प्रथमोऽध्यायः
श्रीवाराहपुराणे द्वितीयभागे प्रथमोऽध्यायः
[[162163]]
तानि सर्वाणि नश्यन्ति देवतीर्थेऽतिपावने
पुण्यान्यपि च वर्धन्ते देवतीर्थनिमज्जनात् ॥७५
दीर्घमायुरवाप्नोति पुत्रपौत्रसमन्वितः
आस्ते स्वर्गं समासाद्य च्न्द्रलोके महीयते ॥७६
तद्दिनेष्वन्नदो देवि यावज्जीवान्नदो भवेत्
अतिगुह्यतमं देवि प्रोक्तं तुभ्यं वसुन्धरे ॥७७
श्रुत्वाऽथ पृथिवी देवी प्रीतिप्रवणमानसा
इष्टाभिर्वाग्भिरतुलं तुष्टाव धरणीधरम् ॥७८
धरणीकृतवराहस्तुतिः
धरणी-
नमस्ते देवदेवेश वराहवदनाच्युत
क्षीरसागरसङ्काश वज्रशृङ्ग महाभुज ॥७९
उद्धृताऽस्मि त्वया देव कल्पादौ सागराम्भसः
सहस्रबाहुना विष्णोः धारयामि जगन्त्यहम् ॥८०
अनेकदिव्याभरणः यज्ञसूत्रविराजितः
अरुणारुणाम्बरधर दिव्यरत्नविभूषितः ॥८१
उद्यद्भानुव्रतीकाशपादपद्म नमो नमः
बालचन्द्राभदंष्ट्राग्र महाबलपराक्रम ॥८२
दिव्यचन्दनलिप्ताङ्ग तप्तकाञ्चनकुण्डल
इन्द्रनीलमणिद्योतिहेमाङ्गदविभूषित ॥८३
वज्रदंष्ट्राग्रनिर्भिन्नहिरण्याक्ष महाबल
पुण्डरीकाभिताव्रूक्ष सामस्वनमनोहर ॥८४
श्रुतिसीमन्तभूपात्मन् सर्वात्मन् चारुविक्रम
चतुराननशम्भुभ्यां वन्दिताऽयतलोचन ॥८५
सर्वविद्यामयाकार शब्दातीत नमो नमः
आनन्दविग्रहानन्त कालकाल नमो नमः ॥८६
इति स्तुत्वा चला देवी ववन्दे पादयोर्विभुम् ॥८७
वराहस्य भगवतो धरण्या साकं शेषाचलागमनम्
वन्दमानां समुद्वीक्ष्य प्रीत्युत्फुल्लविलोचनः
उद्धृत्य धरणीं देवीं आलिलिङ्गेऽथ बाहुभिः ॥८८
आफ्रूय धरणीवक्त्रं वामाङ्के सन्निवेश्य च
आरुह्य गरुडेशानं जगाम वृषभाचलम् ॥८९
मुनीन्द्रैर्नारदाद्यैश्च स्तूयमानो महीपतिः
स्वामिपुष्करिणीतीरे पश्चिमे लोकपूजिते ॥९०
तदाद्यैस्तैः श्रीवराहो मुनीन्द्रैस्तत्र पूजितः
वैखानसैर्महाभागैः ब्रह्मतुल्यैर्महात्मभिः ॥९१
अध्यायफलश्रुतिः
व्यासः -
तद्दृष्ट्वा नारदः सूतः मुनीनामुक्तवान् पुरा
तदेतदहमश्रौषं तत्र वै मुनिसंसदि ॥९२
श्रीवाराहपुराणे द्वितीयभागे प्रथमोऽध्यायः
[[164165]]
यत्पृष्टोऽहं त्वया सूत माहात्म्यं धरणीभृताम्
मया तूक्तं यथावद्धि नारदाच्च पुरा श्रुतम् ॥९३
य इदं धर्मसंवादं आवयोः सूत पावनम्
पठेद्वा देवपुरतो ब्राह्मणानां पुरस्तथा ॥९४
सर्वेषामपि वर्णानां शृण्वतां भक्तिपूर्वकम्
स प्रतिष्ठामवाप्नोति पुत्रपौत्रसमन्वितः
शृण्वतामपि सर्वेषां यदिष्टं तद्भविष्यति ॥९५
श्री सूतः -
इति मे भगवान् व्यासः प्रोवाच मुनिसेवितः
यथा श्रुतं मया पूर्वं कृष्णद्वैपायनाद्गुरोः ॥९६
तत्तथा सर्वमेवात्र मया ऽप्युक्तं मुनीश्वराः
श्रुत्वा सूतवचस्त्वित्थं ते प्रीतमनसोऽभवन् ॥९७
ऋषयः -
सूतस्त्वयोक्तं भुवि पर्वतेषु
पुण्येषु पुण्यस्य महीधरस्य
माहात्म्यमस्माकमहीन्द्रनाम्नः
पापापहं मोक्षफलप्रदायकम् ॥९८
ततो वृषाद्रिं सम्प्राप्य पराहो धरणीयुतः
किमुक्तवान् धरण्यै स तन्नो ब्रूहि महामते ॥९९
इति श्रीवाराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उत्तरभागे नारदस्य
सुमेरुशिखरस्थयज्ञवराहदर्शनप्राप्त्यादिवर्णनं नाम
प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः
श्रीवराहमन्त्राराधनविधिः
श्री सूतः-
शृणुध्वं मुनयः सर्वे कथां पुण्यां पुरातनीम्
वैवस्वतेऽन्तरे पूर्वं कृते पुण्यतमे युगे ॥१
नारायणाद्रौ देवेशं निवसन्तं क्षमापतिम्
वराहरूपिणं देवं धरणी सखिभिर्वृता
प्रणम्य परिपप्रच्छ रक्तपद्माऽयतेक्षणम् ॥२
धरणी -
आराध्यः केन मन्त्रेण भवान् प्रीतो भविष्यति
तं मे वद त्वं देवेश यः प्रियो भवतः सदा ॥३
जपतां सर्वसम्पत्तिकारकं पुत्रपौत्रदम्
सार्वभौमत्वदश्चैव कामिनां कामदं सदा ॥४
अन्ते यस्त्वत्पदप्राप्तिं ददाति नियतात्मनाम्
एवं भूतं वद प्रीत्या मयि वाराहमानदः ॥५
श्रीसूतः -
इति पृष्टस्तया भूम्या प्राह प्रीतिस्मिताननः ॥६
श्रीवराहः -
शृणु देवि परं गुह्यं सद्यः सम्पत्तिकारकम्
भूमिदं पुत्रदं गोप्यं अप्रकाश्यं कदाचन ॥७
[[166167]]
किञ्च शुश्रूषवे वाच्यं भक्ताय नियताऽत्मने
ॐ नमः श्रीवराहाय धरण्युद्धरणाय च ॥८
वह्नीजायासमायुक्तः सदा जाप्यो मुमुक्षुभिः
आयं मन्त्रो धरादेवि सर्वसिद्धप्रदायकः ॥९
ऋषिः सङ्कर्षणः प्रोक्तो देवता त्वहमेव हि
छन्दः पङ्तिः समाख्याता श्री बीजं समुदाहृतम् ॥१०
चतुर्लक्षं जपेन्मन्त्रं सद्गुरोर्लब्धतन्मनुः
जुहुयात्पायसान्नं वै क्षौद्रसर्पिःसमन्वितम् ॥११
अथ ध्यानं प्रवक्ष्यामि मनःशुद्धिप्रदायकम्
शुद्धस्फटिकशैलाभं रक्तपद्मदलेक्षणम् ॥१२
वराहवदनं सौम्यं चतुर्भाहुं किरीटिनम्
श्रीवत्सवक्षसं चक्रशङ्खाभयकराम्बुजम् ॥१३
वामोरुस्थितया युक्तं त्वया मां सागराम्बरे
रक्तपीताम्बरधरं रक्ताऽभरणभूषितम् ॥१४
श्रीकूर्मपृष्ठमध्यस्थशेषमूर्त्यब्जसंस्थितम्
एवं ध्यात्वा जपेन्मन्त्रं सदा चाष्टोत्तरं शतम् ॥१५
सर्वान् कामानवाप्नोति मोक्षञ्चान्ते व्रजेद्ध्रुवम्
प्रोक्तं मया ते धरणि यत्पृष्टोऽहं त्वयाऽमले
अतः किं ते व्यवसितं ब्रूहि तत् विमलानने ॥१६
श्रीवराहमन्त्रेण धर्मादीनां स्वाभीष्टसिद्धिवर्णनम्
श्री सूतः-
एतच्छुृत्वा ततो भूमिः पप्रच्छ पुनरेव तम्
केनैवानुष्ठितं देव पुरा प्राप्तं फलञ्च किम् ॥१७
इति पृष्टः पुनर्देवः श्रीवराहो ऽब्रवीदिदम्
पुरा कृतयुगे देवि धर्मो नाम मनुर्महान् ॥१८
ब्रह्मणोऽमुं मनुं लब्ध्वा जप्त्वाऽस्मिन् धरणीधरे
मां च दृष्ट्वा वरं लब्ध्वा प्राप्तो ऽभूत् मामकं पदम्॥१९
इन्द्रो दुर्वाससः शापात् पुरा भ्रष्टस्त्रिविष्टपात्
अनेनेष्ट्वाऽत्र मां देवि पुनः प्राप्तस्त्रिविष्टपम् ॥२०
अन्येऽपि मुनयो भूमे जप्त्वा प्राप्ताः परां गतिम्
अनन्तः पन्नगाधीशो ह्यमुं लब्ध्वाऽथ कश्यपात् ॥२१
श्वेतद्वीपे जपित्वैव बभूव धरणीधर
तस्माज्जप्यः सदा चेह मनुष्यैश्च धरार्थिभिः ॥२२
श्री सूतः-
एतच्छुृत्वाऽथ सुप्रीता पुनः प्राह धराधरम् ॥२३
धरणी -
वेङ्कटाख्ये महाशैले श्रीनिवासो जगत्पतिः
कदा ह्यायाति देवेशः श्रीभूमिसहितोऽमलः ॥२४
[[168169]]
कथं कल्पान्तरस्थायी भविष्यति जनार्दनः ?
एतद् ब्रूहि वराहात्मन् महत् कौतूहलं मम ॥२५
इति श्रीवाराहपुरणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उत्तरार्धे श्रीवराहमन्त्राराधन विध्यादिवर्णनं
नाम द्वितीयोऽध्यायः
तृतीयोऽध्यायः
अथ तृतीयोऽध्यायः
अगस्त्यप्रार्थनया भगवतः सर्वजनदृग्गोचरत्ववर्णनम्
श्रीवराहः -
हन्त ते कथयिष्यामि पुरा वृत्तं वरानने
शृणु पुण्यं महादेवि सभविष्यं सहोत्तरम् ॥१
वैवस्वतेऽन्तरे देवि पूर्वे कृतयुगान्तरे
वायोस्तपो महद्दृष्ट्वा श्रीभूमिसहितोऽनघे ॥२
आगच्छत् श्रीनिवासश्च स्वामिपुष्करिणीतटे
दक्षिणे ऽस्मिन् पुण्यतमे विमाने नन्दसञ्ज्ञके ॥३
वसिष्यति च श्रीकान्तो वायोः प्रियकरो हरिः
तदारभ्य हृषीकेशः सेनान्याऽऽराधितोऽनिशम्
आकल्पान्तमदृश्येऽस्मिन् विमानेऽसौ वसिष्यति ॥४
धरणी -
अदृश्यो भगवान् मर्त्यैः कथं दृश्यो भविष्यति ?
