०३ पाद्मपुराणम्

श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै श्रीपद्मावत्यै नमः
श्रीमते विष्वक्सेनाय नमः
(अथ श्रीपाद्मपुराणान्तर्गत श्रीवेङ्कटाचलमाहात्म्यम्)
श्री पाद्मपुराणारम्भः

चतुर्विंशोऽध्यायः

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
हरिः ॐ
मेरुशिखराच्छुकब्रह्मर्षेः वेङ्कटाचलागमनम्
देवलः-
देवदर्शन देवर्षे ब्रह्मभूयकरं परम्
मुकुन्दानन्दनं ब्रूहि धर्मं कर्मविमोचनम् ॥१
देवदर्शनः-
साधु देवल! भूदेव यत्सृष्टो ऽहमिह त्वया
शृणु विद्वन् विशेषेण वक्ष्यामि तव सुव्रत ॥२
इतिहासमिमं पुण्यं चतुर्वर्गफलप्रदम्
यशस्करं रञ्जनकं आयुरारोग्यभूतिदम् ॥३
पुरा सुमेरुशिखरे नानारत्नविचित्रिते
खचितानेकमाणिक्ये सौवर्णे कुट्टिमस्थले ॥४

[[234235]]
अनुस्यूतस्रवद्देवस्रवन्तीर्झराऽऽप्लुते
मयूखोद्दामरत्नौघखण्डितध्वान्तकुञ्जके ॥५
सान्द्रस्निग्धतरुच्छायसुरद्रुमवनोदरे
मकरन्दं स्रवन्तीभिः स्रग्भिस्तु परिलम्बिते ॥६
माणिक्यस्तम्भमहिते मकराननतोरणे
विचित्ररत्नप्रत्युप्तस्वर्णस्तम्भचतुष्कके ॥७
सिंहासने महारत्नविचित्रांशुविराजिते
सावित्र्या च सरस्वत्या सदाऽऽसीनः पितामहः ॥८
गन्धर्वैर्गर्वनिर्वाहैः गानविद्याविचक्षणैः
गायद्भिः किन्नरगणैः गीयमानश्च वीणया ॥९
स्तूयमानस्तुम्बुरुणा हाहाहूहूत्थतेजसा
सेव्यमानः सहस्राक्षप्रमुखैः सुरसत्तमैः ॥१०
ब्राह्मीभिः शक्तिभिर्ब्रह्मभाषाभूषाभिरात्मभूः
अंशुकाभरणालेपाकल्पहस्ताभिरन्तिके ॥११
वसिष्ठप्रमुखैर्ब्रह्ममुनिभिः सिद्धचारणैः
मार्कण्डेयमरीच्यत्रिभृगुपूर्वैर्महर्षिभिः ॥१२
शापानुग्रहसामार्थ्यसाधनैश्च तपोधनैः
माहात्म्यं पुण्यदेशानां ऊचिवद्भिः परस्परम् ॥१३
समन्ततः नेव्यमानः नेवारसविशारदैः
निषद्गणैरुपनिषद्गणैः श्रुतिगणैरपि ॥१४
साङ्गैः संशिक्षितमना विश्वसर्गविलासभूः
आस्ते समालपन् ब्रह्मा स्वपदाह्लादनिर्भरः ॥१५
कथाप्रसङ्गादत्रैव नारायणगिरेर्महत्
माहात्म्यमाविर्भावञ्च श्रीनिवासस्य शार्ङ्गिणः॥१६
श्रुत्वा शुकः परमऋषिः सभायां समुपस्थितः
स देशं तं दिदृक्षुः सन् कौतूहलसमाकुलः ॥१७
विज्ञापयन् ब्रह्मणे तं नमस्कृत्य च सर्वतः
जगाम तस्माद्देशाद्वै दक्षिणाभिमुखः सुधीः ॥१८
वासुदेवे वहन् भक्तिं पुराणपुरुषोत्तमे
तत्कथाऽऽलापकुतुकः स्मयमानमुखो मुनिः
ददर्श नारायणाद्रिं तत्र नारायणाश्रमम् ॥१९
श्रीवेङ्कटाचलवर्णनम्
नीलजीमूतमुदितनीलकण्ठविडम्बनम्
शृङ्गकोटीरविश्रान्तवालखिल्यकुलाकुलम् ॥२०
तिग्मांश्वश्वखुरक्षुण्णशृङ्गमाणिक्यमण्डलम्
अमृतांशुकरस्पर्शनिर्यदिन्दुदृषद्द्रवम् ॥२१
तुङ्गशृङ्गस्फुरद्रत्नतरलीकृततारकम्
माणिक्यकुण्डलमहोमाद्यद्द्युमणिमण्डलम् ॥२२
वियल्लिहोत्तुङ्गशृङ्गविशङ्कटविटङ्ककम्
चन्द्रकान्तस्रवास्वादिचकोरकुलसङ्कुलम् ॥२३
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुर्विंशोऽध्यायः

[[236237]]
स्फाटिकाश्मदरीशृङ्गनिर्यन्निर्मलनिर
ञ्झ
रम्
अधित्यकारूढपुल्ललोध्रसिंहविडम्बनम् ॥२४
माकन्दकुसुमामन्दमकरन्दसमुक्षितम्
दन्तावलघटाघातदर्दुरप्रस्थकन्दरम् ॥२५
व्युत्क्रमक्रमणाक्रान्तशरभप्रस्थदुःस्थलम्
महान्धकारमहिमदुर्निरीक्ष्यमहर्षभम् ॥२६
आफ्रूतव्याकुलप्राणिव्याफ्रुभीमभृगुस्थलम्
निर
ञ्झ
रापातपर्यन्तग्रस्तमुस्तार्धसूकरम् ॥२७
यमवाहनदुर्दर्शनिनदन्महिषाकुलम्
शाखाशिखाक्रमच्छाखामृगसानुमहीरुहम् ॥२८
विकीर्णश्वापदानीकाधित्यकोपत्यकात्यघम्
अभ्रङ्कषाग्रविविधविटपाटविपाटनम् ॥२९
धातुप्रस्थस्थलीनिर्यदोघप्रस्रवणाकुलम्
अन्तकास्यप्रतीकाशगुहागेहोषितार्णकम् ॥३०
झिल्लिकानादबधिरीभूतदिक्चक्रवालकम्
दिव्यं विभूत्यपादानं तत् गायद्भिरुषितान्तरम् ॥३१
नानामणीमयूखौघमहेन्द्रायुधवर्चसम्
कृष्णसारवरोद्रिक्तहरिणीकुलसङ्कुलम् ॥३२
विधुन्वद्बालविमलचमरीचङ्क्रमोत्कटम्
लाङ्गूलवेल्लितलसद्गोलाङ्गूलकुलाकुलम् ॥३३
प्रवालकाण्डप्रस्तारमण्डितान्तरकन्दरम्
इतस्ततस्तपस्यद्भिः ऋषिभिः निर
ञ्झ
रान्तिके ॥३४
आस्थातव्यप्रस्थदेशं ब्रह्मध्यानपरायणैः
आश्रितार्तिहरच्छायविशालवनपादपम्
तस्य सानुमतः सोऽपि पादानाश्रित्य सत्वरः ॥३५
शुकस्य श्रीवेङ्कटाचलस्थपुण्यतीर्थावगाहनम्
निर
ञ्झ
रेष्वाप्लवं कुर्वन् विमलोदेष्वनन्यधीः
ह्रादेषु देवखातेषु नदीप्रस्रवणेषु च ॥३६
अन्येष्वमलतीर्थेषु त्रिवृद्ब्रह्म जपन् मुनिः
संसारमोचनीं ब्रह्मविद्यां विद्याविजृम्भणीम् ॥३७
जपन्नुपांशु मनसाऽवद्याविद्यानिबरिछणीम्
निवसन् रजनीमेकां तत्र तत्र समाहितः ॥३८
अतन्द्रितोऽञ्जनगिरिं प्राप विप्रोपवेशनम्
तत्र तत्र गुहागेहेष्वासीनैर्मुनिपुङ्गवैः ॥३९
योगिभिः सिद्धसङ्घैश्च विशुद्धज्ञानशालिभिः
वैखानसैश्च मुनिभिः कृतातिथ्यसपर्यकम् ॥४०
शिलातलेषु निवसन् विपुलेषु शनैः शनैः
कुमारधारां धारालच्यवमानामलोदकाम्
आससादाप्लवं चात्र चक्रे व्यासौरसो मुनिः ॥४१
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुर्विंशोऽध्यायः
[[238239]]
श्रीस्कन्दस्य कुमारधारास्नानेन शक्त्यायुधप्राप्तिः
अस्या माहात्म्यमतुलं तुलितानन्यतीर्थकम्
शक्तिप्रदं शक्तिपाणेः शरण्यं शरणार्थिनाम्
पुराऽमरैः प्रार्थितेन शङ्करेण पुरारिणा ॥४२
औमापत्यो बाहुलेयः सैनापत्ये नियोजितः
तद्वोढुमसहन् सोऽपि सैनापत्ये निविष्टधीः ॥४३
अनेकापायसदनमुपायरहितो गुहः
दैत्यारेः प्राप्तुकामस्सन् तत्प्रतीकारमाप्तवान् ॥ ४४
त्रिसन्ध्यमाप्लवं कुर्वंस्त्रिवृद्ब्रह्म जपन् सुधीः
त्रिसन्ध्यमर्चयन् विष्णुं दिव्यैः पुष्पैरनन्यधीः॥४५
अस्या निर
ञ्झ
रधारायां तपस्तेपे समीपतः
तपसा तस्य सन्तुष्टो भगवान् विष्टरश्रवाः ॥४६
आविर्भूय ददौ शक्तिं तस्मै सोऽपि तिरोदधे
कुमारस्तं प्रणम्याथ देवं स्वर्गं जगाम सः ॥४७
तस्मात्कुमारधारेति विख्याता विमलोदका
प्रथमानप्रशंसाऽभूत् अप्रमेयफलप्रदा ॥४८
इन्द्रस्य पापनाशनस्नानेन वृत्र वधजनित पाप विनिर्मुक्तिः
ततो गतः पापनाशं कृत्वा स्नानादिकं वशी
उवास त्रिदिनं तस्य तीर्थस्य निकटे तटे ॥४९
यत्र तीर्थे सकृत् स्नात्वा मघवा वृत्रहा पुरा
ब्रह्महत्याविमुक्तः सः प्राप चैन्द्रं पुनः पदम् ॥५०
पापनाशः स विख्यातो निर
ञ्झ
रो जर
ञ्झ
रैनसाम्
देवतिर्यङ्मनुष्याणां अवगाहान्मलापहाम् ॥५१
आकाशगङ्गामाहात्म्यम्
आकाशगङ्गामन्वास्य समस्तफलदायिकम्
आसाद्यास्यामाप्लवञ्च चकार निरुपप्लवः ॥५२
यस्याः संसारार्णवस्य कर्णधारेऽमलेऽम्भसि
देवस्त्रियो नागकन्याः गन्धर्वाः किन्नराङ्गनाः ॥५३
सिद्धाङ्गनाश्च कुर्वन्ति स्नानं वैखानसाङ्गनाः
नारायणगिरेः शौरेः तदीशस्य प्रभावकम्
प्रथयन् मनसाऽतीव स्मयमानो महामुनिः ॥५४
व्रततीवर्तनीतीर्थस्नानकाले शुकब्रह्मर्षिं प्रति अशरीरोक्तिः
व्रततीवर्तनीतीर्थमाससाद महामुनिः
तत्राघमर्षणं चक्रे सूक्तं वैष्णवमुच्चरन् ॥५५
स्मरन् भगवतो विष्णोः जिष्णोर्द्वैपायनात्मजः
जले मग्नतनोस्सास्या उदभूद्वागशरीरिणी ॥५६
अमृतोदन्वदुत्तुङ्गतरङ्गमहिमावली
श्रीवत्सवक्षा नित्यश्रीः अदृश्यश्च मलात्मनाम् ॥५७
अनन्तभोगायतनोऽनन्तोऽनन्तफलप्रदः
अतोऽस्मादग्निदिग्भागे सार्धयोजनमात्रके ॥५८
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुर्विंशोऽध्यायः

[[240241]]
अस्य सानुमतः पादमूले कूलङ्कषद्रुमे
नद्याः सद्योऽघनाशिन्याः स्वर्णमुख्यास्तटे शुभे ॥५९
’पद्म’ मित्युत्तरे ख्यातं पवित्रं परमं सरः
तस्य गत्वा तटे तूर्णं अत्युग्रं तप आचर ॥६०
पश्चादचञ्चलत्वं ते मनीषाया भविष्यति
तदा स्याद्भगवान् विष्णुः प्रत्यक्षः सर्वसाक्षिभूः
एवं सादरमुक्त्वा वाक् जनानां शृण्वतामपि ॥६१
अशरीरोक्त्या शुकस्य पद्मसरोवरगमनम्
प्रक्षालयन्ती शमलं मुनेर्याताऽशरीरिणी
एवमेतां निशम्यासौ जलादुत्तीर्य तीर्थतः ॥६२
अतिस्नेहो विस्मितश्च वैयासिर्मुनिरत्वरः
एवमालोचयन् बुद्ध्या शरीरात्मविशोधनीम् ॥६३
प्रसादसूचिनीं विष्णोः प्रभविष्णोः प्रशंसिनीम्
जगाम वेगात्तं देशं यत्र पद्मसरोवरः ॥६४
पद्मसरोवरवर्णनम्
प्रसन्नं सन्मन इव वैडूर्यविमलोदकम्
उत्फुल्लैः पुण्डरीकैश्च कलाछरैः कनकाम्बुजैः ॥६५
नीलोत्पलैः कुवलयैः रक्ताब्जैरञ्चितान्तरम्
मकरन्दमदोन्मत्तमधुरालिकुलोज्ज्वलम् ॥६६
कारण्डवैः कलरवैः वाचाटितदिगन्तरम्
भ्रमद्भ्रमरबृन्दैश्च मधुपानमदोद्धतैः ॥६७
गृहीतग्राहदुर्ग्राहं वलमानसुमीनकम्
वराहसङ्घैरभितो ग्रस्तमुस्तैरलङ्कृतम् ॥६८
मृणालकवलाऽकीर्णकरैः करिकदम्बकैः
एणैः सशाबैरेणीभिः उपान्ते परितो वृतम् ॥६९
मदोन्मत्तैर्वनचरैः वयोभिरभितो वृतम्
तपस्यत्तापसक्लेशहरणं रमणं हरेः
श्रीमदेतत् पद्मतीर्थं महातीर्थं शुको मुनिः ॥७०
शुकस्य पद्मसरसि श्रीनिवासध्यानपूर्वकस्नानादिकम्
ददर्श स गतक्लेशः स्नानपाननिषेवणैः
स्मरन् नारायणं विष्णुमभूत् निश्चलचेतनः ॥७१
मुहूर्तं तत्र विश्रम्य संयमी नियमस्थितः
वन्यैरपाकैः पक्वैश्च फलैः स्वपतितैरपि ॥७२
दिनस्य पञ्चकाले वै कृताहारोऽभवन्मुनिः
शिश्ये च दर्भशय्यायां स निवर्त्याऽह्निकीं क्रियाम् ॥ ७३
ब्राह्मे मुहूर्ते चान्येद्युः उत्थाय प्रयतो वशी
चिन्तयन् पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ॥७४
करुणारसकल्लोलतरङ्गितकटाक्षकम्
शरत्पूर्णेन्दुवक्त्राभं पीतकौशेयवाससम् ॥७५
महोरस्कमुदाराङ्गं श्रीनिवासं महामतिः
सन्ध्यामुपास्य विधिवत् स्नानपूर्वं समाहितः ॥७६
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुर्विंशोऽध्यायः

[[242243]]
पद्मसरोवर तीर्थदि व्यारामवर्णनम्
ददर्श सरसस्तस्य तीरे त्वभिनवं वनम्
पुन्नागनागपनसपाटलाशोककिंशुकैः ॥७७
कुन्दमन्दारमाकन्दहरिचन्दनचन्दनैः
तालचम्पकहिन्तालहरितालतमालकैः ॥७८
नक्तमालैश्च सरलैः नारिकेलैश्च केसरैः
पनसैः केतकैः सालैः पालाशैः पिप्पलैर्वटैः ॥७९
खर्जूरैः खादिरैः प्लक्षैः रुद्राक्षैः रसनैर्धवैः
सङ्कीर्णमभितः सान्द्रं महेन्द्रोपवनोपमम् ॥८०
माधवीमल्लिकायूथीवनयूथीसुजातिभिः
शतपत्रिभिराकीर्णं सुमनोभिः सुगन्धिभिः ॥८१
दमनीमरुशाखाभिः तुलसीभिर्विजृम्भितम्
कुन्दमल्लिकयोपेतं कुशकाशप्रकाशितम्
विश्वामित्रैः पवित्रैश्च मुञ्जैरप्यभिजृम्भितम् ॥८२
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्री वेङ्कटाचलमाहात्म्ये
देवल देवदर्शनसंवादे सुमेरुशिखरात् शुकस्य
श्री वेङ्कटाचलागमन पद्मसरःप्राप्त्यादि
वर्णनं नाम चतुर्विंशोऽध्यायः

पञ्चविंशोऽध्यायः

अथ पञ्चविंशोऽध्यायः

दिव्यारामे शुकब्रह्मर्षेः महानियमपूर्वकतपोनुष्ठानम्
देवदर्शनः-
तटे श्रीपद्मतीर्थस्य पद्मवाटीपटीयसः
वटाटवीजटाऽऽलोपविशङ्कटवियत्तटे ॥१
अधीतवेदवेदान्ततापसौघनिषेविते
अनूदितब्रह्मघोषैः अन्विते वयसां गणैः ॥२
पतङ्गाऽध्यापिताऽम्नायप्रमोदर्षिकुमारके
हुतवैतानवह्न्युत्थहविर्गन्धसुमोदिते ॥३
मृगशापविलूनाग्रकुशगुल्मविजृम्भिते
मनःसन्तोषकरणे सर्वोपकरणान्विते ॥४
विचित्रविविधाऽमोदे वने चैत्ररथोपमे
तपः करिष्यन् दिष्ट्या तु समाहितमना मुनिः ॥५
विचिन्तयन् वियद्वाक्यं विमलात्मा व्यतिष्ठत
स्वाध्यायं समधीयानो विष्णुमेवाग्रतो यजन् ॥६
पर्णाशनो हिताचारनियतो नियमस्थितः
मितभाषी मिताहारः शान्तो दान्तो गुरुप्रियः ॥७
सात्त्विकः सत्त्वसम्पन्नो विष्णुभक्तो बभूव ह
श्रीनिवासमनाराध्य किञ्चिन्नाश्नाति नित्यशः ॥८

[[244245]]
क्षुधाक्षामोऽप्यनैवेद्यं नोपजीवति चैकदा
विष्णुपादोदकादन्यत् तृष्णार्तोऽपि न चापिबत् ॥९
निर्द्वन्द्वो निरहङ्कारो धीरो विगतमत्सरः
कुशेशयाऽसनासीनः कुशास्तरणभूतले ॥१०
कुशाग्रबुद्धिरचलः कुशहस्तपवित्रकः
कृष्णाजिनोत्तरासङ्गः कृष्णवर्त्मशिखाजटः ॥११
कृष्णाजिनाम्बरधरः कृष्णद्वैपायनात्मजः
अक्षमालाधरकरो विजिताक्षः क्षमाक्षमः ॥१२
नासाग्रन्यस्तनयनः आर्जवोर्जितकायकः
दन्तैरसंस्पृशन् दन्तान् जिह्वागूहिततालुकः ॥१३
धारणाध्यानसम्पन्नः प्राणायामविशुद्धधीः
उपांशुमानसजपगूढोष्ठस्फुरणाननः ॥१४
वैकुण्ठेऽकुण्ठितमतिः गायत्रीं वैष्णवीं जपन्
वर्षासु जलमध्यस्थो ग्रीष्मे पञ्चाग्निमध्यगः ॥१५
अध्यर्कदृक्समद्वन्द्वोपद्रवो वीतनिद्रकः
कालानलप्रतिभटकायः कमललोचनः ॥१६
शुकमुनितपोऽग्निज्वालाभिर्लोकोपद्रवोत्पत्तिः
एवं प्रवृत्तो घोरञ्च तपश्चर्तुं तपोधनः
तपसा तस्य सन्तप्ता चचाल च वसुन्धरा ॥१७
मार्तण्डश्चण्डकिरणो न तताप नभोऽन्तरे
अब्धयः क्षुभिताः सर्वे ववर्षुर्न बलाहकाः ॥१९
जातवेदा न जज्वाल विमानानि दिवौकसाम्
नभोमध्ये न चेरुश्च बभूवेन्द्रश्च शङ्कितः ॥२०
वृत्रवैरी महेन्द्रोऽपि किङ्कर्तव्यविमूढधीः
चिन्तयन्नस्य तपसो विघ्नमप्सरसस्तदा
समाहूयाऽह वचनं सादरं सान्त्वपूर्वकम् ॥ २१
शुकतपोभङ्गाय महेन्द्रोक्तरम्भादिसान्त्ववचनानि
’विसृष्टा वेधसा यूयं निसर्गात् जगतो हि ते
मत्तमातङ्गगामिन्यो मन्दमन्थरगीतयः
रूपयौवनलावण्यशालिन्यः पद्मलोचनाः ॥२२
सुभ्रुवश्च सुकेशान्ताः घनपीनपयोधराः
शुचिस्मिताः पक्वबिम्बाधरोष्ठा मदलालसाः ॥२३
युष्माभिर्मोहितं विश्वं ससुरासुरमानुषम्
वीक्षणाद्यैर्विलासैस्तु निर्जिता मम शत्रवः ॥२४
कामिनीः पुरतो दृष्ट्वा कः समाधौ प्रवर्तते
निर्याति मानसं तस्मात् कार्मुकात् सायको यथा ॥ २५
यूयमापदि सर्वत्र बलमस्माकमेव हि
नाशक्यमस्ति वः किञ्चित् सर्वेषु भुवनेष्वपि ॥२६
उपस्थितमिदानीं नः सकलानर्थकं भुवि
कर्तव्यः प्रशमस्तस्य भवतीभिर
ञ्झ
टित्यपि’ ॥२७
वासवेनैवमुक्तानां प्रधानाप्सरसां वरा
प्रणम्य प्राञ्जलिः प्राह रम्भा मधुरभाषिणी ॥२८
श्रीपाद्मपुराणे क्षेत्रकाण्डे पञ्चविंशोऽध्यायः

