०१ वाराहपुराणम् १

श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः

(श्री वाराहपुराणप्रथमभागान्तर्गतम्)
—–ठ्—–
श्रियः कान्ताय कल्याणनिधयेऽर्थिनाम्
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्री वेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम्
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
—–ठ्—–
हरिः ओम्

त्रयस्त्रिंशोऽध्यायः

अथ त्रयस्त्रिंशोऽध्यायः
—–ठ्—–
श्वेतवराहकल्पवृत्तान्तकथनम्
श्रीमते भूवराहाय नमः कृत्वा वसुन्धरा
उद्धृता येन पातालाद्वासार्थं सर्वदेहिनाम् ॥१
नमो यज्ञवराहाय कृष्णाय शतबाहवे
नमस्ते वेदवेदान्तवपुषे विश्वरूपिणे ॥२
मुनयः-
भगवन् सूत ! धर्मज्ञ वेदव्यासकृपानिधे
विष्णुस्थानेषु सर्वेषु स्वयंव्यक्तस्थलेषु च ॥३

[[23]]
यत्र विष्णोरतिप्रीतिर्यत्र सिद्ध्यन्ति सिद्धयः
अत्यद्भुतं च चारित्रं यत्र विष्णोः प्रवर्तते ॥४
मनुष्याणां च वसतां यत्र दृश्यो भवेद्धरिः
श्रवणानन्दजनको वृत्तान्तो यस्य वा भवेत् ॥५
तादृशं वैष्णवं क्षेत्रमद्भुतं प्रियदर्शनम्
अस्माकं ब्रूहि यच्च्रुत्वा श्रोतव्यांशो न विद्यते ॥६
इति पृष्टस्तदा सूत स्तपोध्यान मादिमान्
ध्यात्वा मुहूर्तमात्रं तु प्रोवाच मुनिसत्तमान् ॥७
श्री सूतः-
अहो पृष्टमपूर्वं च कौतुकं भवतामहो
ममापि वाञ्छा महती वक्तुं तत्तु वदामि वः ॥८
शृणुध्वं मुनयो यूयं सावधानतया त्विमम्
क्रीडारसेषु सक्तस्य हरेः क्रीडासमन्वितम् ॥९
विविधैस्तस्य चारित्त्रेरुपेतं सर्वसिद्धिदम्
सर्वैश्वर्यकरं नॄणां सर्वाश्चर्यप्रदं शुभम् ॥१०
पुण्यं पवित्रमायुष्यं सर्वमङ्गलकारकम्
वाराहकल्पवृत्तान्तं शेषाचलसमाश्रयम् ॥११
पुरा हि सागरैस्सर्वै रेकीभूते महीजले
कल्पादौ भगवान् विष्णुर्वटपत्रसमाश्रयः ॥१२
महर्लोकं समाश्रित्य स्थितं च जलसम्ल्पवम्
विचिन्त्य युगसाहस्रं जलावस्थानमद्भुतम् ।
यथापूर्वं जगत्स्रष्टुमुद्युक्तः सर्वशक्तिमान् ॥१३
सर्वस्य धाता प्रवरो महात्मा सर्वात्मगस्सर्वजगत्स्वरूपः
सर्वेश्वरस्सर्वविधानयत्नं चकार बुद्ध्या तरुणाबुजाक्षः ॥१४
इतीरितास्ते मुनयस्तदानीं सविस्मयोत्फुल्लहृदम्बुजाश्च
सूतं महान्तं मुनिसङ्घसेव्यं तमब्रुवन् वेदविदां वरिष्ठम्॥१५
मुनयः-
अतीतानागतज्ञानप्रकाशितहृदम्बुजः
उद्योगानन्तरं विष्णुः कृतवान् किं रमापतिः ॥१६
कीदृशः प्रलयः कल्पः सर्गो वा कीदृशः पुनः
एतावद्वा जलं कस्मादागतं वद सुव्रत ॥१७
कुत्र वा धरणी याता गिरयो वा महोन्नताः ?
तत्सर्वं शंस भगवन् श्रोतुं कौतूहलं हि नः,
इति पृष्टः पुनः प्राह सूतस्तान् मुनिपुङ्गवान् ॥१८
श्रीसूतः-
मुनयः श्रूयतां पूर्वं सङ्ग्रहेण जलागमः
चतुर्युगसहस्राणि प्रमाणं दिवसस्य च ॥१९
निशायास्तावदेवास्य निर्दिष्टस्समयो विधेः
दिनावसानसमये ब्रह्मणो भगवान् रविः ॥२०
सहस्ररश्मिस्तपति त्रिमूर्त्यात्मा त्रिलोचनः
वमत्यग्निं महाघोरं घर्मदीधितिरंशुभिः ॥२१
श्री वाराहपुराणे प्रथमभागे. ३३-तमः अध्यायः.

[[45]]
कतिचिद्वत्सरानेवं वृष्टिर्नैव भवेत्तदा
भूलोकवासिनस्सर्वे मुनयश्च तपोधनाः ॥२२
वसेयुर्जनलोके हि यावद्ब्रह्मनिशा तदा
वनानि पर्वताश्चापि दग्धाः कालाग्निना तदा ॥२३
भस्मीभूता भवन्त्येव वायुस्सर्वात्मको महान्
हायनान् कतिचिद्वाति पश्चान्मेघा महाबलाः ॥२४
स्थूणाकारास्सृजन्त्येव वायुस्सर्वात्मको महान्
सन्ततं वत्सरानेवं कतिचित्तु निशामुखे ॥२५
द्रवीभूता महाभूमिः पातालतलगामिनी
सागरास्सप्त चान्योन्यं भवेयुस्संयुतास्तदा ॥२६
महर्लोकं समाक्रम्य तिष्ठन्त्येकोदकास्तदा
तथैव युगसाहस्रं ब्रह्मणश्शर्वरी भवेत् ॥२७
निशावसाने गोविन्दस्सृष्टिस्थित्यस्तकारकः
चतुर्मुखशिवाशक्यं भूमेरुद्धरणं हरिः ॥२८
कर्तुकामस्तदा विष्णुः वटपत्रतले स्थितः
श्वेतं वराहदेहं च सर्वयज्ञमयं शिवम् ॥२९
अतिभीमं महारौद्रमासाद्य वहन् मुहुः
प्रविश्य जलमध्यं तु क्षोभयामास वै तदा ॥३०
संवर्तमेघनिर्घातबृंहितं च तरसा तदा
प्रविवेश महापोत्री पातालं जलपूरितम् ॥३१
अन्वेषयामास तदा रसातलमशेषतः
तत्र युद्धं महाघोरं हिरण्याक्षसमाश्रयम्॥३२
अभूदभूतपूर्वं च तुमुलं रोमहर्षणम्
चिरकालं च बाहुभ्यां मल्लयुद्धमवर्तत ॥३३
ततः कृद्धो महापोत्री दंष्ट्राग्रेण महासुरम्
द्विधा तं पाटयामास मेरुतुल्यमहोन्नतम् ॥३४
तद्रक्तसम्प्लवेनैव तज्जलं रक्तमाबभौ
तद्दृष्ट्वा मुनयस्सर्वे जनलोकनिवासिनः ॥३५
महज्जलमिदं रक्तमद्भुतं किमिदं भवेत् ?
इत्याश्चर्यविलोलाक्षास्समाधिध्यानयोगतः ॥३६
ज्ञात्वा श्वेतवराहस्य प्रभावं मुनयोऽस्तुवन्
ततः श्वेतवराहश्च पातालतलगामिनीम् ॥ ३७
दंष्ट्राग्रेणैव तां भूमिं सर्वसत्त्वसमाश्रयाम्
उद्धृत्य तरसा पोत्री विक्षोभ्य च महज्जलम् ॥३८
निधाय पादं शेषस्य भोगोपरि महाप्रभुः
जनलोकं समाश्रित्य तस्थौ पर्वतसन्निभः ॥३९
ब्रह्मादयो देवगणास्सिद्धाश्च परमर्षयः
अस्तुवन् वेदमन्त्रैश्च स्तोत्त्रेश्च विविधैः परैः ॥४०
ववर्षुः पुष्पवर्षाणि ननृतुश्चाप्सरोगणाः
देवदुन्दुभयो नेदुर्वीणामुरजमर्दलाः ॥४१
देवाः-
जय देव महापोत्रिन् जय भूमिधराच्युत
हिरण्याक्षमहारक्षोविदारणविचक्षण ॥४२
श्री वाराहपुराणे प्रथमभागे. ३३-तमः अध्यायः.

[[67]]
त्वमनादिरनन्तश्च त्वत्तः परतरो नहि
त्वमेव सृष्टिकालेऽपि विधिर्भूत्वा चतुर्मुखः ॥४३
सृजस्येतज्जगत्सर्वं पासि विष्णुस्समन्ततः
कालाग्निरुद्ररूपी च कल्पान्ते सर्वजन्तुषु ॥४४
अन्तर्यामी भवान् देव भूमिं स्थापय पूर्ववत्
निष्कृष्टं ब्रह्मणो रूपं न जानन्ति सुरास्तव ॥४५
प्रसीद भगवन् विष्णो भूमिं स्थापय पूर्ववत्
सर्वप्राणिनिवासार्थमस्तुवन् विबुधव्रजाः ॥४६
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये
श्वेतवराहकल्पकथनं नाम त्रयस्त्रिंशोऽध्यायः

चतुस्त्रिंशोऽध्यायः

अथ चतुस्त्रिंशोऽध्यायः

श्री वैकुण्ठात् भगवत्क्रीडाचलानयनम्
ततः श्वेतवराहश्च स्थापयित्वा धरां तदा
विभज्य सागरान् सप्तलोकान् सप्त च पूर्ववत् ॥१
चतुर्मुखं समाहूय’सृज पूर्वं यथा जगत्’
इत्युवाच महाक्रोडस्सर्वयज्ञमयो हरिः ॥२
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्
धरावराहदेवोऽपि लोकानुग्रहकाम्यया ॥३
भूमौ स्थातुं स्थलं दिव्यं बुद्ध्या निश्चित्य माधवः
गरुडं प्रेषयामास गिरिमानेतुमद्भुतम् ॥४
’वैनतेयमहासत्त्व गच्छ त्वमतिवेगतः
गत्वा तु परमं धाम क्रीडाचलमिहानय ॥५
सर्वान् पारिषदांश्चापि विष्वक्सेनमुखान् सुरान्’।
इत्युक्तो गरुडस्साक्षादुत्पपात विहायसम् ॥६
गते तु गरुडे तस्मिन्नानेतुं पर्वतोत्तमम्।
पोत्रिरूपी हरिर्भूमिं स्थापयित्वा च पूर्ववत् ॥७
पद्भ्यां भूमिं समाक्रम्य गोमतीतीरमागतः
तस्यास्तु दक्षिणे भागे षष्टियोजनदूरतः ॥८
पूर्वाब्धेः पश्चिमे भागे पञ्चभिर्योजनैर्युते
देशे वुण्यजनाऽऽकीर्णे रुक्मनद्यास्तथोत्तरे ॥९
आगत्य तस्थौ देवोऽपि गरुडागमनोन्मुखः।
वैनतेयोऽपि परमं धाम गत्वा ददर्श ह ॥१०
अप्राकृतममेयं च सर्वमयं गिरिम्
हिरण्मयं महाशृङ्गं पञ्चोपनिषदात्मकम् ॥११
पुन्नागचम्पकाशोकतालहिन्तालशोभितम्।
सुरद्रुममुखैर्वृक्षैरन्यैः काञ्चनरूपकैः ॥१२
शोभितं पक्षिसङ्घैश्च शुककोकिलहंसकैः।
श्रवणानन्दजनकमधुरालापसम्भ्रमैः ॥१३
श्री वाराहपुराणे प्रथमभागे. ३४-तमः अध्यायः.

[[89]]
मल्लिकामालतीभिश्च नन्द्यावर्तादिभिस्तथा।
लताभिः पुष्पिताग्राभिः दिव्यसौरभशालिभिः ॥१४
सिंहशार्दूलमातङ्गशरभक्रोडवानरैः
शोभितं किन्नरीभिश्च गायत्कि न्नरपङ्त्किभिः ॥१५
अनेकर्झराकीर्णं मानसाह्लादकारकम्
मुक्तैर्नित्यैः कामरूपैर्नानारूपैश्च सेवितम् ॥१६
नारायणगिरिं नाम्ना क्रीडाद्रिं परमेष्ठिनः।
योजनत्रयविस्तारं त्रिंशद्योजनमायतम् ॥१७
शेषाकारं हरेश्शेषं शेषिणं सर्वदेहिनाम्
दिव्याकारं महापुण्यं पश्यतां मोक्षदायकम्॥१८
एवं रूपं गिरिश्रेष्ठं स्कन्धदेशे निधाय तम्।
परिवारैरुपेतं च भगवत्परिचारकैः ॥१९
आजगाम महावेगाद्गरुडः काञ्चनप्रभः
ततस्ससम्भ्रमो वायुरुदभूच्च विहायसि ॥२०
धुन्वन् वृक्षांस्ततो भूमौ सूर्यकोटिरिवाऽऽबभौ
तेजोरूपस्ततश्श्रीमानागतो विष्णुवाहनः ॥२१
आगतं गरुडं वीक्ष्य स्थापयेह खगेश्वर-
इत्युवाच हरिस्सोऽपि स्थापयामास तं तथा ॥२२
ततो गिरिं समारुह्य श्वेतपोत्री हरिः स्थितः
स्वामिपुष्करिणीतीरे पश्चिमे पुण्यकानने ॥२३
विमाने विमले दिव्ये कोटिसूर्यसमप्रभे
अनेकरत्नखचिगोपुरायुतशोभिते ॥२४
रत्नस्तम्भसमोपेतश्रीमहामणिमण्डपे
वाचामगोचरे सर्वनयनानन्दकारके ॥२५
ततो जातु तटे स्वामिपुष्करिण्यास्तु दक्षिणे
मध्ये विमानं पद्माक्षश्श्रीनिवासः परात्परः
अतिष्ठद्देवदेवोऽ पि शङ्खचक्रगदाधरः॥२६
इति श्री वारापुराणे श्री वेङ्कटाचलमाहात्म्ये वैकुण्ठात्
क्रीडाचलानयकथनं नाम चतुस्त्रिंशोऽध्यायः.

पञ्चत्रिंशोऽध्यायः

अथ पञ्चत्रिंशोऽध्यायः

देवादिकृतश्वेतवराहप्रार्थना
तत्र देवास्सगन्धर्वा ब्रहाद्या मुनयोऽपि च
आजग्मुर्लोकपालाश्च शङ्करः पार्वतीप्रभुः॥१
ऋषयस्सप्त वसवो रुद्रादित्या मरुद्गणाः
तुष्टुवुश्च हृषीकेशं वासुदेवं जगत्प्रभुम् ॥२
’जय लक्ष्मीश लोकेश जय भूमिधराच्युत !
जय विष्णो हिरण्याक्षविध्वंसनविचक्षण ॥३
श्री वाराहपुराणे प्रथमभागे. ३५-तमः अध्यायः.

[[1011]]
दंष्ट्रोकरालवदनभ्रुकुटीकुटिलेक्षण!
भयङ्करमिदं रूपमत्युग्रं घोरदर्शनम्॥४
ज्वलदस्त्रभुजानेकपार्श्वद्वयविराजितम्
दृष्ट्वा तद्यथितास्सर्वे सुराश्च परमर्षयः॥५
अनुग्रहीतुं लोकान्वै त्वयाऽत्र स्थीयतां गिरौ
भयङ्करं त्वदीयं वै रूपमद्भुतदर्शनम्॥६
तद्दृष्टोद्विग्न हृदया भवेयुरदृढा नराः
देवतानां मनुष्याणां वासार्थं चोद्धृता धरा॥७
तस्मान्मनुजरक्षार्थं सौम्यरूपं हि धारय
ध्यानयोगेष्वशक्तानामशक्तानां च कर्मसु॥८
अस्माकं मनुजानां च स्त्रीशूद्राणां तथैव च
दृश्यस्त्वं वरदो भूत्वा वस नित्यमिहैव भोः’॥९
इत्युक्तस्तैः प्रसन्नात्मा सौम्यरूपी चतुर्भुजः ॥
श्रीभूमिसहितस्तस्थौ पुण्डरीकनिभेक्षणः॥१०
शरत्पूर्णेन्दुवदनस्सर्वाभरणभूषितः
श्रीनिवासस्सुरास्त्सर्वान् समाहूयेदमब्रवीत्॥११
’वैकुण्ठात्परमो ह्येष वेङ्कटाख्यो नगोत्तमः
अत्रैव निवसाम्येव श्रीभूमिसहितो ह्यहम्॥१२
ददामि प्रार्थितानर्थान् मनुजेभ्यस्सदा सुराः
इत्युक्त्या त्रिदशास्त्सर्वान् ब्रह्मेन्द्रप्रमुखानपि ॥१३
यथारछं समनुज्ञाप्य तत्रैवान्तरधीयत
देवाश्च मुनयस्सर्वे प्रतिजग्मुस्स्वकालयान्॥१४
सूतकृतस्वामिपुष्करिणीमाहात्म्यवर्णनम्
मुनयः-
’सूतपूर्वं गिरौ तस्मिन् ’स्वामिपुष्करिणी’ति वै ।
प्रसङ्गात्कथिता सातु कीदृशी मुनिसत्तम- ।
गिरौ तस्याश्च माहात्म्यं वक्तव्यं भवताऽनघ’ ॥१५
मुनयश्श्रूयतां किञ्चिदुत्तरं सावधानतः
स्वामिपुष्करिणी पुण्या सर्वपापप्रणाशिनी॥१६
वै कुण्ठाद्भगवत्क्रीडावापी श्रीभूमिलालिता
अप्राकृतजलौघा च सुगन्धा सुमनोहरा ॥१७
गङ्गादिसर्वतीर्थानां जन्मभूमिश्शुभोदका
आनीता वैनतेयेन क्रीडार्थं तत्र तिष्ठति॥१८
विरजावद्रजोदोषप्रमुखाघविनाशिनी
स्वर्णस्तेयसुरापानदोषप्रमुखनाशिनी॥१९
ऐहिकार्थप्रदा नित्यं स्नानमात्रेण सर्वदा
दर्शनात्स्पर्शनात्पानात् स्मरणात्सर्वसिद्धिदा ॥२०
स्नानादिष्टप्रदा चेति किमु वक्तव्यमञ्जसा
ततस्तस्यास्तु माहात्म्यं वक्तुं देवोऽपि न प्रभुः॥२१
देवेभ्यस्तत्समीपस्था मनुजा भाग्यशालिनः
किन्तु जानन्ति तस्यास्तु वैभवं नैव मानुषाः॥२२
प्राकृताचलवद्भाति मानुषाणामयं गिरिः
तथापि तेषां भक्तिस्तु शुद्धा भवति तद्गिरौ॥२३
श्री वाराहपुराणे प्रथमभागे. ३५-तमः अध्यायः.

[[1213]]
यस्य यस्य यथा भक्तिस्तस्य सिद्धिश्च तादृशी
स्वामिपुष्करिणीस्नानं सद्गुरोः पादसेवनम् ॥२४
एकादशीवत्रं चापि त्रयमत्यन्तदुर्लभम्
दुर्लभं मानुषं जन्म दुर्लभं तत्र जीवनम् ॥२५
स्नामिपुष्करिणीस्नानं त्रयमत्यन्तदुर्लभम्
अतस्तस्यास्तु माह्मात्म्यं वक्तुं शेषोऽपि न प्रभुः ॥२६
यत्तु स्वामिसरस्स्नानं महापातकनाशनम्
तच्चापि दृष्टं बहुधा तारकासुरसूदने ॥२७
प्रायश्चित्तप्रवृत्तानां नराणां सुलभा त्वियम्
स्वामिपुष्करिणी पुण्या तथा काम्यप्रदायिनी ॥२८
वेङ्क्कटाद्रेर्विशेषेण दर्शनं यच्च वर्तते
नित्यं नै मित्तिकं काम्यं प्रायश्चित्तञ्च तद्भवेत्ः ॥२९
’विष्णोः कर्माणि प’श्येति श्रुतिरेषा सनातनी
नैमित्तिकं तत्कुर्वीत स्वामिपुष्करिणीतटे ॥३०
अङ्गवैकल्यदोषाश्च न स्युस्स्वामिसरस्तटे
वासवादिष्वमोघं च दृष्टं कर्माऽत्र दृश्यते ॥३१
बहुनेह किमुक्तेन धर्मार्थादिफलेषु च
वाञ्छावतां मनुष्याणां स्त्रीशूद्राणं च विशेषतः ॥३२
साङ्गकर्मक्रियाऽशक्तनराणां च विशेषतः
नाऽन्या गतिर्वेङ्कटाद्रेस्सत्यं सत्यं न संशयः ॥३३
इति श्री वाराहपुराणे श्री वेङ्क्कटाचलमाहात्म्ये देवादिकृत
श्वेतवराहप्रार्थनादिकथनं नाम पञ्चत्रिंशोऽध्यायः

षट्त्रिंशोऽध्यायः

अथ षट्त्रिंशोऽध्यायः

क्रीडाद्रिप्रविष्ट श्री वराहदिव्यवैभववर्णनम्
मुनयः-
’परावरज्ञ सर्वज्ञ सर्वभूतहिते रत
मुने सूत महाभाग किञ्चित्पृच्छाम तद्वद ॥१
वराहरूपी भगवान् धरामुद्धृत्य किं पुनः
तदैव शेषशैलेन्द्रन्यवसत्करुणालयः ॥२
कालान्तरे वा तत्रैत्य स्थितवान् सर्वदा नुकिम् ?
अकरोद्वाऽथ किं तत्र किं दत्तं कस्य वा’ त्विति ॥३
श्री सूतः-
ब्रवीमि तदशेषं च शृणुध्वं मुनिसत्तमाः
आस्थाय श्वेतपोत्रित्वमुज्जहार धरां यदा ॥४
तदैवानाय्य वैकुण्ठादचलं गरुडेन वै
कल्पादावेव भगवान् लीलारसमहोदधिः ॥५
विहरन् रमया सार्थं दरीनिर
ञ्झ
रसानुषु
प्रकाशश्चाप्रकाशश्च तिष्ठत्येव सदा गिरौ ॥६
यावत्कल्पं वसत्येव प्रोक्तं च परमेष्ठिना
कदाचित्पुण्यशीलेभ्यो दर्शनं वितरत्यसौ ॥७

[[1415]]
कल्पे कल्पे च धरणीमुद्धरत्येवमेव ह
श्वेतवाराहरूपेण धरणी चोद्धृता यतः॥८
श्वेतवाराकल्पस्यादाख्यया मुनयो ह्ययम्
साधूनां च यदा बाधा धर्मश्चाप्यवसीदति९
यदा त्वधर्मो ह्यधिको दुष्टाश्च बलिनो यदा
तदा कालानुरूपेण नरदेवादिरूपतः ॥१०
सृष्ट्वात्मानं महाविष्णुस्संहरत्यहितांस्तदा
अधर्मं सर्वमुत्सार्य सुधर्मं पालयत्यसौ ॥११
रक्षत्येव च साधूंश्च वेदविद्याश्च वर्धयन्
स्वयं च साधूंश्च वेदविद्याश्च वर्धयन् ॥१२
सर्वदा शेषशैलेन्द्रे विहरन् मया सह
नित्यैर्मुक्तैश्च देवैश्च कामरूपैश्च संयुतः ॥१३
तिष्ठत्येव सदा तस्मिन् वेङ्कटाख्ये नगोत्तमे
वैकुण्ठात् स्वर्गसूर्येभ्यस्स्वगेहेभ्योऽधिकप्रियः ॥१४
अयं भगवतो हृद्यः पर्वतः पुण्यकाननः
मन्त्रसिद्धिस्तपस्सिद्धिर्यज्ञसिद्धिस्तथैव हि ॥१५
क्रीडाद्रेः भगवत्सान्निध्येन महिमाधिक्यवर्णनम्
काम्यस्य कर्मणस्सिद्धिरेवमन्याश्च सिद्धयः
भवन्त्यत्र नराणां च नहि विघ्नादिकं क्वचित् ॥१६
अल्पेन तपसाऽ भीष्टं सिद्ध्यत्यस्मिन् गिरौ वरे
सर्वतीर्थानि सततं पुण्यान्यत्रैव सन्ति हि ॥१७
य एनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः
ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी कनकं बहु ॥१८
पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति ॥
व्यङ्गश्च साङ्गसद्रूपं पशून् धान्यानि विन्दति ॥१९
यं यं कामयते मर्त्यः तं तमाप्नोति सर्वथा
क्रीडाद्रेः कारण भेदेनाऽनेक नामानुवर्णनम्
चिन्तितस्य च सिद्ध्या तु चिन्तामणिमिमं विदुः ॥२०
केचिद्ज्ञानप्रदत्वाच्च ज्ञानाद्रिरिति तं विदुः
सर्वतीर्थमयत्वाच्च तीर्थाद्रिं प्राहुरुत्तमाः ॥२१
पुष्कराणां च बाहुल्यात् गिरावस्मिन् सरस्सु वै
पुष्कराद्रिं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ॥२२
गिरावस्मिंस्तपस्तेपे धर्मोऽपि स्वाभिवृद्धये
तस्मादाहुर्वृषाद्रिं तं मुनयो वेदपारगाः ॥२३
शातकुम्भरूपत्वात् कनकाद्रिं च तं विदुः
द्विजो नारायणः कश्चित्तपः कृत्वा महत्पुरा ॥२४
ऐच्छदस्य स्वनाम्ना च व्यपदेशं मुरारितः
तस्मान्नारायणाद्रिं तं विदुरुत्तमपूरुषाः ॥२५
वैकुण्ठादागतत्वेन वैकुण्ठाद्रिरिति स्मृतः
हिरण्याख्यविनाशाय प्रह्लादानुग्रहाय च ॥२६
नारसिंहाकृतिर्जज्ञे यस्मादस्मात्स्वयं हरिः
सिंहाचल इति प्राहुस्तस्मादेनं मुनीश्वरा ॥२७
श्री वाराहपुराणे प्रथमभागे. ३६-तमः अध्यायः.

[[1617]]
अञ्जना च तपः कृत्वा हनूमन्तमजीजनत्
तदा देवास्समागत्य देवसाहाय्यकारकम्॥२८
यस्मात्पुत्रमसूतासौ जगुस्तस्मादिमं गिरिम्
अञ्जनाद्रिं, वराहाद्रि वराहक्षेत्रलक्ष्मतः ॥२९
नीलस्य वानरेन्द्रस्य यस्मान्नित्यमवस्थितिः
तस्मान्नीलगिरिं नाम्ना वदन्त्येनं महर्षयः ॥ ३०
वेङ्कारोऽमृतबीजस्तु कटमैश्वर्यमुच्यते
अमृतैश्वर्यसङ्क्घत्वाद्वेङ्कटाद्रिरिति स्मृतः॥३१
यतः कदाचिद्देवानां श्रीनिवास इहाबभौ
श्रीनिवासगिरिं प्राहुस्तस्मादेनं दिवौकसः॥३२
आनं द्राद्रिमिमं प्राहुः वैकुण्ठपुरवासिनः
प्राहुर्भगवतः क्रीडाप्राचुर्यात्तु तथा सुराः॥३३
श्रीप्रदत्वाच्छ्रियो वासात् शब्दशक्त्या च योगतः
रूढ्या श्रीशैल इत्येवं नाम चास्य गिरेरभूत् ॥३४
बहूनि चान्यनामानि कल्पभेदाद्भवन्ति हि
यावदुक्ता भगवतः कल्याणगुणराशयः ॥३५
तावन्तोऽस्य गिरेस्सन्ति गुणाः परमपावनाः
अस्य वेङ्कटशैलस्य माहात्म्यं यावदस्ति हि ॥३६
तावद्वक्तुं च कार्त्स्न्येन न समर्थश्चतुर्मुखः
षण्मुखश्च सहस्रास्यः फणी देवाः परे किमु ? ॥३७
श्रुत्वा सूतमुखाच्चैवं मुनयो हृष्टमानसाः
न तृप्तिमाययुस्ते हि भूयश्श्रवणकौतुकात् ॥३८
इति श्रीवाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये क्रीडाद्रिप्रविष्ट
श्री वराहदिव्यवै भवादिवर्णनं नाम षट्त्रिंशोऽध्यायः.

सप्तत्रिंशोऽध्यायः

अथ सप्तत्रिंशोऽध्यायः

महर्षियज्ञवाटं प्रति भगवदागमनम्
श्री सूतः-
’तद्गिरौ किं कृतं तेन वेङ्कटेशेन तद्वद’
इत्युक्तं यच्च युष्माभिस्तत्र किञ्चित् वदाम्यहम् ॥१
मायिना सर्वशक्तेन लीलापरवशेन च
कृतं तु वक्तुं कार्त्स्न्येन केन शक्यं तपोधनाः ॥२
स कदाचिन्महामायी विटवेषं वहन्मुदा
गिरावुत्तरदिग्भागे चचार रमया सह ॥३
तत्र केचिन्महाभागा मुनयस्तत्त्वदर्शिनः॥
गिरेरस्य तु माहात्म्यं श्रुतवन्त्तस्तपोधनाः ॥४
अयं गिरिर्महापुण्यस्सर्वसत्त्वसमाश्रयः॥
निर्बाधः फलमूलाढ्यस्सर्ववृक्षसमाश्रयः५
नानाप्रस्रवणोपेतो याज्ञियैश्च महीरुहैः
अन्यैस्तापसयोग्यैश्च पादपैरपि सङ्कुलः ॥६
श्री वाराहपुराणे प्रथमभागे. ३७-तमः अध्यायः.

[[1819]]
नयनानन्दजनको हृदयाऽह्लादकारकः
अस्माभिस्सर्वदा वासः कर्तव्योऽत्र महागिरौ ॥७
इति निश्चत्य मनसा तत्राऽगत्य तपोधनाः
चक्रुर्यज्ञं यथाशास्त्रं विष्णुमुद्दिश्य कौतुकात् ॥८
सोऽपि मायी स्त्रिया सार्धं यज्ञवाटमुपागमत्
सुवर्णचित्रितं वस्त्रं वसानश्शुभदर्शनः ॥९
सोष्णीषश्च करेणैव वामेन छुरिकां दधत्
ताम्बूलेन शुचिस्निग्धमन्दस्मितमुखाम्बुजः ॥१०
मृगोत्थमदगन्धेन सुरभीकृतदिङ्मुखः
पुण्डरीकविशालाक्षः कम्बुग्रीवो महाभुजः ॥११
जगन्मोहनसौन्दर्यस्साक्षात् कन्दर्पसन्निभः
हेमयज्ञोपवीताङ्गः कोमलाङ्गो मनोहरः ॥१२
प्रविवेश सभां याज्ञीं मध्येबृन्दं महात्मनाम्
दृष्ट्या च मुनयस्सर्वे पुण्डरीकनिभेक्षणम् ॥१३
वेश्यावेषं धारयन्तीं लीलाम्बुजकराम्बुजाम्
तप्तहाटकसङ्काशां पङ्कजोदरसप्रभाम् ॥१४
हरिद्रान्तरतुल्याभां दीव्यन्तीं कुटिलालकाम्
शरत्पूर्णेन्दुवदनां ताम्बूलेन मनोहराम् ॥१५
कर्णान्तनेत्रयुगलां विडम्बितरविप्रभाम्
अभूतपूर्वसौन्दर्यां साक्षाल्लक्ष्मीमिव स्थिताम् ॥१६
दृष्ट्या च मुनयस्सर्वे विस्मयोत्फुल्लमानसाः
कोऽसौ राजसुतस्त्वेष पृथिवीं भोक्तुमरछति ॥१७
द्वात्रिंशल्लक्षणोपेतस्साक्षाद्राम इवाऽपरः
’किमर्थमागतस्त्वं’ तु पृच्छाम इति चाब्रुवन् ॥१८
’आवासः कुत्र ते माता का वा ते जनकः कुतः
नामधेयं च किं वा ते ब्रूहि राज अशेषतः’ ॥१९
श्री भगवान् :-
’नाहं राजा न वा विप्रः काचिज्जातिश्च नैव मे
न च माता न च पिता नैवाऽऽवासश्च कुत्रचित्२०
सर्वावासस्सर्वभक्षः स्सर्वगस्सर्वरूपधृत्
निर्नामा निर्गुणश्चाऽहं युष्मान् द्रष्टुमिहाऽऽगतः॥२१
भवन्तस्तपसा श्रेष्ठा वेदवेदान्त्तपारगाः
वदन्त्वौदुम्बरी सर्वा वेष्टिता व्याफ्रुवाससा॥२२
स्पृष्ट्वोदानं कथं त्वत्र संषवेन्मुनयोऽमलाः’
एवमादिक्रियालोपं पृष्टवान् यज्ञसंसदि॥२३
मुनयस्तेऽथ सम्भूय ’वपाकालस्तु गच्छति’
इति ते त्वरितास्सर्वे समिद्धे जातवेदसि ॥२४
पुण्यगन्धं वपाहोमं चक्रुश्शास्त्रोक्तमार्गतः
सोऽपि वेगात्तत्र गत्वा शङ्खचक्रगदाधरः ॥२५
श्रीवत्सवक्षा नित्यश्रीः सर्वाभरणभूषितः
वपां जग्राह पाणिभ्यां कोटिसूर्यसमप्रभः ॥२६
श्री वाराहपुराणे प्रथमभागे. ३७-तमः अध्यायः.

[[2021]]
तदा तु मुनयस्सर्वे प्रभया स्तिमितेक्षणाः
तस्थुस्तपोधनास्तत्र क्षणं चित्रार्पिता इव ॥२७
’प्रीतोऽह’ मिति तान् सर्वानुक्त्वाऽदृश्यो बभूव ह
मुनयश्च तदा प्रीताः’ साक्षाद्विष्णुस्समागतः ॥२८
अस्माकं भाग्यमतुलं जीवितं च सुजीवितम्
इति यागक्रियाशेषं चक्रुः कौतुकसम्भ्रमात् ॥२९
एतत्सर्वं समाख्यातं जाबालिमुनिना पुरा
अन्यच्च कथितं तेन तच्चाहं कथयामि वः ॥३०
वृद्धस्य कुमारधारास्नानेन कौमारप्राप्तिः
पुरा तु वेङ्कटाधीशः चचार गिरिमूर्धनि
कुमारस्सन्विशालाक्षः कोमलाङ्गो मनोहरः ॥३१
वृद्धः कश्चिद्द्विजो दृष्टः तेन जर
ञ्झ
रिताकृतिः
मग्नदृष्टिर्भग्नजानुः क्षुत्तृष्णापरिपीडितः ॥३२
मार्गभ्रष्टो वने तत्र कुत्रचिच्छैलमाश्रितः
’क्व वा गतोऽसि कौण्डिन्य?शतवृद्धं विहाय माम्’॥३३
इति जल्पन्मुहुश्शुष्ककण्ठोष्ठपुटतालुकः
तत्रस्थेन कुमारेण ’कि मर्थमिह जल्पसि ॥३४
न कश्चिदत्र मनुजः कौण्डिन्यः कुत्र तिष्ठति’
इत्युक्तः प्राह वृद्धश्च’नितरां मृतवानहम्॥३५
कथं गच्छाम्यहं तावदाश्रमं दूरतस्थ्सितम्
शौचाचारक्रियाऽशक्तं रिक्तं बन्धुविवर्जितम् ॥३६
किमर्थं स्थापयत्यस्मिन् लोके मां दुर्बलं विधिः’
एवं ब्रुवति तस्मिंस्तु निरेछतुकदयानिधिः ॥३७
कुमारः प्राह तं वृद्धं सोपहासमिदं वचः
’तव विप्र शरीरं च जरितं पलितं तथा ॥३८
लम्बते पक्ष्मणी त्वक्च न च पश्यसि किञ्चन
अतः परं च विप्रेन्द्र जीननेच्छा तवाऽस्ति किम् ? ॥३९
न वा पूर्वोक्तवाक्यं तु सत्यं वा वद सुव्रत!’
इत्युक्तः प्राह विप्रोऽपि’ नास्तीच्छा जीवने मम ॥४०
किन्तु नित्यानि कर्माणि ज्योतिष्टोममखानि च
नाऽनुष्ठितानि देवानामृणी कथमहं पुनः॥४१
त्यक्ष्यामि देहं भो राजन् ! सत्यमेव ब्रवीमि ते’
इत्युक्तः प्राह तं विप्रं’गृहाणेमं करं’ त्विति॥४२
सोऽपि तत्करमालम्ब्य शनैस्तेन जगाम च
क्वचित्प्रस्रवणं पुण्यं दर्शयित्वा शुभोदक्रम् ॥४३
’स्नानं कुर्वत्र गच्छावः तवाऽश्रमपदं ततः’
इत्युक्तस्तेन विप्रेन्द्रः स्नात्वा तत्रोत्थितः पुनः ॥४४
अभूदभूतपूर्वश्च कुमारः षोडशाब्दकः
कुमारोऽपि सहस्राक्षः सहस्रपदनोऽभवत् ॥४५
सहस्रमूर्धा विश्मात्मा सहस्रभुजमण्डितः
तत्र देवास्समाजग्मु राकाशे विस्मिताः पुनः ॥४६
श्री वाराहपुराणे प्रथमभागे. ३७-तमः अध्यायः.