श्रीनिवासोऽपि देवेशो भवद्दक्षिणपार्श्वगः
एतद्वद सुराधीशः जनैराराध्यते कथम् ? ॥५
श्रीवराहः-
अगस्त्योऽस्मिन् समासाद्य पुरा देवं सनातनम्
आराध्य द्वादशाब्दं तं प्रीणयित्वा पुनः पुनः ॥६
ययाचे तत्र सान्निध्यं भवान् दृश्यो भवत्विति
एवमुक्तो हृषीकेशः श्रीभूमिसहितो धरे ॥७
अहं दृश्यो भविष्यामि त्वत्कृते सर्वदेहिनाम्
एतद्विमानं देवर्षेः न दृश्यं स्यात् कदाचन ॥८
आकल्पान्तं मुनीन्द्रास्मिन् दृश्योऽहं नात्र संशयः
मुनिस्तद्वचनं श्रुत्वा प्रीतः पायात् स्वमाश्रमम् ॥९
ततश्चतुर्भुजो देवः स दृश्योऽभून्नरादिभिः
विमाने मुनिचिन्त्येऽस्मिन् आसिता च तथोत्तरम् ॥१०
आराध्यमानः स्कन्देन वायुना सेवितः सदा
एवं गते महाकाले चतुर्युगसमन्विते ॥११
मित्रवर्मणः आकाशराज्सुतोत्पत्तिवर्णनम्
अष्टाविंशे तु सञ्जाते द्वापरान्ते वसुन्धरे
युद्धे च भारतेऽतीते तिष्ये सति युगे तथा ॥१२
श्रीवाराहपुराणे द्वितीयभागे तृतीयोऽध्यायः
[[170171]]
विक्रमार्कादयो भूपाः शकाः शूद्रादयस्तथा
गमिष्यन्ति स्वर्गलोकं मामज्ञात्वा वरानने ॥१३
ततः सोमकुलोद्भूतो मित्रवर्मा महारथः
तुण्डीरमण्डले राजा नारायणपुरे वसन् ॥१४
भविष्यति वरारोहे महाभाग्योदयो महान्
तस्मिन् शासति भूलोकं धर्मेण पृथिवीपते ॥१५
अकृष्टपच्या वृथिवी सर्वसस्यविभूषणा
निरीतिकोऽभवत् सर्वो जनो धर्मसमन्वितः१६
तस्य पत्नी समभवत् पाण्ड्यकन्या मनोरमा
तस्य जज्ञे कुलोत्तंसो वियन्नामा सुतोऽस्य वै ॥१७
तस्य पत्नी तु धरणी नाम्नाऽऽसीच्छकवंशजा
तस्मिन् राज्यं विनिक्षिप्य मित्रवर्मा नृपोत्तमः
ययौ तपोवनं पुण्यं वेङ्कटाद्रेः समीपतः ॥१८
धरणीतलात् पद्मावत्युत्पत्तिक्रमः
आकाशनामा तु महान् राजाऽभूत् सार्वभौमकः
एकदारव्रतो राजा धरणीसक्तचेतनः ॥१९
यज्ञार्थं शोधयामास भुवमारणितीरतः
काञ्चनेन हलेनैव कृष्यमाणे धरातले ॥२०
बीजमुष्टिं विकिरता दृष्टा कन्या धरोद्गता
पद्मशय्यागता रम्या सर्वलक्षणलक्षिता ॥२१
तप्तजाम्बूनदमयी पुत्रिकेव विराजती
तां दृष्ट्वा स महीपालो विस्मयोत्फुल्ललोचनः ॥२२
आदाय तनया चेयं ममैवेति पुनः पुनः
जहर्ष मन्त्रिभिश्चैनं प्राह वागशरीरिणी ॥२३
सत्यं तवैव तनया वर्धयस्व सुलोचनाम्
ततः प्रीतमना राजा स्वपुरं प्रविवेश ह ॥२४
आहूय धरणीं देवीं इदमाह महीपतिः
देवदत्तामिमां पश्य भूतलादुत्थितां मम ॥२५
आवाभ्यां तदपुत्राभ्यां पुत्रीयं भविता ध्रुवम्
इत्युक्त्वा प्रददौ देव्याऽहस्ते प्रीत्या वियन्नृपः ॥२६
आकाशराजस्य धरण्याख्यपत्न्यां वसुदानाख्यसुतोत्पत्तिः
तस्यां गृहं प्रविष्टायां धरणी गर्भमादधौ
वियन्नृपश्च सुप्रीतो वीक्ष्य स्निग्धविलोचनाम्
उवाच फलिता सुभ्रु लता सान्तानिकी च मे ॥२७
अथ सा धरणीदेवी अकाले कमललोचना
सुप्रशस्ते मुहूर्ते च स्वोच्चसंस्थेषु पञ्चसु ॥२८
ग्रहेषु सुषुवे पुत्रं मेषस्थे च दिवाकरे
देवदुन्दुभयो नेदुः पुष्पवृष्टिर्गृहेऽपतत् ॥२९
ववौ वायुः सुखस्पर्शः तज्जन्मदिवसे तदा
पुत्रसूतिप्रवक्तॄणां सुप्रीतः पुत्रजन्मनि ॥३०
श्रीवाराहपुराणे द्वितीयभागे तृतीयोऽध्यायः
[[172173]]
सर्वस्वदानमकरोत् छत्रचामरवर्जितम्
कपिलाकोटिदानञ्च वृषभाणां शताधिकम् ॥३१
दिवसे द्वादशे पुण्ये जातकर्मादिकाः क्रियाः
चकार नामधेयञ्च वसुदान इति स्वयम् ॥३२
आकाशतनयो देवि वसुदानो मनोरमः
ववृधे दिवसैर्बालः शुक्लपक्ष इवोडुराट् ॥३३
उपनीतो विनीतोऽसौ गुरुभिर्ब्रह्मपारगैः
पितुरस्त्राणि शस्त्राणि मन्त्रवत् सोऽप्यशिक्षत ॥३४
चतुष्पादं धनुर्वेदं साङ्गोपाङ्गमधीतवान्
पिता तेनातिबलिना दुराधर्षः परैरभूत् ॥३५
आकाश इव निष्पङ्को ग्रीष्मे भानुमता युतः
वैशाख इव मध्याह्ने दुःसहो दुर्निरीक्षकः ॥३६
इति श्रीवाराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उत्तरार्धे अगस्त्यप्रार्थनया भगवतः
सर्वजनदृग्गोचरत्वादिवर्णनं नाम तृतीयोऽध्यायः
चतुर्थोऽध्यायः
अथ चतुर्थोऽध्यायः
उद्यानवासिन्याः पद्मावत्याः समीपे नारदागमनम्
उक्तं भगवता तस्य वियत्पुत्रस्य नाम च
अयोनिजायास्तत्पुत्र्याः किं नाम च तदाऽकरोत् ॥१
श्री सूतः -
इति पृष्टः पुनः प्राह श्रीवराहो जगत्पतिः
श्री वराहः -
आकाशराजो मतिमांस्तां दृष्ट्वा कमलेशयाम् ॥२
पद्मिनीति च नाम्ना वै चकार वसुधासुताम्
तां तु यौवनसम्पन्नां सखीभिः परिवारिताम् ॥३
आरामे विहरन्तीञ्च शुककोकिलनादिते
यदृच्छयाऽऽगतस्तत्र नारदो मुनिसत्तमः
वनलक्ष्मीमिवालोक्य विस्मयादिदमब्रवीत् ॥४
नारदः-
काऽसि कस्य सुता भीरुः हस्तं दर्शय मे तव
इत्युक्ता सा सुचार्वङ्गी स्वात्मानं मुनयेऽब्रवीत् ॥५
वियद्राजसुता ब्रह्मन् लक्षणानि वदस्व मे
इत्युक्तः स तदा प्राह नारदो मुनिसत्तमः ॥६
[[174175]]
नारदोदीरितपद्मावतीशरीरलक्षणानि
नारदः-
शृणु त्वं चारुवदने लक्षणानि वदामि ते
पादौ प्रतिष्ठितौ सुभ्रु रक्तपद्मदलान्वितौ ॥७
पादाङ्गुल्यः समा रक्ता रक्ततुङ्गनखान्विताः
गुल्फौ गूढौ समावेतौ जङ्घे चारोमशे शुभे ॥८
जानुनी समसुस्निग्धे समावूरू क्रमादुरू
नितम्बौ पृथुलौ पीनौ जघनं चिन्त्यमेव हि ॥९
नाभिर्मण्डलवान् निम्नः पार्श्वौ ते मेचकावुभौ
त्रिवलीललितं मध्यं रोमराजिविराजितम् ॥१०
स्तनौ पीनौ घनौ स्निग्धावुन्नतौ मग्नचूचुकौ
करौ ते रक्तपद्माभौ पद्मरेखासमन्वितौ ॥११
सुसूक्ष्मौ रक्तसत्पर्वनिरन्तरसमाङ्गुली
शुकतुण्डसमाकारनखपङ्त्किविराजितौ ॥१२
दीर्घौ च कोमलौ भद्रे भुजौ ते पुष्पदण्डवत्
पृष्ठं ते वेदिवद्भाति विलग्नमृजुमध्यमम् ॥१३
कण्ठस्तु रक्तो दीर्घश्च स्कन्धौ चावनतौ शुभे
मुखं प्रसन्नं सततमकलङ्क शशिप्रभम् ॥१४
कपोलौ कनकादर्शसदृशौ कुण्डलोज्ज्वलौ
तिलपुष्पसमाकारा नासिका ते शुभानने ॥१५
अकलङ्काष्टमीचन्द्रसदृशोऽतिमनोहरः
दृश्यतेऽयं ललाटस्ते नीलालकसुशोभितः ॥१६
मूर्धा ते समवृत्तश्च स्निग्धा ऽऽयतकचान्वितः
स्मितसंशोभिदशनं बिम्बाधरसमन्वितम् ॥१७
मुखं ते विष्णुयोग्यं स्यादिति मे निश्चिता मतिः
नाभिस्ते दक्षिणावर्त आवर्त इव गाङ्गजः
त्वं हि क्षीराब्धिसम्भूता लक्ष्मीरिव हि दृश्यसे ॥१८
श्रीवराहः-
इत्युक्त्वा पूजितस्ताभिः नारदोऽन्तर्दधे तदा
एतच्चुृत्वाऽथ तत्सख्यः तामूचुः पद्मिनीं सखीम् ॥१९
पद्मावत्याः स्वसखीभिः साकं पुष्पाटवीगमनम्
वनं गच्छाम पुष्पार्थं वसन्तः समुपागतः
कर्णिकाराश्च चूताश्च चम्पकाः पारिभद्रकाः ॥२०
पालाशाः पाटलाः कुन्दा रक्ताशोकाश्च पुष्पिताः
पद्मिन्यः सिन्धुवाराश्च मालत्यो यूथिकालताः ॥ २१
कलाछरकरवीराश्च सङ्घर्षादिव पुष्पिताः
पुष्पापचयनं कुर्मो वनेऽस्मिन् सुमनोहरे ॥२२
इत्युक्त्वा ता वनं जग्मुराकाशतनयायुताः
पुष्पाण्याहरमाणास्तु विचरन्त्यस्ततस्ततः ॥२३
कञ्चिद्गजेन्द्रं ददृशुः शुभ्रदन्तद्वयोज्ज्वलम्
गण्डभित्ततलोद्भूतमदधाराद्वयोज्ज्वलम् ॥२४
श्रीवाराहपुराणे द्वितीयभागे चतुर्थोऽध्यायः
[[176177]]
उन्नतं करिणीयूथैः समुपेतं रजोज्ज्वलम्
फूत्कारिपुष्करप्रोद्यच्छीकरापूरिताननम्
दृष्ट्वा चोद्विग्नहृदया वनस्पतिमुपाश्रिताः ॥२५
मृगयार्थं पुष्पाटवीं प्रति श्रीनिवासागमनम्
एतस्मिन्नन्तरे चाशु ददृशुरछयमुत्तमम्
अकलङ्केन्दुधवलं जम्बूनदपरिष्कृतम् ॥२६
स्फुरद्विद्युल्लतायुक्तशरन्मेघमिवोन्नतम्
तस्मिंस्तु पुरुषं कृष्णं मदनाकारवर्चसम् ॥२७
पुण्डरीकदलाकारकर्णान्तायतलोचनम्
सुसूक्ष्मक्षौमसंवीतनीलचूलिकयोज्ज्वलम् ॥२८
पद्मरागमणिद्योति स्फुरत्कुण्डलमण्डितम्
सुवर्णरत्नखचितशार्ङ्ग दिव्यधनुर्धरम् ॥२९
अपरेण करेणैव वहन्तं काञ्चनं शरम्
पीतकक्ष्यासुसंवीतकटिदेशं सुमध्यमम् ॥३०
रत्नकङ्कणकेयूरकटिसूत्रविराजितम्
विशालवक्षःसंशोभिदक्षिणावर्तसंयुतम् ॥३१
स्वर्णयङ्ञोपवीतेन स्फुरत्स्कन्धं मनोहरम्
ईहामृगं समुद्दिश्य महावेगादनुद्रुतम् ॥३२
तं दृष्ट्वा विस्मिता नार्यः सस्मितास्तस्थुरत्र वै
तं दृष्ट्वा हयमारूढं गजेन्द्रो नव्रुमस्तकः ॥३३
तुण्डमुद्धृत्य गर्ज वै विनिवृत्य ययौ वनम्
तस्मिन् गते गजे तत्र हयाऽऽरूढः समाययौ
ईहामृगं विचिन्वानः पुष्पलावीसमीपतः ॥३४
भगवतः कन्यकानां चान्योन्यसंवादः
ताः समेत्य स चोवाच तुरगोपरि संस्थितः
अत्राऽगतो मृगः कश्चिदीहामृग इतीरितः
दृष्टो वा भवतीभिः स ब्रूत मे कन्यका इति ॥३५
श्रीवराहः -
प्रत्यूचुस्तास्तु तं कन्या दृष्टोऽस्माभिर्न कश्चन
किमर्थमागतोऽस्माकं वनं परधनुर्धरः ॥३६
अत्रावध्या मृगाः सर्वे माना निषादप
आशु गच्छ वनादस्मात् आकाशात्मजपालितात् ॥३७
इति तासां वचः श्रुत्वा हयादवरुरोह सः
कास्तु यूयमियं चापि कनकाम्बुजसन्निभा ॥३८
सुभगा चारुसर्वाङ्गी पीनोन्नतपयोधरा
ब्रूत मेऽहं गमिष्यामि श्रुत्वा स्वस्यालयं गिरिम् ॥ ३९
इति तस्य वचः श्रुत्वा धरण्यात्मजयेरिता
सखी पद्मावती प्राह निषादं पर्वतालयम् ॥४०
आकाशराजतनया वसुधातलसम्भवा
अस्माकं नायिका शूर पद्मिनी नाम नामतः ॥४१
श्रीवाराहपुराणे द्वितीयभागे चतुर्थोऽध्यायः
[[178179]]
ब्रूहि, त्वं सुभगाकारः किन्नामा कस्य वा सुतः ?
जातिः का कुत्र ते वासः किमर्थं त्वमिहागतः ? ॥४२
इति पृष्टः स ताः प्राह मन्दस्मितमुखाम्बुजः
दिवाकरकुलं प्राहुः अस्माकं तु पुराविदः ॥४३
यस्य नामान्यनन्तानि पावनानि मनीषिणाम्
वर्णतो नामतश्चापि कृष्णं प्राहुस्तपस्विनः ॥४४
ब्रह्मद्विषां सुरारीणां यस्य चक्रं भयावहम्
यस्य शङ्खध्वनिं श्रुत्वा मोहमीयुरिछ वैरिणः ॥४५
यस्य वै धनुषस्तुल्यं धनुर्नैवामरेष्वपि
तं मां वीरपतिं प्राहुः वेङ्कटाद्रिनिवासिनम् ॥४६
तस्मादद्रितटात् सो ऽहं निषादैरनुगैर्वृतः
मृगयार्थं हयारूढो युष्माकं वनमागतः ॥४७
मयाऽप्यनुद्रुतः कश्चित् मृगो वायुगतिर्ययौ
तमदृष्ट्वा वनं पश्यन् दृष्टवान् सुभगामिमाम् ॥४८
कामादिहाऽऽगतोऽहं वा मया किं लभ्यते त्वियम्
इति कृष्णवचः श्रुत्वा क्रुद्धास्ताः पुनरब्रुवन् ॥४९
आकाशराजो दृष्ट्वा त्वां कृत्वा निगडबन्धनम्
यावन्नयति तावत्त्वं गच्छ शीफ्रुं स्वमायलम् ॥५०
तर्जितस्ताभिरेवं स हयमारुह्य शीफ्रुगम्
युक्तः स्वानुचरैः सर्वैः ययौ द्रुततरं गिरिम् ॥५१
इति श्रीवाराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उतरार्धे उद्यानवासिन्याः पद्मावत्याः समीपे
नारदागमन – श्रीश्रीनिवासमृगयादिवर्णनं नाम
चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
अथ पञ्चमोऽध्यायः
पद्मावतीदर्शनेन श्रीनिवासस्य मोहप्राप्तिः
श्रीवराहः -
सव्प्रूप्य चाऽऽलयं दिव्यमवतीर्य हयोत्तमात्
विसृज्य सानुगान् सर्वान् देवान् कैरातरूपकान् ॥१
विश्रमध्वमिति प्रोच्य विवेश मणिमण्डपम्
आरुह्य मणिसोपानं पञ्चकक्ष्या अतीत्य च ॥२
मुक्तागृहं समासाद्य तस्मिन् लोलायिते शुभे
नवरत्नमये मञ्चे संविवेशावशो हरिः ॥३
सस्मार पद्मगर्भाभां तामेवाऽऽयतलोचनाम्
तनुमध्यां पीनकुचां मन्दस्मितमुखाम्बुजाम् ॥४
क्षीराब्धितनयामेव मेने पद्मोद्भवां शुभाम्
तस्यां गतमना देवः श्रीनिवासो मुमोह च ॥५
श्रीवाराहपुराणे द्वितीयभागे पञ्चमोऽध्यायः
[[180181]]
मुह्यमानं श्रीनिवासं प्रति वकुलमालिकोक्तिः
ततो मध्याह्नसमये कृत्वाऽन्नं दिव्यमुत्तमम्
सूपदंशं सुगन्धञ्च देवारछमतिशोभनम् ॥६
शुद्धान्नं पायसान्नञ्च गौडं मुद्गान्नमेव च
कृत्वा पञ्चविधापूपान् पूरिकावटकानपि ॥७
देवं द्रष्टुं ययौ शीफ्रुं सखी वकुलमालिका
पद्मावती पद्मपत्रा चित्ररेखासमन्विता ॥८
निवेश्य द्वारि देवस्य ताः सर्वाः प्रमदोत्तमाः
विवेश तत्समीपं सा स्वयं वकुलमालिका ॥९
गत्वा समीपं देवस्य ववन्दे भक्तिभावतः
दृष्ट्वाऽथ देवं विवशं पर्यङ्के रत्नभूषिते ॥१०
पादसंवाहनं कृत्वा निमीलितविलोचनम्
तं ध्यायन्तञ्च किमपि व्याजहार शुचिस्मिता ॥११
उत्तिष्ठ देवदेवेशः किं शेषे पुरुषोत्तमः
परमान्नं कृतं देव भोक्तुमागच्छ माधव ॥१२
किं वा त्वमार्तवच्छेषे सर्वलोकार्तिनाशन
मृगयामटता देव किं दृष्टं भवता वने ॥१३
अवस्था ते विशालाक्षः कामुकस्येव दृश्यते
का दृष्टा देवकन्या वा मानुषी वाऽहिकन्यका ?
