श्रीरङ्गमाहात्म्यम् Part 04
श्रीरङ्गमाहात्म्यम्–१ ०२
राजानं प्रति पक्षीकृत तत्वोपदेशः
मार्कण्डेयः –
अथालक्ष्य नृपश्रेष्ठ भूपतिं विनयान्वितम् ।
शुश्रूषुमनघं दीनं तमुवाच द्विजोत्तमः ॥ (१ )
पक्षी –
कस्त्वं यस्तत्व नियतां श्रोतुं स्पृहयसे भुवि ।
वाणीं परमनिर्वाणसुखक्षेमवहामिमाम्॥ (२)
राजा –
सोमवंशे समुत्पन्नः क्षत्रियोत्तम भूषिते ।
अयं जयधरो नाम सुतः कीर्तिधरस्य हि ॥ (३)
कृत्वा पुष्करणी स्नानं रङ्गधामाऽभिवन्द्य च ।
प्रयतो दैवसङ्गत्या भवतालब्ध सङ्गमः॥ (४)
कृतार्थः क्षीणपापश्च भवताद्य द्विजोत्तम ।
तव सन्दर्शनात्पूर्वे यांस्यति सुगतिम्मम ॥ (५)
घर्मार्तैरिव शीतांशुः क्षुधार्तैरिव भोजनम् ।
जिज्ञासुना मया लब्धो भवान् देवैरिवाऽमृतम् ॥ (६)
मार्कण्डेयः –
तस्य तद्वचनं श्रुत्वा द्विजस्तमभिवन्द्य च ।
जगाद व्यक्तमधुरं वचः परममञ्जसा॥ (७)
पक्षी –
श्रूयतामिदमायुष्मन् दुर्ज्ञानं योगिनामपि ।
परात्परतरं तत्वं गुह्याद्गुह्यतरं नृप ॥ (८)
नमः परावरेशाय ज्ञानज्ञेयाय विष्णवे ।
अज्ञानतिमिरघ्नाय नमो ज्ञानप्रदायिने ॥ (९)
विश्वास्पदाय विश्वाय सदसद्व्यक्तिहेतवे।
नमस्सर्वान्तरस्थाय सर्वज्ञाय नमो नमः ॥ (१ ०)
सर्वकल्याणपूर्णाया हंसश्शुचिषदे नमः ।
नमः परमहम्साय मुकुन्दाय नमो नमः॥ (१ १ )
देवकीनेत्रसम्पूर्णमहानन्दाय जिष्णवे।
त्रिविक्रमाय शान्ताय वासुदेवाय ते नमः॥ (१ २)
नमस्कृत्य प्रवक्ष्यामि विद्यां परमिकां तव ।
जनार्दनं भूतपतिं गुरूणां परमं गुरुम्॥ (१ ३)
आत्मा नित्यः परश्शुद्धो विभुज्ञानमयोऽमलः ।
व्यापी ध्रुवो क्षयश्शान्त श्शोकमोहाद्यसंयुतः॥ (१ ४)
सद्ब्रह्म परमं ज्ञेयमजमक्षयमव्ययम् ।
ज्ञानमानन्दमचलममेयं शाश्वतं परम् ॥ (१ ५)
ज्ञानं ज्ञेयमजं गुह्यं सन्मात्रममृतं विभुम् ।
सुसूक्ष्ममव्ययं नित्यं निर्गुणं सन्निरञ्जनम्॥ (१ ६)
अनित्यमितरत्सर्वम् अध्रुवं नश्वरं महत् ।
हेयकरमसत्सारमसत्यमशुभं नृप ॥ (१ ७)
अज्ञं जडमसन्मूढं क्षयिष्णु त्रिगुणात्मकम् ।
पञ्चभूतात्मकं देहं ह्यसारमशुभास्पदम्॥ (१ ८)
मांसपूयास्थिविण्मूत्रमज्जासृक्स्नायुसञ्चयम्।
अस्मिन् दोषकरे प्राज्ञः कः कुर्यादात्मशेमुषीम् ॥ (१ ९)
असहेव ह्यसद्राजन् सत्सदेव नचाऽन्यथा ।
अतस्मिन् तन्मतिर्यातु सा च विभ्रम इष्यते ॥ (२०)
शुद्धस्य चात्मनस्तस्मिन् अहङ्कारश्च तत्कृतः।
यदहङ्कारयुक्तस्य ममतानर्थसम्भवः ॥ (२१ )
अहङ्कारममत्वाभ्यां सम्सारस्तु प्रवर्तते ।
आत्मनो द्वन्द्वहीनस्य गृहक्षेत्रादिवस्तुषु ॥ (२२)
तृष्णा च जायते नित्यं तेषु तेष्वप्यनाहता ।
तृष्णाकशाभिघातेन पीड्यते चाऽनिशं स्वयम् ॥ (२३)
अतृप्तो ह्यफलो हि स्यात्सर्वदा सर्वदा स्वपरिग्रहे ।
आर्जने रक्षणे तेषामायासश्च भ्रमो महान् ॥ (२४)
तस्य क्षये व्यये चैव ध्रुवं दुःख समागमः।
सुभगोमत्सुतश्चायं सुकुमारी च मे सुता॥ (२५)
भार्या मे सुभगा चेयं वर्तते महती मम ।
गृहादिकं सुपुष्टं मे दासीदासकसङ्कुलम् ॥ (२६)
अहो! देहस्य लावण्यं सदाचाहमहो अहम् ।
इत्यहङ्कारसम्मोहो मूढान्तःकरणो नृप॥ (२७)
देहे देहाभिमानेन केवलं वर्तते यथा।
संसारविषवृक्षस्य कर्मबीजं शुभाशुभम् ॥ (२८)
कर्मणां च परिष्वङ्गो ह्यनाधिस्तस्य चात्मनः।
देव-तिर्य-ङ्मनुष्यादिशरीरग्रहणं नृप ॥ (२९)
अरूपस्यात्मनो नित्यं कर्मबन्धनहेतुकम् ।
कर्माणि विविधो निष्टाऽन्यनिष्टान्यपि सेवते ॥ (३०)
तत्तद्देहानुगुण्येन भोगेच्चापि च तत्कृता।
शुभं चाप्यशुभं कर्म द्विविधं च समीरितम्॥ (३१)
शुभं कृत्वाशुभं भुङ्क्ते पापं कृत्वाशुभेतरत् ।
बन्धस्य चास्याऽनादित्वादानन्त्यं कर्मणामपि॥ (३२)
कर्तारं कर्मचान्वेति वत्सो धेनुं यथा नृप ।
कर्माण्यनुभवेनैव विनश्यन्ति च देहिनाम्॥ (३३)
यदनेन कृतं कर्म शुभं वा यदि वाऽशुभम् ।
फलं तस्य च भोक्तव्यं देशकालोपलक्षितम्॥ (३४)
न चातिक्रमितुं शक्यमपि चैतत्स्वयं भुवा ।
कर्मवश्यमिदं विश्वं जगदेतच्चराचरम्॥ (२५)
कर्मणा क्षीयते सर्वं कर्मणा वर्धते पुनः ।
उच्चावचप्रभेदेन देहिनोऽस्य विशां पते ॥ (२६)
देहग्रहस्तथा शक्तिरुपलद्धिश्च कर्मणा ।
स्वरूपतो न वैषम्यमात्मनो हि यतस्ततः ॥ (२७)
विशेषास्सकलाश्चास्य कर्मसङ्गोपलक्षिताः ।
कस्यचित्कर्मणो योगात् देवत्वं व्रजति स्वयम्॥ (२८)
एव मात्मा मनुष्यत्वं तथा तिर्यत्त्वमित्यसौ ।
तत्र तत्रोच्च नीचत्वं कर्मणा सर्वमश्नुते ॥ (२९)
स्थावरत्वं तथैवात्मा कर्मणा प्राप्यते वशः ।
एक एव क्वचिन्माता क्वचित्पुत्रश्च जन्मवान् ॥ (३०)
क्वचित्कर्ता च केषाञ्चित् क्वचिन्मित्रं क्वचिद्रिपुः ।
स्वामी भृत्य इति ह्येव सञ्ज्ञानं त्वमुपैति सः॥ (३१)
प्रकारभेदात् सर्वेषा मेकस्मिन्नेव जन्मनि ।
गोत्वाऽश्वत्व मनुष्यत्व महिषत्वादि लक्षितम्॥ (३२)
तनुत्वेन गृहीतं स्यात् सर्वमेतत् नृपात्मनः ।
ननाम जातिर्नाऽन्ये च विशेषास्सन्ति हि स्वतः॥ (३३)
प्रकाशात्मा च चिन्मात्रो निर्गुणो निर्मलोऽव्ययः ।
एको निरञ्जनो नित्यो आत्मा शास्त्रेषु गीयते ॥ (३४)
एवं स्वतो निर्मलोऽपि कर्मणा सङ्गतो भवेत् ।
अस्य ह्येवं प्रकाशत्वं कर्मणा च तिरोहितम्॥ (३५)
अतस्सर्वत्र राजेन्द्र मनुष्यत्वादि विभ्रमः।
तत्तद्देहानुगुण्येन भोगेच्छां वहति स्वयम्॥ (३६)
भुक्त्वैवानुगुणान् भोगान् यतते तेष्वहर्निशम् ।
दिव्यदेहं समुत्सृज्य मानुषं तु तथा व्रजेत् ॥ (३७)
विराजत्यनुरूपेण सुखोत्साहमेतत् नृप।
तदप्युत्सृज्य तिर्यक्त्वमुपेत्यापि तथा भवेत्॥ (३८)
तत्र तत्र च भोग्यं च शक्तिज्ञानं विलक्षणम् ।
तथापि सूकरादिभ्यो मर्त्यानां च विलक्षणम् ॥ (३९)
तेभ्यो विलक्षणोऽत्यर्थं देवानां भोग सम्भवः।
यज्जातीयं वपुः प्राज्ञो गृह्णाति च यथा नृप॥ (४०)
तथा तादृक्स्वमात्मानं मन्यते ज्ञान मोहितः ।
जन्मान्तरानुभूतं तदखिलं विस्मरत्यसौ॥ (४१)
एवं कर्मावृतियुतो ह्यात्मा कार्पासबीजवत् ।
स एव मोहजालेन वर्तते च नृपोत्तम॥ (४२)
नाना मोहमनोवृत्ति सक्तं तत्सकलं जगत्।
प्रवर्तयति विश्वात्मा वशी नारायणोऽव्ययः ॥ (४३)
लीलास्थानमिदं विद्धि परस्य परमात्मनः।
जगद्विश्वं महाराज शिशोः क्रीडनकं तथा ॥ (४४)
तत्सङ्कल्प समुद्भूतं जगद्विश्वं चराचरम्।
न तद्वश्यः परः पुंसामेकोऽनन्तस्स ईश्वरः ॥ (४५)
स ह्यानन्दमयः श्रीमान् हेयसङ्गविवर्जितः ।
सर्वकल्याण संयुक्तः सर्वात्मा सर्वविद्वशी ॥ (४६)
शतानन्द परानन्द विभूत्येक पराश्रयः।
जगतस्तस्थुषश्चैव प्रभुः नेता सनातनः ॥ (४७)
कर्ता धाता विधाता च सर्वेषां पतिरीश्वरः ।
सर्वशक्तिस्स ईशानः सर्वज्ञः सर्वकृत्स्वयम् ॥ (४८)
अनादिनिधनः स्रष्टा विष्णुर्विश्वदृगव्ययः ।
नानाकर्मभवक्षेत्रभोक्तृवर्गसमन्वितम्॥ (४९)
तत्तत्कर्मानुगुण्येन विश्वमेतन्नियच्छति।
सर्वदा सर्वभूतेषु तिष्ठतस्तस्य चेशितुः ॥ (५०)
न कर्मणापरिष्वङ्गः पद्मपत्रस्यवाम्भसा ।
तथा च सर्वभूतानि तेषुतेष्वप्यवस्थितः ॥ (५१)
चेष्टास्वपि च सर्वासु नियोजयति केशवः ।
तत्तकर्मफलप्राप्तिः तत एव नरोत्तम ॥ (५२)
पुरुषार्थकरी शक्तिः पुरुषार्थान् हि देहिनाम्।
नानाकर्म महागर्त परिभ्रममुपेयुषः ॥ (५३)
क्षेत्रज्ञस्येश्वर ज्ञानात् शुद्धिरात्यन्तिकी मता ।
देहिनः कर्मबद्धस्य निमग्नस्य भवार्णवे॥ (५४)
वैकुण्ठस्मरणादन्यत् परित्राणं न जातुचित्।
अतस्तद्गुण विज्ञानात्तद्रूपस्मरणादपि ॥ (५५)
तन्नाम कीर्तनात्सद्यो मुक्तिं यान्ति नरा भुवि ।
ज्ञानादेव निवृत्तिस्यात् कर्मणामस्य देहिनः ॥ (५६)
ज्ञानाग्निस्सर्वकर्माणि दहत्येव न संशयः ।
भूयिष्ठाज्ञानतिमिरं मनो नेत्रगतं नृणाम्॥ (५७)
व्यपनीय सुखं गच्छेत् ज्ञानाञ्जनशलाकया।
कायिकी वाचिकी वृत्तिः मानसी यस्य नित्यशः॥ (५८)
नियता प्रवरे पुंसि तस्य मुक्तिः करे स्थिता ।
अन्तवन्ति फलान्यस्य सावधानीह कर्मणाम् ॥ (५९)
नित्यं च निरवद्यं च सन्तो ज्ञानफलं विदुः ।
कालो हि क्षपयत्याशु नृणामायूंषि भूमिप ॥ (६०)
अतो निश्रेयसं कर्म सद्यः कुर्वीत चात्मवान्।
क्षणात्क्षरण भूयिष्ठं मन्वानो देहमित्यपि॥ (६१)
यते त श्रेयसे नित्यं यतात्मा बाल्य एव तत् ।
यद्युज्ज्वलनकल्पैव देहिनां देह संस्थितिः॥ (६२)
तापत्रयाभितप्तस्य शनैः क्षयमुपेयुषः ।
बाल्ये क्रीडारतिस्तस्य यौवने विषयस्स्पृहा ॥ (६३)
अशक्तो जरया देहि तृष्णारोगपरो यतः ।
अतो यते तमतिमा नात्मनो बन्धमुक्तये ॥ (६४)
अपायबहुलं चाल्पं दुःखसम्भिन्नमेव च ।
कर्मणः फलमिच्छन्ति सततं हीनबुद्धयः ॥ (६५)
हेयाकरमसद्विश्वं कर्मणः फलमित्यपि ।
प्रज्ञया धृतसङ्कल्पः कृतिनस्तन्न मन्वते ॥ (६६)
यत्र गत्वा नशोचन्ति नरोगो नाऽशुभानि च ।
तदेव परमं प्राप्तुं यतेत मतिमान्नरः ॥ (६७)
अशोकमनवद्यं च भद्रसेतुः परात्परम्।
ध्यायतां च तथाभावं परं ब्रह्म प्रयच्छति ॥ (६८)
यतेतद्ब्रह्म परमं प्राप्तुं निश्चितधीरिह।
नियतात्मा व्रती शुद्धो ब्रह्मगच्छेन्न संशयः॥ (६९)
इति प्राणान् वशीकुर्वन् तपसा नियमेन च ।
अवाप्य चेतसश्शुद्धिं दान्तश्शान्तो विचक्षणः ॥ (७०)
प्रविलीय शुभं चेतः परस्मिन्नपि वस्तुनि।
ध्वस्तपापमतिः प्राज्ञो योगीनिर्वाणमृच्छति॥ (७१)
संसारसर्पदष्टस्य योगो हि परमौषधम् ।
योगेन मोहकलिलं व्यपनीय प्रसीदति ॥ (७२)
प्रसन्न चेतसा राजन्! सकलं लक्षितं भवेत् ।
योगिनश्चेतसः शश्वत् प्रसादं समुपेयुषः ॥ (७३)
वैराग्यलक्षणासम्पद्भूयसी व्यवतिष्ठते।
वैराग्यं नाम राजेन्द्र नराणां परमं सुखम् ॥ (७४)
विपश्चिद्रिपुमूर्तीयं कामं क्रोधञ्च भूमिप ।
वैराग्यनाम्ना त्वसिना जयेदिति च मे मतिः ॥ (७५)
चिरन्तनौ रिपुजेयौ कामक्रोधौ तथानृप।
येनेमौ विजतौ लोके सोव्यवश्च चिरं सुखी॥ (७६)
विरक्तश्च जगच्चैव द्वावेतौ तु लयाधृतौ ।
विरक्तो हि गरीयांश्च सर्वस्मादिति मे मतिः॥ (७७)
तस्माद्वैराग्यसम्पत्यै यतेत मतिमान्नरः ।
तेनासद्व्यपनीयाशु सुखं गच्छेत्सनातनम्॥ (७८)
अतस्त्वेतत्प्रशंसन्ति वैराग्यमपि योगिनः ।
संसाराग्नि प्रतप्तानां तद्धि श्रेयः परं मतम् ॥ (७९)
तपस्तीव्रं च कुर्वाणा योगिनो दृढनिश्चयाः।
वैराग्यलक्षणां सिद्धिं प्रार्थयन्ते विपश्चितः ॥ (८०)
वर्तमानेषु सर्वत्र विरक्तेषु नरेष्वपि ।
न लेपः कर्मणामत्र पद्मपत्रेष्विवाम्भसः ॥ (८१)
वैराग्याल्लभते योगं स्वाविष्कारोपलक्षणम् ।
तेन सर्वपरिक्लेशानतीत्य परमश्नुते ॥ (८२)
नित्यं स्वाध्यायनिरतो नित्यमाचार्यसम्मतः।