[[246247]]
महेन्द्रनिकटे रम्भादिकृतप्रतिज्ञा
’यच्छाससि सुरेशान! तदद्य विदधीमहि
भवत्कृते जीवितं नः त्रिदशाध्यक्ष केवलम् ॥२९
श्वेतद्वीपं ब्रह्मलोकं कैलासं वाऽन्यमूर्जितम्
प्रवेक्ष्यामो वयं देशं वर्तन्ते यत्र तेऽरयः ॥३०
मोहिताश्च भविष्यन्ति तेऽस्मद्वीक्षणवीक्षिताः
एकाकिनः सदैकान्तभावाः सात्त्विकसत्तमाः ॥३१
प्रणमन्ति स्म नः पादान् शिरोभिर्मोहिताः स्वयम्’
एवमुक्तस्तु देवेशः तया मधुरभाषया ॥३२
एवमाह स सन्तुष्टो रम्भामप्सरसां वराम्
’सत्यमुक्तं त्वया रम्भे! मुनिमोहनरूपया ॥३३
भूमौ कश्चित् मुनिवरः ’शुक’ इत्येव नामतः
सुवर्णमुखरीतीरे तपश्चरति दुश्चरम् ॥३४
तत्र गत्वा मुनिश्रेष्ठं मोहयध्वं वराङ्गनाः
इत्युक्ता देवराजेन प्रेषिताः सादरं किल
देवस्त्रियस्तं प्रणम्य जग्मुर्यत्र तपोधनः ॥३५
शुकतपोवनं प्रत्यागतानां रम्भादीनां शृङ्गारलीलाः
मुनेः समीपतो गत्वा ताः स्त्रियो मधुरं जगुः
मदोद्धताश्च ननृतुः वेणुवीणारवान्वितम् ॥३६
कन्दर्पदर्पकलिताः कथयन्त्यः कथा मिथः
वदन्ति स्म हसन्ति स्म क्ष्वेलयन्ति मदालसाः ॥३७
स्थित्वा पुरस्तात् तस्येत्थं मदान्धाः सुरयोषितः
शृङ्गारचेष्टाः चक्रुश्च विविधाश्चाटुपूर्वकम् ॥३८
इन्द्रप्रचोदितस्तत्र तपनो न तताप च
वायुः कलाछरसुरभिः ववौ मन्दः सुखावहः ॥३९
सुधानिधिश्च ववृधे मदयन् सुरसुन्दरीः
कालः सर्वर्तुकुसुमोपेतस्तत्र बभूव ह ॥४०
एवंविधे मधूद्वेगमहितेऽस्मिंस्तपोवने
इतस्ततः शम्बरारिः विशङ्को विचचार ह ॥४१
अतश्चानङ्गविवशाः चेष्टयन्त्योऽमराङ्गनाः
ता न शेकुस्तस्य नेत्रे निवर्तयितुमग्रतः ॥४२
श्रीनिवासध्यानेन जितकामं शुकं प्रति रम्भादिहासोक्तिः
सोऽपि ध्यायन् श्रीनिवासं शङ्खार्यब्जगदाधरम्
वासुदेवं हृषीकेशं जगतां कारणं परम् ॥४३
समाश्रितार्तिहरणं सुहृदं सर्वदेहिनाम्
नाचिन्तयच्चान्तिकस्थाः ताः स्त्रियस्तपसैधितः ॥४४
समीक्ष्य तास्तं दुर्धर्षमूचुरप्सरसस्तदा
लज्जाक्रोधसमाविष्टाश्चैवमूचुः परस्परम् ॥४५
’को वा ह्यास्तेऽत्र दुर्बुद्धिः पूष्णि निक्षिप्तवीक्षणः
उपस्थितमुपेक्ष्येमं गणमप्सरसां स्वयम् ॥४६
श्रीपाद्मपुराणे क्षेत्रकाण्डे पञ्चविंशोऽध्यायः

[[248249]]
समीपस्थमसव्रे्पुक्ष्य सर्वस्य तपसः फलम्
दुरात्मनाऽतिमूढेनामुत्र किं चिन्त्यतेऽधुना ॥४७
दृष्ट्वा मुखान्यप्सरसां सहस्राक्षः शचीपतिः
सुराधीशः सहस्राक्ष्णा
ं साफल्यं सम्यगश्नुते ॥४८
यागादिकाः क्रियाः सर्वाः कुर्वन्त्यस्मत्कृते नराः
ददुश्च धनधान्यानि तप्यन्ति स्म तपांसि च ॥४९
यस्त्वस्माकं प्रियालापान् न शृणोति मनोरमान्
अचेतनो वृथाजीवी भवत्यल्पमतिः सहि ॥५०
स्तनाश्लेषं नरोऽस्माकं लभते यः सुदुर्लभम्
स धन्यः पुरुषो लोके गण्यते पुण्यकोविदैः ॥५१
विद्यानामार्जनं बाल्ये यौवने विषयैषिता
वृद्धत्वे तपसां वृत्तिः इत्युशन्ति मनीषिणः ॥५२
सुकुमारो युवाऽत्यन्तसुभगस्तपसि स्थितः
शृङ्गारिणीनां शृङ्गारः सुन्दरीजनसुन्दरः ॥५३
देशकालावतिक्रम्य यत्कर्म कुरुते नरः
तत्तस्य निष्फलमिति प्रवदन्ति मनीषिणः ॥५४
स्वधर्माचारनिरता वेदशास्त्रविशारदाः
करस्थरत्नमुत्सृज्य मूढधीरन्यदिच्छति ॥५५
दिव्याङ्गनाः पूजनीया मनुष्याणां विशेषतः
अयमस्माननादृत्य तिष्ठत्यत्यन्तदुर्मतिः ॥५६
’पूज्यपूजाविपर्यासः श्रेयो हन्तीत्युशन्तिहि’
तास्वित्थं जल्पमानासु सुरयोषित्सु सुव्रतः ॥५७
रम्भादिदुर्व्यापारान् विलोक्य शुकब्रह्मर्ष्यनुतापः
तपःकृशतराकारः कृष्णद्वैपायनाऽऽत्मजः
नाचिन्तयत् समस्तास्ताः घुष्यन्तीरिव गर्दभीः ॥५८
उपस्थितं तपोविघ्नं चिन्तयामास च स्थिरः
’’केनेमाः प्रेषिताः ह्यस्मत्तपोभङ्गचिकीर्षुणा ॥५९
अव्याजवैरिणा कश्चित् लोभोपहतचेतसा
निदानं पापचेष्टानां पापीयस्यः स्वतः स्त्रियः ॥६०
अनेकानर्थसार्थास्ताः व्यक्तमुक्ता मनीषिभिः
व्रीडा विज्ञानमास्तिक्यं पौरुषं श्रुतिरुन्नतिः ॥६१
दर्शनादेव नश्यन्ति स्त्रीणामेतानि सर्वशः
धैर्यपारङ्गतः सर्वधर्मशास्त्रविशारदः ॥६२
योषिद्दर्शनमात्रेण मुह्यति क्षुभ्यति स्वयम्
स्त्रियो हि नरकद्वारं निर्मितं परमेष्ठिना ॥६३
तस्मात्तद्दर्शनं पापं नराणान्तु तपस्विनाम्
स्त्रीपुंविभागो जगतां भूत्यै धात्रा विनिर्मितः ॥६४
तेन प्रवर्तते लोकः पुरुषार्थात्मकेन तु
अज्ञानिनो नरा मुह्यन्त्यन्योन्यप्रणयादिह ॥६५
पुरुषाश्च स्त्रियो दृष्ट्वा तांश्च दृष्ट्वा च तास्तथा
तितीर्षुस्तपसाऽज्ञानमयं संसारसागरम् ॥६६
श्रीपाद्मपुराणे क्षेत्रकाण्डे पञ्चविंशोऽध्यायः

[[250251]]
निवृत्तविषयोऽत्रैव स्थितोऽस्मिन् विजने वने
विधिनाऽऽपादितश्चैवान्तरायस्तपसो मम ॥६७
स्त्रियस्तपोविघ्नकर्यः परिहार्याः प्रयत्नतः
तित्तीर्षुं दुस्तरं घोरं महासंसारसागरम् ॥६८
गृह्णाति विषयग्राहो मध्ये पुरुषमित्युत’’
तपोलोभभयादित्थं चिन्तयन् सहसा मुनिः ॥६९
समदर्शी तु सर्वत्र जितक्रोधो जितेन्द्रियः
कन्दर्पसायकान् घोरान् जित्वाऽक्षोभ्यो हि निर्ममः
श्रीनिवासं हृषीकेशं सहसा शरणं ययौ ॥७०
कमलविभवलोभनै रनङ्गाभिनवविभूतिविभागभागधेयैः
अधरितमुनिमानसानुभावैः अवमतिमाकलयन् विलोकनैश्च ॥७१
शिखरदशनदीधितिप्रतानप्रसभनिरस्ततमश्छटैः प्रहासैः
नटनविकटविभ्रमैः चिकीर्षन् नयनविलासभरैः तपोऽन्तरायम्।७२
इति विबुधविलासिनीगणस्तं मुनिमभितः परिवार्य चावतस्थे
व्यवसितमतिरच्युतप्रपत्तौ स च न शशाप तपोविनाशभीरुः ॥ ७३
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्री वेङ्कटाचलमाहात्म्ये देवल-
देवदर्शनसंवादे पाद्मसर स्तीरस्थदिव्यारामे शुकब्रह्मर्षेः महा
नियमपूर्वकतपःकरणादिवर्णनं नाम पञ्चविंशोऽध्यायः.

षड्विंशोऽध्यायः

अथ षड्विंशोऽध्यायः

श्रीनिवासमुद्दिश्य रम्भाद्यप्सरस्सङ ्घभीतशुकस्तुतिः
अथ विबुधविलासिनीषु विष्वङ् मुनिमभितः परिवार्य तस्थुषीषु
मदविकृतिविकत्थनप्रलापास्ववमतिनिर्मितनैजचापलासु ॥ १
त्रिभुवनमुदमुद्यतासु कर्तुं मधुसहसाऽगतिगर्वनिर्वहासु
मधुर सभरिताखिलात्मभावास्वगणितभीतिषु शापतः शुकस्य ॥ २
अतिविमलमतिर्महानुभावो मुनिरपि शान्तमना निजात्मगुप्त्यै
अखिलभुवनरक्षकस्य विष्णोः स्तुतिमथ कर्तुमना मनाक् बभूव ॥३
’’श्रियः श्रियं षड्गुणपूरपूर्णं-
श्रीवत्सचिह्नं पुरुषं पुराणम् ।
श्रीकण्ठपूर्वामरबृन्दवन्द्यं
श्रियःपतिं तं शरणं प्रपद्ये ॥’’४
विभुं हृदिस्थं भुवनेशमीड्यं निराश्रयं निर्मलचित्तचिन्त्यम्
परात्परं पारमपारमेनं उपेन्द्रमूर्तिं शरणं प्रपद्ये ॥ ५
स्मेरातसीसूनसमानकान्तिं सुरक्तपद्मप्रभपादहस्तम्
उन्निद्रपङ्केरुहचारुनेत्रं पवित्रपाणिं शरणं प्रपद्ये ॥ ६
सहस्रभानुप्रतिमोपलौघस्फुरत्किरीटप्रवरोत्तमाङ्गम्
प्रवालमुक्तानवरत्नतारहारं हरिं तं शरणं प्रपद्ये ॥ ७

[[252253]]
तत्र तत्कृतदशावतारस्तोत्रम्
पुरा रजोदुष्टधियो विधातुः
अपाकृतान् यो मधुकैटभाभ्याम् ।
वेदानुपादाय ददौ च तस्मै
तं मत्स्यरूपं शरणं प्रपद्ये ॥८
पयोधिमध्ये पृथुमन्दराद्रिं धर्तुं च यः कूर्मवपुर्बभूव
सुधां सुराणामवनार्थमिच्छन् तमादिदेवं शरणं प्रपद्ये ॥९
वसुन्धरां दुर्भरदैत्यपीडितां रसातलान्तर्विवराभिविष्टाम्
उद्धारणार्थञ्च वराह आसीच्चतुर्भुजं तं शरणं प्रपद्ये ॥ १०
नखैरुरस्तीक्ष्णमुखैरिछरण्यं अरातिमामर्दितसर्वसत्त्वम्
विदारयामास हि यो नृसिंहोहिरण्यगर्भं शरणम्प्रपद्ये ॥११
यो यज्ञवाटीमभिगम्य पूर्वं बलेर्ययाचे त्रिपदीं भुवश्च
पश्चाद्ददौ तत्पदमेव तस्मै श्रीवामनं तं शरणं प्रपद्ये ॥ १२
त्रिस्सप्तकृत्वः क्षितिपाललोकं परश्वथेनापि निहत्य पित्रे
ददौ निवासं तदसृग्जलौघैः तं रामभद्रं शरणं प्रपद्ये ॥ १३
दशाननं दाशरथिः स भूयः छित्त्वा शिरांस्येकशरेण वीरः
लङ्कां ददौ यश्च विभीषणाय तं रामभद्रं शरणं प्रपद्ये॥१४
हलायुधो यो यदुवंशदीपः प्रलम्बपूर्वामरवैरिहन्ता
अभूद्वदान्यो भलभद्ररामो विराट् परं तं शरणं प्रपद्ये॥१५
वृष्ण्यन्ववायप्रभवं धरित्रीभारापहारप्रथितप्रभावम्
कृष्णं परं पाण्डवभागधेयं योगीन्द्रवन्द्यं शरणं प्रपद्ये॥१६
कलिं स्वतः कल्मषदुष्प्रधर्षं कलानुविद्धं विकरालवेषम्
संहर्तुकामो भविता च कल्की यस्तं मुकुन्दं शरणं प्रपद्ये’॥१७
अहं महत्वेन्द्रियपञ्चभूततन्मात्रमात्रा प्रकृतेः पुराणि
यतः प्रसूता पुरुषस्तदात्मा तमात्मनाथं शरणं प्रपद्ये॥१८
पुरा य एतत्सकलं बभूव येनापि तद्यत्र च लीनमेतत्
आस्तां यतोऽनुग्रहनिग्रहौ च तं श्रीनिवासं शरणं प्रपद्ये१९
निरामयं निश्चलनीरराशिनिकाशसद्द्रूपमयं महस्तत्
नियन्तृनिर्मातृनिहन्तृनित्यं निद्राणमेकं शरणं प्रपद्ये॥ २०
जगन्ति यः स्थावरजङ्गमानि संहृत्य सर्वाण्युदरे शयानि
एकार्णवान्तर्वटपत्रतल्पे स्वपित्यनन्तं शरणं प्रपद्ये ॥ २१
निरस्तदुःखौघनुतीन्द्रियं तं निष्कारणं निष्कलमप्रमेयम्
अणोरणीयांसमनन्तमन्तः आत्मानुभावं शरणं प्रपद्ये ॥ २२
सप्ताम्बुधीरञ्जकराजहंसं सप्तार्णवीसंसृतिकर्णधारम्
सप्ताश्वबिम्बस्थहिरण्मयं तं सप्तार्चिरङ्गं शरणं प्रपद्ये ॥ २३
निरागसं निर्मलपूर्णबिम्बनिशीथिनीनाथनिभाननाभम्
निर्णीतनीतिं निगमान्तनित्यनिश्श्रेयसं तं शरणं प्रपद्ये ॥ २४
द्वितीयहीनं रचिताजडात्मनिजान्तरारोपितविश्वविश्वम्
निस्सीमकल्याणगुणात्मभूतं निधिं निधीनां शरणं प्रपद्ये॥ २५
श्रीपाद्मपुराणे क्षेत्रकाण्डे षड्विंशोऽध्यायः

[[254255]]
श्रीनिवासमुद्दिश्य शुकब्रह्मर्षिप्रार्थना
त्वक्चर्ममांसास्थ्यसृगश्रुमूत्र
श्लेष्मान्त्रविट्छुक्रसमुच्चयेषु ।
देहेष्वसारेषु न मे स्पृहैषु
ध्रुवं ध्रुवं त्वं भगवन् ! प्रसीद ॥२६
कारुण्यपाथोनिधिवल्गदूर्मिमालालसच्छैवलकज्जलाकैैः
राजीवराजीरमणै रपाङ्गै रनाथमानन्दय नाकनाथ! ॥२७
भक्तिः क्व! मे त्वच्चरणारविन्दमधूदमाद्यन्महिमाऽप्यनन्या
बुद्धिः क्व! दुष्टेन्द्रियवाजिरूढा नैकत्र तेजस्तिमिरस्थितिरिछ! ॥२८
न विद्यते त्वत्पदपद्मपीठनिषेविणां क्वाप्यशुभं नराणाम्
उपस्थितं मे भयमुत्पलाक्षीविलोकनैर्लोपय लोकनाथ! ॥ २९
समाधिभङ्गोऽयमिह प्रवृत्तो दुरात्मना केन दुरन्तचिन्तः
त्वमेव मांरक्षभयादमुष्मात् त्वदन्यतो नास्तिगतिर्मुकुन्द ॥ ३०
अनाथनाथ! धिषणा मम त्वय्येव वर्तते
सर्वथा सर्वकालेषु तदाऽऽस्तां त्वत्प्रसादतः ॥३१
प्रसन्ने त्वयि गोविन्दे लभ्यं सर्वत्र किं? प्रभो
स्वर्गापवर्गौ भगवन् त्वद्भक्तानामदुर्लभौ ॥३२
भवता वीक्ष्यते यस्तु तस्य तद्भक्तिरूर्जिता
उपेक्ष्यते तु यस्तस्य भोगेच्छा चाभिजायते ॥३३
अतः शृङ्गारयोग्यस्त्रीभयविह्वलमत्र माम्
रक्ष त्वमेव शरणं अनन्यशरणो गतः ॥३४
नमः सकलकल्याणकारिणे करुणात्मने
श्रीवत्सवक्षसे तस्मै लक्ष्मीनारायणात्मने’’ ॥३५
रम्भादीनां स्वलावण्यनिन्दापूर्वकं यथागतं गमनम्
पाराशरे ब्रह्ममुनौ पुराणं पुमांसमित्थं शरणं प्रपन्ने
देवस्त्रियः कामशरेण विद्धा यथागतं क्षीणधियः प्रतीयुः॥ ३६
अथ सुरवनिताभिरीक्षणाद्यैः निजविकृतैरगृहीतचित्तवृत्तिः
विधुरिव तमसागृहीतमुक्तोमुनिरपि निश्चलधीः तपः प्रपन्नः ३७
फलान्यलभमानासु तपोभङ्गे महामुनेः
रूपवेषाभ्यसूयासु निर्गतास्वप्सरस्स्वितः ॥३८
भगवत्कृपया शुककृतदृढतरभक्ति पूर्वकभगवदुपासनम्
ततः स्मरन् भगवतो हृषीकेशस्य शार्ङ्गिणः
इन्द्रियग्राममखिलं संयम्यास्मै समर्पयन् ॥३९
परां काष्ठां समाकाङ्क्षन् काष्ठाश्मसमकायकः
अतितापसचारित्रं कुर्वन्नङ्गुष्ठभूमिगः ॥४०
भक्तार्तिभञ्जनपरं भक्तवत्सलमव्ययम्
हृत्पुण्डरीकनिलयं चिन्तयन् पुष्करेक्षणम् ॥४१
विज्ञानवैराग्यनिधिः कार्षणद्वैपायनिर्मुनिः
अतिघोरतरं क्रूरं चकार सुमहत्तपः
तपसा तस्य सर्वात्मा सन्तुष्टः पद्मलोचनः ॥४२
श्रीपाद्मपुराणे क्षेत्रकाण्डे षड्विंशोऽध्यायः

[[256257]]
शुकमुनिं प्रति तपस्तुष्ट श्रीनिवासागमनम्
संहर्ता रक्षिता स्रष्टा भुवनानि चतुर्दश
अनुग्रहीताऽन्तर्यामी निग्रहीता निरन्तरः ॥४३
शङ्खचक्रगदाम्भोजराजत्करचतुष्टयः
मुक्तातपत्रितानन्तसहस्रफणमण्डलः ॥४४
नवैरभिनवाकल्पैः तपनीयमयांशुकैः
सुमनोभिर्दिव्यगन्धैर्दिव्यालेपनचन्दनैः ॥४५
अलङ्कृताङ्गमहिमा स्मयमानमुखाम्भुजः
मकरन्दस्रवत्पद्मप्रभावगुणवीक्षणः ॥४६
आपादचूडमाधुर्यमहिमा महतो महान्
सेवाविशारदैः सार्धं गणैस्तु कुमुदादिभिः ॥४७
विचित्रहेतिहस्तेन विष्वक्सेनेन सेवितः
पञ्चायुधैर्मूर्तिमद्भिः परीक्षितसमीक्षणः ॥४८
महर्षिभिर्मरीच्यत्रिभृगुपूर्वैर्महात्मभिः
इन्द्रादिभिर्लोकपालैः सेवानुगुणभूतिभिः ॥४९
त्रयस्त्रिंशत्कोटिभिश्च देवबृन्दैरभिष्टुतः
पञ्चात्मनः सुपर्णस्य पञ्चोपनिषदात्मनः ॥५०
पञ्चवक्त्रप्रतिकृतेः पञ्चाथर्वाङ्गसम्पदः
ऋग्यजुस्सामवपुषो नागाभरणभूषिणः ॥५१
अप्रमेयप्रभावस्य स्कन्धपीठमधिष्ठितः
अहम्प्रथमपूर्वाभिः द्वात्रिंशत्कोटिशक्तिभिः ॥५२
वैष्णवीभिः सेव्यमानो देवः पद्मसरस्तटे
श्रीभूमिनीलासहितः प्रादुरासीत् परः पुमान् ॥५३
भगवन्तं विलोक्य शुकमुनिकृतनटनादिकम्
ततस्तपःकर्शिताङ्गो मुक्तः परमपावनः
पुरुहूतजितस्कन्धं पुरुपीठमधिष्ठितम्
पुरुहूतानुजं पूतं पुरुषं तं पुरातनम् ॥५४
कटाक्षवीक्षाविध्वस्तश्रितक्लेशभरं परम्
प्रसन्नवदनं दृष्ट्वा विष्टरश्रवसं विभुम् ॥५५
वैयासिर्मुनिशार्दूलः तपोविगतकल्मषः
ससव्भ्रुमं समुत्थाय निविष्टः कुशविष्टरात् ॥५६
रोमाञ्चकञ्चुकतनुः हर्षोत्फुल्लविलोचनः
स हसन् उत्तरासङ्गं छिन्दन् कृष्णमृगत्वचम् ॥५७
विक्षिपन् अक्षमालाञ्च तूर्णं छिन्दन् कमण्डलुम्
आनन्दाश्रुपरीताक्षो गद्गदद्गलकन्धरः ॥५८
ततश्च नर्तनं कर्तुं विकर्तनविभास्वरः
निवृत्तिधर्मनिष्णातो मुनिः प्रववृते मुदा ॥५९
मतङ्गजक्रमभ्रमोभ्रमन्मतङ्गजभ्रमः
सुधाभिलाषदेवभूः अमन्दमन्दविक्रमः ।
निवातदीपनिश्चलश्चलत्कर रवस्फुटत्
दिगन्तरालमण्डलो ननर्त नन्दयन् विभुम् ॥६०
श्रीपाद्मपुराणे क्षेत्रकाण्डे षड्विंशोऽध्यायः