ब्रूहि मे त्वमचिन्त्यात्मन् कन्यां तां चित्तहारिणीम् ॥ १४
श्रीवराहः -
तस्यास्तद्वचनं श्रुत्वा निश्श्वासमकरोद्विभुः
निश्श्वसन्तं पुनः प्राह प्रीता वकुलमालिका ॥१५
एवं मनोहरा का सा तवापि पुरुषोत्तम ?
तामवोचद्धृषीकेशो वक्ष्यामि श्रुणु तत्त्वतः ॥१६
श्रीनिवासोक्तपद्मावतीपरिणयकारणानि
श्रीभगवान् -
पुरा त्रेतायुगे पुण्ये रावणं हतवानहम्
तदा वेदवती कन्या साहाय्यमकरोच्छ्रियः ॥१७
सीतारूपाऽभवल्लक्ष्मीः जनकस्य महीतलात्
गते मयि तु मारीचं हन्तुं पञ्चवटीवने ॥१८
ममानुजोऽपि मामेव सीतया चोदितोऽन्वियात्
तदन्तरे राक्षसेन्द्रो हर्तुं सीतामुपाययौ ॥१९
अग्निहोत्रगतो वह्निः तं ज्ञात्वा रावणोद्यमम्
आदाय सीतां पाताले स्वाहायां सन्निवेश्य च ॥२०
तेनैव रक्षसा स्पृष्टां पुरा वेदवतीं शुभाम्
अग्नौ विसृष्टदेहां तां संहर्तुं रावणं पुनः ॥२१
सीताया रूपसदृशीं कृत्वा चैवोत्ससर्ज ह
सा रावणहृता भूत्वा लङ्कायाञ्च निवेशिता ॥२२
हते तु रावणे पश्चात् पुनरग्निं विवेश सा
अग्निस्तु रक्षितां लक्ष्मीं स्वाहायां मम जानकीम् ॥२३
श्रीवाराहपुराणे द्वितीयभागे पञ्चमोऽध्यायः
[[182183]]
दत्वा हस्ते च मामाह सीतया सहितं शिखी
इयं वेदवती देव! सीतायाः प्रियकारिणी ॥२४
सीतार्थं राक्षसपुरे तेन बन्दीकृता स्थिता
तस्मादेनां वरेणैव प्रीणय त्वं श्रिया सह ॥२५
इति वह्निवचः श्रुत्वा सीता मामवदच्छुभा
मम प्रीतिकरी नित्यमियं वेदवती विभोः
तस्मात्परं भागवतीं देवानां परय प्रभो ॥२६
श्रीभगवान् -
तथा देवि करिष्यामि ह्यष्टाविंशे कलौ युगे
तावदेषा ब्रह्मलोके वस त्वमरपूजिता ॥२७
पश्चात्तु भूमितनया भविष्यति वियत्सुता
इति दत्तवरा पूर्वं मया लक्ष्म्या च सुन्दरी ॥२८
आद्यनारायणपुरे सम्भूता धरणीतलात्
पद्मासमा पद्मनेत्री पद्मा दत्तवरा सती ॥२९
सखीभिरनुरूपाभिः वने पुष्पाणि चिन्वती
मृगयामटता तत्र मया दृष्टा मनोरमा ॥३०
तस्या रूपं मया वक्तुं न शक्यं शतहायनैः
लक्ष्म्येव च तया मेऽद्य सङ्गमो भविता यदि ॥३१
प्राणाः स्थिरा भविष्यन्ति सत्यमित्यवधारय
त्वं तत्र गत्वा तां कन्यां दृष्ट्वा वकुलमालिके ॥३२
जानीहि रूपलावण्यादियं योग्येति चास्य वै
अनवद्या विशालाक्षि पद्मेन्दीवरलोचना ॥३३
वियद्राजपुरं प्रति वकुलमालिकागमनम्
इत्युक्त्वा मोहमापन्नं तं प्राह वकुला पुनः
इतो गच्छामि देवेश मनोज्ञा तव यत्र सा ॥३४
मार्गं वद रमाधीश गमिष्ये येन तां प्रति
एवमुक्तो रमाधीशः तां प्राह वकुलस्रजम् ॥३५
इतो गच्छ महाभागे श्रीनृसिंहगुहा यतः
तन्मार्गेणावतीर्याऽस्मात् भूधरेन्द्रात् मनोरमात् ॥३६
अगस्त्याश्रममासाद्य दृष्ट्वा लिङ्गं तदर्चितम्
अगस्त्येश इति ख्यातं सुवर्णमुखरीतटे ॥३७
तीरेणैव ततो गच्छ शुकब्रह्मऋषेर्वनम्
पश्यन्ती स्वर्णमुखरीं तत्र कल्लोलमालिनीम् ॥ ३८
तत्र पद्मसरो नाम पावनं पद्मसंयुतम्
तत्र स्नात्वाऽथ तत्तीरे तपन्तं मुनिसत्तमम् ॥३९
छायाशुकं नमस्कृत्य कृष्णञ्च बलसंयुतम्
आराध्यमानं मुनिना शुकेन सततं शुभे ॥४०
इन्द्रनीलमणिश्यामं पीतनिर्मलवाससम्
तीर्थयात्रां गमिष्यन्तं बलभद्रं सिताऽकृतिम् ॥४१
उपासयन्तं मन्त्राणि मुक्तान्वितकरद्वयम्
उद्यन्तं पादुकायुक्तं बलभद्रं प्रणम्य च ॥४२
श्रीवाराहपुराणे द्वितीयभागे पञ्चमोऽध्यायः
[[184185]]
आदाय स्वर्णकमलं सरसोऽस्माद्वरानने
तीर्त्वा सुवर्णमुखरीं वनान्युपवनानि च ॥४३
अरणीतीरमासाद्य विश्रम्य च वनान्तरे
नारायणपुरीं दृष्ट्वा विस्मयञ्च गमिष्यसि ॥४४
तस्माच्चोपवने वृक्षा पुष्पाढ्यान् फलसंयुतान्
पनसाव्रुशिरीषांश्च कुन्दतिन्दुकपाटलान् ॥४५
पुन्नागनागवरुणरसालाङ्कोलचम्पकान्
वकुलामलकान् सालान् तालहिन्तालपद्मकान् ॥४६
जम्बूनिम्बकदम्बैलापिप्पलीमधुकार्जुनान्
प्रियङ्गुहिज्गुखर्जूरमायूराशोकलोध्रकान् ॥४७
अश्वत्थोदुम्बरप्लक्षबदरीभूर्जकीचकान्
चिञ्चाकिंशुकमन्दारशाल्मलीबीजपूरकान् ॥४८
पूगनारङ्गलिकुचनारिकेलवनाकुलान्
मल्लिकामालतीकुन्दयूथिकाकेतकीयुतान् ॥४९
करवीराब्जसम्पन्नान् राजरम्भाविराजितान्
मयूरकीरगरुडशुकसारससङ्कुलान् ॥५०
भृङ्गझङ्कारनिबिडान् आरामान् सुमनोहरान्
पश्यन्ती परमं हर्षमवाप्य च नदीतटे ॥५१
गत्वा पुष्पोत्तरे मार्गे पुरीमिन्द्रपुरीसमाम्
गङ्गयेवावृतां नित्यं सरिता अरणिनामया
आकाशराजनगरीं गत्वा तत्रोचितं कुरु ॥५२
श्रीवराहः -
इत्यादिश्य सुराधीशः सखीं तां वकुलाभिधाम्
विसृज्य शयने शुभ्रे स शिश्ये श्रीसमन्वितः ॥५३
प्रणम्य देवदेवेशं सखी वकुलमालिका
गुञ्जामणिसमाकारं रक्ताश्वमधिरुह्य सा ॥५४
यथोक्तमार्गेण ययौ पश्यन्ती विविधान् मृगान्
मत्तेभान् पर्वताकारान् श्वेतदन्तविभूषितान् ॥५५
करिणीयूथसहितान् जलादानतत्परान्
सिंहान् श्वेतघनप्रख्यान् सिंहीयूथैरनुद्रुतान् ॥५६
शार्दूलराक्षंश्च खड्गांश्च शरभान् गवयान् मृगान्
कृष्णसारांश्च गोमायून् शशांश्च प्रियकानपि ॥५७
सारसांश्च मयूरांश्च मार्जारान् वनगोचरान्
वृकान् शुकान् सूकरांश्च सुवाचः पक्षिणस्तथा ॥५८
पश्यन्ती विविधाकारान् तुष्यन्ती च मुहुर्मुहुः
आससादाऽरणीतीरं पश्चिमं पादपाकुलम् ॥५९
अवतीर्यारुणादश्वात् अगस्येशसमीपतः
दृष्ट्वाऽगस्त्येश्वरं लिङ्ग मगस्त्येन सुपूजितम्
तत्र स्नात्वा च पीत्वा च विशश्राम नदीतटे ॥६०
दिव्योद्यानस्थपद्मावतीसखीः प्रति वकुलमालिकोक्तिः
तत्राऽऽगता राजगृहात् योषितो देवसन्निधौ
सखीः पद्मालयायास्ता दृष्ट्वा वकुलमालिका
गत्वा समीपे तासां सा किंवदन्तीं स्म पृच्छति ॥६१
श्रीवाराहपुराणे द्वितीयभागे पञ्चमोऽध्यायः
[[186187]]
वकुलमालिका -
का यूयं योषितो ब्रूत विचित्राऽऽभरणस्रजः
कुतः समागता ह्यत्र किं कार्यं वोऽमलाननाः? ॥६२
तास्तु तस्या वचः श्रुत्वा स्मितपूर्वमथाब्रुवन्
शृणुष्वावहिता देवि वयं वक्ष्याम हेऽधुना ॥६३
इति श्रीवाराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उत्तरार्धे पद्मावतीदर्शनेन श्रीनिवासस्य
मोहप्राप्त्यादिवर्णनं नाम पञ्चमोऽध्यायः
षष्ठोऽध्यायः
अथ षष्ठोऽध्यायः
वकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तः
योषितः -
वयमाकाशराजस्य शुद्धान्तनिलयाः स्त्रियः
सख्यः पद्मालयाया वै दुहितुर्वसुधापतेः ॥१
राजपुत्रीं पुरस्कृत्य गताः पूर्वं वनान्तरम्
कुर्वन्त्यः पुष्पापचयं राजपुत्र्यर्थमाकुलाः ॥२
वृक्षमूले समासीनाः तत्र पश्याम पूरुषम्
इन्द्रनीलशिलाश्यामं इन्दिरामन्दिरोरसम् ॥३
ईषत्स्मितमुखं चारुपीनदीर्घभुजद्वयम्
मृष्टपीताम्बरं हेमबाणबाणाऽऽसनोज्ज्वलम् ॥४
सुवर्णमकुटं हारकेयूरादिविभूषितम्
तं तु पद्मालया दृष्ट्वा सखी कमललोचनम् ॥५
द्रुतहेमनिभाकारा पश्य पश्ये ति साऽब्रवीत्
पश्यन्तीनां तदाऽस्माकं गतोऽन्तर्धानमाशु सः
सा सखी मूर्छिता ऽस्माभिः नीता राजगृहं ततः ॥६
पद्मावतीमुद्दिश्य दैवज्ञं प्रति वियद्राजकृतप्रश्नादिः
दृष्ट्वाऽस्वस्थां नृपः पुत्रीमपृच्छद्दैवचिन्तकम्
वद विप्रेन्द्र पुत्र्या मे ग्रहचारफलं मुने ॥७
बृहस्पतिसमो विप्रो विचार्यात्मनि खेचरान्
अनुकूला ग्रहाः सर्वे तव पुत्र्या नृपोत्तम ॥८
किन्तु नित्यं ग्रहफलं किञ्चित् भ्रान्तिकरं नृप
तमुवाच पुनर्धीमान् प्रश्नकालं विचार्य च ॥९
छायां गुणित्वा लग्नञ्च फलानि च विचार्य च
लग्ने लग्नाधिपश्चन्द्रः केन्द्रे चैव बृहस्पतिः ॥१०
निद्राति दिनपक्षी तु प्रश्नपक्षी तु राज्यगः
शृणु राजन् फलं तस्य स्वास्थ्यमेव भविष्यति ॥११
उत्तमः पुरुषः कश्चित् आगतः कन्यकां प्रति
तं दृष्ट्वा मूर्छिता पुत्री तेन योगं समेष्यति ॥१२
श्रीवाराहपुराणे द्वितीयभागे षष्ठोऽध्यायः
[[188189]]
तेनैव प्रेषिता काचित् आगमिष्यति कन्यका
सा तु वक्ष्यति यद्वाक्यं तद्धितं ते भविष्यति ॥१३
तत्कुरुष्व महाराज सत्यं सत्यं वदाम्यहम्
किञ्च सर्वार्थदं यत्तु सर्वव्याधिविनाशनम् ॥१४
वक्ष्यामि तत्कुरुष्वाद्य पुत्र्यास्तव सुखावहम्
कारयाऽगस्त्यलिङ्गस्य ब्राह्मणैरभिषेचनम् ॥१५
दैवज्ञोक्त्या अगस्त्यलिङ्गार्चनाय विप्रादिप्रेषणम्
इत्युक्त्वाऽथ गृहं यातो राजानं दैवचिन्तकः
आकाशराजोऽपि तदा विप्रानाहूय वैदिकान् ॥१६
अभ्यर्च्याऽऽज्ञापयामास गत्वा देवालयं द्विजाः ।
महाभिषेकं शम्भोश्च कुरुध्वं मन्त्रपूर्वकम् ॥१७
इत्यनुज्ञाप्य तानस्मान् आहूयाभ्यवदच्छुभे
महाभिषेकसम्भारान् सम्पादयत कन्यकाः ॥१८
इत्याज्ञप्ता नृपेणैव वयं देवाऽऽलयं गताः
ब्रूहि त्वं सुभगेऽस्माकं त्वदागमनमञ्जसा ॥१९
कुतोऽसि कस्य वाऽर्थेन क्व वा जिगमिषा हि ते ?
