टिप्पणीभागः

मातृकान्तरे उपलब्धः टिप्पणीभागः —–ठ्—– पुटे। प्रथमसम्पुटे श्लो। ९०प्रवर्तकास्त्राणि= विरोधनिरसन हेतुव्यापारप्रवर्तकास्त्राणि निवर्तकास्त्राणि,३७ विरोधिनिरसने निष्पन्ने तदितरनाशपरिहाराय प्रवर्तकास्त्राणां तादृशव्यापारनिवर्तनफलान्युपसंहारास्त्राणि १३७ निवसामि= प्रतिकल्पं वासं करोमि ॥॥ ४७ आस्त्ते= प्रतिकल्पं निवासं करोति! स्वामिपुष्करिण्याः पश्चिमे४९ तीरे श्रीवराहभगवतः दक्षिणतीरे श्री श्रीनिवासभगवतश्च वासःप्रतिकल्प नियतभावीति भावः= ईदृशवासस्य प्रतिकल्पनियत-भावित्वादेव

  • पूर्वश्लोके निवसामीति अत्र श्लोके आस्त्त इति वर्तमाननिर्देशः कृतः- एवमुत्तरत्राप्ययं न्यायो बोद्ध्यः-सा स्वामिपुष्करिणी सकलैस्तीर्थैस्समा समुदितानां सकल - पुण्यतीर्थानां यावती पावनत्वशक्तिरस्यामे कस्यामेवास्त्ति। अतःसर्वोत्तरेयमिति भावः। १४० ’मद्दिव्यालयवायव्य’ इति इदानीं मेरुशिखराद्वराहभगवदा-७२ गमनस्यात्र इतः परमेव भावित्वेपि पूर्वपूर्व कल्पतादृश भगवदागमननिबन्धनात्तत्क्षेत्रालयादिसमाख्या समाराधनादि विशेषष्यवहारा अविच्छिन्ना एव - श्रीरामेणास्मिन् कल्पे सेतु बन्धनात्प्रागपि पूर्वकल्पकृततत्कार्यमूलसेतु तीर्थव्यवहार प्रसिद्धिवत् - अतो मद्दिव्यालयवायव्य इत्तुक्तिः न दोषाय वराहक्षेत्र श्रीवराह भगवत्स्थानादिप्रसिद्धेस्सम्भवात् - अत एव हि वासुदेवालयो महानिति गिरेर्वासुदेवालयत्वेन प्रसिद्ध सद्भावः प्राक् दर्शितः [[558559]]

१४३ वैवस्वतेन्तरे= वर्तमानश्वेतवराहकल्पीयवैवस्वतमन्वन्तरे पुण्यतमे कृतयुगे - प्रथमप्रवृत्तकृतयुगे। १४५ सभविष्यं - अस्निन् कल्पे वर्तिष्यमाणवृतान्तसहितं - सहोत्तरं इत उत्तरस्मिन्नपि कल्पे वर्तिष्यमाणवृत्तान्तसहितं पुरावृत्तं - पूर्व कल्पे निर्वृत्तं चरित्रं कथयिष्यामि आयं भावः लोकरक्षार्थं भुवनमध्य भगवदाविर्भावादिरूप चरित्रस्य प्रतिकल्पमेकरूपतया वृत्तवर्तमानवर्तिष्यमाण कल्पवृत्तान्तेष्वेकतराभिधाने तस्मिन्नेवान्तर्भूतमितस्तत् सरूप तयैवोन्नेतुं शक्यमिति। १४५ पूर्वे वैवस्वतेन्तरे= पूर्वकल्पीयवैवस्वतमन्वन्तरे कृत २ युगेन्तरे - आदिकृतयुगकाले पूर्वकल्पवैवस्वतमन्वन्तरेपि तथाविधवृत्तान्तस्य भावित्वमभिधीयते - वराहभगवता धरणीं प्रति। १४६ पुरा= पूर्वकल्पे। ६ १४६ आसिता च तथोत्तरमिति-पूर्वकल्पागस्त्यवृतान्ततुल्यागस्त्य २० वृत्तान्तस्यास्मिन्नपि कल्पे भावत्वमुच्यते। १४७ भविष्यतीत्याद्यर्थं= एतत्कल्पभाविवृत्तान्तपरम्। तस्मिन् शास १५ तीत्याद्युपरितनग्रन्थः पूर्वकल्पवृत्तान्तपरःअस्निन् उक्तराज समाननामनि पृथिवीपतौ पूर्वकल्पीयनृपे धर्मेण भूलोकं शासति सतीत्यर्थो बोद्ध्यः। १९० वक्ष्यामीत्यर्थः= भविष्यद्वृतान्तकथनप्रतिज्ञापरम्। अस्मिन्३। महीधर इत्याद्युपरितनग्रन्थः पूर्वकल्पवृत्तान्तपरः - एवं भूत एव वृत्तान्तो भविष्यतीत्यभिप्रायेण प्रवृत्तः - तदिदं दश माध्यायान्ते - एतद्भविष्यं देवेशि मयोक्तं वरवर्णिनीत्यनेन व्यक्तीभविष्यति - यद्वा भाविवृत्तान्त एव भूतवदुच्यते। भावि वृतान्तं भूतवत् साक्षात्कृत्य तत्कालानुसंहितसाक्षात्कृत वृतान्तोन्तर दशापन्नेन वक्त्रा यथावत्साक्षात्कारपाटवातिशयेन भूतवत्साक्षात्कृतस्य श्रोतृमनो रञ्जनाय भूतवदेवाभिधानस्यास्मिन् प्रकरणेऽभिमतत्वादिति वा बोद्ध्यम्। २२४ सुधाभिलाषदेवभूः= सुधायां स्वस्व योग्य सर्वविधभगव ६० दनुभवलक्षणायां - अभिलाषो येषां तेषां - देवानां सर्वेन्द्रि याणां भूः न भूतः - सुधाभिपूरितेक्षण इति पाठे तु भगवत्साक्षात्कार जानन्दपूरितलोचन इति सुगमोऽर्थः। ३३९ कलौ चोलनृप इत्यारभ्य पूर्वकल्पवृत्तान्त उच्यते - तस्मिन् ५ कथिते सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पय दिति श्रुति न्यायेना त्रापि कल्पे तथैव भविष्यतीति श्रोतुस्समाधानार्थमिति बोद्ध्यम्