[[2223]]
पुष्पवृष्टिर्महत्यासीत् देवदुन्दुभयस्तदा
नेदुस्सर्वेऽपि तं देवाः तुष्टुवुः स्तोत्रसत्तमैः ॥४७
देवः प्राह द्विजं वृद्धं कुरु कर्माणि सर्वतः
कर्मानुष्ठानसिद्ध्यर्थं धनं दत्तं च ते बहु’ ॥४८
इत्युक्त्वा तं द्विजश्रेष्ठं तत्रैवाऽन्तरधीयत
सम्भूय देवास्सर्वेऽपि प्रोचुर्वाक्यमिदं तदा ॥४९
’अयं वृद्धः कुमारोऽभूद्यस्मात्तस्मादियं नदी
’कुमारधारे’ति सदा लोके ख्यातिं गमिष्यति ॥५०
त्रिकालमत्र यस्स्नाति त्रिमासं विजितेन्द्रियः
वलीपलितनिर्मुक्तो वज्रकायो भवेन्नरः ॥५१
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्’
इत्युक्त्वा त्रिदशास्सर्वे जग्मुर्विस्मितमानसाः ॥५२
इति जाबालिकथितं तदुक्तं भवतां मया
य इदं शृणुयान्मर्त्यो लभते स्नानजं फलम् ॥५३
इति श्री वाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये महर्षियज्ञवाटं
प्रति रूपान्तरेण भगवदागमन जलधारादिवर्णनं नाम
सप्तत्रिंशोऽध्यायः.

अष्टत्रिंशोऽध्यायः

अथ अष्टत्रिंशोऽध्यायः

भ्रष्टराज्यस्य शङ्खणनृपस्य राज्यप्राप्तिक्रमः
श्री सूतः-
वाल्मीकिना मुनीन्द्रेण किञ्चिदु’क्तं श्रुतं मया
तद्युच्यते मया यूयं शृणुध्वं मुनिसत्तमाः ॥१
साङ्काश्ये सोमवंशीयः शङ्खणः पृथिवीपतिः
अनेकदेशसहितं बहुविस्तारसंयुतम् ॥२
परम्परागतं राज्यं चक्रेऽखण्डपराक्रमः
स कदाचिन्महाराजः कृतपुण्यविपर्ययात् ॥३
सामन्तराजभिस्सर्वैः हृतराज्यो महीपतिः
तस्मात्सभार्यस्सामात्यो देशान्निर्गत्य दुःखितः ॥४
दक्षिणां दिशमासाद्य रामसेतुं ददर्श ह
तत्र स्नात्वा शनैः पश्चात् आजगाम नदीं ततः ॥५
सुवर्णमुखरीं तत्र स्नात्वा चोत्तरतीरतः
पाद्मं सरस्समागम्य तत्र स्नानं चकार सः ॥६
नित्यं च विधिवत्कृत्वा न्यवसद्दुःखपीडितः
’राज्याद्भ्रंशो वनेवासः स्वामित्वं च हृतं परैः ॥७
पारतन्त्र्यं महद्दुःखं मरणादतिरिच्यते
भविता जीवनं कस्मात् क्व वा गच्छामि का गतिः ’ ॥८

[[2425]]
इति शोकसमाविष्टः तस्थौ निद्रामुपागतः
अशरीरा जगादैनं तदानीं शोकपीडितम् ॥९
’मा शुचस्त्वं महाबाहो धैर्यमालम्ब्य बुद्धिमान्
इत उत्तरदिग्भागे क्रोशमात्रे महागिरिः ॥१०
वेङ्कटाचल इत्येव प्रथितः पृथिवीतले
आपन्नकामधेनुर्यः शोकार्तानां सुरद्रुमः ॥११
चिन्तामणिरिवार्तानां तत्राऽऽस्ते कमलापतिः
निरेछतुकदयापूर्णः श्रितानामिष्टदस्सदा ॥१२
तत्राऽस्ते पद्मिनी काचित् पुल्लपङ्कजशोभिता
’स्वामिपुष्करिणी’त्येव नामतः प्रथिता शुभा ॥१३
तत्पश्चिमतटे श्रीमान्महावल्मीकभूधरः
उत्तिष्ठ तत्र गच्छ त्वं तत्तीरे कुटिकां कुरु ॥१४
तत्र स्थित्वा त्रिसन्ध्यं वै तत्त्रेव स्नानमाचरन्
तत्र स्थितं वेङ्कटेशं भावयित्वा च बुद्धितः ॥ १५
चतुर्भुजं शङ्खचक्रे दधानं वरदं हरिम्
अभ्यर्चयन्मासषट्कं श्रद्धाभक्तिसमन्वितः॥१६
निवस त्वं महाबाहो स्वामित्वं प्राप्स्यसि ध्रुवम्’
तच्च्रुत्वा वचनं तस्या गतशोकः प्रसन्नधीः ॥१७
आरुरोह गिरेश्शृङ्गं पुण्यं परमपावनम्
चम्पकाशोकपुन्नाग चूतधात्रीसमन्वितम् ॥१८
चन्दनागरुहिन्ताल रक्तचन्दनभास्वरम्
चमरीमृगसाहस्रं कस्तूरीमृगसेवितम् ॥१९
शुककोकिलसन्नादमयूरस्वनशोभितम्
एवं मनोहरं शृङ्गमारुह्य कनकोपमम् ॥२०
मृगयामास तत्तीर्थं चिह्नतस्तत्र तत्र वै
ददर्श सरसीं तत्र निर्मलस्फटिकोपमाम्२१
तिलकाशोकपुन्नाग वकुलैश्च विशोभिताम्
रम्योपवनसंशुद्धां तीरस्थतरुभास्वराम्२२
मत्स्यकच्छपसम्बाधां तीरस्थतरुभास्वराम्
पुष्पिताऽव्रुवनोपेतां केकिकेकारवाकुलाम्२३
तिलकैर्बीजपूरैश्च वरैः शुक्लद्रुमैस्तथा
पुष्पितैः करवीरैश्च भाण्डीरैर्निचुलैस्तथा ॥२४
अशोकैस्सप्तपर्णैश्च केतकै रतिमुक्तकैः
अन्यैश्च विविधैर्वृक्षैः पुष्पितैश्च मनोहराम् ॥२५
स्वामिपुष्करिणीं दृष्ट्वा प्रमुमोद महामनाः
कृत्वा तु कुटिकां तत्र निवासमकरोद्बुधः ॥२६
स्नानं त्रिषवणं कुर्वन् वेङ्कटेशं समर्चयन्
व्रती च नियताहारो मासषट्कमवर्तत ॥२७
ततस्स्वामिसरोमध्यादुदतिष्ठन्महाद्भुतम्
अनेकसूर्यसङ्काशं शोभयच्च दिशो दश ॥२८
दिव्यं विमानं तत्त्रेव तस्थौ देवः श्रियःपतिः
शङ्खचक्रगदापाणिः श्रीभूमिसहितः परः ॥२९
श्री वाराहपुराणे प्रथमभागे. ३८-तमः अध्यायः.

[[2627]]
तत्र देवास्समाजग्मुः ब्रह्माद्या मुनयोऽपि च
सिद्धा विद्याधराश्चैव किन्नराश्च दिशाधिपाः ॥३०
वसवस्सप्तमुनयः साध्या रुद्रास्समागताः
भेरीमुरजवाद्यानि नेदुश्चाकाशवर्त्मनि ॥३१
गीतं नृत्तं च वाद्यं च चक्रुस्सर्वाश्च देवताः
तुष्टुवुः परमोदारै र्वेदमन्त्रैर्दिवौकसः ॥३२
ससम्भ्रमं समुत्थाय शङ्खणः प्रणिपत्य च
स्तुत्वाऽथ देवदेवेशं व्यजिज्ञपदिदं नृपः ॥३३
’देवदेव जगन्नाथ जगद्रक्षणतत्पर
भवद्दत्तं क्रमाऽऽयातं स्वामित्वं मम केशव! ॥३४
हृतं राजभिराक्रम्य राज्याद्भ्रष्टोऽस्म्यभाग्यतः
रक्ष मां करुणासिन्धो महोदार जगत्पते ! ॥३५
न जाने व्रतशीलं च नियमं वा जपादिकम्
दिष्ट्या दृष्टो मया स्वामिन्नमोघं दर्शनं तव’
इत्युक्तः कालमेघाभो बभाषेथ श्रियः पतिः ॥३६
श्रीनिवासः-
’मा शुचस्त्वं मया दत्तं स्वामित्वं पूर्वमागतम्
यस्मात्तव महाभक्तिः स्वामिपुष्करिणीजले ॥३७
ये केचन समागत्य स्नानं कुर्वन्ति संयताः
स्वामिपुष्करणीतीर्थे स्वामित्वं प्राप्नुयुर्नराः ॥३८
तेषां व्रतानुगुण्येन स्वामित्वं भवति ध्रुवम्
स्याद्धि तेषां पराधीनभावलेशः कदाऽपि न ॥३९
त्वं च गत्वा महीपाल कुरु राज्यमकण्टकम्
समक्षं देवदेवानामित्युक्त्वाऽन्तरधीयत ॥४०
’स्वामिपुष्करिणीशब्दो रूढस्तस्मिन् सरोवरे
व्युत्पत्तिः कथिता तस्यास्तीर्थानां स्वामिनी यतः ॥४१
स्वामिपुष्करिणीत्येव तस्मात्पूर्वं पुरातनैः
प्रोक्तेदानीं भगवता व्युत्पत्तिस्तस्य सम्मता ॥४२
स्वामित्वस्य प्रदानाच्च स्वामिपुष्करिणी त्वियम्
अहो महत्त्वं तीर्थस्य दर्शनं पापनाशनम्४३
धन्यास्त्वेते महाभागा एतद्विषयवासिनः’
इत्युक्त्वा त्रिदशास्सर्वे ययुः फुल्लहृदम्बुजाः ॥४४
शङ्खणो पि महाराजस्सभार्यो हृष्टमानसः
अवरुह्य गिरेस्तस्मात् स्वं च देशं जगाम ह ॥४५
तद्राज्यहारिणस्सर्वे परस्परजिगीषया
’मम राज्यमिदं राज्यं ममै’ वेत्युद्यतायुधाः ॥४६
अन्योन्यमाहतास्सन्तः परिक्षीणाश्च तेऽभवन्
’मध्येऽस्माकं न कस्याऽपि राज्यं तस्यैव तद्भवेत्’ ॥४७
इति निश्चित्य मनुजाः प्रेरिता राजभिस्तदा
गोदावरीतीरदेशे शङ्खणं ददृशुर्मुदा ॥४८
श्री वाराहपुराणे प्रथमभागे. ३८-तमः अध्यायः.

[[2829]]
’तव राज्यं महाभाग तुभ्यं दत्तं च राजभिः
आगच्छ भुङ
क्ष्वराज्यं त’ दित्युक्तस्तैर्महीपतिः ॥४९
स्वकं देशं ययौ राजा काम्भोजं नाम नामतः
ततस्सर्वेऽपि राजानश्शङ्खणं च वरानने ॥५०
स्थापयित्वा जलैः पूतै रभिषिच्य ययुः पुरात्
सोऽपि स्वदेहमासाद्य स्वामित्वं प्राप्य पूर्ववत्५१
वेङ्क टेशप्रसादेन चक्रे राज्यमकण्टकम्
श्रुतं महत्त्वं तीर्थस्य मुनयः किं तपोधनाः ? ॥५२
इति श्री वाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये भ्रष्टराज्यस्य
शङ्खणनृपस्य राज्यप्राप्तिक्रमवर्णनं नामाष्टत्रिंशोऽध्यायः

एकोनचत्वारिंशोऽध्यायः

अथ एकोनचत्वारिंशोऽध्यायः

आत्मारामाख्य विप्रस्य सम्पत्प्राप्तिक्रमः
श्री सूतः-
वाल्मीकिना मुनीन्द्रेण यदुक्तं तन्मयाऽपि हि
उक्तं तेनान्यदुक्तं तत् वक्ष्यते श्रूयतां बुधाः ॥१
मध्यदेशे द्विजः कश्चित् आत्माराम इति श्रुतः
महाकुलप्रसूतश्च देवब्राह्मणपूजकः ॥२
पिता च तस्य प्रथितः पृथिव्यां ब्राह्मणोत्तमः
अत्यन्तविष्णुभक्तश्च वेदवेदान्तपारगः ॥३
असावपि विनीतश्च सर्वविद्वत्परिग्रहः
पितर्युपरते तस्य क्रमाऽऽयातं धनं गतम्४
वृत्तिश्च शिथिला जाता पूज्यता न च कुत्रचित्
’महाकुलप्रसूतस्य ममेयं वृत्तिरीदृशी ॥५
अपकीर्तिर्महत्येषा पूर्वेषां मम सर्वदा
किं कुर्मः कुत्र गच्छाम’ इति चिन्तामहाम्बुधौ६
मग्नश्शनैर्जगामाऽसौ वेङ्कटाद्रेस्समीपगम्
आगत्य कापिलं तीर्थं कपिलेश्वरसन्निधौ७
तत्र स्नात्वा तदारभ्य तीर्थेषु दशसप्तसु
क्रमेण स्नातुमारेभे समारुह्य गिरिं वरम्८
स्नानेन गतपापश्च चित्तनैर्मल्यसंयुतः
अधित्यकायामासीनः चिन्ताशोकपरायणः ॥९
तत्समीपगुहामध्ये ध्यानयोगपरायणम्
सनत्कुमारं योगीन्द्रं ददर्श ज्वलनोपमम् ॥१०
’अदृष्टपूर्वो योगीन्द्रो वेत्ति सर्वमयं बुधः
पृच्छाम्येनं हितं किञ्चि’ दिति कृत्वा प्रणम्य तम् ॥ ११
’निरयाधिकदुःखेन दुःखितः पापकर्मकृत्
त्वामहं शरणं प्राप्तस्त्वं वेत्थ ब्रूहि मे हितम्’॥१२
इति भूमौ पपाताऽसौ साष्टाङ्गं तस्य सन्निधौ
सोऽपि ध्यायंश्चिरं कालं व्याजहार मिताक्षरम्१३
श्री वाराहपुराणे प्रथमभागे. ३९-तमः अध्यायः.

[[3031]]
’उत्तिष्ठ वत्स किं शेषे कृत्वा घोरं पुरा भवे
पापमस्मिन् भवे पक्वे तस्मिन् शोचसि किं वृथा१४
पुरा तु दानविघ्नाश्च प्रत्यूहाश्च प्रतिग्रहे
सुखस्थितानां पीडाश्च त्वया नानाविधाः कृताः ॥१५
किञित्कि ञ्चिद्द्विजेभ्यो वा वित्तं दत्तं न तु त्वया
गृहं क्षेत्रं पशुर्धान्यं वस्त्रमाभरणं तथा ॥१६
अनाचाराः कृतास्तत्र न त्वाचारलवस्त्वया
प्रणतार्तिहरे विष्णौ प्रणताभीष्टदायिनि ॥१७
न कृतो भक्तिलेशोऽपि कथं सौख्यं भविष्यति ?
तथाऽप्यस्ति तवोपायो वदामि शृणु सादरम्’ ॥१८
इति कर्णामृतं श्रुत्वा वचः प्राह कृताञ्जलिः
’दुःखसागरमग्नस्य मम पोत इवागतः ॥१९
आतपक्लिन्नसस्यानां यथा वृष्टि स्तथा भवान्
निधिर्यथा निर्धनानां रोगिणां वा यथा भिषक् ॥२०
तथा मया भाग्यलेशात् आप्तस्त्वं हि दयानिधिः
रक्ष मां पापिनं घोरं दययेक्षस्व चक्षुषा’२१
इत्युक्तः प्राह योगीन्द्रः कारुण्याब्धितरङ्गितः
’महद्रहस्यं तत्त्वार्थं शृणु वत्स ब्रवीमि ते ॥२२
सनत्कुमारकथित व्यूहलक्ष्मी मन्त्रोद्धारक्रमः
श्री सनत्कुमारः-
दयालोलतरङ्गाक्षी पूर्णचन्द्रनिभानना
जननी सर्वलोकानां महालक्ष्मीरछरिप्रिया ॥२३
सर्वपापहरा सैव प्रारब्धस्याऽपि कर्मणः
संहृतौ तु क्षमा सैव सर्वसम्पत्प्रदायिनी ॥२४
तस्या व्यूहप्रभेदास्तु लक्ष्मीः कीर्तिर्जयेति च
तत्र या व्यूहलक्ष्मीः सा मुग्धा कारुण्यविग्रहा ॥२५
अनायासेन सा लक्ष्मीः सर्वपापप्रणाशिनी
सर्वैश्वर्यप्रदा नित्यं तस्या मस्त्रमिमं शृणु ॥२६
वेदादिमायै मात्रे च लक्ष्म्यै नतिपदं वदेत्
परमेति पदं चोक्त्वा लक्ष्म्या इति पदं ततः ॥२७
विष्णुवक्षस्थ्सितायै स्यान्माया श्रीतारिका ततः
वह्निजायान्तमन्त्रोऽयमभीष्टार्थसुरद्रुमः ॥२८
द्विभुजा व्यूहलक्ष्मीः स्याद्बद्धपद्मासनप्रिया
श्रीनिवासाङ्गमध्यस्था सुतरां केशवप्रिया ॥२९
तामेव शरणं गच्छ सर्वभावेन सत्वरम्’
इति मन्त्रमुपादिश्य ददृशे न च कुत्रचित्३०
भीतोऽसौ विस्मितश्चैव सन्तोषपुलकाङ्कितः
’अद्य मे रजनी व्युष्टा शुभा जन्म च सत्फलम्३१
इति मन्त्रं शुचिर्छूत्वा जपन्नारुह्य पर्वतम्
तत्र तत्र गिरौ पश्यन् झरान् पर्वतनिर्गतान् ॥३२
स्वामिपुष्करीणीं प्राप शनैर्दिष्ट्या महाद्भुताम्
आकाशादवरुह्याऽत्र स्थितां मन्दाकिनीमिव ॥३३
श्री वाराहपुराणे प्रथमभागे. ३९-तमः अध्यायः.

[[3233]]
विरजामिव पापघ्नीं पुण्यदां पुण्यसेविताम्
आत्मारामस्तथा तत्र सस्नौ शास्त्रे यथोदितम् ॥३४
स्नाने कृते तस्य देहो भारपाते यथा लघुः
तत उत्थाय तत्पुण्यं ददर्श वनमु त्तमम् ॥३५
तत्र दृष्टं महद्धाम विमानं सिद्धसेवितम्
अनेकगोपुरोपेतं मण्डपानन्त्यसंयुतम्३६
अनेकरत्नखचितं तप्तहाटकनिर्मितम्
गन्धर्वनगरप्रख्यं दृष्टिचित्तापहारकम् ॥३७
नृत्तवादित्ररुचिरं सुरसङ्घनिषेवितम्
’किमिदं निर्जने दृष्टं वनेऽस्मिन्महदद्भुतम्’ ॥३८
इति विस्मयसम्फुल्लहृदयाम्भोरुहस्तदा
द्रष्टुं विमानं तद्दिव्यं ययौ पुण्यफलोदयः ॥३९
ददर्श तत्र फुल्लाब्जनयनं वेङ्कटेश्वरम्
शङ्खचक्रधरं श्रीशं वरावनतहस्तकम् ॥४०
किरीटमकुटोपेतं कुण्डलाभ्यां विराजितम्
सर्वाभरणसम्पूर्णं पीताम्बरधरं विभुम् ॥४१
कोटिकन्दर्पलावण्यं श्रीभूमिसहितं परम्
’त्वमेव परमं धाम त्वमेव परमा गतिः ॥४२
त्वमेव जगतां स्रष्टा धाता हर्ता महेश्वरः’
इति स्तुतं शिवेनापि विधिनाऽपि स्तुतं सदा ॥४३
प्रणम्योत्थाय सन्तोषात्त्सोतुं गद्गदकण्ठधृत्
’सर्वं त्वमेव जानासि सर्वात्मंस्त्वां नमाम्यहम्’ ॥४४
इति प्रणम्य भूयोऽपि तूष्णीं पश्यन्थ्सितोऽग्रतः
सर्वज्ञः करुणारूपः श्रीनिवासः परात्परः ॥४५
ज्ञात्वा मुग्धञ्च प्राह’मा भैषीर्मा शुचः पुनः
क्षान्तं त्वया कृतं सर्वं व्यूहलक्ष्मीं विमृश्य तत् ॥४६
ऐश्वर्यं सुमहद्दत्तं दीर्घकालानुबन्धनम्
दीर्घमायुश्च ते दत्तमारोग्यं ज्ञानशीलता ॥४७
मया दत्तान् द्विजश्रेष्ठ भुङ्क्ष्व भोगान्बहूनपि’
एवं ब्रुवति देवेशे प्रणनाम पुनश्च तम् ॥४८
उत्थाय भूयो देवं च नापश्यत्पुण्यकाननम्
अतिभीतः परिक्रम्य सरस्तीरं विमृश्य च ॥४९
’स्वप्नो मतिभ्रमो वाऽपि माया वा सत्यमेव वा ?
न जाने देवदेवेश सत्यमेव भव्तेत्तु वा’ ॥५०
इति ब्रुवन्द्विजस्तस्मादवरुह्य गिरेस्ततः
पर्यन्ते वेङ्कटाद्रेस्तु वासं चक्रे प्रसन्नधीः ॥५१
यथेप्पितं सुखं रेमे दीर्घकालेन वै द्विजः
इति वाल्मीकिना पूर्वमुक्त मुक्तं मया पुनः ॥५२
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये आत्मारामाख्य
विप्रस्य सम्पत्प्राप्त्यादिवर्णनं नामैकोनचत्वारिंशोऽध्यायः

श्री वाराहपुराणे प्रथमभागे. ३९-तमः अध्यायः.
[[3435]]

चत्वारिंशोऽध्यायः

अथ चत्वारिंशोऽध्यायः

कापिलादि सप्तदशतीर्थमाहात्म्यम्
ऋषयः-
’वराहाद्रिकथा नॄणां श्रोतॄणाममृतोपमा
वैकुण्ठाद्रेः कथां श्रोतुं भूयस्तृष्णा विवर्धते ॥१
दशसप्त च तीर्थानि विद्यन्ते कनकाचले
इति पूर्वं त्वया सूत ! कीर्तितं हि प्रसङ्गतः ॥२
ब्रूहि तेषां तु तीर्थानां माहात्म्यं पुण्यवर्धनम्’
इति पृष्टः पुनः प्राह मुनीनाहूय सादरम्॥३
श्री सूतः-
तीर्थानां चैव माहात्म्यं तेषां वक्तुं च कृत्स्नशः
न शक्यं लेशतस्तेषामुच्यते श्रूयतामिदम्॥४
गिरेरधः प्रदेशे तु कापिलं लिङ्गमुत्तमम्
पाताले पूजितं पूर्वं कपिलेन महात्मना॥५
कुतश्चित्कारणात्तत्तु लिङ्गं परमपावनम्
भित्वा तु धरणीं तस्मान्निर्गतं पूजितं सुरैः॥ ६
तल्लिङ्गं स्थापितं भूमौ प्रार्थितं सर्वदैवतैः
तदग्रे भुवमुद्भिद्य निर्गता कपिला पुरा॥७
तद्बिलं कापिलं तीर्थं सर्वपापप्रणाशनम्
तदूर्ध्वदेशे शक्रस्य तीर्थं परमपावनम्॥८
अहल्यासङ्गसम्भूतशापमोक्षस्तु यत्र तत्
विष्वक्सेनसरस्तस्मादूर्ध्वं पुण्यविवर्धनम् ॥ ९
वरुणस्याऽऽत्मजो यत्र तपः कृत्वा सुदुस्तरम्
सारूप्यं च हरेः प्राप्य सैनापत्यमवाप हि ॥१०
पञ्चायुधानां तीर्थानि तदूर्ध्वं भान्ति सत्तमाः
तदूर्ध्वमग्निकुण्डं स्यात् दुरारोहमुपर्यतः ॥११
ब्रह्मतीर्थं महाहत्यामोचनं पुण्यवर्धनम्
मुनीनां चैव सप्तानां पुण्यतीर्थानि सन्त्यतः ॥१२
दशाधिकफलं तेषां तीर्थानामुत्तरोत्तरम्
एतेषाञ्चैव माहात्म्यं मया वक्तुं न शक्यते ॥१३
पुराऽभवद्द्विजः कश्चित्तीर्थयात्राकृतोद्यमः
तमाह कमलाधीशः ’कि मर्थं गच्छसि द्विज ! ॥१४
अस्मिन् पुष्करशैलेन्द्रे सन्ति दिव्यानि सप्त च
दशतीर्थानि तत्राद्यं कापिलं सर उत्तमम् ॥१५
स्नात्वा चैतेषु विप्रेन्द्र ! शास्त्रोक्तज्ञानपूर्वकम्
कृत्स्नतीर्थफलं पुण्यं प्राप्स्यसि त्वं न संशयः’ ॥१६
इति श्रुत्वा द्विजः पूर्वं स्वप्ने चोत्थाय विस्मितः
निवृत्तस्तीर्थयात्रातः प्राप्य श्री वेङ्कटाचलम् ॥१७
श्री वाराहपुराणे प्रथमभागे. ४०-तमः अध्यायः.

[[3637]]
तेषु तीर्थेषु दशसु सप्तसु क्रमशो गतः
स्नात्वा तथैव विप्रेन्द्र ! आप्तवानिति मे श्रुतम् ॥१८
तिस्रः कोट्योऽर्धकोटी च तीर्थानि भुवनत्रये
तेषां प्रकृतिभूतानि तीर्थान्यस्मिन् हरेर्गिरौ ॥१९
भूमिप्रदक्षिणे वाञ्छा यद्यस्ति मुनिसत्तमाः
सर्वतीर्थमयं सर्वपुण्यक्षेत्रमयं गिरिम् ॥२०
वेङ्कटाह्वं नरो गत्वा कुर्यात्तस्य प्रदक्षिणम्
भूमिप्रदक्षिणे पुण्यं यत्तत्पुण्यमवाप्नुयात् ॥२१
वेङ्कटाचलशृङ्गाग्रे दृष्टमात्रे हलायुधः
तीर्थयात्राफलं कृत्स्नं प्राप्तवानिति मे श्रुतम् ॥२२
पाण्डवतीर्थमाहात्म्यम्
पाण्डवा धर्मपुत्राद्याः कृष्णेनाऽक्लिष्टकर्मणा
उपदिष्टास्समागम्य वेङ्कटाख्यं नगोत्तमम् ॥२३
कस्मिंश्चित्पुण्यतीर्थे हि क्षेत्रपालाभिरक्षिते
कुर्वन्तः स्नानपानादीन् अवसन्नब्दमात्रकम् ॥२४
तदा कदाचिद्धर्मोऽपि ददर्श स्वप्नमुत्तमम्
यस्मादस्मिन्महातीर्थे स्थितं वत्सरमात्रकम् ॥२५
अनेन पुण्ययोगेन भवन्तः क्षीणकल्मषाः
युद्धे जयं तथा राज्यं गमिष्यन्ति क्रमागतम्
तदाप्रभृति तत्तीर्थं पाण्डवं च विदुर्बुधाः ॥२६
जराहरादितीर्थत्रयमाहात्म्यम्.
जराहरं वलिघ्नं च रसायनमिति त्रिकम्
तीर्थानां वर्तते तस्मिन् चिन्तामणिगिरौ तथा ॥२७
स्वामिपुष्करिणीपूर्वदेशे पर्वतगह्वरे
तीर्थानां वर्तते तस्मिन् चिन्तामणिगिरौ तथा ॥२८
न जानन्ति बुधास्तीर्थं तत्तु विस्मयकारकम्
अष्टानां खनयस्सन्ति लोहानां कनकाचले ॥२९
युगभेदेन दृश्यन्ते नराणां पुण्यकर्मणाम्
वेङ्कटाद्रौ परां भक्तिं वहन् गच्छति चेद्गिरिम् ॥३०
पङ्गुर्जङ्घाल एव स्यात् अचक्षुः पद्मलोचनः
मूको वाचस्पतिर्दूरश्रावी तु बधिरो भवेत् ॥३१
वन्ध्या तु बहुपुत्रा च निर्धनस्सधनो भवेत्
एतत्सर्वं गिरौ भक्तिमात्रेणैव भवेद्ध्रुवम् ॥३२
तत्त्वतो वेङ्कटाद्रेस्तु स्वरूपं वेत्ति कः पुमान् ?
श्रीनिवासगिरिश्चायं कदाचित्कनकाचलः ॥३३
कदाचिद्ज्ञानरूपोऽयं कदाचिद्रत्नरूपकः
श्रीनिवास इवाऽऽभाति कदाचिद्भूषणोज्ज्वलः ॥३४
कालभेदेन केषाञ्चित्प्राकृताचलरूपधृत्
तस्मादस्य गिरेः पुण्यं माहात्म्यं वेत्ति कः पुमान् ? ॥३५
श्री वाराहपुराणे प्रथमभागे. ४०-तमः अध्यायः.

[[3839]]
श्रुतेषु किञ्चिद्द्रृष्टेषु मयोक्तं भवतामिदम्
श्रुतश्च सर्ववृत्तान्तः शक्यो वक्तुं मया न हि ॥३६
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये कापिलादि
सप्तदशतीर्थमाहात्म्यादिवर्णनं नाम चत्वारिंशोऽध्यायः

एकचत्वारिंशोऽध्यायः

अथ एकचत्वारिंशोऽध्यायः

श्री वेङ्कटाद्रिं प्रति श्रीरामागमनम्
मुनयः-
’वेङ्कटाद्रेस्तु माहात्म्यं जनकर्णरसायनम्
श्रुण्वतां नास्ति तृप्तिस्तु मुनीनां नो बुधोत्तम ॥१
भूयः कथय वृत्तान्तं श्रुतं किञ्चित्त्वया पुरा’
इत्युक्तः प्राह सूतोऽपि श्रुतं च मुनिपुङ्गवान् ॥२
श्री सूतः-
पुत्रो दशरथस्याऽऽसीद्रामो राजीवलोचनः
स सर्वलक्षणोपेतः सर्वशास्त्रविशारदः ॥३
रावणस्य वधार्थाय पुरा सौमित्रिणा सह
हनूमता वेगवता सुग्रीवेण महात्मना ॥४
सह सैन्यैर्यदा पम्पातीराच्छोभितपादपात्
निर्जगाम तदा रामः शुभे श्री वेङ्कटाचले ॥५
स्वामिपुष्करिणीतीर्थे स्नात्वा पश्चाद्रणे रिपुम्
रावणं सगणं हत्वा जयमापेति मे श्रुतम् ॥६
तत्सर्वं कथयिष्यामि श्रोतव्यमवधानतः
ऋश्यमूकाचलात्तस्मात् वानरैर्बहुभिर्वृतः ॥७
रावणस्य वधार्थाय कृतोद्योगः सकार्मुकः
शेषाचलसमीपे तु यदा रामः समागतः ॥८
तदा सत्यञ्जना देवी वायुसूनोर्महात्मनः
जननी पुरतो गत्वा रामं रक्तान्तलोचनम् ॥९
नमस्कृत्य महाभागा वचनं चेदमब्रवीत्
प्रतीक्षन्ती महाबाहो त्वदागमनमद्भुतम् ॥१०
तिष्ठाम्यस्मिन् गिरौ राम मुनयोऽपि च कानने
तपः कुर्वन्ति सततं त्वदागमनकाङ्क्षया ॥११
तान्त्सर्वान्त्समनुज्ञाप्य गन्तुमरछसि सुव्रत’
इत्युक्तः प्राह रामोऽपि हनूमन्मातरं प्रति ॥१२
श्रीरामः-
’कालात्ययो भवेद्देवि मयि तत्र समागते
ममेदानीं वरारोहे कार्यस्य महती त्वरा ॥१३
पुनरागमने देवि तथा भवतु सुन्दरि’
इत्युक्तं राघवेणैतद्वाक्यं श्रुत्वा महामतिः ॥१४
हनूमान् प्रणतो भूत्वा वाक्यं चैतदुवाच ह
’स्थातव्यमत्र भवता यत्र कुत्राऽपि सर्वदा ॥१५
श्री वाराहपुराणे प्रथमभागे. ४१-तमः अध्यायः.