सत्यार्जव दयाऽहिंसा क्षमायुक्तोऽनसूयकः ॥ (८३)
इन्द्रियाणि समाहृत्य विषयेभ्यस्तु चेतसा ।
ब्रह्म ध्यायन् सदासीत तदभ्यासरतिर्यतः ॥ (८४)
एवं चाऽहरहः कुर्वन् योगी नियतमानसः ।
कालात्कर्मावृतिं त्यक्त्वा निर्वाणमपि स व्रजेत् ॥ (८५)
यत्र गत्वा न शोचन्ति योगिनो ध्वस्तबन्धनाः ।
ज्ञान ज्ञेयं विदुर्ब्रह्म तद्विष्णोः परमं पदम्॥ (८६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्व्यधिकशततमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्–१०३
परब्रह्मस्वरूपोपदेशः
पक्षी –
अथ तद्ब्रह्म परमं सर्वशक्तिमयं विदुः।
परं परस्मात्परमं नित्यं व्यापकमक्षयम् ॥ (१)
समस्त हेय रहितं परमानन्द लक्षणम्।
स्थूलात्स्थूलतरं नित्यं गरीयोऽपि गरीयसाम् ॥ (२)
अनिर्देश्यं विशेषेण परं ब्रह्माभिदं विभु ।
निर्गुणं निर्मलं शान्तं सत्यं सदसतः परम् ॥ (३)
अजं सर्वगतं शुद्धं सर्वाधारं सनातनम् ।
विश्वं यतश्च तत्सर्वं धाम धाम्नां परात्परम् ॥ (४)
नियन्तृ भोक्तृ सर्वस्य कर्तृ कारयितृ प्रभुम् ।
ज्ञातृ ज्ञेयं परं ज्ञानं स्रष्टृ संहर्तृ देशिकम्॥ (५)
अनौपम्यमनिर्देश्यं सर्वाधारमजं विभुम् ।
भद्रसेतुं परं शान्तं निरवद्यं निरञ्जनम् ॥ (६)
कल्याणगुणसम्पन्नं सम्पूर्णसर्वशक्तिमत् ।
सर्वाद्भुतं परं ज्योतिः परतत्वं परात्परम्॥ (७)
सर्वायतसमव्यक्तममृतं विश्वभावनम् ।
अमोघमचलं नित्यं वचसां वाच्यमुत्तमम्॥ (८)
नित्यं योगिवरैर्ध्येयं सदा दृश्यं च सूरिभिः ।
प्राप्यं च परमज्ञानैर्भक्तिनम्रात्ममानसैः ॥ (९)
नारायणाह्वयं श्रीमत्सर्वविद्याश्रयं शुभम् ।
संसारार्णवमग्नानां परित्राणं च तद्विदाम् ॥ (१०)
तत्संस्मृति सुधा सर्वं तापं क्षपयति क्षणात्।
सर्वैर्नः क्षपणं तस्य नाम स्वस्त्ययनं मतम् ॥ (११)
तद्ज्ञानी सर्वकर्माणि भस्मसात्कुरुतेऽनिशम् ।
एवमेतत्परम्ब्रह्म विष्ण्वाख्यमिति ये विदुः ॥ (१२)
कृतिनस्ते महात्मानः संसारं च तरन्ति ते।
करुणापूर्णमुदितं यद्ब्रह्म परमं नृप ॥ (१३)
सर्वकल्याणसम्पूर्णं स्वयं सदसतः परम् ।
ज्ञायते तत्परं ब्रह्म देहादिषु च देहिवत् ॥ (१४)
भूतानामुपकाराय स्वेच्छा तत्र च कारणम् ।
अतीतं सर्ववचसां मनसामप्यगोचरम् ॥ (१५)
अदृश्यं योगिभिश्शुद्धैः ध्वस्तक्लेशैरकल्मषैः ।
सर्वं सामान्यनिर्मुक्तं सर्वस्माच्छविलक्षणम्॥ (१६)
अप्राप्यं तु यतो राजन् सुलक्षमिति चेतसा ।
विना तत्संश्रयं लोके संसारोच्छेदलक्षणा ॥ (१७)
न विमुक्तिश्च सर्वेषां योगिनामपि मानद ।
परं मुकुन्दविज्ञानं संसार क्षपणक्षमम्॥ (१८)
विश्वोत्पत्तिलयत्राणकारणं परमं नृप।
तदेव च ब्रह्मपरं शक्यं नान्येन केनचित् ॥ (१९)
स्रष्टा नारायणो नित्यं सृज्यं च सकलं च यत्।
पाता नारायणः पाल्यमितरश्चाऽखिलं नृप॥ (२०)
संहर्ता केशवः साक्षात्संहार्यं चेतरत्तदा ।
तत्कार्ये सर्वकर्तृत्व शक्तियोगो न विद्यते॥ (२१)
निर्वाणमपि राजेन्द्र तस्मादेवेति निश्चितम् ।
कर्मबद्धतया सान्निर्वाणं प्राप्यते नरैः ॥ (२२)
अन्योन्यकर्मणा बद्धो न बन्धाव नयक्षमः।
अन्यत्र वासुदेवाद्धि नाऽन्यतो मुक्तिरित्यपि॥ (२३)
सर्वज्ञस्सर्वशक्तिश्च सर्वबन्धविवर्जितः।
विष्णुरेवस्वतस्सिद्धः क्षमा भूयिष्ठ इत्यपि॥ (२४)
तत एव नृणां लोके पुरुषार्थस्तु नान्यतः ।
पुरन्दरादीनाराध्य पुरुषाः प्राप्नुवन्ति हि॥ (२५)
देश काल परिच्छिन्नां गतिं निर्वाणलक्षणाम् ।
तत एव परिच्छिन्नगतिर्निर्वाणलक्षणा ॥ (२६)
अतस्तत्संश्रयप्राप्त्यै करुणापूर्णमानसः ।
मनसामप्यलक्ष्यत्वात् स्वयं निर्मलचेतसाम्॥ (२७)
चेतोभिर्विषयीकर्तुं सुलभत्वमियात्स्वयम् ।
ततस्तत्सदृशाकारग्रहणेन करोति तत् ॥ (२८)
सजातीयेषु सर्वेषां सुखं स्यात्करणाग्रहः।
अतस्तत्सजातीनां सदृशीमात्मनस्तमम् ॥ (२९)
बिभ्रद्देवादिभूतेषु स्वेच्छया भवति स्वयम् ।
तत्तद्देहाऽनुरूपाणि कर्माणि च करोत्यजः ॥ (३०)
कान्ति लावण्य सुभगं वपुर्वै कान्तिमार्जितम् ।
प्रकाशते महायोगी भक्तानुग्रहकाम्यया ॥ (३१)
एवमित्थं स भगवान् सन्निधत्ते स्वयं विभुः ।
इति यो वेद मतिमान् स तत्पुरुषमृच्छति ॥ (३२)
पापाभिभवसङ्गत्या न केषाञ्चिदियं मतिः ।
पापानि क्षपयन्त्याशु कृतिनो योगिनो भुवि ॥ (३३)
पुण्यक्षेत्रे निवासाच्च पुण्यतीर्थस्य सेवया।
भगवान् रमते यत्र तत्क्षेत्रं पुण्यलक्षणम् ॥ (३४)
तीर्थं च तत्प्रसक्तं तदित्येव मुनयो विदुः ।
श्रीमत्पुष्करिणी तीर्थं तीर्थानामुत्तमं विदुः ॥ (३५)
एतत्क्षेत्रं महत्पुण्यं सर्वकल्मषनाशनम् ।
भगवान् रमते त्वत्र रङ्गधामा स्वयं हरिः ॥ (३६)
सन्तोऽनन्तभवारब्धपापानि क्षपयन्ति हि ।
वसामि नियतो राजन्! रमणीये नदीतटे ॥ (३७)
एतद्रङ्गमिति ख्यातं सर्वश्रुतिपथं गतम् ।
एतच्छ तीर्थमतुलं श्रीमत्पुष्करिणीति च ॥ (३८)
इयं च सर्वभूतानां सर्वकल्मषनाशिनी।
परं पवित्रमतुला कावेरीति च विश्रुता॥ (३९)
अत्र सिद्धामहात्मानो मुनयः क्षीणकल्मषाः ।
अपास्य भवसन्तापं शुद्धिमात्यन्तिकीङ्गताः ॥ (४०)
बहवो ब्राह्मणाश्चाऽत्र राजानश्चाऽतिधार्मिकाः ।
वैश्याश्च पूतपाप्मानः शूद्राश्च शुभदर्शनाः ॥ (४१)
स्वं स्वं कर्म च कुर्वाणा वीतरागतया नृप ।
पुरुषार्थानभीप्सन्तः परां सिद्धिमवाप्नुवान्॥ (४२)
अतः श्रीमन् महद्धाम श्रीरङ्गमिति विश्रुतम् ।
निश्रेयसार्थं राजेन्द्र! तदेतत्संश्रयामहे ॥ (४३)
एतत्प्रपद्यमानानां नराणां च नराधिप ।
अतृप्तिर्मनसः खेदो जायते न हि जातुचित् ॥ (४४)
अत्र प्रवृत्तमतुलमाख्यानं मुनिभिः श्रुतम्।
सर्वपुष्टिप्रदं पुण्यं तच्छृणुष्व नराधिप ॥ (४५)
पुरा प्रभाकरो नाम गर्गगोत्रसमुद्भवः ।
ब्रह्मचारी जितक्रोधो यतवाक्कायमानसः ॥ (४६)
तपस्वी सत्यवाक् शुद्धः तेजस्वी चरितव्रतः।
योगदृष्ट्या महाबुद्धिः सर्वप्रत्यक्षदर्शवान्॥ (४७)
नियमेन च संयुक्तः सर्वाशाखास्वधीतवान्।
तदभ्यासरतिर्योगी विचचार महीतले ॥ (४८)
परमायुश्च तपसा सम्प्राप्य नियमेन च।
वेदानधिजगौ सर्वान् युक्तः प्रोत्साह सम्पदा ॥ (४९)
सकलाध्ययनं कर्तुमानन्त्यान्न श्शाक सः।
श्रुतिस्तापदनन्ता वै वेदाहीति हि सम्मता॥ (५०)
अतो नेश्वरविज्ञानपरिमाणं स्फुरत्यपि ।
असिद्धाग्रहणात्तावन्नेश्वरस्यानभिज्ञता ॥ (५१)
अधीयानोऽपि सततं दुष्पारस्यागमां बुधेः ।
न पारं प्राप्तवान् राजन् न कर्माम्बुनिधे रिव ॥ (५२)
तपश्चकार भगवान् सकलाऽध्ययनेच्छया।
दशवर्षाणि वाय्वाशी तस्थौ पञ्चाग्नि मध्यगः॥ (५३)
निरुच्छ्वासस्तथा पञ्चवर्षाणीति च न श्रुतम् ।
स्वदक्षिणपदाङ्गुष्ठ स्थित्या संवत्सरत्रयम् ॥ (५४)
इत्थं प्रकुर्वतस्तस्य सततं तप उत्तमम्।
समुत्तस्थौ महानग्निर्भस्मीकुर्वन् दिशो दश ॥ (५५)
समुद्विग्नास्ततो देवाः तपसा भावितात्मनः।
चक्रुश्च तपसो विघ्नान् बहुधाऽत्र नरोत्तम ॥ (५६)
स्वयोगमहिमप्राप्त स्थिरचित्त गतिस्त्वयम्।
सर्वविघ्नमनाधृत्य सुखं तस्थौ महामतिः ॥ (५७)
ततः स्वर्गौकसस्सर्वे तपसा तप्तचेतसः।
पुरन्दरं पुरस्कृत्य ययुः पद्मासनं नृप॥ (५८)
ऊचुश्च तपसा वृद्धिं द्विजेन्द्रस्य महात्मनः ।
विनाशं चैव लोकानां परितापं च सर्वशः॥ (५९)
देवाः –
ब्रह्मन्! द्विजवरः कश्चित् कालाऽनल समप्रभः ।
तिग्मेन तपसालोकान् दहति स्म स निर्घृणः ॥ (६०)
प्रतप्तमभवन् विश्वं तपसा भावितात्मनः।
तच्छ सञ्ज्ञायतेऽस्माभिः द्विजो यदभिवाञ्छति॥ (६१)
पक्षी –
समाकर्ण्य वचः तेषां ब्रह्मलोक पितामहः ।
निर्ययौ यत्र स मुनिः सुरसङ्घैस्समावृतः ॥ (६२)
स चोर्ध्वबाहुः द्युतिमानचलः काष्ठसन्निभः ।
तस्थौ ब्रह्मसमाकाङ्क्षान् प्रतप्ताऽङ्गारसन्निभः ॥ (६३)
तमुवाच जगत्स्रष्टा प्रभाकरमृषीं तदा ।
शृण्वतां सर्व देवानां दिशस्सन्नादयन्निव॥ (६४)
ब्रह्मा –
प्रीतोऽस्मि तपसा ब्रह्मन् सम्यक्तप्तेन भूयसा।
प्रभाकर द्विज श्रेष्ठ! ब्रूहि यत्तेऽभि वाञ्छितम् ॥ (६५)
प्रभाकरः –
इच्छामि वेदानखिलानधिगन्तुमहं प्रभो ।
अतस्तीव्रेण तपसायुक्तात्माहमिह स्थितः ॥ (६६)
ब्रह्मा –
अल्पमायुश्च मर्त्यानां शक्तिं चापि तथा विदुः।
अनन्ता भगवन्वेदाः कथमेतद्भविष्यति॥ (६७)
प्रभाकरः –
तपोगतिर्हि भूतानां तप एव परायणम् ।
तपसा निर्जितालोकाः तपसानिर्वृतिं गताः॥ (६८)
तपसा पूतपाप्मानो निर्वाणं परमं गताः।
तपसा परमायुश्च शक्तिं चाऽपि तथाप्नुयुः ॥ (६९)
ब्रह्मा –
तपसा विजता लोकाः तपपुण्यास्सनातनाः।
तानिर्मासु समृद्धार्थान् सुखं भुङ्क्ष्वेह मा नद ॥ (७०)
प्रभाकरः –
न चाऽहं कामये लोकान् ह्यहं गतिमुत्तमम् ।
वेदजातं च सकलमध्येतुं कामये प्रभो ॥ (७१)
पक्षी
समाकर्ण्य वचस्तस्य द्विजवर्यस्य धीमतः ।
न चैतद्वेद्यमित्युक्त्वा तत्रैवाऽन्तरधीयत॥ (७२)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्र्यधिकशततमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्– १०४
ब्रह्मप्रभाकरद्विजसंवादः
पक्षी-
अथ द्विजवरो राजन् यथात्मा दृढनिश्चयः ।
पुनस्तपस्समास्थाय भूयस्तस्थौ महामतिः ॥ (१)
ततस्समुत्थितो वह्निर्ज्वलन् ब्रह्म तपोमयः ।
ददाह लोकानखिलान् स देवासुर पन्नगान् ॥ (२)
अभ्युपेत्य च तं विप्रं पुनश्चोच्चैः प्रजापतिः ।
अब्रवीच्च यदिष्टं ते वरं तद्वियतामिति ॥ (३)
पुनश्चोवाच तं विप्रो ब्रह्माणमभि पूज्यते ।
इच्छामि सकलान्वेदान् अद्येतुमिति सादरम्।
निशम्य तद्वचः स्थैर्यं भगवान् कमलासनः॥ (४)
तन्नशक्यं तवेत्युक्त्वा तत्रैवान्तरधीयत।
सोऽप्यतिष्ठद्यथापूर्वमुग्रे तपसि संयतः॥ (५)
सन्निम्येन्द्रियग्रामं समाधिः नियमश्शुचिः ।
अथोवाच पुनः तत्रैवान्तर्हित स्स्वयम्॥ (६)
प्रभाकरं द्विजं राजन् तपसा ध्वस्तकिल्बिषम् ।
ब्रह्मा –
भो भो विप्र नृशंसन्ते कृत्यं यच्च चिकीर्षसि ॥ (७)
भस्मीभूता इमे लोकाः तपसा तप सुव्रत।
कर्मणा हि जगत्सर्वं प्रतिबद्ध प्रकाशते ॥ (८)
अविवेकाल्प शक्तिश्च नष्टस्मृति रसङ्गतः ।
अनन्तशाखिनो वेदाः अध्येतुं सकला इह ॥ (९)
कथमत्यल्पसत्वेन त्वया शक्या वद द्विज।
विरम त्वं ततो घोरात्तपस श्शान्तिमानसः ॥ (१०)
निरुद्विग्नः तत स्सर्वे लोकास्सन्तु गतव्यधाः ।
पक्षी –
इत्याकर्ण्य द्विजो वाणी गम्भीरं च वियद्गताम् ॥ (११)
मुनिस्सन्तोषमतुलं समपद्यत भूपते ।
अथोवाच वचो धीमान् समुद्वीक्ष्य च तां दिशम् ॥ (१२)
वाणी तु वदतां श्रेष्ठ यतो निस्सरतिस्स्वयम् ।
ब्राह्मणः –
योऽब्रवीति वियन्ममध्ये स्वयमन्तर्हितो वचः॥ (१३)