[[258259]]
परिभ्रमन् अदक्षिणं प्रदक्षिणं परिभ्रमन्
विभावयन् विलोकयन् अभावयन् अलोकयन् ।
शनैः शनैरसञ्चरन् सुसञ्चरन् शनैः शनैः
मुदाविलावलोकनो मदाविलावलोकनः ॥६१
ततस्तु तोटकं वृत्तं करताडनपूर्वकम्
रचयन् दण्डमादाय कराभ्यामवलम्बयन् ॥६२
आस्फोटयन् क्ष्वेलयंश्च स्वपदस्पर्शिमस्तकः
ननर्त परमानन्दो वाचयन् नाम शार्ङ्गिणः ॥६३
चरणं चटुलं कलयन् कलयन्
कमलारसिकं सरसं रमयन् ।
नटनं घटयन् सुपदं सुवदन्
हरिनाम मुनिः शुभदायि शुकः ॥६४
अरुणारुणपङ्कजसोदरदृक् करुणापरिणामिकटाक्षचणम्।
रथनेमिलसत्करनीररुहं रमयन्नतसीकुसुमाङ्गरुचिम्॥६५
सरसं विचरन् पुरतः परितो विलसन्नसकृत् मुरवैरिविभोः
करपङ्कजताडनताललसद्गमनं निगमान्तविलासभुवः ॥ ६६
भुजबद्धजटः करयुग्मभृता-
ञ्जलिको मृगयूथपदृप्तवपुः ।
मृगयन्निव यूथपतिं परितः
पुनरप्यसकृत् विकृतः सुकृतः ॥६७
अतिकुण्डलिताङ्गभुजङ्गसमो नटनस्फुटकुट्टितकुट्टिमभूः
रजनीमुखताण्डवकुण्डलितत्रिपुरान्तकरीतिपुरश्चरणः ॥६८
इति दृढकृतभक्तिर्वासुदेवे परस्मिन्
अकलसकलमिश्रश्रेयसि श्रीनिवासे ।
विगतकलिलकायोऽपायशून्यात्मभूतिः
विमलधिषणभूतः संयमी व्याससूनुः ॥६९
हृदयकमलमध्याध्यासितं पङ्कजाक्षं
परिजनपरिबराछ भूषणास्त्रादिसेव्यम् ।
बहिरिव पुरतस्तं वीक्ष्य चक्षुःपदस्थं
नियमितनिगमान्तः पूर्णकामो बभूव ॥७०
श्रीनिवासकृपया शुकब्रह्मर्षेर्मुक्तिः
ईदृशं तादृशमृषिं भक्तिविह्वलचेतसम्
भक्तार्तिभञ्जनकरो भगवांस्तार्क्ष्यवाहनः ॥७१
दयामिताम्भोधितुङ्गलोलकल्लोलकेलिना
समीक्ष्य कमलाभोगभागधेयेन चक्षुषा ॥७२
शब्दब्रह्मव्यूहगर्भं संस्कर्तुञ्च समुद्यतः
स्नेहगर्भेण वचसा बभाषे ह्लादयन् हरिः ॥७३
श्री भगवान्-
’मुने! तापसशार्दूल! तपस्तप्तं सुदुश्चरम्
आनन्दकन्दसद्गर्भनिश्श्रेयसकरं परम् ॥७४
मुक्तिर्दत्ता मुदाकारा सशरीराऽविनश्वरी
कल्पक्षये च सायुज्यमस्मन्मन्त्राङ्गसम्भवम्’ ॥७५
इत्युक्त्वा भगवान् विष्णुः कृष्णद्वैपायनात्मजम्
भक्तप्रतारितो भक्तैः तत्रैवान्तर्दधे स्वतः ॥७६
श्रीपाद्मपुराणे क्षेत्रकाण्डे षड्विंशोऽध्यायः

[[260261]]
मुक्तः शुको मुनिरपि मुकुन्दगतचेतनः
अप्राकृताङ्गः प्रथयन् प्रकृत्या प्रकृतिप्रभाम् ॥७७
प्रणम्य दण्डवद्भूमौ साष्टाङ्गं तत्र सत्वरः
अवाप्ताभीष्टकामः सन् तत्राऽस्ते सुखमाश्रमे ॥७८
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्री वेङ्कटाचलमाहात्म्ये देवल-
देवदर्शनसंवादे श्रीनिवासमुद्दिश्य रम्भाद्यप्सरस्सङ्घभीत-
शुकस्तुत्यादिवर्णनं नाम षड्विंशोऽध्यायः

सप्तविंशोऽध्यायः

अथ सप्तविंशोऽध्यायः

शुकमुनिकृतशुक पुराष्टोत्तरशतविप्रगृहनिर्माणानि
देवदर्शनः-
तत्र श्रीपद्मतीर्थस्य तीरेऽस्मिन् निवसन् शुकः
ध्यानयोगपरोऽध्यात्म ब्रह्मविद्याविशुद्धधीः ॥१
एकान्तभावमातिष्ठन् एकायनविदां वरः
साङ्ख्ययोगपरो नित्यं सद्ध्यानाध्ययनान्वितः ॥२
द्वादशाक्षरशिक्षाक्षः प्रत्यक्षरनिरीक्षकः
पराशरात्मजसुतः सुतरां परमो मुनिः ॥३
उवास सुचिरं कालं श्रीनिवासपरायणः
स्वामिपुष्करिणीतीर्थमुपगन्तुमनास्ततः ॥४
चक्रे स्वनाम्नाऽग्रहारमष्टोत्तरशतं द्विजान्
नित्यत्रयीकान् त्रय्यन्तमुखान् मखमुखक्रियान् ॥५
सुवृत्तान् शुभ्रमनसो निवृत्तावैदिकक्रियान्
नानागोत्रानब्जदलैः निर्ममे ननु सादरान् ॥६
शुकपुरे बलभद्रसहकृतकृष्णप्रतिष्ठा
बलभद्रेण बलिना मायया सह मायिनम्
देवक्या वसुदेवस्य यशोदानन्दगोपयोः ॥७
आनन्दवर्धकं कृष्णं भद्रं भुवनहर्षकम्
भूभारं हर्तुकामञ्च कामरूपिणमव्ययम् ॥८
कुहनागोपवपुषं मेघश्यामं पुरातनम्
पाराशरिः परमर्षिः प्रतिष्ठाप्येह भूतले ॥९
व्यजिज्ञपत् सन्निधानं अत्र ब्रह्ममुनिः शुकः
’वैकुण्ठे तु यथा वासः क्षीराम्भोधौ यथा विभो! ॥१०
वासो यथाऽन्तरादित्ये योगिनां हृदये यथा
तथा सदा कुरुष्वात्र सन्निधिं कमलेक्षण’! ॥११
इति विज्ञाप्य देवेशं दण्डवत्प्रणिपत्य च
स्निह्यता मनसा ध्यायन् वीक्षमाणः स्वचक्षुषा ॥१२
श्रीपाद्मपुराणे क्षेत्रकाण्डे सप्तविंशोऽध्यायः
[[262263]]
शुकस्य स्वपुराच्छेषाचलगमनम्
आजगाम प्रसन्नात्मा स्वामिपुष्करिणीं प्रति
उपान्ते चोक्षशैलस्योपेत्य निर्मलर्झरम् ॥१३
तत्र त्रिषवणस्नानं कृत्वा व्यासौरसो मुनिः
उपत्यकायामासीनं उदयादित्यवर्चसम् ॥१४
उपांशुमानसजपं उदारं दारसंयुतम्
महोत्पलनिभं त्र्यक्षं महोपनिषदङ्गकम् ॥१५
अग्निज्वालाजटाजाललसद्गङ्गेन्दुभोगिनम्
व्याफ्रूजिनोत्तरासङ्गवाससं कृत्तिवाससम् ॥१६
कालकूटस्फुरत्कण्ठनालं नलिनवक्त्रकम्
समीक्ष्य हृष्टमनसा नमस्कृत्य च तं हरम् ॥१७
उषित्वा त्रिदिनं तत्रोपासकः पूर्णमानसः
द्रष्टुकामोऽखिलाश्चर्यं पुनरप्यञ्जनाचले ॥१८
सिद्धैर्विद्याधरैः सार्धं योगिभिः कन्दरस्थितैः
शनैः शनैः सञ्चरंश्च र्झरेषु कृताऽप्लवः ॥१९
ध्यायन् ब्रह्मसभावृत्तं वृतान्तं तस्य वै गिरेः
स्वामिपुष्करिणीतीरमाससाद शुभास्पदम् ॥२०
स्वामिपुष्करिणी तीरवर्णनम्
सुगन्धपुष्पवल्लीभिः वेल्लितैः वकुलैर्युतम्
खर्जूरैर्नारिकेलैश्च केतकैः स्वर्णकेतकैः ॥२१
पटीरपाटलाशोककिंशुकासनचम्पकैः
नक्तमालैश्च पनसैः मधूकैः सरलैर्धवैः ॥२२
पुन्नागसुरपुन्नागशिशुपुन्नागपूगकैः
कदलीकृष्णकदलीमहाकदलिकागणैः ॥२३
हरिद्राभिः शृङ्गबेरैः कस्तूरीरजनीकुलैः
मल्लिकामालतीभिश्च माधवीभिर्मधूत्कटैः ॥२४
यूथिभिः शतपत्रीभिः जातिभिर्वनजातिभिः
नन्द्यावर्तादिसुमनःकक्षैः कुक्षिपथङ्गतैः ॥२५
समन्ततः समाकीर्णं सान्द्रच्छायासमञ्जसैः
सौगन्धिकैः सुगन्धाढ्यैः तुलसीभिः सुमोदितम् ॥२६
दयनीभिः पुष्पगन्धगर्भपुष्पलताशतैः
अतिमृष्टामोदपुष्पामोदिताशावकाशकम् ॥२७
तापसैस्तरुणादित्यवर्चोभिः अभितो वृतम्
वराहसिंहशार्दूलमातङ्गकुलसङ्कुलम् ॥२८
सितासितैः सारमेयगणैर्दुर्वारगर्वकैः
सेवितो नातिभीमेन क्षेत्रपालेन पालितम् ॥२९
विचरन्नत्र विपिने मुनिः विगततृट् शुचिः
परमां मुदमापन्नो मुकुन्दानन्दकन्दधीः ॥३०
श्रीपाद्मपुराणे क्षेत्रकाण्डे सप्तविंशोऽध्यायः
[[264265]]
स्वामिपुष्करिणी वर्णनम्
स्वामिपुष्करिणीं पुण्यां ददर्श विमलोदकाम्
काञ्चनाम्बुजकलाछरकमलैः श्वेतपङ्कजैः ॥३१
नीलोत्पलैरुत्पलैश्च फुल्लैः कुवलयैरपि
कैरवैरपि कीर्णान्तामुद्गिरत् पुण्यगन्धकैः ॥३२
तरङ्गान्तरसञ्चारैः मत्तैः कारण्डवैरपि
ताराभिश्च तरन्तीभिः अन्यैर्जलपतत्रिभिः ॥३३
कलहंसकलालापैः वाचालितदिगन्तराम्
तस्यास्तीरसमुल्लासिसमग्राभीष्टसन्ततेः ॥३४
तीर्थं तोयमुपस्पृश्य लक्ष्म्या सञ्चिन्तयन् विभुम्
प्रसन्नमानसोल्लासः चक्रे तत्राघमर्षणम् ॥३५
बद्धपद्मासनासीनोऽभितटं योगमेयिवान्
परमैकान्तिभिः सार्धं ब्रह्मवित् ब्रह्मदर्शनः ॥३६
तत्रैव सुचिरं कालं उवास परमर्षिभिः
रहस्यन्योन्यसल्लापस्वान्तान्तेवासिसन्ततैः ॥३७
श्रीनिवासाविर्भावः
कदाचित् भगवान् विष्णुः कारुण्यागण्यपुण्यधीः
दर्शयन् सकलांल्लोकान् साक्षादक्षिपथं गतः ॥३८
’दिव्यानन्दमयाकारैः गरुत्मच्छेषसैनिकैः
पञ्चायुधैः परिकरैः गणैस्तु कुमुदादिभिः ॥३९
परिबराछभूषणान्यजिनवस्त्रांशुकानि च
आयुधान्यप्रमेयानि दधानैर्ब्रह्मशक्तिभिः ॥४०
शक्तिभिः शाङ्करीभिश्च सेव्यमानो मुदाऽन्वितः
श्रीभूमिनीलापूर्वाभिः अपूर्वाकल्पभूतिभिः ॥४१
महिषीभिर्मुदानन्दं आवहन्तीभिरीशितुः
मुमोद स हि सर्वात्मा क्रीडाडम्बरडाम्बिकः ॥४२
लीलाविभूतिविहितविविधानन्दवेषभाक्
कालकादम्बिनीकान्ताकुञ्चितालकबन्धनः ॥४३
उद्यद्द्युमणिबिम्बश्रीः शिखामणिमहामहः
अष्टमीन्दुकलाकारललाटस्थोर्ध्वपुण्ड्रकः ॥४४
सौवर्णपद्मकलाछरपुष्पकर्णावतंसकः
सेवान्तररसाशासिशार्ङ्गभ्रूमण्डलद्वयः ॥४५
अतिसूक्ष्मस्फुरत्ताराऽकर्णपूर्णारुणेक्षणः
करुणाब्धिसमुद्भूतलोलपद्मविलोचनः ॥४६
तिलपुष्पसमाकारनासाकाण्डपुटद्वयः
पक्वबिम्बफलाकाररमणीयोष्ठयुग्मकः ॥४७
प्रभाविसारिशिखरिदशनावलिवक्रकः
खाकारकर्णपाशात्तमुक्तामाणिक्यकर्णिकः ॥४८
शरन्निर्मलपूर्णेन्दुमण्डलाननमण्डलः
कम्बुकण्ठो वृषस्कन्धो भोगिभोगोल्लसद्भुजः ॥४९
श्रीपाद्मपुराणे क्षेत्रकाण्डे सप्तविंशोऽध्यायः

[[266267]]
शार्ङ्गज्याहतिकार्कश्यरमणीयप्रकोष्ठकः
विशालवक्षोविलसच्छ्रीवत्सः कौस्तुभोज्ज्वलः ॥५०
शङ्खचक्रगदापद्मपरिष्कृतचतुर्भुजः
निम्ननाभिसमुल्लासिमाणिक्योदरबन्धनः ॥५१
मेखलालङ्कृतकटीतटीच्छुरिकयोद्भटः
हस्तिहस्तसदृक्षोरुजानुमण्डलमण्डितः ॥५२
क्रमवृत्तायताऽभोगजङ्घाकाण्डसुपार्ष्णिकः
कूर्मपृष्ठप्रपदकः किङ्किणीहंसकाङ्घ्रिकः ॥५३
शिञ्जन्माणिक्यमञ्जीरप्रभासितपदाम्बुजः
नानासेवारसोद्भासिचन्द्रबिम्बनखावलिः ॥५४
सुधासूतिगृहोद्दामस्फुरदङ्गुष्ठसौष्ठवः
पङ्कजश्रीपरचितान्योन्यतुल्याङ्घ्रिपङ्कजः ॥५५
अतसीकुसुमज्योतिःप्रख्यविख्यातविग्रहः
संवीतविविधाश्चर्यतप्तचामीकराम्बरः ॥५६
अंसादाप्रपदालम्बिवनमालाविराजितः
विचित्ररत्नखचिततपनीयकिरीटकः ॥५७
हारकेयूरकटककङ्कणाङ्गदभूषितः
मणिकुण्डलताटङ्कवीरपट्टाङ्गुलीयकः ॥५८
अंसलम्बिसमायुक्तसौवर्णब्रह्मसूत्रकः
त्रिपञ्चसप्तसरिभिः मुक्तादामभिरञ्चितः ॥५९
सर्वाभरणसंयुक्तः सर्वगन्धानुलेपनः
सर्वर्तुकालोत्थपुष्पदामोद्दामभुजान्तरः’ ॥६०
भक्तानुकम्पासहितः श्रीनिवासः परः पुमान्
आविर्बभूव भगवान् स्वामिपुष्करिणीतटे ॥६१
व्यासात्मजो मुनिर्मुक्तः तं दृष्ट्वा हृष्टमानसः
प्रणम्य दण्डवद्भूमौ अवाङ्मनसगोचरम्
तुष्टाव च हृषीकेशं केशवं क्लेशनाशनम् ॥६२
शुकब्रह्मर्षिकृतश्रीनिवासस्तुतिः
’’जितं ते पुण्डरीकाक्ष वासुदेवामितद्युते
रागावदोषनिर्मुक्तसमग्रगुणमूर्तये॥६३
नाथ! ज्ञानबलोत्कृष्ट! नमस्ते विश्वभावन!
सङ्कर्षण! विशालाक्ष! सर्वज्ञ! परमेश्वर!॥६४
नमस्तेऽस्तु हृषीकेश! सर्वेश्वर! जगन्मय!
देव! ऐश्वर्यवीर्यात्मन् ! प्रदुम्न! जगतां पते!॥ ६५
स्थित्युत्पत्तिलयत्राणहेतवे शक्तितेजसे
जयानिरुद्ध भगवन्! महापुरुष! पूर्वज! ॥६६
जितं ते पुण्डरीकाक्ष! नमस्ते विश्वभावन!
नमस्तेऽस्तु हृषीकेश! महापुरुष! पूर्वज! ॥६७
श्रीनिवास! जगन्नाथ! नारायण! दयानिधे!
कृतार्थोऽहं कृतार्थोऽहं कृतार्थाः सर्वजन्तवः ॥६८
श्रीपाद्मपुराणे क्षेत्रकाण्डे सप्तविंशोऽध्यायः

[[268269]]
प्रसीद भगवन् विष्णो! प्रसीद पुरुषोत्तम!
प्रसीद पुण्डरीकाक्ष! प्रसादात्मसात्कुरु’’ ॥६९
इति स्तुवन्तमागत्य महर्षिं फुल्ललोचनम्
आनन्दनिर्भरापूर्णमानसं श्रीशुकं मुनिम् ॥७०
समीक्ष्य सुप्रसन्नं तं प्रसादप्रणयान्वितः
दिव्यैः परिजनैः सार्धं श्रीनिवासस्तिरोदधे ॥७१
मुनिः पुनः प्रणम्यात्र दण्डवच्च मुहुर्मुहुः
परमैकान्तिभिर्योगिवर्यैरार्यैः सहापरैः ॥७२
अर्चावतारविभवपरव्यूहान्तरादिकान्
आविर्भावान् स्मरन् विष्णोः ययौ मेरुगिरिं प्रति ॥७३
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्री वेङ्कटाचलमाहात्म्ये देवल
देवदर्शनसंवादे शुकमुनिकृतशुकपुराष्टोत्तरशतविप्र
गृहनिर्माणादिवर्णनं नाम सप्तविंशोऽध्यायः

अष्टाविंशोऽध्यायः

अथ अष्टाविंशोऽध्यायः

श्रीवराहाविर्भाववृत्तान्तः
देवलः-
सिंहसानुमतः कुक्षौ स्वामिपुष्करिणीतटे
श्वेतस्य पोत्रिपोतस्य प्रादुर्भावः कथं विभो! ॥१
देवदर्शनः-
चराचरगुरोरस्य चारित्रं चारुपोत्रिणः
शृणु विद्वन्! विशेषेण व्याचक्षेऽहं विचक्षण! ॥२
असुरोपद्रवमसहमानाया धरायाः पातालगमनम्
पुरा धर्मच्छिदो दृप्ता दैत्याः स्वेच्छाविहारिणः
चायां स्वकीयामपि च हन्तुकामा मदोद्धताः ॥३
मुनिभिर्गौतमाद्यैर्ये शप्ता भूमिं गता इति
तेऽभिजाते कुले जाता राज्ञामाज्ञाविलङ्घिनः ॥४
पापिष्ठा ह्यसुरश्रेष्ठा नृपश्रेष्ठवपुर्धराः
नक्तन्दिवं हि बाधन्ते त्रिलोकीधूमकेतवः ॥५
क्षोभं महीक्षितामेवं दुर्दर्पबलशालिनाम्
सर्वंसहाऽसहमाना निममज्ज रसातले ॥६
पातालगतभूम्युद्धरणोद्युक्तवराहवर्णनम्
भूतधात्र्यां निमग्नायां अधोभुवनसद्मनि
संरक्षकः सर्वसाक्षी करुणावानधोक्षजः ॥७
समुद्धर्तुमनास्तूर्णं पातालनिलयां भुवम्
महावराहो भगवान् बभूव परमः पुमान् ॥८
यत्किरीटस्थरत्नानि सत्यलोकनिवासिनः
अकाण्डोदितमार्तण्डप्रचण्डामलमण्डलम् ॥ ९
पञ्चोपनिषदात्मनः सिद्धा मुक्ताश्च मेनिरे
यस्य श्रोत्रैकदेशस्थं स्वपदं शब्दमात्रकम् ॥१०
श्रीपाद्मपुराणे क्षेत्रकाण्डे अष्टाविंशोऽध्यायः