प्रोवाच वाचं मधुरां हर्षयन्तीव बालिकाः ॥२०
श्रीवराहः -
इति ताभिस्तदा फृष्टा हृष्टा वकुलमालिका
प्रोवाच वाचं मधुरां हर्षयन्तीव बालिकाः ॥२१
वकुलमालिका -
श्रीवेङ्कटाद्रेः प्राप्ताऽहं नाम्ना वकुलमालिका
धरणीं द्रष्टुकामाऽहं आरुह्येमं तुरङ्गमम् ॥२२
द्रष्टुं शक्या भवेद्देवि किमु तत्र नृपालये
इति तस्या वचः श्रुत्वा ताः प्रोचुर्नृपकन्यकाः ॥२३
अस्माभिः सहिता त्वं वै द्रक्ष्यसे धरणीं शुभे
इत्युक्ता सा ततस्ताभिरागता नृपमन्दिरम् ॥२४
धरणीकृतप्रश्नस्य पुलिन्दिनीप्रतिवचनम्
आयान्तीं वीथिकायां सा सगुञ्जाशङ्खभूषिताम् ॥२५
शिशुं स्तनन्धयं पृष्ठे बद्ध्वा वस्त्राञ्चलेन वै
वदामि सत्यं शृणुत भूतं भव्यं भविष्यकम् ॥२६
वदन्तीं वीथिवीधीषु तामाहूय शुचिस्मिता
स्वर्णशूर्पं समादाय तस्मिन् मुक्ता निधाय च ॥२७
त्रिप्रस्थमात्रान् त्रीन् राशीन् कृत्वा तस्यै निधाय च
वद सत्यं पुलिन्दे त्वं एष्यद्वा भूतमेव वा ॥२८
इत्येवं धरणीदेवी पृच्छन्ती तां स्थिताऽभवत्
पृष्टा साऽवददस्यास्तु मनसा यद्विचिन्तितम् ॥२९
मध्यराशौ चिन्तितं ते वद कल्याणि मे ऋजु
’ओ’ मित्याहाऽथ धरणी पुलिन्दां राजवल्लभा ॥३०
श्रीवाराहपुराणे द्वितीयभागे षष्ठोऽध्यायः
[[190191]]
धरणी -
राशिरुक्तः फल्ं ब्रूहि धनराशिं ददामि ते
पुलिन्दा -
सत्यं वदामि ते सुभ्रु शिरोरत्नं प्रयच्छ मे ॥३१
इत्युक्ता सा तु धरणी स्वर्णपात्रेऽन्नमाददे
दत्त्वा तस्यै पुलिन्दिन्यै सत्यं ब्रूहीति साऽवदत् ॥३२
सक्षीरमन्नमादाय दत्त्वा पुत्राय भामिनी
सा सत्यमवदम् सुभ्रूः दुहितुर्देहशोषणम् ॥३३
पुरुषादागतं भीरु तद्द्रूपादर्शनादियम्
अङ्गतापं समापन्ना ह्यनङ्गशरपीडिता ॥३४
स तु देवादिदेवो वै वैकुण्ठादागतः स्वयम्
श्रीवेङ्कटाद्रिशिखरे स्वामिपुष्करिणीतटे ॥३५
मायावी परमानन्दः श्रिया सह रमापतिः
कामरूपी विहरते स्वभक्ताभीष्टदो हरिः ॥३६
स तुरङ्गं समारुह्य विहरन् काननान्तरे
आगत्योपवनं राज्ञि तव कन्यां स दृष्टवान् ॥३७
रमासमामिमां दृष्ट्वा स्वयं कामवशं गतः
स्वसखीं ललितां देवः प्रेषयिष्यति तेऽन्तिकम् ॥३८
रमेव तं समेत्यैषा रमिष्यति सुखं चिरम्
एतत्सत्यं मम वचः तस्याऽद्यैव नृपात्मजे ॥३९
पुत्रस्यान्नं प्रयच्छेति तूष्णीमास पुलिन्दिनी
अन्नं दत्त्र्वा पुनर्भूमिं तस्यै ता विससर्ज ह ॥४०
तस्यां विनिर्गतायां तु पुलिन्दिन्यामनिन्दिता
उत्थाय चाङ्गणात्तस्मात् विवेशान्तःपुरं शुभम् ॥४१
यत्र पद्मालया कन्या समान्ते स्वसखीवृता
गत्वा पुत्रीसमीपस्थाः कन्याः कामातुरां सुताम् ॥४२
पुत्रि किं ते करिष्यामि वस्तु किं वा प्रियं शुभे
इति मात्राऽभिपृष्टा सा मन्दमाह मनस्विनी ॥४३
पद्मावतीनिवेदित भगवद्भागवतलक्षणानि
नेत्राभिरामं यल्लोके सतामपि मनः प्रियम्
यं द्रष्टुकामा ब्रह्माद्या यत्तु सर्वगतं महत् ॥४४
तेजसामपि तेजस्वी देवानामपि दैवतम्
भक्तैस्सद्भिरिह प्राप्यमभक्तैर्न कदाचन ॥४५
तस्मिन्नेव मनो मेऽम्ब वस्तुनीह प्रवर्तते
तदेवान्विष्यतां मातः भक्तानां सर्वकामदम् ॥४६
श्रीवराहः -
एतच्छुृत्वाऽथ धरणी तामपृच्छत् पुनः सुताम्
तद्भक्तलक्षणं ब्रूहि यैः प्राप्यं तत् सुलोचने ॥४७
पद्मालया -
भक्तानां लक्षणं मातः! शृणु गुह्यं समाहिता
शङ्खचक्राङ्किते नित्यं भुजयुग्मे वसुन्धरे ॥४८
श्रीवाराहपुराणे द्वितीयभागे षष्ठोऽध्यायः
[[192193]]
ऊर्ध्वपुण्ड्रं सान्तरालं तेषामेव विशेषतः
पुण्ड्राणि द्वादश पुनः धारयन्ति तथा परे ॥४९
ललाटोदरहृत्कण्ठे जठरे पार्श्वयोरपि
भुजद्वन्दे सयुग्मे च वृष्ठे च गलपृष्ठके ॥५०
केशवादीनि नामानि द्वादशाङ्गेषु द्वादश
वासुदेवेति तन्मूर्ध्नि धारयन्ति नमोऽस्त्विति ॥५१
तेषां तु नियमान् वक्ष्ये मातः शृणु मनोरमान्
वेदपारायणरताः कर्म कुर्वन्ति वैदिकम् ॥५२
सत्यं वदन्ति ये देवि नासूयन्ति परान् क्वचित्
परनिन्दां न कुर्वन्ति परस्वं न हरन्ति ये ॥५३
न स्मरन्ति न पश्यन्ति न स्पृशन्ति कदाचन
परदारा सुरूपांश्च ये च तान् विद्धि वैष्णवान् ॥५४
सर्वभूतदयावन्तः सर्वभूतहिते रताः
सदा गायन्ति देवेशमेतान् भक्तानवेहि वै ॥५५
येन केन च सन्तुष्टाः स्वदारनिरताश्च ये
वीतरागभयक्रोधाः तान् भक्ता विद्धि वैष्णवान् ॥५६
एवंविधैर्गुणैर्युक्ताः पञ्चायुधधरा आपि
पित्रा चाऽऽचार्यरूपेण शिष्टेनान्येन वा पुनः ॥५७
स्वगृह्योक्तविधानेन वह्निमादाय वै बुधः
चक्राद्यायुधमन्त्रेण जुहुयात् षोडशाहुतीः ॥५८
मूलमन्त्रेण सूक्तेन पौरुषेण ततः परम्
जातवेदः सुमन्त्रेण पश्चादष्टोत्तरं शतम् ॥५९
हुत्वा महाव्याहृतिभिः चक्रादींस्तत्र तापयेत्
सह्यान् सुतप्तान् गुरुणा मन्त्रवद्धारयेद् बुधः ॥६०
भुजद्वये शङ्खचक्रे मूर्थ्नि शार्ङ्गशरौ तथा
ललाटे तु गदा धार्या हृदये खड्गमेव च ॥६१
एवं धार्याणि पञ्चैव विष्णुभक्तैर्मुमुक्षुभिः
अथवा भुजयोश्चक्रशख्खौ चैव सुलक्षणौ ॥६२
एवं लाञ्छनयुक्ता ये भक्तास्ते वैष्णवाः स्मृताः
तैरेव लभ्यं तद्ब्रह्म सदाचारसमन्वितैः ॥६३
तस्मिन्नेव मम प्रीतिः तत्प्राप्तिं काङ्क्ष ते मनः
मातर्विष्णुं विनाऽन्येषु वाञ्भा काचि न्न जायते ॥६४
स्मरामि श्यामलं विष्णुं वदामि हरिमच्युतम्
तेनैव मातर्जीवामि तद्योगे चिन्त्यतां विधिः ॥६५
श्री वराहः -
इत्युक्त्वा मातरं दीनां विररामाम्बुजानना
तच्छृत्वा चिन्तयामास विष्णुः प्रीतः कथं भवेत् ॥६६
वकुलमालिकया सार्थं सखीनां धरणीसमीपे आगमनम्
एतस्मिन्नन्तरे कन्या अगस्त्येशं समर्च्य च
आगता धरणीं द्रष्टुं सहैव वकुलस्रजा ॥६७
श्रीवाराहपुराणे द्वितीयभागे षष्ठोऽध्यायः
[[194195]]
आगतान् ब्राह्मणांस्तत्र पूजयित्वा सुभोजनैः
दत्त्वाऽथ दक्षिणाः पूर्णा वस्त्रालङ्कारसंयुताः ॥६८
आशिषो वाचयित्वाऽथ वाञ्छितार्थस्य सिद्धये
विसृज्य ब्राह्मणान् सर्वान् अथापृच्छत् स्वयोषितः
पूजयित्वा ह्यगस्त्येशमागतास्ता मनस्विनीः ॥६९
इति श्रीवाराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उत्तरार्धे वकुलमालिकां प्रति
सखीविनिवेदितपद्मावत्युदन्तविष्णुभक्तलक्षणादिवर्णनं नाम
षष्ठोऽध्यायः
सप्तमोऽध्यायः
अथ सप्तमोऽध्यायः
धरणीदेव्यै वकुलमालिकानिवेदितश्रीनिवासोदन्तः
धरणी -
कैषा ब्रूत वरा कन्या युष्माभिः सङ्गता कुतः
किमर्थमागता चेह पूज्यैषा प्रतिभाति मे ? ॥१
कन्यकाः -
एषा दिव्याङ्गना देवी त्वयि कार्यार्थमागता
देवालये सङ्गतेयमस्माभिः शिवसन्निधौ ॥२
पृष्टाऽवदच्च भवतीं द्रष्टुमेवाऽऽगतेति वै
शक्या द्रष्टुं राजगृहे मया राङ्ञो मुखेन वः ॥३
एवं पृष्टास्ततो ब्रूमः सहास्माभिश्च गम्यताम्
वयन्तु धरणीदास्यो गमिष्यामो नृपालयम् ॥४
इत्युक्ताऽस्माभिरायाता त्वत्समीपं वसुन्धरे!
भवत्या पृछ्यतामेषा किमित्यागमनं तव ॥५
श्रीवराहः -
इति तासां वचः शृत्वा तामपृच्छत् वसुन्धरा
धरणी -
कुतस्त्वमागता देवि किं वा कार्यं मया तव
ब्रूहि सत्यं करिष्यामि त्वदागमनकारणम् ॥६
वकुलमालिका -
वेङ्कटाद्रेः समायाता नाम्ना वकुलमालिका
स्वामी नारायणोऽस्माकमास्ते श्रीवेङ्कटाचले ॥७
कदाचित् हयमारुह्य हंसशुक्लं मनोजवम्
मृगयार्थं गतो राङ्ञो वेङ्कटाद्रेः समीपतः ॥८
वनानि विचरन् काले शोभने कुसुमाकरे
पश्यन् मृगान् गजान् सिंहान् गवयान् शरभान् रुरून्॥ ९
शुकान् पारावतान् हंसान् पत्रिणोऽन्यान् वनान्तरे
गजराजं तत्र कञ्चित् यूथपं मदवर्षिणम्
करेणुसहितं तुङ्गमन्वगच्छत् सुरोत्तमः ॥१०
श्रीवाराहपुराणे द्वितीयभागे सप्तमोऽध्यायः
[[196197]]
श्रीनिवासोक्त्या शज्खनृपस्य स्वामितीर्थे तपःकरणम्
वनाद्वनान्तरं गत्वा नृपं शङ्खमुपागमत्
तपस्यन्तं बृहच्छैले प्रतिष्ठाप्य जनार्दनम् ॥११
श्रीभूमिसहितं नित्यमर्चयन्तश्च भक्तितः
शङ्खनागबिलं नाम सरः पावनमुत्तमम् ॥१२
तत्सरस्तीरमासाद्य तुरङ्गादवरुह्य च
राजवेषं समासाद्य तमपृच्छन्नरोत्तमम्
क्रियते किं नृपश्रेष्ठ पादेऽस्मिञ्छेषभूभृतः ॥१३
शङ्खणनृपः-
अहं हैहयदेशीयः पुत्रः श्वेतस्य भूभृतः
महाविष्णोः प्रीतयेऽत्र कृतवानखिलान् क्रतून् ॥१४
अदर्शनान्महाविष्णोः निर्विण्णोऽहं नृपात्मजः
तदानीमवदद्दिव्या वाणी सर्वार्तिनाशिनी ॥१५
राजन् ! नात्र भविष्यामि प्रत्यक्षं ते वचः शृणु
गच्छ नारायणाद्रिं त्वं तपः कुर्विति मां स्फुटम्॥१६
ततो देशमहं त्यक्त्वा तपसाऽऽराधयाम्यहम्
अत्र देवं नृपाचिन्त्यं प्रतिष्ठाप्य श्रियः पतिम् ॥१७
अगस्त्यानुग्रहान्नित्य मर्चयामि विधानतः
इति तस्य वचः श्रुत्वा सोत्प्रासं प्राह तं विभुः ॥१८
गच्छ नारायणाद्रिं त्वं अस्य पादे किमास्यते ?