नमो दृश्यस्वरूपाय तस्मै देवाय वेधसे।
तपसा विन्दते लोका नमलानपि पूरुषः ॥ (१४)
तपसा परमिच्छन्ति निर्वाणमपि शाश्वतम् ।
पाप्मानं क्षपयन्त्वाशु तपसा भुवि मानवाः॥ (१५)
तपसा चैहिकं सिद्धिं विपुलामपि विन्दति ।
लभन्ते च सुतादीन् तान् तपसा मर्त्यजातयः॥ (१६)
अक्षयं च धनं चापि तपस्यन्तो नरा भुवि ।
अत स्सम्पत्स्यतेऽस्माकं तपसा भावितात्मनाम् ॥ (१७)
अपि सर्वं सुदुष्ट्रामिति मेधीयते मतिः।
यतेन्द्रियस्य सततं तिग्मे तपसि तिष्ठतः ॥ (१८)
युक्ताचारस्य तस्यैव किं नाम च सुदुर्लभम् ।
पक्षी –
इति श्रुत्वा वचस्तस्य द्विजस्य कमलासनः॥ (१९)
तूष्णीं भूतो नृपश्रेष्ठ जगाम भवनं स्वकम् ।
अथ पञ्चाग्निमध्यस्थो भास्करं च प्रभाकरः॥ (२०)
तपसा तोषयामास नियतश्शान्तमानसः ।
विवस्वानपि सन्तुष्टस्तपसा भूयसा मुनेः ॥ (२१)
किरीटकुण्डलस्रग्वी तस्यान्तिकमुपागमत् ।
नभसस्तु विनिर्यान्तमादित्यमपि पश्यताम्॥ (२२)
नराणामपि चक्षूंषि ह्यस्पुटंश्च सहस्रधा ।
समायातं स तिग्मांशुं द्विजस्तमनपायिनम्॥ (२३)
दृष्ट्वा प्रभारं राजं स्तुष्टाव प्रयतस्स्वयम् ।
नमो भगवते तुभ्यं भास्करायाऽमलात्मने॥ (२४)
लोक दृष्टप्रभावाय नमस्ते सर्वसाक्षिणे ।
प्ररूढमपि लोकस्थं बाह्यमाभ्यन्तरं तमः॥ (२५)
प्रभो करशतैः कृत्स्नं शश्वत् क्षपयते नमः।
नमोस्त्वानन्दरूपाय नमस्ते चात्मयोनये ॥ (२६)
नमस्सत्यस्वरूपाय नमस्ते ब्रह्ममूर्तये ।
अज्ञानतिमिरघ्नाय नमो ज्ञानप्रदायिने ॥ (२७)
सर्व भूतान्तरस्थाय नमस्ते लोकचक्षुषे।
विद्याधीशाय शुद्धाय गोत्रे गोपतये नमः ॥ (२८)
पक्षी –
इति स्तुतो रविः प्रीतः प्रभाकरमिदं वचः।
तमुवाच द्विजश्रेष्ठं दिशोदश विनादयन् ॥ (२९)
आदित्यः –
परितुष्टोऽस्म्यहं ब्रह्मन् स्तोत्रेणाऽनेन सुव्रत ।
ईप्सितं ते वरं दद्मि व्रियतां तत्त्वयाऽधुना ॥ (३०)
ब्राह्मणः –
भगवन्नहमध्येतुं वेदानप्यखिलानिह।
सुसंवृत्तस्तथैवास्तु प्रसादात्तेऽखिलात्मनः॥ (३१)
पापं विनाशयत्येव पुरुषार्थं च देहिनाम् ।
अतः पापक्षये मे स्यात् प्रसादादीश्वरस्य ते ॥ (३२)
आदित्यः –
तपसा ध्वस्तपापास्य ज्ञानवैराग्यजन्मनः ।
मत्प्रसादाद द्विजश्रेष्ठ सर्वं सम्पत्स्यते तव ॥ (३३)
ब्राह्मणः –
प्रब्रूहि भगवन्नद्य कर्मसाक्षिन् जगद्गुरो।
पापानि क्षपयन्त्याशु नरा ये न च तद्भुवि ॥ (३४)
आदित्यः –
शृणु यज्ञेन दानेन तपसा तीर्थसेवया ।
अनेक जन्म संसिद्धमेनः क्षयति द्विज ॥ (३५)
ब्राह्मणः –
ब्रूहि कीदृग्विधो यज्ञो दानं वा भगवंस्तपः ।
कानि तीर्थान्यहं विद्यां यच्छ्रेयः तद्वदस्व मे॥ (३६)
आदित्यः –
कायिकं वाचिकं चैव मानसं च त्रिधा मतम् ।
यज्ञो दानं तपश्चैव तत्र तत्र शृणुष्व मे ॥ (३७)
कायिकं विहितं कर्म तद्बुद्युपहितं द्विज।
वाचिकं तु द्विजश्रेष्ठ जपयज्ञं प्रचक्षते॥ (३८)
विदुर्ज्ञानमयं यज्ञं मानसं तद्विदो जनाः।
अहर्ले च सुवर्णादि दानं तत्कायिकं मतम् ॥ (३९)
आर्तानामभयं ह्येतत् दानं तद्वाचिकं स्मृतम् ।
विद्या स्वाद्याययोर्दानं तद्दानं मानसं द्विज ॥ (४०)
अहिंसाब्रह्मचर्यादि तपः कायिकमुच्यते।
वाचिकं सत्यवचनम् भूतद्रोहविवर्जितम् ॥ (४१)
मानसं मनसश्शान्तिः सर्ववैराग्यलक्षणा ।
तीर्थं च द्विविधं प्रोक्तं स्थावरं जङ्गमं त्विति ॥ (४२)
एकान्तिनः सदायुक्ताः परध्यानोपबृंहिताः।
शीलवन्तो दयावन्तो ज्ञानिनस्तत्वदर्शिनः ॥ (४३)
त एव जङ्गमं तीर्थं परं चाहुर्महर्षयः ।
पुष्करादीनि पुण्यानि सरांसि च महामते॥ (४४)
पुण्याश्च नद्यो गङ्गाद्यास्तदैतत्स्थावरं मतम् ।
तीर्थानामपि सर्वेषां मता पुष्करिणी परा॥ (४५)
ते प्रशस्ततरास्सिद्धा एतस्मिन्निवसन्ति ये।
श्रीमद्रङ्गमितिख्यातं तदभ्याशे प्रतिष्ठितम्॥ (४६)
यत्र शेते परःपुंसां लोकानुग्रहकाम्यया।
यदिष्ठा शाश्वतीसिद्धिस्तपः पुष्करणीं द्विज ॥ (४७)
अधुना व्रज भूयिष्ठं व्रजतन्ते तपः फलम् ।
तत्रैव क्षपणं कृत्वा सिद्धिं प्राप्य च भूयसीम् ॥ (४८)
प्रतिलभ्य च कामांस्त्वमिष्टाङ्गतिमवाप्स्यसि ।
सुनेत्र इति ख्यातः तत्र पक्षी महाबलः॥ (४९)
स ब्रह्मणा दत्तवरो वेदाप्त्यै स महामतिः ।
तदासीद्विदुषां श्रेष्ठस्सदाऽध्यात्मपरायणः ॥ (५०)
चिरन्तनो महायोगी तत्वज्ञान निधिस्स्वयम् ।
समाकृतिभिरन्यैश्च सेवितस्समबुद्धिभिः ॥ (५१)
रङ्गनाथमभिध्यायन् वसतिस्म नदी तटे ।
तं प्रणम्य च विज्ञानं ज्ञेयं पृच्छ स वक्ष्यति ॥ (५२)
ब्राह्मणः –
कथं स पक्षि तां प्राप्त ईदृशो लोकपूजितः ।
नादे च त्वं प्रपद्यन्ते महान्तो यान्ति चोच्चताम्॥ (५३)
आदित्यः –
सर्वतोऽपि द्विजश्रेष्ठ वपुर्गृहन्ति साधवः ।
महान्तोऽपि महाभागाः स्वेच्छा तत्र हि कारणम् ॥ (५४)
अयं चिक्लीतमो नाम मनस्वी सत्यवाग् ऋजुः ।
ऊर्ध्वरेतो महाभागो योगी दृष्टपरावरः॥ (५५)
तपसा तोषयामास नारायणमनामयम्।
सन्निधत्ते स भगवान् तस्य देवो जनार्दनः॥ (५६)
स च वाग्भिः प्रसन्नाभिस्तुष्टाव मधुसूदनम् ।
तत्प्रणामाञ्जलिपरो भक्तिभारावनामितः ॥ (५७)
परिपूर्णोऽखिलाधारस्तस्य तुष्टः श्रियः पतिः ।
वृणीष्वेति वरं विप्रं प्रोवाच पुरुषोत्तमः॥ (५८)
स च वव्रे महायोगी सर्वान् वेदानहं प्रभो ।
अवगन्तुमिहेच्छामि त्वत्प्रसादादिति द्विजः ॥ (५९)
स च प्रोवाच भगवान् सर्वप्राणभृतां वरः ।
पुराणपुरुषश्रेष्ठः सर्वेषां पतिरीश्वरः॥ (६०)
वेदाश्च सकला ब्रह्मन् तपस्सिद्धा भवन्तु ते ।
शक्तिश्च भूयसी विप्र मत्प्रसादाद्भविष्यति॥ (६१)
अन्यच्च शृणु विप्रर्षे वचस्त प्राप्तये परम् ।
विद्याऽधिदैवतं देवीमाऽऽराधय सरस्वतीम् ॥ (६२)
प्रदास्यति स्वयं तुष्टा तच्छक्तिं च सरस्वती।
विदुषां त्वां श्रेष्ठतमः कृतार्थस्त्वं भविष्यसि ॥ (६३)
इत्युक्त्वा देवदेवेशः तत्रैवाऽन्तरधीयत।
स विप्रः पूजयामास ततो देवीं सरस्वतीम् ॥ (६४)
देवी प्रत्यक्षतां मातः तपसा तुष्टमानसा।
वरं वृणीष्वेति मुनिं प्रोवाचेदं सरस्वती ॥ (६५)
स होवाच महाभागः प्रणम्य च सरस्वतीम् ।
सर्व विद्या विशालाक्षी प्रसादादाप्नुयामिति॥ (६६)
देवी तथेति चाभाष्य पुनर्विप्रं जगाद सा।
इमे पतङ्गाश्चत्वार उद्गिरन्ति यथा मिषम्॥ (६७)
तच्च त्वं शकुनिर्भूत्वा भक्षयाशु महामते ।
इत्युक्त्वाऽन्तर्दधे देवी सर्वलोकेषु पूजिता ॥ (६८)
संस्तूयमाना देवैश्च सिद्धगन्धर्वचारणैः।
अथाजग्मुर्द्विजश्रेष्ठ चत्वारोः पक्षिणो नृप ॥ (६९)
श्वेतश्यामस्तथा कृष्णः पीतकश्च महामते ।
तस्यान्तिकमुपागम्य ते सर्वे किञ्चिदामिषम्॥ (७०)
उद्गीर्य निर्ययुस्तस्माद्यथाकामं यथागतम्।
सोऽपि देवी वचस्मृत्य स्वयं पक्षी बभूव ह ॥ (७१)
तदामिषमुपादाय पक्षी सर्वमभक्षयत् ।
ततश्च वेदान् सकलान् ज्ञातवान् बहु शाखिनः॥ (७२)
सर्वभूतवरज्ञश्च सर्वस्मात्प्रवरो भवत् ।
एवमेव चिरं कालं तत्सङ्गात् पतगस्स्वयम्॥ (७३)
वेदानवाप्तवान् पूर्वं सकलानपि सुव्रतः ।
विष्णुशक्तिप्रणुन्नायाः सरस्वत्याः प्रसादतः॥ (७४)
वेदैकवेद्यो भगवान् सर्ववेदमयोऽच्युतः।
तल्लाभस्वत एव स्यादित्येषा निश्चिता मतिः॥ (७५)
उपायमात्रं भगवान् तत्वतस्त्वेतद ब्रुवन् ।
अत स्त्वं शकुनिं गत्वा सुखपृच्छमनोगतम् ॥ (७६)
अचिराल्लप्स्यते तस्मात्सर्वमेतद् द्विजोत्तम।
ब्राह्मणः –
एतत्त्वं पक्षिणो ब्रूहि किमर्थं तावदामिषम्॥ (७७)
तपस्वी नियताहारः तदुच्छिष्टमभक्षयत् ।
आदित्यः –
वेदाश्च ते महाभाग पतङ्गाकृतये मुने॥ (७८)
सर्वं विद्यामयं विद्धि ह्यामिषन्त द्विजोत्तम ।
पततामामिषरुचि स्तेषामित्यभवत् सुखम् ॥ (७९)
अतो देवास्स्वयं तस्मै वेदांश्च समुपादिशन्।
तस्य वै देवदेवस्य विष्णोश्शक्ति प्रचोदिताः॥ (८०)
पक्षी –
इत्युक्त्वा च द्विजश्रेष्ठमारुरोह दिवं नृप।
पश्यतां सर्व भूतानां भास्करो भगवान्विभुः ॥ (८१)
स च प्रभाकरो राजन्नागच्छत् तीर्थमुत्तमम्।
यत्र चिक्लीतयो राजन् न्यवसत्प्तगाकृतिः॥ (८२)
विख्यातं त्रिषुलोकेषु श्रीमत् पुष्करिणीति च।
सर्वपापक्षयकरं सर्व सौख्यप्रदं नृणाम् ॥ (८३)
मुनिः प्रभाकरो राजन् तमभ्येत्य च पक्षिणम्।
चिक्लीतमं महाभागमभ्यवन्दत सादरम्॥ (८४)
तमपृच्छन् महायोगी सर्वमेतन् मनोगतम्।
भास्करस्य वचस्सत्यं विनयेन ससाध्वनः ॥ (८५)
सोऽप्युवाच महातेजाः सुनेत्रः पतगोत्तमः।
आत्मप्रयत्न बाहुल्यं वेदाप्त्यै स महामतिः ॥ (८६)
भगवन्तम द्विजश्रेष्ठ नारायणमनन्यधीः ।
शरणं सर्वभावेन गच्छ त्वं पुरुषोत्तमम् ॥ (८७)
स पूजितश्च सन्तुष्टो जगतां पतिरीश्वरः।
त्वया भक्तिमता देवः प्रसीदति न संशयः ॥ (८८)
तस्मिन् प्रसन्ने किं नाम दुर्लभं भुवि वै नृणाम् ।
परमात्मनि देवेशे जगद्धातरि निर्मले॥ (८९)
इत्याकर्ण्य वचस्सोपि ब्राह्मणस्तु प्रभाकरः ।
उत्तमां भक्तिमास्थाय तं प्रपेदेऽच्युतं प्रभुम् ॥ (९०)
तुष्टाव च महाबुद्धिर्वाचा मधुरया नृप।
ननाम शिरसा देवं भक्तिभावयुतेन च॥ (९१)
कराभ्यामञ्जलिं चक्रे प्रहृष्टस्तेन कातरः ।
मनसा विमलेनैव दद्यौ ब्रह्ममयं हरिम् ॥ (९२)
एवमेकाग्रधीस्तस्थौ द्विजः पुष्करिणी तटे ।
शान्तश्च नियमैर्युक्तो यत वाक्संयतेन्द्रियः॥ (९३)
इन्द्रनीलाचलप्रख्यस्तटिन्नद्ध इवाम्बुदः ।
आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ (९४)
रङ्गधामा परं धाम तस्य वै ब्राह्मणस्य हि ।
अभूतपूर्वं रूपं तं समालक्ष्य जनार्दनम्॥ (९५)
विस्मिताक्षश्च सहसा बभूव नरसत्तम ।
जगाद जगतामीशो दिशस्सन्नादयन् गिरा॥ (९६)
वत्स ब्रूहि यदिष्टं ते तव दास्येऽपि दुर्लभम् ।
शान्तस्य यतचित्तस्य भक्तस्य च विशेषतः ॥ (९७)
स मूर्धस्यञ्जलिं कृत्वा तमर्थं च प्रभाकरः।
न्यवेदयज्जगद्धात्रे मनोगतमखण्डितम्॥ (९८)
समाकर्ण्य वचस्तस्य भगवान् भूतभावनः ।
उवाच मधुरं वाक्यं तत्तथैव भवत्विति॥ (९९)
भूयश्चोवाच तं विप्रं देवो विश्वदृगव्ययः ।
अनन्ता ह्यभवन् वेदामर्त्यानामायुरल्पकम्॥ (१००)
शक्तिश्चाऽल्पीयसी नातः कश्चित्साकल्य मर्हति ।
पुंसां न नैष्टिकी शक्तिः पापकर्माभियोगतः ॥ (१०१)
अत्र पापक्षयं कृत्वा शुद्धिं परमिकां गतः ।
तथानन्तभवारब्धपापविध्वंसनं महत् ॥ (१०२)
तीर्थमेतत्समाख्यातं सर्वैर्नः क्षपणः क्षमम्।
त्वमप्यत्राऽवगाहस्व तीर्थेऽस्मिन् मुनिसत्तम॥ (१०३)
शुद्धिमात्यन्तकीं प्राप्य सर्वान् वेदानवाप्स्यसि ।
संशुद्धिमात्मनो लब्ध्वा तीर्थस्नानाद् द्विजोत्तम ॥ (१०२)
अथाप्तवेदसर्वस्वः तीर्थस्नानात्समाहितः।
सुनेत्राह्वयमासाद्य ब्रूह्येतत् पक्षिपुङ्गवम् ॥ (१०३)