[[4041]]
यस्माच्छ्रान्ता महासेना वानराणां तरस्विनाम्
अयं च मार्ग एवाद्रिः सदा पुष्पफलद्रुमः ॥१६
बहुप्रस्रवणोपेतो बहुकन्दरसानुमान्
सुस्वादुकन्दमूलोऽयं अञ्जनाख्यो महागिरिः ॥१७
मधूनि सन्ति वृक्षेषु बहूनि गिरिकन्दरे
वेत्थ सर्वं महाबाहो यथेच्छसि तथा कुरु’ ॥१८
इत्युक्तो वायुपुत्त्रेण श्रीरामः प्रहसन्नसौ
’जानेऽहमञ्जनासूनो ! तथाऽपि वचनं तव ॥१९
श्रोतव्यं हि महाबाहो गच्छाग्रे त्वं हरीश्वर’
इत्युक्त्वा वाहिनीं तां च कर्षन् पर्वतमाययौ ॥२०
नागकेसरमालूरपुन्नागतरुशोभितम्
चम्पकाशोकवकुलचूतकिंशुकराजितम् ॥२१
मयूरशारिकालापैः कोकिलानां स्वनैरपि
शुकमञ्जुलनादैश्च कपोतस्वनहुङ्कृतैः ॥२२
शोभितं फलपुष्पैश्च वेङ्कटाख्यं नगोत्तमम्
निर्लोमा नामतः कश्चिद्विप्रो वेदविदां वरः ॥२३
स्वयम्भुवं समुद्दिश्य ब्रह्मलोकजिगीषया
तपश्चकार धर्मात्मा पर्वतोत्तरदेशतः ॥२४
आगत्य भगवान् ब्रह्मा तमाह द्विजसत्तमम्
’रामं दृष्ट्वा ससौमित्रिं ब्रह्मलोकमवाप्स्यसि’
इत्युक्तो ब्रह्मणा पूर्वं दृष्ट्वा रामं परात्परम् ॥२५
फलमूलाशनैः सम्यक् पूजयित्वा तमब्रवीत्
’अद्य मे सफलं जन्म त्वन्मुखाम्भोजदर्शनात् ॥२६
चिरकालार्जितं स्वामिन् ! फलितं तप उत्तमम्
अनुज्ञापय मां राम ब्रह्मलोकं प्रतीश्वर’ ॥२७
इत्युक्तः स तु धर्मात्मा ’तथैवाऽचर भो द्विज!’
इत्युक्त्वा तं तु विप्रेन्द्रमारुरोह नगोत्तमम् ॥२८
शापमोक्षं च यक्षाणां केषाञ्चित् पर्वतोत्तमे
दत्वा रामोऽञ्जनादेव्या आश्रमं पुण्यवर्धनम् ॥२९
आकाशगङ्गानिकटे प्रतिपेदे महामनाः
तया स पूजितः सम्यक् तस्यै दत्त्वा वरोत्तमम् ॥३०
आपृच्छ्य तां महाभागां स्वामिपुष्करिणीं ययौ
तत्र रामो महातेजाः सौमित्रिर्मारुतात्मजः ॥३१
सुग्रीवश्चाङ्गदश्चैव जाम्बवान् नील एव च
चक्रुः स्नानं महातीर्थे सर्वत्र विजयप्रदे ॥३२
फलमूलानि चानीय रामो धर्मभृतां वरः
चकार दानं तत्रैव मुनिभ्यः शास्त्रवर्त्मना ॥३३
तस्या नैरृतिदिग्भागे कुटीं कृत्वा पृथक्पृथक्
सुस्वादुफलमूलानि मधूनि सुबहूनि च ॥३४
आनीय वायुपुत्रस्तं पूजयामास राघवम्
ततो रामः सम्प्रहृष्टः सुग्रीवप्रमुखैः सह ॥३५
स्यवसत्सुसुखं रामः स्वगेह इव तत्र वै
वानराश्च महात्मानो गोलाङ्गूला महाबलाः ॥३६
श्री वाराहपुराणे प्रथमभागे. ४१-तमः अध्यायः.

[[4243]]
सर्वतस्तत्र पुष्पाणि मूलानि च फलानि च
मधूनि स्वादुतीर्थानि भक्ष्यजातान्यनेकशः ॥३७
भक्षयित्वा मदोन्मत्ताः चेरुस्तत्र सहस्रशः
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥३८
शृङ्गाच्छृङ्गं गिरेस्तत्र वृक्षाद्वृक्षं वनाद्वनम्
चेरुस्ते वानराः सर्वे मुदिता बलगर्विताः३९
केचिदारुरुहुस्तत्र वानरान् वानरोत्तमाः
कांश्चित्पुच्छप्रदेशे तु गृहीत्वा वानरान् क्वचित्४०
कर्षन्ति स्म तदा कांश्चित् केचित्कर्णं चुचुम्बिरे
’दृष्ट्वैव रावणं सङ्ख्ये हन्याम ससुहृद्गणम् ॥४१
लङ्कां समूलमुत्पाट्य त्रिकूटं वा महागिरिम्
अन्वेष्यामो वयं सिन्धुं बहुनक्रसमाकुलम् ॥४२
तरामो बाहुवेगेन गृह्णीमश्चन्द्रभास्करौ
पाटयामो गिरीन् सर्वान् रामार्थे भूरुहानपि ॥४३
पातालं वा महर्लोकं प्रविशाम रसातलम्
गच्छामो रावणो यत्र तिष्ठत्यविनयान्वितः ॥४४
तमेव हन्मः शूरं तु सगणं लोककण्टकम्
चिरायते शिरश्चेदे रामः परमधार्मिकः’ ॥४५
इति ब्रुवन्तस्ते सर्वे वानराः पर्वतोपमाः
तस्मिन् दिव्ये महापुण्ये वेङ्कटाद्रौ वनेचराः ॥४६
कोटिकोट्यर्बुदास्तत्र परार्था बलशालिनः
परस्परमसम्बाधं न्यवसन् सुसुखं गिरौ
अहो गिरिप्रभावोऽयं वर्णनीयः कथं बुधैः ! ॥४७
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये श्री वेङ्कटाचलं प्रति
श्रीरामागमन अञ्जनाप्रार्थनादिवर्णनं नाम एकचत्वारिंशोऽ ध्यायः

द्विचत्वारिंशोऽध्यायः

अथ द्विचत्वारिंशोऽध्यायः

वैकुण्ठाख्यगुहाप्रविष्टवानरवृत्तान्तः
श्री सूतः-
स्वामिपुष्करिणी यत्र तत ईशान्यभागतः
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥१
मैन्दश्च द्विविदश्चैव सुषेणश्च महामतिः
काञ्चिद्गुहां तमोरुद्धां प्रविष्टास्तत्र वानराः ॥२
उन्निद्रनेत्राः सर्वेऽपि सिंहतुल्यपराक्रमाः
जग्मुस्ते तमसाऽऽविष्टां सुदूरं तां गुहां तदा ॥३
ददृशेऽत्र महाज्योतिः सूर्यकोटिरिवोदिता
ज्योतिर्गणानां तटितां मिलितानामिवाबभौ ॥४
तत्र काचित्पुरी रम्या तप्तहाटकनिर्मिता
कवाटतोरणवती रम्योद्यानशतैर्युता ॥५
श्री वाराहपुराणे प्रथमभागे. ४२-तमः अध्यायः.

[[4445]]
स्फटिकोपलवच्छुद्धजलनद्या समावृता
रत्नमाणिक्यवैडूर्यमुक्तानिर्मितगोपुरा ॥६
अनेकमण्डपैर्युक्ता प्रासादशतसङ्कुला
महावीथीशतोपेता रथमातङ्गसंयुता ॥७
वरनारीगणोपेता सर्वमङ्गलशोभिता
शङ्खचक्रधरास्तत्र सर्वे चैव चतुर्भुजाः ॥८
सशुक्लमाल्यवसनाः सर्वाभरणभूषिताः
दिव्यचन्दनलिप्ताङ्गाः परमानन्दपूरिताः ॥९
तन्मध्ये सुमहद्दिव्यं विमानं सूर्यसन्निभम्
अत्युन्नतमहामेरुशृङ्गतुल्यं मनोहरम् ॥१०
बहुप्रकाशसम्पन्नं मणिमण्डपसंयुतम्
भेरीमृदङ्गपणवमर्दलध्वनिशोभितम् ॥११
नृत्तवादित्रसम्पन्नं किन्नरस्वनसंयुतम्
ददृशुस्तत्र पुरुषं पूर्णचन्द्रनिभाननम् ॥१२
चतुर्बाहुमुदाराङ्गं शङ्खचक्रधरं परम्
पीताम्बरधरं सौम्यमासीनं काञ्चनाऽऽसने ॥१३
फणामणिमहाकान्तिविराजितकिरीटिनम्
भोगिभोगे समासीनं सर्वाभरणभूषितम् ॥१४
आसनोपरि विन्यस्तवामेतरकराम्बुजम्
प्रसार्य दक्षिणं पादमुद्धृते वामजानुनि ॥१५
प्रसार्य वामहस्ताब्जं श्रीभूमिभ्यां निषेवितम्
सेवितं नीलया देव्या वैजयन्त्या विराजितम् ॥१६
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम्
कृपारसतरङ्गौघपूर्णनेत्राम्बुजद्वयम् ॥१७
शशिप्रभासमच्छत्रं चामरव्यजने शुभे
हस्ताभ्यां धारयन्तीभिः नारीभिः सेवितं मुदा ॥१८
दृष्ट्वा ते वानराः सर्वे विस्मिताः शुभलोचनाः
अत्रान्तरे महाभागः पुरुषः परमाद्भुतः ॥१९
चतुर्भुजो दण्डहस्तो दृष्ट्वा त्वरितविक्रमः
दण्डमुद्यम्य तान् सर्वान् भर्त्सयामास वै तदा ॥२०
ते सर्वे वानरा भीता निर्जग्मुर्गिरिगह्वरात्
निर्गत्य सहसा तेभ्यः प्रोचुर्दृष्टं यथा तथा ॥२१
’रावणस्तु महामायी कामरूपी च वञ्चकः
अन्यो वा रावणोवाऽथ शोधनीयः प्रयत्नतः’ ॥२२
इत्युक्त्वा वानरास्ते च सर्वे सम्भूय सव्भ्रुमात्
यत्र पूर्वं गुहा दृष्टा तत्रागच्छन्वनौकसः ॥२३
नापश्यन्नगरीं तत्र चिह्नं वा दृष्टपूर्वकम्
भ्रमात्तमञ्जसा शैलं विचिन्वन्तश्च सर्वतः ॥२४
’भ्रम’ इत्येव निश्चित्य तूष्णीमासन् वनौकसः
ततः प्रभाते विरते रामो राजीवलोचनः ॥२५
श्री वाराहपुराणे प्रथमभागे. ४२-तमः अध्यायः.

[[4647]]
लक्ष्मणेन सह भ्रात्रा वानरेन्द्रेण धीमता
सह सैन्यैर्महातेजाः प्रतस्थेऽ रिजिगीषया ॥२६
जित्वा च रावणं युद्धे प्राप्य सीतां महाबलः
अयोध्यां पुनरभ्येत्य भ्रातृभिः सहितोऽनघः ॥२७
प्राप राज्यं स्वयं रामः स्वामितीर्थस्य वैभवात्
इति श्रुतं मया पूर्वमब्रुवं भवतामहम् ॥२८
वैकुण्ठाख्यगुहाप्रभाववर्णनम्
मुनयः-
’वैकुण्ठाद्रौ गुहा दृष्टा काचिद्वानरसत्तमैः
इत्युक्तं भवता सूत ! वेदवेदाङ्गपारग !
गुहा का? वद नो ब्रह्मन् श्रोतुं कौतूहलं हि नः’ ॥२९
श्री सूतः-
श्रूयतामभिधास्यामि देवमाया मया श्रुता
वैकुण्ठाख्या गुहा सा तु दुर्ज्ञेया मुनियोगिभिः ॥३०
दुर्ङ्ञेया या तु देवैश्च मायया परमात्मनः
लीलया विष्णुना पूर्वं वानराणां प्रकाशिता ॥३१
तस्यां गुहायां ये दृष्टाः शङ्खचक्रधरा अपि
ते तु मुक्तास्तथा नित्याः परमानन्दरूपिणः ॥३२
भुञ्जते ब्राह्ममानन्दमाविर्भूतगुणाश्च ते
सञ्चरन्तः कामरूपा लोकान् भगवता सह ॥३३
आनन्दरूपाः कैङ्कर्यं कुर्वन्तो ब्रह्मणो हिते
वसन्ति तत्र सततं ब्रह्मणा परमेष्ठिना ॥३४
यदा यदा कलिः कालो यदा वा जनता गिरौ
तदा गुहायां तस्यां तु वसिष्यन्तीति नः श्रुतम् ॥३५
एवम्प्रभावः शेषाद्रिः वसत्यस्मिन् जगन्मयः
क्रीडते लीलया युक्तो नित्यैर्मुक्तैश्च सूरिभिः ॥३६
नीलमेघनिभं श्यामं नीलोत्पलविलोचनम्
नीलाद्रिशिखरस्थं तं भजाम्यत्रैव सुस्थितम् ॥३७
गुहाख्यानं श्रुतं किं वा ? युष्माभिर्वीतकल्मषैः
शृण्वतामिदमाख्यानं कलिदोषमलापहम्
धन्यं यशस्यमायुष्यं पुत्रपौत्राभिवर्धनम् ॥३८
इतीरितः शेषगिरेः प्रभावः श्रुतो मया योगिवरेभ्य आदरात्
समस्तजीवात्मसमष्टिरूपिणो हरेः प्रभावोऽपि करीन्द्रगोप्तुः ॥३९
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये वैकुण्ठगुहा-
प्रविष्टवानरवृत्तान्तादिवर्णनं नाम द्विचत्वारिंशोऽध्यायः

श्री वाराहपुराणे प्रथमभागे. ४२-तमः अध्यायः.
[[4849]]

त्रिचत्वारिंशोऽध्यायः

अथ त्रिचत्वारिंशोऽध्यायः

रावणादिपीडितदेवर्षीणां क्षीरार्णवब्रह्मलोकादिगमनम्
मुनयः-
’विश्वविश्रुतविश्वार्थविबोधनविचक्षण !
वक्तुमरछसि तत्सूत ! यत्पृच्छामो वयं पुनः ॥१
वेङ्कटाद्राविदानीं तु सर्वप्रत्यक्षगोचरः
आस्ते ह्यङ्ङनशैलाभः सर्वाभीष्टफलप्रदः ॥२
कस्य वा पुण्यशीलस्य रूपमेतत्प्रदर्शितम्
वक्तव्यं तदशेषेण शृण्वतां नो महामुने
इत्युक्तो मुनिभिस्तैस्तु सूतः प्राह मुनीन् प्रति ॥३
श्री सूतः-
शृणुध्वं मुनयो यूयं वेङ्कटेशकथां पराम्
व्यासेन मुनिना प्रोक्तां मह्यं पूर्वं स्वयम्भुवः४
प्रदर्शितमिदं रूपमिति तत्कथयाम्यहम्
वृत्तान्तमादितः कृत्वा शृण्वन्तु मुनिसत्तमाः ॥५
पुरा कदाचिज्जाबालिः काश्यपो गौतमस्तथा
अगस्त्यो वामदेवश्च शतानन्दो मुनिस्तथा ॥६
योगिनः सनकाद्याश्च वासवाद्या दिवौकसः
हिरण्यकशिपोर्वंशसम्भवैश्च दुरात्मभिः ॥७
दैत्यैश्च पीडिताः केचित् विष्णवे तन्निवेदितुम्
निर्जग्मुस्तेऽथ सम्भूय विचेतुं विष्णुमव्ययम् ॥८
क्षीराब्धेरुत्तरं तीरं गत्वा देवं जनार्दनम्
तुष्टुवुर्विविधैः स्तोत्रैः अगस्त्याद्याः सुराश्च ते ॥९
’क्षीरोदशायिन् ! भगवन् ! सर्वकारणकारण !
सूक्ष्मप्रकृतिसंलीनजीवतत्त्वैर्युत ! प्रभो ! ॥१०
सृष्टिकाले भवानेव त्वत्तोऽन्यन्न हि विद्यते
स्रष्टा त्वमेव सर्वस्य जङ्गमस्थावरात्मनः ॥११
त्वमेव दृश्यसे विष्णो जगद्रूप नमोऽस्तु ते
अङ्गीकृत्य भवानेव जगत्पालनकर्म च ॥१२
शेषे शेते श्रिया सार्धं निश्चितं मधुसूदन !
जागरूकः सदा त्वं तु जगत्पालनकर्मणि ॥१३
विचारयसि नास्मांस्त्वं किमर्थं ? मधुसूदन !
प्रसीद भगवन् विष्णो ! प्रसीद त्वं सुरेश्वर ! ॥१४
प्रसीद करुणासिन्धो ! प्रसीद वरदामल !’
एतस्मिन्नन्तरे कश्चित् शङ्खचक्रगदाधरः ॥१५
पार्षदः परमेशस्य व्योम्नि चाऽगत्य वै मुनीन्
पुरुषः सोऽब्रवीदेवं श्रूयतामिति तान्मुनीन् ॥१६
’आस्ते भूमौ गिरौ क्वापि मायावी कमलापतिः
किमर्थमागतं सद्भिर्युष्माभिः सनकादिभिः ॥१७
श्री वाराहपुराणे प्रथमभागे. ४३-तमः अध्यायः.

[[5051]]
तत्रैव यूयं गच्छध्व’ मिति चोक्त्वा ययौ पुनः
निवृत्य तरसा तस्मात् देशाद्वै सुरसत्तमाः ॥१८
सम्भूय ते विचार्याथ ’किमर्थं कमलापतिः
मुक्त्वा क्षीराब्धिमध्यं तु वसेद्भूमौ सनातनः’ ॥१९
इति सञ्चित्य मनसा वैकुण्ठं लोकमुत्तमम्
ययुस्ते मुनयः सर्वे योगिनस्त्रिदशा अपि ॥२०
गच्छन्तो मार्गमध्ये तु ददृशुर्नारदं मुनिम्
महतीं वादयन्तं च वीणां स्फटिकसन्निभाम् ॥२१
कर्पूरधूलिसदृशपुण्ड्रोद्भासितविग्रहम्
वैकुण्ठलोकादायान्तं दृष्ट्वा तं मुनयोऽब्रुवन् ॥२२
’क्वासि नारद पुण्यात्मन् ! त्रैलोक्यं विदितं तव
न तवाविदितं किञ्चित् त्रिषु लोकेषु विद्यते ॥२३
क्व वा वसति लक्ष्मीशः ? शंस विद्वन् महामुने
श्रीशैलस्य समीपे तु दैत्याः केचन मायिनः ॥२४
बाधन्ते मनुजांस्तीव्रं तापसान् योगिनो मुनीन्
रावणः सगणो नित्यं बाधते बलगर्वितः ॥२५
एतेषां विग्रहे शक्तो विष्णुरेव महाबलः
तमेव शरणं यामः स तु कुत्र वसे’ दिति ॥२६
पृष्टः प्राह मुनीन्द्रोऽपि तान्मुनी प्रतिपूज्य च
’’नारायणमहं द्रष्टुं दिव्यकल्याणविग्रहम् ॥२७
अगमं परमं धाम परमानन्दकारणम्
तदा कश्चित्समभ्येत्य तत्र मामुक्तवानिदम् ॥२८
’भूमौ क्वापि गिरौ विष्णुर्लक्ष्म्या सह विमोदते’
इति श्रुत्वा वचः सम्यक् आगच्छामीह तापसाः ॥२९
ब्रह्मलोकं गमिष्यामः सर्वे वयमतः परम्
स एव वेत्ति तत्सर्वं सर्वलोकपितामहः३०
इत्युक्त्वा नारदेनैव सह लोकं स्वयम्भुवः
ययुः शीफ्रुं सुराः सर्वे मुनयो योगिनोऽपि च ॥३१
ब्रह्मलोकं समागम्य ददृशुस्ते मितौजसः
चतुर्मुखं चतुर्बाहुं ज्वलन्तमिव पावकम् ॥३२
सम्भूय वेदशास्त्रौघं मूर्तिमन्तमिव स्थितम्
गायत्र्या चैव सावित्र्या सरस्वत्या च सेवितम् ॥३३
किन्नरोरगगन्धर्वसिद्धसङ्घनिषेवितम्
वेदैः सविग्रहैश्चैव शास्त्रैरपि च सेवितम् ॥३४
सेवितं च दिशापालै रासीनं परमासने
उपसृत्य तु तं देवाः प्रणेमुर्मुनयोऽपि च ॥३५
आसनेषूपविष्टास्ते सुराश्च मुनयोऽपि च
पृष्टाश्च स्वागतप्रश्नैः इदं वचनमब्रुवन् ॥३६
’स्वामिंस्तवैव कृपया न कुत्रापि दुरत्ययः
मङ्गलं सर्वथाऽस्माकं सर्वलोकपितामह ! ॥३७
श्री वाराहपुराणे प्रथमभागे. ४३-तमः अध्यायः.

[[5253]]
किन्तु बाधा च महती रावणस्य दुरात्मनः
दैत्याः केचन सम्भूताः श्रीशैलस्य समीपतः३८
बाधन्ते सर्वमनुजान् कर्मानुष्ठानतत्परान्
तपोव्ययभयात्सर्वे सहन्ते मुनयोऽमलाः ॥३९
इतः परमशक्यं तत् सोढुं रावणचेष्टितम्
मायावी भगवान् विष्णुः सर्वोपायविशारदः ॥४०
एतेषां हनने शक्तः सर्वशक्तिधरश्च सः
न पश्यामश्च तं विष्णुं कुत्रापि भुवनत्रये
त्वमेव गतिरस्माकमस्मांस्त्राहि महाभयात्’ ॥४१
इतीरितो योगिवरैश्च तापसैः बुधोत्तमैः शक्रपुरोगमैश्च
ध्यात्वाऽथ देवः कमलासनोऽपि प्रोवाच देवान्मुनिपुङ्गवांश्च ॥४२
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये रावणादिपीडितदेवर्षीणां
क्षीरार्णवब्रह्मलोकादिगमनवर्णनं नाम त्रिचत्वारिंशोऽध्यायः

चतुश्चत्वारिंशोऽध्यायः

अथ चतुश्चत्वारिंशोऽध्यायः

ब्रह्मादीनां श्री वेङ्कटाचलागमनम्
श्री ब्रह्मा -
’अतितीव्रं तपस्तप्तं रावणेन पुरा सुराः
तेन लब्धमवध्यत्वं फेूरेण तपसा तदा ॥१
मानुषेभ्यो वधस्तेन निश्चितो न विमुह्यता
तस्योपायमहं वक्ष्ये विष्णुरेव परा गतिः ॥२
स चेदानीं गिरावास्ते भूमौ श्रीवेङ्कटाभिधे
स प्रार्थनीयः सर्वैश्च दैत्यौघानां निबर छणे ॥३
अहमप्यागमिष्यामि गम्यतामविलम्बतः
न शक्यमचिराद्द्रष्टुं विचेतव्यमितस्ततः ॥४
सानवः सरितश्चापि र्झराश्च गुहा अपि
विचेतव्याः सदा सर्वैः युष्माभिश्च विशेषतः ॥५
तस्यात्यन्तप्रियतमो भूधरो वेङ्कटाभिधः
शुकपक्षिमृगादीनां रूपं धृत्वा परात्परः ॥६
क्रीडते रमया सार्धं सूरिभिस्तत्र पर्वते
गिरिप्रदक्षिणे प्रीतिः महती तस्य वर्तते ॥७
प्रदक्षिणविधानेन विचेतव्यः स भूधरः
इक्ष्वाकुवंशप्रभवो राजा दशरथो महान् ॥८

[[5455]]
वेङ्कटाद्रिं समागत्य पुत्रार्थी तप उत्तमम्
करिष्यति महाभागः स्वामिपुष्करिणीतटे ॥९
दर्शयिष्यति रूपं स्वं तस्य राज्ञः श्रियः पतिः
इत्युक्ता ब्रह्मणा सर्वे मुनयश्च दिवौकसः ॥१०
योगिनोऽपि महात्मानः तस्माल्लोकाद्विनिर्ययुः
निर्गत्य सहसा शेषभूधरेन्द्रं समाश्रिताः११
नानामृगगणाकीर्णमनेकझषसङ्कुलम्
तालहिन्तालपुन्नागचम्पकाशोकशोभितम् ॥१२
कुन्दमन्दारपनसपूगकैतकसंयुतम्
तिमिशैश्चिरिबिल्वैश्च नक्तमालैश्च पुष्पितैः ॥१३
चम्पकैः पनसैराव्रेुैः नारिकेलैश्च शोभितम्
कोविदारकरञ्जैश्च पाटलाश्वत्थपादपैः ॥१४
प्लक्षोदुम्बरजम्बूभिः कपित्थकलिभूरुहैः
चम्पकैः सिन्दुवारैश्च शोभितं रक्तचन्दनैः ॥१५
भूलोकदुर्लभैर्द्वीपसम्भवैः पादपैरपि
खर्जूरैः किंशुकैश्चैव स्यन्दनैः पद्मकैस्तथा ॥१६
अङ्कोलैर्मुचुकुन्दैश्च शिंशुपाभूरुहैस्तथा
मधूकशाल्मलीभिश्च पुष्पिताभिः सुशोभितम् ॥१७
सर्वकालफलैर्वक्षैः स्रवन्मधुसुशोभितैः
मत्तकोकिलसन्नादैः षट्पदस्वनसव्भ्रुमैः ॥१८
शुकमञ्जुलसन्नादैः शारिकालापविभ्रमैः
मयूराणां निनादैश्च शोभितप्रस्थसानुकम् ॥१९
अन्येषामपि दिव्यानां पक्षिणां मञ्जुलस्वनैः
शोभितानन्दजनकं गिरिशृङ्गं मनोहरम् ॥२०
मत्तमातङ्गशरभसिंहव्याफ्रुनिषेवितम्
महाक्रोडशतैश्चैव महिषैर्वनवासिभिः ॥२१
वृकैर्भल्लूकमुख्यैश्च वानरैश्चापि सङ्कुलम्
कस्तूरीमृगसङ्घैश्च कृष्णसारैश्च शोभितम् ॥२२
चमरीमृगसङ्घैश्च गवयैश्च महामृगैः
शोभितं पर्वतश्रेष्ठं वनमार्जारसङ्कुलम् ॥२३
गुहाशतसमाकीर्णं सिद्धगन्धर्व सेवितम्
गन्धर्वीणां च नारीणां किन्नरीणां तथैव च ॥२४
अप्सरस्सु च मुख्यानां वीणानादैर्मनोहरैः
ह्लादयन्तं हृदम्भोजं पश्यतां हर्षवर्धनम् ॥२५
गरुत्मता वेगवता त्वानीतं पर्वतोत्तमम्
ददृशुर्मुनयो देवा योगिनः शुद्धचेतसः ॥२६
दृष्ट्वा श्रीवेङ्कटं शैलमपनिन्युः श्रमं बुधाः
शृङ्गाच्छृङ्गं समारुह्य वनाद्वनमितस्ततः ॥२७
नदीषु पुण्यतोयासु ह्रादेषु सरसीषु च
वापिकासु प्रवाहेषु तथा पुष्करिणीषु च ॥२८
श्री वाराहपुराणे प्रथमभागे. ४४-तमः अध्यायः.

[[5657]]
स्नात्वा स्नात्वा श्रीनिवासं पुष्पैरभ्यर्च्य सादरम्
फलान्यमृतकल्पानि निवेद्य सुसमाहिताः ॥२९
न तत्र देवं कञ्चिच्च नालयं न च गोपुरम्
ददृशुर्योगिनस्तत्र योगनिष्ठा मुनीनपि ॥३०
तत्र स्थितान् मुनीन् दृष्ट्वा चेरुस्तत्र महौजसः
लोकोत्तरातिलावण्यं नानावर्णं मनोहरम् ॥३१
मृगं वा पक्षिणं दृष्ट्वा गन्धर्वं वा दिवौकसः
असावेव हरिश्चेति विस्मयोत्फुल्लमानसाः
अनुजग्मुर्गिरौ तस्मिन् दिदृक्षाऽऽसक्तचेतसः ॥३२
पुत्रार्थिनो दशरथस्य श्रीवेङ्कटाचलागमनम्
तस्मिन् काले तु धर्मात्मा राजा दशरथः प्रभुः
शशास मेदिनीं कृत्स्नामयोध्यायां महायशाः ॥३३
वर्णाश्रमाचारयुताः प्रजा धर्मेण पालयन्
चिरकालं महीं राजा बुभुजे भूरिविक्रमः ॥३४
न चाद्राक्षीत्कुमारस्य शुचिस्मेरमुखाम्बुजम्
वसिष्ठमब्रवीद्दुःखात् ब्रह्मर्षिममितौजसम् ॥३५
’पुरोहितोऽस्य वंशस्य विशेषेण भवान् मुने !
चिरं लालप्यमानस्य नाऽऽसीद्वंशकरः सुतः ॥३६
पापिनो मम तु ब्रह्मन् ! मया पापं कृतं बहु
पापस्य निष्कृतिः कस्मात् कथं पुत्रो भविष्यति ?’ ॥३७
इति प्रोक्तो वसिष्ठस्तु क्षणं ध्यात्वा प्रसन्नधीः
प्राह चैनं नृपं धीरं वसिष्ठो भगवानृषिः ॥३८
’पुण्यश्लोकस्य भवतः कथं पापं भविष्यति
तथाऽपि तव राजेन्द्र पुत्रप्राप्तिविरोधकृत् ॥३९
दुष्कृतं किञ्चिदस्तीति ध्यानेन प्रतिभाति मे
तस्य पापस्य शान्त्यर्थं पुत्त्राणां प्राप्तये तथा ॥४०
सेव्यः श्रीवेङ्कटाधीशः क्षीराब्धितनयापतिः’
इत्युक्तः प्राह राजाऽपि ब्रह्मन् ! कुत्र श्रियः पतिः ॥४१
इदानीं वर्तते विष्णुः कथं दृश्यो मया प्रभुः
इति पृष्टः प्राह पुनः वसिष्ठोऽपि महामुनिः ॥४२
’शृणु राजन् महाभाग भागीरथ्याश्च दक्षिणे
वर्तते वेङ्कटः शैलो योजनानां शतद्वये ॥४३
सुवर्णमुखरीतीरात् उत्तरे क्रोशमात्रके
अनेकपुण्यतोयैश्च पुण्यैश्चैव महाह्रादैः ॥४४
अनेककिन्नरीभिश्च शोभितः पर्वतोत्तमः
दिव्योऽयं पर्वतेन्द्रस्तु न पुनः प्राकृतो गिरिः ॥४५
स्वरूपं तस्य शैलस्य न तु जानन्ति मानुषाः
नारायणस्य देवस्य वैकुण्ठपुरवासिनः ॥४६
सूर्यवैकुण्ठनाकेभ्यः प्रियोऽयं वेङ्कटाचलः
तस्मिन् हि रमते नित्यं श्रीनिवासः श्रिया सह ॥४७
श्री वाराहपुराणे प्रथमभागे. ४४-तमः अध्यायः.

[[5859]]
दर्शनार्थं हरेस्तत्र यजन्ते मुनयोऽमलाः
योगिनस्त्रिदशाश्चापि तपः कुर्वन्ति सन्ततम् ॥४८
स्वयम्बूर्भगवान् ब्रह्मा तस्मिन् गिरिवरोत्तमे
लोकानुग्रहसिद्ध्यर्थं करिष्यति तपो महत्४९
दर्शयिष्यति तस्मै च स्वस्य रूपं महद्धरिः
दास्यत्यभीष्टं सर्वेभ्यो दर्शनादेव माधवः ॥५०
कूलङ्कषमहौदार्यगुणसिन्धुः श्रियः पतिः
तवाप्यभीष्टं गोविन्दो दास्यत्येव न संशयः ॥५१
एवमुक्तो वसिष्ठेन चक्रवर्ती गुणाकरः
राजा दशरथो हृष्टः प्रसन्नमुखपङ्कजः ॥५२
प्रययौ च वसिष्ठेन वेङ्कटाख्यं गिरिं प्रति
गङ्गां गोदावरीं रम्यां कृष्णां वेणीमनन्तरम् ॥५३
मलापहारिणीं भद्रां तुङ्गां पम्पां मनोहराम्
भवनाशीं च सव्प्रूप्य स्नात्वा स्नात्वा महारथः ॥५४
वेङ्कटाद्रिं ददर्शाथ तुङ्गशृङ्गसमन्वितम्
उद्यानं नन्दनं चैत्ररथं सम्भूय तिष्ठति ॥५५
इत्युत्प्रेक्ष्य मनोहारिवृक्षगुल्मलतायुतम्
युवानञ्च महामेरुमिव चक्षुष्पदं गिरिम् ॥५६
आरुह्य नयनानन्दं हृदयाह्लादकारकम्
र्झरेषु तटाकेषु सरस्सु सरसीषु च ॥५७
नदीषु देवखातेषु तथा पुष्करिणीषु च
स्नात्वा निर्मलसर्वाङ्गः क्षालिताफेू महाबलः ॥५८
लब्ध्वा चित्तस्य संशुद्धिं पीतामृत इव प्रभुः
मुमुदे च महाराजो भोक्तुकामः सुतोत्सवम् ॥५९
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये ब्रह्मादीनां
श्रीवेङ्कटाचलागमनादिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः

पञ्चचत्वारिंशोऽध्यायः

अथ पञ्चचत्वारिंशोऽध्यायः

दशरथेन श्री वेङ्कटाचलवासिमहर्षिचरित्रदर्शनम्
श्री सूतः-
ततो राजा दशरथो वसिष्ठेन सह प्रभुः
वश्यन् पश्यन् वनं रम्यं सानूनि शिखराणि च ॥१
प्राप तत्र गिरौ पुण्यां स्वामिफुष्करिणीं शुभाम्
फुल्लकलाछरकुमुदपुण्डरीकमहोत्पलाम् ॥२
नीलोत्पलगणोपेतां रक्तोत्पलसुशोभिताम्
वञ्जुलैर्वकुलैश्चान्यैः सेवितं काननोद्भवैः३
हंसकारण्डवाकीर्णां बकभेकविघूर्णिताम्
सारसारवसम्पूर्णां भ्रमरारवनादिताम् ॥४
मत्स्यकच्छपसम्बाधां शिंशुमारनिषेविताम्
नक्रैः कर्कटकैश्चान्यैः जलजैर्वनजैरपि ॥५
श्री वाराहपुराणे प्रथमभागे. ४५-तमः अध्यायः.

[[6061]]
सेवितां तीरजैर्वृक्षैः नारिकेलरसालकैः
पूगचम्पकपुन्नागकेतकैः स्वर्णकेतकैः ॥६
अशोककदलीभिश्च मातुलुङ्गैश्च शोभिताम्
लिकुचैर्बीजपूरैश्च निरन्तरतटद्रुमैः ॥७
शोभितां सरसीं दृष्ट्वा मुमोद स महाद्युतिः
मुनीन् ददर्श तत्रैव तपतो योगिनोऽमलान् ॥८
वीरासने समासीनान् बद्धपद्मासने स्थितान्
भद्रासनगतान् कांश्चित् सिंहासनगतान् परान् ॥९
सिद्धासनगतान् कांश्चित् स्वस्तिकासनमाश्रितान्
पर्णाशनान् वायुभक्षान् गोमुखासनसंस्थितान् ॥१०
अङ्गुष्ठाग्रस्थितान् कांश्चित् एकपादेन विष्ठितान्
सूर्योन्मुखान् मुनीनन्यान् कांश्चित् पञ्चाग्निमध्यगान्११
भूशय्यान् जलशय्यांश्च फलमूलजलाशनान्
केवलं कुम्भके सक्तान् केवलं रेचके रतान् ॥१२
केवलं पूरके सक्तान् केवलं प्राणरोधकान्
नाडीशुद्धौ महाव्यग्रान् शुद्धनाडीगणानपि ॥१३
सुषुम्ना सङ्गतप्राणान् षट्कर्मनिरतानपि
दशधाऽनुष्ठिते योगकरणे सुसमाहितान् ॥१४
व्याफ्रूजिनधरानन्यान् कृष्णाजिनवराम्बरान्
वल्कलाऽवसनानन्यान् काषायवसनानपि ॥१५
जलतर्पणसंसक्तान् होमकर्मसु निष्ठितान्
बिल्वहोमरतानन्यान् शमीहोमरतानपि ॥१६
तथाऽऽमलकहोमेषु निष्ठितान् निर्मलान् मुनीन्
तिलाक्षतैर्यवैः पुष्पैः तिलव्रीहिभिरेव च ॥१७
पद्मेन्दीवरकलाछरैः पुण्डरीकैश्च पायसैः
घृतैः पुष्पैर्मधुयुतैः फलैश्च कदलीगतैः ॥१८
मुद्गान्नैश्च तिलान्नैश्च गुडान्नैर्माषसंयुतैः
अपूपैर्मण्डकैश्चापि तिलपिष्टैस्तथैव च ॥१९
होमञ्च कुर्वतः कांश्चित् तत्र तत्र सुनिष्ठितान्
हृदम्बुजगतं श्रीशं विष्णुमर्चयतोऽपरान् ॥२०
ददर्श पुरुषव्याफ्रुः पुनस्तत्रैव केचन
अर्चयन्ति जगन्नाथं सूर्यमण्डलवर्तिनम् ॥२१
श्रीनिवासं तथा केचित् जलमध्यगतं हरिम्
केचिद्बिम्बं हरेः सौम्यं अर्चयन्ति च सर्वदा ॥२२
त्रिविक्रमं तथा चान्ये नृसिंहं भीषणं हरिम्
अर्चयन्ति तिलैः पुष्पैः अक्षतैश्च फलैरपि ॥२३
केचिद्दूर्वाभिरन्ये च पल्लवैश्च तथाऽपरे
अन्ये चम्पकपुष्पैश्च पद्मैरन्ये च तापसाः ॥२४
अर्चयन्ति तथा केचित् पुण्डरीकैस्तथाऽपरे
अशोकतरुपुष्पैश्च नन्द्यावर्तैश्च केचन ॥२५
श्री वाराहपुराणे प्रथमभागे. ४५-तमः अध्यायः.