आरुह्यानेन मार्गेण पश्चिमे शिखरे स्थितम् ॥१९
प्रणम्य विष्वक्सेनं त्वं बालं न्यग्रोधमूलतः
स्वामिपुष्करिणीं गत्वा स्नात्वा तीरेऽथ पश्चिमे ॥२०
अश्वत्थं तत्र वल्मीकं द्रक्ष्यसे नृपनन्दन
तयोर्मध्यं समासाद्य तपः कुर्वित्यचोदयत् ॥२१
कश्चिच्छ्वेतो वराहोऽस्मिन् वल्मीके चरति ध्रुवम्
स तु पुण्यवतामेव सेवां यच्छति भूपते ॥२२
श्रीवराहः-
इत्यादिश्य हयारूढो जगाम मृगयां विभुः
चरन् वनाद्वनं सुभ्रु समासाद्याऽरणिं नदीम् ॥२३
अवरुह्य हयात्तत्र विचचार तटे शुभे
वनान्तादागतो वायुः पद्मकलाछरशीतलः
श्रमापनयनो मन्दं सिषेवे पुरुषोत्तमम् ॥२४
तरवः पुष्पवर्षाणि विकिरन्तः सिषेविरे
एवं स विचरन् देवः पुष्पभारनतांस्तरून् ॥२५
विचिन्वन् गजराजं तं पुष्पलावीर्ददर्श ह
कन्याः सुवेषा रुचिरा मेघेष्विव शतह्रादाः ॥२६
तासां मध्यगतां तन्वीं ददर्शातिमनोहराम्
लक्ष्मीसमां हेमवर्णां तस्यां सक्तमना अभूत् ॥२७
तां गृध्नुराह ताः कन्याः ’केय’ मित्येव पूरुषः
उक्तस्ताभिरियं कन्या वियद्राज्ञो महाबलः ॥२८
श्रीवाराहपुराणे द्वितीयभागे सप्तमोऽध्यायः
[[198199]]
इदं श्रुत्वा वचस्तासां हयमारुह्य वेगवान्
आजगामाशु भगवान् स्वालयं रुचिरं गिरिम् ॥२९
तत्र स्वालयमासाद्य स्वामिपुष्करिणीतटे
मामाहूयावदद्देवो हला वकुलमालिके! ॥ ३०
वियद्राजपुरं गत्वा प्रविश्यान्तः पुरं सखि
तत्पत्नीं धरणीं प्राप्य पृष्ट्वा कुशलमेव च ॥३१
याचस्व तनयां तस्या रुचिरां कमलालयाम्
राज्ञोऽभिमतमाज्ञप्ता शीफ्रुमागच्छ भामिनि ॥३२
इत्थं देवेन चाज्ञप्ता देवि त्वद्गृहमागता
यथोचितं कुरुष्वेह राज्ञा मन्त्रियुतेन च ॥३३
वकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः
कन्यया च विचार्यैव प्रोच्यतामुत्तरं वचः ॥३४
श्रीवराहः -
अथ तस्या वचः शृत्वा प्रीता राज्ञी बभूव ह
आहूयाऽऽकाशराजं त मुपेत्य कमलालयाम् ॥३५
मन्त्रिमध्येऽवदद्देवी वचनं वकुलस्रजः
श्रुत्वा प्रीतोऽवदद्राजा मन्त्रिणः सपुरोहितान् ॥३६
आकाशराजः -
कन्या त्वयोनिजा दिव्या सुभगा कमलालया
अर्थिता देवदेवेन वेङ्कटाद्रिनिवासिना ॥३७
पूर्णो मनोरथो मेऽद्य ब्रूत किं सम्मतं तु वः
श्रुत्वा मन्त्रिगणाः सर्वे राज्ञो वचनमुत्तमम् ॥३८
प्रोचुः सुप्रीतमनसो वियद्राजं महापतिम्
वयं कृतार्था राजेन्द्र कुलं सर्वोन्नतं भवेत् ॥३९
भवत्कन्येयमतुला श्रिया सह रमिष्यति
दीयतां देवदेवाय शार्ङ्गिणे परमात्मने ॥४०
अयं वसन्तः श्रीमांश्च शुभं शीफ्रुं विधीयताम्
आहूय धिषणं लग्नं विवाहार्थं विधीयताम् ॥४१
बृहस्पत्युक्त्या विवाहलग्नस्थिरीकरणम्
तथाऽस्त्वित्याह्वयामास सुरलोकात् बृहस्पतिम्
पप्रच्छ कन्यावरयोर्विवाहार्थं नरेश्वरः ॥४२
राजोवाच -
कन्याया जन्मनक्षत्रं मृगशीर्षमिति स्मृतम्
देवस्य श्रवणर
क्ष्न्तु तयोर्योगो विचार्यताम् ॥४३
श्रुत्वा ऽब्रवीत्स धिषणस्तयोरुत्तरफल्गुनी
सम्मतास्सुखवृद्ध्यर्थं प्रोच्यते दैवचिन्तकैः ॥४४
तयोरुत्तरफल्गुन्यां विवाहः क्रियतामिति
वैशाखमासे विधिवत् क्रियतामिति सोऽब्रवीत् ॥४५
श्रीवराहः-
राजा तु धिषणं तत्र सम्पूज्या ऽथ विसृज्य च
देवस्य दूतिकामाह गच्छ देवालयं शुभे ॥४६
श्रीवाराहपुराणे द्वितीयभागे सप्तमोऽध्यायः
[[200201]]
वैशाखे देवदेवाय कल्याणं वद सुव्रते
वैवाहिकविधानं तु कृत्वा चागम्यतामिति ॥४७
ततो देव्याः प्रियकरं शुकं दूतं तया सह
विसृज्य वायुं स्वसुतमिन्द्राद्यानयनेऽसृजत् ॥४८
विश्वकर्मादिकृतपुरालङ्कारादिक्रमः
आहूय विश्वकर्माणं पुरालङ्कारकर्मणि
नियोजयामास सोऽपि निर्ममे निमिषान्तरात् ॥४९
इन्द्रोऽसृजत्पुष्पवृष्टिं ननृतुश्चाप्सरोगणाः
धनदो धनधान्याद्यैः पूरयामास वेश्म तत् ॥५०
यमस्तु रोगरहितांश्चकार मनुजान् भुवि
वरुणो रत्नजालानि मौक्तिकादीन्यपूरयत्
एवं सम्पाद्य सर्वाणि ययुर्देवा वृषाचलम् ॥५१
पद्मावतीशुकेन सह वकुलायाः श्रीनिवाससमीपे गमनम्
श्रीवराहः-
ततः सा हयमारुह्य शुकेन सहिता ययौ
श्रीवेङ्कटाद्रिमासाद्य देवालयसमीपतः ॥५२
अवरुह्य तुरङ्गात्सा सशुकाऽभ्यन्तरं ययौ
दृष्ट्वा देवं रत्नपीठे श्रिया सह सुलोचनम् ॥५३
प्रणम्य ह्यवदत्प्रीता कृत्यं तत्र कृतं विभो !
माङ्गल्यवार्तां वक्तुं वै शुक एष समागतः ॥५४
श्रीनिवासाय शुकावेदितपद्मावतीपरिणयवृत्तान्तः
वदेति देवेनाज्ञप्तः शुको नत्वा तमब्रवीत्
त्वां प्रत्याह सुता भूमेः मामङ्गीकुरु माधव ॥५५
वदामि तव नामानि स्मरामि त्वद्वपुस्सदा
ध्रियन्ते तव चिह्नानि भुजाद्यङ्गै रमापते ॥५६
त्वद्भक्तानर्चयामीह पञ्चसंस्कारसंयुतान्
त्वत्प्रीतये हि कर्माणि करोमि मधुसूदन ॥५७
एवं सदैवाचरन्त्याः पित्रोरनुमते मम
कुरु प्रसादं देवेश मामङ्गीकुरु माधव ॥५८
श्रीशुकः-
इति विज्ञापयामास कमलस्था धरासुता
शुकस्य वचनं श्रुत्वा सुप्रियं त्वात्मनो हरिः ॥५९
पद्मावत्या शुकदत्तश्रीनिवासमालाधारणम्
श्री भगवान्-
कर्तुं कल्याणमुद्वाहमागमिष्यामि चामरैः
शुक गच्छ वदैवं ता मित्थं देवोऽब्रवीदिति ॥६०
शुकः श्रुत्वा देववाक्यमादाय वनमालिकाम्
देवदत्तां ययौ शीफ्रुं वियद्राजसुतां प्रति ॥६१
तुलसीमालिकां दत्त्वा मृगनाभिसुगन्धिनीम्
प्रणम्य देवीमवदत् शुको देववचः शुभम् ॥६२
श्रीवाराहपुराणे द्वितीयभागे सप्तमोऽध्यायः
[[202203]]
श्रुत्वा तन्मालिकां गृह्य भूमिजा शिरसा दधौ
चक्रेऽलङ्कारमुचितं देवागमनकाङ्क्षिणी ॥६३
वियद्राजोऽपि सानन्दं इन्दुमाहूय सादरम्
अन्नं विधीयतां राजन्! विविधं रससंयुतम् ॥६४
विष्णोर्नैवेद्ययोग्यं यत् परमान्नं विधीयताम्
देवानाञ्च ऋषीणाञ्च नराणामपि सम्मतम् ॥६५
चतुर्विधं सुगन्धाढ्यं अमृतांशैः सुधाकर !
एवं कृत्वा संविधानं प्रतीक्ष्याऽऽगमनं विभोः ॥६६
सभायां मन्त्रिसहितः समाप्त प्रीतमानसः
पुत्रीमलङ्कृतां कृत्वा धरणीसहितो नृपः ॥६७
इति श्रीवाराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उतरार्धे धरणीदेव्यै
वकुलमालिकानिवेदितश्रीनिवासोदन्तकमलालयाकल्याणविध्यादि
वृत्तान्तवर्णनं नाम सप्तमोऽध्यायः
अष्टमोऽध्यायः
अथ अष्टमोऽध्यायः
श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालङ्कारः
श्रीवराहः -
ततो देवाधिदेवोऽपि लक्ष्मीमाहूय भामिनीम्
किं कार्यं वद कल्याणि विवाहार्थं सुलोचने ॥१
आज्ञापयस्व स्वसखि रमे कार्यं कुरु प्रियम्
श्रीस्तु कृष्णवचः श्रुत्वा सखीनामभ्यचोदयत् ॥२
श्रियाऽऽज्ञ्प्ता ततः प्रीतिः सुगन्धं तैलमाददौ
श्रुतिः क्षौमं समादाय तस्थौ देवस्य सन्निधौ ॥३
भूषणानि समादाय स्मृतिरप्याययौ मुदा
धृतिरादर्शमादत्त कान्तिर्मृगमदं ददौ ॥४
यक्षकर्दममादाय ह्रीाः स्थिता पुरतो हरेः
कीर्तिः कनकपट्टञ्च सरत्नं मकुटं ददौ ॥५
छत्रं ददौ तदेन्द्राणी चामरस्तु सरस्वती
द्वितीयं चामरं गौरी व्यजने विजयाजये ॥६
आगतास्ताः समालोक्य श्रीरुत्थायाऽथ सत्वरा
सुगन्धं तैलमादाय देवमभ्यज्य शीर्षतः ॥७
उद्वर्तितं गन्धचूर्णैः देवाङ्गं परिमृज्य च
आनीतान् करिभिस्तोयकलशान् काञ्चनान् शतम् ॥८
[[204205]]
वियद्गङ्गादितीर्थेभ्यः कर्पूरादिसुवासितान्
एकमेकं समादाय त्वभ्यषिञ्चद्रमा हरिम् ॥९
सन्धूप्य केशान् धूपेन तानाश्यामान् बबन्ध च
सुगन्धेनानुलिप्याङ्गं स्वर्णवर्णेन तद्विभोः ॥१०
पीतकौशेयकं बद्ध्वा कट्यां काञ्चीसमन्वितम्
मुकुटादिविभूषाभिः भूषयामास चेन्दिरा ॥११
अङ्गुलीयकरत्नानि सर्वास्वेवाङ्गुलीषु च
आदर्शं दर्मयामास धृतिर्देवस्य सन्निधौ ॥१२
दृष्ट्वाऽऽदर्शं देवदेवो ह्यूर्ध्वपुण्ड्रं स्वयं दधौ
आरुह्य गरुडं पश्चात् स्वयं लक्ष्मीसमन्वितः ॥१३
ब्रह्मादिभिस्साकं श्रीनिवासस्य वियद्राजपुरागमनम्
ब्रह्मेशवज्रिवरुणयमयक्षेश सेवितः
वसिष्ठाद्यैर्मुनीन्द्रैश्च सनकाद्यैश्च योगिभिः ॥१४
भक्तैर्भागवतैर्युक्तो नारायणपुरीं ययौ
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥१५
देवदुन्दुभयो नेदुः तदा देवस्य सन्निधौ
जपन्तः स्वस्तिसूक्तानि मुनयस्तं समन्वयुः ॥१६
देवो देवगणैर्युक्तो विष्वक्सेनादिपार्षदैः
सखीभिस्स्यन्दनस्थाभिः वकुलाद्याभिरन्वितः
आकाशराजस्य पुरमाससाद स्वलङ्कृतम् ॥१७
पद्मावतीपरिणयघट्टः
देवमागतमालोक्य कन्यामैरावतस्थिताम्
पुरीं प्रदक्षिणीकृत्य गोपुरद्वारमागताम् ॥१८
आलोक्याऽऽकाशराजोऽपि समानीय वधूवरौ
बन्धुभिः सहितस्तस्थौ देवमालोक्य केशवम् ॥१९
विष्णुर्मालां स्वकण्ठस्थां हस्तेनाऽऽदाय सस्मितः
कमलायाः स्कन्धदेशे मुमोच सुमनश्चिताम् ॥२०
आदाय मल्लिकामालां साऽस्य कण्ठे समर्पयत्
एवं त्रिवारं तौ कृत्वा वाहनादवरुह्य च ॥२१
स्थित्वा पीठे क्षणं पश्चात् गृहं विविशतुः शुभम्
ब्रह्मादिदेवयूथैश्च सहितौ भूमिजाहरी ॥२२
माङ्गल्यसूत्रबन्धादि साज्कुरार्पणमब्जजः
वैवाहिकं कारयित्वा लाजहोमान्तमेव च ॥२३
व्रतादेशं समाज्ञाय शायितौ कमलाहरी
चतुर्थे दिवसे सर्वं समापय्य चतुर्मुखः ॥२४
अनुज्ञाप्य वियद्राजमारोप्य गरुडे हरिम्
देवीभ्यां सहितं देवं देवैर्गन्तुं प्रचक्रमे ॥२५
दिव्यदुन्दुभिनिर्घोषैः सम्प्राप्य वृषभाचलम्
तुष्टुवुर्देवदेवेशं ब्रह्मा ऽऽद्या देवतागणाः ॥२६
शुकादयो मुनिगणाः तुष्टुवुः पुरुषोत्तमम्
स्तूयमानोऽथ देवोऽपि विवेश मणिमण्डपम्
रमाधरणिजाभ्याञ्च तत्र सिंहासनं ययौ ॥२७
श्रीवाराहपुराणे द्वितीयभागे अष्टमोऽध्यायः
[[206207]]
वधूवरयोर्वियद्राजवितीर्णप्राभृतादिकम्
आकाशराजोऽपि तदा महेन्द्रादिसुरैः सह
पुत्रीविष्ण्वोः प्रियार्थन्तु प्राभृतं कर्तुमुद्यतः ॥२८
सौवर्णेषु कटाहेषु तण्डुलान् शालिसम्भवान्
मुद्गपात्राण्यनेकानि घृतकुम्भशतानि च ॥२९
पयोघटसहस्राणि दधिबाण्डान्यनेकशः
दिव्यानि चूतकदलीनारिकेलफलानि च ॥३०
धात्रीफलानि कूष्माण्डराजरम्भाफलानि च
पनसान् मातुलुङ्गांश्च शर्करापूरितान् घटान् ॥३१
सुवर्णमणिमुक्ताश्च क्षौमकोट्यम्बराणि च
दासीदाससहस्राणि कोटिशो गास्तथैव च ॥३२
हंसेन्दुशुक्लवर्णानां हयानामयुतं ददौ
तुङ्गानां नित्यमत्तानां गजानामधिकं शतात् ॥३३
अन्तःपुरचरा नारीः नृत्तगीतविशारदाः
ददौ चतुःसहस्राणि श्रीनिवासाय विष्णवे ॥३४
दत्त्वा चैतानि सर्वाणि तस्थौ देवपुरो विभुः
श्रीनिवासकृपया वियद्राजस्य भक्तिप्राप्तिरूपवरप्राप्तिः
दृष्ट्वा देवोऽपि तत्सर्वं देवीभ्यां सहितो हरिः ॥३५
सुप्रीतः प्राह राजानं श्वशुरं वेङ्कटेश्वरः
वरं वृणीष्व हे राजन्! गुरो मत्तो यदिच्छसि ॥३६
इति श्रीशवचः श्रुत्वा वियद्राजोऽवदद्विभुम्
त्वत्सेवैवेह देवैवं भूयादव्यभिचारिणी
मनस्त्वत्पादकमले त्वयि भक्तिर्ममास्तु वै ॥३७
श्रीभगवान् -
त्वया यदुक्तं राजेन्द्र सर्वमेतद्भविष्यति
इति दत्त्वा वरं तस्मै सम्मान्यैव यथोचितम् ॥३८
विवाहार्थमागतानां ब्रह्मादीनां स्वावासगमनम्
ब्रह्मेशादिसुरान् सर्वान् समभ्यर्च्य यथोचितम्
स्वर्लोकगमानायैवमनुमेने मुदा हरिः
गतेषु तेषु सर्वेषु श्रिया भूमिजया युतः ॥३९
विहरन् स यथापूर्वं स्वामिपुष्करिणीतटे
आस्त्ते दिव्यालये देवोऽप्यर्च्यमानो गुहेन वै ॥४०
इति श्रीवाराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उतरार्धे ब्रह्मादिभिः साकं श्रीनिवासस्य
वियद्राजपुरगमनकमलालयापरिणयादिवर्णनं नाम
अष्टमोऽध्यायः
श्रीवाराहपुराणे द्वितीयभागे अष्टमोऽध्यायः
[[208209]]
नवमोऽध्यायः
अथ नवमोऽध्यायः
वसुनामकनिषादवृत्तान्तः
धरणी–
कलौ युगे भूमिधरः केन त्वं द्रक्ष्यसे प्रिय!