तेन मत्तः पुरा प्राप्ता वेदाश्च सकलाद्विज ।
स वक्ष्यति च ते सर्वान्वेदान् मच्छक्तिचोदितः ॥ (१०४)
इत्युक्त्वाऽन्तर्ददे राजन् विष्णुः कारणपूरुषः ।
सोऽपि द्विजवरं श्रेष्ठं ब्राह्मणं स्तमुपागमत् ॥ (१०५)
तत्तस्मै सर्वमाचख्यौ सुनेत्राय यथोदितम् ।
सुनेत्रश्च द्विजश्रेष्ठं तीर्थं स्नानमकारयत्॥ (१०६)
ततस्समन्त्रकास्नानात् सहसा शुद्धमापसः।
पूजां चक्रे गुरोस्तस्य बह्वीमपहतन्मयः॥ (१०७)
तथाभूतं च तं दृष्ट्वा मुमुदे पक्षि पुङ्गवः।
द्विजमध्यापयामास सर्वान् वेदानिति श्रुतम् ॥ (१०८)
सकृद्वचनमात्रेण वेदानधिजगौ मुनिः।
प्रतिभास्यन्ति ते वेदा इति तद्वचनान्मुने ॥ (१०९)
विष्णोर्वेदमयस्यैव प्रसादादमलात्मनः।
तीर्थस्नानहता शेषकिल्बिषत्वात्स्वयं नृप ॥ (११०)
अनन्ताऽपि ते वेदाः तस्य सिद्धा महात्मनः ।
एवमस्मिन् द्विजस्तीर्थे वेदान् सर्वानवाप्य च॥ (१११)
काले कर्मक्षयं कृत्वा परांसिद्धिमितोगतः।
चत्वारस्तस्य शिष्याश्च बभूवुः शिष्टसम्मताः ॥ (११२)
अयं सुवर्णबिन्दुश्च ताम्रचूडश्च भूपते ।
बृहन्मतिरितिख्याताः तस्य शिष्य महात्मनः॥ (११३)
अयं सुदर्शनो नाम तत ऋग्वेदमाप्तवान् ।
सुवर्णबिन्दुकस्तस्मात् यजुर्वेदमधीतवान्॥ (११४)
ताम्रचूडश्च सामानि ह्यथर्वच बृहन्मतिः।
चतुर्णामपि चैतेषामन्या शाखाश्च ताः स्मृताः॥ (११५)
एते तु गुरुपूजार्थं पतङ्गत्वमुपाश्रिताः।
एते मुनिकुमाराश्च वेदाध्ययनशीलिनः ॥ (११६)
मत्पूजार्थं च ते सर्वे विगत्वं च संश्रिताः।
एतत्क्षेत्रं महत्पुण्यं सर्व किल्बिषनाशनम्॥ (११७)
तीर्थं चैव नृपश्रेष्ठ नित्यं लोकसुपूजितम्।
इति मत्वा नदीतीरमुपाश्रित्य वसाम्यहम्॥ (११८)
सर्व वाङ्मनसाऽतीतमगम्यं योगिनां च यत् ।
तत्परम्ब्रह्म परमं देवो नारायणोऽव्ययः ॥ (११९)
समक्षं सर्वलोकानां लोकाऽनुग्रहकाम्यया ।
योगनिद्रा परश्शेते दयिते रङ्गधामनि॥ (१२०)
तत्प्राणामप्रराजन् तद्ध्यानाऽमृतजीवनः ।
तत्पदाम्बोरुहच्छायामुपाश्रित्य वसाम्यहम्॥ (१२१)
संसारकर्दमाङ्गविमुक्तिमपि चेच्छताम्।
मुनीनामारुरुक्षाणां योगिनामपि भूपते॥ (१२२)
अयं पुण्यस्समुद्देश आर्तानामपि सौख्यदः ।
देशोऽयं सर्वभूतेभ्यः सर्वान्कामान्प्रवर्षति ॥ (१२३)
अपि पापीयसां पुंसां तीर्थस्नानं च कुर्वताम्।
पापानि क्षपयात्याशुः तीर्थमेतन् महामते॥ (१२३)
सन्ति तीर्थवरे पुण्ये भद्रे भद्रप्रदे शुभे ।
समाहिताश्च मुनयो बहवश्चा तपोधनाः॥ (१२४)
पापानिक्षपयन्तश्च रङ्गध्यानमुपागताः ।
सर्वबन्ध विनिर्मुक्ताः परां सिद्धिमितो गताः॥ (१२५)
अतः पुण्यमिमं देशम् उपाश्रित्य वसाम्यहम्।
एतत्क्षेत्रं महत्पुण्यम् एतन्नाम परं धनम् ॥ (१२६)
एतत्परायणं गुह्यमेतन्नः परमा गतिः।
इमे च शाखिनस्सर्वे तृणगुल्मलतादयः ॥ (१२७)
पुण्योपचय मुक्तानां महर्षीणां च मूर्तयः ।
य इमे कृमिकीडाश्च मक्षिकाश्च सरीसृपाः॥ (१२८)
तत्तत्संस्थानसंयुक्ता योगिनः पर्युपासते।
अतश्चैतन् महाप्राज्ञ मयापि न समुज्झितम् ॥ (१२९)
सिद्धैश्च योगिभिः पूर्वैः वसाम्येभिस्समसुखम् ।
त्वया पुष्करिणीस्नानं कुर्वताविमलात्मना ॥ (१३०)
कुलं च पूजितं सम्यक् पितरस्तेऽपि पूजिताः ।
पुण्याश्च विजिता लोकाः प्राप्तमायुः परां सुखम् ॥ (१३१)
मार्कण्डेयः –
इत्याकर्ण्य वचस्तस्य शकुनेर्भावितात्मनः ।
मेने कृतार्थमात्मानं राजा सुप्रीतमानसः ॥ (१३२)
ववन्दे पतगं मूर्ध्ना तेन चाभिप्रसादितः ।
अनुज्ञातस्तदाशीर्भिर्वर्धितश्च विनिर्ययौ ॥ (१३३)
सोऽप्येवं सुसमृद्धार्थो राजाराष्ट्रं स्वकं व्रजन् ।
विभाति रथमारूढः पौर्णमास्यां यथा शशि॥ (१३४)
सराष्ट्रं ब्रह्मभूयिष्ठं सद्वर्तिनयुतं नृपः।
पालयामास विधिवत् सुसमृद्धमनामयम्॥ (१३५)
तस्य पुत्रशतं जज्ञे राज्ञो जयधरस्य च ।
रूपलावण्यसुभगं बलवीर्यार्थसंयुतम्॥ (१३६)
पुत्रैश्च मुमुदे राजा सुवेषैर्मृष्टकुण्डलैः ।
इयाज स बहून् यज्ञान् ददौ च सुमहद्धनम्॥ (१३७)
बुभुजे सर्वभोगांश्च दिवि देवपतिर्यथा।
एवं सद्धर्मभूयिष्ठं राज्यं कृत्वा महामतिः ॥ (१३८)
सुते राज्यं विनिक्षिप्य गतिमिष्टाम विन्दत।
त्वं च शस्तकुले जातो राजप्रवर भूषिते ॥ (१३९)
आदित्य इव तेजस्वी प्रियकृच्च शशाङ्कवत्।
गाङ्गोहद इवाक्षोभ्यो ह्यजेयस्सानुमानिव ॥ (१४०)
कृतार्थस्त्वं नरश्रेष्ठ याहि पुस्करिणीमितः ।
तीर्थस्नानाद पानश्च तत्र भूरिद तद्धनम्॥ (१४१)
पुत्रपौत्रादिकामृद्धिम् अचिरात्प्राप्स्यसे ध्रुवम्।
व्यासः
इत्युक्त्वा स मुनिः श्रीमान् मार्कण्डेयो महातपाः ॥ (१४२)
राज्ञा च मुनिभिस्सर्वैः सशिष्यः पूजितो भृशम् ।
वर्धयित्वाऽऽ शिषस्सर्वास्सजगाम यथागतम् ॥ (१४३)
सोऽपि हृष्टमना राजा विधिवद्भूरिदक्षिणम् ।
समाप्य स वनं तेभ्यो ब्राह्मणेभ्यो ददौ धनम् ॥ (१४४)
स बन्धुश्च सदारश्च ययौ पुष्करिणीं नृपः।
तत्र स्नात्वा युतं श्रीमान् स वत्सानां गवां ददौ ॥ (१४५)
रङ्गधाम समभ्येत्य प्रणम्य च यथाविधि।
तत्रत्यानमलान् वृद्धान् अभिवाद्य महामतिः ॥ (१४६)
निर्जगाम मुनिश्रेष्ठ प्रतिपन्नमनोरथः ।
स्वराष्ट्रमभिगम्योच्छैः पालयामास स प्रजाः ॥ (१४७)
कालेन तस्य राज्ञस्तु पुत्रा द्वादश सम्मताः।
भास्करप्रतिमालोके बभूवुस्तुल्यवर्चसः ॥ (१४८)
ते विजह्रूर्यथाकामं युवानो मृष्टकुण्डलाः ।
जरया चातिपन्नश्च तान् दृष्ट्वा मुमुदे नृपः ॥ (१४९)
स्वांसस्थां पश्चिमां ज्ञात्वा कृत्यं च प्रविचिन्त्य च।
सुतेषु राज्यं निक्षिप्य वनमेव जगाम वै॥ (१५०)
स तत्रानशनं कृत्वा तिग्मेन तपसान्वितः ।
तत्यज देहं धर्मात्मा राजर्षिः सोमकाह्वयः॥ (१५१)
इति ते पुण्यमाख्यानं मयोक्तं मुनिसत्तम ।
सर्वपुष्टिप्रजननं सर्वसौख्यप्रदं भुवि ॥ (१५२)
सर्वार्तिशमनं श्रीमत्सर्वपाप प्रणाशनम् ।
य इदं पुण्यमाख्यानं श्राद्धादिषु च कर्मसु ॥ (१५३)
कीर्तयेदक्षयफलं कुरुते तस्य तद्ध्रुवम् ।
आख्यानं श्रावयेन्नित्यं यो वा पर्वणि पर्वणि॥ (१५४)
पूजितस्तस्य पितरः प्रविशन्ति स्वयं भुवि ।
स्वजन्मर्क्षे परं चायुर्विन्दतेऽस्य च कीर्तनात् ॥ (१५५)
अनपत्या च या नारी पुण्यमाख्यानमुत्तमम्।
उपोषिता तु संश्राव्य सुतं विन्दत्यनामयम्॥ (१५६)
राजा विजयमन्विच्छन् श्रुत्वा च जयमाप्नुयात् ।
ब्राह्मणो ब्रह्मचारी च यतवाक्कायमानसः॥ (१५७)
समभ्यस्य समाख्यानं विद्याभूयिष्ठतां व्रजेत् ।
ज्वरार्तस्यापि तप्तस्य जीर्णस्य च गतायुतः ॥ (१५८)
आख्यानश्रवणात्सद्यः तच्छान्तिस्स्यादनाहता ।
नारी सुती परिक्लिष्टा श्रवणाच्च द्विजोत्तम ।
निराभादा च सहसा सूयते चाऽचिरात्सुखम् ॥ (१५९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुरधिकशततमोऽध्यायः।
श्रीरङ्गमाहात्म्यम्–१०५
सुमन्तु सुनन्दोपाख्यानं
नागदन्तः –
सुवर्चला धर्मवरः स पुन्नाग मुपाश्रितः ।
कर्मणो निलयं कृत्वा परं निर्वाणमाप्तवान्॥ (१)
स कथं योगपदवी मास्थितो योगसत्तमः ।
कथं वात्यन्तिकलयः कर्मणां तस्य चाभवत्॥ (२)
व्यासः –
शृणु तत्र महाबुद्धे पुण्यमाख्यानमुत्तमम्।
ऋषिभिर्बहुधा शश्वत् श्रुतं योगपरायणैः॥ (३)
सुमन्तुश्च सुनन्दश्च मुनीमतिमतां वरौ ।
गौतमस्य पुरा शिष्यौ बभूवतुरनिन्दितौ॥ (४)
अधीयानौ च सततं साङ्गान् वेदांश्च सत्तम ।
यदृच्छया महात्मानौ वसिष्ठमुपजग्मतुः ॥ (५)
सोऽप्यधीतेषु वेदेषु तावपृच्छन् महामतिः।
किमधीताश्च सकलास्साङ्गवेदा यथाविधि॥ (६)
युवाभ्यां च कुमाराभ्यामधीतं किञ्चिदुच्यताम् ।
एवमुक्ता वसिष्ठेन कुमारौ मुनिसत्तम ॥ (७)
अवोचतुर्यथायोगमधीतं तावशङ्कितौ ।
सूक्तानि कानिचिच्छ्रुत्वा ताभ्यामुक्तानि वै मुनिः॥ (८)
साधुसाध्वित्यथाहोच्छैर्वचसा तौ प्रहर्षयन् ।
ततश्च मुनिमुख्यौ तौ शिष्यत्वेनोपगृह्य च ॥ (९)
वेदांश्च सरहस्यांश्च स्वयमध्यापयन् मुनिः ।
ततः काले बहुतिथे गते मुनि कुमारक॥ (१०)
वसिष्ठस्य सकाशाच्च वेदार्थान् ताववाप्य च ।
मुनिना चाभ्यनुज्ञातौ गौतमं तावगच्छताम् ॥ (११)
तौ चिक्षे प्रोषितौ दृष्ट्वा स्वशिष्यौ गौतमो मुनिः ।
क्व गतौ क्व गतौ चेति भर्त्सयंस्तावुवाच ह॥ (१२)
निवसञ्च वसिष्ठस्य सकाशे मुनिसत्तमौ ।
वेदावाप्तिं च सकलामूचतुश्च ततो मुने ॥ (१३)
गौतमश्च वचश्श्रुत्वा रुषाविष्टो बभूव ह ।
स भयाय च लोकानामवस्थित इवान्तकः ॥ (१४)
उवाच भ्रुकुटीं कृत्वा दिदक्षन्निव चक्षुषा ।
मत्तो वेदानधीयानौ पुरा संयग्यथाविधि॥ (१५)
मामतिक्रम्य सहसा गुरुमन्यं च संश्रितौ ।
अयुक्ताचार चपलौ पिशाचत्वं भवेत्तु वाम्॥ (१६)
व्यासः –
एवमेव तयोश्शापमुत्ससर्ज महात्मनोः।
क्रोधाऽनल विदीप्ताङ्गो गौतमो मुनिसत्तमः ॥ (१७)
तौ शुद्धौ भावकर्माणौ चानुग्राह्य कदाचन।
कृशाङ्गौ वेपिताङ्गौ च मुनिवर्यौ कृताञ्जलिः ॥ (१८)
दृष्ट्वा वाच वचश्शान्तः कृपावान्मुनिसत्तमः ।
गौतमः –
यदा सञ्जातहर्षश्च मुनिवर्यः पराशरः ॥ (१९)
अभ्यागत्य महायोगी युवयोरन्तिकं स्वयम्।
उपदेक्ष्यति सोऽध्यात्मं शापस्यान्तस्तदा भवेत् ॥ (२०)
ततो युक्तसमाचारौ शीलवृत्तगुणान्वितम् ।
कीर्तिमन्तौ महात्मानौ गतिमिष्टां गमिष्यथः ॥ (२१)
पराशरस्य च मुनेर्महायोगी परस्य च ।
सकाशाच्च भवत्वेतदुभयोर्नात्र संशयः ॥ (२२)
इत्युक्त्वा विररामाथ गौतमस्यस्त मानसः।
संशान्तपरमव्यग्रविकास्सम्बभूव ह ॥ (२३)
तौ च तच्छापवेगेन पिशाचौ च बभूवतुः ।
दर्शनीयतमौ सद्यस्सहसा सुभयङ्करौ ॥ (२४)
दीर्घकायौ पिङ्गकेशौ पिङ्गाक्षौ च पृथूदरौ ।
दीर्घदंष्ट्रदीर्घभुजौ कृशा धमनि संयुतौ ॥ (२५)
व्यात्ताननौ विरूपाक्षौ बृहत्कण्ठौ दिगम्बरौ।
वित्रासयन्तौ भूतानि गतिनिप्रेक्षणादिभिः ॥ (२६)
क्रूराकृतियुतौ चापि ह्यभूतां शान्तमानसौ ।
उभौ कुशलकर्माणौ सर्वत्र विगतस्पृहौ॥ (२७)
गङ्गाद्वारमुपागम्य निवासं तत्र चक्रतुः ।
तौ परस्परमासाद्य वेदाध्ययनतत्परौ ॥ (२८)
ऊषतस्सुचिरं कालं विमृश्य मुनिसत्तमौ ।
नास्तान्तयोः क्षुत्पिपासे नान्यः पीडाश्च दारुणाः ॥ (२९)
स्वाध्यायैकसुधापानपुष्टगात्रौ बभूवतुः ।
न तन्द्रिनतयोर्लज्जा न स्वप्नोऽपि महामते ॥ (३०)
वेद पादपसच्छायां संश्रितौ तस्थुस्सुखम् ।
स्नायन्तौ सन्ध्ययोश्चैव स्तववन्तौ परन्तपौ ॥ (३१)
परं पुमांसं जगतामर्चयन्तौ हरिं मुदा।
ध्यायन्तौ परमात्मानं यजन्तौ मुनिसत्तमौ ॥ (३२)
अजहद्बोधविभवौ कुर्वन्तौ विविधाः कथाः ।
स्वकीयैरप्यनालक्ष्यौ निवृत्तौ सम्बभूवतुः ॥ (३३)
अहन्यहनि पश्यन्तो मुनयः पुष्पसञ्चयान् ।
गङ्गाकूले च सर्वत्र बभूवुर्जातविस्मयाः॥ (३४)