[[6263]]
अर्चयन्ति जगन्नाथं तथा बिल्वदलैरपि
तुलस्याः सुदलैश्चापि कृष्णश्वेतैश्च योगिनः ॥२६
अर्चयन्ति तथा केचित् मल्लिकाकुसुमैरपि
केचिच्च जातिकुसुमैः मालतीपुष्पसञ्चयैः ॥२७
करवीरैस्तथा केचित् पारिजातोद्भवैरपि
केचिद्दमनकैश्चैव तथा मरुवकैः परे ॥२८
एवमर्चयतो नित्यं ददर्श मुनिपुङ्गवान्
नृसिंहानुष्टुभं केचित् जपन्तश्च तपोधनाः ॥२९
तारकब्रह्मसञ्ज्ञं च मनुं प्रणवपूर्वकम्
केचिद्गोपालबीजं च भुक्तिमुक्तिफलप्रदम् ॥३०
केचिद्वाराहमन्त्रं च जपन्ति मुनयोऽमलाः
द्वादशाक्षरमन्ये च वासुदेवं महामनुम् ॥३१
अष्टाक्षरं तथा केचित् नारायणमनुं परम्
जपन्ति मुक्तिबीजं च भुक्तेरपि च साधनम् ॥३२
न्यासद्वादशकं कृत्वा वेदसारं महामनुम्
नीलमेघनिभं श्यामं पीतवाससमच्युतम् ॥३३
चतुर्भुजमुदाराङ्गं श्रीभूमिसहितं परम्
ध्यात्वा नारायणं मन्त्रं जपन्ति ज्ञानिनोऽमलाः ॥३४
कुशग्रन्थिकृतां मालां पद्मबीजभवां तथा
तुलसीकाष्ठसम्भूतां प्रवालमणिसम्भवाम् ॥३५
स्फाटिकीं स्वर्णविकृतिं पुत्रजीवभवां तथा
कृत्वाऽक्षमालां विविधां मन्त्रसिद्ध्यर्थमेव च ॥३६
ध्यात्वा ददर्श जपतो मुनीन् परमभास्वरान्
तेषां मध्ये महात्मानं ब्रह्माणं कमलासनम् ॥३७
चतुर्मुखं चतुर्बाहुं जपन्तं ज्वलनोपमम्
स्फाटिकीमक्षमालां च धारयन्तं महौजसम् ॥३८
ध्यायन्तं मनसा श्रीशं नासाग्रन्यस्तलोचनम्
व्याफ्रुत्वचि समासीनं निश्चलं ध्यानयोगतः ॥३९
निवातस्थं महादीपं निष्कम्पमिव च स्थितम्
ददर्श राजा संहृष्टो वसिष्ठेन महात्मना ॥४०
तत्र योगिमुनीन् सर्वान् देवान् नत्वा यथाविधि
अतिष्ठच्च महाराजो विस्मयोत्फुल्ललोचनः ॥४१
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचल वासि
महर्षिदिव्यचरित्रानुवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः

षट्चत्वारिंशो ध्यायः

अथ षट्चत्वारिंशो ध्यायः

श्री भगवदाविर्भावघट्टः
श्री सूतः-
वसिष्ठोऽपि महातेजाः राजानमिदमब्रवीत्
’श्रूयतां राजशार्दूल ! ब्रह्मा लोकापितामहः ॥१
श्री वाराहपुराणे प्रथमभागे. ४६-तमः अध्यायः.

[[6465]]
अयमत्र तपस्तीव्रं करोति मुनिभिः सह
अचिराच्छ्रीपतिर्विष्णुः आविर्भूतो भविष्यति ॥२
त्वमप्यत्र शुचिर्भूत्वा स्नात्वा पुष्करिणीजले
जपं कुर्वन् महीपाल ! निवस त्वमिहैव भोः’ ॥३
इत्युक्तः प्राह राजाऽपि मन्त्रं कञ्चित् प्रयच्छ भोः
इति पृष्टो वसिष्ठश्च प्रादान्मन्त्रमनुत्तमम् ॥४
योऽसावष्टाक्षरो मन्त्रो वेङ्कटेशपरायणः
लब्ध्वा तं मन्त्रमतुलं पार्थिवो यन्त्रसंयुतम् ॥५
स्वामिपुष्करिणीतीरे स्नात्वा विधिवदादरात्
क्वचित्तत्र समे देशे लिखित्वा यन्त्रमुत्तमम् ॥६
तत्र विष्णुं समभ्यर्च्य श्रीनिवासं जगत्पतिम्
तदग्रतो जपं कुर्व न्नतिष्ठत्परमासने ॥७
वसिष्ठोऽपि जपन्मन्त्रं आसने कुशविस्तृते
अत्रान्तरे महाशब्दः कश्चित् समुदपद्यत ॥८
किमित्येवाकुलैः सर्वैः वीक्षितं मुनिसत्तमैः
दुर्निरीक्ष्यं महत्तेजो दृष्टं च सुरसत्तमैः ॥९
समस्तविद्युतां कूटमाविर्भूतमिवाभवत्
ज्योतिर्गणानां सङ्घात इव तेजः समुद्यतम् ॥१०
अनेककोटिसूर्याश्च पूर्णचन्द्राश्च कोटयः
एकीभूय समुद्भूता इव तेजः समुत्थितम् ॥११
इदं किमिति तद्द्रष्टुमशक्ताः सहसैव तु
न्यमीलयन्त नेत्राणि समुत्तस्थुश्च ते सुराः ॥१२
सम्भ्रान्तमनसः सर्वे समूहीभूय सादरम्
अतिष्ठन् विविधान् मन्त्रान् जपन्तो योगिनोऽमलाः ॥१३
तत्तेजसा जगत्सर्वं प्रदीप्तमिव च स्थितम्
तेजोमध्ये समुद्भूतं विमानं सूर्यभास्वरम् ॥१४
अनेकगोपुरैर्युक्तमनेकावरणैर्युतम्
तप्तहाटकनिर्वृत्तकवाटगणशोभितम् ॥१५
नीलैर्मरकतैश्चैव कृततोरणसञ्चयम्
समुच्छ्रितपताकाभिः शोभितं विविधैर्ध्वजैः ॥१६
शातकुम्भमयैः कुम्भैः शोभिताग्रैश्च गोपुरैः
अलङ्कृतं वितानैश्च विचित्रैर्वर्णभेदतः ॥१७
लम्बमानैस्तत्र मुक्तादामभिर्दिवि सम्भवैः
मल्लिकामालतीजातिपुष्पाणां च सरैस्तथा ॥१८
स्वर्णचित्रितवस्त्रैश्च लम्बमानैरलङ्कृतम्
अनेकमणिरत्नाढ्यं क्रीडामण्डपसंयुतम् ॥१९
आस्थानमण्डपान्तःस्थमणिस्तम्भसुशोभितम्
चतुर्दिक्षु चतुर्द्वारं द्वारपालैश्च सेवितम् ॥२०
सहस्ररत्नसुस्तम्भमणिमण्डपशोभितम्
रथाश्वगजमुख्यैश्च दिव्ययानै रलङ्कृतम् ॥२१
शारिकाशुकहंसानां मयूराणां स्वनैर्युतम्
कपोतमधुरालापैः विचित्रमृगपक्षिभिः ॥२२
शोभितं च सुगन्धैः सुधूपैश्चापि विराजितम्
भेरीमृदङ्गपणवमुरजस्वनसम्भृतम् ॥२३
श्री वाराहपुराणे प्रथमभागे. ४६-तमः अध्यायः.

[[6667]]
ढक्कानिस्साणसन्नादसम्पूरितदिगन्तरम्
वीणाकिन्नरभेदानां मञ्जुलस्वनसंयुतम् ॥२४
रूपयौवनसम्पन्नदिव्यस्त्रीलास्यलालितम्
श्रवणानन्दजननं हृदयाह्लादकारकम् ॥२५
नयनानन्दजनकं सर्वमङ्गलशोभितम्
चामरग्राहिणीभिश्च सुरूपाभिः सुचारुभिः ॥२६
गृहीतव्यजनाभिश्च रूपयौवनचारुभिः
नीराजनकराग्राभिः श्यामाभिश्च निषेवितम् ॥२७
छत्रध्वजधराभिश्च स्त्रीभिः सेवितमादरात्
एवमत्यद्भुतं दिव्यं विमानं ददृशुर्बुधाः ॥२८
ब्रह्मादयस्तथा देवाः सनकाद्याश्च योगिनः
मुनयोऽगस्त्यमुख्याश्च दृष्ट्वा तत्परमाद्भुतम् ॥२९
इतिकर्तव्यतामूढाः सम्पूर्णाह्लादमानसाः
तस्थुस्तथैव पश्यन्तो विस्मयोत्फुल्ललोचनाः ॥३०
आकाशचारिणो देवा विहगाः पक्षिणस्तथा
मृगाश्च पशवः सर्वे विमानं दिव्यमुत्तमम् ॥३१
दृष्ट्वा विस्मयसम्फुल्ललोचनाः पूर्णमानसाः
चेलुस्तस्मात्पदं नैव तस्थुस्तत्रैव सादरम् ॥३२
अत्यद्भुतं विमानं तत् दृष्ट्वा लोकपितामहः
परमानन्दभरितमुखलोचनपङ्कजः ॥३३
अगस्त्यं च वसिष्ठं च वामदेवं च काश्यपम्
जाबालिमथ कण्वं च देवलं देवदर्शनम् ॥३४
स्वपुत्रं नारदं चैव पराशरमृषिं तथा
व्यासं शुकं तथा गार्ग्यं भार्गवं च्यवनं तथा ॥३५
अन्यानपि मुनीन् पुण्यान् इन्द्राद्यांश्च सुरांस्तथा
सनकादींश्च योगीन्द्रान् समाहूयेदमब्रवीत् ॥३६
’इदं तु दिव्यं परमाद्भुतं शुभं
विमानमिन्द्रादिनिषेव्यमाणम् ।
विभाति विष्णोरिव मन्दिरं परं
पश्याम सर्वे वयमद्भुतं गृहम्’ ॥३८
इतीरयित्वा प्रविवेश तद्गृहं पितामहः सर्वजगत्पतिस्तथा
तथैव सर्वे विबुधास्तपोधनाः तथैव गेहं विविशुश्च योगिनः ॥३९
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये श्रीभगदाविर्भावादि
वर्णनं नाम षट्चत्वारिंशोऽध्यायः

सप्तचत्वारिंशोऽध्यायः

अथ सप्तचत्वारिंशोऽध्यायः

ब्रह्मादीनां भगवन्मन्दिरप्रवेशादिवर्णनम्
श्री सूतः-
अतीत्य प्रथमद्वारं रत्नतोरणभूषितम्
तप्तहाटकनिष्पन्नकवाटद्वयशोभितम् ॥१
चण्डप्रचण्डौ प्राग्द्वारे शङ्खचक्रगदान्वितौ
द्वारपालौ प्रणम्यैव द्वितीयं द्वारमाविशन् ॥२
श्री वाराहपुराणे प्रथमभागे. ४७-तमः अध्यायः.

[[6869]]
तथैव सप्त द्वाराणि समतीत्य महाभुजाः
चतुर्मुखमुखाः सर्वे तत्र देवं श्रियः पतिम् ॥३
अपश्यन्नतिसंहृष्टाः सह राज्ञा महात्मना
विमाने बहुविस्तीर्णे सिद्धचारणसेविते ॥४
वुष्पवृष्टिर्महत्यासीत् देवदुन्दुभिनिर्गतः
आकाशो सुमहानासीत् रम्यमङ्गलनिस्स्वनः ॥५
तुष्टुवुर्देवगन्धर्वा विमानस्थाप्सरोगणाः
ननृतुर्गीतवादित्रसव्भ्रुमः सुमहानभूत् ॥६
त्रैलोक्यं पूरितं तेन सम्भ्रमेण तदाऽभवत्
विदित्वा लोकपालाश्च वसवो मुनयस्तथा ॥७
सर्वे ग्रहास्तथा रुद्रा धातारो देवतागणाः
नागा यक्षास्तथा सर्वे ये चाऽन्ये सात्त्विका मताः ॥८
आजग्मुर्जगदीशानं द्रष्टुमच्युतमीश्वरम्
ब्रह्माणं ते पुरस्कृत्य ददृशुर्भास्करोपमम् ॥९
नीलमेघनिभं श्यामं नीलमाणिक्यविग्रहम्
तप्तहाटकसङ्काशां चम्पकोद्दामदामभाम् ॥१०
पङ्कजोदरलावण्यां आर्द्रहारिद्रसन्निभाम्
शरत्पूर्णनिशाकान्तमण्डलोपमसन्मुखाम् ॥११
भृङ्गपङ्क्तिसमाकारदिव्यालकसुशोभिताम्
प्रफुल्लपङ्कजस्मेरमुखमन्दस्मितोज्ज्वलाम् ॥१२
तरुणारुणसङ्काशकुसुम्भवसनोज्ज्वलाम्
किरीटहारमकुटकेयूराङ्गदशोभिताम् ॥१३
वामहस्ते लसद्धेमलीलाम्बुजमनोहराम्
वलयाङ्गदसंशोभिलम्बमानान्यपाणिकाम् ॥१४
पद्मासनस्थितां पद्मां पार्श्वं दक्षिणमाश्रिताम्
वीक्षमाणां कटाक्षेण मुहुः श्रीवत्सलाञ्छनम् ॥१५
श्रीधरं वामपार्श्वस्थां तुलसीश्यामलाङ्गकाम्
सर्वंसहां वसुमतीं सर्वाभरणभूषिताम् ॥१६
द्विजराजज्वलज्ज्योत्स्नामन्दहासमनोहराम्
मदमत्तचकोराक्षीं फुल्लपङ्कजवक्त्रकाम् ॥१७
वामेतरकराम्भोजधृतनीलसरोरुहाम्
श्यामामनुपमां भूमिं स्मर्णपद्मासने स्थिताम् ॥१८
कटाक्षयन्तं लोकेशममृतास्राविवीक्षणैः
ददृशुर्ब्रह्मरुद्राद्याः त्रिदशा मुनिसत्तमाः ॥१९
योगिनश्च तथा राजा कोसलेन्द्रो महाद्युतिः
नानारत्नसमाकीर्णज्वलन्मकुटशोभितम् ॥२०
मन्दस्मितमनोहारि श्रीमद्वदनपङ्कजम्
दयारसतरङ्गौघफुल्लपङ्कजलोचनम् ॥२१
सुनासिकापुटस्मेरपूर्णेन्दुमुखमण्डलम्
कर्णद्वयलसद्धेममकराभरणोज्ज्वलम् ॥२२
श्री वाराहपुराणे प्रथमभागे. ४७-तमः अध्यायः.

[[7071]]
कण्ठलम्बिलसद्धेमग्रैवेयकविभूषितम्
तप्तकार्तस्वरोद्भूतब्रह्मसूत्रविराजितम् ॥२३
केयूराङ्गदसद्भूषं वृत्तायतचतुर्भुजम्
ज्वालायुतसहस्रारसुदर्शनधरं वरम् ॥२४
शरच्चन्द्रप्रतीकाशपाञ्चजन्यधरं शुभम्
अश्रान्तवरदानोद्यद्दक्षपाणिसरोरुहम् ॥२५
कटीतटसुविन्यस्तवामपाणिजलेरुहम्
लावण्यसिन्धुलहरीमहावर्तसुनाभिकम् ॥२६
सर्वलोकसमाधारजठरालङ्कृतं हरिम्
कटिसूत्रव्यतिस्यूतकिङ्किणीकविराजितम् ॥२७
कटीतटसुसम्बद्धच्छुरिकायुधभूषितम्
मारद्विपमहा लानसमोरुद्वयशोभितम् ॥२८
मदनेषुधिसंशोभिजङ्घद्वयविराजितम्
पीताम्बरधरं काञ्च्या पीताम्बरजगत्त्रयम् ॥२९
गुल्फदेशलसद्बद्ध किङ्किणीकटकादिकम्
हंसशिञ्जितमञ्जीरनूपुराढ्यपदाम्बुजम् ॥३०
बालचन्द्रकलाशोभिनखपङ्त्किविराजितम्
सहस्रपत्रपीठस्थं सर्वाभरणभूषितम् ॥३१
पारिजाततरोर्मूले भासमानं श्रियः पतिम्
कोटिकन्दर्पलावण्यसम्मोहितजगत्त्रयम् ॥३२
यौवनोद्दामलावण्यं पञ्चविंशतिहायनम्
कुमारं राजसिंहस्य क्रीडमानमिवाच्युतम् ॥३३
मूर्तीभूतदयासिन्धुं मूर्तीभूतक्षमागुणम्
मूर्तीभूतमहौदार्यं मूर्तिमद्रूपसम्पदम् ॥३४
नारायणमनाद्यन्तमव्ययं पुरुषोत्तमम्
ददृशुर्देवगन्धर्वाः प्रत्यक्षं सुरसत्तमाः ॥३५
द्रष्टुं प्रत्यक्षतो यस्य रूपं तेपुस्तपोधनाः
तमजं देवदेवेशं शृङ्गाररसवारिधिम् ॥३६
चक्षुषां फलमत्यर्थं ददृशुः प्रीतमानसाः
नयनानन्दजननं दृष्ट्वा तं सूर्यतेजसम् ॥३७
सर्वेषां नेत्रपद्मानि विकासं प्रापुरञ्जसा
हर्षावेशसमाविष्टा दर्शनात्तस्य योगिनः ॥३८
मुनयश्च तथाऽन्ये च ननृतुश्चाप्सरोगणाः
निपतन्तं पतन्त्यन्ये भ्रमन्तं भ्रामयन्ति च ॥३९
उत्पतन्तं पतन्त्यन्ये हर्षपर्याकुलेक्षणाः
आनन्दाश्रु प्रमुञ्चन्तो मदोन्मत्ता इवाभवन् ॥४०
अनुभूय तमानन्दं चिरात् स्वस्था गतज्वराः
तस्थुश्च देवदेवेशं वीक्षमाणाः पुनः पुनः ॥४१
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये ब्रह्मादीनां
भगवन्मन्दिरप्रवेश प्रणमनादिवर्णनं नाम सप्तचत्वारिंशोऽध्यायः
श्री वाराहपुराणे प्रथमभागे. ४७-तमः अध्यायः.
[[7273]]

अष्टचत्वारिंशोऽध्यायः

अथ अष्टचत्वारिंशोऽध्यायः

अगस्त्यादिकृतभगवत्त्सुतिः
श्री सूतः-
अथ ते मुनयः सर्वे हर्षाविष्टाश्च योगिनः
स्तुत्या गम्यं स्तुतिप्रीतं प्रीत्यर्थं तुष्टुवुस्तदा ॥१
अगस्त्यादयः-
’’नमस्ते यज्ञरूपाय यज्ञभोक्त्रे नमो नमः
यज्ञकर्त्रे नमो यज्ञप्रियाय च नमो नमः२
यज्ञगोप्त्रे नमो यज्ञफलदाय नमो नमः
विश्वामित्रमहायज्ञपालकाय नमो नमः ॥३
यज्ञं श्राद्धं च दानं च कर्याण्यन्यानि यानि च
तेषामपि त्वमेवैकः समस्तजपकर्मणाम् ॥४
पालने फलदाने च प्रभुरित्युच्यसे बुधैः
न केवलं त्वदुद्देशकृतानां कर्मणां प्रभुः ॥५
अन्योद्देशकृतानां च यज्ञानां त्वं प्रभुस्तथा
आदावन्ते तथा मध्ये त्वद्ज्ञानं तु न चेन्न तत् ॥६
न्यूनं चापि कृतं कर्म त्वद्ध्यानात् याति पूर्णताम्
कर्मणैव हि सुप्रीतः त्वं तु धर्मं ददासि च ॥७
अर्थकामौ तथा मोक्षं ददासि च तपःप्रियः
वेदेषु बहवो भागाः कर्माण्येव वदन्ति हि ॥८
तान्येव हि तव प्रीतिकारीणीति पुराविदः
यथावत् तानि कर्तुं च न शक्यानि मुनीषिभिः ॥९
अस्माभिः क्रियते युष्मदाज्ञाबुद्ध्या हि कर्म तत्
कर्मच्छिद्रं तपश्छिद्रं त्यक्तं चोपेक्षितं च यत्
तत्सर्वं क्षम्यतां देव श्रीनिवास क्षमानिधे’’ ॥१०
इति तस्मिन् स्तुते विष्णौ मुनिभिश्च तपोधनैः
इन्द्राद्या देवताः सर्वाः तुष्टुवुर्जगदीश्वरम् ॥११
इन्द्रादिकृतभगवत्त्सुतिः
इन्द्राद्याः-
’’ॐ नमो वेङ्कटेशाय शेषाद्रिनिलयाय च
सिंहाचलनिवासाय श्रीमन्नारायणाय च ॥१२
केशवाय नमो नित्यं वासुदेवाय ते नमः
हृषीकेशाय महते वामनाय नमो नमः ॥१३
सर्वेषां प्राणिनां स्वामिन् ! निवासार्थं यथायथम्
उद्धृत्य भूमिं पातालात् स्थापयित्वा दृढं पुनः ॥१४
अनुगृह्णन् जनान् सर्वान् प्रत्यक्षं दृश्यसे गिरौ
सुराणामुदधिं यत्नात् निर्मथ्योत्पाद्य चामृतम् ॥१५
अरक्षस्त्वं सुरान् सर्वान् दत्वा पीयूषमादरात्
त्वदीहा सर्वथा स्वामिन् परार्थैव सुरेश्वर ! ॥१६
श्री वाराहपुराणे प्रथमभागे. ४८-तमः अध्यायः.

[[7475]]
त्वत्स्वरूपं यथावद्धि ज्ञातुं शक्नोति कः पुमान् ?
क्वचित्सहस्रमूर्धा त्वं सहस्राक्षः सहस्रपात् ॥१७
कदाचित् द्विभुजस्त्वं तु कदाचित्त्वं चतुर्भुजः
कदाचिच्च तव स्वामिन् ! न किञ्चिच्चरणादिकम् ॥१८
आकाशमिव ते रूपं कदाचित् ज्ञानगोचरम्
कदाचिन्निर्विकल्पेन वेद्यं यत्नेन कस्यचित् ॥१९
आहुस्त्वां सगुणं केचित् निर्गुणं ज्ञानमात्रकम्
किञ्चिदित्येव केचित्तु सदित्येव तु केचन ॥२०
दिव्यावयवसौन्दर्यं नित्यविग्रहयोगिनम्
वदन्ति केचिदस्माकमपि तन्मतमुत्तमम्
हृद्यं प्रमाणभूयिष्ठं तं नतास्स्म जगद्गुरुम्’’ ॥२१
एवं हि स्तूयमाने तु गोविन्दे त्रिदशैरपि
तुष्टुवुः सनकाद्याश्च योगिनो विजितेन्द्रियाः ॥२२
सनकादिकृतभगवत्त्सुतिः
सनकाद्याः-
’’वैकुण्ठधाम विष्णो त्वं जगतामादिकारणम्
नमामि त्वां जगद्रूपं नमामि त्वामसङ्गिनम् ॥२३
आधारपद्मे हृत्पद्मे भ्रूमध्ये मूर्ध्नि पङ्कजे
नीवारशूकवत्सूक्ष्मं पीताभं सर्वतोमुखम् ॥२४
सुषुम्नामार्गमध्येऽपि बिसतन्तुनिभं परम्
ज्ञानात्मकं मनोवेद्यं लयवाच्यमरूपकम् ॥२५
स्वयम्प्रकाशरूपं च समाधौ त्वं नमाम्यहम्
योगिनां परमाधारं योगीशं योगदायिनम् ॥२६
योगिनामप्यगम्यं च समस्यामो जगद्गुरुम्
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाधरम् ॥२७
नीलतोयदसङ्काशं पीतवाससमच्युतम्
नमामो वेदवेद्यं त्वां वेदस्याविषयं तथा
त्वत्पादं सर्वभावेन सर्वथा शरणं गताः’’ ॥२८
इति स्तुते जगन्नाथे योगिभिः कोसलाधिपः
तुष्टाव हृष्टस्तं देवं राजा दशरथस्तदा ॥२९
दशरथकृतभगवत्त्सुतिः
दशरथः-
’’ब्रह्मेन्द्रप्रमुखाः सर्वे तपः कुर्वन्ति यत्कृते
त्वदधीना रमा सा तु त्वत्प्रसादाभिकाङ्क्षिणी ॥३०
त्रिपुरारेर्महाविष्णो ! लोकसंहारकारिणः
येन दग्धा पुरी तत्तु त्वदायुधमिति स्मृतम् ॥३१
सर्वसृष्टिक्रियाकर्तृब्रह्माद्या देवतागणाः
त्वदाज्ञाकारिणः श्रीश ! नास्ति कश्चित्तवाधिकः ॥३२
त्वदीयं दाम वैकुण्ठं निरपायं निराकुलम्
सर्वप्रार्थ्यं परानन्दं वक्तव्यं किमतः परम्’’ ॥३३
एवं नृपेण गोविन्दे स्तूयमाने चतुर्मुखः
चतुर्भिस्तोषयामास मुखैर्वेदसुगन्धिभिः ॥३४
श्री वाराहपुराणे प्रथमभागे. ४८-तमः अध्यायः.

[[7677]]
ब्रह्मकृतभगवत्त्सुतिः
ब्रह्मा -
’’आसीदग्रे सदेकस्तु स च नारायणः श्रुतः
अपोऽसृजत्ततो वीर्यं विसृष्टं तासु तेन वै ॥३५
तदण्डमभवत्पश्चात् त्वया सृष्टोऽहमीश्वर !
मया सृष्टाः प्रजाः सर्वाः सर्वमूलं त्वमेव भोः३६
मादृशा विधयो जाताः त्वत्तः कति कतीश भोः !
जीवैः सूक्ष्मप्रकृत्या च विशिष्टस्त्वं तु कारणम् ॥३७
त्वमेव सर्वभूतात्मा ’जग’दित्युच्यसे श्रुतौ
एकं वृक्षं समासाते सुपर्णावयुतौ हरे ! ॥३८
तयोरन्यः कर्मजन्यं फलमश्नाति सर्वदा
अस्पृष्टगन्धस्तत्रैव दीप्यसे त्वं यथा रविः ॥३९
नियन्ता सर्वजीवानां प्रेरकश्चानुमोदकः
सत्यं ज्ञानमनन्तं च त्वद्रूपं वै श्रियः पते ! ॥४०
’नरानन्दाच्छतगुणात् देवगन्धर्वसम्मदाः
इत्यारभ्य तव स्तोतुमानन्दं कमलापते ! ॥४१
उपक्रम्य परिच्छेत्तुं तवानन्तगुणार्णवम्
अजानन्तः पुरा वेदाः ते च नित्याः सहस्रधा ॥४२
तूष्णीम्भावं ययुः सोऽहं त्वन्नाभिकमलोद्भवः
कथं स्तौमि गुणक्षीरपयोधिं त्वां रमापते ! ॥४३
दयोद्रिक्तमुखाम्भोज दर्शनात्ते वयं सुराः
अवादिष्म च किञ्चित्तु तत्सर्वं क्षम्यतां प्रभो ! ॥४४
प्रसीद परमोदार ! प्रसीद त्वं श्रियोज्ज्वल !
प्रसीद परमानन्द ! प्रसीद सुमुखोज्ज्वल’’ ॥४५
इति देवगणाः सर्वे हर्षोत्फुल्लहृदम्बुजाः
अस्तुवन् देवदेवेशं याथात्म्याद्बहुधा तदा ॥४६
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये अगस्त्यादिकृत
भगवत्त्सुत्यादिवर्णनं नाम अष्टचत्वारिंशोऽध्यायः

एकोनपञ्चाशोऽध्यायः

अथ एकोनपञ्चाशोऽध्यायः
ब्रह्मादीन् प्रति भगवत्कृतकुशलानुयोगादयः
श्री सूतः-
मुनिभिर्देवबृन्दैश्च स्तुतः श्रीवेङ्कटाधिपः
दयाप्रसन्नसम्फुल्लनेत्राब्जाभ्यां विलोकयन् ॥१
तान्सर्वान्वै सुधावृष्ट्या ह्लादयन्निव सोऽच्युतः
बभाषे मेघगम्भीरवाचा कर्णामृतश्रिया ॥२
श्रीभगवान्-
’ब्रह्मन् ! प्रीतोऽस्मि ते भक्त्या स्तुत्या च कमलासन !
किमागमनकार्यं ते सुराणाञ्च तपस्विनाम्’
इति पृष्टः पुनः प्राह ब्रह्मा लोकपितामहः ॥३
श्री वाराहपुराणे प्रथमभागे. ४९-तमः अध्यायः.

[[7879]]
भगवते ब्रह्मादिभिः रावणोपद्रवनिवेदनम्
ब्रह्मा-
’पूर्वं विश्रवसः पुत्रो रावणो नाम राक्षसः
तपः कृत्वा सुफेूरं च देवदानवराक्षसैः ॥४
मानुषादितरैर्लब्ध्वा वरं चावध्यतामयम्
बलदर्पादिमान् लोकान् बाधते नितरां मुनीन्५
श्रीशैलस्य सकाशे तु दैत्याः केचन सर्वदा
बलोद्धता महावेगा नित्यं ब्राह्मणकण्टकाः ॥६
बाधन्ते प्राणिनः सर्वान् नित्योद्यतवरायुधाः
वैकुण्ठं क्षीरसिन्धुं च दृष्ट्वा त्वत्प्रीतिकारकम् ॥७
तत्तत्थ्सानं समालोक्य लीलालोलहृदम्बुजम्
त्वां तु तत्र श्रियः कान्तमदृष्ट्वा चात्र ते वयम् ॥८
आगताः शरणं नो हि त्वमेव रिपुसूदन !
जगद्रक्षणकर्ता त्वं तद्विसृज्य रमासख ! ॥९
अतिचै त्ररथे दिव्ये गिरावस्मिन् वृषाभिधे
क्रीडसे परमानन्दः क्रीडारसवशानुगः ॥१०
अस्माकं का गतिर्विष्णो ! वद वेङ्कटनायक !
इत्युक्तः प्राह तान् सर्वान् कृपानिधिरधोक्षजः ॥११
श्री भगवान् -
’अहमेव गतिर्ब्रह्मन् ! भवतां माऽस्तु तद्भयम्
अभयं भवतां दत्तं मया हि कमलासन ! ॥१२
अचिराद्राक्षसं क्रूरं रावणं लोककण्टकम्
सबन्धुं सरथं साश्वं वधिष्यामि न संशयः’ ॥१३
एवमुक्त्वा विधिं श्रीशः प्राहागस्त्यं महामुने’
’अगस्त्य ! स्वागतं ते हि ब्रूहि कार्यं महामुने’ ॥१४
इत्युक्तः प्राह तं विष्णुं मुनिः परमपावनः
’मन्दस्मितमनोहारि त्वदीयमुखपङ्कजम् ॥१५
सद्यः सन्तापहरणं हृदयाऽऽह्लादकारणम्
अदृष्ट्वा तत्कथं स्थातुं शक्नुयां वेङ्कटेश्वर ! ॥१६
त्वदीयं दर्शनं पुण्यं ममोद्देश्यं प्रधानतः
अन्यच्च किञ्चिद्वक्ष्यामि श्रूयतां पुरुषोत्तम ! ॥१७
असुराः केचिदुद्भूताः श्रीशैलस्य समीपतः
वरदानोद्धताः सर्वे बाधन्ते प्राणिनः सदा ॥१८
सत्यत्र तव सान्निध्ये देशपीडा कथं भवेत् ?
विषयोऽयं त्वदीयस्तु बालवृद्धद्विजाकुलः ॥१९
दस्युभिः पीड्यमानश्चेत् उपेक्षाविषयः कथम् ?
दुष्टानां निग्रहः कार्यः शिष्टानां रक्षणं तथा ॥२०
भवद्देशजनाः सर्वे नीरोगा निरुपद्रवाः
दीर्घायुषस्तथा सर्वे श्रीमन्तः पुत्रपौत्रिणः ॥२१
निर्मत्सरा भवेयुश्च भवदीयकटाक्षतः
वरमेतद्देहि देव ममावश्यं श्रियः पते’
इति पृष्टः पुनः प्राह परमात्मा सनातनः ॥२२
श्री वाराहपुराणे प्रथमभागे. ४९-तमः अध्यायः.

[[8081]]
’दत्तमेतद्वरं चाद्य मया मुनिवरोत्तम
हनिष्ये सर्वदुष्टांश्च करिष्ये निरुपद्रवम् ॥२३
आरोग्यं सम्पदं दास्ये सन्ततीश्च शतायुषः
दास्यामि सर्वदा तेषा मेतद्विषयवासिनाम् ॥२४
अयाचितं च यच्चान्यत् काङ्क्षितं तद्ददामि वः’
इति दत्वा वरं सम्यङ् मुनये कमलापतिः ॥२५
सनकादीनुवाचेदं ’स्वागतं भवता’ मिति
इति पृष्टाः पुनः प्रोचुः योगिनस्तं रमापतिम् ॥२६
’स्वामिन् ! इयं पुण्यभूमिः तपः सिद्ध्यति शीफ्रुतः
किं तु बाधा च महती दुस्सहा कलहार्थिनाम् ॥२७
निर्बाधं कुर्विमं देशं शीफ्रुं शेषगिरीश्वर
त्यक्त्वा वैकुण्ठमस्मिन् हि स्थीयसे पर्वतोत्तमे ॥२८
त्वमत्र वेङ्कटाधीश ! स्थित्वाऽपि प्राणिसौख्यदः
अदृश्यः सर्वभूतै श्चेत् तावता किं प्रयोजनम् ? ॥ २९
स्थातव्यं हि त्वया तात ! सर्वप्रत्यक्षगोचरम्
इदमेव हरे स्वामिन् ! परमं नः प्रयोजनम्’ ॥३०
एवमभ्यर्थितः श्रीशः सनकादितपोधनैः
’तथैव कुर्वे योगीन्द्रा’ इति चोक्त्वा मुनींस्तदा ॥३१
प्राह चेन्द्रवचो विष्णुः ’किं ते कार्यं वदे’ति च
इति पृष्टः पुनः प्राह देवेन्द्रो विष्णुमव्ययम् ॥३२
’स्वामिन् ! अच्युत गोविन्द रावणेन दुरात्मना
पीडिताश्च वयं सर्वे स्थानात् स्थानं भ्रमामहे’ ॥३३
इत्युक्तः प्राह देवोऽपि देवेन्द्रं कमलापतिः
’स्वस्था भवत देवाश्च सर्वे यूयं गतज्वराः ॥३४
हत एव दुरात्मा च रावणो लोककण्टकः
अचिरात् तं वधिष्यामि सत्यमित्यवधार्यताम्’ ॥३५
शङ्करस्य शेषाचलाग्नेयदिगवस्थानप्राप्तिः
इत्युक्त्वा कमलानाथः प्राहेशानं शुचिस्मितः
’किमागमनकार्यं ते वद शङ्कर सत्वरम्’ ॥३६
इति पृष्टः शिवः प्राह ’स्वामिन्’ इत्यच्युतं वचः
’स्वामिंस्त्वया सदा यत्र स्थीयते वेङ्कटेश्वर ! ॥३७
तत्रैव देव स्थातव्यं मया वृषगिरीश्वर’
इति पृष्टः पुनः प्राह नीलमेघसमद्युतिः ॥३८
’आकल्पं च वसामीह वेङ्कटाह्वयभूधरे
त्वमप्यत्र मृडानीश महादेव वस प्रभो ॥३९
उपत्यकायामस्याद्रेः शोचिष्केशदिशीश्वर !’
इत्यादिश्य नृपं प्राह कोसलाधिपमीश्वरः ॥४०
’चिरकालेन दृष्टोऽसि किं ते कार्यं वद प्रभो’
केशवेनैवमुक्तस्तु प्राह राजा मनोगतम् ॥४१
भगवन्तमुद्दिश्य दशरथकृतपुत्रप्रार्थना
स्वामिन् पुरुषशार्दूल ! त्वत्प्रसादान्मयाऽच्युत !
राज्यं भुक्तं चिरं दत्तं ब्राह्मणेभ्यो महद्धनम् ॥४२
श्री वाराहपुराणे प्रथमभागे. ४९-तमः अध्यायः.