विमानं केन ते देव कार्यतेऽस्मिन् महीधरे ॥१
श्रीनिवासोऽपि केनैव द्रक्ष्यते सुभगाकृतिः
एतद् ब्रूहि मम प्रीत्या श्रोतुं कौतूहलं विभो ॥२
श्रीवराहः-
वक्ष्यामि शृणु हे देवि भविष्यद्यद्वदामि ते
अस्मिन् महीधरे पुण्ये निषादो वसुनामकः ॥३
श्यामाकवनपालोऽभूत् भक्तिमान् पुरुषोत्तमे
श्यामाकतण्डुलान् पक्त्वा मधुना परिषिच्य च ॥४
निवेद्य देवदेवाय श्रीभूमिसहिताय च
एवं भक्तिमतस्तस्य भार्या चित्रवती शुभा ॥५
असूत तनयं बाला वीरनामानमुत्तमम्
वसुः पुत्रेण सहितो भार्यया पतिभक्तया ॥६
कस्मिंश्चिद्दिवसे पुत्रं श्यामाकं पालयेति च
विसृज्य पत्न्या सहितो मध्वन्वेषणतत्परः ॥७
गतो वनान्तरं शीफ्रुं मधुच्छत्रदिदृक्षया
बालः श्यामाकपक्वानि गृहीत्वाऽग्नौ निधाय च ॥८
पिष्ट्वा निवेदयामास वृक्षमूले श्रियःपतेः
नैवेद्यं भक्षयित्वैव वीरस्त्वास सुखेन वै ॥९
तदन्तरे वसुश्चापि मध्वादाय समागतः
श्यामाकान् भक्षितान् दृष्ट्वा सन्तर्ज्य सुतमात्मनः
खड्गमादाय तं हन्तुं त्वरया हस्त्तमुद्दधौ ॥ १०
भेस्सुतहननोद्युक्तं वसुं प्रति भगवदुक्तिः
तद्वृक्षस्थस्तदा विष्णुः खड्गं जग्राह पाणिना
खड्गं गृहीतं केनेति पश्यन् वृक्षं ददर्श सः ॥११
शङ्खचक्रगदापाणिं वृक्षगूढार्धविग्रहम्
मुक्त्वा वसुश्च तं खड्गं प्रणम्योवाच केशवम्
’’किमिदं देवदेवेश चेष्टितं क्रियते त्वया ? ॥१२
श्रीभगवान् -
’’वसो! शृणु वचो मे त्वं पुत्रस्ते भक्तिमान् मयि
त्वत्तोऽपिमे प्रियतमः तस्मात् प्रत्यक्षमागतः ॥१३
तस्य सर्वत्र तिष्ठामि तव स्वामिसरस्तटे ’’
इति देववचः श्रुत्वा प्रीतिमानभवद्वसुः ॥१४
एतस्मिन्नेव काले तु पाण्ड्यदेशात् समागतः
बाल्यात्प्रभृति शूद्रोऽपि विष्णुभक्तिसमन्वितः ॥१५
रङ्गदासस्य श्रीनिवाससेवार्थं श्री शेषाचलगमनम्
नारायणपुरीं प्राप्य श्रीवराहं प्रणम्य च
तत्र श्रुत्वा श्रीनिवासं वेङ्कटाद्रिनिवासिनम् ॥१६
स्वयम्भूदेवदेवेशसेवितं प्रययौ ततः
सुवर्णमुखरीं प्राप्य स्नात्वा चोत्तीर्य तत्तटे ॥१७
श्रीवाराहपुराणे द्वितीयभागे नवमोऽध्यायः
[[210211]]
कमलाख्ये सरसि च स्नात्वा पुण्यप्रदायिनि
तत्तीरवासिनं देवं कृष्णं रामेण संयुतम् ॥१८
नमस्कृत्य ततः प्रायात् वनं गजघटायुतम्
शनैः सव्प्रूप्य शेषाद्रिं र्झरं सन्ददर्श ह ॥१९
तत्समीपं समासाद्य कपिलापूजितं शिवम्
तत्सरश्चक्रतीर्थं तदगाधं वैखानसेन च ॥२०
तत्र स्नात्वा ततो गच्छत् वेङ्कटाद्रिं शनैः शनैः
आराद्धुं गच्छता मार्गे युक्तो वैखानसेन च ॥२१
रङ्गदासस्त्वारुरोह बालो द्वादशवार्षिकः
स्वामिपुष्करिणीं प्राप्य स्नात्वा भक्तिसमन्वितः ॥२२
वैखानसेन मुनिना गोपिनाथेन पूजितम्
वनमध्ये तरोर्मूले स्वामिपुष्करिणीतटे ॥२३
तिष्ठन्तं पुण्डरीकाक्षं श्रीभूमिसहितं हरिम्
आकाशस्थं सन्ददर्श पीतनीलाकृतिं शुभम् ॥२४
पार्श्वस्थशङ्खचक्राभ्यां गदासिभ्यां निषेवितम्
पक्षौ विस्तार्य चाकाशे देवमूर्ध्नि वितानवत्
स्थितञ्च गरुडेशानं पश्चाच्छार्ङ्गं शरं तथा ॥२५
एवं दृष्ट्वा श्रीनिवासं विस्मितो रङ्गदासकः
अस्य देवस्य चारामं करिष्यामीत्यचिन्तयत् ॥२६
निश्चित्य मनसा सर्वं तरुमूलेऽवसत् सुधीः
कृत्वा वैखानसाद्विष्णोः नैवेद्यञ्च दिने दिने ॥२७
शनैश्चित्वा वनं घोरं वृक्षांश्चिच्छेद पार्श्वगान्
आस्थानचिञ्चां देवस्य रमायाश्चम्पकं तरुम् ॥२८
देवाऽज्ञप्तो वर्जयित्वा तावुभौ देवसेवितौ
देवस्य परितो भूमौ शिलाकुड्यं तदाऽकरोत् ॥२९
तत्कुड्यस्यैव परितः पुष्पारामांश्चकार ह
मल्लिकाकरवीराब्जकुन्दमन्दारमालतीः ॥३०
तुलसीचम्पकानाञ्च वनान्येव चकार ह
खनित्वा तत्र कूपं तु वर्धयंस्तज्जलैर्वनम् ॥३१
आरामपुष्पाण्यादाय स्वयं दामान्यथाकरोत्
विचित्राणि तदा बद्ध्वा पूजकस्य करे ददौ ॥३२
आदाय पूजकस्तानि स्कन्धे मूर्ध्नि बबन्ध च
श्रीनिवासस्य देवस्य श्रीभूमिसहितस्य च ॥३३
एवं देवस्य कैङ्कर्यं कुर्वंस्तस्थावुदारधीः
तस्यैव वर्तमानस्य समास्त्वासप्ततेर्गताः
कुर्वाणे पुष्पापचयं रङ्गदासे महात्मनि ॥३४
रङ्गदासस्य गन्धर्वक्रीडादर्शनेन भगवत्कैङ्कर्यविस्मृतिः
आरामे सरसि स्नातुं गन्धर्वः कश्चिदाययौ
गन्धर्वराजःकन्याभिः तरुणीभिः समन्वितः ॥३५
जलक्रीडां करोति स्म दिवि स्थाप्य विमानकम्
सुरूपाभिश्च सहितं क्रीडन्तं कमलाकरे ॥३६
श्रीवाराहपुराणे द्वितीयभागे नवमोऽध्यायः
[[212213]]
पश्यन् श्रीरङ्गदासोऽयं व्यस्मरन्माल्यसञ्चयम्
जितेन्द्रियोऽपि तत्क्रीडां पश्यन् रेतः ससर्ज ह ॥३७
पश्यतस्तस्य सरसः समुत्तीर्य मनोहरः
दिव्यवस्त्राणि चाच्छाद्य कान्ताभिः सह सस्मितम् ॥३८
अधिरुह्य विमानं तु ययौ स धनदालयम्
गते गन्धर्वराजे तु रङ्गदासो विमोहितः ॥३९
त्यक्त्वा च तानि माल्यानि स्नात्वा सरसि लज्जितः
पुनराहृत्य पुष्पाणि शनैर्देवालयं ययौ ॥४०
वैखानसस्तु तं दृष्ट्वा पूजाकालमतीत्य च
आगतं किमिति प्राह ’’सखेऽतिक्रम्य चागतः
न बद्धा मालिकाश्चापि त्वयाऽऽरामे च किं कृतम्’’॥ ४१
श्रीवराहः-
इत्थं पृष्टो रङ्गदासो नावदल्लज्जया ततः
लज्जितं रङ्गदासं तं प्रोवाच मधुसूदनः ॥४२
स्वरूपानुसन्धानेन लज्जितं रङ्गदासं प्रति श्रीनिवासवचनम्
श्रीभगवान् -
लज्जया किं रङ्गदास! मया त्वं मोहितो ह्यसि
न तावज्जितकामस्त्वं धीरो भव महामते ॥४३
गन्धर्वराजवद्राजा भविताऽसि महीतले
तत्र भुक्त्वा महाभोगान् भक्तिमान्मयि सर्वदा ॥४४
प्राकारञ्च विमानञ्च कारयिष्यसि मे तदा
तत्र मुक्तिं प्रदस्यामि प्रीत्या परमया युतः ॥४५
अत्रैव कुरु सेवां त्वं अशरीरविमोक्षणात्
मद्भक्तानां सकामानामेवं मुक्तिर्भविष्यति ’’ ॥४६
इत्युक्त्वा भगवान् विष्णुः पुनर्नोवाच किञ्चन
श्रुत्वा तद्रङ्गदासोऽपि चकाराऽऽराममुत्तमम् ॥४७
तॊण्डमान्नामकनृपवृत्तान्तः
साग्रं शताब्दं सेवित्वा गतः स्वर्गममन्दधीः
जातः सोमकुले तुङ्गे ’तॊण्डमा’ निति विश्रुतः ॥४८
सुवीरतनयो वीरो नन्दिनीगर्भसम्भवः
स पञ्चवर्षादुद्भूतविष्णुभक्तिः स्वयं सुधीः
स पञ्च वर्षादुद्भूतविष्णुभक्तः स्वयं सुधीः ॥४९
सौशील्य शौर्या वीर्यादिगुणा नामाकरो महान्
पाण्ड्यस्य तनयां पद्मां उपयेमे मनोहराम्
ततो राजा शतं कन्या नानादेश्याः स्वयंवराः ॥५०
रेमे देवेन्द्रवद्भूमौ नारायणपुरे वसन्
अनुज्ञां प्राप्य पितृतः पुत्रः पञ्चास्यविक्रमः
उद्दिश्य मृगयां वीरो वेङ्कटाद्रेः समीपतः ॥५१
तॊण्डमान्नृपस्य मृगयार्थं श्रीशेषाचलगमनम्
पादचारेण विचरन् परिवारैः समन्वितः
मदधारां विमुञ्चन्तं ददर्श गजयूथपम् ॥५२
श्रीवाराहपुराणे द्वितीयभागे नवमोऽध्यायः
[[214215]]
तं दृष्ट्वा विस्मितो भूत्वा ग्रहीतुं तमनुद्रुतः
सुवर्णमुखरीं तीर्त्वा ब्रह्मर्षिं शुकमुत्तमम् ॥५३
नमस्कृताभ्यनुज्ञातः ततो गच्छद्वनाद्वनम्
ददर्श रेणुकां देवीं वल्मीकाकारसंस्थिताम् ॥५४
इष्टदामिष्टभक्तानां दिव्यारामनिवासिनीम्
परिवारैः सदोपेतां पूजितां त्रिदशैरपि
तॊण्डमानपि तां नत्वा ततः पश्चान्मुखो ययौ ॥५५
श्रीनिवाससमीपस्थपञ्चवर्णशुकवृत्तान्तः
पञ्चवर्णं शुकं दृष्ट्वा तं जिघृक्षुरनुद्रुतः
स वदन् ’’श्रीनिवासे’’ ति गिरं शीफ्रुतरं ययौ ॥५६
अनुद्रवन् स राजाऽपि गिरिराजं समारुहत्
दरीश्च विविधाः पश्यन् शिखराणि समन्ततः ॥५७
शुकमन्वेषमाणोऽसौ श्यामाकवनमेयिवान्
तमदृष्ट्वा शुकवरं वनपालं ददर्श ह ॥५८
तं तु राजा समायान्तं प्रत्युद्गच्चन् स सत्वरः
प्रणम्य विनयोपेतः कृताञ्जलिपुटः स्थितः ॥५९
तॊण्डमानपि सम्पूज्य तं पप्रच्छ वनेचरम्
पञ्चवर्णः शुकः कश्चित् दृष्टश्चात्राऽगतस्त्वया
श्रीनिवासेति च वदन् क्व गतोऽसौ वनेचर? ॥६०
वनचरः -
स पञ्चवर्णो राजेन्द्र श्रीनिवासप्रियः सदा
पार्श्ववर्ती सदा तस्य श्रीभूमिभ्यां विवर्धितः ॥६१
स्वामिपुष्करिणीतीरे सदाऽऽन्ते देवसन्निधौ
ग्रहीतुं स शुकः श्रीमान् न तु केनापि शक्यते ॥६२
विहृत्य स्वेच्छया नित्यमस्मिन् गिरिवरे शुभे
दिनान्ते देवमासाद्य तत्समीपे वसत्ययम् ॥६३
तं देवमाराधयितुं गमिष्यामि नृपात्मजः
विश्रम्यतां वृक्षमूले यावदागमनं मम
पुत्रेणानेन सहितो विहर त्वं यथासुखम् ॥६४
राजा–
त्वया सहाऽऽगमिष्यामि द्रष्टुं देवं जनार्दनम्
त्वं मे दर्शय देवेशं वेङ्कटाद्रिनिवासिनम् ॥६५
तस्य राङ्ञो वचः श्रुत्वा श्यामाकं मधुमिश्रितम्
चूतपत्रपुटे क्षिप्त्वा राज्ञा सह ययौ हरिम् ॥६६
तॊण्डमान्नृपस्य निषादेन सह श्रीनिवाससेवागमनम्
गत्वा सुदूरमध्वानं पश्यन्तौ तौ शिलातलम्
मुहूर्तादेव सव्प्रूप्तौ स्वामिपुष्करिणीं शुभाम् ॥६७
स्नात्वा तत्र विधानेन राज्ञा सह निषादपः
दर्शयामास देवेशं राज्ञस्तस्य महात्मनः ॥६८
श्रीवाराहपुराणे द्वितीयभागे नवमोऽध्यायः
[[216217]]
स्वामिपुष्करिणीतीरे स्थिते श्रीवृक्षमूलके