शुश्रुवे वेदघोषश्च तयोर्दिशि दिशि स्वयम्।
एवमेव चिरं कालमुषित्वा मुनिसत्तमौ ॥ (३५)
काले गते दैवयोगाच्चन्द्रपुष्करिणीं गतौ ।
तौ तत्र सुचिरं कालमूषतुर्जातविस्मयौ ॥ (३६)
गर्हयन्तौ स्वकं रूपं तत्र वासविशङ्गया।
गर्हमाणौ निजाकारमदृश्यावूषुतस्सुखम् ॥ (३७)
अथ काले गते तत्र ययौ चापि पराशरः।
शिष्यैः परिवृतो विद्वान् वेदो विग्रहवानिव॥ (३८)
द्रष्टा च सर्वशास्त्राणां सर्वधर्मप्रवर्तकः ।
सूक्ष्मदर्शी महायोगी तत्वज्ञाननिधिस्स्वयम् ॥ (३९)
सर्वज्ञस्सर्वधर्मश्च सर्वज्ञानप्रवर्तकः ।
स्वयोगमहिमप्राप्त-परावरविदर्शनः॥ (४०)
सदाचारस्य धर्माणां कर्ता च परमार्थवितः ।
आदित्य इव तेजस्वी पुण्यकीर्तिस्सतां वरः ॥ (४१)
विजितक्रोधहर्षश्च धर्मज्ञः प्राज्ञ सम्मतः ।
वृद्धोपसेवी धृतिमान् गुरुश्च जनको मम ॥ (४२)
ततः पुष्करिणीतीरनिषण्णाः परमर्षयः ।
तमायान्तं तदालक्ष्य समुत्तस्थुर्मुदान्विताः ॥ (४३)
तान् दृष्ट्वा स मुनिर्धीमान् तीर्थवर्यनिरासिनः ।
मुमुदे परमायत्तान् मुनीन्वृद्धानकल्मषान्॥ (४४)
अथाश्रमेषु धर्मेषु तपस्सु च यतव्रतः ।
पृष्ट्वा कुशलमव्यग्रं निषसाद द्विजैस्सह॥ (४५)
अथ सन्ध्यां समापेदे पश्चिमां मुनिसत्तमः ।
क्षपा प्रादुरभूद्भुत मोहिनी तमसान्विता ॥ (४६)
ततः पुष्करिणीं जग्मुः द्विजः सन्ध्यामुपासितुम्।
कृतोदकाः कृतजपा मुनयस्स पराशरः॥ (४७)
नाना पुष्पोपहारैश्च सङ्गतं सरितस्तटम् ।
ददृशुश्चित्रितपथं सद्भिरघूषितं द्विज॥ (४८)
केनेदमिति मन्वानाः सर्वे तस्थुश्च विस्मिताः।
शुश्रुवे मधुरस्तत्र वेदानां विनदो महान् ॥ (४९)
त्राहि त्राहि मुकुन्देश गोविन्द पुरुषोत्तम ।
सर्वान्तरात्मन् भगवन् भगवन्नित्येवं तत्र शुश्रुवे ॥ (५०)
पश्यद्भिस्तत्र मुनिभिःन च कश्चिदलक्ष्यत ।
अथ दिव्येन भगवान् चक्षुषा ददृशे मुनिः ॥ (५१)
पिशाचाकृतिनौ या तु चरन्तौ मुनिबालकौ ।
ताभ्यां कृतमिदं सर्वं परिपूजादिकं बहु ॥ (५२)
ताभ्यामधीत वेदाभ्यामुत्थितोऽध्ययनध्वनिः ।
इति प्रजज्ञे भगवान् तत्सर्वं च पराशरः ॥ (५३)
कथयामास तत्सर्वम् ऋषिभ्यो ह्येवमित्यपि।
तावप्याहूय भगवान् दिव्यज्ञानोपलक्षिता॥ (५४)
उवाच किं नु युवयोः हर्षाणां दूषितं वपुः ।
आर्यवृत्तिरतावेम स्वाध्याय निरत तथा ॥ (५५)
विरुद्धमेतद्भवति यन्विरुद्ध समागमः।
द्वयोस्त्वस्य दृशी प्रज्ञा चेष्टितानि तथाऽन्यथा ॥ (५६)
ज्ञातव्यं यदिवाशक्यं ममै तद्वदता मिह ।
व्यासः –
भावि विज्ञानवृत्तान्तौ शापान्ताया गतो मुनिः॥ (५७)
यश्चोक्तो गुरुणापूर्व मृषिरेष पराशरः।
आख्याति स्वयमाख्यातिं यश्चेष ज्ञानतेजसा ॥ (५८)
आदित्य इव ऋक्षाणामित्येवमवधार्यतौ ।
प्रणतौ तौ तदभ्याशे समेत्य मुनिसत्तमम्॥ (५९)
ववन्दाते महात्मानौ भगवन्तं पराशरम् ।
ऊचतुश्च तदा सर्वं शापव्याजञ्च सर्वशः॥ (६०)
श्रुत्वा तयोस्तद्वचनं भगवान् सर्वधर्मवित्।
उवाच प्रधितं वाक्यं ततो वासिष्ठ नन्दनः ॥ (६१)
पराशरः –
भवद्भ्यां न मनस्तापः कार्यस्सर्वत्र सर्वदा ।
यतो भवन्ति भूतानां कर्मिणामाधयस्स्वयम्॥ (६२)
हेयेन कर्मवश्यस्तु कर्मणा हीयते सदा ।
कुशलेस्तेधते चास्य वृद्धिह्रासो न च स्वतः ॥ (६३)
नित्यो निरञ्जनश्चात्मा निरवद्यस्स्वतस्सुखी ।
प्रकाशात्मा परं जोतिः सर्वव्यापी विभुर्ध्रुवम् ॥ (६४)
नाना देहग्रहं चासौ कुरुते विवशस्स्वयम्।
देवादिस्थावरान्तं च गुणमुख्यं तु मायया ॥ (६५)
तत्तद्रूपमुपेत्याशु तत्तद्भवति च स्वयम् ।
भोगबुद्धिस्तथा वीर्यमहङ्कारोऽस्य तादृशः ॥ (६६)
देवादिषु च रूपेषु निस्स्वभावोऽपि सन्विभुः ।
कर्मणान्तमितप्रज्ञस्तत्र तत्र प्रनृत्यति ॥ (६७)
देवो भूत्वा तदा दिव्यानात्मभोगांश्च वाञ्छति ।
स एव मनुजो भूत्वा मानुषानेव चेच्छति॥ (६८)
वराहमृगसंस्थान संस्थितोऽपि तथैव हि।
तत्तद्रूपान्विता शक्तिः प्रज्ञायोगस्सु पुष्कलः॥ (६९)
न तु स्वरूपमन्यांश्च पुरुषार्थंश्च पश्यति ।
एवमेवैष कालेषु सर्वेषु पुरुषस्सदा ॥ (७०)
कर्मकोशात्तदा प्रज्ञश्चक्रवत्परिवर्तते।
यदा सालम्बनश्चात्मा विष्णुना परमेष्ठिना ॥ (७१)
तदा तु भवति प्राज्ञो मुक्तये नात्र संशयः ।
न हि तस्मात्परित्राणमन्यद्भवति केशवात् ॥ (७२)
परस्मात्सर्वभूतानां संसारान्तरवर्तिनाम्।
कर्मसन्ततिविच्छेदो ज्ञानेनैव प्रसिद्ध्यति ॥ (७३)
नान्येन कर्मणा चेति सर्वेषां नैष्ठिकी मतिः ।
तच्च सालम्बनं ज्ञानं यत्परं चावलम्बते॥ (७४)
आत्यन्तिकं च विलयं कर्मणां च करोति तत् ।
परमात्मागुणालम्बिज्ञानमेव च नान्यतः॥ (७५)
इति यो वेदसकलं कर्मणा च तरत्यसौ।
यो न वेदप्रजत्येष कर्मणासोऽप्यधो गतिम् ॥ (७६)
प्रविश्य ज्ञाननिष्ठायां मोक्षायैव च कर्मणा ।
यतितव्यं भवद्भ्यां च सर्वेषां सापरा गतिः॥ (७७)
तस्य पापक्षयात्पुंसां तरणं च भवेदिह।
पापक्षयश्च भवति तीर्थस्नानजपादिभिः ॥ (७८)
निगृह्य चेन्द्रियग्रामं शान्तेन मनसात्मवान् ।
ब्रह्मध्यायी तु तरति योगेनाशुभवार्णवम् ॥ (७९)
ध्यातं च परमं भावं प्रापयत्यत्र नानृतम्।
भवाग्निमपि संशाम्य योगी योगाम्भसाव्ययम्॥ (८०)
प्राप्नोति परमावस्थां यतो नावर्तते पुनः ।
यस्य चैवंविधा निष्ठा सर्वत्रैवं प्रदीपिता ॥ (८१)
न तस्य जन्मतापाय दीनता चोच्चनीचता ।
सुखप्रतिष्ठां विन्दन्ति ज्ञानिनस्तत्वदर्शिनः ॥ (८२)
आज्ञा अपि गता देवीं योनिं ते दुःखभागिनः।
अतो देहं च विवशं मांससृक्पूयविण्मयम् ॥ (८३)
शरीरमिह सम्प्रेक्ष्य सुखप्रेक्षा कथं भवेत् ।
नश्वरेषु च दीनेषु सुतादिषु च वा कथम् ॥ (८४)
तत्तद्विनाशे च परं सुखेन परितप्यते।
अहङ्कार ममत्वोग्रग्राहग्रस्तोऽल्पचेतनः ॥ (८५)
प्राक् स्वीकृतं च सर्वेषां कर्मचास्ति शुभाशुभम्।
तद्धेतुकश्च सर्वेषां सुखदुःख समागतः ॥ (८६)
जायापत्य सुताप्तादिसञ्ज्ञा मायान्तिकस्य चित् ।
देहिनस्ते यथा यान्ति कर्मणोच्चावचां गतिम्॥ (८७)
स्वकर्मफलभोगार्थं व्रजतो वा तथा गतान् ।
दृष्ट्वा पुत्रादिकान् देहि हा मृता इति तप्यते ॥ (८८)
अहो सुतादिकान् सर्वान् प्रतप्यति न हृष्यति ।
अन्येषां जन्ममरणे सम्भूते चापि कर्मणा ॥ (८९)
अन्यस्य दुःखं सौख्यं वा स्यात्तत्राप्यभिमानिनः ।
अतो दुःखात्मके त्वेते इति ज्ञात्वा समाहितः ॥ (९०)
अहङ्कारममत्वे च समुत्सृज्य च दूरतः ।
आस्थाय परमं योगं ततो निर्वाणमेष्यति ॥ (९१)
विदुषां नात्र निर्वेदो देहेऽस्मिन् दुःख जन्मनि।
तस्मिन्नुच्चवचमतिः प्रतीतज्ञानचक्षुषाम्॥ (९२)
युवयोरपि हि ज्ञानं तावदस्तीति मे मतिः।
आचारश्च समीचीनो रूपमात्रं विनिन्दितम् ॥ (९३)
मत्सन्निधानप्रभवा बुद्धिश्चास्तु सदामला ।
यया कर्मानृतिं त्यक्त्वा मुक्तिं यान्ति च योगिनः ॥ (९४)
सर्वत्रैव सुखं चास्तु युवयोश्शान्तयोरपि ।
न चात्र प्रतिवक्तव्यं शिष्यौ हि परमौ युवाम् ॥ (९५)
द्विजः काश्यपदायादस्सुवर्चल इति श्रुतः ।
स च सञ्जातनिर्वेदस्समेष्यति महामुनिः॥ (९६)
युवयोरन्तिकम्मान्यस्स च मे प्रियकृत्तमः ।
मयोपदिष्टं सकलं योगमार्गमिहैव तु ॥ (९७)
तस्मै सर्वं समाख्याय गतिमिष्टां समेष्यथः ।
तावत्तु ध्रियितां कालं युवाभ्यां निन्दितं वपुः ॥ (९८)
एवं कृते मत्प्रियं स्याद्धर्मस्याद्युवयोरपि ।
व्यासः –
इति श्रुत्वा ततो वाणीं धर्मार्थसहितां हिताम् ॥ (९९)
मुदा परमया युक्तावूचतुर्मुनिपुङ्गवौ।
कृतार्थं जन्मसञ्जातं कृतार्थाः पितरस्त्विह॥ (१००)
भवान्तरे वा देवस्य किंस्विदेतद्विचेष्टितम् ।
यद्गुरूणामपि गुरुस्सर्वेषामपि योगिनाम् ॥ (१०१)
स्वयमेव समेत्यापि विज्ञानं समुपादिशत् ।
जन्मना वाप्ययुक्तं स्यात् कर्मणा च तथा भुवि ॥ (१०२)
क्रूराभ्यां च विशेषाभ्यामावाभ्याम् अप्यचिन्तितम् ।
यथा नियुक्तं गुरुभिः तथैव क्रियते ध्रुवम्॥ (१०३)
तावत्स्थातव्यमावाभ्यां प्रतीक्ष्यश्च सुवर्चलः ।
व्यासः –
इत्येवं पिशाचाभ्यामुक्तो वासिष्ठनन्दनः ॥
तथेत्युक्त्वा च तौ विप्रौ जगाम च यथा गतम् ॥ (१०४)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चाधिकशततमोऽध्यायः॥
श्रीरङ्गमाहात्म्यम्– १०६
काश्यप सुवर्चलयोःकथा
व्यासः –
अथ काली बहुतिथेगते गतिमतां वरः ।
वृद्धःकाश्यपदायादो बभूव च सुवर्चलः ॥ (१)
अध्येतव्यं च सकलं तेनाधीतं महात्मना ।
श्रुतानि सर्वशास्त्राणि न तृप्तिर्मनसो मया ॥ (१)
तं दृष्ट्वा जनकः पुत्रं सर्वत्रविगतस्पृहम्।
गतव्यथं निरुत्साहं दान्तं शान्तं सुवर्चलम् ॥ (२)
पिता च पुत्रकायाहि ब्रूहि वत्स यथातथम् ।
कुतस्तपेन सञ्जाता वितृप्तिर्मनसस्सुत ॥ (१३)
वृद्धस्य मम दीनस्य जातस्त्वमसि पुत्रक।
सुसमग्रं विभूतिं च पश्यतां निजसम्भवाम्॥ (१४)
अनपत्येन पृथिवीं चिरं पर्यटता मया ।
इष्टां गतिमनासाद्य भ्रमता च ततस्ततः॥ (१५)
सत्वं कथञ्चित्सम्प्राप्तो यज्ञदानशतैरिह।
नैजं च वैभवं पश्ये क्षेत्रारामसमृद्धिमत् ॥ (१६)
दासदासीशतयुतं सम्पन्नबहुदां भवम् ।
शयनासनवस्त्राणि भूषणानि महन्ति च ॥ (१७)
पर्याप्तमेतद्गार्हस्त्यं त्वं च भुज्वा यथा सुखम्।
प्राप्तोऽस्मि पश्चिमां काष्ठां दशां वत्स सुवर्चला ॥ (१८)
तव सन्दर्शनेनैव सततं धारयाम्यहम् ।
रूपलावण्यसुभगमरोगत्वं च मानद ॥ (१९)
पश्यतो भूयसी जाता मनसो निर्वृतिर्मम ।
आस्व तिष्ठ यथाकामं गच्छत्वं च ममाग्रतः ॥ (२०)
अलं शोकेन सुभग स्वात्मनो नाशकारिणा ।
ऐहिकामुष्मिकाणां च सिद्धिं नाशयतात्मवान्॥ (२१)
मातेयं वत्स कल्याणी सत्वत्पार्श्वमुपाश्रिता ।
मुञ्चत्यश्रूणि नेत्राभ्यामेनां त्वं चाभिनन्दय॥ (२२)
मुनिप्रवरसङ्घैश्च पूजितं च कुलं तव ।
बाला कान्तिमती युक्ता युक्तवेषा सु मध्यमा ॥ (२३)
गृहं च तव भूयिष्ठं सर्वकल्याणसंयुतम् ।
दासदासीबहुगणो विधे तव पुत्रक ॥ (२४)
भूषणानि विचित्राणि वासांसि विविधान्यपि।
मया त्वदर्थं सकलमाहितं शुभदर्शनम् ॥ (२५)
अधीतस्सकला वेदा श्रोतव्यं च श्रुतं त्वया ।
लौकिकं वैदिकं चास्य ज्ञातं ज्ञेयं महामते ॥ (२६)
प्रशस्ते ब्राह्मणकुले जातोऽसि मम पुत्रक।
धर्माविरुद्धं ह्येतत्ते भोगजातमिह स्थितम् ।
चतुर्णामाश्रमाणां हि गार्हस्त्यं श्रेष्ठमुच्यते॥ (२७)
ज्ञातं च विधिना सम्यगुक्तेन च रता त्वया ।
इदानीं तव चायुष्मन्मध्यमं वर्तते वयः॥ (२८)
ऋणानि त्रीण्यपाकृत्य प्राविश्य च तपोवनम् ।
मुनिर्भूत्वा ततो गच्छेस्त्वं वै मोक्षं च शाश्वतम् ॥ (२९)
एष एव सतां पन्थाः सोश्नुते सुखमिच्छतः ।