[[8283]]
अनुभूतं सुखं सर्वं जिताश्च रिपवस्तथा
नानुभूतं सुखं पुत्रजन्मसम्भवमच्युत ! ॥४३
न लोकः पुत्रहीनस्य वदन्तीति द्विजातयः
देहि मे पुत्रमोजिष्ठं लोकविख्यातपौरुषम्’ ॥४४
इति पृष्टः पुनः प्राह राजानं वेङ्कटाधिपः
’राजंस्त्वया कृतं पूर्वं दुस्सहं बहुदुष्कृतम्४५
किं कर्तव्यं मया राजन् !’ इत्युक्तः प्राह वै नृपः
’स्वामिन् ! अभ्युदिते सूर्ये तमस्तिष्ठेत्कथं प्रभो!’ ॥४६
’क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’
इति वक्ति श्रुतिः स्वामिन् त्वयि दृष्टे न चास्त्यघम् ॥४७
इत्यतो मम गोविन्द! कथं पापं त्वयि स्थिते’
प्राह चैवं नृपेणोक्तः श्रीशः पापविनाशनः ॥४८
’राजन् ! प्रीतो भवद्भक्त्या चतुःश्लोक्या त्वदीयया
स्तुत्या च परमप्रीतः तव दास्ये वरोत्तमम् ॥४९
यस्मात्प्रीत्या चतुःश्लोकी त्वयोक्ता मम भूपते !
तस्मात्तु तव पुत्राश्चचत्वारोऽमितविक्रमाः ॥५०
शूराश्च बलवन्तश्च मत्तुल्यबलविक्रमाः
दत्ता राजंस्त्वयाऽयोध्यां गत्वा यष्टव्यमादरात्’ ॥५१
इत्युक्तः सोऽथ राजेन्द्रो बभूव पुलकाङ्कितः
स्तुत्वा नत्वा तु बहुधा देवदेवं रमापतिम् ॥५२
प्रदक्षिणं ततः कृत्वा पुनः स्तुत्वा प्रणम्य च
आमन्त्र्य शेषशैलेन्द्रनिलयं सपुरोहितः
ययौ दशरथः श्रीमान् अयोध्यां सह बन्धुभिः ॥५३
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये ब्रह्मादीन् प्रति
भगवत्कृतकुशलानुयोगादिवर्णनं नाम एकोनपञ्चाशोऽध्यायः

पञ्चाशोऽध्यायः

अथ पञ्चाशोऽध्यायः
भगवन्तं प्रति चतुर्मुखकृतप्रार्थनादिः
श्री सूतः-
इति दत्त्वा वरं तस्मै नृपाय कमलापतिः
कमलासनमाहूय वचनं चेदमब्रवीत् ॥१
’ब्रह्मन् कालस्त्वतिक्रान्तः किमर्थं स्थीयते त्वया
किमभीष्टं वद क्षिप्रं सत्यं दास्यामि तद्वरम्’ ॥२
इति पृष्टः पुनः प्राह ब्रह्मा लोकपितामहः
’यदि दास्यसि विश्वेश ममाभीष्टं रमापते ! ॥३
त्वमेवम्भूत एवात्र सर्वप्रत्यक्षगोचरः
केवलं दर्शनादेव सर्वेषां सर्वदः सदा ॥४
भगवन् ! अरछसि स्थातुं लोकानुग्रहकाम्यया
कलौ युगे जनाः सर्वे शिश्नोदरपरायणाः ॥५
श्री वाराहपुराणे प्रथमभागे. ५०-तमः अध्यायः.

[[8485]]
न जानन्ति नरा धर्ममधर्मं वाऽपि भूतले
प्रायशो दुर्बलाः सर्वे रोगिणः काममोहिताः ॥६
पशुप्राया मनुष्या हि न जानन्त्यात्मनो हितम्
प्रायशः पापिनामेव युगे जन्म कलौ हरे ॥७
क्षुत्तृष्णोपहताः सर्वे न त्वां जानन्ति किञ्चन
ते यद्युपेक्षिताः सर्वे नरका रौरवादयः ॥८
न पर्याप्ताः पुनः सृज्या नरकास्ते सहस्रधा
भवेयुर्वेङ्कटाधीश दयालोलहृदम्बुज ! ॥९
तेषामनुग्रहार्थाय स्थातव्यं भवता हरे !
ब्रह्मणाऽभ्यर्थितस्त्वेवं कृपानिधिरुवाच ह ॥१०
ब्रह्मन्नभ्यर्थितं त्वेतत् महद्वरमनुत्तमम्
सर्वजीवदयालुत्वमहो तव चतुर्मुख ! ॥११
अनेन सुतरां प्रीतस्तव दास्ये यथेप्सितम्
स्थास्याम्यत्त्रेव सर्वेषां प्रत्यक्षः सर्वकामदः ॥१२
आकल्पं च वसामीह श्रिया सार्धं चतुर्मुख !
शेषेण गरुडेनैव विष्वक्सेनेन सर्वदा ॥१३
भूम्या च नीलया सार्धं सर्वैः पारिषदैः सह
ये केचिदत्र कुर्वन्ति तपांसि विविधानि च ॥१४
तेषां तपांसि सिद्ध्यन्तु सुलभेनाऽऽशु वर्त्मना
तथैव यज्ञकर्माणि योगाश्चापि च योगिनाम् ॥१५
स्वामिपुष्करिणी चेयं ब्रह्मन् लोकपितामह !
तीर्थानां स्वामिभूतत्वादुच्यतेऽन्वर्थनामतः ॥१६
यानि कानि च तीर्थानि गङ्गादीनि महीतले
तानि सर्वाणि चोत्पन्नान्यस्मा त्तीर्थात् पितामह ! ॥१७
ऐरम्मदतटाकश्च वैकुण्ठे यस्तु तिष्ठति
स एव गीयते चात्र स्वामिपुष्करिणीति च ॥१८
अत्र स्नानेन नश्यन्ति महापातककोटयः
उपपातकसङ्घाश्च रहस्ये च प्रकाशतः ॥१९
कृतानि यानि पापानि नश्यन्त्येव न संशयः
यं यं कामं समुद्दिश्य स्नात्यस्मिंस्तु सरोवरे ॥२०
तं तं काममवाप्नोति नात्र कार्या विचारणा
काणः खञ्जः कृशः कुब्जो मूको बधिर एव च ॥२१
अनपत्यो दरिद्रो वा कुष्ठी वा व्याधिपीडितः
मयि चानुत्तमां भक्तिं कृत्वा मद्दर्शनोत्सुकः ॥२२
आयाति चेद्यथाकामं प्राप्नोति हि न संशयः
अद्यप्रभृति निश्शङ्का जनाः कमलसम्भव !
विचरन्तु दिवारात्रं निर्बाधाश्च महीतले’ ॥२३
श्रीवेङ्कटाद्रिनिकटस्थासुरवधार्थं चक्रप्रेषणम्
इत्थमाश्वास्य दुर्दैत्यविनाशाभ्यर्थिनं विधिम्
सुदर्शनं हेतिराजं समाहूयान्वशात्तदा ॥२४
श्री वाराहपुराणे प्रथमभागे. ५०-तमः अध्यायः.

[[8687]]
सुदर्शन सहस्रार ज्वालामालाविभीषण !
आगच्छ त्वं महाभाग शृणु मद्वचनं शुभम्
कुमुदादिगणैः सार्धं सर्वायुधपरिच्छदैः ॥२५
इतो निर्गत्य सहसा यत्र दैत्या महाबलाः
यक्षराक्षसनागाश्च दृष्टा ब्राह्मणहिंसकाः ॥२६
ये चोरा वसुहर्तारो देशोपप्लवकारकाः
यत्र यत्र गिरौ वाऽपि देशे वा काननेऽपि वा ॥२७
परितोऽस्य गिरेस्त्वं तु गत्वा दुष्टान् महाबलान्
निश्शेषं भस्मसात्कृत्वा देशं च निरुपद्रवम् ॥२८
कृत्वा तु तत्र तत्रापि जनरक्षां विधाय च
आगच्छ त्वं महाभागे’ त्याज्ञप्तश्चक्रराडपि ॥२९
विनिर्गत्य गिरेस्तस्मात् दैत्यसङ्घान् सुदुर्जयान्
अन्यानपि जनान् हत्वा देशबाधाविधायकान् ॥३०
क्षणेन सर्वान् दुष्टौघान् निश्शेषं भस्मसात्तदा
कृत्वाऽऽगच्छन्महाचक्रं सर्वेषां पश्यतां हरेः ॥३१
सन्निधौ तत्समागत्य व्यजिज्ञपदिदं वचः
निहता दुष्टदैत्यास्ते प्रतापाच्चक्रिणस्तव’ ॥३२
इति तस्मिन् समायाते चक्रराजे हरिः स्वयम्
पुनराह सुरश्रेष्ठं ’कर्तव्यं किमितः प्रभो ! ॥३३
वदे’ति पृष्टः प्राहाऽसौ ब्रह्मा हर्षसमाकुलः
’बिभेमि वक्तुं देवेश प्रसन्नमुखपङ्कज’ ॥३४
इत्युक्तोऽथ हरिः प्राह ’मा भैषीस्त्वं वदस्व तत्’
इत्याश्वस्तः पुनः प्राह ब्रह्मा ब्रह्मविदग्रणीः ॥३५
श्रीवेङ्कटेश्वरमहोत्सवघट्टः ॥
’ध्वजारोहणपूर्वश्च कार्यस्तव महोत्सवः
स च त्वया महाभूमन् ! अङ्गीकार्यः श्रिया सह’
इति ब्रुवन् विधिस्तेन चोदितः क्रियता’ मिति ॥३६
विधिश्चकार मुनिभिः वैखानसमुखैः सह
उत्सवं ध्वजपूर्वं च कन्यामासं गते रवौ ॥३७
आहूताश्च सुराः सर्वे सर्वाभ्यो दिग्भ्य एव च
आगता विबुधाः सर्वे राजानः पुण्यकृत्तमाः ॥३८
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्त्यजनास्तथा
नानाजातिसमुत्पन्नाः समुद्रवनवासिनः ॥३९
अङ्गवङ्गकलिङ्गेषु गौडकाश्मीरसिन्धुषु
चोलमालवपाण्ड्येषु कोसलेषु कुशेषु च ॥४०
वसन्तस्ते जनाः सर्वे सकुटुम्बाः समाययुः
घुष्यन्तः सङ्घशश्चोच्चैः ’’गोविन्देति पुनः पुनः ॥४१
’योगिनामप्यदृश्योऽसौ दयया सर्वजन्तुषु
सर्वप्रत्यक्षतां यातः श्रीनिवासः परात्परः ॥४२
अङ्गीचकार विधिना निर्मितञ्च महोत्सवम्
उत्सवे दर्शनं पुण्यं श्रीनिवासस्य शार्ङ्गिणः’ ॥४३
श्री वाराहपुराणे प्रथमभागे. ५०-तमः अध्यायः.

[[8889]]
इति ब्रुवन्तस्ते सर्वे मध्येमार्गं जनास्तथा
चक्रुः पानीयशालाश्च विविधान्नगृहाणि च ॥४४
वाहनानि च वासांसि छत्राण्याभरणानि च
पादुकाश्च जनाः सर्वे दधतः सर्वदैव हि ॥४५
नृत्यन्तो वादयन्तश्च गायन्तश्च परस्परम्
आजग्मुः सेवितुं सर्वे वेङ्कटाह्वयभूधरम् ॥४६
ब्रह्मा च कारयामास समागतजनान् प्रति
विश्वकर्माणमाहूय समर्थं शिल्पिनां वरम् ॥४७
अन्नशालाश्च विविधाः प्रपाश्च बहुधा तदा
उपकार्याश्च बहुधा कारितास्तत्र तत्र वै ॥४८
गिरेश्च परितस्तत्र नगराणि चकार ह
विश्वकर्मा तु विधिवत् मनोज्ञानि पुराणि च ॥४९
पुरे पुरे च विविधा वीथयः पण्यवीथयः
शोभन्ते गणिकानां च वणिजां पुण्यसम्पदः ॥५०
तत्र तत्र च शोभन्ते मुक्ताविद्रुमराशयः
सर्वे च धर्मनिरताः सर्वे च धनिनस्तदा ॥५१
सेवार्थमागतानां तु ददुर्वस्त्राण्यनेकशः
सद्मानि च ददुः सर्वे पानीयान्नं च सर्वदा ॥५२
ब्रह्मा च देवदेवस्य चकार परमोत्सवम्
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥५३
भेरीमृदङ्गमुरजाः पणवानकगोमुखाः
ढक्काझर
ञ्झ
रनिस्साणवाद्यभेदास्त्वनेकधा ॥५४
वादयामासुरव्यग्रं नादयन्तो दिशो दश
विमानं परितस्तत्र वीथयो भान्ति सर्वतः ॥५५
विश्वकर्मा स्वसामर्थ्यं प्रकटीकृतवांस्तदा
तुङ्गप्रासादसम्बाधं विचित्रगृहभित्तिकम् ॥५६
चन्द्रकान्तशिलोपेतं सूर्यकान्तसमन्वितम्
अनेकरत्नखचितं तप्तहाटकनिर्मितम् ॥५७
तुङ्गध्वजसमोपेतं रत्नतोरणसंयुतम्
जलसिक्तं पुष्पकीर्णं दिव्यधूपसुधूपितम्
चकार नगरं तत्र गन्धर्वनगरं यथा ॥५८
इति श्री वाराहपुराणे श्री वेङ्कटाचलमाहात्म्ये भगवन्तं प्रति
चतुर्मुखकृतप्रार्थनादिवर्णनं नाम पञ्चशोऽध्यायः

एकपञ्चाशोऽध्यायः

अथ एकपञ्चाशोऽध्यायः
श्रीवेङ्कटेशमहोत्सववैभववर्णनम्
श्री सूतः-
ब्रह्मा च वेङ्कटेशस्य दिव्योत्सवदिनेषु वै
नैवेद्यं बहुधा चक्रे घृतसूपगुडोत्तरम् ॥१
श्री वाराहपुराणे प्रथमभागे. ५१-तमः अध्यायः.

[[9091]]
गुडान्नं पायसान्नं च मुद्गान्नं च तिलौदनम्
शाल्यन्नं कृसरान्नं च मरीच्यन्नं तथैव च ॥२
गोधूमान्नं च माषान्नं मधुरान्नं घृतोत्तमम्
एवं बहुविधान्नं च फलानि विविधानि च ॥३
व्यञ्जनानि विचित्राणि मनस्तोषकराणि च
दिव्यान्यमृतकल्पानि सुस्वादुरसवन्ति च ॥४
उच्चैश्श्रवसमश्वं च गजमैरावतं तथा
अनन्तं नागराजं च गरुडं च त्रयीमयम् ॥५
एकैकं समधिष्ठाय वेङ्कटाद्रिशिखामणिः
दिने दिने सुरान्त्सर्वान् उत्सवार्थं समागतान् ॥६
अनुजग्राह रथ्यायां अटन् भूम्या श्रियाऽन्वितः
समस्तवाद्यफेूषैश्च गजाश्वैः समलङ्कृतैः ॥७
चित्रध्वजपताकाभिः छत्रचामरराजिभिः
सहितो नृत्तवादित्रैः वरनारीगणैः सह ॥८
कविभिर्वन्दिभिश्चैव गायकैः पाठकैस्तथा
नित्यं वेदैः स्तूयमानः श्रीनिवासः परात्परः ॥९
प्रातर्देवगणैः कैश्चिदुपदाभिश्च पूजितः
तथैव सायं देवैश्चोपदया पूजितो हरिः ॥१०
ववृधे लोकवृद्ध्यर्थमुत्सवे ब्रह्मनिर्मिते
जुहुवुर्यागशालायां मुनयो वीतकल्मषाः ॥११
विधिवत् स्थापयामासुः पूर्णकुम्भान् मनोहरान्
दिग्बलिं विधिवच्चक्रुः वैखानसतपोधनाः ॥१२
श्रीनिवासोत्सवदिनं पुण्यं पापप्रणाशनम्
इत्यागता जनाः सर्वे चक्रुर्दानान्यनेकशः ॥१३
अन्नदानं स्वर्णदानं वस्त्रदानं तथैव च
गृहदानं महापुण्यमिति मत्वा महाजनाः ॥१४
इष्टकादारुभिश्चैव निर्मितं हर्म्यसंयुतम्
ददुः प्रत्येकशो वेश्म सोपस्करमलङ्कृतम् ॥१५
राजानः स्थापयामासुः विप्रेन्द्रास्तत्र भूधरे
वैश्यानन्यांश्च मनुजान् स्थापयामास वै विधिः ॥१६
अत्रैव वासः कर्तव्यः सर्वदेति विनिश्चिताः
वासं चक्रुश्च तत्रैव विप्राद्या मानवाः सदा ॥१७
एवं श्रीवेङ्कटेशस्य वर्तमाने महोत्सवे
कदाचित् स्यन्दनं दिव्यं नानारत्नविराजितम् ॥१८
तप्तजाम्बूनदमयमुच्छ्रितध्वजशोभितम्
नानाकुसुममाल्यैश्च मुक्तामाल्यैश्च शोभितम् ॥१९
हैमवस्त्रवितानाढ्यं सिद्धगन्धर्वसेवितम्
विमानं पुष्पकं कान्त्या स्मारयन्तं मनोहरम् ॥२०
रथं तं समधिष्ठाय श्रीभूमिसहितः परः
श्रीनिवासः स्फुरद्रत्नकिरीटमकुटोज्ज्वलः ॥२१
ब्रह्मादिदेवबृन्दैश्च सेव्यमानस्तपोधनैः
परिक्रम्य महावीथीं राजवीथीं श्रियोज्ज्वलाम् ॥२२
पुनरागत्य तं दिव्यं वितानासनशोभितम्
आस्थानमण्डपं तत्र मणिस्तम्भशतैर्युतम् ॥२३
श्री वाराहपुराणे प्रथमभागे. ५१-तमः अध्यायः.

[[9293]]
हिरण्मयमधिष्ठाय स्वयम्भुवमकल्मषम्
आहूय वाचा भगवान् अब्रवीन्मधुरां गिरम् ॥२४
महोत्सवसेवाफलदानफलप्रशंसादिकम्
श्रीभगवान् -
’ब्रह्मन् ! प्रीतोऽस्मि नितरां त्वद्भक्त्या चोत्सवेन च
शृणुध्वं मुनयो देवा राजानो योगिनश्च ये ॥२५
वर्षे वर्षे तु मासेऽस्मिन् कन्याराशिं गते रवौ
ये केचिदत्र कुर्वन्ति ब्रह्मकृतोत्सवं मम ॥२६
ते यान्ति ब्रह्मणो लोकं भूमौ कामानवाप्य च
इममुत्सवमुद्दिश्य सेवार्थं यस्तु वासतः ॥२७
क्रमते पदमेकं तु गन्तुं शेषगिरिं प्रति
पदस्यैकस्य तस्यैव फलं भवति मत्पदम् ॥२८
ऐहिकं तु फलं तस्य ह्यवान्तरफलं भवेत्
सेवन्ते ये हि मामस्मिन्नुत्सवे ब्रह्मकल्पिते ॥२९
सेवन्ते तान् महीपालाः स्नेहाद्दद्युश्च वाञ्छितम्
प्रपामुत्सवकाले हि ये तु कुर्वन्ति देहिनः ॥३०
मच्चित्तं तान्त्समुद्दिश्य शीतलं भवति क्षणात्
अन्नदानं प्रशस्तं स्यात् विशेषेण महोत्सवे ॥३१
येऽपि चान्नं प्रयच्छन्ति तेषां सप्तकुलावधि
अन्नं बहुविधं चित्रं दीयते हि मया विधे ! ॥३२
ते तु भुक्त्वा बहून् भोगान् मया दत्तानभीप्सितान्
अन्ते हि मत्पदं यान्ति स्वर्गं भुक्त्वा तु मध्यतः ॥३३
काणाङ्गुपन्धमूकानामन्येषां विकलाङ्गिनाम्
अन्नवस्त्रहिरण्यादिदातॄणां सम्पदः सदा ॥३४
अनायासेन सिद्ध्यन्ति मच्छन्दात् पद्मसम्भव !
ये हि चात्र स्थितिं नित्यं वाञ्चन्ति मनुजा भुवि ॥३५
तेषामिहैव दास्यामि सम्पदं सन्ततिं तथा
तारतम्यवशाद्भक्तेः तेषां सिद्ध्यन्ति सम्पदः ॥३६
जननं मरणं येषां स्थितिर्वाऽस्मिन्महीधरे
तेषां मुक्तिः करस्था हि ज्ञानसाध्या हि दुर्लभा ॥३७
यानि कानि च दानानि सन्ति शास्त्रोदितानि च
तानि सर्वाणि दानानि क्रियमाणानि चेदिह ॥ ३८
ऐहिकं च फलं दत्त्वा स्वर्गमीप्सितमेव वा
मत्पदं च शरीरान्ते ददाम्येषां न संशयः ॥३९
गिरेश्च परितो भूमौ ग्रामान्वा पत्तनानि वा
करोति श्रद्धया राजा ब्राह्मणो योऽपि कोऽपि वा॥ ४०
सवै राज्यश्रियं भुक्त्वा भुक्त्वा स्वर्गादिकं चिरम्
मत्सायुज्यं व्रजत्येव नात्र कार्या विचारणा ॥ ४१
पुण्यं क्षेत्रमिदं भूमौ स्थातव्यं हि सदाऽत्र तु’
इति बुद्ध्याऽत्र वसतां गृहक्षेत्रादिकं तु ये ॥४२
श्री वाराहपुराणे प्रथमभागे. ५१-तमः अध्यायः.

[[9495]]
ददतीह नरान्ते वै लब्ध्वा वासफलानि च
प्राप्नुवन्ति पुनश्चैव मामकं च पदं ध्रुवम् ॥ ४३
अत्र ये वसतां प्राज्ञा विद्यादानमनुत्तमम्
कुर्वन्ति तेषां विदुषां कीर्ति स्त्रैलोक्यगामिनी ॥ ४४
तद्बन्धुबन्धुतद्बन्धुतद्बन्धुजनबान्धवाः
सर्वेऽपि तत्फलं लब्ध्वा मोदन्ते दिवि देवताः ॥ ४५
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटेश्वर
महोत्सववैभववर्णनं नाम एकपञ्चाशोऽध्यायः

द्विपञ्चाशोऽध्यायः

अथ द्विपञ्चाशोऽध्यायः

वेङ्कटाद्रौ पुष्पोद्याननिर्माणादिप्रशंसा
श्रीसूतः -
उक्त्वा चैवं वेङ्कटेशः पुनः प्रीत्या जगाद च
श्री भगवान् -
शृणुध्वं विबुधा यूयमन्यत्किञ्चिद्ब्रवीमि वः
ये हि चात्र प्रकुर्वन्ति बृन्दावनमनुत्तमम् ॥ १
उद्यानानि च पुण्यानि नानावृक्षयुतानि च
पुष्पोद्यानानि कृत्वा च तत्पुष्पैरर्चयन्ति माम् ॥३
दलस्यैकस्य दिव्यानि वत्सराण्यर्बुदानि च
स्वर्गे भुक्त्वा परान् भोगान् अन्ते यान्ति च मत्पदम् ॥४
अवान्तरफलं तेषामीप्सितं हि महीतले
न च सन्ततिविच्छेदः तेषां पुण्यकृतां भुवि ॥५
फलपुष्पाणि पत्राणि यावन्ति प्रतिवत्सरम्
उद्भवन्ति तथा कामाः तेषामपि महीतले ॥६
प्रत्यहं मम नैवेद्यं यावत्प्रस्थचतुष्टयम्
सव्यञ्जनं कल्पयन्ति तेहि पुण्यतमा भुवि ॥ ७
ब्रह्मेन्द्रलोकप्रमुखाः तैः सुखेन जिता नरैः
तदीयदर्शनात्पुंसो भवन्ति महिमादयः ॥८
तेषामैश्वर्यसम्पत्तौ वक्तव्यं नावशिष्यते
अन्ते यान्ति परं धाम पुनरावृत्तिवर्जितम् ॥९
भूषणं स्वर्णखचितं वज्रमाणिक्यसंयुतम्
प्रयच्छन्ति च ये पुण्या मामुद्दिश्य महीतले ॥ १०
रूपलावण्यसम्पन्ना विद्यावन्तश्चिरायुषः
भवन्ति पुत्रास्तेषाञ्च मच्छन्दात्सम्पदोऽपि च ॥११
पद्मकलाछरतुलसीचम्पकैर्दामकारिणः
मदर्चननिमित्तं ये प्रत्यहं श्रद्धयाऽन्विताः ॥ १२
लक्ष्म्या समेतस्तेषां हि गृहे वत्स्याम्यहं सुराः
तेषां येऽपि च साहाय्यं कुर्वते श्रद्धयाऽन्विताः ॥१३
श्री वाराहपुराणे प्रथमभागे. ५२-तमः अध्यायः.

[[9697]]
तेषामपि सदा सम्पत्प्रदोऽहं कमलासनः
भोः सुरा योगिनः सर्वे येऽपि चात्र समागताः ॥१४
युष्माकं यद्यदिष्टं तत् दास्येऽहं सकलं वरम्
पुत्रान् पौत्त्रान् श्रियं वा पि राज्यमारोग्यमेव वा ॥१५
आयुः कीर्तिञ्च यच्चान्यत् मत्तो वाञ्छति यः पुमान्
तत्तद्ददाम्यहं तस्मै सत्यं सत्यं न संशयः ॥१६
बहुनेह किमुक्तेन ये चात्र वसतां पुनः
कुर्वन्ति चानुकूल्यं वै ते मे प्रियतरा मताः ॥१७
निवसद्भ्योऽत्र मनुजा द्रुह्यन्ति विबुधाश्च ये
असुरा राक्षसा यक्षाः पिशाचाः प्राणिनोऽपि वा ॥१८
तानहं नाशयिष्यामि सपुत्रपशुबान्धवान्
नियतोऽनियतो वाऽपि वेङ्कटाद्रिमं जनः ॥१९
व्याजाद्वा यः समारुह्य स्नात्वा स्वामिसरोजले
नमस्यति च मां सोऽपि सकामः सर्वदा सुराः ॥२०
कूलङ्कषमहौदार्यगुणक्षीरपयोनिधिः
इति श्रीवेङ्कटाधीशः तेभ्यो दत्त्वा वराण्यहो ॥२१
भेरीमृदङ्गपणवमङ्गलस्वनसंयुतः
पुष्पवृष्ट्या युतः श्रीमान् श्रीभूमिसहितस्तदा
विवेशान्तर्महद्दिव्यं विमानं रत्नतोरणम् ॥२२
ब्रह्मादयो देवगणाः सम्भूय प्रीतमानसाः
जयेति चास्तुवंस्तेन घोषेणाऽऽपूरितं जगत् ॥२३
ब्रह्माऽपि वेङ्कटेशस्य दिव्यमङ्गलसम्भ्रमम्
ऋषिभिः सह धर्मात्मा यथाशास्त्रमकारयत् ॥२४
महोत्सवावभृथस्नानप्रशंसा
ततः श्रवणनक्षत्रे देवदेवस्य शार्ङ्गिणः
चकारावभृथं पुण्यं पवित्रं पापनाशनम् ॥२५
स्वामिपुष्करिणीपुण्यसलिले लोकपूजिते
सस्नुर्ब्रह्मादि देवाश्च मुनयो योगिनोऽपि च ॥ २६
राजानश्च तथा विप्राः सर्वे चैव नरास्तदा
तत्र स्नात्वा तु योगीन्द्रः सनकः सर्ववित् स्वयम् ॥२७
सर्वेषां पुरतश्चेदमुवाच वचनं तदा
’सर्वे शृण्वन्तु मद्वाक्यमुद्धृत्य भुजमुच्यते ॥२८
ज्ञातञ्च ध्यानयोगेन सम्यक्छास्त्रैश्च चिन्तितम्
समस्त्ततीर्थभूतस्य देवदेवस्य चक्रिणः ॥२९
यः स्नात्यवभृथे पुण्ये तस्य तत्पूर्वजन्मसु
अनन्तेषु कृतं पापं तत्क्षणादेव नश्यति ’ ॥ ३०
इति श्रुत्वा महादेवः ’त त्तथैवे’ ति चाब्रवीत्
’एवमेवे’ ति भगवान् ! विष्णुरप्यब्रवीत्तदा ॥३१
प्रशशंसुस्तदा देवाः स्वामिपुष्करिणीं तदा
विविधैर्दिव्यकुसुमैः राशीभूतैः सुगन्धिभिः ॥३२
उपचारैरनेकैश्च वेदघोषैः सुखश्रवैः
नृत्यगीतादिवादित्त्रेः दिव्यमङ्गलनिस्स्वनैः ॥३३
श्री वाराहपुराणे प्रथमभागे. ५२-तमः अध्यायः.

[[9899]]
इष्ट्वा प्रसूनयागं च तोषयित्वा जनार्दनम्
प्रणाममकरोद्ब्रह्मा सर्वदेवैः समन्वितः ॥३४
ततः प्रीतिसमायुक्तो ब्रह्मकृतोत्सवेन सः
उवाच च विधिं विष्णुः ’ब्रह्मन् ! प्रीतोऽस्मि साम्प्रतम्॥३५
एतत्प्रीतिसमं किञ्चित् दातुं तव न विद्यते
ब्रह्मन्! यद्वाऽथ किं दास्यं जगत्सृष्टिपटो विधेः॥३६
त्वमेवाहमहं त्वं हि यद्यस्त्वन्यद्वदस्व तत्’
इति पृष्टोऽवदद्ब्रहा ’स्वामिन् यद्यस्ति ते कृपा ॥३७
कृतार्थोऽस्मि वरं नान्यत् लोकस्यानुग्रहं विना
एवमेव हरे स्वामिन् दद चेप्पितमर्थिने ॥३८
स्थातव्यं भवता विष्णो! लोकानुग्रहकाम्यया
इदमेव ममाभीष्टं याचनीयं पुनः पुनः’ ॥३९
इति पृष्टो रमाधीशः ’तथैवा’ स्त्विति चावदत्
उक्त्वा चैवं पुनः प्राऽह ब्रह्माणममितौजसम् ॥४०
ब्रह्मादीनां स्वावासगमनार्थं भगवदभ्यनुज्ञा
’ब्रह्मंस्त्वं सृष्टिकार्येषु नियुक्तः पूर्वमेव हि
गत्वा त्वदीयलोकं च कुरु सृष्टिं सुखी भव ॥४१
’इन्द्र गच्छ स्वकं लोकं शाधि राज्यं स्वकीयकम् ’
’पिनाकपाणे भूतेश लोकं गत्वा त्वदीयकम् ॥४२
उमया विहरस्व त्वमवाप्तसकलेप्सितः’
’आगस्त्य मुनिशार्दूल शिष्यैः सह तपोधन ॥४३
स्वमाश्रमं प्रविश्यैव कुरु नित्यान्यतन्द्रितः ’
’योगिनश्च यथायोग्यं गच्छताऽऽवासमुत्तमम् ॥ ४४
ध्यानामृतसुतृप्तैश्च स्थातव्यं योगिभिश्चिरम् ’
इति श्री वेङ्कटाधीशः सर्वानुत्सवसङ्गतान् ॥४५
तत्तत्थ्सानं समुद्दिश्य विसृज्य प्रीतिपूर्वकम्
अन्तर्विमानं श्रीभूमिसहितः प्रविवेश ह ॥४६
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाद्रौ
पुष्पोद्याननिर्माणादिप्रशंसावर्णनं नाम द्विपञ्चाशोऽध्यायः

त्रिपञ्चाशोऽध्यायः

अथ त्रिपञ्चाशोऽध्यायः
श्रीवेङ्कटाद्रीशवैभवप्रशंसा
मुनयः
’भगवन् वेदशास्त्रार्थतत्त्वज्ञानसुनिष्ठ्ठित ।
श्रुतं सूत महाश्चर्यमिहाऽख्यानमनुत्तमम् ॥१
वेङ्कटाद्रिप्रभावोऽ यमीदृशः पापनाशनः
तत्रैव भगवत्प्रीतिरीदृशी निस्तुला खलु ॥२
वेङ्कटेशो महाश्चर्यदिव्यचारित्रभूषणः
आश्चर्यं तस्य चारित्रमद्भुतं परमाद्भुतम् ॥३
अदृष्टाश्रुतपूर्वं तत् कुत्राऽपि जगतीतले
शृण्वतामिदमाख्यानं नास्ति तृप्तिस्तपोधन ॥४
श्री वाराहपुराणे प्रथमभागे. ५३-तमः अध्यायः.