[[270271]]
तेजांसि निममज्जुश्च नेत्रयोर्विवरान्तरे
नासाग्रे च समायुक्तो मातरिश्वा बभूव ह ॥११
बभूव पारावारोद्नो पादपङ्कजपङ्कदः
खुरोदरे कणकणाः सुराद्रिश्च कुलाद्रयः ॥१२
दशोत्तरैरावरणैः लोकालोकाचलः स्थितः
बभूव बाह्यावयवभावनाशेष वेषभाक् ॥१३
पोत्रिपादैकरोमान्तर्विवरस्थां वसुन्धराम्
सपत्नीं पद्मवासिन्याः सर्वभूतनिवासिनीम् ॥१४
मुस्ताभिः पूर्णपङ्काङ्कां मार्गमाणो बभूव ह
पातालगतधरणीवराहयोः नर्मव्यापारादिः
तां दृष्ट्वा वेपमानाङ्गीं लज्जालोलविलोचनाम् ॥१५
पोत्रिरोमान्तरासीनां पावनीं परमेश्वरीम्
वैकुण्ठोऽकुण्ठितोदन्तः कण्ठमूलमधोक्षजः ॥१६
रहस्यस्याः समाफ्रूय वराहवपुरात्मभूः
गाढाङ्गपालीकबलीभूतगूडाङ्गपालिकाम् ॥१७
सत्यसन्धो हि मुमुदे नवोढां च वधूमिव
शरत्प्रत्यग्रपङ्केजाभिनवाभोगलीलया ॥१८
स्नेहकामनया दृष्ट्या अभिवीक्ष्य विगतज्वरः
तां बभाषे सुरसया सुधाकल्लोललीलया ॥१९
नर्मभावनया वाचा श्रीमान्नलिनलोचनः
’वसुधे देवि! भद्रं ते भद्रे भद्राणि पश्यसि ॥’२०
स्थापयाखिलभूतानि स्वस्था स्वस्थानमास्थिता’
एवं वराहवपुषा पुंसा भूमिः सुभाषिता ॥२१
स्नेहसागरपूर्णेन व्रीडालोलविलोकिना
नेत्राञ्चलेन स्वपतिं वीक्ष्य कोलाननं विभुम् ॥२२
स्नेहसन्दर्भगर्भेण माधुरी महिताऽत्मना
त्रिस्थानस्थेन वचसा धर्मश्रवणतत्परा ॥२३
वराहं प्रति धरण्युक्तिः
बभाषे पुरुषश्रेष्ठं पोत्रिवक्त्रं पुरातनम्
’’भगवन्! देवदेवेश! दैत्यामित्र! दयानिधे! ॥२४
दैत्यदानवदुर्धर्ष! भारात् मग्नां रसातले
रक्ष मां पक्षिराड्वाह! सर्वभारक्षमाक्षमाम् ॥२५
आधारशक्तये तुभ्यं अनन्तशिरसे नमः
अव्याजसुहृदे भूयो नमोऽनन्तविभूतये’’ ॥२६
एवं वसुधया देव्या वेपमानाखिलाङ्गया
विज्ञापितो विश्वरक्षादीक्षितः प्रत्युवाच ताम् ॥२७
’’साधु देवि! त्वया पृष्टं शृणु वक्ष्ये वसुन्धरे!
सर्वंसहा विश्रुता त्वं तथ्यनामा भव प्रिये!’’ ॥ २८
धरण्या साकं पातालाद्वराहस्य शेषाचलागमनम्
वराहरूपी भगवान् एवमुक्त्वा वसुन्धराम्
देवीमशिक्षयद्धर्मं स्वभारभरणक्षमम् ॥२९
श्रीपाद्मपुराणे क्षेत्रकाण्डे अष्टाविंशोऽध्यायः

[[272273]]
शिक्षिता वसुधा देवी तेन शुद्धमना धरा
बभूव महिता तेन स्वभारभरणक्षमा ॥३०
तदाप्रभृति देवेशो वराहवपुरूर्जितः
पाताललोकात् लोकेऽस्मिन् कौतूहलसमाकुलः ॥३१
स्वामिपुष्करिणीकूले पश्चिमेऽस्मिन् धरातले
वल्मीकबिलमासाद्य तद्द्वारा विजिहीर्षया ॥३२
गमनागमनं कुर्वन् तदधो भुवनं प्रति
भूत्वा श्वेतः पोत्रिपोतः सञ्चरन्नात्मनायकः ॥३३
दिव्यैर्गणैः सेव्यमानः कदाचिदनपायिभिः
भूषणैः पारिबरेछैः स्वैः आयुधैश्चेतनात्मभिः ॥ ३४
अव्याजमित्रोऽत्र पोत्री वर्तते दिव्यगात्रभृत्
ह्लादयन्नात्मनः सर्वान् ज्ञानानन्दमयान् सुरान् ॥३५
परावराणां भूतानां अन्तर्यामिणि शार्ङ्गिणि
एवं हि वर्तमानेऽत्र पवित्रे चित्रपोत्रिणि ॥३६
कदाचित् स्वाऽश्रमे पुण्ये दुर्वासाः कोपनो मुनिः
क्रीडन्तौ काममोहेन दृष्ट्वा किन्नरदम्पती ॥३७
शशाप र्झरे पुण्ये सिंहनाम्नि महीधरे
’कैरातं मिथुनं स्यातं वन्याऽहारौ युवामिति’’ ॥३८
दुर्वासनः शापात् किन्नरदम्पत्योः कैरातरूपप्राप्तिः
ततः किन्नरदम्पत्योः निर्वण्णमनसोः सतोः
शापमोचनमाचख्यौ कृपया स च तापसः ॥३९
’’तत्र स्वामिसरस्तीरे सञ्चरन् श्वेतसूकरः
शापात्मदीर्ष्याविहितात् मोचयिष्यति तौ युवाम्’’ ॥४०
’तथेति’ दीनमनसौ उक्त्वा किन्नरदम्पती
तूर्णं तं देशमागत्य जज्ञाते व्याधदम्पती ॥४१
कैरातदम्पत्योः शेषाचले पुत्रप्राप्तिप्रियङ्गुकृषिकरणादीनि
शाकमूलफलाहारैः दुष्टसत्त्वनिबरछणौ
आसाते सुचिरं कालं अस्मिन् सिंहशिलोच्चये ॥४२
ऋक्षशार्दूलशरभसिंहेभव्यालदुर्गमे
अरण्येऽगण्यपुण्यौघे भीषणे रोमहर्षणे ॥४३
वसत् किरातमिथुनं पुष्पासवमदोद्धतम्
असूत पुत्रं चित्राङ्गं चिरकालसमीप्सितम् ॥४४
प्रसूतं तं समीक्ष्याथ सुकुमारं सुतं तदा
शबरः शबरी चैतौ आस्तां सम्पूर्णमानसौ ॥४५
स्तन्यैर्वन्यरसैरन्यैः तमापञ्चषवर्षकम्
ताववर्धयतां पुत्रं चित्रावयवमर्भकम् ॥४६
सिंहहस्तनखत्रोटीनिशातशतधारतः
विभिन्नमत्तमातङ्गकुम्भोद्भिन्नोरुमौक्तिकैः ॥४७
दण्डशेखरवासोभिः बर्हैर्बरिछपतत्रिणाम्
त्रिमदोद्रिक्तमातङ्गमदपङ्कद्रवैरपि ॥४८
श्रेयसः सरसां स्वामिसरसः श्वेतमृत्स्नया
अलञ्चक्रतुरन्योन्यं पितरौ सुतरां सुतम् ॥४९
श्रीपाद्मपुराणे क्षेत्रकाण्डे अष्टाविंशोऽध्यायः

[[274275]]
कदाचित् पर्यटंस्तत्र विपिने स वनेचरः
कस्यचिद्वटवृक्षस्य समीक्ष्य स्कन्धकोटरे ॥५०
पक्वं कार्तस्वरनिभं प्रियङ्गुप्रियदर्शनम्
गृहीत्वा शबरः सर्वं गृहिण्यैतत् समर्पयत् ॥५१
साऽपि प्रैयङ्गवं धान्यं उच्छोष्य च समाचिनोत्
ततः सस्यं चक्रतुश्च प्रैयङ्गवमतन्द्रितौ ॥५२
वृत्तिभिर्गोपयन्तौ तौ शुश्रूषाभिः समन्ततः
आपक्वफलमकाङ्क्षन् मिथुनं तद्बभूव ह ॥५३
गोपनार्थं हि तस्यैव पुत्रं प्रेषितवान् स्वयम्
तुष्टो बभूव च क्षेत्रं वीक्ष्य पक्वफलोद्धतम् ॥५४
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्री वेङ्कटाचलमाहात्म्ये देवल
देवदर्शनसंवादे श्रीवराहाविर्भाववृत्तान्तवर्णनं नाम
अष्टाविंशोऽध्यायः

एकोनत्रिंशोऽध्यायः

अथ एकोनत्रिंशोऽध्यायः

प्रियङ्गुगोप्तृकिरातसमीपं प्रति वराहागमनम्
देवदर्शनः-
प्रियङ्गावभितो गुप्ते वाध्राभिर्वृत्तिभिस्ततः
तप्तचामीकराभोरुपक्वधान्यभरानते ॥१
शबरस्तं समीक्ष्याथ मध्ये कृत्वा तु मञ्चिकाम्
तद्रक्षणार्थं तत्रैव अतिष्ठन्नक्तन्दिवं स्वयम् ॥२
कदाचित् भगवान् श्वेतः पोत्रिपोतो बुभुक्षया
वल्मीकरन्ध्रात् निर्गत्य क्षेत्रमध्यं विवेश ह ॥३
तं दृष्ट्वा बहुशः सोऽपि शबरो विस्मयं ययौ
ततस्तन्मण्डलेशाय राज्ञे विज्ञापितुं द्रुतम् ॥४
राजधानीं प्रविश्यास्याऽवेदयच्चक्रवर्तिनः
तच्छ्रुत्वा सार्वभौमस्तु राजा कौतूहलान्वितः ॥५
श्रीवराहदर्शनार्थं शेषाचलं प्रति नृपागमनम्
मृगयावेषभृत् भूत्वा पदातिरुपनिष्क्रमन्
एकाकी तेन सार्धं हि जगाम जगतां हितः ॥६
स्वामिपुष्करिणीं पुण्यां विगाह्य विगतक्लमः
दण्डवत्तां प्रणम्याथ व्याधवाक्यविचित्रताम् ॥७
मनसाऽऽलोचयन् सम्यक् सन्त्यक्तान्यपराक्रमः
प्रियङ्गोः क्षेत्रमासाद्य प्रियङ्गुप्रियदर्शनः ॥८
चतुस्त्सम्भसमायुक्तां चतुरश्रां समुच्छ्रिताम्
मृदुपल्लवसंस्तीर्णां उपास्तीर्णमृदुत्वचम् ॥९
आदाय सशरं चापं तुङ्गशृङ्गविनिर्मिताम्
मञ्चिकामारुरोहैतां तेन सार्धं नराधिपः ॥१०
शबरः सार्वभौमश्च जाग्रतौ निश्यतिष्ठताम्
वल्मीकविवराच्चित्रसूकरो निर्जगाम ह ॥११
श्रीपाद्मपुराणे क्षेत्रकाण्डे एकोनत्रिंशोऽध्यायः
[[276277]]
नृपस्य वल्मीकविवरागतवराहदर्शनम्
वृतिं विलङ
घ्
्य वाध्राभिः पाशैरप्यतिदुर्गमाम्
क्षेत्रमध्यञ्च धावन्तं सूकरं सुभगाङ्गकम् ॥१२
आत्ताभिलाषमाहारे दंष्ट्रादीधितिसञ्चयैः
ध्वान्तं शकलयन्तञ्च भास्वद्दिव्याङ्गसङ्गतैः ॥१३
राजा तं वीक्ष्य सहसा विस्मयं परमं गतः
सज्ये धनुषि सन्धाय सायकं साधुविक्रमः ॥१४
तूर्णमाकर्णमाकृष्य चललक्ष्यप्रवेधिनम्
ग्रहीतुकामो नृपतिः तेन सार्धं तमन्वगात् ॥१५
सूकरो वीक्ष्य धावन्तं चापहस्तं महीपतिम्
झुटिति क्षणमात्रेण वल्मीकविवरं ययौ ॥१६
व्यर्थप्रतिज्ञो नृपतिः प्राज्ञः प्रख्यातविक्रमः
वल्मीकमूलमागत्य द्रष्टुं सूकरमत्वरः ॥१७
शिश्ये च दर्भशय्यायां स्वप्नं काङ्क्षन् क्षितीश्वरः
प्रबुद्धः प्राकृतः प्रातः अदृष्ट्वा स्वप्नदर्शनम् ॥१८
किङ्कर्तव्यत्वशून्यात्मा चिन्तयन् कायशोधनम्
महदाश्चर्यमाहर्तुं स्नात्वा स्वामिसरोजले ॥१९
तपोवेषं समास्थाय ध्यायन् सूकरमीश्वरम्
कर्तुं प्रववृते वीरः ततः प्रायोपवेशनम् ॥२०
निर्द्वन्द्वोऽवन्ध्यनिष्ठश्च निष्ठावानस्य दर्शने
एवं हि वर्तमानेऽस्मिन् नृपतौ नियतात्मनि ॥२१
शबरेण शबर्या च परिष्कृतसपर्यके
वृत्तं विष्णुपदे वाक्यं विशुद्धममृतोपमम् ॥२२
नृपं प्रत्यशरीर्युक्तिः
’द्रष्टुकामो यदि भवान् साधुवृत्त! महीपते!
तपसाऽलं सगर्वेण सूकरार्भकदर्शने ॥२३
यतस्व वृत्तं तच्चर्तुं यद्वक्ष्यामि च सुव्रत
सवत्साऽसितगोक्षीरधाराभिरभिषेचय ॥२४
अच्छिन्नसन्तताभिश्च वल्मीकस्थं वराहकम्
एवं सिक्तः स भगवान् पोत्रिवक्त्रः पुरातनः ॥२५
प्रादुर्भविष्यति ततो वल्मीकविवरात् विभुः
एवमुक्त्वा तु वाक्यं तत् पुनर्नोवाच किञ्चन ॥२६
नृपतिस्तु निशम्याशु विस्मयो विस्मयं गतः
तं प्रयत्नं प्रववृते प्रयतोऽप्राकृतात्मनः ॥२७
अस्य नारायणगिरेः लक्ष्मीनारायणेशितुः
वसतेर्दक्षिणे भागे द्वियोजननियोजिते ॥२८
तीरे स्वर्णमुखर्याश्च दक्षिणे दक्षिणक्रमे
प्राग्भागे गण्डशैलस्य सर्वोपकरणान्विते ॥२९
ग्रामे सङ्ग्रामविजयी समाहितमनास्ततः
सञ्चिन्त्य सर्वान् सम्भारान् तस्मादाहृत्य सत्वरः ॥३०
तं वराहञ्च वल्मीकमभिषेक्तुमना मनाक्
विशुद्धवासा निष्णातो वैष्णवः पूर्णमानसः ॥३१
श्रीपाद्मपुराणे क्षेत्रकाण्डे एकोनत्रिंशोऽध्यायः

[[278279]]
निष्णातः तत्सपर्यायां बभूव वसुधाधिपः
सावधानः सहामात्यः सापत्यः शबरान्वितः ॥३२
अतन्द्रितः साधु सान्द्रं अशरीरिवचः स्मरन्
गोक्षीरैः हेमकुम्भस्थैः वल्मीकविवरोदरम् ॥३३
अनुस्यूताच्छिन्नधारैः अभिषेक्तुं प्रचक्रमे
क्रियमाणेऽभिषेके तु वल्मीकविवरान्तरात् ॥३४
क्षीराभिषेकाद्वराहस्य वल्मीकादाविर्भावः
आविर्बभूव भगवान् वराहवपुरीश्वरः
कोटीरकोटिविलसन्मणिमण्डलमण्डितः ॥३५
अमृतांशुकलाकल्पदंष्ट्रादन्तुरपोत्रकः
ललाटपट्टघटितवेणुपत्रोर्ध्वपुण्ड्रकः ॥३६
कम्बुबिम्बसदृक्कण्ठो मांसलस्कन्धमण्डलः
सुपारिजातविटपविडम्बितचतुर्भुजः ॥३७
शङ्खचक्रधरो वाम ऊरुपीठे स्थितां महीम्
देवीं त्रपागोपिताङ्गीं लोलाविलविलोचनाम् ॥३८
सर्वात्मसम्भृतदयाकायिनीं हर्षदायिनीम्
गाढङ्गाढं समालिङ्ग अस्या अङ्गं पदद्वयम् ॥३९
गृह्णानः सान्द्रहर्षेणालोकय वक्त्रपङ्कजम्
विशालवक्षाः श्रीवत्सकौस्तुभाभ्याञ्च लाञ्चितः ॥४०
यज्ञोपवीतोत्तरीयदृढबन्धनबन्धुरः
हारकेयूरकटकरम्यहीराङ्गुलीयभृत् ॥४१
समभ्युत्थितवामाङ्घ्रिशिञ्जन्मङ्जीरहंसकः
नवरत्नान्तरप्रोतमुक्ताहारभुजान्तरः ॥४२
अप्रमेयैरभिनवैः आकल्पैरात्महारिभिः
तपनीयैश्चित्रवस्त्रैः चित्रैश्चीनांशुकैरपि ॥४३
मालाभिरमलामोदमालाभिर्मधुसूतिभिः
अष्टात्मगर्भसन्दर्भैः अपारैश्च परिष्कृतः ॥४४
आजानु चाविर्भवति पुरुषे सूकरात्मनि
विच्छिन्ना क्षीरधाराऽभूत् धाराला तु प्रमादतः ॥४५
तावान् प्रत्यक्ष्यदृष्टः स तदधो न ह्यदृश्यत
पश्चादनेकविधया राजाऽपि द्रष्टुमक्षमः ॥४६
प्रयत्नादप्रतीकारोऽतिष्ठत् तूष्णीं सतृष्णधीः
शुष्कजिह्वाकण्ठसृक्विण्योष्ठः सोष्णं विनिश्श्वसन् ॥४७
विदीर्णमानसो मानी विकीर्णाज्गो विघूर्णितः
एवं वृत्ते राज्ञि तदा भगवान् भूतभावनः ॥४८
वराहरूपविभवः पुराणपुरुषोत्तमः
उवाच वचनं श्रीमान् करुणापरिणामभूः ॥४९
राजानं प्रति भगवदुक्तिः
राजन्नलमलं व्यर्थप्रयत्नेनातिभूयसा
एतावांस्तव दृश्योऽहं तदधो न नृपाधिप ॥५०
एतद्रूपं प्रतिष्ठाप्य शुद्धया शिलया नृप!
तस्मै देह्यखिलान् भोगान् पूर्णो भूत्वा सुपुष्कलान् ॥५१
अप्राकृताङ्गो विरजाः सात्त्विकोऽयमिति स्मरन्
वैखानसैर्महर्षिभिः अर्चय त्वं नराधिप! ॥५२
श्रीपाद्मपुराणे क्षेत्रकाण्डे एकोनत्रिंशोऽध्यायः

[[280281]]
पश्चान्मामाप्नुया गच्छ साधु शाधि वसुन्धराम्
एवमुक्त्वा कोलवपुः राज्ञोऽमूं कालयापनाम् ॥ ५३
श्रीवराहकृतकिन्नरमिथुनस्य किरातत्वनिर्मुक्तिः
किरातवपुषौ वीक्ष्य विष्णुः किन्नरदम्पती
मुनिशापान्मोचयित्वा ददौ ताभ्यां स्वकं पदम् ॥५४
नृपस्य श्रीवराहप्रतिष्ठापूर्वकं स्वपुरगमनम्
ततश्चान्तर्दधे देवो वराहवपुरत्र वै
ततः पूर्णमना राजा दिव्यं त्वष्टारमाह्वयत् ॥५५
देवं निर्मापयामास मनसा विश्वकर्मणा
भूवराहशिशुं पूर्णं राजानं नाकवासिनाम् ॥५६
वाराहवपुषं शौरिं दण्डवत्प्रणिपत्य च
शिरस्यञ्जलिमाबध्नन् स्मरन्नाश्चर्यमीदृशम् ॥५७
जितेन्द्रियो जितक्रोधो जितप्रकृतिसंस्तरः
जितामित्रो जिताशेषो राजर्षिः स्वां पुरीं ययौ ॥५८
तदा प्रभृति देवेशो वराहवपुरात्मभूः
अनन्ताचलशृङ्गेऽन्तर्निक्षिप्ताङ्घ्रिसरोरुहः ॥५९
देव्या वसुधया सार्धं स्वामिपुष्करिणीतटे
सुखमास्ते सुरेशानः सुखी रहसि सुन्दरः ॥६०
श्रीनिवासस्य स्वामितीर्थदक्षिणतीरवासवर्णनम्
श्रीनिवासोऽपि शेषाद्रौ ततः स्वामिसरस्तटे
निवसन्नात्मनः कुर्वन् अर्वाचीनान् सुखात्मनः ॥६१
सच्चिदानन्दसन्दोहो वृद्धिक्षयविवर्जितः
कारुण्यपुण्यपदवीकमलाकामुकः कविः ॥६२
अभूमिरापदां भूमिः सम्पदां संविदुद्गमः
समस्तसामसङ्गीतसच्चरित्रः पवित्रहृत् ॥६३
पुराणपुरुषो धाता पुरुषस्तमसः परः
वैकुण्ठपूर्ववसतिं त्यक्त्वेदानीं हि तिष्ठति ॥६४
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये देवलदेवदर्शन
संवादे प्रियङ्गुगोप्तृकिरातसमीपं प्रति वराहागमन
श्रीवराहाविर्भावादिवर्णनं नामैकोनत्रिंशोऽध्यायः