अन्यथा वर्तमानस्तु दुःखी च निरयं व्रजेः ॥ (३०)
ऋषीन् सन्तोषयायुष्मन् स्वाध्यायनियमेन च ।
पितॄंश्च पुत्रसम्पत्या देवान्यज्ञेन पुत्रक॥ (३१)
पूर्वकैस्सेवितं मार्गं सत्यभेदाः कथञ्चन ।
युक्ताचारस्य मर्त्यस्य कीर्तिश्चायुश्च वर्धते ॥ (३२)
तस्य देवाः प्रसीदन्ति तृप्यन्ति पितरस्तथा ।
वृद्धा ते जननी चेयमहं च प्रियदर्शन॥ (३३)
कर्तव्यं च तदायुष्मन्नावयोः परिपालनम्।
कुतस्ते शोक सलिलं सञ्जातं मानसं सुत ॥ (३४)
प्रियदारस्य पुष्टस्य श्रोत्रियस्य विशेषतः।
इह चामुत्रचायुष्मन् सर्वत्रापि महामते ॥ (३५)
शोकस्थानं न पश्यन्ति एतत्तु न कथञ्चन ।
तस्मादुत्तिष्ठ भुङ्क्त्वेमान् भोगान् मा विप्रियं कृथाः ॥ (३६)
न लङ्घनीयं वचनं पित्रोस्तव विशेषतः ।
पित्रोः प्रियं च कुर्वाणाः ते परां गतिमाप्नुयुः ॥ (३७)
पुत्राणां च परो धर्मः पितुर्वचनपालनम्।
पितरं चैव तं विद्धि प्राज्ञस्यापि सुतस्य च॥ (३८)
कानिचिद् ब्रूहि वाक्यानि पसह्य मां प्रियदर्शन।
सां त्वपूर्वं बहूक्तत्वान्मया च सुखमिच्छता॥ (३९)
न शृणोषि वचः किञ्चिन्न करोषि च किञ्चन ।
श्रुतं चेत् क्रियतामद्य ह्येषधर्मस्सनातनः ॥ (४०)
तस्मिंश्च साधु वचने मा माशङ्काम् प्रियं कृथाः ।
व्यासः –
इत्युक्तवति धर्मिष्ठे काश्यपे प्राज्ञसत्तमे॥ (४१)
पितरी प्रीतयुक्ते च तत्समाहृतचेतसि।
ज्ञानी परवरज्ञश्च तत्पुत्रश्च सुवर्चलः॥ (४२)
सर्वत्र निस्पृहश्शान्तो नैष्कर्म्यं परमास्थितः।
पितुर्वचनमव्यग्रं श्रुत्वा सर्वं विमृश्य च ॥ (४३)
वचस्त्वसारभूयिष्ठं मन्यमानो महामतिः ।
अनाधृत्य च तत्सर्वं पितुः कोलाहलं द्विज॥ (४४)
तूष्णीं भूत्वा महायोगी पितरं वाक्यमब्रवीत् ।
सुवर्चलः –
श्रुतं च तत्वं भवतो वचनं सकलं पितः ॥ (४५)
किन्तु निस्सारमेवैतदित्येवमवधारितं
तापत्रयाभितप्तस्य निबन्धस्य च कर्मणा ॥ (४६)
सदा परवशस्यास्य किं नामेह सुखं भवेत्।
अज्ञानतिमिरग्रस्तचेतसो नष्टमेधसः ॥ (४७)
अवितृप्तस्य कामेषु किं नामेन सुखं भवेत् ।
तृष्णा ज्वराभितप्तस्य जीर्यतश्च प्रतिक्षणम् ॥ (४८)
देहिनश्च पलस्यास्य किं नामेह सुखं भवेत् ।
क्रोधमोहमहागर्त परिभूतिमुपेयुषः ॥ (४९)
परिश्रान्तस्याधीनस्य किं नामेह सुखं भवेत् ।
क्षुत्पिपासाजरारोगप्रसक्तार्तिमतस्सदा॥ (५०)
क्षणक्षरणरूपस्य किं नामेह सुखं भवेत्।
नानाविषयभोगार्तियुक्तस्येन्द्रियघातुकैः॥ (५१)
तृष्णाकशाहतस्यास्य किं नामेह सुखं भवेत्।
प्रविष्ट स्वस्वरूपस्य गुणमय्यातु मायया। (५२)
बोधप्रभावाभावस्य किं नामेह सुखं भवेत् ।
अतस्मिन् तदहङ्कारकर्दमान्तर्निमज्जतः ॥ (५३)
आशाग्रहग्रहीतस्य किं नामेह सुखं भवेत् ।
ममत्वावृतिसंवृत्तनानाविभ्रमसन्ततेः ॥ (५४)
अस्तुबुद्धेर्हताशस्य किं नामेह सुखं भवेत् ।
गर्भवासऽनलज्वाला जरामरणवर्तिनः ॥ (५५)
सदाऽवशस्य तप्तस्य किं नामेह सुखं भवेत् ।
याम्यक्रकचनिर्भेद विभिन्नाङ्गस्य देहिनः ॥ (५६)
मृतिधर्मयुतस्यास्य किं नामेह सुखं भवेत् ।
इष्टदार सुत क्षेत्र पितृमातृमयामिह ॥ (५७)
कल्पनामधिरूढस्य किं नामेह सुखं भवेत् ।
गर्भेति दुःखं जनने बाल्येत्यर्थमुपेयुषः॥ (५८)
भोगज्वरेण जरया किं नामेह सुखं भवेत् ।
असत्सु सत्यादिषु भावेषु लाभालाभान्वपेक्षया ॥ (५९)
प्रीत्यप्रीतिविदधतः किं नामेह सुखं भवेत् ।
प्रयत्नार्जितवित्तस्य प्रसह्याहरणं प्रति ॥ (६०)
चोराद्यैः शोचतो नित्यं किं नामेह सुखं भवेत् ।
ममत्वातिशयादन्यसुखदुःख समन्वयम्॥ (६१)
स्वस्मिन् भावयतोजस्रं किं नामेह सुखं भवेत् ।
उपद्रव शतैश्शश्वत् परिक्षयमुपेयुषः ॥ (६२)
विभवस्येच्छतो वृद्धिं किं नामेह सुखं भवेत्।
कर्मपादपकान्तारे त्वज्ञानतिमिरावृते ॥ (६३)
तापगर्ते निपततः किं नामेह सुखं भवेत् ।
व्रजतो गर्भवासार्ति मरणानि निरन्तरम् ॥ (६४)
नानारोग हतस्यास्य किं नामेह सुखं भवेत्।
स्वाम्यं भावयतः प्रेष्यान् सुप्रपन्नानुपेक्षतः॥ (६५)
शरणं स्मेरवदनान् किं नामेह सुखं भवेत् ।
पूयविण्मूत्रभूयिष्ठे जरारोगप्रपीडिते॥ (६६)
देहे प्रीतिं विदधतः किं नामेह सुखं भवेत् ।
शोकमोहमहाग्राहे कामपङ्के भवार्णवे॥ (६७)
विषयेष्वतिमानस्य किं नामेह सुखं भवेत् ।
अनर्थं सन्ततं वीक्ष्य नित्यं चाऽशुभमात्मनि ॥ (६८)
अपि तस्मिन् स्पृहयतः किं नामेह सुखं भवेत्।
अनन्तपुण्यनिचयं भावुकं तु भवार्णवे॥ (६९)
अपश्यतो निवसतः किं नामेह सुखं भवेत् ।
त्यक्त्वा देहमिमन्देहि कथं भूत्वा कथं भवेत् ॥ (७०)
अजानतस्तदित्येवं किं नामेह सुखं भवेत् ।
ज्ञानं ज्ञेय मजं गुह्यं परमानन्दलक्षणम्॥ (७२)
अजानतः परं ब्रह्मा किं नामेह सुखं भवेत् ।
यतो यत्र च यद्विश्वं तत्परं ब्रह्म यस्य च ॥ (७३)
न बुद्धिगोचरं तस्य किं नामेह सुखं भवेत् ।
यत्र गत्वा न शोचन्ति न क्षीयन्ते परं च यत् ॥ (७४)
पृष्ठतः कृतसत्यस्य किं नामेह सुखं भवेत्।
नाना विषयसम्मोहे मज्जतस्तु भवार्णवे॥ (७५)
वैराग्यं नेच्छतस्तस्य किं नामेह सुखं भवेत् ।
मायातिमिरविध्वस्तविवेकविभवस्य च॥ (७६)
अनासादित योगस्य किं नामेह सुखं भवेत् ।
तृष्णा मोहामहापङ्कपरिवर्तितचेतनः॥ (७७)
अदृष्टज्ञान तीर्थस्य किं नामेह सुखं भवेत् ।
सत्यज्ञानामलानन्द लक्षितं ब्रह्म शाश्वतम्॥ (७८)
एकं निरञ्जनं शुद्धं सदसद्व्यक्तिकारणम् ।
तदेव परमार्थं च सर्वमन्यत् मृषात्मकम्॥ (७९)
अशाश्वते ह्यनालम्बे देहादौ निर्वृतिः कुतः।
पुत्र पश्चन्न भार्यार्थ सुहृद्बन्धुमयस्य च ॥ (८०)
अनन्तविभ्रमस्यास्य अविद्या बीजमुच्यते ।
अतो ह्यनादौ संसारे बहुदुःखाकरे शुभे ॥ (८१)
पश्यन् शोचामि तान् मर्त्यान् तत्र प्रीतिं च कुर्वतः ।
अविद्यातिमिरस्रस्तमानसानां च जायते॥ (८२)
अभद्रे भद्र संरक्तिरसत्ये सत्यधीरिह।
तन्मूलोयं सुखी दुःखी धन्य इत्यादि विभ्रमः ॥ (८३)
नाऽयं सुखी न दुःखी च न धन्यो नापि वै कृशः ।
ज्ञानन्दमयो ह्यात्मा तादृशोऽपि न चार्हति॥ (८४)
नायं सुतो न च पिता न बन्धुरपि कस्य चित् ।
न मित्रं न रिपुस्स्वामी न कश्चित्कस्यचित् स्वयम्॥ (८५)
विशेषा भ्रममूला हि निर्विशेषस्य वस्तुनः ।
चिदानन्दमयोऽनन्त आत्मा सर्वत्र गीयते ॥ (८६)
तद् ज्ञानादशुभात्सद्यो विमुक्तिस्स्यादनाहता।
एतदेव परं सत्यमितोऽन्यत्सकलं मृषा॥ (८७)
यो वेत्ति चैवमात्मनं स कदाचिन्न शोचति ।
स स्यादशोच्यः प्राज्ञावान् शोच्यं च सकलेतरत् ॥ (८८)
सत्यं निरञ्जनं शुद्धं निर्मलं ब्रह्म शाश्वतम्।
सदालक्षयतस्तस्य चेतसा शोच्यता कुतः ॥ (८९)
ज्ञानमेव परं तीर्थं ज्ञानमेव परं तपः।
ज्ञानमेव सुखं प्रोक्तं ज्ञानमेव परं धनम्॥ (९०)
ज्ञानमेवपरं लब्ध्वा तरन्ति दृढबुद्धयः ।
ज्ञानेन लभते मर्त्यान् द्विजवर्य गतिं भुवि ॥ (९१)
ज्ञानी न शोच्यतां याति तदन्यो नीचतां व्रजेत् ।
ज्ञानी पुनाति सकलं जगत्स्थावरजङ्गमम् ॥ (९२)
सञ्ज्ञा नाद परं किञ्चित् पवित्रमिह विद्यते ।
अतस्सर्वत्र सततं ज्ञानमेवाऽभि कामये ॥ (९३)
य ज्ञानं सकलं हन्ति बाह्यमाभ्यन्तरं तमः ।
यत्र गत्वा न शोचन्ति योगिनो ध्वस्तकिल्बिषाः ॥ (९४)
तदध्यात्म पदं शश्वदभिवाञ्छति मे मनः ।
येन कर्म महायन्त्रं सम्यग्विच्छिद्य योगिनः॥ (९५)
निर्वाणं परमं यान्ति मुनयः संयतेन्द्रियाः ।
तेन चाऽव्याहतामृद्धिं प्राप्नुवन्ति द्विजर्षभाः ॥ (९६)
वैराग्यं परमं श्रेयो वैराग्यं परमं सुखम् ।
वैराग्यं च हितं शश्वत् वैराग्यं परमौषधम्॥ (९७)
तापत्रयोर्मिकलिलमुग्रं संसारसागरम् ।
वैराग्यं परमासाद्य प्रतरन्ति महर्षयः ॥ (९८)
वहन्ति पूतपाप्मानो वैराग्यश्रियमार्जताम् ।
तपसा भावितात्मानो ब्रह्मणा सुदृढव्रताः ॥ (९९)
वैराग्यरथमारूढास्सर्वत्र स्तुतसत्क्रियाः ।
पुरुषाः पूर्णकामाश्च चरन्ति ह्यधिराजवत्॥ (१००)
वैराग्य प्रभवात् नृणां पुरुषार्थार्थसम्पदः ।
आमुष्मिकफलं चापि वैराग्याल्लभते जनः॥ (१०१)
अतो वैराग्ययुक्तास्स्युः दुःखापत्ततितीर्षवः।
तत्र श्रेयश्च तपसा लभते नाऽत्र संशयः ॥ (१०२)
तपसा च नियच्छन्ति करणानि च सर्वशः।
बीजं हि पुरुषार्थानामिन्द्रियाणां हि निग्रहः ॥ (१०३)
जितेन्द्रियस्य सकलं जितं भवति वै जगत्।
अतस्तन्निग्रहः कार्यः शाश्वतीं भूतिमिच्छता॥ (१०४)
तदर्थं व्रतसङ्कल्पं कुर्वीत नियतात्मवान्।
उपवास जपध्यान तीर्थस्नानादिकैरपि॥ (१०५)
कुर्वीत नियताहारो ह्यात्मशुद्धिकरीं क्रियाम् ।
नाऽहं सुतो न च पिता भवान्तच्छ्रयतामिह ॥ (१०६)
एको व्यापी नित्यशुद्धो निर्गुणो निर्मलो विभुः ।
परमार्थं च सान्निध्यं ज्योतिरात्मा महामते ॥ (१०७)
इतोऽन्यत्सकलं सत्यमसत्यमिति निश्चयः।
असद्धेयमनालम्बि क्षयिष्ण्वनियतं जडम् ॥ (१०८)
मांसविण्मूत्र रुधिर मज्जास्थि स्नायु संयुतम्।
तच्छरीरमिति ज्ञेयं सर्वदोषाश्रयं त्वसत्॥ (१०९)
आत्माभिमानं च जडे तस्मिन् कुर्वन्त्यसाधवः।
कामक्रोधवशास्तेऽपि विनष्टा यान्त्यधोगतिम् ॥ (११०)
तच्छरीरं च नयतः पित्रोर्वै शुक्लशोणिते ।
तच्छरीरं ग्रहच्चापि जन्तूनां कर्महेतुकः ॥ (१११)
शरीरारम्भहेतुत्वात्पितराविति तद्वचः।
सुतादि व्यवहारोस्य शरीरत्व निबन्धनः ॥ (११२)
अतो न कस्यचित्पुत्रो न पिता न रिपुस्सुहृत् ।
शुद्धो निरञ्जनो व्यापी ह्यात्मा सर्वत्र गीयते ॥ (११३)
अनित्यस्य च नित्यस्य चेतनस्य जडस्य च ।
एकस्य चाप्यनेकस्य समलस्याऽमलस्य च ॥ (११४)
अविक्रियस्य सततं विकुर्वाणस्य चाऽनिशम् ।
देहस्य चात्मनोऽप्येवं स्पष्टं भेदनिदर्शनम् ॥ (११५)
तयोरैक्याभिमानेन वर्तते भवसङ्कटे।
लोभमोहहृतज्ञानाः शरीरेन्द्रियमानिनः ॥ (११६)
अत्स्मिंस्तदहङ्कारतिमिराक्रान्तचेतसः ।
वृथारम्भानरायान्ति संसारस्य च बीजताम् ॥ (११७)
ज्ञात्वा तदशुभं सद्यस्त्यजन्ति च नरोत्तमाः।
निर्वाणपरमा यान्ति समतां ब्रह्मवादिनः ॥ (११८)
अहङ्कारेण सकलमिष्टमित्येव निश्चितम् ।
रागद्वेषौ ततस्सिद्धौ द्वाभ्यां वृतमिदं जगत्॥ (११९)
रागद्वेषौ जितौ येन तेनेदं सकलं जितम्।
देहिनां च रिपू विद्धि रागद्वेषौ चिरन्तनौ ॥ (१२०)
अन्तःप्रविष्टौ सहजौ नृशंसौ दुष्प्रपूरकौ ।
तौ विजित्य महात्मानो ज्ञानिनो ज्ञानतेजसा ॥ (१२१)
निर्वृतिं परमां लब्ध्वा प्रभवन्ति च मुक्तये ।
तथा यतेत मतिमान्यथा स्यान्निर्वृतिः परा॥ (१२२)
योगेन लभ्यते सा तु न ततोऽन्यकेनचित्।
योगिनः परमृच्छन्ति तद्विष्णोः परमं पदम् ॥ (१२३)
आर्तानां परमन्त्राणां विष्णुरेवेति निश्चितम्।
शुद्धेन मनसा वाचा कायेन नियमेन च॥ (१२४)