  • अन्यथा भाविवृत्तान्तप्रश्ने भूतवृतान्त कथनकारणा भावात् - धरणीवराह संवादेऽप्येवमेव भूतवृत्तान्ताभिधानेन भाविवृत्तान्तनिदर्शनाच्च यद्वा भाविवृतान्त एव भूतवद्युते भाविवृत्तान्तं भूतवत्साक्षात्कृत्य तत्कालानुसंहित साक्षात्कृत वृतान्तोत्तरदशापन्नेन वक्त्रा यथावत्साक्षात्का रपाटवातिशयेन भूतवत्साक्षात्कृतस्य श्रोतृमनो रञ्जनाय भूतवदेवाभिधानस्यास्मिन् प्रकरणेऽभिहितत्वादिति बोद्ध्यम्। ४४४ ज्वालाकेशमित्यादि= त्वयि नित्यशो वसन्तं ज्वालाकेशं १३६ त्रिन यनं मां लोके केचन जनाः विष्णुशिवात्मकं ब्रह्मार्चयन्ति। विष्णुशिवात्मक ब्रह्मत्वेनार्चयिष्यन्ति - विष्ण्वंशशिवांशसम्मिश्र मातृकान्तरे उपलब्धः टिप्पणीभागः561 [[560]]

परब्रह्मबुद्ध्यार्चयिष्यन्तीति यावत् - अत्र विष्ण्वात्मकत्वं विष्णुसम्बन्धि सुदर्शनांशसम्मिश्र चतुर्मुखनिर्मितकालाख्य चक्र शरीरवर्तितया परम्परया विष्णुसम्बन्धित्वरूपम्। न तु साक्षात्तत्सम्बन्धित्वरूपम्। पूर्वमस्मिन् प्रकरणे साक्षात्तत्सम्बन्धानरछत्वाभिधानात्, त्वयि वसन्तमित्यत्रैव श्लोके चक्र सम्बन्धित्वस्य विष्ण्वात्मकत्वबीजतायाः स्पष्टतरं प्रदर्शितत्वा च्चेत्येवधेयं= अत्र ब्रह्मविष्णुशिवात्मकमिति च नैकं पदम् अत्र चतुर्मुखसम्बन्धप्रसक्तेरभावात् - उत्तरश्ल्लोके - पीठे शैवे च वैष्णव इति शिवसम्बन्धमात्रज्ञापनाच्च। द्वितीयसम्पुटे ६।वायोरावेशनाच्चेत्यादि= ऽअज्यते अधिगम्यतेआविश्यत ११ इत्यञ्जन इति व्युत्पत्या व्याप्तिकर्मवाची ह्यञ्जनशब्दो वायुव्याप्ति मूल इत्यभिप्रायः अञ्जू व्यक्तिश्लक्ष्णकान्तिगतिष्विति गत्यर्थ कत्वाद्धातोर्गतिर्व्याप्ति रूपा भवितुमरछति - चकारेण प्रागुक्ताञ्जानादेवीप्रसवनिमित्त कत्वमञ्जनसञ्ज्ञा समुच्चीयते। ९। गुणसामान्यभावेनेति गुणानां सामान्यभावेऽपि २२ भयोस्तुल्यत्वेऽपि। २९४ आरायि काणे विकटे= आरायि काणे विकटे गिरिं गच्छ २१ सदान्वे शिरिम्बिठस्य सत्त्वभिः तेभिष्ट्व चातयामसीत्येषा ऋक् - ऋग्वेदे अष्टमाष्टके अष्टमाध्याये त्रयोदशे वर्गे प्रथमा। ३३७ स्वपुत्रस्येत्यादि= स्वपुत्रस्य जगदीशितुः ब्रह्मणः पौत्रं ५६ कुबेरं पुलस्त्यस्य पुत्रत्वात्पौत्रम्। ३९४ तॊण्डमानेनेति= तॊण्डं तन्नामकदेशं मानयति स्वीयत्वेन २४१ भावयति इति तॊण्डमानः।तॊण्डमानिति शब्दोऽप्युक्तार्थ एव क्विबन्तो द्रष्टव्यः। —–ठ्—– [[562563]] मातृकान्तरे उपलब्धः टिप्पणीभागः