[[100101]]
विसृज्य विबुधान् विष्णुरकरोत्किं रमापतिः
विसृष्टास्तेन देवाश्च किमकुर्वन् मुने वद
इति पृष्टोऽवदत्सूतः ’श्रूयता’ मिति तान् मुनीन् ॥५
ब्रह्मादीनां स्वावासगमनम्
श्रीसूतः -
आरुह्य हंसं ब्रह्मा तु स्तूयमानः सुरैस्तथा
सत्यलोकं जगामाऽऽशु सर्वलोकपितामहः ॥६
दिव्यं विमानमास्थाय सहस्राक्षः पुरन्दरः
गन्धर्वैर्गीयमानश्च प्रविवेशामरावतीम् ॥७
नन्दिकेश्वरमुख्यैश्च गणैः प्रमथसञ्ज्ञकैः
सहितः पार्वतीनाथः पर्वतं वेङ्कटाभिधम् ॥८
कुर्वन् प्रदक्षिणं पशो वस्तुं स्थलमनुत्तमम्
आग्नेय्यां दिशि चाद्राक्षीत् वेङ्कटाद्रेः सरः शिवम् ॥९
तत्र दृष्ट्वा सरः पुण्यं कापिलं लोकपावनम्
’रमणीयमिदं स्थानं स्थातव्यमुमया सह ॥१०
अत्रैवेति विनिश्चित्य जगाम रजताचलम्
योगिनः सनकाद्याश्च पापनाशनतीरतः ॥११
अतिष्ठन् परमप्रीताः काननेषु महत्सु वै
ऋषयः सप्त तत्रैव दिशि चोत्तरपूर्वतः ॥१२
फल्गुनीझरतीरे तु स्वाश्रमेष्ववसन् सुखम्
पाल्गुण्यां पूर्णिमायां तु तत्तीरे कमलालया
अरुन्धतीतपःप्रीता प्रादुरासीत्पुरा किल ॥१३
फल्गुणीतीर्थमाहात्म्यम्
तस्यै दत्त्वा वरं चेष्टं प्रार्थिता च तया रमा
ददौ च सरितो नाम फल्गुणीशब्दपूर्वकम् ॥१४
फाल्गुणे मासि राकाऽऽख्ये फल्गुणीतारके तिथौ
स्नास्यन्त्यत्र तु ये केचित् जनास्तेषामहं सदा ॥१५
प्रीतो गृहे निवृत्स्यामि सर्वकामफलप्रदा
इति दत्त्वा वरं तस्यै पुनः श्रीकमलासना
अन्तर्धानं गता तत्र तत्तीरे मुनयोऽवसन् ॥१६
देवाः केचन सम्भूय विनिश्चित्य विचार्य च
अत्रैव वर्तते श्रीशः तस्मादत्रैव सर्वदा
सेवमाना वेङ्कटेशं स्थास्याम इति निश्चिताः ॥१७
उत्तरे स्वामितीर्थस्य देवनद्यास्तथोत्तरे
कृत्वाऽऽश्रमं सुखं तत्र न्यवसंस्ते दिवौकसः॥१८
जाबालितीर्थमाहात्म्यम्
तत उत्तरदिग्भागे सरसः पश्चिमे तटे
जाबालिः स्वाश्रमे शिष्यैः न्यवसद्विगतश्रमः ॥१९
श्री वाराहपुराणे प्रथमभागे. ५३-तमः अध्यायः.

[[102103]]
केचिद्गिरौ स्थिताश्चैव नित्यमीशं नमन्ति च
गिरेः परिसरे केचित् न्यवसन्नित्यमेव हि ॥२०
पुनरप्यागमिष्याम इति जग्मुः परे तदा
अगस्त्यो भगवांस्तत्र श्रीमद्वेङ्कटनायकम् ॥२१
अर्चयन् विविधैः पुष्पैः कृत्वा चोद्यानमुत्तमम्
चिरकालं महाभाग सह शिष्यैर्महामुनिः ॥२२
पिबन्नानन्दपीयूषं न्यवसद्वेङ्कटाचले
वेङ्कटेशः श्रिया भूम्या समेतः पुरुषोत्तमः ॥२३
कृतत्रेताद्वापरेषु देवराजैर्महीक्षितैः
कल्पितैर्विविधैर्नित्यमुत्सवैः परमाद्भुतैः ॥२४
पूजितो मोदते नित्यं ददन्निष्टं च याचते
कलौ युगे तटिद्वृत्तिः आस्ते श्रीवेङ्कटाचले ॥२५
एतद्वः सर्वमाख्यानं कथितं मुनयोऽमलाः
श्रोतुमिच्छथ भूयोऽपि किञ्चिद्वक्ष्यामि शंसत
इत्युक्ता मुनयः सर्वे प्रोचुरेतद्वचस्तदा ॥२६
पूर्वस्यां दिशि सुदर्शन कृतासुरवधप्रकारः
मुनयः -
वेङ्कटेशाभ्यनुज्ञातः चक्रेण निहता रणे
दुष्टदानवसङ्घाश्च दुष्टचोरा महीभृतः ॥२७
इत्युक्तं हि त्वया पूर्वं कथं के वा हता मुने
श्रोतुमिच्चा हि महती यद्यस्मासु दया तव ॥२८
शंस सूतरथाङ्गस्य वृत्तान्तं रणभूमिषु
इति पृष्टो जगादासौ सूतः परमधार्मिकः ॥२९
श्री सूतः -
श्रूयतां चक्रराजस्य चारित्रं परमाद्भुतम्
पराक्रमं सङ्ग्रहेण वक्ष्यामि शृणुतामलाः ॥३०
न शक्यं विस्तराद्वक्तुं चक्रराजस्य वैभवम्
’दुष्टान्निबरछ’ येत्युक्तः चक्रराजो महाद्युतिः ॥३१
आज्ञां वेङ्कटनाथस्य धारयञ्छिरसा तदा
निर्जगाम गिरेः शृङ्गात् गन्धर्वगणसेवितः ॥३२
उद्यतायुधशस्त्रैस्तैः महामुसलपाणिभिः
प्रासतोमरहस्तैश्च शूलपट्टसधारिभिः ॥३३
असिचर्मवरैः शूरैः बाणशार्ङ्गादिधारिभिः
गजवाजिरथैरुष्ट्रैः युद्धसन्नाहसम्भ्रमैः ॥३४
भेरीमृदङ्गपटहैः ढक्कानिस्साणमर्दलैः
जयव्यञ्जकवाद्यैश्च संयुतोऽयं पदातिभिः ॥३५
राजवेषधरः श्रीमान् सहस्रभुजमण्डितः
किरीटहारमकुटकेयूराङ्गदशोभितः ॥३६
दंष्ट्राकरालवदनो ज्वलदग्निसमप्रभः
प्रवर्तकास्त्रसंयुक्तः पञ्चाशच्छतपाणिकः ॥३७
निवर्तकास्त्रसंयुक्तः पञ्चाशच्छतहस्तकः
पद्मरागसमोद्योतरक्तवस्त्रविभूषितः ॥३८
श्री वाराहपुराणे प्रथमभागे. ५३-तमः अध्यायः.

[[104105]]
अनेकतुरगव्यूढं दिव्यं स्यन्दनमास्थितः
प्राचीं दिशं ययौ पूर्वं महाघोषसमन्वितः ॥३९
तेन घोषेण महता जगत्त्रस्त्रं चराचरम्
स्फुटितं वा महद्व्योम दारिताः किमु पर्वताः
इति भूतानि सर्वाणि चुक्रुशुश्च भृशं तदा ॥४०
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाद्रि
वैभवप्रशंसादिवर्णनं नाम त्रिपञ्चाशोऽध्यायः

चतुःपञ्चाशोऽध्यायः

अथ चतुःपञ्चाशोऽध्यायः

सुदर्शनसैन्यासुरसैन्ययोर्युद्धप्रशंसा
शेषाचलस्य पूर्वस्यां दिशि केचिन्महानगाः
आसंस्तत्र वनोद्देशे दस्यवो बलदर्पिताः ॥१
उद्यतायुधनिस्त्रिंशाः खड्गचर्मासिपाणयः
मायाविनो महाघोरा वञ्चकाः प्राणिहिंसकाः ॥२
क्षेत्रवित्तापहारेण नानाप्राणिभयङ्कराः
असाध्या नृपवर्याणां वनदुर्गसमाश्रयाः ॥३
बाधमाना द्विजा नित्यं साधूंश्चासन् विशेषतः
गर्जन्तो मेघसङ्काशा नीलाञ्जनचयोपमाः ॥४
तेषां शतसहस्राणि चोराणां निर्गतानि च
सुदर्शनमहाराज सेनायां तु पुरस्सराः ॥५
केचिद्विख्यातसामर्थ्या निर्गताश्च तयोर्मिथः
अभूतपूर्वं तुमुलमभूत् युद्धमनुत्तमम् ॥६
समाप्तायुष्यशेषास्ते शलभा इव पावकम्
विविशुश्चक्रराजस्य ज्वलन्तीं वाहिनीं तदा ॥७
विनिर्दग्धाश्च ते सर्वे दस्युरूपा वनेचराः
तद्वंशजास्तादृशाश्च शिशुबालाः स्त्रियोऽपि च ॥८
ययुस्ते विलयं सर्वे चोरा मायोपजीविनः
निष्कण्टकमभूत्तच्च वनं पक्षिमृगाऽकुलम् ॥९
वेङ्कटाद्रिं समारभ्य यावद्वेला महोदधेः
तावान् देशश्च सङ्ग्रामः सपत्तनवनालयः ॥१०
सर्वबाधाविनिर्मुक्तः सपर्वतनदीतटः
बभूव परमानन्दो राहुमुक्त इनोडुराट् ॥११
बभूवुर्मुदिताः सर्वे जना जानपदाश्च ये
तुष्टुवुर्ब्राह्मणाः सर्वे मुनयो योगिनोऽपि च ॥१२
निवसन्ति तदारभ्य तस्मिन् देशे हि देहिनः
तदा प्रभृति तद्देशे वासवश्चक्रशासनात् ॥ १३
काले वर्षति सस्यानि फलन्ति बहुधा तदा
बहुक्षीरदुहा गावः तथा स्वादूदकं सरः ॥१४
नीरोगाश्च जनाः सर्वे यथा कृतयुगे तथा
कुशलाः कृषिविद्यायां विप्रा वेदेषु निष्ठिताः ॥१५
श्री वाराहपुराणे प्रथमभागे. ५४-तमः अध्यायः.

[[106107]]
तपस्विनस्तपोधर्मे योगाभ्यासे च योगिनः
वाणिज्ये वणिजः सर्वे स्वस्वधर्मेषु निष्ठिताः ॥१६
देशमध्ये समागत्य सुदर्शनहरिः प्रभुः
समाहूय जनान्त्सर्वान् वचनं चेदमब्रवीत्
कर्तव्यं भवतां किं तदस्ति चेद्वक्तुमरछथ ॥१७
जनाः -
इतः पूर्वं वयं सर्वे पीडिताः सुभृशं प्रभोः
दस्युभिस्तस्करैश्चोरैः चोरप्रायैश्च राजभिः ॥१८
प्रसादाद्भवतः स्वामिन् देशोऽयं निरुपद्रवः
आसीद्वयं कृतार्थास्स्मे त्युक्तः प्राह च चक्रराट् ॥१९
धर्मात्नानं नृपं कञ्चित् कृत्वा देशाधिपं पुनः
न्याय्ये वर्त्मनि वर्तध्वं यूयं तेन गतश्रमाः
एवं सुरक्षितं चक्रे तं देशं हेतिभूपतिः ॥२०
अग्नेयदिशि सुदर्शनकृतासुरवधप्रकारः
आग्नेय्यां दिशि शेषाद्रेः केचित् दैत्यांशसम्भवाः
महामायाविनो घोरा वञ्चकाः क्षत्रबान्धवाः ॥२१
बाधमाना द्विजानासन् साधून्त्पर्वान् जनांस्तथा
देवब्राह्मणविश्वासः तेषां नाऽसीत्कदाचन ॥२२
वने दुर्गं गिरौ दुर्गं स्थले दुर्गं तथैव च
एवमावासदेशन्तु कृत्वाऽतिष्ठंस्तु तत्र हि ॥२३
ते हि ज्ञात्वा महासेनामागतामुद्यतायुधाम्
अयुध्यन्त महाघोरं शस्त्रैरस्त्रैः परश्वथैः ॥२४
पाशैः खड्गैस्त्रिशूलैश्च तोमरैर्मुद्गरैस्तथा
निघ्नन्ति स्म तथा योधान् आश्वानुष्ट्रांश्च वारणान् ॥२५
शिरांसि बहुधा युद्धे पदातीनाञ्च चिच्छिदुः
केचित् पादेषु सम्भिन्नाः केचिद्दन्तेष्वशेरत ॥२६
शिरोभिश्छिन्नपादैश्च कबन्धैश्च तथा करैः
शस्त्रैरस्त्रैस्तनुत्राणैः उष्णीषैश्च शिरोरुहैः ॥२७
रक्तौघैः मांसखण्डैश्च कीकसैरान्त्रराशिभिः
आस्तृता युद्धभूमिः सा प्रेतराजस्य विस्तृता ॥२८
पुरीवासीत्तदा तैस्तु सैन्यं सन्नञ्च तत्तदा
सेनैकदेशं क्षुभितं दृष्ट्वा दौरात्म्यमेव च ॥२९
कृद्धो बभूव हेतीनां राजा परमकोपनः
त्रिपुरारिर्यथा क्रुद्धः पुराणां सूदने ऽभवत् ॥३०
तादृशानाञ्च चोराणां मायिनां निग्रहे तथा
ज्वालामुखं बलाध्यक्षं ससैन्यं सन्दिदेश ह ॥३१
निश्शेषं कुरु राज्ञस्तान् चोरांश्च मददुर्मदान्
इत्याज्ञप्तस्तदा तेन चक्रराजेन वै बली ॥३२
ज्वालामुखस्तथा चक्रे युद्धं परमदारुणम्
तत्सैन्यं लोडयामास मदमत्त इव द्विपः ॥३३
श्री वाराहपुराणे प्रथमभागे. ५४-तमः अध्यायः.

[[108109]]
छिन्ना भिन्नास्तथा जग्मुः चोरास्तत्र वनेचराः
पलायन्ते स्म भीतास्ते त्यक्तशस्त्रायुधास्तदा ॥३४
त्यक्त्वा समरभूमिञ्च वनेे लीनाश्च सानुषु
न हि तत्र जनः कश्चित् ददृशे वनभूमिषु ॥३५
गिरेर्दुर्गेषु सर्वेषु वनदुर्गेषु सानुषु
महाबिलेषु कुञ्जेषु कुटीरेषु गुहासु च ॥३६
मृगयामासुरव्यग्राः तस्य चानुचरास्तदा
ददृशुर्न हि कञ्चिच्च विनिर्गत्य तु विस्मिताः ॥३७
ज्वालामुखाय ते सर्वे प्रोचुरेवं पदातयः
विस्मितः सोऽपि तां मायां ज्ञात्वा परमदुर्जयः ॥ ३८
तद्देशवासिनः साधूनाहूयेदं वचोऽब्रवीत्
इमं देशं विसृज्याशु गन्तव्यं देशमन्यकम् ॥३९
क्षणमात्रादिति प्रोक्त्वा जग्राह परमं धनुः
अस्त्रं च सन्दधे तस्मिन् आग्नेयं मन्त्रवत्तदा ॥४०
प्रजज्वाल च तद्दिव्यमस्त्रं परमभास्वरम्
कृशानवस्तदस्त्राच्च निप्पेतुश्च सहस्रशः४१
विचुक्रुशुश्च भूतानि चुक्षुभुः सागरास्तदा
अन्तर्धानं गता यत्र चोरास्तिष्ठन्ति वञ्चकाः ॥४२
गत्वा च देशे तत्रापि भस्मसात्कुरु तानरीन्
इति चिक्षेप तद्दिव्यमस्त्रमाग्नेयमुत्तमम् ॥४३
आक्रम्य रोदसी तच्च ज्वालामालासमाकुलम्
चोरदेशं समाक्रम्य गिरिदुर्गवनानि च ॥४४
यत्र यत्र च तिष्ठन्ति मायिनस्ते वनेचराः
अदहत्तानि सर्वाणि स्थलान्यन्यानि यानि च ॥४५
ते च सर्वे दुरात्मानो दग्धकेशतनूरुहाः
तेषां स्त्रियश्च बालाश्च सर्वे दग्धाश्च वह्निना ॥४६
बिलेभ्यः कन्दरेभ्यश्च निष्पेतुः क्षत्रबान्धनाः
वनं तदीयं तत्सर्वं भस्मीभूतञ्च तत्क्षणात् ॥४७
निर्बीजं तत्कुलं सर्वं दग्धमस्त्रस्य तेजसा
भस्मीकृत्य तु तान्त्सर्वान् प्रविवेशेषुधिं तदा ॥४८
वृष्टिं समानयामास सद्यः शीतकारिणीम्
आप्लावयत तं देशमाजग्मुर्निर्गता जनाः ॥४९
निहताः सर्वचोराश्च तेजसा भवतः प्रभो
इति विज्ञापितस्तेन बलाध्यक्षेण स प्रभुः ॥५०
सन्तुष्टस्तत्र तं देशमागत्य च सुदर्शनः
तानि दुर्गाणि सर्वाणि स्थलीकृत्य वनानि च ॥५१
प्रकाशानि ततश्चक्रे देशं प्रहतमार्गकम्
तत्रत्यान् स्थापयामास साधून् विप्रादिकानपि ॥५२
स्थापयित्वा च तद्देशे धर्माध्यक्षं दयापरम्
वृष्टिशाल्यादिवृद्ध्या च पोषयामास देशिकान् ॥५३
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाह्मात्य्ये सुदर्शनसैन्यासुर
सैन्ययोः युद्धप्रशंसादिवर्णनं नाम चतुःपञ्चाशोऽध्यायः

श्री वाराहपुराणे प्रथमभागे. ५४-तमः अध्यायः.

[[110111]]

पञ्चपञ्चाशोऽध्यायः

अथ पञ्चपञ्चाशोऽध्यायः

सुदर्शनस्यासुरवधार्थं दक्षिणदिग्गमनम्
श्री सूतः-
सुदर्शनो महाराजः कृत्वा देशमकण्टकम्
तस्माद्देशादपक्रम्य भागं दक्षिणमाययौ ॥१
आगत्य दक्षिणं देशं ससैन्यः सपरिच्छदः
वादयामास वाद्यानि निस्साणप्रमुखानि च ॥२
तेन शब्देन महता दारिता इव भूधराः
मदमत्तगजैरश्वैः सुन्दरैः पर्वतोपमैः ॥३
अनेकैश्च वनं तत्र चूर्णितं हि सहस्रधा
विपिनानि प्रकाशानि कृतानि गिरयस्तथा ॥४
वनदुर्गाणि तैः सर्वैः सुगमानि कृतानि वै
तत्र दैत्यांशसम्भूताः शूराः शूद्रकुलोद्भवाः ॥ ५
अङ्कोवङ्कः पुलिन्दश्च बिडालो वालुकस्तथा
एते शूराः प्रधानाश्च पञ्चैते पञ्चपापिनः ॥६
बाधन्ते स्म द्विजान्नित्यं क्षेत्रवित्तापहारतः
योगनिष्ठान् तपोनिष्ठान् यज्ञकर्मसु निष्ठितान् ॥७
पीडयन्ति स्म बालांश्च स्त्रियो वृद्धांश्च नित्यशः
अग्निहोत्राणि वेदाश्च यज्ञाश्चोत्सव एव च ॥ ८
आचारा वैदिकास्तत्र प्रावर्तन्त न च क्वचित्
पीड्यमानाः सदा चोरैः पञ्चभिः प्राणिनो भृशम् ॥९
क्षुद्राश्च बहवश्चासन् प्राणिपीडाकरा आपि
ते सर्वे सहसा तत्र विचार्य च पुनः पुनः ॥१०
सुदर्शनासुरसेनयोर्युद्धप्रकारः
सुदर्शनं च राजानं ज्ञात्वा तत्र समागतम्
सर्वैः सम्भूय योद्धव्यं नान्यथा गतिरस्ति नः ॥११
राजा सुदर्शनो नाम सहस्रभुजमण्डितः
विक्रमे स च राजा तु सहस्रकिरणोपमः ॥१२
यत्र यत्र स वै राजा क्रुद्धः पश्यति सत्वरम्
तत्तत्सर्वञ्च सहसा दग्धं किल भविष्यति ॥१३
अतः सर्वे वयं चोराः सावधानाश्च सर्वदा
योत्स्याम इति निश्चित्य तेऽथ सम्भूय दस्यवः ॥१४
परिघान्पट्टसान्प्रासान् शक्तिशूलपरश्वथान्
धनूंषि च सबाणानि खड्गांश्च विपुलान् शुभान् ॥१५
प्रगृह्य परमक्रुद्धा वरदानबलोद्धताः
विचित्रवाससः सर्वे विविधाः शस्त्रपाणयः ॥१६
निर्ययुर्मदमत्ताश्च चलन्त इव पर्वताः
ते युद्धकुशलाः शूराः तोमराङ्कुशपाणयः ॥१७
श्री वाराहपुराणे प्रथमभागे. ५५-तमः अध्यायः.

[[112113]]
अन्ये लक्षणसंयुक्ता वरचर्मासिपाणयः
अहमेव वधिष्यामि सर्वानिति बलोद्धताः ॥१८
तत्र सर्मे समाजग्मुः युद्धार्थं यमचोदिताः
सुदर्शनोऽपि तान् दृष्ट्वा क्रुद्धो नाग इव श्वसन् ॥१९
स्पुलिङ्गाक्षं बलाध्यक्षं ज्वालाकेशं महासटम्
कालान्तकं रणघ्नञ्च पञ्च सृष्ट्वा तु मानसान् ॥२०
सनैन्यान् प्रेषयामास चोराणां निग्रहे तथा
निर्ययुस्ते रथैरश्वैः नागानीकैः सुसंवृताः ॥२१
परिघान् पट्टसांश्चैव शूलखड्गपरश्वथान्
गृहीत्वा विविशुर्युद्धभूमिं ज्व्लितकुण्डलाः ॥२२
चिक्षिपुर्दुष्टचोरेषु बाणान् प्राणहरा रणे
ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वथैः ॥२३
अन्योन्यं समरे जघ्नुः अस्त्रैः शस्त्रैश्च योधकाः
एवं प्रवृत्ते सङ्ग्रामे निर्धूतं सुमहद्रजः ॥२४
दुष्टानां दैत्यजातानां शान्तं शोणितनिस्रवैः
रथमातङ्गकूलाश्च हयमत्स्या ध्वजद्रुमाः ॥२५
शरीरसङ्घातवहा सुस्रुवू रक्तनिम्नगाः
स्फुलिङ्गाक्षो बलाध्यक्षः शरैरङ्कं जघान च ॥२६
वङ्कं जघान समरे ज्वालाकेशः शितैः शरैः
महासटः पुलिन्दञ्च जघान समरे शरैः ॥२७
कालान्तको बिडालञ्च वालुकं रणहा युधि
जघान समरे क्रूरैः शरैराशीविषोपममैः ॥२८
ततः सुदर्शनो राजा हयशीर्षं महाशरम्
अन्तर्धानं गता यत्र तिष्ठन्ति गिरिसानुषु ॥२९
प्राणिपीडाकरा ये तु ये तु दैत्यांशसम्भवाः
यत्र कुत्र च तिष्ठन्ति ते जहीति सुदारुणम् ॥३०
सन्धाय धनुषि क्षिप्रं विससर्ज महाप्रभुः
तदस्त्रनिर्गमध्वानैः भग्नं सैन्यं दुरात्मनाम् ॥३१
दैत्यानश्वान् खरानुष्ट्रान् रथान् युद्धसमागतान्
द्विधा चकार समरे हयशीर्षं महाशरः ॥३२
वनेषु गिरिदुर्गेषु ग्रामे वा पत्तनेऽपि वा
यत्र यत्र दुरात्मानः ते सर्वे च द्विधा कृताः ॥३३
तज्जातीयाश्च शिशवः तेषां दाराश्च बालिकाः
द्विधा कृताश्च ते सर्वे चित्रमस्त्रस्य तेजसा ॥३४
तद्दृष्ट्वा देवताः सर्वा देशीयाश्च जना आपि
विस्मयं परमं जग्मुः किमिदं चेति तेजसा ॥३५
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शरपीडितम्
बलं सर्वन्तु दुष्टानां ददृशे रणभूमिषु ॥३६
देशबाधकदुष्टेषु न कश्चिद्ददृशे तदा
जलदुर्गं गिरौ दुर्गं वनदुर्गं तथैवच ॥३७
श्री वाराहपुराणे प्रथमभागे. ५५-तमः अध्यायः.

[[114115]]
स्थलदुर्गञ्च यश्चान्यो निवासो दुष्टदेहिनाम्
तत्तत्सर्वं महाराजो भग्नं कृत्वा महागजैः ॥३८
कृत्वा प्रकाशं तं देशं कृत्वा प्रहतमार्गकम्
महामार्गञ्च सर्वत्र कृत्वा निहतकण्टकम् ॥३९
विप्रक्षत्त्रादिकान् साधून् अन्यानपि जनान् बहून्
स्वे स्वे धर्मे नियुज्यैव स्थापयामास वै सुखम् ॥४०
नीरोगाश्च जनाः सर्वे कामक्रोधपराङ्मुखाः
वेदशास्त्रपराः सर्वे सर्वे यज्ञैः सुनिष्ठिताः ॥४१
काले वर्षस्तु मेघाश्च फलन्तु च महारुहाः
समृद्धानि च सस्यानि सन्तु नः शासनादिति ॥४२
अनुगृह्य च तान्त्सर्वान् तस्थौ तद्देशवासिनः
ववृधे वेङ्कटाधीश करपङ्कजभानुमान् ॥४३
तत्र देवाः समागत्य स्तुत्वा देवं हरिं प्रभुम्
ववर्षुः पुष्पवर्षाणि गन्धर्वाश्च जगुः कलम् ॥४४
इदानीमत्र वसतां लब्धं ब्राह्मण्यमुत्तमम्
प्रसादाद्भवतः सोऽयं कृतो देशः सुखी प्रभो ॥४५
इदानीं पश्चिमे भागे किञ्चित्कार्यं भविष्यति
इति विज्ञाप्य ते सर्वे दिवं जग्मुर्यथागतम् ॥४६
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये सुदर्शनस्यासुर
वधार्थं दक्षिणदिग्गमनादिवर्णनं नाम पञ्चपञ्चाशोऽध्यायः

षट्पञ्चाशोऽध्यायः

अथ षट्पञ्चाशोऽध्यायः

वरुणदिश्यसुरसुदर्शनसेनायुद्धप्रशंसा
श्री सूतः -
राजा सुदर्शनः श्रीमान् प्रतापहतकण्टकः
दक्षिणां दिशमासाद्य कृत्वा निर्बाधमेव ताम् ॥१
देशस्य रक्षणार्थाय कञ्चिन्नृपवरं तदा
धर्मात्मानं प्रतिष्ठाप्य प्रतस्थे पश्चिमां दिशम् ॥२
शतं शतसहस्राणि भेरीणां व्यनदंस्तदा
पताकिनो गजास्तत्र ध्वजयुक्ताश्च वाजिनः ॥३
मत्तेभाः कलभाश्चैव तथा गम्भीरवेदिनः
शस्त्रवर्मायुधोपेताः सन्नद्धा युद्धकारणात् ॥४
घोटाश्च द्वीपसम्भूता वायुवेगास्तथाऽपरे
वर्मास्त्रशस्त्रसम्भिन्ना निर्ययुश्च सहस्रशः ॥५
शताश्वास्त्रिशताश्वाश्च सहस्राश्वाश्च यूथशः
सर्वायुधैश्च सम्पूर्णाः पताकालङ्कृतास्तथा ॥६
विमानानीव सिद्धानां शतशोऽथ सहस्रशः
स्यन्दनानि विचित्राणि निर्ययुर्भास्वराणि च ॥७
उद्यतायुधनिस्त्रिंशाः तथोद्यतपरश्वथाः
उद्यतासिगदाशूलाः तथोद्यतकरायुधाः ॥८
श्री वाराहपुराणे प्रथमभागे. ५६-तमः अध्यायः.

[[116117]]
अट्टहासान् विमुञ्चन्तो निर्ययुश्च पदातयः
मध्ये रराज राजाऽसौ सहस्रभुजमण्डितः ॥९
निदाघे प्रतपन् सूर्यः सहस्रांशुरिवाबभौ
तत्राऽऽसीत्पश्चिमे भागे वेङ्कटाद्रेरदूरतः ॥१०
काननं पर्वताकीर्णं सिंहव्याफ्रुनिषेवितम्
मातङ्गैर्नर्दमानैश्च वराहमहिषैस्तथा ॥११
वृकभल्लूकसंयुक्तं तस्मिन् महति कानने
दैत्यांशः कश्चिदुत्सन्नः किरातः पर्वतोपमः ॥१२
नाम्ना काननकर्ता च रिपुघ्नस्य सुतो बली
स तु शम्भुं समुद्दिश्य व्रतचर्यापरोऽभवत् ॥१३
यक्षराक्षससिद्धानां मनुष्याणां महात्मनाम्
दुर्जयत्वमसाविच्छन् साहसी तु कदाचन ॥१४
क्रतुध्वंसकरं रुद्रं ध्यात्वा च धृतिमान् नरः
खड्गमादाय चिच्छेद स्वशिरः पुष्पसम्भृतम् ॥१५
अलङ्कृतञ्च गन्धाद्यैः शम्भवेऽर्पयितुं तदा
प्रसादात्तत्क्षणाद्रुद्रो जीवयित्वा च तं पुनः ॥१६
ददौ च तदभिप्रेतं लब्ध्वा सादरमुत्तमम्
वनकर्ता समागत्य वने तस्मिन् दुरासदम् ॥१७
स्थानं दुर्गं पराभेद्यमधिष्ठाय महाबलः
अनेकशतसाहस्रैरनीकैः परिवारितः ॥१८
लोकानुत्पादयामास वरदानबलोद्धतः
चुक्रुशुः पीडिताः सर्वे विप्राद्याः प्राणिनस्तदा ॥१९
स तु ज्ञात्वा दुरात्मा च सुदर्शनमहानृपम्
नृप इत्येव तं मत्वा निर्जगाम रणाय सः ॥२०
एकामक्षौहिणीं सेनां गृहीत्वा सशरासनः
सन्नद्धः कवची खड्गी दण्डी परबलार्दनः ॥२१
रथमारुह्य सज्जश्च सर्वशस्त्रास्त्रभूषितः
ययुश्च तस्य पुरतस्तुरगाश्च महागजाः ॥२२
पदातयश्च सरथा ययुः शस्त्रास्त्रपाणयः
प्रावर्तत महद्युद्धं सेनयोरुभयोरपि ॥२३
शस्त्रैरस्त्रैः शितैर्बाणैः भिण्डिपालैः परश्वथैः
कुन्ततोमरचक्रैश्च परिघैः पट्टसैः सितैः ॥२४
शक्तितोमरशूलैश्च गजचर्मासिसाधनैः
शतघ्नीपरिघाभिश्च चित्रैरन्यैश्च साधनैः ॥२५
अन्योन्यञ्च यथापूर्वं देवदानवराजयोः
सुदर्शनभटाश्चापि निजघ्नुस्तान् किरातकान् ॥२६
विविधायुधहस्ताश्च शूलमुद्गरपाणयः
गदाभिः पट्टसैर्दण्डैः आयसैर्मुसलैर्भृशम् ॥२७
परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वथैः
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः ॥२८
श्री वाराहपुराणे प्रथमभागे. ५६-तमः अध्यायः.

[[118119]]
हिरण्यजालविहितैः खरैश्च विविधाननैः
हयैः परमशीफ्रेुैश्च गजेन्द्रैश्च मदोत्कटैः ॥२९
सुदर्शनभटांश्चापि निर्जघ्नुस्ते किरातकाः
तैर्गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः ॥३०
घोरैश्च परिघैश्चित्रैः त्रिशूलैरपि संशितैः
विदार्यमाणास्ते शूला निपेतुर्भुवि संयुगे ॥३१
अमर्षाज्जनितोद्धर्षाः चक्रुः कर्माण्यभीतवत्
शरनिर्भिन्नगात्रास्त्ते शूलनिर्भिन्न देहिनः ॥३२
ममन्थुर्दुष्टचोरांश्च नामानि च बभाषिरे
तद्बभूवाद्भुतं घोरं युद्धं सैैन्यद्वयस्य च॥३३
ववर्षू रुधिरं केचित् मुखैस्ते वनवासिनः
पार्श्वेषु दारिताः केचित् केचिद्दन्तेषु दारिताः ॥३४
पट्टसैश्चूर्णिताः केचित् प्रासैः केचिद्विदारिताः
ध्वजैर्निपतितैर्नागैः अश्वैश्च विनिपातितैः ॥३५
रथैर्विमृदिताः केचित् व्यथिताः कानने स्थिताः
मुद्गरैराहताः केचित् पतिता धरणीतले ॥३६
परिघैर्मथिताः केचित् भिण्डिपालैश्च दारिताः
केचिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः ॥३७
केचिद्वित्रासिता नष्टाः केचित्पार्श्वेन शायिताः
विभिन्नहृदयाः केचित् त्रिशूलैर्दारिताः परे ॥३८
एवं विद्रावितं सैन्यं वनकर्ता विलोक्य तत्
बभूव क्रोधताव्रूक्षः सेनाध्यक्षमुवाच ह ॥३९
ज्वालापातं महाशूरं जहि त्वं गच्छ शीफ्रुतः
इत्याज्ञप्तस्ततस्तूर्णं ज्वालापातः प्रतापवान् ॥४०
धनुर्विष्फारयामास रथस्थः कनकाङ्गदः
सुदर्शनमहाराजः सेनाध्यक्षं सृजन् रुषा ॥४१
बडबामुखनामानं बडबानलविक्रमम्
जहि त्वं समरे गच्छ शत्रुसैन्यमशेषतः ॥४२
इत्यब्रवीत्ततः सोऽपि निर्गतः सरथस्तथा
शार्ङ्गमादाय सुमहत् तस्मिन् बाणान् युयोज च ॥ ४३
मुमोच छन्दस्सु ततः सैन्ये शरसङ्घान् महारथः
शतं सहस्रमयुतं नराणां बडबाननः ॥४४
बाणेनैकेन सहसा निजघान महारथः
दश वा विंशतिं वा पि त्रिशतं वा रथान् हयान् ॥४५
गजानां च घटामेकां एकेन शितपत्रिणा
जघान स महातेजाः कालानलयमोपमः ॥४६
बडबापावको यद्वत् अम्भसि ग्रसते क्षणात्
तद्वत्सैन्यं परं चक्रे भस्मसात् बडबानलः ॥४७
एकामक्षौहिणीं सेनां सुदर्शनबलाग्रणीः
प्रापयद्यमलोकं हि मुहूर्तद्वयमात्रतः ॥४८
श्री वाराहपुराणे प्रथमभागे. ५६-तमः अध्यायः.

