थे च पापनाशे कृताऽप्लवा
तत्र गत्वा तुम्बुतीर्थे स्नात्वा निर्मलमानसा ॥२९
प्राङ्मुखी त्वं स्थिता भूत्वा तपः कु’ र्वित्यचोदयत्
वसिष्ठेऽभ्यनुज्ञाता अरुन्धती तं प्रणम्य च ॥३०
वसिष्ठोक्त्या अरुन्धत्यास्तुम्बुरुतीर्थे तपःकरणाय शेषाचलागमनम्
आगत्य वेङ्कटाधस्तात् कपिलाख्ये सरोवरे
कृत्वा स्नानं तदाऽऽरुह्य वेङ्कटाद्रितटे शुभे ॥३१
कृतस्नाना स्वामितीर्थे भूवराहं प्रणम्य च
श्रीनिवासं वेङ्कटेशं नमस्कृत्यास्य सन्निधौ ॥३२
प्रार्थयामास ’भगवन्! परिपालय मां हरे!
तपः करोम्यहं तुम्बुतीर्थं गत्वा कृपानिधे! ॥३३
तत्र त्वं रमया सार्धं सन्निधे ह्यचिरेण मे’
इति विज्ञाप्य गगनगङ्गां पापविनाशनीम् ॥३४
गत्वा तत्र निमज्ज्याऽऽशु तुम्बुतीर्थमुपागमत्
स्मरन्ती भर्तृवचनं तत्र स्नात्वा विभानतः ॥३५
पतिप्रोक्तं विष्णुमन्त्रं जपन्ती तपसि स्थिता
वयस्याऽनुमतिर्नाम शुश्रूषामकरोत्सदा ॥३६
द्वादशाब्दं तपश्चक्रे निराहारा यतव्रता
देवगन्धर्वमुनयः तां दृष्ट्वा तपसि स्थिताम् ॥३७
अरुन्धतीसमीपे भगवदाविर्भावः
आश्चर्यमाश्चर्यमिति ब्रुवाणा मुदमाययुः
तस्यास्तपस्सुप्रसन्नः प्रादुरासीत्परः पुमान् ॥३८
फाल्गुने मासि पौर्णम्यां मीने भास्वति भास्वति
तदा ब्रह्मादयो देवा ऋषयो व्यासपूर्वकाः ॥३९

[[338339]]
सनन्दसनकाद्याश्च योगिनस्सर्व एव हि
मुनिपत्न्यो देवपत्न्यः समीयुस्सङ्घशो मुने ॥४०
अरुन्धती महाभागा लक्ष्म्याऽऽलिङ्गितवक्षसम्
दृष्ट्वा हरिं वेङ्कटेशं प्रणनाम मुदाऽन्विता ॥४१
तां दृष्ट्वा प्रणतां विष्णुः इदमाह दयानिधिः
’उत्तिष्ठाऽरुन्धतीदेवि! तपसा क्लेशवत्यसि ॥४२
तवेप्सितमहं दास्ये वरं वरय सुव्रते!
सुप्रीतं तं विदित्वा सा तुष्टावाऽञ्जनशैलपम् ॥४३
अरुन्धतीकृतभगवत्स्तुतिः
अरुन्धती-
’नमस्तुभ्यं महादेव! नारायण! कृपानिधे!
पाहि मां फणिशैलेश! भक्तबन्धो! दयानिधे! ॥४४
न जाने वेङ्कटाधीश लक्ष्मीनायक! केशव!
त्वां विना सर्वलोकानां दृष्टादृष्टफलप्रदम् ॥४५
यस्योरस्यनिशं विभाति जगती सौभाग्यधात्री रमा
धत्ते यस्य पदावनेजसजलं मूर्ध्ना पुरारिस्सदा!