त्रिंशोऽध्यायः

अथ त्रिंशोऽध्यायः

श्रीनृसिंहाचलस्थनीलकण्ठतपःक्षेत्रवर्णनम्
देवलः-
’सञ्चस्करे सपर्यां क्व! नीलकण्ठो महेश्वरः
वैकुण्ठस्यामुत्र गोत्रे नरकण्ठीरवाकृतेः’?१

[[282283]]
देवदर्शनः-
’शृणु विप्र! समाचक्षे पुरारातेः पुराविदः
चरितं चरितार्थानां योगिनां भोगसाधनम् ॥२
अभीष्टफलदं रम्यं चतुर्वर्गफलप्रदम्
नरकेसरिणो विष्णोः परब्रह्मस्वरूपिणः ॥३
प्रसादप्रसवप्राप्ति हेतुबन्धनिबन्धने
इत उत्तरभागे तु त्रिंशद्योजनसम्मिते ॥४
प्रदेशे भीषणे रोमहर्षणे भूतभीषणे
कश्चित् क्षितिधरः कुक्षिकक्षक्षितिरुहोऽक्षयः ॥५
त्र्यक्षाश्रमः पक्षियूथवासप्लक्षाक्षकोटरः
विशङ्कटतटारूढवृक्षगुल्मगुहा तमाः ॥६
शृङ्गक्रोडगुहावासवैखानसवनेचरः
तुङ्गशृङ्गदरीनिर्यदोघनिर्मलर्झरः ॥७
र्झरापातपर्यन्तस्निग्धानोकहवाटिकः
तप्तहाटकसङ्काशगैरिकाकीर्णकन्दरः ॥८
भानूपलमुखोत्कीर्णचित्रभानुशिखाशतः
चन्द्रप्रभाभिन्नमुखचन्द्रकान्तसुधाद्रवः ॥९
कण्ठीरवनखत्रुट्यत्कुञ्जरीकुम्भमौक्तिकः
गलितैर्मौक्तिकैर्विष्वगाकीर्णप्रस्थदुःस्थलः ॥१०
माणिक्यधामन्यग्भूतरविमण्डलचण्डरुक्
नानाविधमणिव्रातमयूखोद्द्योतखस्थलः ॥११
विद्रुमव्रततिव्रातसंवृतान्तरकन्धरः
विकीर्णपद्मपाषाणपाटलस्थलकुट्टिमः ॥१२
शृङ्गकोटीरसङ्गीतसंविवाद्यप्सरोगणः
लताकुसुमसङ्क्ल
?
प्तलीलालयनिवासिभिः ॥१३
मिथुनैः किन्नराणां हि तालश्रुतिविकल्पनैः
दिव्याविर्भावचरितं सङ्गायद्भिरितस्ततः ॥१४
अधिष्ठितभृगुप्रान्तः प्रस्थगुञ्जाभिरञ्जितः
गन्धर्वैर्गर्वविभवैः गीतवाद्यविशारदैः ॥१५
मन्द्रमध्योच्चमहितैः महितानेककन्दरः
मार्तण्डमण्डलक्षिप्तस्फुरन्नयनमण्डलैः ॥१६
पुण्डरीकसुहृच्चण्डमयूखीमण्डलादिभिः
तापसैश्चण्डतेजोभिः मण्डितोच्छृङ्गकन्दरः ॥१७
क्वचिड्डमरुकोदू
ञ्झ
र्णत्करैरुग्रोर्ध्वकेशकैः
विघूर्णमाननयनैः मदस्खलितकायकैः ॥१८
भैरवैर्भैरवीभिश्च निबिडाडम्बरैर्युतः
देवानां पूर्वदेवानां सिद्धानां योगिनामपि ॥१९
भूतानां योगिनीनाञ्च मातॄणां यक्षरक्षसाम्
अन्येषां देवयोनीनां आवासोपत्यकाश्रयः ॥२०
ध्यायद्भिश्च परं ब्रह्म क्वचित् योगासनस्थितैः
योगिवर्यैरार्यभावैः योगाभ्यासविचक्षणैः ॥२१
श्रीपाद्मपुराणे क्षेत्रकाण्डे त्रिंशोऽध्यायः

[[284285]]
एकायनैरेकभावैः आलक्षितगुहाक्षयः
कृष्णसारपुरोयायिहरिणीकुलसङ्कुलः ॥२२
परस्परपरित्यक्तवैरैर्भीमैर्मृगैर्वृतः
अप्रमेयप्रभावो यः प्रसिद्धः पर्वतोत्तमः ॥२३
तस्य पर्वतवर्यस्य पुण्यारण्यसमीपतः
प्रत्यग्रपल्लवैः कीर्णसुबिल्ववननाटिकैः ॥२४
प्लक्षैः रुद्राक्षवृक्षैश्च श्लक्ष्णैः सुश्लक्ष्णपर्णकैः
अभ्रंलिहोर्ध्वशाखाग्रैः अज्ञातज्ञातसङ्ङ्ञिकैः ॥२५
यज्ञशाखिभिराकीर्णं सङ्कीर्णं यज्ञवाटकैः
अनोकहैरविरलैः सरलैः सर्वतो वृतम् ॥२६
समाश्रितार्तिहरणसानुच्छायं समन्ततः
अहिर्बुध्न्यतपःक्षेत्रं क्षेत्रक्षेत्रज्ञबन्धहृत् ॥२७
नरकण्ठीरवस्थानं कण्ठीरवरवोद्धतम्
भैरवाभैरवाश्चर्यं भूरिभीषणभीषणम् ॥२८
नीलकण्ठाश्रमस्थपुण्यपुष्करिणीवर्णनम्
पवित्रमत्र विपिने वैडूर्यविमलोदका
काञ्चनाम्बुजकलाछरकमलेन्दीवरोत्कटा ॥२९
प्लवमानप्लवा मीनमकरग्राहमण्डिता
मरालमल्ल महिता कारण्डवकुलाकुला ॥३०
तारातरलकल्लोलमालालोलान्तरालका
उत्फुल्लकैरवा फुल्लपुण्डरीकपुरस्कृता ॥३१
मकरन्दरसास्वादमाद्यद्वनवयोगणा
त्रिमदोन्मत्तमातङ्गमदवार्याविलाऽमला ॥३२
देवर्षिभिस्तपस्यद्भिः राजर्ष्योघैर्महात्मभिः
उपान्तपर्यन्तभुवि निवसद्भिः समन्ततः ॥३३
तपोविमलविश्वाङ्गैः विशङ्कटतटोत्कटा
मन्त्रं षण्णवतीभेदं जपद्भिर्नारसिंहकम् ॥३४
निष्कलं सकलं मिश्रमाश्रितावनविश्रुतम्
श्रीवत्साङ्कं नारासिंहगर्भागर्भकमद्भुतम् ॥३५
ज्ञानानन्दमयं ज्ञानगम्यं वैराग्यभोग्यकम्
ध्यायद्भिस्तत् परं ब्रह्मातीन्द्रियं विजितेन्द्रियैः ॥३६
ब्रह्मर्षिभिः सेव्यमाना ब्रह्मभूयङ्गतैः सदा
पुरुजिच्चरणस्पर्शपूता पुरुषपावनी ॥३७
पुराणपुण्यभवनं पुरुषोत्तमपूर्तिदा
पूर्वसेवापुरस्कारिपुम्मण्डलपुरस्कृता ॥३८
पुण्यपुष्करिणी स्वामिपुष्करिण्यात्मभूमिका
दर्शनात् स्पर्शनात् पानात् सर्वेषां सर्वकामदा ॥३९
अश्मन्यग्रोधमूलस्थनीलकण्ठाश्रमवर्णनम्
तस्यास्तीरे महान् अश्मन्यग्रोधो गिरिकन्दरे
शाखाशतैः परिच्छन्नदशाशाचक्रवालकैः ॥४०
संवर्धितान्धतमसा स्वान्तध्वान्तमलापहः
तापत्रयार्तमनसां जन्तूनामार्तिहारकः ॥४१
श्रीपाद्मपुराणे क्षेत्रकाण्डे त्रिंशोऽध्यायः

[[286287]]
कल्पवृक्षप्रतिनिधिः निधिर्निगमवर्चसाम्
नराणामाश्रितवतां महापातकनाशनः ॥४२
तस्योपलवटाख्यस्य मूले शूलिन आश्रमम्
हरिणैरछरिणीभिश्च नारसिंहविवर्धितैः ॥४३
समाध्यासितपर्यन्तभूतलं वृषमूर्तिभिः
चण्डक्रमैः पुण्डरीकैः मण्डिताशान्तमण्डलैः ॥४४
वैश्वामित्रैः कुशैर्मुञ्जैः काशैश्चापि समावृतम्
मन्दारकुन्दमाकन्दहरिचन्दनचन्दनैः ॥४५
पाटलाशोकतिलककृतमालतमालकैः
नक्तमालैर्नालिकेरैः पनसैरसनैः धवैः ॥४६
पुन्नागपूगरुद्राक्षवकुलाक्षहरीतकैः
समन्ततः समच्छायं वन्यैरन्यैरनोकहैः ॥४७
नन्द्यावर्तैर्जतियूथीकरवीरातिवीरकैः
शतपत्रैर्दमनकमाधवीमालतीन्दुभिः ॥४८
तुलसीभिर्गन्धलताजातिभिः परितो वृतम्
पञ्चभिः पारिजातादिपादपैश्च परिष्कृतम् ॥४९
पवित्रेऽस्मिन् हरिक्षेत्रे हरिं नरहरिं हरः
अभ्यर्चितुमनाः स्थाणुः आजगाम जगन्मयः ॥५०
नीलकण्ठकृतनृसिंहाराधनसङ्कल्पः
स्नात्वाऽस्यां पुण्यपूर्वायां पुष्करिण्यां पुरान्तकः
हरो दिव्याम्बरधरो हरिचन्दनचर्चितः ॥५१
सर्वर्तुकालोत्थफलमालाशतपरिष्कृतः
दिव्यैराभरणैर्मुक्ताफलरत्नप्रवालकैः ॥५२
समलङ्कृतसर्वाङ्गः तुङ्गमङ्गलसंयुतः
कल्याणवेषकलितैः नन्दिप्रमुखकैर्गणैः ॥५३
सेवितो भूतततिभिः सेवारसविशारदैः
सितासितैः सारमेयैः दुर्वारैः प्रमथैः सह ॥५४
नरसिंहसपर्यायाः प्रत्यूहप्रतिघातिना
सेवितः क्षेत्रपालेन सुप्रसन्नो महेश्वरम् ॥५५
परावराणां भूतानां स्रष्टारं परमेश्वरम्
संहर्तारञ्च पापानां निग्रहीतारमच्युतम् ॥५६
अनुग्रहीतारमीशं ईशानस्य तपःफलम्
सकलं निष्कलं मिश्रं परस्मात् परमव्ययम् ॥५७
लक्ष्मीनृसिंहं संहारनृसिंहं दिव्यसिंहकम्
अखिलार्तिहरं वीरं उग्रं प्रत्यग्रविग्रहम् ॥५८
शब्दब्रह्ममयं शब्दातीतं शब्दविजृम्भणम्
अर्धब्रह्मवपुर्वीरं उग्रं प्रत्यग्रविग्रहम् ॥५९
अव्याजमित्रं शत्रुघ्नुं शरण्यं शरणात्मकम्
भक्तार्तिभञ्जनपरं आत्मनामभयप्रदम् ॥६०
सच्चिदानन्दसन्दोहं वृद्धिक्षयविवर्जितम्
पूर्णषाड्गुण्यविभवं त्रैगुण्यविभवास्पदम् ॥६१
श्रीपाद्मपुराणे क्षेत्रकाण्डे त्रिंशोऽध्यायः

[[288289]]
श्रीवत्सलक्षणं सर्वं सर्वलक्षणलक्षितम्
अप्रपञ्चं प्रपञ्चात्मप्रपञ्चितपराक्रमम् ॥६२
विश्वेशं तत्परं ब्रह्म ध्यायन्नेकाग्रमानसः
वसानः कृत्तिवसनं पौण्डरीकोत्तरच्छदः ॥६३
पाञ्चरात्रविधानेन पञ्चकालपरायणः
तस्योपलवटस्याधो नरकेसरिणः स्वयम् ॥६४
सर्वलोकहितार्थाय सर्वाऽवासस्य शार्ङ्गिणः
सपर्यां सुकृती कर्तुं अग्निरेताः प्रचक्रमे ॥६५
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये देवल
देवदर्शनसंवादे श्रीनृसिंहाचलस्थनीलकण्ठतपः क्षेत्रादि
वर्णनं नाम त्रिंशोऽध्यायः

एकत्रिंशोऽध्यायः

अथ एकत्रिंशोऽध्यायः

नीलकण्ठकृतनृसिंहाराधनविधिः
देवदर्शनः-
श्रीकण्ठः शङ्करः शान्तो नरकण्ठीरवं महः
वैकुण्ठं वैजयन्त्याढ्यमकुण्ठितमनाः स्मरन् ॥१
सर्वलोकहिताकाङ्क्षी स्थाणुः स्वस्थात्ममानसः
अस्मिन् न्यग्रोधमूलस्य मूले वैयाफ्रुचर्मणि ॥२
अगर्भसाग्रदर्भाग्र्यसन्दर्भाक्षतनिर्मिते
पद्मासने समासीनः संयमी समदर्शनः ॥३
कारुण्यार्णवकल्लोललोललीलाकुलेक्षया
त्रीक्ष्णण्या वीक्षयन् विष्वक् त्रिलोकीं त्रिपदाङ्किताम् ॥४
तरुणादित्यकिरणसहोदरजटासटः
नीलकण्ठः पशुपतिः श्रीकण्ठः परमेश्वरः ॥५
कपर्दजूटकलितकमलारिकलालयः
विलयोदन्तवीरश्रीः इन्द्वर्काग्नित्रिलोचनः ॥६
जटाटवीलसद्गङ्गाशिरोमालाभिमण्डनः
अष्टमूर्तिरनन्तात्मा विशिष्टविभवेष्टभूः ॥७
शरन्निर्मलपूर्णेन्दुमण्डलाननमण्डलः
उद्यत्संवर्तमार्ताण्डचण्डरुच्यङ्गमण्डनः ॥८
पवित्रिताङ्गोऽहिर्बुध्न्यः चिकीर्षन् विश्वरक्षणम्
दक्षिणामूर्तिरव्यग्रः समग्रद्रव्यसाधनः ॥९
शत्रुविध्वंसकं ब्रह्म नृकेसरिकिशोरकम्
निष्कलं सकलीकृत्य नित्याभ्यर्चनकामुकः ॥१०
कारुण्यपुण्यपदवीमृडः कात्यायनीसखः
चराचराणां सर्वेषां अमीषां मित्रमात्मनाम् ॥११
आनन्दकन्दमहिमा बभूव भुवनेश्वरः
श्रीपाद्मपुराणे क्षेत्रकाण्डे एकत्रिंशोऽध्यायः
[[290291]]
नीलकण्ठप्रतिष्ठित श्रीनृसिंहवर्णनम्
नृसिंहगर्भं सकलं शत्रुसादकरं परम् ॥१२
त्रीक्षणीकोणसन्निर्यत्कृष्णवर्त्मशिखाजटम्
दंष्ट्राकोटिविटङ्काग्रनिस्सरद्वह्निकीलकम् ॥१३
ऊरूपरि समुत्ताननिपातितहिरण्यकम्
नखत्रुटितदैत्येन्द्रवक्षोविवरगह्वरम् ॥१४
असुरासृक्कण्ठशिरोलुण्टाकानेकबाहुकम्
अनेकशस्त्रास्त्रधरानेकबाहुसहस्रकम् ॥१५
घोराट्टहासनिनदविपाटितवियत्तटम्
भवद्भव्यात्मकं ब्रह्म भासकं भक्तवत्सलम् ॥१६
अतिभूतिप्रदं देवं विभवानन्ददायकम्
देवानां पूर्वदेवानां सामान्यमधिदैवतम् ॥१७
रत्नप्रतानप्रत्युप्तकिरीटमकुटोज्ज्वलम्
द्युमणिप्रतिकाशाभ्यां कुण्डलाभ्यां विराजितम् ॥१८
नवरत्नान्तरप्रोतमौक्तिकत्रिसरान्वितम्
पञ्चसप्तसरीभिश्च मण्डितोरुभुजान्तरम् ॥१९
स्फुरत्कटककेयूरकङ्कणाङ्गुलिभूषणम्
उत्तरीयब्रह्मसूत्रोदरबन्धनबन्धुरम् ॥२०
घण्टानिनादलुण्टाकघण्टिकादामनादकम्
प्रपदप्रस्फुरद्रोचिर्मणिमञ्जीरहंसकम् ॥२१
छिन्नवीरुत्समायुक्तिकिङ्किणीपादशोभितम्
प्रत्यग्रोत्फुल्लरक्ताब्जप्रतिमाङ्घ्रिकरस्थलम् ॥२२
विचित्ररत्नखचितपीतकौशेयवाससम्
सर्वर्तुकामोदयुक्तप्रसूनस्रगलङ्कृतम् ॥२३
दिव्यसद्गन्धसन्दर्भगर्भारुणविलेपनम्
अनेकचीनांशुकस्रगालेपालङ्कृताङ्गकम् ॥२४
सेव्यमानं सुरश्रेष्ठपुरुहूतपुरोगमैः
बृन्दारकैश्च मन्दारपुष्पाञ्जलिलसत्करैः ॥२५
समन्ततः सेव्यमानं सनन्दसनकादिभिः
सप्ततन्त्रीनादगर्भाथर्वश्रुतिविलासिना ॥२६
उपवीणयताऽनन्तापदानं भक्तितो मया
संस्तूयमानं गन्धर्वैः तुम्बुरुप्रमुखैर्मुदा ॥२७
पक्षीन्द्रविष्वक्सेनाभ्यां गणैस्तु कुमुदादिभिः
रहस्सदात्मपर्यन्ते संवृतं परिचारकैः ॥२८
परिबराछभूषणानि हेतिमिङ्गितवेदिनीम्
दधतीभिर्वैष्णवीभिः शक्तिभिर्वीतमन्तिके ॥२९
रौद्रीभिः शक्तिभिश्चैव ब्राह्मीभिः परितो वृतम्
परमात्मानमात्मीयमात्मनामभयप्रदम् ॥३०
सेव्यमानं सिद्धसङ्घैः सप्तलोकनिवासिभिः
नरसिंहात्मकं ब्रह्म प्रतिष्ठाप्येह भूतले ॥३१
श्रीपाद्मपुराणे क्षेत्रकाण्डे एकत्रिंशोऽध्यायः

[[292293]]
सन्निधिं प्रार्थ्य सर्वेषां दृष्टादृष्टफलप्रदम्
उपचारैः समभ्यर्च्य संस्कारैः संस्कृतो भवान् ॥३२
परावराणां भूतानामीश्वरः स महेश्वरः
समतिष्ठत सर्वात्मा कुर्वन् नयनमात्मनि ॥३३
धर्मं भागवतं तत्र चरन् भगवतीसखः
पुराणे सुखमास्तेऽस्मिन् पुरारिः पुरुषः सदा ॥३४
तस्मादयं नीलकण्ठः प्रसिद्धः सर्वतो महान्
जन्तूनामपि जीवातुः जङ्गमाजङ्गमात्मनाम् ॥३५
श्रीनृसिंहसान्निध्येन नीलकण्ठाश्रमस्याधिक्यवर्णनम्
पुण्यपुष्करिणी सेयं पुण्या पुण्यफलप्रदा
पुरुषार्थप्रदा पुंसां पुरारिप्रीतिपूरणी ॥३६
नवमेतदहिर्बुध्य्नतपःक्षेत्रं पवित्रभूः
पुण्यारण्यं यत्र तप्तं तपः कोटिविधं भवेत् ॥३७
असावत्रोपलवटः पटुः पापविनाशने
सकृद्दर्शनमात्रेण सर्वाभीष्टफलप्रदः ॥३८
नरकण्ठीरवतनोः मन्दिरं त्विन्दिरापतेः
श्रीकण्ठार्चनतृप्तस्य वैकुण्ठस्य महात्मनः ॥३९
सिंहाहार्यो हरः पापात् कृतशौचस्त्वहोबिले
नीलकण्ठाश्रम इति स्थानानि नृहरेरछरेः ॥४०
एतेषामपि पञ्चानां स्थानानां स्थाणुसेवितम्
स्थानमेतत् समुद्दिष्टं प्रथितं सुप्रतिष्ठितम् ॥४१
नीलकण्ठाश्रमे सिंहमहीधरमहाह्वयम्
महिताश्चर्यमाहात्म्यभूमिर्भूमिर्निरागसाम् ॥४२
पाण्डवतीर्थमाहात्म्यम्
किञ्च वक्ष्यामि विप्रर्षे! समाहितमनाः शृणु
प्राचीनबरिछरछरिति श्रीनिवासगिरेः सरित् ॥४३
प्रसृता प्रस्थतः स्वामिपुष्करिण्यविदूरतः
विद्राविणी चावद्यानां निरवद्याऽतिभूमिदा ॥४४
मायाविनो महाविष्णोः महामायासमाश्रयाः
पुरा ज्ञातिवधं कृत्वा पाण्डवाश्चण्डविक्रमाः ॥४५
समेत्य यत्र तत्पापनुत्तये दीनमानसाः
कालीयव्यालकालेन वासुदेवेन चोदिताः ॥४६
सम्पूर्णमानसाश्चक्रुः आप्लवं निरुपप्लवाः
मलप्रध्वंसिनीं मायां महिषासुरमर्दिनीम् ॥४७
सम्पूज्य संस्तूयतेऽपि श्रीनिवासमधोक्षजम्
अतीन्द्रियं समभ्यर्च्य स्वामिपुष्करिणीतटे ॥४८
निरेनसः शुद्धधियो ययुस्तस्मात् यथागतम्
विधिज्ञा विमलप्रज्ञा नानाज्ञानविलासिनः ॥४९
अमूमुशन्ति सरितं तीर्थं पाण्डवमित्यतः
पश्चात् तस्याः पुष्करिण्या नारायणगिरिर्महान् ॥५०
श्रीपाद्मपुराणे क्षेत्रकाण्डे एकत्रिंशोऽध्यायः
[[294295]]
नारायणगिरिप्रभाववर्णनम्
यस्य दर्शनमात्रेण मुच्यन्ते जन्तवः स्वतः
संवर्तोदितदुर्दर्शसहस्रकिरणप्रभः ॥५१
तेजःपुञ्जैरञ्चिताशः कञ्जल्कपिञ्जरः
पर्वताधिपतिस्तत्र सुखमास्ते सुरोत्तमः ॥५२
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये देवल
देवदर्शनसंवादे नीलकण्ठाश्रमवर्णने नीलकण्ठकृतनृसिंहा
राधनविध्यादिकवर्णनं नामैकत्रिंशोऽध्यायः