[[120121]]
निश्शेषं स्वबलं सर्वं हतमालोक्य वेगतः
दिव्यमस्त्रञ्च सन्धाय तिष्ठ तिष्ठेति च ब्रुवन् ॥४९
आजगाम रथाच्छीफ्रुं किरातो लघुविक्रमः
सुदर्शनमहाकोपसञ्जातो बडबानलः ॥५०
विष्णुचक्रेण तं घोरं जघान वनगोचरम्
हते किरातराजे तु तद्वनं निर्मलं बभौ ॥५१
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये
वरुणदिश्यसुरसुदर्शननेनायुद्धप्रशंसादिवर्णनं नाम
षट्पञ्चाशोऽध्यायः

सप्तपञ्चाशोऽध्यायः

अथ सप्तपञ्चाशोऽध्यायः
सुदर्शनस्यासुरवधार्थमुत्तरदिग्गमनम्
श्रीसूतः -
सुदर्शनमहाराजः सहस्रकिरणोपमः
तं देशं हतदुष्टञ्च हतावग्रहकण्टकम् ॥१
कृत्वा सर्वाणि दुर्गाणि गिरिस्थलवनानि च
विनिहत्य गजैरश्वैः सर्वदिक्षु महापथम् ॥२
कृत्वा च तत्र मनुजान् स्थापयित्वा यथासुखम्
तद्देशरक्षकं कञ्चित् धर्मिष्ठं सत्यवादिनम् ॥३
निवेश्य देशमध्ये च जनानामन्त्र्य सत्वरम्
व्रतस्थे सबलस्तस्मात् दुष्टचोरजिगीषया ॥४
ततोश्चोत्तरदिग्फागं सहस्रकिरणो यथा
नीहारशोषणार्थाय श्रीमान् भुजसहस्रवान् ॥५
प्रतापविक्रमादित्यः सुदर्शनमहाप्रभुः
श्रीवेङ्कटनगाधीशदिव्याज्ञापरिपालकः ॥६
पदातयो गजाश्वाश्च रथाश्च गिरिसन्निभाः
ययुरग्रे च वाद्यानि वादयन्ति स्म सर्वतः ॥७
ततः प्रचोदिता भेर्यो मर्दलानकपुष्कराः
हेमकोणहतास्तीव्रं बलानां चाग्रतस्तदा ॥८
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः
तडिद्भास्करकल्पाश्च खड्गाः प्रासाश्च पट्टसाः ॥९
बभुस्तस्मिन् महासैन्ये यथा मेघेषु विद्युतः
उत्तरे वेङ्कटाद्रेस्तु भागे कश्चिन्महासुरः ॥१०
भेरुण्डासुरसुदर्शनसेनयोर्युद्धप्रशंसा
भेरुण्डो नाम दैत्यानां प्रवरो बलदर्पितः
ब्रह्मणाऽसीत्पुरा दत्तवरः पर्वतसन्निभः ॥११
स तु तत्र निवासञ्च कृत्वा तु बहुभिर्वृतः
वेङ्कटाद्रौ तदन्यस्मिन् गिरौ वा काननेऽपि वा ॥१२
श्री वाराहपुराणे प्रथमभागे. ५७-तमः अध्यायः.
[[122123]]
तपांसि कुर्वतां विघ्नं कुर्वन् प्राणिभयङ्करः
ग्रामे वा पत्तने वाऽपि स्थितान् विप्रादिमानुषान् ॥१३
बबाधे सततं तीक्ष्णं तेन देशः प्रपीडितः
काम्भोजा यवनाश्चापि म्लेच्छाः सङ्करजातिजाः ॥१४
भेरुण्डस्य बलोद्रिक्ताः तत्राऽसन् प्राणिपीडकाः
ते सर्वे पापकर्माणः सम्भूय मुसलायुधाः ॥ १५
भेरुण्डमग्रतः कृत्वा सरथाश्वगजास्तदा
युद्धार्थमागतं ज्ञात्वा राजानञ्च सुदर्शनम् ॥१६
युद्धाय निर्ययुः सर्वे गदाशक्तिपरश्वथान्
गृहीत्वा ऽङ्कुशापाशांश्च खड्गांश्च कनकत्सरून् ॥१७
केचिच्चर्मायुधधराः केचित्तोमरपाणयः
केचित्त्रिशूलहस्ताश्च शरचापधरा अपि ॥१८
अट्टहासं विमुञ्चन्तो नर्तन्तस्ते महाबलाः
वाद्यघोषांश्च महतः कारयन्ति स्म केचन ॥१९
सन्नद्धाश्चैवमागत्य चक्रुस्ते कदनं महत्
सुदर्शनभटाश्चापि भेरुण्डस्य भटा अपि ॥२०
हताः सुदर्शनभटाः किरातैरधिकोर्जितैः
निकृत्तशिरसः केचित् छिन्नपादास्तथाऽपरे ॥२१
केचित्कृत्तशिरस्त्राणाः केचिद्वक्षसि ताडिताः
केचिच्छिन्नतनुत्राणाः केचिच्छिन्नोरुबाहवः ॥२२
एवं हतं बलं सर्वमसुरेण दुरात्मना
तं दृष्ट्वा निहतं सैन्यं सुदर्शनमहाप्रभुः ॥२३
क्रोधेनारुणताव्रूक्षः प्रजज्वालान्तको यथा
कृद्धे तस्मिन् प्रभौ सर्वं न बभौ कलुषं जगत् ॥२४
चन्द्रसूर्यौ तदाऽऽकाशे बभतुर्न च किञ्चन
नक्षत्राणि न भान्ति स्म पेतुरुल्काः सहस्रशः ॥२५
वाति स्म जवनोऽत्यर्थं सह धूल्या प्रभञ्जनः
चकम्पे वसुधा कृत्स्ना पेतुः शैलाश्च पादपाः ॥२६
चुक्षुभुः सागराः सर्वे नेदुर्भूतानि तत्क्षणात्
युद्धार्थमागता दैत्याः किराताः पुल्कसास्तथा ॥२७
कश्मलोपहताः सर्वे विषण्णवदनास्तदा
तत्कोपाग्निसमुत्थश्च पुरुषः परमाद्भुतः ॥२८
चापी खड्गी रथी तूणी कश्चित् कनकपिङ्गलः
नाम्ना पावकसङ्काशः साक्षात्पावकविक्रमः ॥२९
स तमाज्ञापयद्राजा जहि दैत्यानितीश्वरः
पावकः सर्वशस्त्रास्त्रसम्पन्नः समरे बभौ ॥३०
प्रलयाग्निरिवादित्यसहस्रसदृशप्रभः
मुमोच बाणवर्षाणि परसैन्येषु पावकः ॥३१
विनोदं कारयामास कञ्चिद्विस्मयकारकम्
सम्मोहनार्थं दैत्यानां गन्धर्वं समचोदयत् ॥३२
श्री वाराहपुराणे प्रथमभागे. ५७-तमः अध्यायः.

[[124125]]
मोहिताः परमास्त्रेण त्यक्तोद्यतवरायुधाः
परसैैन्यञ्च तत्सर्वं मत्वा स्वजनसार्थकम् ॥३३
नायुध्यन्त तदा योधा दृष्ट्वा सेनापतिं पुनः
नाम्ना पावकसङ्काशं जनकं स्वकुलोद्भवम् ॥३४
मत्वा सर्वे नमन्ति स्म पतित्वा वसुधातले
तद्दृष्ट्वा देवगन्धर्वाः सिद्धविद्याधरादयः ॥३५
विस्मयं परमं जग्मुः साधु साध्विति चाब्रुवन्
तान् दृष्ट्वा पावकप्रख्यो मोहितानां प्रमापणम् ॥३६
अयुक्तमपि तद्दिव्यं उपसंहृतवांस्तदा
विमुक्तमोहास्ते सर्वे गृहीत्वा शस्त्रबाणकान् ॥३७
चक्रुस्ते कदनं घोरमसिभिः पट्टसायुधैः
क्रौञ्चमस्त्रं समादाय परेषां युद्धकाङ्क्षिणाम् ॥ ३८
छिन्धि भोः कर्णनासे त्व मिति मन्त्रं जजाप ह
तत्क्षणात्कृत्तनासाश्च कृत्तकर्णाश्च संयुगे ॥३९
विलोक्य तेहि तत्कर्म क्रुद्धा जघ्नुश्च तद्बलम्
पुनः पावकसङ्काशः सर्वास्त्रकुशलो युधि ॥४०
भिण्डिपालेन सर्वेषां बाहू चिच्छेद सर्वतः
सर्वे ते वीतहस्ताश्च परान् बाधितुमुद्यताः ॥४१
तच्च दृष्ट्वा तु पैशाचमस्त्रमस्त्रेण मन्त्रितम्
विससर्ज तदा घोरं सर्वविस्मयकारकम् ॥४२
ग्रस्ताः पिशाचभूतैश्च म्लेच्छा दैत्यादयस्तदा
अन्योन्यखादने सक्ता ययुर्विलयमञ्जसा ॥४३
स्वसैन्यं निहतं दृष्ट्वा निश्शेषं युद्धभूमिषु
भेरुण्डस्तु ततः क्रुद्धः शूलं परमदारुणम् ॥४४
गृहीत्वा पावकप्रख्यमभिदुद्राव संयुगे
योजनत्रितयोत्सेधः कम्पयन् मेदिनीं तदा ॥४५
वायव्यमस्त्रं प्रायुङ्त्क पावकार्चिस्समप्रभः
भ्रामयामास वात्येव तृणं पर्वतसन्निभम् ॥४६
प्रदक्षिणं कारयित्वा वेङ्कटाद्रेश्च दानवम्
पुनरुक्षिप्य तं दैत्यं आकाशे दशयोजनम् ॥४७
पातयामास भूमौ तत् वायव्यं परमाद्भुतम्
जीर्णकूष्माण्डवद्भूमौ स शीर्णः पर्वतोपमः ॥४८
एवं निहत्य तं दैत्यं कृत्वा देशमकण्टकम्
वनदुर्गाणि सर्वाणि खिलीकृत्य तदा जनान् ॥४९
ससुखं स्थापयामास वेङ्कटाद्रौ सुदर्शनः
आकाशे देवगन्धर्वाः पुष्पवर्षं विकीर्य च ॥५०
साधु साध्विति तं देवं अस्तुवंस्तुतिभिस्तदा
स्वामिन् जनपदाः सर्वे कृताः स्वस्था त्वया प्रभो ॥ ५१
गच्छ त्वं वेङ्कटाधीशसमीपं त्वरितं पुनः
इत्युक्त्वा च ययुः सर्वे दिवं देवा मुदाऽन्विताः ॥ ५२
श्री वाराहपुराणे प्रथमभागे. ५७-तमः अध्यायः.

[[126127]]
स्वसैन्येषु हता ये तु जीवयित्वा च तान् पुनः
स्वस्थं चकार तं देशं वेङ्कटेशाऽज्ञया तदा ॥५३
काले ववर्ष पर्जन्यः फलवन्तश्च पादपाः
सर्वसस्यानि तत्र स्म फलन्ति सुतरां तदा ॥५४
नीरोगाश्च जनाः सर्वे दुष्टबाधा न च क्वचित्
वैकुण्ठोऽयमथाऽन्यो वा स्वर्गो वा भोगतः किमु ॥ ५५
इति तं मेनिरे सर्वे देशं श्रीवेङ्कटाभिधम्
वाच्छन्ति जन्म तत्रैव देवा अपि दिवौकसः ॥५६
सुदर्शनमहाराजः सहस्रभुजमण्डितः
आज्ञां वेङ्कटनाथस्य कृत्वा सम्यक् प्रतापवान् ॥५७
जयमङ्गलघोषैश्च कुसुमोत्करवृष्टिभिः
सर्वसैन्यैश्च संयुक्तः सर्वाभरणभूषितः
प्रविवेश विमानं तद्वेङ्कटेशस्य मङ्गलम् ॥५८
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये सुदर्शनस्यासुर
वधार्थं उत्तरदिग्गमनादिवर्णनं नाम सप्तपञ्चाशोऽध्यायः

अष्टपञ्चाशोऽध्यायः

अथ अष्टपञ्चाशोऽध्यायः

श्रीवेङ्कटेशस्य कलिदोषोपहतेषु विशेषतः कृपाऽऽधिक्यवर्णनम्
श्री सूतः-
मुनयः श्रुतमाख्यानं किमु चक्रकृताऽश्रयम्
वक्तुमरछत यूयं हि किं भूयः श्रोतुमिच्चथ ॥१
मुनयः-
पिबतां वेङ्कटेशस्य कथां दिव्यरसायनम्
अस्त्यत्र तृप्तिर्नास्माकं भूयस्तृष्णा च भूयसी॥ २
कलौ कलौ यथा तिष्ठेत् वेङ्कटाद्रिशिखामणिः
पूजयिष्यति को वा तं वरदानञ्च कीदृशम्? ॥ ३
वक्तुमरछसि तत्सर्वं शृण्वतां नो महामुनेः
इति पृष्टोऽब्रवीत्सूतः कथां श्रीवेङ्कटेशितुः ॥ ४
श्रीसूतः -
सन्धावपि कलेश्चैवं वेङ्कटेशस्य वर्तनम्
ततः परमियान् भेदो मौनं तत्रैव तु स्थितिः ॥ ५
अर्चावतारवद्भूयात् नराणां मांसचक्षुषाम्
वैकुण्ठादागतं दिव्यं विमानन्तु तिरोहितम् ॥ ६
विमानमात्रं तु कलौ कारयिष्यन्ति मानवाः
पुण्यशीला महात्मानः कदाचित् क्षत्रसम्मताः ॥ ७

[[128129]]
कदाचिद्ब्राह्मणाः पुण्याः कदाचिद्वाल्लवा नराः
अर्चावतार इत्येव वदिष्यन्ति च मोहिताः ॥ ८
तथैवावमतिं केचित् करिष्यन्ति कलौ युगे
साक्षात्पश्यन् हि तत्सर्वमपश्यन्निव तिष्ठति ॥ ९
साक्षाद्भाषणमेकन्तु नास्ति तस्य तपोधनाः
परन्तु सर्वमस्त्येव निग्रहानुग्रहावपि ॥ १०
अधिकं वरदानन्तु भविष्यति कलौ युगे
कृतकन्तु विमानं स्यात् इत्याख्यामात्रमेव हि ॥ ११
किन्तु दर्शनमात्रेण पापकोटिं हरेद्ध्रुवम्
कदाचित् महती पूजा स्वल्पैव तु कदाचन ॥ १२
स्वयं हि वेङ्कटाधीशः प्रकाशं हि व्रजेत्क्वचित्
अप्रकाशं कदाचिच्च वेङ्कटाद्रिशिरोमणिः ॥ १३
एवं हि रमया सर्वं क्रीडत्येव च तत्र हि
कलौ युगे तु वैचित्र्यं दर्शयिष्यति केशवः ॥ १४
अल्पदानेन वै भक्त्या स्वल्पया पूजया तथा
भविष्यति प्रसन्नश्च स्मृतिमात्रेण केशवः ॥ १५
नृणां गमनमात्रेण वेङ्कटाख्यगिरिं प्रति
प्रसन्नः स्यादयं क्षिप्रं दास्यतीष्टञ्च तद्बहु ॥ १६
स्वयमप्राकृतो विष्णुः चरित्रं प्राकृतो यथा
करिष्यति तथा देवो मोहयिष्यति तान् जनान् ॥ १७
मानुषांश्चैव भोगांश्च भोक्ष्यते प्रीतमानसः
उत्सवान् विविधांस्तस्य कारयिष्यन्ति मानवाः ॥ १८
आगमिष्यन्ति देवाश्च सर्वार्थे वै कलौ युगे
स्नास्यन्ति स्वामितीर्थे वै करिष्यन्ति निवेदनम् ॥ १९
निवेदितं भक्षयेयुः मनुष्याणामगोचराः
विमानं तद्धि पश्येयुः पूजयेयुरिछ सादराः ॥ २०
प्रार्थयिष्यन्ति देवाश्च भविष्यामो नरा इति
तेषां हि वेट्कटाधीशः क्षिप्रं दास्यति चेप्सितम् ॥ २१
स्वल्पधर्मेण सन्तुष्टः पुत्रं क्षेत्रं कलत्रकम्
आरोग्यं भूतिमैश्वर्यं राज्यप्राप्तिञ्च सत्वरम् ॥ २२
आयुश्च दुर्लभं नॄणां स्वर्गलोकादिकानपि
जन्मकोटिशतैश्चैव कृतैः पुण्यैर्दुरासदाम् ॥ २३
नित्यभूतिञ्च देवोऽसौ दास्यत्याचार्यसंश्रयात्
अहो वै वैष्णवो धर्मः चित्रो वेङ्कटभूधरे ॥ २४
आश्चर्यमाश्चर्यमिति ब्रुवन्तो वैमानिकास्ते कमलासनाद्याः
यथा व्रजेयुरिछ तथा मयाऽपि गीतं भविष्यद्भवतां पुरस्तात्॥२५
कलौ युगे तु सम्प्राप्ते विशेषाद्वेङ्कटाचलः
प्रख्यातो ह्यधिकं भूमौ भविष्यति तपोधनाः ॥ २६
सान्निध्यमधिकं तत्र करिष्यति रमापतिः
म्लेच्छसङ्करजातीनां श्वपाकाधमयोषिताम् ॥ २७
श्री वाराहपुराणे प्रथमभागे. ५८-तमः अध्यायः.

[[130131]]
किरातपुल्कसादीनां शूद्राणां हीनजन्मनाम्
भक्तिः श्रीवेङ्कटाधीशे ह्यधिकञ्च च भविष्यति ॥ २८
तेषामपि रमाधीशः शीफ्रुं दास्यत्यभीप्सितम्
सान्निध्यं तत्र कुरुते भक्त्या क्रीतो यतो हरिः ॥ २९
आर्यास्तुरुष्का मालव्या गौडा वङ्गाः कलिङ्गकाः
आन्ध्राः कर्णाटदेशीयाः कोसलोद्भूतमानुषाः ॥ ३०
आङ्गाश्चोलाश्च पाण्ड्याश्च नानादेशेषु सम्भवाः
द्वीपान्तरगताश्चापि वेङ्कटेशमहोत्सवे ॥३१
धारयन्तो महाभक्तिमागमिष्यन्ति कोटिशः
सर्वे लब्ध्वा वरं चेष्टं भविष्यन्ति मुदाऽन्विताः ॥३२
अप्राकृतः स्वर्णसानुरपि श्रीवेङ्कटाचलः
प्राकृताचलवत् भूमौ भविष्यति कलौ युगे ॥३३
मतान्तरप्रविष्टानामपि भक्तिर्भविष्यति
सर्वात्मके रमाधीशे वेङ्कटेशे पराऽत्मनि ॥३४
एवं कृत्वा परां भक्तिं भविष्यन्ति च पावनाः
भक्तिमन्तं परो दृष्ट्वा भक्तिं गच्छेद्धि केशवे ॥३५
तथा दृष्टफलार्थञ्च भजमानाय सादरम्
दृष्टप्रदं वेङ्कटेशं दृष्ट्वा तं तु व्रजेत् पुनः ॥३६
सोऽपि दृष्टफल्ं लब्ध्वा वरानपि शतं भजेत्
चित्रं कलियुगे श्रीशो विहरिष्यति भूधरे ॥३७
अत एव कलिः साधुः साधुः शूद्रश्च योषितः
विशेषाद्वेङ्कटाधीशसेवनं साधुभूषणम् ॥३८
इत्येवं मुनयो देवा वदिष्यन्ति कलौ युगे
कलिदोषपरीतानां नराणां पापकर्मणाम् ॥३९
वेङ्कटेशात्परो देवो नास्त्यन्यः शरणं भुवि
वेङ्क टेशसमो देवो नास्ति नास्ति महीतले ॥४०
स्वामिपुष्करिणीतीर्थसमं नास्ति न चास्ति हि
द्रव्यार्जनपरो नित्यं भविष्यति कलौ युगे ॥४१
अनुग्रहाय लोकानां कामैः पूर्णोऽपि सर्वदा
इदं द्रव्यं त्वया तावत् दातव्यं मम सम्प्रति ॥४२
तवाभीष्टमहं दास्ये दास्य इत्येव च ब्रुवन्
इति सर्वजनैः सार्धं क्रीडमाणो भविष्यति ॥ ४३
कलौ तदीयचारित्रं वक्तुं कल्पशतैरपि
न शक्यमुक्तं लेशेन चरित्रं तस्य मङ्गलम् ॥४४
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटेशस्य कलि
दोषोपहतेषु विशेषतः कृपाधिक्यवर्णनं नाम
अष्टपञ्चाशोऽध्यायः

श्री वाराहपुराणे प्रथमभागे. ५८-तमः अध्यायः.
[[132133]]

एकोनषष्टितमोऽध्यायः

अथ एकोनषष्टितमोऽध्यायः

चेतनस्य आचार्याश्रयणात् पुरुषार्थप्राप्तिनिरूपणम्
मुनयः-
भगवन् सर्वशास्त्रार्थवेदवेदाङ्गपारगः
आचार्यसंश्रयादेव लभन्ते हि परां गतिम् ॥१
आहो हि वैष्णवो धर्म इति चोक्तं त्वया पुरा
सूत्वया तु तत्सर्वं वक्तव्यं नस्तपोधन॥२
श्री सूतः -
श्रूयतामभिधास्यामि सङ्ग्रहेण तपोधनाः
उद्धृत्य भूमिं पातालात् वेङ्कटाह्वयभूधरे ॥३
सितेन भूवराहेण धरण्यै भाषिताः पुरा
पृच्छन्त्यै वैष्णवान् धर्मान् ये ये धर्मा मनोहराः ॥४
व्यासप्रासादात् तान् धर्मान् वेद्म्यहं मुनिसत्तमाः
सङ्ग्रहेण प्रवक्ष्यामि गोप्याद्गोप्यतरानपि ॥५
तेषां वैष्णवधर्माणां विश्वासस्तु वरा गतिः
यावानपि च विश्वासः तावती सिद्धिरीरिता ॥६
गुरुदेवपरो धर्मो गुरुरेव परा गतिः
पापं क्षपयति क्षिप्रं गुरुदेवाऽत्मभावनः ॥७
तस्मात्सर्वप्रयत्नेन विश्वसेत्परमं गुरुम्
तत्पापं तद्गुरुरछन्ति तत्पापं तद्गुरुरछ रेत् ॥८
पारम्पर्यक्रमाद्विष्णुः सर्वपापहरो गुरुः
कारुण्यमूर्तिः श्रीविष्णुः गुरुरूपी च पापिनः ॥९
शास्त्रहस्तेन संसारमग्नानुद्धरते जनान्
न्यायविच्छास्त्रवेदी च धर्माधर्मविवेकवान् ॥१०
तपोनिष्ठो ब्रह्मनिष्ठः तपः स्वाध्ययने रतः
निर्ममो निरहङ्कारः शान्तो दान्तो विमत्सरः ॥११
गुरुरित्युच्यते यस्तु परार्थैकप्रयोजनः
भीतः संसारदावेभ्यः शान्तो दान्तः शुचिर्बुधः ॥१२
अतः परमनिर्विण्णो निर्वैरः सर्वजन्तुषु
समाश्रयेद्गुरुं भक्त्या महाविश्वासपूर्वकम् ॥१३
निक्षिपेत्सर्वभारांश्च गुरोः श्रीपादपङ्कजे
नित्यनैमित्तिके कुर्वन् यथाशक्ति भयाद्धरेः ॥१४
मोक्षार्थं निर्भरस्तिष्ठेत् मन्त्रान्तरविवर्जितः
साधनान्तरहीनश्च द्वयानुष्ठानतत्परः ॥१५
’नाष्टाक्षरात्परो मन्त्रो नास्ति नारायणात्परः
नास्ति न्यासात्परो योगो’’ ब्रवीति च तथा श्रुतिः ॥१६
एवं हि वर्तमानस्य देहान्ते परमं पदम्
न्यासविद्यापरश्चैवं वर्तते परमार्थवित् ॥१७
ध्याननिष्ठश्च लब्धाशी वैराग्यं परमाश्रितः
अहङ्कारविहीनश्च यतवाक्कायमानसः ॥१८
श्री वाराहपुराणे प्रथमभागे. ५९-तमः अध्यायः.

[[134135]]
सर्वेन्द्रियाणि संयम्य विविक्तं स्थलमाश्रितः
बलदर्पविहानश्च कामक्रोधविवर्जितः ॥१९
शान्तश्च निर्ममश्चापि परिग्रहविवर्जितः
कल्पते ब्रह्मभूयाय ब्रह्मध्यानस्य वैभवात् ॥२०
ब्रह्मभावं गतस्यास्य प्रसन्नं मानसं भवेत्
तस्य शोको न चेच्छा च सर्वभूतसमो भवेत् ॥२१
हरिभक्तिर्भवेत्तस्य भक्त्या जानाति केशवम्
भगवत्तत्त्वयाथात्म्यं वेत्ति पश्चात् प्रसन्नधीः ॥२२
ततः परमसङ्गाच्च विष्णोः सायुज्यमश्नुते
न्यासविद्यानिविष्टस्य कर्मणां त्याग इष्यते ॥२३
त्यागश्च फलतः प्रोक्तः स्वरूपेण न च क्वचित्
कर्मणो नियतस्यैव त्यागो वै मोहमूलकः ॥२४
कर्माणि त्यजतः पुंसो नास्ति देहस्य धारणम्
यज्ञादीनां त्यक्तसङ्गः कुर्यात्कर्माण्यशेषतः ॥२५
सृष्ट्वा यज्ञान् प्रजाश्चापि प्राह ब्रह्मा चतुर्मुखः
यज्ञ एव वरो धर्मो भगवत्प्रीतिकारकः ॥२६
अभीष्टकामधुक् यज्ञः तस्माद्यज्ञः परा गतिः
तस्माद्यज्ञं प्रजाः सर्वाः कुर्युः सङ्गविवर्जिताः ॥२७
यज्ञैः प्रीतो हरिः सर्वमभीष्टञ्च प्रयच्छति
लब्ध्वाऽभीष्टं वरं तस्मात् यज्ञं कुर्यात् न चेत्पुनः ॥२८
स्तेन एव स विज्ञेयः सर्वकर्मबहिष्कृतः
ततः कर्म च कर्तव्यं फलसङ्गविवर्जितम् ॥२९
कर्मणैव पुरा केचित् परां सिद्धिमितो गताः
भगवत्त्तत्त्वनिष्ठस्य तदाज्ञालङ्घनं महान् ॥३०
दोषस्तदाज्ञा वेदाश्च स्मृतयो धर्मसङ्ग्रहाः
आज्ञानुवर्तनं पुंसां आदौ कार्यं हि सर्वदा ॥३१
हरौ सर्वाणि कर्माणि सन्न्यसेद्योगवित्तमः
निर्ममो नित्यतृप्तश्च भगवद्ध्यानमाश्रितः ॥३२
सुखदुःखे समे कृत्वा लाभं हानिं जयं तथा
पराजयञ्च शीतोष्णे मानं चाप्यवमानकम् ॥३३
सर्वत्रगं परं ब्रह्म ध्यायन् सन्ततमात्मनि
प्रातरारभ्य कर्माणि कुर्वन्निज्यादिकं तथा ॥३४
स्वाध्यायञ्च तथा योगं तत्तत्कालेन हापयेत्
नित्यं नैमित्तिकं कर्म यथाशक्ति विनिर्वहेत् ॥३५
बृन्दावनं वेङ्कटाद्रौ मालाकरणमेव च
विमानलेपनञ्चैव यच्चान्यत् प्रीतिकारकम् ॥३६
उत्सवे सेवनञ्चैव यथाशक्ति निवेदनम्
तदीयाराधनञ्चापि कुर्वन्नद्वेषमात्मसु ॥३७
श्रीमद्वेङ्कटनाथस्य जलैस्तु विनिवेदितैः
अन्नैर्वस्त्रैस्तथा माल्यैः शरीरस्य च पोषणम्
कुर्वन्नाचार्यमाहात्म्यात् परां गतिमवाऽप्नुयात् ॥
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये चेतनस्य आचार्या
श्रयणात् पुरुषार्थप्राप्तिवर्णनं नाम एकोनषष्टितमोऽध्यायः

श्री वाराहपुराणे प्रथमभागे. ५९-तमः अध्यायः.
[[136137]]

षष्टितमोऽध्यायः

अथ षष्टितमोऽध्यायः

अष्टाङ्गयोगस्वरूपनिरूपणम्
श्री सूतः -
द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव च
अपरं ब्रह्म जीवस्तु क्षराक्षरविभेदवान् ॥१
क्षरस्तु सर्वभूतं स्यात् कूटस्थो ह्यक्षरः स्मृतः
परं ब्रह्म तु सर्वात्मा परमात्मा प्रकीर्तितः ॥२
बिभर्ति सर्वलोकांश्च प्रविश्यान्तर्नियच्छति
ईश्वरो योऽव्ययो नित्यः स एव पुरुषोत्तमः ॥३
अतीतः क्षरमत्यर्थं अक्षरञ्च परः पुमान्
यस्मात्तस्मात्तु विख्यातो लोकेऽसौ पुरुषोत्तमः ॥४
इति यो वेत्ति पुरुषं असम्मूढः परार्थवित्
स सर्वविद्भजेदेनं वेङ्कटेशसमाधिना ॥५
यस्तु वेदविदां श्रेष्ठो योगमारभ्य बुद्धिमान्
यमञ्च नियमञ्चैव पीठभेदांस्तथैव च ॥६
प्राणायामांश्च विविधान् प्रत्याहारञ्च साधयेत्
धारणं ध्यानभेदांश्च स समाधिं प्रसाधयेत् ॥७
यमादिध्यानपर्यन्ताः समाधेः सिद्धिहेतवः
समाधिः स्वाङ्गसहितस्त्वष्टाङ्गो योग उच्यते ॥८
कुर्याद्धि प्रत्यहं योगं एतावदिति निश्चयः
निषिद्धाचारतः पुंसो निवृत्तिर्यम उच्यते ॥९
स्वाध्यायो नियमः प्रोक्तः स्वस्तिकाद्यासनं विदुः
रेचकः पूरकश्चापि कुम्भकश्चेति विश्रुतः ॥१०
प्राणायामस्त्रिधा प्रोक्तः प्रत्याहारः स कथ्यते
चित्तोपसंहृतिर्या तु विषयेभ्यश्च योगिनः ॥११
आत्मन्येवात्र मनसः स्थापनं धारणं स्मृतम्
तैलधारावदच्छिन्नज्ञानसन्तानलक्षणम् ॥१२
ध्यानं स्यादात्मविज्ञानं ज्ञातृज्ञेयाभिदात्मकम्
ज्ञातुर्ज्ञेयस्य बुद्धेश्च भेदज्ञानं यदा न हि ॥१३
परमानन्दजनने परानन्दे चिदात्मनि
मनो यदा महायोगं समाधिर्गीयते तदा ॥१४
एवमभ्यस्य मेधावी पञ्चकालपरायणः
तत्तत्कालविधानोक्तं आचारञ्च समाचरेत् ॥१५
सायङ्काले प्रतिदिनं योगं कुर्याद्विचक्षणः
विविक्तदेशे कीटादिसर्वबाधाविवर्जिते ॥१६
मृद्वासने सुखासीनः स्वस्तिकाद्यासने तथा
ऋजुकायशिरोग्रीवो नासाग्रन्यस्तलोचनः ॥१७
इडया वायुमाकृष्य कुम्भयेच्च शनैः शनैः
उद्बोध्य कुण्डलीं सुप्तां सुषुम्नायां प्रवेशयेत् ॥१८
श्री वाराहपुराणे प्रथमभागे. ६०-तमः अध्यायः.

[[138139]]
यदा तु योगिनो देहे जिहासा वर्तते तदा
ओमित्युच्चारयेद्योगी वेङ्कटेशमनुस्मरन् ॥१९
ब्रह्मरन्ध्राद्विनिर्गच्छन् प्रविशेदर्चिराकृतिम्
अर्चिरादिकमार्गेण प्रविश्य परमं पदम् ॥२०
सायुज्यं वेङ्कटेशस्य लब्ध्वा नन्दी भवेच्छिरम्
यदि स्यात् वेङ्कटेशस्य कैङ्कर्ये धीर्बलीयसी ॥२१
तदा योगं स्थिरः कुर्यात् उपदेशाद्गुरोः स्वयम्
पूर्वोक्तेनैव मार्गेण योगं कुर्याद्विचक्षणः ॥२२
श्री भगवान् -
इडया वायुमाकृष्य सुषुम्नायां प्रवेशयेत्
अर्चिषा सह कोष्ठाग्नेः प्रविशेद्धृदयाम्बुजम् ॥२३
तत्रस्थं केशवं बुद्ध्वा शङ्खचक्रगदाधरम्
आज्ञास्थानमतीत्यैवं भ्रूमध्यं प्रविशेत् सुधीः ॥२४
नीवारशूकवत्सूक्ष्मं तत्र पश्येच्छ्रियः पतिम्
सहस्रपत्रकमलमध्यस्थं चन्द्रमण्डलम् ॥२५
तत्र पश्येद्रमाधीशं सुराधीशं सुधात्मकम्
तत्सङ्कल्पाच्चन्द्रबिम्बात् स्रवत्पीयूषबिन्दुना ॥२६
अन्तर्बहिस्तथा व्याप्तं स्वस्य देहं विचिन्तयेत्
सुषुम्नायास्तथा मार्गात् अवरुह्य शनैः शनैः ॥२७
प्राणादी स्थापयेद्वायौ तत्तत्थ्सानेषु पूर्ववत्
एवञ्च प्रत्यहं कुर्वन् सन्ध्यामध्यमरात्रिषु ॥२८
विना हासेन कुर्वीत वायोर्धारणमात्मनि
शारीरादधिकं वायुं द्वादशाङ्गुलमानकम् ॥२९
शरीरेण समं कुर्यात् न्यूनं वा वायुमात्मनि
एवमभ्यासयोगेन वज्रकायो भवेन्नरः
कालमृत्युं विनिर्जित्य जीवेदाचन्द्रतारकम् ॥३०
सनकसनन्दनतीर्थमाहात्म्यम्
अस्य योगस्य विघ्नाश्चेत् भवन्ति बहवो भुवि
अविघ्नयोगसिद्ध्यर्थं वेङ्कटाह्वयभूधरे ॥३१
अस्ति किञ्चित् सरः पुण्यं नाम्ना सनकनन्दनम्
उत्तरे पापनाशस्य क्रोशार्धे सिद्धसेविते ॥३२
अतिगोप्यं न तत् केऽपि जानन्ति मनुजा भुवि
मार्गशीर्षे सिते पक्षे द्वादश्यामरुणोदये ॥३३
स्वामिपुष्करिणीर्थे स्नात्वा नियतमानसः
त्रयोदशीं समारभ्य स्नायात् सनकनन्दने ॥३४
स्नात्वा तु तत्र विमलो वेङ्कटाद्रिपतेः पुनः
श्रीमदष्टाक्षरं मन्त्रं जपेदयुतमन्वहम्
पश्चात् समभ्यसेद्योगं ततः सिद्धो भविष्यति ॥ ३५
कायरसायनतीर्थमाहात्म्यम्
रहस्यं तत्समीपेऽस्ति तीर्थं कायरसायनम्
तस्य पानात्तु देहोऽपि शुद्धो भवति तत्क्षणात् ॥३६
यत्किञ्चित् पाण्डुपत्रन्तु परीक्षार्थं विनिक्षिपेत्
तस्मिंस्तीर्थे क्षणादेव श्यामं भवति शोभनम् ॥३७
श्री वाराहपुराणे प्रथमभागे. ६०-तमः अध्यायः.