ध्यानेन नियताचारयुक्तायुक्तदृढव्रताः।
व्रजन्ति पूतपाप्मानो नियतान्वैष्णवं पदम्॥ (१२५)
मातापितृसुतभ्रातृभार्यास्सन्ति च मायया।
न खल्वभिभवन्त्वेषामसतां सङ्गयोगतः॥ (१२६)
तस्माद्योगोऽत्र जिज्ञास्यः प्रयत्नेन विचक्षणैः ।
भवतापप्रतप्तानां योगो हि परमौषधम् ॥ (१२७)
योगं च ज्ञानिनो नित्यं परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते तात तपसा भावितात्मनः ॥ (१२८)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षडधिकशततमोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्– १०७
तीर्थयात्रागतसुवर्चलेन सह सुमन्तु सुनन्दयोः संवादः
व्यासः –
इत्युक्त्वा मुनिशार्दूलो विरराम समाधिमान्।
प्रशान्तात्मा महातेजाः पित्रोरपि गतस्पृहः॥ (१)
पापक्षयार्थं नियतस्तीर्थयात्रा चकार सः ।
ददृशे तीर्थनिरतान् समुनीनूर्ध्वरेतसः ॥ (२)
तपसा तत्परिक्लेशान् ज्ञातज्ञेयानकल्मषान् ।
तानभ्येत्याभिवाद्योच्छैः निर्वेदादिदमब्रवीत्॥ (३)
सुवर्चलः-
अहो नु भगवन्तोऽत्र प्रहृष्टाश्चाभिलक्षिताः ।
हिताहितज्ञानविधः मया निर्विण्णचेतसा॥ (४)
तापत्रयाभिभूतस्य पुरुषस्य विपश्चितः ।
न लक्षयोऽहं निर्वेदं विनागतिमिह क्वचित् ॥ (५)
गर्भे निवासा जननं शिशुत्वमति कुत्सितम् ।
तत्र तराभिभवनं व्याध्यादिभिरनेकधा ॥ (६)
युवत्वे स्थविरत्वे च सततं दुःख भाजने ।
पुनश्च मरणं दुःखं नरकं च पुनर्भवम् ॥ (७)
एवं चिन्तयता नित्यं संसारान्तरवर्तिनाम् ।
विनिन्दितमवस्थानं जन्तूनां शोकवर्धनम् ॥ (८)
जायते ह्रीश्च निर्वेदः कुतस्तुष्टिः कुतस्सुखम्।
अज्ञानदुहमर्त्यानां कामक्रोधभयात्मनाम् ॥ (९)
विषयाहत चित्तानां जायते च सुखोदयः।
असत्स्वपि च सद्बुद्ध्या दुःखेषु सुखसंविदा॥ (१०)
अनित्ये नित्यबुद्ध्या च निरयंयान्त्यचेतसः ।
नित्या नित्यविभागज्ञाः श्रीमन्तो मतिशालिनः ॥ (११)
सदा जातसुनिर्वेदाः संसाराब्धिं तितीर्षवः।
ऊर्ध्वं गच्छन्ति तपसा संयुक्ताः परमर्षयः ॥ (१२)
स हि विज्ञानिनां पन्थास्सदा सद्भिश्च सम्मतः ।
अस्थाने भवतां तुष्टिः कथ्यतां यदि शक्यते ॥ (१३)
मुनयः –
आश्चर्यं तत्र भवतो वेद्यस्यार्थस्य सङ्ग्रहः।
बुद्धेर्बोधावलम्बी स्यात् पशुत्वं च प्रकाशितम्॥ (१४)
ज्ञानैकनिधयस्सन्तः सतां बुद्धिरचञ्चला।
सदैकवस्तुविषया कथं बुद्धिः प्रमाद्यति॥ (१५)
सदसद्गोचरा बुद्धिः सर्वत्र चलनात्मिका ।
बाह्यर्थैकप्रसक्ताय साविनाशफलामतिः ॥ (१६)
सदेकविषयं ज्ञानं जायते यस्य सुस्थिरम्।
कुतस्तस्यापि निर्वेदः तृप्तस्यात्मनात्मनि ॥ (१७)
परावरप्रसक्ताधीर्यस्य निर्वेदसम्भवः ।
स च योगाग्निना दग्ध सञ्चितक्लेशसञ्चयः ॥ (१८)
निर्वाणं परमंसद्यः प्राप्नोत्यपि न संशयः।
यस्य बाह्यार्थविषयं ज्ञानं प्रत्याहृतं न च ॥ (१९)
रागादि दूषितं चेतस्तस्य वै न प्रसीदति ।
न च किञ्चित्करो योगो विषयाहृतचेतसः ॥ (२०)
विषयप्रवणं चेतः कदाचिन्न प्रसीदति ।
तेष्वथाभिरुचिं तस्य कुरुते विषयस्पृहा॥ (२१)
नोप भोगाच्छमं यान्ति कामसङ्गाः कथञ्चन।
बह्विन्धन इवारण्ये कृशानुर्वर्धतेऽधिकम्॥ (२२)
जगत्यामपि यत्किञ्चित् भोग्यजातं स्त्रियादिकम् ।
दृष्टमात्रं च तत्सर्वं ममस्यादित्यपेक्षते॥ (२३)
यद्भाव्यं कर्मणा तद्धि भोग्यत्वेनाकल्पते ।
स सर्वमिति सर्वस्य नन्वेच्छा तत्र कारणम्॥ (२४)
हतः क्रोधेन तीव्रेण विषयाऽनलजन्मना ।
उपर्युपरि संवृद्धकामचण्डानिलाहतः ॥ (२५)
दुःखपङ्केशयो नित्यमतृप्तस्स च वर्तते।
परावरविभागज्ञो यस्तु पश्यति चेतसा॥ (२६)
हेयाकारमसारं च संसारं न तु शोचति ।
ध्रुवं विषयमात्मानं जानतो ज्ञानचक्षुषा॥ (२७)
सहसा जायते चेतो विषयेषु पराङ्मुखम् ।
निर्वेदः स्वयमायाति तमहहङ्कारवर्जितम् ॥ (२८)
चरत्यभ्युपदेशाद्धि सर्वत्र विगतस्पृहः ।
ततः प्राप्तसदाचारं शुश्रूषुमनहङ्कृतिम् ॥ (२९)
उपदेश्यमथान्वीक्ष्य प्रज्ञामुपदिशन्ति च ।
आचार्याद्योगसर्वस्वमवाप्य स्थिरधीः स्वयम्॥ (३०)
यथोक्तं यतते तेन प्राप्नोत्यपि च निर्वृतिम् ।
सम्प्राप्तयोगसिद्धेन पूर्वं तत्त्वात्मदर्शनात् ॥ (३१)
न किञ्चिद्दृश्यते कार्यं तेन वै सकलं कृतम्।
आत्मारामस्सदा पूर्णः सुखमात्यन्तिकीं गतः ॥ (३२)
कुतस्तस्यापि निर्वेदः सदानन्दमयस्य च।
वयमाचार्यसम्पत्या लब्ध्वा योगधनं द्विज॥ (३३)
सिद्धिं प्राप्ताश्च नो ब्रूहि निर्वेदाश्रयणं कुतः।
इत्येवं ब्रुवतां तेषां मुनीनां भावितात्मनाम् ॥ (३४)
श्रुत्वा वचो महायोगी जगादपुनरात्मवान्।
सुवर्चलः –
श्राविता संयमास्सर्वे ध्वस्तमेव मनोगतम्॥ (३५)
तिमिरं भवतां वाक्यश्रवणाद्भावितात्मनाम् ।
येनाप्तःपरमांसिद्धिं भवन्तो योगवित्तमाः ॥ (३६)
उपायं तस्य योगस्य ब्रुवन्तः मुनिसत्तमाः ।
मुनयः –
पिशाचाकृतिनौ विप्राः अस्माकं गुरुसत्तमौ ॥ (३७)
पराशरस्य सच्छिष्यौ मुनी पुष्करिणीं गतौ ।
तत्सकाशाद्वयं सर्वे लब्ध्वा योगधनं द्विज ॥ (३८)
कृतार्थस्त्वं महाबुद्धे स्वयं पुष्करिणीं व्रज।
सुमन्तुश्च सुनन्दश्च इत्येवं श्रुतिपथं गतौ ॥ (३९)
गुरुशापप्रसङ्गेन पिशाचत्वमुपागतौ ।
पुन्नागतीर्थनिलयौ सर्वभूतसुखावहौ ॥ (४०)
गूहमानौ स्वकं रूपं सर्वभूतानुकम्पया ।
तौ गत्वा संशयं पृच्छेर्योगं चैव महामते ॥ (४१)
ततौ विधित तत्वार्थौ यथावदुपदेक्ष्यतः।
व्यासः –
इत्येवमृषिभिः प्रोक्तः सर्वतत्वार्थदर्शिभिः ॥ (४२)
सुवर्चलोऽपि धर्मात्मा वैराग्यपरमो मुनिः ।
जगाम सहसा तत्र यत्र तौ मुनिसत्तम ॥ (४३)
संवृतौ मुनिभिस्सिद्धैः बहुभिर्विमलाशयैः ।
तीर्थस्नानहता शेषकर्मसन्ततिभिर्द्विजैः ॥ (४४)
परमं पुरुषं देवं ध्यायद्भी रङ्गशायिनम्।
तद्ध्यानामृत सन्धानसुपुष्टाङ्गोरुविग्रहैः ॥ (४५)
एकाग्रमतिभिस्सिद्धैः ब्रह्मध्यानपरायणैः।
योगिभिस्थिरसङ्कल्पैः नासाग्रन्यस्तलोचनैः॥ (४६)
परावरविभागज्ञैः तृणीकृतजगत्त्रयैः ।
लब्धलक्षपदैरन्तसर्वभेदावलम्बनैः ॥ (४७)
वीतरागभयक्रोधैः निरवद्यैर्यतात्मभिः ।
निर्मलैर्निरहङ्कारैर्निर्लज्जैर्निष्परिग्रहैः॥ (४८)
क्वचिद्वेदानधीयानैः क्वचिदध्यापकैरपि।
क्वचित्सामानि गायद्भिः क्वचिद्ध्यानपरायणैः ॥ (४९)
क्वचित्सपर्यानिरतैः क्वचित्सवनसंश्रितैः ।
क्वचिदाख्यानकुशलैः क्वचिद्रूपपरायणैः ॥ (५०)
क्वचित्सवन संयुक्तैः क्वचिद्वन्दन तत्परैः ।
क्वचिज्जय जगन्नाथ रङ्गनाथ जगन्मय॥ (५१)
इति नामानि मधुरं व्याहरद्भिर्द्विजातिभिः।
सालतालधवाऽश्वत्थवकुलाद्यैर्महीरुहैः ॥ (५२)
वट पुन्नाग पनसकर्णिकाराम्रचम्पकैः।
बदरी बिल्वतिन्दूक कपित्थासन केसरैः ॥ (५३)
पताक धात्री जम्बूक प्रियङ्गु कुटजैरपि ।
अशोक रम्भा लिकुच ताम्बूली पूगवेतसैः ॥ (५४)
मधूकोदुम्बराङ्कोल बीजपूरारुणैरपि ।
स्निग्ध कण्ठैश्च मधुरं कूजद्भिः कोकिलैरपि॥ (५५)
नृत्यन्मयूरनिवहैः भृङ्गसङ्घैर्मनोहरैः।
वल्लुव्याहर कुशलैः सुरक्त चरणाननैः॥ (५६)
हंसकारण्डवगणैः भ्रमत्सारसराजिभिः ।
तीर्थं च प्रविगाहद्भिः उत्तरद्भिर् द्विजोत्तमैः॥ (५७)
उपस्थानपरैरूध्वबद्धहस्तैरतन्द्रिभिः ।
योगोभिश्शुद्धसत्वैश्च सदा ध्यानपरायणैः ॥ (५८)
शीलवृद्धैर्वयोवृद्धैः क्षत्रियैः शान्तमानसैः।
वैश्यैर्निरस्तशीलैश्च शूद्रैरुचितवृत्तिभिः ॥ (५९)
नानापक्षिगणैर्जुष्टं नानामृगगणैरपि ।
नानभूतगणैर्जुष्टं प्रशान्तात्माभि रर्चितम् ॥ (६०)
यदभ्याशे महद्धाम रङ्गधाम परं विभु ।
तत्तीर्थपरमागत्य भगवान् स सुवर्चलः ॥ (६१)
ववन्दे च समस्तां स्तान् स्वयं मुनिगणानपि ।
तत्र पुन्नागतीर्थं तदभ्युपेत्य महामतिः॥ (६२)
पिशाचच्छद्म वेषे तु चरन्तौ मुनिसत्तमौ ।
स ददर्शमाहात्मानौ गृहयन्तौ स्वकं वपुः ॥ (६३)
सदादूतयनः पङ्कौ वेदाद्ययनतत्परौ।
विवेकैः सततो दृष्ट्वा प्रययौ सन्तत व्रतौ॥ (६४)
तौ दृष्ट्वा समायान्तमभ्यर्णं मुनिसत्तमम् ।
जुगूहतू स्वकं रूपमन्योन्यं मुनिसमौ ॥ (६५)
तावपश्यन्महात्मानाऽवतिष्ठ दुर्मना मुनिः।
अभितस्तत्र स मुनिः विचचार दिदृक्षया ॥ (६६)
विषण्णवदनो धीमान् भगवान् स सुवर्चलः।
उवाच वदनं वीक्ष्य महता च स्वरेण च ॥ (६७)
सुवर्चलः –
यदधीतं च यद्दत्तं हुतं तप्तं मयापि यत् ।
तदिदं सफलं सर्वमस्तु मे गुरुसन्निधौ ॥ (६८)
यद्यस्ति गुरुदेवत्वं यद्यस्ति सुकृतं मम ।
सत्येन तेन गुरवः प्रसीदं त्विह साम्प्रतम् ॥ (६९)
अन्तरात्मा च भूतानां साक्षात्वेन व्यवस्थितः ।
इति सत्येन गुरवो दर्शनं यान्तु ते मम॥ (७०)
व्यासः –
इति श्रुत्वा मुनिवरौ तद्दर्शनमगच्छताम्।
पिशाचविहिताकारौ पूज्यौ निन्दितदर्शनौ ॥ (७१)
तौ दृष्ट्वा स महात्मानौ मुनी मतिमतां वरौ ।
सादरं नमनं चक्रे ताभ्यां तत्र सुवर्चलः॥ (७२)
यथा प्रकाशतां यातौ भुवि चन्द्रदिवाकरौ ।
युवां च खलु सर्वत्र तथा शश्वत्प्रकाशितौ ॥ (७३)
मुनी –
आचक्ष्व मुनि शार्दूल यदर्थं त्वमिहागतः ।
जानीहि प्राप्तमेवैतद्विशेषादावयोर्गतम्॥ (७४)
सुवर्चलः-
सत्यमेतन्महाभागौ मन्ये तत्प्राप्तमित्यपि।
सिन्धुतीरगतस्सालो न शोषमुपयास्यति ॥ (७५)
तापत्रयोर्मुनिकरे भवाब्धौ विषयाम्भसि।
क्रोधमोहमहामीने लोभग्राहसमाकुले॥ (७६)
अपारे दुस्तरे दुर्गे नानापाशसुयन्त्रिते।
ममत्वग्राहतप्तेऽस्मिन् न क्वचित्पारमेयुषः ॥ (७७)
विस्पष्टजीविताशस्य विधात्रा हृतचेतसः।
चपलस्याऽल्पसत्वस्य हीनबुद्धेर्लघीय सः ॥ (७८)
धर्माय नादपेतस्य कृत्याकृत्यमजानतः ।
असत्कर्मरतस्योच्छैर्विपरीतार्थग्रन्थिनः ॥ (७९)
दीपो बृहद्भवन्तौ मे इति मत्वाह मागतः ।
यत्कारणोऽथ यद्ज्ञात्वा वाचयत् प्रलपन्नहम् ॥ (८०)
परित्राणं च विन्देयं भव तापत्रयातुरः ।
चिन्तयन्नुदरेवासं तथा योनिविनिर्गमम्॥ (८१)
मलपङ्कमयीशय्यां संसीदामि दिवाऽनिशम्।
अतः प्रपन्नं भवतोस्सकाशं समुपाश्रितम्॥ (८२)
चिन्तानलविदीप्तं मां भवन्तौ त्रातुमर्हथः ।
भवोरगविदष्टस्य ज्ञानं हि परमौषधम् ॥ (८३)
तदर्थ्येहमुपैम्यद्य युवां हि ज्ञान जन्मभूः।
अतश्शान्तिं न गच्छामि मनसः कामगस्य च ॥ (८४)
नानाविषय सक्तस्य दुर्निवारगतेरिह।
मनसश्शान्तिमापन्नं सर्वत्र विगतस्पृहम् ॥ (८५)
ज्ञान वैराग्य सम्पन्नं सुखिनं ब्रुवते जनाः ।
व्यासः –
एवं ब्रुवति धर्मिष्ठे मुनिश्रेष्ठे सुवर्चले॥ (८६)
सुमन्तुर्वदतां श्रेष्ठो जगाद परमं वचः ।
सुमन्तुः –
सत्यमेतन्महाभाग निर्वेदत्वमिहागतः॥ (८७)
श्रेयोऽर्थी चात्मनो भूत्यै भूयस्सन्तापकर्शितः।
श्रूयतां वचनं श्रेयो मनसो मोहशान्तये ॥ (८८)
उदीर्णताप संसार मलप्रक्षालनाय च ।