द्वात्रिंशोऽध्यायः

अथ द्वात्रिंशोऽध्यायः

नारायणाद्रिस्थभैरवाख्यक्षेत्रापालकोदन्तः
देवलः-
कुक्षावुक्षक्षितिभृतो दिव्यदेशस्य वैभवम्
देवदर्शन! मा चक्ष्व वैष्णवं वैदिकर्षभ! ॥१
देवदर्शनः-
शृणु देवल! मेधावि समामितमना मुने!
कण्ठीरवगिरेर्वृत्तं वैकुण्ठवसतेरिदम् ॥२
वैकुण्ठादीन् दिव्यलोकान् सन्त्यज्य भगवान् स्वयम्
मायावी तत्र रसिकः श्रीनिवासः परः पुमान् ॥३
सर्वाऽवासः सहस्राक्षः परमात्मा सनातनः
इच्छावृत्तप्रपञ्चोऽसौ हृषीकेशश्च केशवः ॥४
तं देशं रक्षति सदा भैरवः परिचारकः
असितैः सारमेयैश्च प्रमथैर्मथितासुरैः ॥५
काकोदरालङ्कृताङ्गस्फुरत्खड्गकपालभृत्
रवस्फूर्जड्डमरुकत्रिशूलः शूलिभृत्यकः ॥६
प्राचीने तस्य देशस्य स्थितोऽञ्जनगिरेस्तटे
तरुणादित्यसङ्काशाऽखिलाभीष्टफलप्रदा ॥७
गौर्या नारायणाद्रितपःकरणेन दुर्गात्व-शिवार्धशरीरत्वप्राप्तिः
परिभूता पुरा गौरी दक्षयागे पुरारिणा
अन्तरिछताऽभूदुद्वेगात् कपर्दी च तिरोदधे ॥८
आहर्तुकामा वामार्धं तनोस्तस्य हरस्य सा
तपस्तप्तुमनास्तूर्णं आजगाम तटीमिमाम् ॥९
समाहितमनास्तस्यां सा तेपे दुर्गमं तपः
घोरेण तपसा तां तु ’’दुर्गे’’ त्यूचुर्महर्षयः ॥१०
प्रीतः कपर्दी दत्त्वाऽस्यै शरीरार्धं प्रसादतः
अर्धनारीवपू रुद्रो ययौ सोऽपि यथागतम् ॥११
पुरारिदयिता पुण्यपुरुषार्थफलप्रदा
समीपे श्रीनिवासस्य सैषाऽञ्जनगिरेस्तटे ॥१२
श्रीपाद्मपुराणे क्षेत्रकाण्डे द्वात्रिंशोऽध्यायः
[[296297]]
अत्र्यादिपञ्चाशन्महर्षिप्रशंसितस्वामिपुष्करिणीमाहात्म्यम्
स्वामिपुष्करिणी तत्र पुराणी पुण्यपूरणी
स्वर्भूपातालवासिन्याः त्रिस्रोतसः प्रसूतिभूः ॥१३
त्रिविक्रमकृतो विष्णोः सपर्यायै यदात्मजा
सुरज्येष्ठेन नियमात् कमण्डलुसमुद्धृता ॥१४
युस्यास्तीरे च विन्दन्ति चतुर्वर्गानभीप्सितान्
सुरा नराश्च तिर्यञ्चः प्रपञ्चीकृतकारणाः ॥१५
माहात्म्यमूचिरे तस्याः परस्परमतीन्द्रियम्
आप्लुता विमलप्रज्ञा मुनयो ब्रह्मवादिनः ॥१६
अत्रिः-
जपं कुर्वन्नपां मध्ये ’तद्विष्णोरि’ति यः सकृत्
स्वामिपुष्करिणीस्नातो मुच्यते पातकात्स तु ॥१७
व्यासः-
अवगाह्य जले स्वामिपुष्करिण्याः समाहितः
व्यपोह्य भ्रूणहत्याघं अश्नुतेऽभीष्टसम्पदम् ॥१८
वसिष्ठः-
यः स्नायाद्वारिणि स्वामिपुष्करिण्याः स्मरन् हरिम्
सप्तजन्मकृतं पापं सहसा स व्यपोहति ॥१९
पराशरः-
यः करोत्याप्लवं स्वामिसरसीजलमध्यतः
सोऽतीत्य निरयं सर्वं ब्रह्मभूयाय कल्पते ॥२०
गौतमः-
कीर्तयित्वा जलेऽन्यत्र ’स्वामिपुष्करिणी’ति यः
स्नायाद्ध्यायन् श्रीनिवासं मुच्यते सोऽतिपातकात् ॥ २१
भरद्वाजः-
प्रातरुत्थाय ये प्राज्ञाः ’स्वामिपुष्करिणी’ति वै
कीर्तयन्त्याहितात्मानः ते यान्ति परमं पदम् ॥२२
मनुः-
स्वामिपुष्करिणीतीर्थजलं प्रीताः पिबन्ति ये
तेऽपि निर्धूतपाप्मानो यान्ति ब्रह्म सनातनम् ॥२३
यमः-
स्वामिपुष्करिणीकूले नरा नक्तन्दिवञ्च ये
वसन्त्यभोजनास्तेऽपि लभेरन् परमं पदम् ॥२४
याज्ञवल्क्यः-
विगाह्य स्वामिसरसो जलं वीतक्लमा जनाः
प्रार्थितं प्राप्नुयुः प्राज्ञाः प्रजापतिरुवाच ह ॥२५
हारितः-
हरिं स्मरन्तः कुर्वन्ति स्नानं स्वामिसरोजले
वीतांहसो वीतनिद्रा विशन्ति विमलं पदम् ॥२६
अङ्गिराः-
येऽनुतिष्ठन्त्यनुष्ठानं स्वामिपुष्करिणीजले
अनेकजन्मजनितमेषामेनो विनश्यति ॥२७
श्रीपाद्मपुराणे क्षेत्रकाण्डे द्वात्रिंशोऽध्यायः

[[298299]]
उशनाः-
उदीरयन्ति ये नित्यं ’स्वामिपुष्करिणी’ति च
दुष्कर्मपङ्कं निर्धूय अश्नुवते तेऽपि सत्फलम् ॥२८
संवर्तः-
ये कीर्तयन्ति सर्वत्र सदा स्वामिसरोवरम्
तेऽप्यवद्यं विनिर्धूय निरवद्या भवन्ति वै ॥२९
आपस्तम्बः-
स्वामिपुष्करिणीतोये स्नानपानादिकर्म ये
कुर्वन्ति पापस्तम्भं ते परित्यज्याऽप्नुवन्ति सत् ॥३०
मरीचिः-
नारायणगिरेः प्रान्ते स्वामिपुष्करिणीतटे
यः किल्बिषी वसत्येकं दिनं निष्किल्बिषी भवेत् ॥३१
मृकण्डुः-
कण्ठीरवगिरेः कुक्षौ पक्षिराड्वाहहर्षके
यः सेवते स्वामिसरः स नरः सुरसङ्गतः ॥३२
पुलस्त्यः-
क्रोडे वेङ्कटशैलस्य सरः क्रोडाभिनन्दकम्
गायते यस्त्रिषवणं स नरः सर्वसम्मतः ॥३३
कात्यायनः-
वैकुण्ठस्य प्रीतिकरे कण्ठीरवगिरेस्तटे
स्वामिपुष्करिणीं योऽसौ सेवते स महान् भवेत्॥ ३४
बृहस्पतिः-
कुञ्जेऽञ्जनगिरेः स्वामिपुष्करिण्यप्सु यो नरः
कृताप्लवः सकृत् सत्यं कृतकृत्यो भवेन्नरः ॥३५
भृगुः-
प्रातरुत्थायानुदिनं स्वामिपुष्करिणीं स्मरन्
गोघ्नो यो मासमासीत गोप्रदानात् स शुद्ध्यति ॥३६
वाल्मीकिः-
स्वामिपुष्करिणीतीरे यो वसत्युपपातकी
मासं गोदानतः शुद्धो भवेन्नर इति श्रुतिः ॥३७
शङ्खलिखितौ-
पारे स्वामिसरो विद्वान् स्मार्तं श्रौतं करोति यः
सहस्रधा कृतं तेनेत्युशन्ति ब्रह्मवादिनः ॥३८
शातातपः-
हव्यकव्यात्मकं कर्म स्वामिपुष्करिणीतटे
वार्धुषिर्नास्तिको वाऽपि यः करोति स सत्फलः ॥३९
बोधायनः-
स्वामिपुष्करिणीतीरनिवासी हरिमेधसः
अश्वमेधादिकं यज्ञं यः करोति महेश्वरः ॥४०
मार्कण्डेयः-
मृगराडद्रिकुहरे हरेरानन्ददायिनि
कीर्तयन् स्वामिसरसीं नावसीदति मानवः ॥४१
श्रीपाद्मपुराणे क्षेत्रकाण्डे द्वात्रिंशोऽध्यायः

[[300301]]
माण्डव्यः-
गोविन्दमन्दिरे स्वामिपुष्करिण्यास्तटे वसन्
वासुदेवपरो मर्त्यो भवेद्वासवपूजितः ॥४२
शाण्डिल्यः-
स्वामिपुष्करिणीतीरे पञ्चकालपरो वसन्
अपञ्चत्वो भवेन्मुक्तः पञ्चोपरिषदात्मकः ॥४३
काश्यपः-
यो नरः स्वामिसरसि स्मरन् शौरिं कृताप्लवः
कर्मनिर्मूलको धीरः कृतकृत्यो भवेत् स हि ॥४४
कण्वः-
स्वामिपुष्कणीतीर्थं यः पिबेत् चुलुकत्रयम्
अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥४५
अगस्त्यः-
इन्द्रियैः कर्मभिर्ज्ञानैः मनसा सह मत्कृतम्
आप्लवात् स्वामिसरसि तदेनः शुद्ध्यति क्षणात् ॥४६
दुर्वासाः-
कीर्तयेत् स्वामिसरसीं सह सर्वेन्द्रियैरिछ यः
पूज्यते सिद्धसङ्घैः स सनन्दसनकादिभिः ॥४७
विश्वामित्रः-
पवित्रं स्वामिसरसि स्पृष्ट्वा तोयं निरेनसः
विज्ञानसम्पदो विष्णुं द्रष्टुकामा भवन्ति हि ॥४८
शक्तिः-
पवित्रवन्तः परमाः पञ्चसन्मन्त्रविग्रहाः
भवन्ति तेऽवगाहन्ते ये स्वामिसरसीजलम् ॥४९
शुकः-
स्वामिपुष्करिणी सैषा पुराणी पुण्यपूरणी
सुराणाञ्च नराणाञ्च तिरश्चाञ्चात्मशोधिनी ॥५०
यस्यां कोलवपुर्भूत्वा श्रीनिवासः परः पुमान्
देवीभिः शक्तिभिश्चैव क्रीडानुगुणभूतिभिः ॥५१
विचित्रविविधानेकशृङ्गयन्त्रधृतिक्रमैः
जलक्रीडां वितनुते विश्वाप्यायकरीं सदा ॥५२
शौनकः-
सैषा हि स्वामिसरसी समञ्जसजगद्धिता
कीर्तनस्नानपानैश्च तापत्रयनिवारिणी ॥५३
नारदः-
माधवानन्दजननी मदनज्वरमाथिनी
मदयत्यात्मजातानि स्वामिपुष्करिणी ह्यसौ ॥५४
क्रतुः-
स्वामिपुष्करिणी सौम्य सोमपीथी सुरर्षभः
यस्यामवभृथस्नानं कुरुतेऽद्यापि विश्वसूः ॥५५
कुञ्जरारिगिरेः कुञ्जे व्यञ्जिताखिलभावनाः
साधवः स्वामिसरसि स्नानात् संसारतारिताः ॥५६
श्रीपाद्मपुराणे क्षेत्रकाण्डे द्वात्रिंशोऽध्यायः

[[302303]]
वेदप्रधाना विबुधा यस्यां स्नात्वा निरंहसः
विष्णुं साक्षात्कर्तुकामाः स्वामिपुष्करिणी हि सा ॥५७
सत्याषाढः-
आषाढानामाश्रमश्रीः आश्रमाचारशालिनाम्
अन्येषां भूतिभूमिश्च सैषा स्वामिसरोऽभिधा ॥५८
कुण्डिनः-
कुहरे सिंहशैलस्य सरसी स्वामिपूर्विका
शीलाचारवतां नॄणां अशीलानामपीष्टदा ॥५९
हारीतः-
जयन्ती चापदां भूमिः सम्पदां सर्वकामदा
सरसी स्वाम्युपपदा सैषा विष्णुपदीजनिः ॥६०
जैमिनिः-
शिरस्यञ्जलिमाबध्नन् स्वामिपुष्करिणीं स्तुवन्
स्मरन् हरिं स्वानुष्ठानं यः करोति स पुण्यभाक् ॥ ६१
स्नानं सकृत् कुर्वते ये स्वामिपुष्करिणीजले
हव्यकव्येषु ते योज्या नरा नारायणप्रियाः ॥६२
जाबालिः-
स्नानादन्येषु तोयेषु स्वामिपुष्करिणीं स्मरन्
कृतकृत्यः कृतात्मा स मर्त्यस्तत्फलमाप्नुयात् ॥ ६३
पितामहः-
स्वामिपुष्करिणीतीर्थपरिचर्यापरो हि यः
स मर्त्यो वैष्णवीं भूतिं मर्त्यत्वे समवाप्नुयात् ॥६४
सनकः-
यस्यास्तीरे निवसति श्रीनिवासः परात् परः
सा धन्या स्वामिसरसी सेवते तां य आत्मवान् ॥६५
सनन्दनः-
विष्णुपादोद्भवं ब्रह्मकरस्पर्शपवित्रितम्
पवित्रितेशानजटाजूटं स्वामिसरोजलम् ॥६६
सनत्कुमारः-
या पुनात्याप्लवात् सम्यक् भुवनानि चतुर्दश
स्वामिपुष्करिणी धन्या सा सर्वफलदायिनी ॥६७
वामदेवः-
सरांसि यानि दिव्यानि सन्ति त्रिजगतीतले
तेषामेषा स्वामिनी हि ’स्वामिपुष्करिणी’ त्यतः ॥६८
सनातनः-
ये नराः प्रातरुत्थाय तामिमां कीर्तयन्ति ते
स्वामिपुष्करिणीं भक्ता विशन्ति विमलं पदम् ॥६९
देवदर्शनः-
इत्यूचिवांसो विद्वांसः कृतकृत्या ह्यमर्षणाः
तस्यास्तीरे पुण्यभूमौ आसते मुनिपुङ्गवाः ॥७०
श्रीपाद्मपुराणे क्षेत्रकाण्डे द्वात्रिंशोऽध्यायः

[[304305]]
क्वचित् कदाचित् क्रीडार्थं दिव्यैः परिजनैः सह
शेषसेनेशगरुडप्रधानैः सेवितं शुभम् ॥७१
सेवमानाः श्रीनिवासं साक्षात् अक्षिपथं गतम्
चतुर्भुजमुदाराङ्गं अतसीगुच्छसच्छविम् ॥७२
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये देवल-
देवदर्शनसंवादे अत्र्यादिपञ्चाशन्महर्षिकृतस्वामिपुष्करिणी
प्रशंसनं नाम द्वात्रिंशोऽध्यायः

त्रयस्त्रिंशोऽध्यायः

अथ त्रयस्त्रिंशोऽध्यायः

दैत्योपद्रवज्ञापनार्थं ब्रह्मादीनां क्षीरसागरगमनम्
देवलः-
स्वामिपुष्करिणीकूले नारायणगिरेर्भृगौ
आविर्भावः कथं विष्णोः श्रीनिवासस्य शौर्ङ्गिणः ॥१
देवदर्शनः-
शृणु ब्रह्मन् ! समाचक्षे समाहितमना मुने!
प्रश्नं सर्वाण्डगर्भस्य प्रादुर्भावात्मकं विभोः ॥२
पुरा दुर्मेधसा दैत्यप्रवरेणामरारिणा
पीडिता रुद्रभक्तेन भृशं ब्रह्मादयः सुराः ॥३
शान्ताग्निसदृशाः शुष्कवदनाः शोकविह्वलाः
पराजिता जडात्मानः किङ्कर्तव्याविवेकिनः ॥४
दैत्यारिं शरणं प्राप्तुं प्रयता यतमानसाः
क्षीराब्धिं प्रापुरप्राप्तस्वावासास्तस्य शान्तये ॥५
तुष्टुवुस्तत्र दैतेयविध्वंसनविचक्षणम्
लक्ष्म्योपलक्षितं विष्णुं विश्वरक्षणदीक्षितम् ॥६
ब्रह्मादिकृतक्षीराब्धिशायिस्तुतिः
देवाः-
ॐ नमो देवदेवाय पूर्वदेवाय खड्गिणे
श्रीवत्साङ्काय च नमः परस्मै परमात्मने ॥७
नमः परस्मै प्यूहोपव्यूहान्तरविभूतये
विभवाय नमस्तस्मै विश्वान्तर्यामिणेऽणवे ॥८
अर्चावताराय नमः अजन्मने जन्मभाजिने
मायाविने जगत्स्रष्ट्रे लक्ष्मीनारायणात्मने ॥९
जगत्प्रत्यवरोहाय जगदानन्दिने नमः
जगन्मङ्गलभूताय जाह्नवीजनकाङ्घ्रये ॥१०
जङ्गमाजङ्गमजगद्धातुर्जननकारिणे
जनार्दनाय जम्भारेः अनुजाय नमो नमः ॥११
श्रियःपते! नमस्तुभ्यं सभ्यसन्दोहसङ्गिने
सदाविष्णो! महाविष्णो! विष्णोऽपारादिरूपिणे ॥१२
नमो नलिननेत्राय नेत्रभूताय नाकिनाम्
नारायणाय नाथाय नागभोगशयाय ते ॥१३
श्रीपाद्मपुराणे क्षेत्रकाण्डे त्रयस्त्रिंशोऽध्यायः

[[306307]]
विश्वेश्वराय विश्वाय विश्वातीताय ते नमः
विश्वाध्यक्षाय वीशानवाहनायादिवेधसे ॥१४
नित्याय निरवद्याय निराकाराय नीतये
निस्सीमकल्याणगुणगणातीताय ते नमः ॥१५
सच्चिदानन्दसन्दोह! देहवृद्धिक्षयाक्षम!
अच्युतानन्त! गोविन्द! नमस्तुभ्यं महात्मने ॥१६
अपारकरुणाम्भोधे! निस्तरङ्गात्मनिश्चल!
लक्ष्मीविलक्षण! विभो! विचक्षण! नमोऽस्तु ते ॥१७
ऋत! सत्य! परब्रह्म! कृष्ण! पिङ्गलपूरुष!
ऊर्ध्वरेताः! विरूपाक्ष! विश्वरूप! नमोऽस्तु ते ॥१८
नमो नमः कारणकारणाय नमो नमोऽनन्तमहाविभूतये
नमो नमः शङ्करचापहारिणे नमो नमश्शाश्वतशार्ङ्गधन्वने॥१९
नमोऽन्तरादित्यहिरण्यरूप! नीरूप! तुभ्यं पुरुषोत्तमाय
नमो नमोभिः निगमान्तभूतैः कृतस्तुतप्रस्तुतभावनाय ॥२०
प्रसीद पुण्डरीकाक्ष! प्रसीद पुरुषोत्तम!
प्रसीद परमानन्द! प्रसीद परमेश्वर! ॥२१
प्रसीद कमलाकान्त! प्रसीद करुणाकर!
प्रसीद भक्तार्तिहर! प्रसीद विबुधर्षभ! ॥२२
ब्रह्मादीनां पुरतः क्षीरार्णवात्लक्ष्मीसखीप्रादुर्भावः
देवदर्शनः-
देवमेवं स्तुतवतां देवानां महितात्मनाम्
हिरण्यगर्भपूर्वाणां भविष्यद्भूतभाविनाम् ॥२३
प्रादुर्बभूव पुरतः क्षीराब्धेर्दुहितुः सखी
पुण्डरीकनिभा साऽपि पुण्डरीकाऽऽयतेक्षणा ॥२४
पुण्डरीकाऽऽनना पुण्या पुण्डरीकाक्षशासनात्
अखिलक्लेशहारिण्या व्याहारिण्यार्थसम्पदाम् ॥२५
लक्ष्मीसखीकथितभगवदावासज्ञापनपूर्वकाभयोक्तिः
सुधां स्रवन्त्या वाचा च बभाषे तान् दिवौकसः
’स्वागतं भवतामस्तु कार्यसिद्धिश्च देवताः! ॥२६
बाधा क्वचिदिदानीं किं? सुरा दैैत्यासुरैरपि
तेषां तु निधनं कर्तुं ध्रुवमव्याजरक्षकः ॥२७
श्रीवत्सलक्षणः शार्ङ्गी दक्षिणो वश्च रक्षणे
मा भैषीष्ट सुरा यूयं मा प्रत्यूहो भविष्यति ॥ २८
अचिराद्भगवान् विष्णुः श्रीनिवासः स्वराड्विभुः
प्रत्यक्षो भविता वश्च सर्वं सिद्धं समीहितम् ॥२९
आमोदादीन् दिव्यलोकान् सन्त्यज्य भगवान् हरिः
इदानीं रमते लक्ष्म्या नारायणगिरेस्तटे ॥३०
स्वामिपुष्करिणीतीरे सर्वान्तर्याम्यधोक्षजः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥३१