अतसीपुष्पसङ्काशं अम्बुजायतलोचनम् ॥६९
चतुर्भुजमुदाराङ्गं ईषत्स्मितमुखाम्बुजम्
दिव्यपीताम्बरधरं किरीटकटकोज्ज्वलम् ॥७०
पार्श्वस्थाभ्यां सुरूपाभ्यां श्रीभूमिभ्यां समन्वितम्
परितः शङ्खचक्रासिगदाशार्ङ्गेषु सेवितम् ॥७१
अन्यैर्दिव्यायुधैश्चापि दिव्यमाल्यैर्निषेवितम्
स्कन्देनाराध्यमानं तं त्रिसन्ध्यं पुरुषोत्तमम् ॥७२
वल्मीकगूढपादाब्जं आजानुपुरुषोत्तमम्
ततो दृष्ट्वा मुदा देवं प्रणेमतुरुभौ तदा ॥७३
राजा तु प्राञछलिर्भूत्वा विस्मयोत्फुल्ललोचनः
आनन्दलहरीं प्राप्य न प्राज्ञायत किञ्चन ॥७४
निषादोऽपि निवेद्यैव श्यामाकं मधुमिश्रितम्
राज्ञे तदर्थं दत्वैव शिष्टार्धं भुक्तवान् स्वयम् ॥७५
पीत्वा पुष्करिणीतोयं तेन राज्ञा समन्वितः
स पुनः श्यामाकवने पुण्यां पर्णकुटीं ययौ ॥७६
उषित्वा चैकरात्रन्तु प्रातरुत्थाय भूमिपः
स्वसैन्येन समायुक्तो निवृत्तः स्वपुरं ययौ ॥७७
तॊण्ततॊण्डमान्नृपं प्रति रेणुकोक्तिः
पुनर्देवीवनं गत्वा हयादवततार ह
चैत्रशुद्धनवम्यां तु पूजयामास रेणुकाम् ॥७८
हविष्यं परमान्नञ्च सोपस्करमनेकशः
पशूपहारसहितं धूपदीपसमन्वितम् ॥७९
सुराघटीशतं दत्वा जातीकेसरवासितम्
एवं सम्पूजिता देवी प्रीता राज्ञे वरं ददौ ॥८०
आविष्टः पुरुषः कश्चित् अवदन्नृपसत्तमम्
शृणु राजन् ! भविष्यं ते राज्यं निहतकण्टकम् ॥८१
राजंस्तवैव नाम्नाऽ त्र राजधानी भविष्यति
मत्समीपे महाराज! चिरं राज्यं करिष्यसि ॥८२
देवदेवप्रसादश्च भविष्यति तवानघ
इति दत्त्वा वरं तस्मै आविष्टः प्रकृतिं ययौ
ततो लब्धवरो राजा ययौ शुकमुनिं पुनः ॥८३
शुकवर्णितपद्मसरोवरमाहात्म्यम्
अभिवाद्य मुनिं तेन पूजितो मुदितोऽभवत्
माहात्म्यं सरसो ब्रूहि कमलाख्यस्य मे मुने! ॥८४
श्री शुकः-
पुरा दुर्वाससः शापात् अवतीर्णा सुरालयात्
पद्मा पद्माक्षदयिता विष्णुना सहिता नृप ॥८५
सरः काञ्चनपद्माढ्यं इदं प्राप्य महेश्वरी
तपश्चकार वर्षाणां दिव्यानामयुतं रमा ॥८६
ततो देवा विचिन्वन्तः श्रियं विष्णुसमन्विताम्
पुरन्दरेण संयुक्ता राजन्नस्मिन् सरोवरे ॥८७
श्रीवाराहपुराणे द्वितीयभागे नवमोऽध्यायः
[[218219]]
स्थितां सुवर्णकमले पुण्डरीकाक्षसंयुताम्
दृष्ट्वा प्रीतिसमायुक्ताः प्रणम्याम्बुजधारिणीम्
कृताञ्जलिपुटाः सेन्द्राः तुष्टुवुर्लोकमातरम् ॥८८
देवादिकृत श्रीलक्ष्मीस्तुतिः
देवाः-
नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः
नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥८९
प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥९०
विचित्रक्षौमधारिपृथुश्रोण्यै नमो नमः
पक्वबिल्वफलाऽपीनतुङ्गस्तन्यै नमो नमः ॥९१
सुरक्तपद्मपत्राभकरपादतले शुभे
सुरत्नाङ्गदकेयूरकाञ्चीसूपुरशोभिते
यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले ॥९२
माङ्गल्याभरणैश्चित्रैः मुक्ताहारैर्विभूषिते
ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे ॥९३
पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे
ऋग्यजुःसामरूपायै विद्यायै ते नमो नमः ॥९४
प्रसीदास्मान् कृपादृष्टिपातैरालोकयाब्धिजे
ये दृष्टास्ते त्वया ब्रह्मरुद्रेन्द्रत्वं समाप्नुयः ॥
इन्द्रादीन् प्रति स्तुतिप्रसन्न लक्ष्मी वचनम्
श्री शुकः-
इति स्तुता तदा देवैः विष्णुवक्षःस्थलालया
विष्णुना सह सन्दृश्या रमा प्रीताऽवदत्सुरान् ॥९५
श्रीः-
सुरारीन् सहसा हत्वा स्वपदानि गमिष्यथ
ये स्थानहीनाः स्वस्थानात् भ्रंशिता ये नरा भुवि ॥९६
ते मामनेन स्तोत्रेण स्तुत्वा स्थानमवाप्नुयुः !
अखण्डैर्बिल्वपत्रैर्मामर्चयन्ति नरा भुवि ॥९८
स्तोत्रेणानेन ये देवा नरा युष्मत्कृतेन वै
धर्मार्थकाममोक्षाणां आकरान्ते भवन्ति वै ॥९९
इदं पद्मसरो देवा ये केचन नरा भुवि
प्राप्य स्नानं करिष्यन्ति मां स्तुत्वा विष्णुवल्लभाम् ॥१००
तेऽपि श्रियं दीर्घमायुः विद्यां पुत्रा सुवर्चसः
लब्ध्वा भोगांश्च भुक्त्वाऽन्ते नरा मोक्षमवाप्नुयुः ॥ १०१
इति दत्त्वा वरं देवी देवेन सह विष्णुना
आरुह्य गरुडेशानं वैकुण्ठस्थानमाययौ ॥१०२
इति श्रीवाराहपुराणे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये उत्तरार्धे वसुनामकनिषादवृतान्त–
पद्मसरोवरमाहात्म्यादिवर्णनं नाम नवमोऽध्यायः
श्रीवाराहपुराणे द्वितीयभागे नवमोऽध्यायः
[[220221]]
दशमोऽध्यायः
अथ दशमोऽध्यायः
तॊण्डमान्नृपस्य स्वपितुः सकाशाद्राज्यप्राप्तिः
श्रीशुकः-
इदं पद्मसरो नाम पर्वपापप्रणाशनम्
कीर्तनात् स्मरणात् स्नानात् नॄणां लक्ष्मीप्रदं भुवि ॥१
कृत्वा स्नानं त्ममप्यस्मिन् व्रज स्वपितुरन्तिकम्
श्रीवराहः-
एतच्छुकवचः श्रुत्वा स्नात्वा पद्मसरोवरे ॥२
तं नत्वा हयमारुह्य तॊण्डमान् स्वपुरं ययौ
तं पिता युवराजानं कृत्वा त्रीन् वत्सरानथ ॥३
रञ्जकत्वं च सामर्थ्यं शौर्यं वीर्यं सुशीलताम्
भक्तिं विप्रेषु पुत्रस्य वीक्ष्य राजा स्वमन्त्रिभिः ॥४
स्वपदे स्थापयामास स्वभिषिच्य विधानतः
अनुनीय सुतं पत्न्या सार्धं राजा वनं ययौ ॥५
वसोर्वल्मीके श्रीवराहसन्दर्शनम्
तॊण्डमानपि साव्रूज्यं लब्ध्वा राज्यं चकार ह
निषादस्य वने देवो वाराहं रूपमास्थितः ॥ ६
श्यामाकपक्वं भक्षित्वा रात्रौ रात्रौ चचार ह
पदानि स वराहस्य चान्वियेष दिवा दिवा ॥७
अदृष्ट्वा तं वराहं स रात्रौ चचार ह
स्थितोऽपश्यत् चरन्तं तं चन्द्रकोटिसमप्रभम् ॥८
वराहं सुभगाकारं श्यामाकवनमध्यतः
तं दृष्ट्वा धनुरादाय सिंहनादं चकार ह ॥९
वराहस्तद्ध्वनिं श्रुत्वा वनान्निष्क्रम्य सत्वरम्
ययौ तं चाप्यनुययौ वराहं स निषादपः ॥१०
रात्रिशेषमनुद्रुत्य वने चन्द्रसमप्रभम्
वल्मीकं प्रविशन्तञ्च ददर्श स निषादपः ॥ ११
गच्छन्तं पूर्णिमाचन्द्रं अस्तं गिरिवरं यथा
विस्मितोऽखानयत् कोपात् वल्मीकं स निषादपः ॥१२
धरावराहो ददृशे मूर्छितोऽयं पपात ह
पितरं मूर्छितं दृष्ट्वा तत्पुत्रो भक्तिमांस्तदा ॥१३
वराहदेवं तुष्टाव येन प्रीतो भवेद्धरिः
आविश्य पितरं तस्य प्रोवाच मधुसूदनः ॥१४
श्री भगवान्-
अहं वराहदेवेशो नित्यमस्मि वसाम्यहम्
राज्ञे त्वमुक्त्वा मामत्र प्रतिष्ठाप्यैव पूजय ॥१५
वल्मीकं कृष्णगोक्षीरैः क्षालयित्वा तदुत्थिते
शिलातले च वाराहमुद्धृत्य धरणीस्थितम् ॥१६
कारयित्वा प्रतिष्ठाप्य विप्रैर्वैखानसैश्च माम्
पूजयेद्विविधैर्भोगैः तॊण्डमान् राजसत्तमः ॥१७
श्रीवाराहपुराणे द्वितीयभागे दशमोऽध्यायः
[[222223]]
इत्युक्त्वा तं जहौ देवः स च स्वस्थो बभूव ह
सुखासीनस्तु पितरं नमस्कृत्य निषादजः ॥१८
न्यवेदयद्देववचः पित्रे सर्वं यथातथम्
स श्रुत्वा विस्मितो भूत्वा कृत्स्नं पुत्रवचः शुभम् ॥१९
तॊण्डमान्नृपाय वसुनिवेदितवराहोदन्तः
राज्ञे वक्तुं ययौ शीफ्रुं निषादः स्वानुगैः सह
वसुर्निषादाधिपतिः राजद्वारमुपागतम् ॥२०
निषादाधिपमाज्ञाय द्वारपालैर्नृपोत्तमः
आहूय तं निषादेशं सभायां मन्त्रिभिः सह ॥२१
सत्कृत्य तं वसुं राजा सपुत्रं सपरिच्छदम्
पप्रच्छ प्रीतिमान् राजा वसुं तं वनगोचरम् ॥२२
किमागमनकृत्यं ते वद त्वं वनगोचर
वसुः-
राजन् मम वने दृष्टं आश्चर्यं शृणु भूपते ! ॥२३
कश्चित् श्वेतवराहस्तु श्यामाकमचरन् निशि
तं वराहं धनुष्पाणिः अन्वधावमहं नृप! ॥२४
अनुद्रुतो वायुवेगो गत्वा वल्मीकमाविशत्
स्वामिपुष्करिणीतीरे पश्यतो मम भूपते ॥२५
वल्मीकमखनं क्रोधात् मूर्छितो न्यपतं भुवि
मत्पुत्रोऽयं समागत्य मां दृष्ट्वा मूर्छितं भुवि ॥२६
शुचिर्भूत्वा देवदेवं तुष्टाव मधुसूदनम्
ततो मयि समाविश्य वराहोऽप्यवदत्सुतम् ॥२७
राज्ञे निवेदय क्षिप्रं मच्चरित्रं निषादपः
कृष्णगोक्षीरसेकेन वल्मीकं क्षालयेन्नृपः ॥२८
दृश्यते च शिला काचित् वल्मीकस्था सुशोभना
वामाङ्कस्थभुवं मां च वराहवदनं स्थितम् ॥२९
कारयित्वा शिल्पिनाऽथ प्रतिष्ठाप्य मुनीश्वरैः
वैखानसैर्मुनिवरैः अर्चयेत् तॊण्डमानपि ॥३०
अथ गत्वा श्रीनिवासं वल्मीकावृतपद्द्वयम्
कपिलाकृष्णगोक्षीरसेचनैः क्षालयेच्छनैः ॥३१
आपादपीठपर्यन्तं क्षालयित्वा दिने दिने
कुर्यात् प्राकारमुभयोः उत्तरे दक्षिणे तथा ॥३२
इत्युक्त्वा चैवमामुञ्चद्देवः स्वस्थोऽभवं नृप
इदं ते वक्तुमायातो देवदेवचिकीर्षितम् ॥३३
नृपस्य निषादवाक्यस्वप्नाभ्यां बिलमार्गेण शेषाचलगमनम्
श्रीवराहः-
तॊण्डमानपि तच्छुृत्वा सुप्रीतो विस्मितोऽभवत्
ततः कार्यं विनिश्चित्य मन्त्रिभिः पुष्करादिभिः ॥३४
वेङ्कटाद्रिं जिगमिषुः गोपानाहूय सर्वशः
कृष्णाश्च कपिला गावो याः काश्चित्सन्ति मामिकाः ॥३५
श्रीवाराहपुराणे द्वितीयभागे दशमोऽध्यायः
[[224225]]
ताः सवत्सा आनयध्वं वेङ्कटाद्रिसमीपतः
इत्याज्ञप्य नृपो गोपान् श्वो यात्रेति च मन्त्रिणः ॥३६