[[140141]]
शिलया पिहितं तत्तु योगिभिः सनकादिभिः
महात्मनां पुण्यवतां दर्शनं हि ददाति तत् ॥३८
येन केन प्रकारेण कृत्वा देहं दृढं बुधः
कैङ्कर्यमेव कुर्वीत वेङ्कटेशस्य सर्वदा ॥३९
स्वरूपमात्मनो यस्मात् कैङ्कर्यं शेषिणो हरेः
कैङ्कर्यहीनः पुरुषः स्वामिद्रोही न संशयः ॥४०
तस्मादेव तु कुर्वीत नित्यं नैमित्तिकं बुधः
अन्यच्च प्रीतिकर्माऽपि यत्तु शान्तैरनिन्दितम् ॥४१
इत्युक्तं प्राक् वराहेण धरण्यै वेङ्कटाचले
शरीरधारणं भोगो ज्ञानं सामर्थ्यमेव च ॥४२
क्षेत्रं गृहं धनं धान्यं यच्चान्यदुपकल्पितम्
सर्वं वेङ्कटनाथस्य कुर्यात् स्वाधीनमञ्जसा ॥४३
विनश्वरमिदं सर्वं जगत् पश्येद्धि बुद्धिमान्
निरये पापकारी तु पतत्येव न संशयः ॥४४
पुण्यकृत् सुखमाप्नोति ध्रुवमित्येव बुद्धिमान्
चिन्तयेत्सततं योगी चित्ते वेङ्कटनायकम् ॥४५
धर्मशास्त्रं सदा पश्येत् गुरुशुश्रूषणे रतः
गृहस्थः न्वेषु दारेषु रमेत् योगी जितेन्द्रियः ॥४६
साधूनेव सदा योगी पृच्छेद्वै हितमात्मनः
विचारयेच्च वेदार्थान् सदा वेदान्तमभ्यसेत् ॥४७
बहुनेह किमुक्तेन विहितं नैव सन्त्यजेत्
निषिद्धं नानुतिष्ठेद्धि सारोऽयं धर्मसङ्ग्रहः ॥४८
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये अष्टाङ्गयोग
स्वरूपादिवर्णनं नाम षष्टितमोऽध्यायः

एकषष्टितमोऽध्यायः

अथ एकषष्टितमोऽध्यायः

श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः
मुनयः-
सूत सर्वार्थतत्त्वज्ञ सर्ववेदान्तपारग
येन चाऽराधितः सद्यः श्रीमद्वेङ्कटनायकः ॥ १
भवत्यभीष्टसर्वार्थप्रदः तद्ब्रूहि नो मुने
इति पृष्टस्तदा सूतो ध्यात्वा स्वात्मनि तत्क्षणात्
उवाच मुनिशार्दूलान् श्रूयतामिति वै मुनिः ॥२
श्री सूतः-
अस्ति किञ्चिन्महद्गोप्यं भगवत्प्रीतिकारकम्
पुरा शेषेण कथितं कपिलाय महात्मने ॥३
नाम्नामष्टशतं पुण्यं पवित्रं पापनाशनम्
आदाय हेमपद्मानि स्वर्णदीसम्भवानि च ॥४
श्री वाराहपुराणे प्रथमभागे. ६१-तमः अध्यायः.

[[142143]]
ब्रह्मा तु पूर्वमभ्यर्च्य श्रीमद्वेङ्कटनायकम्
अष्टोत्तरशतैर्दिव्यैः नामभिः मुनिपूजितैः ॥५
स्वाभीष्टं लब्धवान् ब्रह्मा सर्वलोकपितामहः
भवद्भिरपि पद्मैश्च समर्च्यस्तैश्च नामभिः ॥६
तेषां शेषनगाधीशमानसोल्लासकारिणाम्
नाम्नामष्टशतं वक्ष्ये वेङ्कटाद्रिनिवासिनः ॥७
आयुरारोग्यदं पुंसां धनधान्यसुखप्रदम्
ज्ञानप्रदं विशेषेण महदैश्वर्यकारकम् ॥८
अर्चयेत् नामभिर्दिव्यैः वेङ्कटेशपदाङ्कितैः
नाम्नामष्टशतस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥९
छन्दोऽनुष्टुप् तथा देवो वेङ्कटेश उदाहृतः
नीलगोक्षीरसम्भूतो बीजमित्युच्यते बुधैः ॥१०
श्रीनिवासस्तथा शक्तिः हृदयं वेङ्कटाधिपः
विनियोगस्तदाऽ भीष्टसिद्ध्यर्थे च निगद्यते ॥११
नामावलिस्तोत्रम्
ॐ नमो वेङ्कटेशाय शेषाद्रिनिलयाय च
वृषदृग्गोचरायाथ विष्णवे सततं नमः ॥१२
मेरुपुत्रगिरीशाय सरस्स्वामितटीिजुषे
कुमाराकल्पसेव्याय वज्रिदृग्विषयाय च ॥१३
सुवर्चलासुतन्यस्तसैनापत्यभराय च
रामाय पद्मनाभाय सदा वायुस्तुताय च ॥१४
त्यक्तवैकुण्ठलोकाय गिरिकुञ्जविहारिणे
हरिचन्दनगोत्रेन्द्रस्वामिने सततं नमः ॥१५
शङ्खराजन्यनेत्राब्जविषयाय नमो नमः
वसूपरिचरत्रात्रे कृष्णाय सततं नमः ॥१६
अब्धिकन्यापरिष्वक्तवक्षसे वेङ्कटाय च
सनकादिमहायोगिपूजिताय नमो नमः ॥१७
देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने
श्वेतद्वीपवसन्मुक्तपूजिताम्फ्रिुयुगाय च ॥१८
शेषपर्वतरूपत्व प्रकाशनपराय च
सानुस्थापिततार्क्ष्याय तार्क्ष्याचलनिवासिने ॥१९
मायागूढविमानाय गरुडस्कन्धवासिने
अनन्तशिरसे नित्यं अनन्ताक्षाय ते नमः ॥२०
अनन्तचरणायाथ श्रीशैलनिल्याय च
दामोदराय ते नित्यं नीलमेघनिभाय च ॥२१
ब्रह्मादिदेवदुर्दर्शविश्वरूपाय ते नमः
वैकुण्ठागतसद्धेमविमानान्तर्गताय च ॥२२
अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय च
वासुदेवाय हरये तीर्थपञ्चकवासिने ॥२३
वामदेवप्रियायाथ जनकेष्टप्रदाय च
मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ॥२४
श्री वाराहपुराणे प्रथमभागे. ६१-तमः अध्यायः.

[[144145]]
वाक्पतिब्रह्मदात्रे च चन्द्रलावण्यदायिने
नारायणनगेशाय ब्रह्मक्ल
?
प्तोत्सवाय च ॥२५
शङ्खचक्रवरानव्रुलसत्करतलाय च
द्रवन्मृगमदासक्त विग्रहाय नमो नमः ॥२६
केशवाय नमो नित्यं नित्ययौवनमूर्तये
अर्थितार्थप्रदात्रे च विश्वतीर्थाघहारिणे ॥२७
तीर्थस्वामिसरस्स्नातजनाभीष्टप्रदायिने
कुमारधारिकावासस्कन्दाभीष्टप्रदाय च ॥२८
जानुदघ्नसमुद्भूतपोत्रिणे कूर्ममूर्तये
किन्नरद्वन्द्वशापान्तप्रदात्रे विभवे नमः ॥२९
वैखानसमुनिश्रेष्ठपूजिताय नमो नमः
सिंहाचलनिवासाय श्रीमन्नारायणाय च ॥३०
सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमो नमः
कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय च ॥३१
दुर्मेधःप्राणहर्त्रे च श्रीधराय नमो नमः
क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः ॥३२
पाण्डवारिप्रहर्त्रे च श्रीकराय नमो नमः
उपत्यकाप्रदेशस्थ शङ्करध्यातमूर्तये ॥३३
रुक्माब्जसरसीकूल लक्ष्मीकृततपस्विने
लसल्लक्ष्मीकराम्भोजद त्तकलाछरकस्रजे ॥३४
सालग्रामनिवासाय शुकदृग्गोचराय च
नारायणार्थिताशेषजनदृग्विषयाय च ॥३५
मृगयारसिकायाथ वृषभासुरहारिणे
अञ्जनागोत्रपतये वृषभाचलवासिने ॥३६
अञ्जनासुतदात्रे च माधवीयाघहारिणे
प्रियङ्गुप्रियभक्षाय चोलपुत्रप्रियाय च ॥३७
नीलधेनुपयोधारानेक देहोद्भवाय च
शङ्करप्रियमित्राय चोलपुत्रप्रियाय च ॥३८
सुधर्मिणीसुचैतन्यप्रदात्रे मधुघातिने
कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय च ॥३९
वराहाचलनाथाय बलभद्राय ते नमः
त्रिविक्रमाय महते हृषीकेशाय ते नमः ॥४०
अच्युताय नमो नित्यं नीलाद्रिनिलयाय च
नमः क्षीराब्धिनाथाय वैकुण्ठाचलवासिने ॥४१
मुकुन्दाय नमो नित्यं अनन्ताय नमो नमः
विरिञ्चाभ्यर्थिता नीतसौम्यरूपाय ते नमः ॥४२
सुवर्णमुखरीस्नातमनुजाभीष्टदायिने
हलायुधजगत्तीर्थसमस्तफलदायिने
गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ॥४३
अष्टोत्तरशतं नाम्नां चतुर्थ्या नमसाऽन्वितम्
यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ॥४४
श्री वाराहपुराणे प्रथमभागे. ६१-तमः अध्यायः.

[[146147]]
तस्य श्रीवेङ्कटेशस्तु प्रसन्नो भवति ध्रुवम्
अर्चनायां विशेषेण ग्राह्यमष्टोत्तरं शतम् ॥४५
वेङ्कटेशाभिधेयैर्यो वेङ्कटाद्रिनिवासिनम्
अर्चयेन्नामभिस्तस्य फलं मुक्तिर्न संशयः ॥४६
गोपनीयमिदं स्तोत्रं सर्वेषां न प्रकाशयेत्
श्रद्धाभक्तियुजामेव दापयेत् नामसङ्ग्रहम् ॥४७
इति शेषेण कथितं कपिलाय महात्मने
कपिलाख्यमहायोगिसकाशात्तु मया श्रुतम्
तदुक्तं भवतामद्य सद्यः प्रीतिकरं हरेः ॥४८
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटेशाष्टोत्तर
शतनामावलिकीर्तनं नाम एकषष्टितमोऽध्यायः

द्विषष्टितमोऽध्यायः

अथ द्विषष्टितमोऽध्यायः

महर्षीणां श्रीवेङ्कटेशसेवार्थं श्रीवेङ्कटाचलागमनम्
श्री सूतः -
ब्रूत यूयं पुनः श्रोतुं किमिच्छथ तपोधनाः !
वक्ष्यामि तदशेषञ्च नात्र कार्या विचारणा
इत्युक्ता मुनयः सर्वे प्रोचुरेवमिदं वचः ॥१
मुनयः -
भगवन् भगवगद्भक्तिक्षीरसागरचन्द्रमाः ।
वेङ्कटेशस्य माहात्म्यं उक्तं सूत त्वयाऽनघ ॥२
विचित्रं तस्य चारित्रं औदार्यं निस्तुलं तथा
रहस्यानि च नामानि सम्यगस्माभिरेव हि ॥३
श्रोत्राभ्यां पीतमेतत्तु वेङ्कटेशकथामृतम्
तस्माच्चक्षुर्द्वयस्यापि पिपासा तु गरीयसी ॥४
अस्मांस्त्वमनुजानीहि सेवार्थं वेङ्कटेशितुः
रहस्यानि च नामानि शेषाद्रेश्च तदीशितुः ॥५
स्वामिपुष्करिणीतीर्थमाहात्म्यञ्च प्रकाशितम्
अत्यद्भुतं हरेर्दिव्यं कलौ माहात्म्यमेव तु ॥६
श्रुतञ्च मुनिशार्दूल सम्यगस्माभिरेव हि
श्रोत्राभ्यां सम्यगापीतं वेङ्कटेशकथाऽमृतम् ॥७

[[148149]]
इत्युक्तस्तु ततः सूतः प्रोवाच मुनिपुङ्गवान्
गच्छध्वं मुनयो यूयं शनैः श्रीवेङ्कटाचलम् ॥८
तत्र गत्वा गिरिं पुण्यं कृत्वा चापि प्रदक्षिणम्
स्नात्वा पर्यन्ततीर्थेषु नत्वा पर्यन्तगान् सुरान् ॥९
आरुह्य रत्नसानुं तं शुककोकिलमञ्जुलम्
स्वामिपुष्करिणीं पद्मवनवातेन रञ्जिताम् ॥१०
प्राप्य स्नात्वा च तत्तीर्थे प्रदक्षिणविधानतः
परिसृत्य विमानञ्च दर्शनात् पापनाशनम् ॥११
हृदयानन्दजननं पुलकोद्गमकारकम्
प्रविश्य भूवराहञ्च नत्वा श्रीवेङ्कटाधिपम् ॥१२
श्रीभूमिभ्यां मुदा युक्तं शङ्खचक्रवरायुधे
दधानं पुण्डरीकाक्षं स्मयमानमुखाम्बुजम् ॥१३
दयाऽमृततरङ्गाब्धिमन्दस्मितमनोहरम्
सम्यग्दृष्ट्वा च नत्वा च स्तुत्वा नामभिरेव च ॥१४
अर्चयित्वा च कमलैः लब्ध्वाऽभीष्टञ्च दुर्लभम्
कृतकृत्या विवर्तध्वं इत्युक्ता मुनयस्तथा ॥१५
आमन्त्र्य सूतं ते सर्वे प्रहृष्टाश्च प्रतस्थिरे
भरद्वाजः कौशिकश्च जाबालिरथ काश्यपः ॥१६
क्रतुर्दक्षः पुलस्त्यश्च गौतमः पुलहस्तथा
आङ्गीरसो देवलश्च देवदर्शन एव च ॥१७
कौत्सः कण्वो मृकण्डुश्च शतानन्दो महामुनिः
मैत्रेयप्रमुखास्तत्र सङ्गता ये तपोधनाः ॥१८
घुष्यन्तः सङ्घशश्चोच्चैः गोविन्देति पुनः पुनः
तीर्त्वा भागीरथीं पश्चात् गौतमीं कृष्णवेणिकाम् ॥१९
तत्र तत्र महानद्यां स्नात्वा स्नात्वा तपोधनाः
वेङ्कटाद्रिं समागत्य तप्तजाम्बूनदात्मकम् ॥२०
सर्वतीर्थमयं पुण्यं सर्वसिद्धनिषेवितम्
मदमञ्जुलमायूरकेकास्वनमनोहरम् ॥२१
दिव्यर्झरसम्पूर्णं फलपुष्पद्रुमैर्युतम्
अनतिक्रम्य सूतोक्त सेवाक्रममिमे बुधाः ॥२२
चक्रुः श्रीवेङ्कटेशस्य सेवां परमपावनीम्
स्नानं मन्त्रैश्च कुर्वन्तो र्झरेषु सरस्सु च ॥२३
पश्यन्तस्तानि रम्याणि सानूनि मणिमन्ति च
शृण्वन्तः श्रोत्ररम्याणि पक्षिणां वचनान्यपि ॥२४
गायन्तः सामगानानि पठन्तः स्तुतिसञ्चयम्
नृत्यन्तः सम्भ्रमात् सर्वे क्ष्वेलन्तश्च तपोधनाः ॥२५
उत्पतन्तः पतन्तश्च हर्षावेशवशं गताः
गिरिप्रदक्षिणं सम्यक् कुर्वन्तस्ते शनैः शनैः ॥२६
स्नात्वा कापिलतीर्थे च दृष्ट्वा नत्वा शिवं गिरिम्
आरुह्य मेरुशृङ्गाभं सिद्धगन्धर्वसेवितम् ॥२७
श्री वाराहपुराणे प्रथमभागे. ६२-तमः अध्यायः.

[[150151]]
अत्यद्भुतात् रत्नसानोः हेमाद्रेरद्भुतो गिरिः
अयं ह्यभूतपूर्वो हि श्रीमद्वेङ्कटभूधरः ॥२८
इति ब्रुवन्तस्ते सर्वे ददृशुर्दिव्यमुत्तमम्
विमानं स्वामितीर्थे च स्नात्वा देवं श्रियःपतिम् ॥२९
कोटिकन्दर्पलावण्यं किरीटमकुटोज्ज्वलम्
उरस्थ्सितश्रियाऽऽक्रान्तमुक्तादामोपशोभितम् ॥३०
चतुर्भुजमुदाराङ्गं शङ्गचक्रधरं परम्
नीलमेघनिभं श्यामं पीतवाससमच्युतम् ॥३१
श्रीभूमिसहितं विष्णुं पद्मार्चितपदाम्बुजम्
प्रणेमुः सहसा हृष्ट्वा हर्षोत्फुल्लविलोचनाः
तुष्टुवुर्वेदमन्त्रैश्च स्तोत्रैश्च श्रुतिसम्मतैः ॥३२
महर्षि कृतभगवत्त्सुतिः
मुनयः -
यः पार्थिवानि गणयेत् रजांसि सुबहून्यपि
विष्णोर्वीर्याणि गणयेत् निश्शेषं स पुमान् हरेः ॥३३
त्रेधा च निदधे पादान् भूमौ विष्णुस्त्रिविक्रमः
धर्मांश्च धारयन् यस्तु तस्मै ते विष्णवे नमः ॥३४
अत्यतिष्ठद्विश्वतो यो व्याप्य भूमिं दशाङ्गुलम्
भूतं भव्यञ्च यद्व्याप्तं तस्मै ते विष्णवे नमः ॥३५
पादो विश्वं त्रिपाद्व्योम यस्य तस्मै नमो नमः
ऋचः सामानि यस्मात्तु जज्ञिरे तुरगास्तथा ॥३६
विप्रो मुखात् भुजात् राजा वैश्यश्चोर्वोरनन्तरम्
शूद्रः पद्भ्यां मुखादग्निः इन्द्रश्च मनसो विधुः ॥३७
नेत्रात् सूर्योऽथ सञ्जज्ञे तस्मै ते ब्रह्मणे नमः
इयत्तया गुणानां ते निवर्तन्ते न मानवाः
बुद्धीनां किन्तु दौर्बल्यात् वेदश्चापि तथैव भोः ॥३८
एवं तं बहुधा स्तुत्वा स्तोत्रैः श्राव्यैर्मनोहरैः
आदाय पद्मपत्राणि श्रीपादं वेङ्कटेशितुः ॥३९
अर्चयामासुरव्यग्रं नामभिः सूतभाषितैः
ततः प्रीतो जगद्धाता बभाषे वेङ्कटेश्वरः ॥४०
तत्रैवं नैमिशारण्ये प्रीतोऽस्मि भवतामहम्
वेङ्कटाचलमाहात्म्यश्रवणान्मुनयो बुधाः ॥४१
चिरकालतपोलभ्यं अपि दत्तं फलं मया
यद्यदिष्टं मुनीनान्तु भवतां दत्तमेव तत् ॥४२
वेङ्कटाद्रेस्तु माहात्म्यं बहुदूरस्थितोऽपि यः
शृणोति वा श्रावयति पठेद्वा श्रद्धयाऽन्वितः ॥४३
कन्यामासे विशेषेण तस्याहं सुलभो ह्यहम्
धनं धान्यं महीमिष्टां पुत्रान् पौत्रान् ददाम्यहम् ॥४४
ददामि सर्वान् कामांश्च देहान्ते मत्पदं तथा
इति लब्ध्वा वरांस्ते तु तत्र वत्सरपञ्चकम् ॥४५
स्नात्वा सर्वेषु तीर्थेषु वेङ्कटाद्रौ तपोधनाः
आश्चर्याण्यपि दृष्ट्वा ते सम्यगाराध्य माधवम्
पुनश्च नैमिशारण्यं ययुः सर्वे तपोधनाः ॥४६
श्री वाराहपुराणे प्रथमभागे. ६२-तमः अध्यायः.

[[152]]
सूतं प्रति शौनकादिस्तुतिः
गत्वा तु नैमिशारण्यं मुनिसङ्घनिषेवितम्
उपसृत्य पुनः सूतं प्रोचुरेवमिदं वचः ॥४७
अहो! तव तु विज्ञानं अहो! सामर्थ्यमेव ते
यथोक्तं भवता विष्णोः वेङ्कटाद्रिनिवासिनः ॥४८
रूपमौदार्यरूपञ्च गिरिरूपं तथैव च
स्थितं तथैव तत्सर्वं अहो! वेङ्कटभूधरः ॥४९
त्वत्प्रसादात् वयं सर्वे कृतार्थाः स्मो महामुनेः
संस्थानं वेङ्कटेशस्य गिरेस्त्तस्य च सर्वतः ॥५०
दृष्टमेतत् त्वया किं वा श्रुतं वा सूत तन्मुने
इति स्तुतः ततः सूतः प्रोवाचेदं वचस्तदा ॥५१
व्यासस्यानुग्रहात् सर्वं वेद्मि तत्त्वं तपोधनाः
वेङ्कटाचलमाहात्म्यं कल्पकोटिशतैरपि ॥५२
न शक्यं वर्षसाहस्रैः शेषाणाञ्च सहस्रकैः
वक्तुं तथाऽपि माहात्म्यं कीर्तितं किञ्चिदेव हि ॥५३
पुण्यं पवित्रमायुष्यं माहात्म्यमिदमुत्तमम्
यः पठेत्प्रयतो भक्त्या शृणुयाद्वा लिखेदपि
सर्वान् कामानवाप्नोति सम्प्राप्नोति च मङ्गलम् ॥५४
इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये महर्षीणां
श्रीवेङ्कटेश्वरसेवार्थं श्रीवेङ्कटाचलागमनादिवर्णनं
नाम द्विषष्टितमोऽध्यायः
॥ ॐ तत् सत् ॥
श्रीवाराहपुराण प्रथमभागान्तर्गत समुदिताध्यायसङ्ख्या - ३०
श्रीरस्तु
श्री श्रीनिवासपरब्रह्मणे नमः
श्रियै पद्मावत्यै नमः

(श्रीवाराहपुराणद्वितीयभागान्तर्गतम्)

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम्
श्री वेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम्
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ओम्
प्रथमोऽध्यायः

नारदस्य सुमेरुशिखरस्थयज्ञवराहदर्शनम्
ऋषयः -
रौमहर्षण सर्वज्ञ! पुराणार्थविशारद
माहात्म्यं श्रोतुमिच्छामो गिरीन्द्राणां महीतले
ब्रूहि त्वं नो महाभाग के प्रधाना महीधराः? ॥१

[[154155]]
श्री सूतः -
एतमेव पुरा प्रश्नं अपृच्छं जाह्नवीतटे
व्यासं मुनिवरश्रेष्ठं सोऽब्रवीन्मे गुरूत्तमः ॥२
व्यासः -
पुरा देवयुगे सूतः नारदो मुनिसत्तमः
सुमेरुशिखरं गत्वा नानारत्नसुशोभितम् ॥३
तन्मध्ये विपुलं दीप्तं ब्रह्मणो दिव्यमालयम्
दृष्ट्वा तस्योत्तरे देशे पिप्पलद्रुममुत्तमम् ॥४
सहस्रयोजनोच्छ्रायं विस्तीर्णं द्विगुणं तथा
तन्मूले मण्डपं दिव्यं नानारत्नसमन्वितम् ॥५
पद्मरागमणिस्तम्भैः सहस्रैः समलङ्कृतम्
वैडूर्यमुक्तामणिभिः कृतस्वस्तिकमालिकम् ॥६
नवरत्नसमाकीर्णं दिव्यतोरणशोभितम्
मृगपक्षिभिराकीर्णं नवरत्नमयैः शुभैः ॥७
पुष्परागमहाद्वारं सप्तभूमिकगोपुरम्
सन्दीप्तवज्रसुकृतकवाटद्वयशोभितम् ॥८
प्रविश्याऽऽदौ ददर्शान्तः दिव्यमौक्तिकमण्डपम्
वैडूर्यवेदिकं तुङ्गं आरुरोह महामुनिः ॥९
तन्मध्ये तुङ्गमतुलं वसुपादविराजितम्
ददर्श मुक्तासङ्कीर्णं सिंहासनमहर्द्युति ॥१०
तन्मध्ये पुष्करं दिव्यं सहस्रदलशोभितम्
श्वेतं चन्द्रसहस्राभं कर्णिकाकेसरोज्ज्वलम् ॥११
तस्य मध्ये समासीनं पूर्णचन्द्रायुतप्रभम्
कैलासपर्वताकारं सुन्दरं पुरुषाकृतिम् ॥१२
चतुर्बाहुमुदाराङ्गं वराहवदनं शुभम्
शङ्खचक्राभयवरान् बिभ्राणं पुरुषोत्तमम् ॥१३
पीताम्बरधरं देवं पुण्डरीकायतेक्षणम्
पूर्णेन्दुसौम्यवदनं वसागन्धिमुखाम्बुजम् ॥१४
सामध्वनिं यज्ञमूर्तिं स्रुक्तुण्डं स्रुवनासिकम्
क्षीरसागरसङ्काशं किरीटोज्ज्वलिताननम् ॥१५
श्रीवत्सवक्षसं शुभ्रं यज्ञसूत्रविराजितम्
कौस्तुभश्रीसमुद्द्योतं समुन्नतमहोरसम् ॥१६
जाम्बूनदमयैर्दिव्यैः सुरत्नाभरणैर्युतम्
विद्युन्मालापरिक्षिप्तशरन्मेघमिवोज्ज्वलम् ॥१७
वामपादतलाक्रान्तपादपीठविराजितम्
कटकाङ्गदकेयूरकुण्डलोज्ज्वलितं सदा ॥१८
चतुर्मुखवसिष्ठात्रिमार्कण्डेयैर्मुनीश्वरैः
भृग्वादिभिरनेकैश्च सेव्यमानमहर्निशम् ॥१९
इन्द्रादिलोकपालैश्च गन्धर्वाप्सरसां गणैः
सेवितं देवदेवेशं प्रणिपत्याभिगम्य च ॥२०
श्रीवाराहपुराणे द्वितीयभागे प्रथमोऽध्यायः

[[156157]]
दिव्यैरुपनिषद्भागैः अभिष्टूय धराधरम्
नारदः परमप्रीतः स्थितो देवस्य सन्निधौ ॥२१
वराहसन्निधिं प्रति धरण्यागमनम्
एतस्मिन्नन्तरे चाभूत् दिव्यदुन्दुभिनिस्स्वनः
ततः समागता देवी धरणी सखिसंयुता ॥२२
सरत्न सागराकारदिव्याम्बरसमुज्ज्वला
सुमेरुमन्दराकारस्तनभारावनामिता ॥२३
नवदूर्वादलश्यामा सर्वाभरणभूषिता
इडया वै पिङ्गलया सखीभ्याञ्च समन्विता ॥२४
ततस्ताभ्यां समानीतं पुष्पाणां निचयं मही
श्रीमद्वराहदेवस्य पादमूले विकीर्य च ॥२५
तां देवीं श्रीवराहोऽपि ह्यालिङ्ग्याङ्के निधाय च
पप्रच्छ कुशलं पृथ्वीं प्रीतिप्रवणमानसः ॥२६
धरणीवराहसंवादः
श्रीवराहः -
त्वां निवेश्य महीदेवि शेषशीर्षे सुखासने
लोकं त्वयि निवेश्यैव त्वत्सहाया धराधरान्
इहाऽऽगतोऽ स्म्यहं देवि किमर्थं त्वमिहाऽऽगता॥ २७
पृथिवी -
मां समुद्धृत्य पातालात् सहस्रफणशोभिते
रत्नपीठ इवोत्तुङ्गे सरत्नेऽनन्तमूर्धनि ॥२८
कृत्वा मां सुस्थिरां देवः धरांश्चापि न्यवेशयः
मद्धारणक्षमा पुण्या त्वन्मयान् पुरुषोत्तमः
तेषु मुख्यान् महाबाहोः मदाधारान् वदस्व मे ॥२९
शेषाचलस्य सर्वपर्वतातिशायित्ववर्णनम्
श्रीवराहः-
सुमेरुरिछमवान् विन्ध्यो मन्दरो गन्धमादनः
सालग्रामश्चित्रकूटो माल्यवान् पारियात्रकः३०
महेन्द्रो मलयः सह्यः सिंहाद्रिरपि रैवतः
मेरुपुत्रोऽञ्जनो नाम शैलः स्वर्णमयो महान् ॥३१
एते शैलवराः सर्वे त्वदाधारा वसुन्धरे
ये मया देवसङ्घैश्च ऋषिसङ्घैश्च सेविताः ॥३२
एतेषु प्रवरान् वक्ष्ये तत्त्वतः शृणु माधवि
सालग्रामश्च सिंहाद्रिः शैलेन्द्रो गन्धमादनः ॥३३
एते शैलवरा देवि दिशं हैमवतीं श्रिताः
दक्षिणस्यां प्रतीतांस्तु वक्ष्ये शैलान् वसुन्धरे ॥३४
अरुणाद्रिरछस्तिशैलो गृध्राद्रिर्घटिकाचलः
एते शैलवराः सर्वे क्षी्षिरनद्यः समीपगाः ॥३५
हस्तिशैलादुत्तरतः पञ्चयोजनमात्रतः
सुवर्णमुखरी नाम नदीनां प्रवरा नदी ॥३६
तस्या एवोत्तरे तीरे कमलाख्यः सरोवरः
तत्तीरे भगवानास्ते शुकस्य वरदो हरिः ॥३७
श्रीवाराहपुराणे द्वितीयभागे प्रथमोऽध्यायः

[[158159]]
बलभद्रेण संयुक्तः कृष्णो भक्तार्तिनाशनः
वैखानसैर्मुनिगणैः नित्यमाराधितोऽमलैः ॥३८
कमलाख्यस्य सरस उत्तरे काननोत्तमे
क्रोशद्वयार्धमात्रे तु हरिचन्दनशोभिते ॥३९
श्रीवेङ्कटाचलो नाम वासुदेवालयो महान्
सप्तयोजनविस्तीर्णः शैलेन्द्रो योजनोच्छ्रितः४०
अस्ति स्वर्णमयो देवि रत्नसानुभृदायतः
इन्द्राद्या दैवतगणा वसिष्ठाद्या मुनीश्वराः ॥४१
सिद्धाः साध्याश्च मरुतो दानवा दैत्यराक्षसाः
रम्भाद्या अप्सरस्सङ्घा वसन्ति नियतं धरे ॥४२
तपश्चरन्ति नागाश्च गरुडाः किन्नरास्तथा
एतैरधिष्ठितास्तत्र सरितः पुण्यदर्शनाः ॥४३
सरांसि विविधान्यत्र सन्ति दिव्यानि माधवि
तीर्थानाञ्चैव सर्वेषां शृणुष्व प्रवराणि वै ॥४४
स्वामिपुष्करिण्याः सर्वतीर्थाति शायित्ववर्णनम्
चक्रतीर्थं दैवतीर्थं वियद्गङ्गा तथैव च
कुमारधारिकातीर्थं पापनाशनमेव च ॥४५
पाण्डवं नाम तीर्थञ्च स्वामिपुष्करिणी तथा
सप्तैतानि वराण्याहुः नारायणगिरौ शुभे ॥४६
एतेषु प्रवरा देवि स्वामिपुष्करिणी शुभा
अस्यास्तु पश्चिमे तीरे निवसामि त्वया सह ॥४७
आस्तेऽस्या दक्षिणे तीरे श्रीनिवासो जगत्पतिः
गङ्गाद्यैः सकलैस्तीर्थैः समा सा सागराम्बरे ॥४८
त्रैलोक्ये यानि तीर्थानि सरांसि सरितस्तथा
तेषां स्वामित्वमापन्नं धरे स्वामिसरोवरम् ॥४९
स्वामिपुष्करिणीं पुण्यां सेवितुं दिव्यभूधरे
वसन्ति सर्वतीर्थानि तेषां सङ्ख्यां वदामि ते ॥५०
षट्षष्टिकोटितीर्थानि पुण्येऽस्मिन् भूधरोत्तमे
तेषु चात्यन्तमुख्यानि षट् तीर्थानि वसुन्धरे ॥५१
पञ्चानां तीर्थराजानां तुम्बो गर्भसमो महान्
गर्भवासभयध्वंसी स्नातानां भूधरोत्तमे ॥५२
धरणी -
षट् तीर्थानि महाबाहो त्वयोक्तानि महीधरे
माहात्म्यं वद तेषां मे यथाकालं यथाविधि
फलानि तेषु स्नातानां नराणां वद भूधरे ॥५३
श्रीवराहः -
नारायणाद्रिमाहात्म्यं वदामि शृणु माधवि
देवाश्च ऋषयश्चैव योगिनः सनकादयः ॥५४
कृतेऽञ्जनाद्रिं त्रेतायां नारायणगिरिं तथा
द्वापरे सिंहशैलञ्च कलौ श्रीवेङ्कटाचलम् ॥५५
प्रवदन्तीह विद्वांसः परमात्मालयं गिरिम्
योजनानां सहस्रान्ते द्वीपान्तरगतो ऽपि वा ॥५६
श्रीवाराहपुराणे द्वितीयभागे प्रथमोऽध्यायः

[[160161]]
यो नमेत् भूधरेन्द्रं तद्दिशमुद्दिश्य भक्तितः
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥५७
तस्मिन् षट्तीर्थमाहात्म्यं यथाकालं वदामि ते
शृणुष्वावहिता भद्रे सर्वपापप्रणाशनम् ॥५८
कुमारधारामाहात्म्यम्
कुम्भसंस्थे रवौ माघे पौर्णमास्यां महातिथौ
मघानक्षत्रयुक्तायां भूधरेन्द्रे वसुन्धरे ॥५९
कुमारधारिका नाम सरसी लोकपावनी
यत्राऽस्ते पार्वतीसूनुः कार्तिकेयोऽग्निसम्भवः ॥६०
देवसेनासमायुक्तः श्रीनिवासार्चकोऽमले
तस्यां यः स्नाति मध्याह्ने तस्य पुण्यफलं शृणु ॥ ६१
गङ्गादिसर्वतीर्थेषु यः स्नाति नियमाद्धरेः
द्वादशाब्दं जगद्धात्रि तत्फलं समवाप्नुयात् ॥६२
योऽन्नं ददाति तत्तीर्थे शक्त्या दक्षिणयाऽन्वितम्
स तावत् फलमाप्नोति स्नाने तूक्तं फल्ं यथा ॥६३
तुम्बतीर्थमाहात्म्यम्
मीनसंस्थे सवितरि पौर्णमासीतिथौ धरे
उत्तराफाल्गुणीयुक्ते चतुर्थे कालसत्तमे ॥६४
पञ्चानामपि तीर्थानां तुम्बेऽथ गिरिगह्वरे
यः स्नाति मनुजो देवि पुनर्गर्भे न जायते ॥६५
आकाशगङ्गामाहात्म्यम्
अग्निवाहस्थिते भानौ चित्रानक्षत्रसंयुते
पूर्णिमाख्ये तिथौ पुण्ये प्रातःकाले तथैव च
आकाशगङ्गासरिति स्नातो मोक्षमवाप्नुयात् ॥६६
पाण्डवतीर्थ माहात्म्यम्
वृषभस्थे रवौ राधे द्वादश्यां रविवासरे
शुक्ले वाऽप्यथ वा कृष्णे पक्षे भौमसमन्विते ॥ ६७
तीर्थे पाण्डवनाम्न्यत्र सञ्गमे स्नाति यो नरः
नेह दुःखमवाप्नोति परत्र सुखमश्नुते ॥६८
पापनाशनतीर्थमाहात्म्यम्
शुक्ले पक्षेऽथ वा कृष्णे याऽर्कवारेण सप्तमी
युक्ता पुण्यर्क्षसंयुक्ता हस्तर्क्षेण युताऽपि वा ॥६९
तस्यां तिथौ महाभागे पापनाशनसञ्ज्ञके
तीर्थे यः स्नाति नियमात् भूधरेन्द्रस्य मस्तके ॥७०
कोटिजन्मार्जितैः पापैः मुच्यते स नरोत्तमः
शृणु देवि परं गुह्यमनन्ताख्ये महागिरौ ॥७१
देवतीर्थमाहात्म्यम्
मद्दिव्यालयवायव्ये शिखरे गिरिगह्वरे
देवतीर्थमिति ख्यातं तटाकमतिशोभनम् ॥७२
तस्मिन् पुण्यतमे देवि स्नानकालं वदामि ते
गुरुपुष्ये व्यतीपाते सोमश्रवणके तथा ॥७३
दिनेष्वेतेषु यः स्नाति तस्य पुण्यफलं शृणु
यानि कानीह पापानि ज्ञानाज्ञानकृतानि च ॥७४