[[308309]]
तदितो दक्षिणं भागं भूमेर्गच्छत सत्वराः
अविघ्नमस्तु वः कार्यं ब्रह्मेन्द्रत्रिदिवौकसः ॥३२
इत्युक्त्वा तु सखी लक्ष्म्याः सहसाऽन्तर्दधेऽपि च
तस्याः श्रुत्वा वचो विष्णुपत्नीसख्याः समाहिताः ॥३३
प्रणम्य दण्डवद्देशं तं परीयुः प्रदक्षिणम्
सव्री्पुतमानसा देवा सावधानाः ससव्भ्रुमाः
तस्माद्दक्षिणतो भूमिभागं गन्तुं प्रचक्रमुः ॥३४
ब्रह्मादीनां क्षीरार्णवात् श्रीनारायणाचलागमनम्
ततस्ते विबुधाः सर्वे परमेष्ठिपुरोगमाः
भूयो नारायणगिरेः पादानाशिश्रियुर्मुदा ॥३५
पुण्यातिपुण्यतो यानि सरांसि सरितश्च हि
सेवमानाः कृतातिथ्याः सिद्धसङ्घैश्च तापसैः ॥३६
मिथुनैः किन्नराणां हि लतागृहनिवासिभिः
गीयमानानि गीतानि प्रादुर्भावात्मकानि च ॥३७
मन्द्रमध्योच्चमहिममाधुरीधूर्वहाणि च
शिलातलेषु शृण्वन्तः सर्पा येषु समाश्रिताः ॥३८
सप्ततन्त्रीनादगर्भसप्तस्वरविभावनम्
वेणुवीणामृदङ्गाढ्यं नवनाट्यरसान्वितम् ॥३९
आविर्भावात्मकं कालश्रुतिकल्पितमूर्छनम्
अप्सरोगणसङ्गीतं लोकयन्तोऽथ ते शनैः
वीतक्लेशा वीतमोहाः विमलानन्दभावनाः ॥४०
श्री स्वामि पुष्करिणीतीरवर्णनम्
नारायणाद्रौ प्रापुश्च स्वामिपुष्करिणीतटम्
क्रौञ्चैः कारण्डवैरछंसैः सारसैः सरसस्वरैः ॥४१
ताराभिश्च बलाकाभिः अन्यैर्वनवयोगणैः
निबिडान्तरकल्लोलकोलाहलसमाकुलम् ॥४२
तमालैस्तिलकैः पूगैः नारिकेलैश्च पाटलैः
केतकैः सुरपुन्नागैः पुन्नागैः पुत्रदीपकैः ॥४३
जम्बीरैश्चम्पकैश्चूतैः लिकुचैः कुटजैर्वटैः
मन्दारैः केसरैः श्वेतमन्दारैरछरिचन्दनैः ॥४४
किंशुकाशोकसन्तानसालनीपहरीतकैः
श्रीवृक्षैश्चन्दनैर्बिल्वैः कदलीभिश्च दाडिमैः ॥४५
मातुलुङ्गैः कुरवकैः कुन्दैरामलजम्बुभिः
समन्ततः समाकीर्णं सान्द्रच्छायैश्च भूरुहैः ॥४६
वीरुद्भिर्दमनीभिश्च माधवीमालतीधवैः
फलपुष्पद्रुमैः फुल्लैः मल्लिकावनजातिभिः ॥४७
जातिभिः शतपत्रीभिः वराभिर्विष्णुपर्णकैः
तुलसी कृष्णतुलसी वलर्क्षतुलसीशतैः ॥४८
नन्द्यावर्तैस्त्रिसन्दीभिः जपाभिः करवीरकैः
शृङ्गबेरैरछरिद्राभिः कर्पूरैः रजनीकुलैः ॥४९
पनसैरार्द्रपनसैः अनेकैः कन्दजातिभिः
पुण्यगन्धं किरन्तीभिः लताततिभिरावृतम् ॥५०

[[310311]]
कलाछरकमलानीकमधुमत्तमधुव्रतैः
कूजद्भिः कोकिलैश्चापि मदान्धैर्महितान्तरम् ॥५१
समाश्रितार्तिहरणसान्द्रच्छायं समन्ततः
तत्र स्थित्वा मुहूर्तं ते ब्रह्मद्या देवतागणाः ॥५२
कमलाल्युक्त्या ब्रह्मादिकृत श्रीनिवाससाक्षात्कारोद्योगः
क्षीराब्धिकन्यासख्यास्तु संस्मरन्तो वचः शुभम्
श्रियःश्रियं श्रीनिवासं श्रीवत्सकृतलक्षणम् ॥५३
श्रीकण्ठकृतकैङ्कर्यं श्रीमहीमहितं हितम्
एकमेकायनविदामेकान्तहृदयालयम् ॥५४
द्वितीयाम्नायनिष्ठानामात्मनामात्मभूतिदम्
त्रिमूर्तिमत्त्रिगुणकं त्रिविधात्मककालकम् ॥५५
चतुर्मूर्तिधरं शान्तं चतुर्विंशतिमूर्तिकम्
चतुर्धाऽवस्थातिभूमिं चतुर्वर्गफलप्रदम् ॥५६
पञ्चोपनिषदात्मानं पञ्चरात्रप्रवर्तकम्
पञ्चाथर्वशिरोरत्नं पञ्चमूर्तिधरं परम् ॥५७
षडध्वमयचक्रस्थषट्कोटिगृहमेधिनम्
सप्तार्चिःपञ्जरावासहंसं परमहंसकम् ॥५८
अष्टाङ्गयोगवित्सिद्धसङ्घहृत्पद्मवासकम्
दशावतारचतुरं दशाननशिरश्छिदम् ॥५९
चरमोपायसुगमं चराचरगुरुं हरिम्
गङ्गाजन्मगृहाङ्गुष्ठपादपङ्कजवैभवम् ॥६०
प्रणतार्तिहरं शत्रुघ्नं शरण्यं शरणार्थिनाम्
प्रसादमात्रप्रभवप्रमामात्रप्रमाणकम् ॥६१
अव्याजमित्रं शत्रुघ्नं शरण्यं शरणार्धिनाम्
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोविजृम्भितम् ॥६२
रजस्तमस्सत्त्वसङ्घविमोहितजगत्त्रयम्
संसृष्टिस्थितिसंहारनिग्रहानुग्रहात्मकम् ॥६३
भक्तानामप्यभक्तानां चिन्तनान्मोक्षकारणम्
नादान्तगगनावासं शुद्धं सूक्ष्मं निरञ्जनम् ॥६४
निरवद्यं निराकारं निराबाधं निरामयम्
निराश्रयं निस्तरङ्गनीरराशिनिभं विभुम् ॥६५
अतीन्द्रियं परं ब्रह्म चेन्द्रियैः स्प्रष्टुमिच्छवः
व्यूहात्मकमिदं सूक्तं सुपर्वाणः समुत्सुकाः
उदात्तमुच्चैरुच्चेरुः सम्ल्पुतं निरुपप्लवाः ॥६६
शेषाद्रौ श्रीनिवाससाक्षात्काराय ब्रह्मादिकृतस्तुतिः
’’जितं ते पुण्डरीकाक्ष! नमस्ते विश्वभावन!
नमस्तेऽस्तु हृषीकेश! महापुरुष! पूर्वज! ॥६७
नमः श्रीधामनिलय! नमः श्रीवत्सलक्षण!
नमस्त्रिधात्मने तुभ्यं नमः श्रीघनमोहन! ॥६८
नाकौकः प्रत्यनीकारे नारायण! नमोऽस्तु ते
नागपर्यङ्कशयन अनाथनाथ नमो नमः ॥६९
श्रीपाद्मपुराणे क्षेत्रकाण्डे त्रयस्त्रिंशोऽध्यायः

[[312313]]
विश्वस्रष्ट्रे विश्वभर्त्रे विश्वत्रात्रे विचक्षण!
विश्वान्तर्यामिणे तुभ्यं विश्वोत्तीर्ण! विभो! नमः’’ ॥७०
स्वामिपुष्करिणीतीरे स्तुतिप्रसन्नभगवद्विमानाविर्भावः
एवमुच्चरतां तेषां हर्षोत्फुल्लास्यचक्षुषाम्
अग्रे सुधान्धसां व्यग्रमनसां सम्पदर्थिनाम् ॥७१
न्यक्कृताखिलतेजस्कं चक्षुराछरि समीक्षितम्
पश्चिमे स्वामिसरसस्तीरे प्रत्यग्रविग्रहम् ॥७२
विमानमाविर्बभूव विमलानन्दकारकम्
दिव्यदुन्दुभिनिर्घोषजयशब्दसमन्वितम् ॥७३
द्योतयच्च दिशः सर्वाः पुष्पवृष्टिपुरःसरम्
तद्वीक्ष्यानिमिषाः सर्वे विमानं विस्मयान्विताः
अभितुष्टुवुरात्मेशं श्रीनिवासं समञ्जसम् ॥७४
ब्रह्मादिकृतविमानमध्यगतश्रीनिवासस्तुतिः
जय श्रियः पते! विष्णो! जय! सत्याच्युतानिशम्
जयाऽनिरुद्ध! भगवन् ! जय पूरुषपूर्वज! ॥७५
जयेश! सर्वजगतां जय श्रीकण्ठपूजित!
जयाऽऽत्मेश्वर! जीवातो! जय त्वमपराजित’’ ॥७६
श्री श्रीनिवासाविर्भावः
स्तुत्याऽनया प्रसन्नोऽस्मिन् विमाने परमः स्वराट्
सहस्रादित्यसङ्काशः सहस्रेन्दुसमप्रभः ॥७७
सहस्रहुतभुक्प्रख्यो विख्यातविभवोदयः
चतुर्भुजः शङ्खचक्रवरावनतहस्तकः ॥७८
श्रीवत्सकौस्तुभोरस्को वैजयन्त्या विराजितः
उद्यत्प्रचण्डमार्ताण्डप्रतीकाशकिरीटकः ॥७९
माणिक्यकण्ठहारश्रीवीरपट्टविराजितः ।
कर्णपालीसमालम्बिमकराननकुण्डलः ॥८०
हारकेयूरकटककङ्कणाङ्गदसुन्दरः
अङ्गुलीयच्छन्नकरोदरबन्धनशोभितः ॥८१
प्रवालमुक्ताप्रत्युप्तनवरत्नसुदामकः
शृङ्खलाबद्धकौक्षेयकिङ्किणीककटिस्थलः ॥८२
पीतकौशेयवसनो दीप्तमञ्जीरहंसकः
किङ्किणीदामाङ्गुलीयविराजितपदाम्बुजः ॥८३
सर्वाभरणसंयुक्तः सर्वावयवसुन्दरः
पुण्डरीकविशालाक्षः पुष्पदामविराजितः ॥८४
अष्टाङ्गैर्धूपकैर्दिव्याऽऽलेपनैः पुण्यगन्धिभिः
सम्यक्थ्सानङ्किताङ्गश्रीः पूर्णचन्द्रनिभाननः ॥८५
अप्राकृताङ्गमहिमा प्राकृताङ्गविडम्बनः
प्रादुर्बभूव भगवान् भक्तभावाऽऽत्मकः पुमान् ॥८६
ब्रह्मादीन् प्रति भगवत्कृतकुशलप्रश्नः
ईषदुत्स्मयमानस्तु गीर्वाणान् वीक्ष्य विस्मितान्
बभाषे च सुरश्रेष्ठः पूर्वान् पूर्वविदात्मभूः ॥८७
श्रीपाद्मपुराणे क्षेत्रकाण्डे त्रयस्त्रिंशोऽध्यायः

[[314315]]
श्रीभगवान्-
कच्चिद्देवाः स्वागतं वः सहस्राक्षपुरोगमाः
पितामहं पुरस्कृत्य किमर्थं यूयमागताः ॥८८
कच्चित्प्रायेण बाध्यध्वे ध्रुवमव्याजशत्रुभिः
एवमुक्ते हृषीकेशे केशवे केशिमर्दने ॥८९
भगवते ब्रह्मकृतलोकोपद्रवकार्यसुरोदन्तविज्ञापनम्
प्रत्यूचे विबुधश्रेष्ठः प्रणिपत्य पितामहः
’जागरूकेऽत्र भवति भगवन् ! भक्तवत्सले ॥९०
सर्वत्रारिष्टमापन्नं त्वदधीना वयं हि तत्
किं वाऽकुशलमस्माकं जीवितं कञ्जलोचन! ॥९१
इन्द्रादयो लोकपाला विवर्णवदना इमे
स्वपदप्रच्युता दुःस्थाः स्वस्था न प्रचकाशिरे ॥९२
दैवतानाममीषां तु भीतिविह्वलचेतसाम्
नक्तं दिवं न चेरुश्च विमानानि वियत्तले ॥९३
एते हि द्वादशादित्याः तमोविध्वस्तदीप्तयः
ग्रस्ता इव तमोभिस्तु न बभुर्विगतप्रभाः ॥९४
अष्टौ वसुगणाः प्रायो द्वौ च नाकिनौ
बभासिरे न वीताभाः प्रणष्टवसुका इव ॥९५
मम लोके निवासश्च दुःस्थितोऽस्वस्थचेतस्मः
कैलासवासो रुद्रस्य महाक्लेशकरोऽभवत् ॥९६
स्वकृतिव्रीडया सोऽपि त्रतैव व्यवतिष्ठते
कश्चिन्निदानमेतेषां तृणीकृतजगत्त्रयः ॥९७
अमरारिरिति ख्यातो दैतेयेन्द्रो महेन्द्रजित्
शिपिविष्टं समुद्दिश्य दुर्विनीतगणाधिपम् ॥९८
घोराकारो घोरतरं चकारातिचिरं तपः
तपसा तेन सन्तुष्टः पिनाकी स च तामसः ॥९९
अजय्यत्वमवध्यत्वममरैरमराधिपैः
अन्यैरतिबलैश्चैव तस्मै दुर्मेधसे ददौ ॥१००
अमरारिर्दिविषदां अन्येषाञ्च सतामरिः
दुष्टात्मा दुष्टचेताः स त्रिषु लोकेषु चेष्टते ॥१०१
विशेषतो देववर्गान् दरिद्रान् दीनमानसान्
दिवानिशं सदा क्रूरः तदाप्रभृति बाधते ॥१०२
दैत्यारिर्देवतामित्रं शार्ङ्गी खड्गी च चक्रभृत्
देवः प्रमाणं सर्वेषामन्तर्यामी भवान् स्वतः ॥१०३
नमस्ते कमलाकान्त नमः कमललोचन!
नमः कारुण्यपुण्यश्रीः नमः कालात्मक! प्रभो! ॥ १०४
अर्दितानसुरेन्द्रेण दुरछृदा चामरारिणा
अस्माननेकविधया भवान् रक्षतु रक्षतु’
इति ब्रुवाणे गीर्वाणगणे श्रेयोभिशंसिनि ॥१०५
श्रीपाद्मपुराणे क्षेत्रकाण्डे त्रयस्त्रिंशोऽध्यायः
[[316317]]
ब्रह्मादिप्रार्थनया भगवदुक्ताभयोक्तिः
शरत्प्रत्यग्रफुल्लाब्जवक्त्राभे परमेष्ठिनि
कारुण्यामृतवाराशिकल्लोलामृतलीलया ॥१०६
वीक्षया वीक्ष्य विश्वात्मा विध्वस्तजरयाऽऽदरात्
उवाच भगवान् विष्णुः स्मयमानमुखाम्बुजः ॥१०७
दन्तपङ्त्किद्युतिज्योत्स्नास्नपिताऽशान्तरालकः
’मा बिभ्यतु भवन्तोऽहं करिष्ये तत्प्रतिक्रियाम् ॥१०८
स्वस्मिन् स्वस्मिन् पदे यूयं स्थातारोऽनार्तमेव च
वध्य एव त्ववध्यत्वं प्राप्तवानपि शूलिनः ॥१०९
रक्षोगणसंहाराय भगवत्कृतकुमुदाक्षनियोजनम्
अमरारिरमुष्यास्तु त्रिलोक्या दुष्टकण्टकः’
इतुक्त्वा तान् सुरगणान् सुप्रसन्नः सुरर्षभः ॥११०
इङ्गिताकारचेष्टाज्ञमिन्दिररारमणः प्रभुः
कुमुदाक्षं गणाध्यक्षं गदापाणिमुदैक्षत ॥१११
श्रीवत्सकौस्तुभाभ्याञ्च ऋते सारूप्यसम्पदम्
विष्वक्सेनाभिधानञ्च सेनापत्यं प्रदाय च ॥११२
नियुज्यं तं तस्य वधेऽमरारातेर्गणाधिपम्
देवान् सम्भाष्य सहसा सर्वान् स्वपदकाङ्क्षिणः ॥११३
भगवतो ब्रह्मादिप्रेषणपूर्वकमन्तर्धानम्
कृत्वाऽभयप्रदानञ्च दत्त्वाऽऽशिषमनेकशः
स्मयमानमुखः श्रीमान् अच्युतस्तु तिरोदधे ॥११४
ततो देवा देवदेवाभिहितं वचनं हितम्
श्रुत्वा प्रीत्या प्रणम्यैतं देवमुद्जिश्य चोर्जितम् ॥११५
शिरस्यञ्जलिपुञ्जानप्याबध्नन्तः सुधान्धसः
प्रदक्षिणं परिक्रम्य ययुः संहृष्टमानसाः ॥११६
श्रीनिवासावासस्थलस्य सर्वफलप्रदत्ववर्णनम्
इति देवार्यमित्रस्य सर्वान्तर्यामिणो विभोः।
आविर्भावो मयाऽऽख्यातः श्रीनिवासस्य देवल! ॥११७
शृण्वतां पठतां चैव चतुर्वर्गफलप्रदः।
एतद्वै वैष्णवं क्षेत्रं पवित्रं चित्रवैभवम् ॥११८
अनायासेन जगतामभीष्टफलदायकम्।
मुक्तिभाजां मुमुक्षूणां लक्ष्मीवैभवकाङ्क्षिणाम् ॥११९
किन्नराणां नराणाञ्च सुराणां सुखशालिनाम् ।
भूतानां भूतयोनीनां भैरवाभैरवात्मनाम् ॥१२०
परमैकान्तिनां पञ्चकालाकलुषितात्मनाम् ।
पञ्चशाखाथर्वविदां पञ्चोपनिषदात्मनाम् ॥१२१
नित्यानां नियमस्थानां निवासो योगिनामसि ।
माहात्म्यमस्य देशस्य वक्तुं वर्षशतैरपि ।
अशक्यं देवल! भवान् कृतकृत्यः शुचिश्रवाः ॥१२२
श्री श्रीनिवासावतार देशकालनिर्णयः
इत्थमात्मभुवः कल्पे हार्दाम्भोजभुवो हरेः ।
आदौ कृतयुगे जम्बूद्वीपे भारतवर्षके ॥१२३
श्रीपाद्मपुराणे क्षेत्रकाण्डे त्रयस्त्रिंशोऽध्यायः

[[318319]]
गङ्गाया दक्षिणे भागे योजनानां शतद्वये ।
पञ्चयोजनमात्रे तु पूर्वाम्भोधेस्तु पश्चिमे ॥१२४
मासे भाद्रपदे विष्णुतिथौ विष्णुसमन्विते ।
सिद्धयोगे सोमवारे गिरौ नारायणाऽऽह्वये ॥१२५
स्वामिपुष्करिणीतीरे पश्चिमे भूत्यपश्चिमे।
बृन्दारकाणां बृन्दैस्तु प्रार्थितो लोकरक्षकः ॥१२६
आविर्बभूव भगवान् श्रीनिवासः परः पुमान् ।
श्रीनिवासाय महते निष्कलानिष्कलात्मने ।
नमोऽस्तु पद्मनेत्राय पवित्रायादिवेधसे ॥१२७
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्री वेङ्कटाचलमाहात्म्ये
श्री श्रीनिवासाविर्भाववर्णनं नाम त्रयस्त्रिंशोऽध्यायः

चतुस्त्रिंशोऽध्यायः

अथ चतुस्त्रिंशोऽध्यायः

पद्मसरोवरमाहात्म्यम्
देवलः-
’देवदर्शन! भूयोऽपि श्रोतुं कौतूहलं हि मे ।
पद्माख्यसरसो ब्रह्मान्! माहात्म्यं जन्म मे वद ॥१
यस्मिंस्तपस्यतो वैयासकेः सिद्धिरुपागता ।
शुकस्तु मुक्त इति वै प्रसिद्धो जगतीतले ॥२
ब्रह्मलोकादागतो यः शुकोऽन्यो वा वदस्व मे ।
कृपां मयि कुरुष्वाद्य वद सर्वज्ञ मे गुरो!’ ॥३
देवदर्शनः-
भृगुपादाहतिकुपिताया लक्ष्म्याः कपिलालयगमनम्
शृणु पद्माख्यसरस उत्पत्तिं देवलाद्य भोः! ।
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वं धर्मनायक! ॥४
भृगुपादाहतस्यास्य विष्णोर्वैकुण्ठवासिनः ।
विप्रपादरजःस्पृष्टा कुपिता कपिलाऽलयम् ॥५
गत्वा पातालमूलं सा मुनिना तेन पूजिता ।
श्रीमता सा हि तेनैव कपिलेन कृताऽलया ॥६
पूजिता च चिरं कालं तत्र वासं तदाऽकरोत् ।
धरणीसहितो विष्णुः लीलया धृतचामरः ॥७
लक्ष्म्यन्वेषणार्थं धरातलं प्रति भगवदागमनम्
तं मुनिं पूजयित्वाऽथ भृगुं ब्रह्मर्षिसत्तमम्
नीलां निक्षिप्य वैकुण्ठे भूदेव्या भूमिमागतः ॥८
शङ्खचक्रगदाकुन्तपाणिः पद्मदलेक्षणः
श्रीदेव्यन्वेषणं कुर्वन् नानारूपी जनार्दनः ॥९
षट्पञ्चाशत्सु देशेषु विचिन्वन् पुरुषोत्तमः
कॊलाछपुरं समागम्य श्रियोऽधिष्ठानमुत्तमम् ॥१०
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुस्त्रिंशोऽध्यायः