विसृज्य प्रकृतीः सर्वाः विवेशान्तःपुरं वशी
उक्त्वा कथां तां पत्नीभ्यः सुष्वाप निशि पार्थिवः ॥३७
तं स्वप्ने श्रीनिवासोऽपि बिलमार्गं ह्यदर्शयत्
स्वपुरादाबिलं मार्गे पल्लवानसृजद्धरिः ॥३८
एवं स्वप्नं नृपो दृष्ट्वा प्रातरुत्थाय सत्वरः
आहूय मन्त्रिणः सर्वान् प्रकृतीर्ब्राह्मणानपि ॥३९
स्वप्नं तथाविधं चोक्त्वाऽपश्यत् द्वारेऽथ पल्लवम्
युक्ते मुहूर्ते प्रययौ हयमारुह्य तॊण्डमान् ॥ ४०
पश्यंश्च पल्लवान् गाश्च शनैः प्रीतो ययौ बिलम्
दृष्ट्वा विस्मयमापन्नो निर्ममे तत्र पत्तनम् ॥४१
भगवदुक्त्या तॊण्डमान्नृपकृतक्षीराभिषेकवप्रनिर्माणादिकम्
बिलमन्तः पुरे कृत्वा प्राकारं चाप्यकारयत्
वसंस्तत्र नृपेन्द्रोऽसौ निर्जित्य पृथिवीमिमाम् ॥४२
यथोक्तं देवदेवेन क्षीरप्रक्षालनादिकम्
कृत्वा प्राकारनिर्माणं कर्तुमुद्योगमाययौ ॥४३
तदानीं देवदेवेन स्वयमाज्ञापितो नृपः
तिन्त्रिणीं चम्पकं चोभौ पालयैतौ नगोत्तमौ ॥४४
मम चास्थानिकी चिञ्चा लक्ष्म्याः स्थानञ्च चम्पकः
नमस्कार्यौ नृपैस्तौ हि ऋषिदेवनरैः सदा ॥४५
संस्थाप्यैतौ नृपश्रेष्ठ छेदयान्यान् नगोत्तमान्
प्राकारमात्रं कुरु मे द्वारगोपुरसंयुतम् ॥४६
विमानं तु भवद्वंश्यो नाम्ना नारायणो नृपः
कारयिष्यति मद्भक्तः स्वर्णेनालङ्करिष्यति
एवमुक्त्वा तॊण्डमानं विरराम श्रियः पतिः ॥४७
श्रीवराहः-
एवं देववचः श्रुत्वा कृत्वा प्राकारमेव च
पूजयामास मुनिभिः वैखानसकुलोद्भवैः ॥४८
नित्यं बिलेन चागत्य देवं नत्वा नृपोत्तमः
राज्यं चकार धर्मेण भुञ्जानो भोगमुत्तमम्
एतस्मिन्नेव काले तु दाक्षिणात्यो द्विजोत्तमः ॥४९
गङ्गस्नानागतवीरशर्माख्यविप्रचरित्रम्
गङ्गास्नानाय गच्छन्वै सदारः प्रययौ पुरात्
मार्गेऽथ गर्भिणी जाता ब्राह्मणी ब्राह्मणः स च ॥५०
तां तु गर्भवतीं दृष्ट्वा स्वात्माऽनुगमनेऽक्षमाम्
राजानं द्रष्टुकामोऽसौ राजद्वारमुपागमत् ॥५१
द्वाःस्थेन ज्ञापितो राजा तमाहूय द्विजोत्तमम्
पूजयित्वा तु विधिवत् पप्रच्छ कुशलं द्विजम् ॥५२
श्रीवाराहपुराणे द्वितीयभागे दशमोऽध्यायः
[[226227]]
राजा-
किमागमनकृत्यं ते किं करिष्याम्यहं द्विज ॥५३
द्विजः-
वासिष्ठो वीरशर्माऽहं सामवेदी नृपोत्तमः
सदारो निर्गतो राजन् गङ्गास्नानाय सादरः
मार्गे च गर्भिणी चेयं कौशिकी पुण्यशालिनी ॥५४
नाम्ना लक्ष्मीरिति ख्याता सुशीला च पतिव्रता
स्थाप्य चैनां तव गृहे व्रतं निर्वर्तयाम्यहम् ॥५५
तस्माद्राजन् प्रयच्छान्यै यथेष्टं भक्तवेतने
तावच्च रक्ष्यतां लक्ष्मीः यावदागमनं मम ॥५६
श्रीवराहः-
राजा तस्य वचः श्रुत्वा तण्डुलानि धनान्यपि
दत्त्वा षण्मासपर्यन्तं गृहमन्तःपुरे ददौ ॥५७
तां न्यस्य ब्राह्मणः प्रीतो गङ्गास्नानाय निर्ययौ
गत्वा भागीरथीं गङ्गां प्रयागे क्षेत्र उत्तमे ॥५८
स्नात्वा काशीं ततो गत्वा तत्रोषित्वा दिनत्रयम्
गयां प्राप्य पितृश्राद्धं अकरोत् ब्राह्मणोत्तमः ॥५९
गत्वाऽयोध्यामपि पुरीं प्रययौ बदरीवनम्
सालग्रामं ततो गत्वा स्वदेशं प्रति निर्ययौ ॥६०
संवत्सरद्वयेऽतीते चैत्रे मासि शुभे दिने
निवृत्तोऽसौ द्विजश्रेष्ठः शनैरागत्य माधवे ॥ ६१
एकादश्यां शुक्लपक्षे पुना राजानमाययौ
राजा तु विस्मृत्य तदा ब्राह्मणीं नास्मरन्नृपः ॥६२
ब्राह्मणी मानिनी गेहे मृता शुष्का बभूव ह
वीरशर्मा ततो विप्रो गङ्गतोयकरण्डके ॥६३
विमुच्य बन्धनं त्वेकं गाङ्गं तु करकं शुभम्
प्रदाय राज्ञे पप्रच्छ पत्नी कुशलिनीति मे ॥६४
स्मृत्वाऽथ राजा विप्रं तं स्थीयतामिति चाब्रवीत्
अन्तःपुरं ततो गत्वा तामपश्यनृतां गृहे ॥६५
अनुक्त्वा ब्रह्मणे तस्मै प्रविश्य च बिलोत्तमम्
श्रीनृसिंहं नमस्कृत्य पुनः प्राप्य बिलोत्तमम् ॥६६
श्रीनिवासं ययौ द्रष्टुं श्रीभूमिसहितं परम्
तं दृष्ट्वा सहसाऽऽयान्तं जुगूहाते धरारमे ॥६७
प्रणमन्तमवोचत् तं किमकाले नृप आगतः ?
नृपोऽवदत् प्रणम्येशं भीतोऽथ ब्राह्मणीं मृताम् ॥ ६८
अस्थिसरोवरमाहात्म्यम्
तच्छुृत्वा देवदेवोऽपि मा भी राजन् द्विजोत्तमात्
आन्दोलिकां तामारोप्य स्त्रीभिः स्वाभिः समन्विताम् ॥६९
मदालयात् पूर्वभागे द्वादश्यां स्नापय प्रभोः
अस्थिनाम्नि सरस्यस्मिन् अपमृत्युनिवारणे ॥७०
प्राप्तजीवा समं स्त्रीभिः ब्राह्मणेन च योक्ष्यते
शीफ्रुं याहि नृपश्रेष्ठ यथोक्तं वचनं कुरु ॥७१
श्रीवाराहपुराणे द्वितीयभागे दशमोऽध्यायः
[[228229]]
इति देववचः श्रुत्वा प्रययौ स्वपुरं नृपः
आन्दोलिकासु रम्यासु स्त्रिय आरोप्य तामपि ॥७२
ब्राह्मणञ्च पुरस्कृत्य द्रष्टुं देवं ययौ नृपः
अस्थिकूटसरः प्राप्य स्नापयामास ताः स्त्रियः ॥७३
त्वगस्थिरूपा सा चापि ताभिः क्षिप्ता सरोवरे
प्राप्तजीवा यथापूर्वं सुव्यञ्जितशरीरजा ॥७४
उत्थिता सरसः स्नात्वा राज्ञीभिः सह मङ्गला
प्राप्ता च ब्राह्मणं प्रीता भर्तारं पुनरागतम् ॥७५
राजा हरिं पूजयित्वा ब्राह्मणाय धनं ददौ
सहस्रनिष्कपर्यन्तं वस्त्राणि विविधानि च ॥७६
स्वदेशगमनायैव सादरं विससर्ज ह
विप्रः श्रुत्वा स्त्रियो वृत्तं प्रभावं वेङ्कटेशितुः ॥७७
आशीः प्रयुज्य राज्ञेऽथ स्वदेशं प्रययौ द्विजः
विप्रे गते श्रीनिवासो राजानं पुनरब्रवीत् ॥७८
दिने दिने च मध्याह्ने नैवेद्यानन्तरं नृपः
आगत्य मामर्चयित्वा यथेष्टं स्वर्णपङ्कजैः ॥७९
गत्वा पुरीं स्वधर्मेण राज्यं कुरु नराधिप
यद्यदिष्टं तव नृप भविष्यति न संशयः ॥८०
नागन्तव्यमकाले तु त्वया नृप कदाचन
एवं कालार्चनं कृत्वा गत्वा त्वं स्वपुरे वस ॥८१
राजा-
तथा करिष्ये देवेश मध्याह्ने चार्चयाम्यहम्
इति देवाज्ञया नित्यमर्चय स्वर्णपङ्कजैः
तदूर्ध्वं तुलसीपुष्पं जात्वपश्यत् स मृण्मयम् ॥८२
कुर्वग्रामस्थकुलालवंशजभीमाख्यभक्तोदन्तः
विस्मितो देवदेवेशमपृच्छत् नृपसत्तमः ॥८३
राजा-
केनार्च्यसे मृण्मयैश्च कोमलैस्तुलसीसुमैः
राज्ञा पृष्टो देवदेवः स्मृत्वा राजानमब्रवीत्
कश्चित्कुलालो मद्भक्तः कुर्वग्रामे वसत्यसौ ॥८४
स्वगृहेऽर्चयते राज! तदङ्गीक्रियते मया
इति देववचः श्रुत्वा तं द्रष्टुं प्रययौ नृपः ॥८५
गत्वा कुर्वपुरं तस्य कुलालस्य गृहं ययौ
राजानमागतं दृष्ट्वा प्रणम्यैवाग्रतः स्थितः ॥८६
स्थितं तं भीमनामानं पप्रच्छ नृपसत्तमः८७
तॊण्डमान्-
भीम पूजयसे देवं कथं वद कुलोत्तम!
श्रीवराहः-
पृष्टः प्राह कुलालोऽपि जातु जाने न चार्चनम्
केनोक्तं नृपतिश्रेष्ठ! कुलालोऽर्चयतीति हि ॥८८
श्रीवाराहपुराणे द्वितीयभागे दशमोऽध्यायः
[[230231]]
तॊण्डमान्-
देवेन श्रीनिवासेन ममोक्तं हि त्वदर्चनम्
स तु श्रुत्वा नृपवचः स्मृत्वा देववरं पुरा ॥८९
भीमः-
यदा प्रकाशिता पूजा यदा राजा समागतः
तॊण्डमांस्तेन संवादस्तदा मोक्षं गमिष्यसि
इति पूर्वं वरं देवो दत्तवान् वेङ्कटेश्वरः ॥९०
कुर्वग्रामस्थभीमाख्यभक्तस्य पत्न्या सह वैकुण्ठप्राप्तिः
इत्युक्त्वाऽथ कुलालोऽपि पत्न्या सार्धं तदैव च
विमानमागतं दृष्ट्वा देवं दृष्ट्वा जनार्दनम् ॥९१
प्रणम्य प्रजहौ प्राणान् सदारो भक्तसत्तमः
पश्यतो राजराजस्य विमानमधिरुह्य च ॥९२
दिव्यरूपधरो देव्या सार्धं विष्णुपदं ययौ
दृष्ट्वा राजाऽद्भुतं तत्र स्वपुरं प्राप्य हर्षितः ॥९३
स्वपुत्रं श्रीनिवासाख्यं अभिषिच्य विधानतः
परिपालय धर्मेण मानवांश्च वसुन्धराम् ॥९४
इत्याज्ञप्य सुतं धीमांस्तताप परमं तपः
तप्यतस्तस्य देवोऽपि प्रत्यक्षमभवद्धरिः ॥९५
श्रीनिवासकृपया तॊण्डमान् नृपस्य सारूप्यप्राप्तिः
आरुह्य गरुडं देवो रमाभूमिसमन्वितः ॥९६
श्रीभगवान्-
किं करोमि नृपश्रेष्ठ तपसा तोषितस्तव
इत्युक्तो देवदेवेन तॊण्डमानपि राजराट् ॥९७
प्रीतिमान् प्राञ्जलिर्भूत्वा सगद्गदमुवाच ह
त्वल्लोके वस्तुमिच्छामि जरामरणवर्जिते ॥९८
इदमेव वरं देहि माधवैतन्ममेप्सितम्
श्रीवराहः-
इत्युक्त्वा निपपातोर्व्यां साष्टाङ्गं देवसन्निधौ
तदा कलेवरं मुक्त्वा विमानं त्वारुरोह च ॥९९
गन्धर्वैः स्तूयमानोऽसौ सारूप्यं प्राप्य शार्ङ्गिणः
यच्छोकमोहरहितं जरामरणवर्जितम्
पुनरावृत्तिरहितं तद्विष्णोः पदमाययौ ॥१००
एतन्माहात्म्यश्रवणपठनफलश्रुतिः
एतद्भविष्यं देवेशि मयोक्तं वरवर्णिनि
यः श्रावयेद्यः शृणुयात् विष्णुलोकं स गच्छति ॥१०१
श्री सूतः-
इत्युक्तां देवदेवेन सभविष्यां सहोत्तराम्
शृणुयाद्यः पठेद्भक्त्या कथां पुण्यां पुरातनीम्
स तु भुक्त्वा ऽखिलान् कामान् अन्ते विष्णुपदं व्रजेत् ॥
॥ हरिः ॐ ॥ तत्सत् ॥
श्रीवाराहपुराणे द्वितीयभागे दशमोऽध्यायः
[[232]]
इति श्रीवाराहपुराणे उत्तरार्धे भूगोलोपाख्याने धरणीवराहसंवादे
श्रीवेङ्कटाचलमाहात्म्ये भविष्यद्वर्णने तॊण्डमान् चक्रवर्ति चरितवर्णनं
नाम दशमोऽध्यायः.
इति श्रीवाराहपुराणान्तर्गत वेङ्कटाचलमाहात्म्यं
पूर्वभागोत्तरार्धात्मिकम्
सम्पूर्णम्.