श्रीमद्वेङ्कटशैलनित्यनिलयं देवोत्तमं त्वां विना
दृष्टादृष्टफलप्रदं किमपरं दृष्टं क्षितौ दैवतम्’ ॥४६
इति स्तुत्वा पुनः प्राह शेषशैलशिखामणिम्
’यदि प्रीतिर्मत्तपसा तव शेषाद्रिवैभवम् ॥४७
तुम्बुतीर्थस्य माहात्म्यं वद लोकोपकारकम्’
वसिष्ठपत्न्येति पृष्टः प्राह वेङ्कटवैभवम्
शृण्वत्सु सर्वलोकेषु ब्रह्मादिषु सुरेषु च ॥४८
भगवद्वर्णित वेङ्कटाचल तुम्बुतीर्थमाहात्म्यानि
श्रीनिवासः-
’शृण्वरुन्धति! मद्वाक्यं सर्वलोकोपकारकम्
वेङ्कटाद्रौ स्वामितीर्थे वेङ्कटेशे च ये मयि ॥४९
भक्तिमन्तः प्रजैश्वर्याऽयुष्मन्तश्च भवन्ति ते
वेङ्कटाद्रिस्वामितीर्थमन्नामानि च कुर्वते ॥५०
पुत्राणां ते पुनस्सर्वसम्पदामेकभाजनम्
’श्रीवेङ्कटेशे’ ति सदा वाचि पञ्चाक्षरं यदि ॥५१
ब्रह्मादीनाञ्च सर्वेषां वन्द्या एव न संशयः
ये तुम्बुतीर्थाभिषेकं आचरन्ति यदा तदा ॥५२
ते निष्पापा मत्कृपया लक्ष्म्याः पात्रं न संशयः
फाल्गुन्यां पौर्णमास्यास्तु प्रत्यक्षदिवसे मम ॥५३
स्नास्यन्ति भक्तिमन्तो ये तेषां शृणु फलोन्नतिम्
यत्सर्वतीर्थस्नानेन तत्फलं भवति ध्रुवम् ॥५४
’फल्गुनीतीर्थ’ मित्यस्य नाम लोके भविष्यति
ब्रह्मविट्क्षत्रशूद्राणां अपि स्त्रीणामरुन्धति! ॥५५
श्रीगारुडपुराणे त्रिषष्टितमोऽध्यायः

[[340]]
अत्र स्नानेन दुरितं नश्यति श्रेय एति च
मनोवाक्कायविहितं पापं नश्यति सर्वथा ॥५६
यत्किञ्चिदर्थमुद्दिश्य पुरुषा वा स्त्रियोऽपि वा
स्नास्यन्त्यत्राप्नुवन्त्येवं तं तमर्थं न संशयः ॥५७
पुत्रार्थी पुत्रमाप्नोति धनार्थी लभते धनम्
आरोग्यकाम आरोग्यं अपत्यं पुत्रकामवान् ॥५८
नश्यन्त्यापद आश्वस्य सिद्धयो हस्तसङ्गताः
अत्र स्नात्वा तु दानानि कुर्वतां बहुलं फलम् ॥५९
मे चन्दनञ्च ताम्बूलं प्रयच्छन्त्यपि चोदकम्
ते मत्प्रियास्तु विङ्ञेयाः सत्यं सत्यं वदाम्यहम् ॥६०
अयं सर्वोत्तरो धर्मः उक्तस्तव वरानने!
पतिव्रतानां मुख्या च भव त्वञ्च सुपुत्रिणी’ ॥६१
इति सर्वं वरं दत्वाऽन्तर्दधे वेङ्कटेश्वरः
य इदं पठति ध्यायन् श्रुणुयाच्च समाहितः
घोणतीर्थस्नानफलं प्राप्नोति हि न संशयः ॥६२
हरिः ॐ ॥ तत्सत् ॥
इति श्रीगारुडपुराणे श्री वेङ्कटाचलमाहात्म्यवर्णनं
नाम त्रिषष्टितमोऽध्यायः
इति श्रीगारुडपुराणान्तर्गत श्रीवेङ्कटाचलमाहात्म्यम्
सम्पूर्णम्॥