[[320321]]
तत्रापश्यन्महालक्ष्मीं अर्चारूपेण राजतीम्
अगस्त्याराधितां पूर्वं प्रतिष्ठाप्याऽऽलयोत्तमे ॥११
तां दृष्ट्वा तत्र देवेशो महितां मुनिसत्तमैः
अर्चयंश्च स्वयं विष्णुः उवास दशवत्सरान् ॥१२
श्री कॊलाछपुरवासिलक्ष्मीमर्चयन्तं भगवन्तं प्रत्यशरीरोक्तिः
अथाब्रवीत्तदा विष्णुं अशरीरा सरस्वती
विष्णो! प्रसीद भगवन्! लक्ष्मीदर्शनलालस! ॥१३
इतो दक्षिणतो गच्छ कृष्णावेण्योश्च दक्षिणे
द्वाविंशद्योजने विष्णो! सुवर्णमुखरी नदी ॥१४
तीरमासाद्य तस्यास्त्वं उत्तरं मुनिसेवितम्
कुन्तेनाऽऽहत्य तत्तीरे सरः कृत्वा तपः कुरु ॥१५
आहृत्य देवलोकात्त्वं सुवर्णकमलानि च
संस्थाप्य तस्मिन् सरसि सर्वाणि कमलानि च ॥१६
तत्तीरे पुष्पजातीश्च पुष्पवृक्षशतानि च
पद्माऽरामे च सरसि पद्मायाः पद्मवल्लभ! ॥१७
जपन्नेकाक्षरमनुं सहस्राक्षरमेव वा
अर्चयन् कमलैः पद्मां द्वादशाब्दं वस प्रभो! ॥१८
ततः प्रसन्ना सा देवी स्वयमाविर्भविष्यति
सुवर्णकमले देव! सुवर्णकमलाकृतिः ॥१९
ऊनषोडशवर्षा सा श्रीः पद्मनयना तव
गच्छ शीफ्रुमितो विष्णो! सुवर्णमुखरीतटम्’ ॥२०
शेषाचलाध्वना राजरूपस्य भगवतः सुवर्णमुखरीतीरागमनम्
इति सौम्यं वचः श्रुत्वा विष्णुराकाशसम्भवम्
जगाम गरुडाऽऽरूढः सुवर्णमुखरीतटम् ॥२१
पश्यंश्च विविधान् देवान् पर्वतांश्च वनानि च
वराहाधिष्ठितं पुण्यं अञ्जनाद्रिं सुरारिहा ॥२२
स्वामिपुष्करिणीं दृष्ट्वा भूवराहस्य सन्निधौ
गरुडादवतीर्यासौ स्वात्वा स्वामिसरोजले ॥२३
वैखानसैश्च मुनिभिः आतिथ्येन सुपूजितः
न ज्ञातो राजरूपेण मुनिभिः पुरुषोत्तमः ॥२४
ययौ प्रातः समुत्थाय मुनीनामन्त्र्य तान् विभुः
अश्वरूपन्तु गरुडमारुह्य पुरुषोत्तमः ॥२५
गदाकुन्तधरो देवो गिरेर्दक्षिणतो व्रजन्
सुवर्णपङ्कजाकीर्णं सुवर्णमुखरीं हरिः ॥२६
दृष्ट्वा सविस्मयो भूत्वा गरुडादवरुह्य च
तत्र पुण्ये समे देशे कुन्तेनाऽऽहत्य भूतल्म् ॥२७
भगवत्कृतपद्मसरोवरनिर्माणप्रकारः
गोकर्णमात्रविस्तारं चकार रुचिरं सरः
स्मृत्वा वायुं समाहूय तमुवाच महामनाः ॥ २८
’इन्द्रस्यानुमते वायो! रुक्मपद्मानि चाहर
स्थापयिष्यामि सरसि लक्ष्मीपूजाविधौ मरुत्!’ ॥२९

[[322323]]
तच्छृत्वा वायुराहैनं ’अस्यां नद्यां हि सन्ति वै
काञ्चनानि च पद्मानि किमर्थं सुरलोकतः’ ॥३०
श्रीभगवान्-
’कॊलाछपूरे महावाणी ह्यशरीराऽब्रवीत्पुरा
देवलोकात्समानीय काञ्चनाब्जानि चार्चय ॥३१
इति मामब्रवीद्वायो! तस्मादानय मेऽम्बुजम्’
गत्वा लोकं ततो वायुरिन्द्रलोकादुदारधीः ॥३२
देवेन्द्रानुमतेः शीफ्रुमानयामास तानि वै
काञ्चनाब्जानि निक्षिप्य तस्मिन् सरसि माधवः ॥३३
पद्मविकासनैरन्तर्यार्थं भगवत्कृतसूर्यनारायणप्रतिष्ठा
विष्णुः सूर्यं प्रतिष्ठाप्य प्राङ्मुखं सरसस्तटे
अर्चयन् पङ्कजाधीशं कमलाऽऽवाप्तये विभुः ॥ ३४
शक्तिपूर्वं श्रियो बीजं कामबीजमतः परम्
आद्यन्तप्रणवोपेतमक्षरत्रयसम्पुटम् ॥३५
लक्ष्मीमन्त्रोपासनपूर्वकभगवत्कृततपोविधिः
त्रिसहस्रं जपन्नित्यं दशांशं तर्पयन् विभुः
अर्चयन् पद्मसाहस्त्रेः दिव्यैः काञ्चनसम्भवैः ॥३६
तर्पयन् पद्मसरसो रसेनोषसि माधवः
क्षीराहारो यताहारो लक्ष्म्याराधनतत्परः ॥३७
तद्भानुसन्निधौ तीरे पश्चिमाभिमुखो विभुः
दीक्षां विवेश देवेशो द्वादशाब्दमनन्यधीः ॥३८
नृपशज्कया भगवत्तपोभङ्गायेन्द्रादिकृतरम्भादिप्रेषणम्
एवं स्थिते महाविष्णौ श्रीकाङ्क्षिणि समाहिते
इन्द्रादिदेवाः सङ्क्षुब्धा मायामोहसमन्विताः ॥३९
भूपतेः पार्थिवेन्द्रस्य विष्णोर्मानुषरूपिणः
विघ्नञ्च तपसः कर्तुं उद्यमं चक्रुरुद्धताः ॥४०
आहूयाप्सरसः सर्वाः प्रोचुः सेन्द्रा दिवौकसः
यूयं गच्छत भूलोकं अञ्जनाद्रेः समीपतः ॥४१
सुवर्णमुखरी नाम नदी मुनिनिषेविता
तस्या एवोत्तरे तीरे कुम्भयोनेर्महाऽऽश्रमः ॥४२
तदाश्रमात्पूर्वभागे कश्चिद्राजा तपस्यति
कनकाब्जसरस्तीरे पुरस्ताद्भास्करस्य च ॥४३
त्रैलोक्यलक्ष्मीमाकाङ्क्षन् मायावी स चतुर्भुजः
क्षोभयध्वं नृत्यगीतैः अन्यैः शृङ्गारचेष्टितैः ॥४४
राजवेषभृद्भगवत्तपोवनं प्रति इन्द्रप्रेषित रम्भाद्यागमनम्
इति देवैः समादिष्टाः सर्वा ह्यप्सरसां वराः
वसन्तकामसहिता जग्मुः पद्मसरोवरम् ॥४५
अवतीर्णो वसन्तस्तु जजृम्भे तद्वने भृशम्
चूतकिंशुकमन्दारकर्णिकारानतोज्ज्वलैः ॥४६
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुस्त्रिंशोऽध्यायः

[[324325]]
कोकिलैर्भृङ्गराजैश्च शोभितैर्विविधैः खगैः
रम्ये वने तपस्यन्तं पुरुषं सुभगाकृतिम् ॥४७
दृष्ट्वा चतुर्भुजं चित्रं मोहिताश्चाप्सरोगणाः
जगुः कलञ्च ननृतुः तदग्रे ता वराङ्गनाः ॥४८
कलाछरशीतलो वायुः चालयन् पुष्पवाटिकाम्
ववौ मलयसम्भूतो मदयन् वनवासिनः ॥४९
स्वाश्रमागताप्सरोवञ्चनार्थं भगवत्कृतमायानिर्माणम्
एतस्मिन्नन्तरे विष्णुः किञ्चिदुन्मील्य चक्षुषी
मायामन्यां विससृजे तासां सम्मोहनाय वै ॥५०
तां विष्णुमायां वीक्ष्यैव विवशा विनताननाः
स तु पद्मानि सञ्चिन्वन् चचार सरसीजले ॥५१
यथापूर्वं पूजयंश्च निर्विकारो निरञ्जनः
तं दृष्ट्वा निर्विकारं ता विकर्तुं पुरुषोत्तमम् ॥५२
अशक्ता जग्मुराकाशं विष्णुमायाविमोहिताः
तां मायां भगवानाह ’लोकपूज्या भविष्यसि ॥५३
इक्षुचापासिचक्राब्जपुष्पबाणधरा सती
चतुर्वर्गप्रदा पुंसां पर्णक्षीरादिपूजिता’ ॥५४
इत्यादिश्य च तां देवीं अर्चयामास पद्मिनीम्
एवं तपस्यतस्तस्य द्वादशाब्दा गता द्विज ॥५५
पद्मसरोवरात् लक्ष्मीप्रादुर्भावः
ततस्त्रयोदशे वर्षे कार्तिके शुक्लपक्षके
पञ्चम्यां शुक्रवारे च मुहूर्ते मन्त्रसञ्ज्ञके ॥५६
ववुः पुण्याः सुखा वाता उत्तराषाढतारके
प्रसन्नं सलिलं सर्वं त्रैलोक्यान्तर्गतं द्विज ॥५७
सुप्रभो भानुमानासीत् प्रसन्नानि मनांसि च
ततः पद्मसरोमध्ये तेजोराशिर्महानभूत् ॥५८
बालभानुसहस्राभः सुवर्णसदृशच्छविः
तन्मध्ये काञ्चनैः पद्मैः निर्मितो रथ उत्तमः ॥५९
पद्मिभिर्घृतपार्श्वश्च चतुर्भिर्मदगन्धिभिः
तन्मध्ये काञ्चने पद्मे सहस्रदलशोभिते ॥६०
तत्पद्मकर्णिकामध्ये पद्माऽसनसमन्विता
पद्महस्ता पद्मनेत्री रक्तपद्मपदद्वया ॥६१
सुवर्णपद्ममुकुलद्वयशोभिकुचानता
स्मेरपद्मरजोगन्धिसमुच्छ्वासमुखाम्बुजा ॥६२
बिम्बाधरसुसंवृद्धस्मितशोभिसुधारसा
सम्पल्लक्ष्मीसमावासविशालनयनद्वया ॥६३
सर्वरत्नसमुतक्षिप्तजाम्बूनदविभूषणा
कर्णिकोत्पलताटङ्कमौक्तिकालकबन्धना ॥६४
आमुक्तमुक्तामकुटकटकाङ्गदकङ्कणा
विद्युत्पुञ्जप्रतीकाशविचित्राम्बरचित्रिता ॥६५

[[326327]]
मन्दस्मिता मनोज्ञाङ्गी माधवं वीक्ष्य सादरम्
कलाछरमालामादाय यक्षकर्दमलेपनाम् ॥६६
सुगन्धितुलसीदूर्वामधूककमलोत्पलाम्
स्थिता पद्मरते देवी देवं वीक्ष्य चतुर्भुजम् ॥६७
ततो देवगणाः सर्वेऽवादयन् देवदुन्दुभीः
शङ्खानापूरयामासुः वीणाश्च मुमुचुः स्वरान् ॥६८
षड्जादीन् समतालेन गन्धर्वा ललितं जगुः
ननृतुर्दिव्याप्सरसः सुस्वरं गीतलालसाः ॥६९
तूर्यघोषेण महता कृत्स्नमापूरितं जगत्
तेन घोषेण विज्ञाय श्रियः प्रत्यक्षतां विधिः ॥७०
लक्ष्म्यवतारदर्शनार्थं पद्मसरस्तीरं प्रति ब्रह्माद्यागमनम्
हंसारूढः सह मुनिः ब्रह्मा तत्र समाययौ
कैलासात् शङ्करश्चापि गौरीगणसमन्वितः ॥७१
इन्द्रः शच्या लोकपालैः श्रुत्वा शङ्खध्वनिं ययौ
वसिष्ठाद्याश्च मुनयः सनकाद्याश्च योगिनः ॥७२
काञ्चनाब्जसरस्तीरं पद्मनाभाश्रमं ययुः
सर्वलोकेश्वरीं तत्र श्रियं पद्मरथस्थिताम् ॥७३
दृष्ट्वा विद्याधराः सर्वे पुष्पवृष्टिमुचो दिवि
विस्मिताः सस्मिताः सर्वे देवास्तस्थुश्च सस्पृहाः ॥७४
दैतेया दानवाश्चापि नागाः पातालवासिनः
साभिलाषा रमां वीक्ष्य स्थिता मदनमोहिताः ॥७५
मामाश्रयेन्मामाश्रयेत् प्रत्येकं मेनिरे हृदि
इति तेषु स्मरत्स्वेव देवदानवभोगिषु ॥७६
लक्ष्मीकृतमालार्पणपूर्वकभगवद्वरणम्
उत्थाय सस्मिता लक्ष्मीः आगत्य हरिमञ्जसा
कलाछरमालामुन्मुच्य विष्णोः कण्ठे समर्प्य च ॥७७
आलिङ्ग्य तं चतुर्बाहुं सर्वलोकान् व्यलोकयत्
हरिवक्षःप्रतिष्ठायाः श्रियो दृष्ट्यञ्चलेक्षिताः ॥७८
स्वस्वाधिकारान् सव्प्रूपुः देवदानवयोगिनः
श्रिया समेतो भगवान् कृतार्थः कमलापतिः ॥७९
भगवतः पद्मसरोवरवरदानपूर्वकं शेषाचलगमनम्
पाद्मं सरः समीक्ष्याथ वरं तस्मै ददौ हरिः
’हे सरस्तव! तीरेऽस्मिन् पद्मकान्तस्य भास्वतः ॥८०
तपः कुर्वन्नहं पद्मामाप्तवानस्मि शाश्वतीम्
तस्मात्त्वमद्यप्रभृति ’पद्मवापी’ ति नामतः ॥८१
’पाद्मं’ ’पद्मसर’ श्चेति पद्माप्रीतिकरं भुवि
त्रिलोकीप्रथितं भूया हृद्देशकमलालय’ ॥८२
इत्युक्त्वा गरुडेशानमधिरुह्य रमासखः
भोगिराजगिरिं गत्वा स्वामिपुष्करिणीतटे ॥८३
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुस्त्रिंशोऽध्यायः
[[328329]]
नारदाद्यष्टमहर्षिप्रशंसितपद्मसरोवरमाहात्म्यम्
रमते रमया कान्ते रमणीये श्रियः पतिः
तं दृष्ट्वा मुनयः सर्वे प्रशशंसुः सरोवरम् ॥८४
नारदः-
यः पद्मसरसि स्नातः सप्तजन्माघनाशने
श्रियमाप्नोति विमलां श्रियःपतिरिवामलः ॥८५
वसिष्ठः-
रुक्माब्जसरसि स्नातो रुक्मनद्यास्तटोद्भवे
कोटिजन्मकृतैः पापैः मुच्यते श्रियमाप्नुयात् ॥८६
मारीचिः-
सुवर्णमुखरीकूले स्नातः पद्मसरोवरे
महापातकयुक्तो यः स मुच्येतांहसः क्षणात् ॥८७
अत्रिः-
अत्र पद्मसरःस्नातो यो रुक्मतटिनीतटे
स सर्वपापनिर्मुक्तः श्रियमाप्नोत्यसंशयम् ॥८८
अङ्गिराः-
भष्ट्रराज्यस्तु यो राजा स्नात्यस्मिन् मण्डलं यमी
पद्माकराख्ये सरसि स राज्यं प्राप्नुमाच्छ्रियम् ॥८९
पुलस्त्यः-
विप्रो यः पद्मसरसि व्रात्यो मन्त्रविवर्जितः
सोऽपि पूतस्त्रिषवणात् दिनेनैकेन शुद्ध्यति ॥९०
पुलहः-
वैश्यो यो वञ्चनाजीवी व्यवहारविशारदः
स पद्मसरसि स्नात्वा राजा भवति धार्मिकः ॥९१
क्रतुः-
शूद्रस्त्वाचारविभ्रष्टो देवब्राह्मणदूषकः
स पद्मसरसि स्नात्वा पूतो वैश्यो भविष्यति ॥९२
देवदर्शनः-
इति प्रस्तूय मुनयो ययुस्ते स्वाश्रमान्मुने!
उत्पत्तिः पद्मसरसस्तवोक्ता देवलामला ॥९३
शुकचारित्रवर्णनम्
इतः परं शुकोत्पत्तिं वदामि शृणु देवल!
पुरा शुको ब्रह्मचारी साक्षाद्वैयासकिर्महान् ॥९४
लब्ध्वा ब्रह्मोपदेशन्तु रुद्रात् ज्ञानी बभूव ह
तपःसिद्धो जगामैव पश्यन् ब्रह्मात्मकं जगत् ॥९५
एवं जगौ च सततं ज्ञानोन्मत्तः स बालवत्
ऊनषोडशवर्षोऽसौ साक्षात्कृष्ण इवोज्ज्वलः ॥९६
माता च कमला देवी पिता देवो जनार्दनः
बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥९७
इत्युक्त्वा व्यासमुन्मुच्य भानुं प्रति जगाम ह
गच्छन्तं सुखमालोक्य तीव्रांशोश्च समीपतः ॥९८
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुस्त्रिंशोऽध्यायः

[[330331]]
व्यासः पुत्रेति चुक्रोश पुत्रेति च पुनः पुनः
आलोक्याथ शुकं भानुः उवाच प्रणयात् वटुम् ॥९९
हे वटो! गच्छ भूलोकमपुत्रस्त्वमवाक्छिराः
मुक्तः पितृऋणात्पुत्रं उत्पाद्याऽगच्छ शीफ्रुतः ॥ १००
अपुत्रस्य गतिर्नास्ति तपः कृत्वाऽपि भूतले
यज्ञं कृत्वाऽपि लोकार्थी स्वर्गं नैवाप्नुयात्पुमान्॥ १०१
छायाशुकोत्पत्तिः
इति भानुवचः श्रुत्वा शुको ध्यात्वा जनार्दनम्
आत्मच्छायामधःशीर्षामसृज्त्त्वात्मपूरुषम् ॥१०२
छायाशुकञ्च तं कृत्वा स्वात्मपुत्रमिवाऽत्मवान्
’पितुर्मे शोकनाशं त्वं कुरु पुत्रत्वमागतः’ ॥१०३
इत्युक्त्वा भानुमालोक्य विवृतं तत्पथं गतः
छायाशुकः समागत्य व्यासं क्रोशन्तमात्मजम् ॥१०४
नमस्कृत्य पितुः पादौ श्रुत्वा भागवतं सुधीः
कृत्वा वैवाहिकं कर्म पुत्रानुत्पाद्य पुण्यधीः ॥१०५
पुराणं श्रीभागवतं प्रतिष्ठाप्यावनौ सुधीः
कृष्णप्रसादात्स शुक ऋषित्वञ्च प्रपद्य च ॥१०६
सशरीरो ब्रह्मलोकं गत्वा प्रीतो वसन् सुधीः
श्री वेङ्कटाद्रिमाहात्म्यं श्रुत्वा पद्मसरोवरम् ॥१०७
प्राप्य कृत्वा तपस्तीव्रं सरोऽम्बुजदलैः सृजन्
ससभ्यान्मानसान् पुत्रानष्टोत्तरशतं द्विजान् ॥१०८
तानध्याप्य ब्रह्मविद्यां तैः सहाद्रिं गतो मुनिः
मासि भाद्रपदे पुण्ये ब्रह्मणा निर्मितोत्सवे ॥१०९
वर्तमाने श्रीनिवाससेवार्थं व्यासपुत्रकः
उत्सवे वाहनान् कृत्वा शतमष्टोत्तरान् द्विजान् ॥११०
उत्सवान्ते चावभृथे श्रवणर्क्षे प्रसन्नधीः
स्नात्वा च स्वामिसरसि तैर्द्विजैः कमलोद्भवैः ॥१११
सभायां वेङ्कटेशस्य वाहकार्थं व्यजिज्ञपत्
स्वनाम्ना यत्पुरं देव! मया क्लुप्तं सुरेश्वर ॥११२
तत्क्षेत्रसम्भवं सस्यं जीवितं श्रीपते! कुरु
सेवां कुर्वन्त्वाप्रलयं वाहका उत्सवेषु ते ॥११३
श्रुत्वा मुनिवचो देवः श्रीनिवासस्तथाऽस्त्विति
छायाशुकस्यात्मजानां सभ्यानां जीवमब्रवीत् ॥११४
ब्रह्मलोकं जिगमिषुः पुनश्छायाशुको मुनिः
कृष्णञ्च बलभद्रञ्च भानुं पद्मसरोवरम् ॥११५
प्रदक्षिणीकृत्य शुकः स्थीयतामिति चात्मजान्
भरद्वाजादिषड्गोत्रान् शतमष्टोत्तरं सुधीः
सभ्यान् सभासदः पाद्मान् उक्त्वाऽऽकाशं जगामह॥११६
देवदर्शनः-
उक्तं पद्मसरोजन्म छायाशुकमुनेरपि
सभाराछणां द्विजातीनां शुकमानसजन्मनाम् ॥११७
श्रीपाद्मपुराणे क्षेत्रकाण्डे चतुस्त्रिंशोऽध्यायः

[[332]]
देवलः-
देवदर्शन! सर्वज्ञ! कृतार्थोऽस्मि नतोऽस्मि ते
नास्ति श्रोतव्यमेतस्मात् संशयो विगतो मम ॥११८
हरिः ओम् ॥ तत्सत् ॥
इति श्रीपाद्मपुराणे क्षेत्रकाण्डे श्रीवेङ्कटाचलमाहात्म्ये देवल
देवदर्शन संवादे पद्मसरोवरमाहात्म्यादिवर्णनं नाम
चतुस्त्रिंशोऽध्यायः
इति श्रीपाद्मपुराणान्तर्गत वेङ्कटाचलमाहात्म्यम्
॥सम्पूर्णम्॥