अनादिकर्ता भगवान् विश्वस्यात्मा भुवि ध्रुवम् ॥ (८९)
सर्वज्ञस्सर्वदर्शी च वशी नारायणोऽव्ययः ।
सर्वानन्दमयः श्रीमान् सर्वाधारस्सनातनः ॥ (९०)
विश्वस्य जन्मनिलयस्थितिकर्ता जगत्पतिः ।
निजकर्मावृतियुतं जन्तुमुच्चावचं द्विज॥ (९१)
अन्तप्रज्ञं च विवशं गुणमय्यातु मायया ।
नानादेहनिपातं च नानादुःखाश्रयं ययौ ॥ (९२)
नानापाशाश्रयं चेदौ निर्ममे पुरुषोत्तमः।
तत्प्रभावानुगुण्येन वर्तन्ते सर्वजन्तवः॥ (९३)
न हि शक्यमपीशानैः सर्वैस्तदतिवर्तितुम् ।
देवत्वं व्रजति ह्येषः क्वचित्तिर्क्यत्त्वमेव च ॥ (९४)
पुनस्स एव व्रजति मनुष्यत्वमथेतरत् ।
स्थावरत्वमथान्यच्च तथा परवशो ह्ययम्॥ (९५)
भोगबुद्धिस्तथा शक्तिस्तथोत्साहस्तथा सुखम्।
तत्तद्देहानुगुण्येन जायतेऽस्य च तत्क्षणात्॥ (९६)
तत्तद्बुद्धिश्च सर्वेषां देवादीनां विलक्षणा ।
क्रोध लोभौ च तृष्णा च मोहश्चास्य प्रवर्तते॥ (९७)
अतृप्तस्सर्वकामेषु नित्यं चरति निस्पृहः।
स्वतो दुःखविहीनस्य नित्यस्यैवाव्ययस्य च॥ (९८)
तस्य प्रकाशरूपस्य सुखं दुःखं न चत्मनः ।
कर्मबन्धनहेतुस्तु नानादेहेषु संस्थितिः ॥ (९९)
तत्र तत्राभिमानश्च तत्तद्भोगेच्छया सह।
कर्मणा च प्रसुप्तस्य स्वभावाश्च निरञ्जनः ॥ (१००)
देवमानुषपश्वादिष्वहं बुद्धिः प्रवर्तते ।
तत्तन्मानावमानाभ्यामनिशं पीड्य तेजसः ॥ (१०१)
तापत्रयसमुत्थेन दुःखेन च सदा वशः।
ततश्च कालो ग्रसति व्याघ्रः पशुमिव स्वयम्॥ (१०२)
प्रमत्तमिन्द्रियारामां ममतागर्तसंयुतम् ।
मरणे च तथा पीडां भूयसीमस्य देहिनः ॥ (१०३)
निरयेषु च संवेशं गर्भेशयनमात्मनः।
विवाहमपि भार्याया अवशस्य च दारुणम्॥ (१०४)
स्मरन् जन्मानितस्यास्मिन् पातितानिमलाशये।
जठराऽनलतप्ताङ्गो मातुरास्ते तदा स्वयम्॥ (१०५)
ततो निष्क्रियमाणस्य योनिद्वारमुपेयुषः ।
प्रसूत्यनिलनुन्नाङ्गो निर्याति सह वेदनः ॥ (१०६)
बहिः पतनमात्रे तु प्रज्ञया परिवर्जितः।
मलपङ्के वशं शेते सदानिष्टनिवारणे ॥ (१०७)
तत्र व्याधिसमुत्थानं बहुशस्त्वसुवर्तनम् ।
एवं नयति बाल्येऽपि कौमारेऽपि च तत्समः ॥ (१०८)
तथावस्तान्तरं प्राप्तो युवा कामैश्च दह्यते ।
सम्प्राप्य पश्चिमावस्थां जरया परिपीड्यते॥ (१०९)
ततश्च दुःखमभ्येत्य नारकं दुःखमश्नुते।
पुनश्च गर्भपतनं भ्रमत्येव च चक्रवत् ॥ (११०)
अतस्सर्वास्ववस्थासु दुःखमेवोपलक्षये।
सर्वत्र वर्तमानस्य ह्यवितृप्तस्य देहिनः॥ (१११)
श्रेयस्सु विमुखस्येह पापेष्वभिरतस्य च।
तस्य मोहाद्गतः कालोऽप्यनन्तोऽनन्तजन्मनः ॥ (११२)
जने भवन्त्यश्रेयांसि सदोद्वेगकराणि हि ।
कामादिषु च संसक्तं तच्चलञ्चानुगच्छति॥ (११३)
उपकारि भवत्येतद्भ्राम्य भोगप्रवर्तने ।
अपकारि सदा चास्यात्सद्यादनिपुणे जने ॥ (११४)
जन्तवश्श्रियमिच्छन्ति तदुपायं न केचन ।
सततं चापि भूयन्ते सदा धर्मविदो जनाः ॥ (११५)
एकस्य कामिनो नालं त्रैलोक्यमपि सुव्रत ।
इन्द्रियार्थेषु संसक्तं मनो यस्य च न स्पृह॥ (११६)
भूयो भूयो विवृद्धं च कामिनं तं नयेदथः ।
कामकर्दमसम्मर्दं शश्वन्मलिन मानस ॥ (११७)
क्षालयेत्सम्यगात्मानं सम्यग्ज्ञानजलेन च ।
तपसा भावितात्मानो ज्ञानेनैव भवार्णवम् ॥ (११८)
अथ वै देहिनामन्तर्यदाज्ञानं प्ररोहति।
तदा पश्यति चात्मानं स्वयं शोच्यमथोगतम् ॥ (११९)
तदानीं क्षीयते तस्य बाह्येषु विमुखं मनः ।
सर्वत्र निस्पृहं शान्तमनिद्रमनिवारितम् ॥ (१२०)
चेतसा स कथं पश्यन् स्वात्मानं नानुशोचति ।
विसृज्य सकलं ज्ञानं तेजसा ममतास्पदम्॥ (१२१)
नियम्य चेन्द्रियग्रामं वरते वनगोचरः।
अतस्सर्वत्र संसारभेषजं ज्ञानमेव हि ॥ (१२२)
ज्ञानमेव परं मृग्यं ज्ञानमेव परं धनम्।
ज्ञानेन सन्तारयत्येव दुःखाक्रान्तमशाश्वतम्॥ (१२३)
संसारगर्तमत्येति ज्ञानेनैवानु पश्यति ।
सुवर्चलः –
तरन्ति येन ज्ञानेन योगिनो दुस्तरं द्विज ॥ (१२४)
संसारसागरं घोरं तन्मयाचक्ष्व पृच्छतः ।
मुनिः
योगेन शान्तिमिच्छन्ति यतयो ब्रह्मवादिनः ॥ (१२५)
योगाद्भवति विज्ञानं तपसा चोर्ध्वरेतसाम्।
ब्रह्म ज्ञानं च परमं भवत्यपि च मुक्तये॥ (१२६)
इन्द्रियाणि नियाम्यैव मनसश्शान्तिमेव च ।
कृत्वा तपश्च मुनयो निरवद्यं व्रजन्ति हि ॥ (१२७)
सुवर्चलः –
योगस्वरूपं परमं प्रब्रूहि मुनिसत्तम ।
अनन्यचेतसे मह्यं मुह्यते श्रियमुत्तमम्॥ (१२८)
मुनिः –
हन्त सर्वं प्रवक्ष्यामि शृणु त्वं मुनिसत्तम ।
शान्ताय मम भक्ताय प्रपन्नाय विशेषतः ॥ (१२९)
रहस्यमेतत्परमं सर्वसंसारनाशनम् ।
विज्ञानममलं शुद्धं श्रुतिमस्तकसंस्थितम् ॥ (१३०)
सर्वदुःखप्रशमनं सर्वशान्तिकरं परम् ।
तापत्रयमहातापप्रणाशनमनामयम् ॥ (१३१)
योगज्ञानं प्रवक्ष्यामि तदिहैकमनाः शृणु ।
अष्टाङ्ग परमं योगं ब्रुवते योगवित्तमाः ॥ (१३२)
यमश्च नियमश्चैव तृतीयं चासनं मतम् ।
प्राणायामस्तदा तत्र प्रत्याहारश्च पञ्चमः ॥ (१३३)
धारणा च तथा ध्यानं समाधिश्चेति सङ्ग्रहः ।
अनृशंस्यमनालस्यं वैराग्यं चार्जवं परम् ॥ (१३४)
आचापल्यं धृतिस्सर्वं ज्ञेयं चेति यमं विदुः ।
शौचमाहारनियमामौनिः ममत्वमसङ्गता॥ (१३५)
क्षान्तिक्षमा दमस्तुष्टिरित्यष्टौ नियमाः स्मृताः।
आसनं स्वस्तिकादीनि तदभिज्ञाः प्रचक्षते ॥ (१३६)
वाङ्मनश्चरतो वायोरेकत्र नियमश्शनैः ।
चलस्य मनसस्थित्यै प्राणायामश्च तद्विदुः ॥ (१३७)
इन्द्रियाणां च सर्वेषां प्रत्याहारस्तु पण्डितैः ।
धारणा नाम मनसो लक्ष्ये ब्रह्मणि संस्थितिः ॥ (१३८)
संशीलनं च मनसस्तत्र ध्यानं पुनः पुनः ।
तदेकरसतापत्तिं समाधिं ब्रुवते जनाः ॥ (१३९)
इत्येवं मुनिभिः प्रोक्तो योगस्सङ्क्षेपतो मुने।
मयाऽप्युक्तो महाबुद्धे योग एष सनातनः॥ (१४०)
अनादिवासनादुष्टं मनस्सुमलिनं यतः ।
अतो योगस्सदुष्प्रापस्सहसाऽकर्मणा द्विज॥ (१४१)
तपसा नियमेनापि व्रतस्नानादिकैरपि।
मनसः क्षालनादेव योगसिद्धिं लभेतेह॥ (१४५)
पापानां कर्मणां चाहुः नाशस्सम्पद्यते नृषु ।
वैकुण्ठस्मरणात् सद्यः पवित्रं भगवान्यतः॥ (१४६)
यन्नामकीर्तनात्सद्यस्सर्वपातकिनो द्विज।
विशुद्धं परमं प्राप्य प्रभवन्त्यपि मुक्तये॥ (१४७)
मनः प्रसन्नता न स्याद् गोविन्द स्मरणं विना ।
नावगच्छति धातुस्थं विधूमाग्निरिवानामलम् ॥ (१४८)
देहिनामल्प बुद्धित्वात्करणायत्तचेतसाम्।
निर्मलज्ञानभूयिष्ठं न शक्तिं ब्रह्म वीक्षितुम्॥ (१४९)
अशक्तो भास्करं द्रष्टुं यथाबालो वियद्गतम् ।
दवीयो ब्रह्म सर्वेषां चेतसां च तथा द्विज ॥ (१५०)
अतिप्ररूढं बाह्यार्थे इन्द्रियासङ्गतं मनः ।
तेभ्यो हि विच्युतिर्नेहस्नान्यत्र च लक्षणम्॥ (१५१)
बाह्यवृत्तेरनादित्वान्मनसो वदतां वर ।
प्रवेशोद्यततस्तस्य परस्मिन्नहि शक्यते॥ (१५२)
अतो हि मनसश्शुद्धिमादौ कुर्याद्विचक्षणः ।
कर्मणां विलयेनैव ह्यात्मनश्शुद्धिरिष्यते ॥ (१५३)
प्राचीनं कर्मविज्ञानादशेषं प्रविलीयते।
श्रेयसां हि परं श्रेयो लाभानां परमोत्तमम्॥ (१५६)
विज्ञानं सर्वजन्तूनां धनानां च परं धनम्।
ज्ञानोदयश्च सर्वेषां वैकुण्ठाङ्घ्रिव्यपाश्रयात्॥ (१५७)
सानुरागेण मनसा वाचापि मनसोऽपि च ।
कर्मणा भूयसा चैव तत्समाश्रयणं बुधैः ॥ (१५८)
कार्यं कार्यविदां श्रेष्ठ स प्रसीदत्यधोक्षजः ।
प्रसन्ने सति तस्मिंश्च परस्मिन् परमात्मनि ॥ (१५९)
अनन्तार्पितदेहस्य सर्वं स्वस्त्ययनं भवेत्।
नातदर्हस्य तद्दृश्यं तेजसोऽपि शुभाश्रयम्॥ (१६०)
कर्मपाशावृतत्वाश्च आत्मा त्वन्तर्हितो हि नः ।
अन्ये तु शुद्धिविरहन्नार्हः पद्मोद्भभवादयः॥ (१६१)
अतो निर्दोषमक्लिष्टं कल्याणगुणसागरः।
शुभाश्रयं परं मृग्यं ब्रह्म तद्योगतेजसा ॥ (१६२)
ब्रह्मणा च विनिष्पन्नध्यानेनैव सदा सुखम् ।
यजन्तो योगिनो नित्यं प्राप्नुयुः श्रेयमुत्तमम् ॥ (१६३)
एवमुक्तं परं श्रेयः प्रपन्नस्य च ते मया ।
यथार्हवृत्तिस्तं योगं कुरुष्वाप्येग्रमानसः ॥ (१६६)
श्रेयः कामयमानस्य विघ्नानामयुतं भवेत्।
गोविन्दस्मरणं तस्य शोषकर्म न संशयः ॥ (१६७)
दुरितानि बहून्यस्मिन् विघ्नानं च शतं बहु ।
अरिष्टं शमयेत्सर्वं सकृद्गोविन्द संस्मृतिः ॥ (१६८)
सत्यं संश्रयतो नित्यं कर्मणा मनसा गिरा।
कल्याणानि भवन्त्यस्य मुक्तिरस्य फलं मतम् ॥ (१६९)
सर्ववाङ्मनसो लक्ष्यो येषां च स्मृतिगोचरः।
स्वयं भवेत्स विश्वात्मा जगतामीश्वरेश्वरः ॥ (१७०)
भूयांसस्ते महात्मानः श्रीमतां किं न सेत्स्यति ।
वैकुण्ठचरणाम्भोजशरणागतिरुत्तमा ॥ (१७१)
असारमन्यत्सकलं मनसापि न लक्ष्यते ।
तत्स्मृतिज्वलनज्वालादग्दानिष्ट च यस्स्वयम्॥ (१७२)
प्राप्नुयात्स विशुद्धात्मा तमेव परमां गतिम् ।
इति ते गुह्यमाख्यातं ज्ञानमात्माविशुद्धये॥ (१७३)
कुरुष्वे तद्यथा योगं किमन्यच्छ्रोतुमिच्छसि।
सुवर्चलः –
कृतार्थं मे मुनेः जातं कृतार्थोऽहं कृतस्त्वया॥ (१७४)
कृतार्थाः पितरस्सर्वे यन्मामेवं ब्रवीषि भो ।
नूनं सुष्ठु कृतं कर्म विद्यते मम दुर्लभम् ॥ (१७५)
यद्भवन्तमिहासाद्य श्रेयो मां प्रापयेदलम् ।
दुर्लभः परमो योगो मनसापि यतात्मनाम् ॥ (१७६)
जितेन्द्रियाणां शुद्धानामभूरि विज्ञानसम्पदाम् ।
क्रोधमोहमहागर्तपरिवर्तश्रमेण ह ॥ (१७७)
अवशेचेन्द्रियग्रामे कथं सुक्रियते मया ।
मुनिः –
पापेन कर्मणा तात मानसं मलिनं भवेत् ॥ (१७८)
प्रयतस्व महाबुद्धे त्वमद्यतदुपक्षये।
पापक्षयश्च भवति सर्वेषामपि सुव्रत ॥ (१७९)
तीर्थस्नानात्तदादानात् पुण्यक्षेत्रनिषेवणात्।
तीर्थानामुत्तमं तीर्थं चन्द्रपुष्करिणीसरः ॥ (१८०)
एतत्क्षेत्रं परं विद्धि यत्र श्रीरङ्गशब्दिते ।
बहवः क्षीणकर्माणो मुनयस्संश्रितव्रताः॥ (१८१)
कर्मणां विलयं कृत्वा परां सिद्धिमितो गताः।
क्षत्रिया ध्वस्तकर्माणो बहवो लोकविश्रुताः॥ (१८२)
योगेन भूयसीं सिद्धिमिह प्राप्ता महामुने।
वैश्यास्स्वधर्मनिरताः शूद्राश्चान्ये च संश्रिताः ॥ (१८३)
भक्तिमन्तः परामृद्धिमिह प्राप्ता द्विजोत्तमाः ।
त्वमप्यस्मिन् महाबुद्धे स्नानादिकमतः कुरु॥ (१८४)
व्यपोह्य सर्व कर्माणि गतिमिष्टामवाप्स्यसि ।
व्यासः –
इत्युक्तो भगवान् तत्र न्यवसत्स सुवर्चलः ॥ (१८५)
पुण्ये श्रीरङ्गराजस्य रङ्गधामनि सादरम्।
निरेनास्सततं योगात्तदभ्यासरतिर्द्विजः॥ (१८६)
शुनकैस्सर्वकर्माणि क्षपयित्वा महामतिः ।
मनसा कर्मणा वाचा युक्तं कर्मसमाचरन् ॥ (१८७)
स्तवप्रणामासु ध्यानैः सततं रङ्गधामनि।
महान्तं कालमासाद्य भगवद्ध्यान बृंहितः॥ (१८८)
शुभाऽशुभात्मकं कर्म योगेनाशु व्यपोह्य च ।
विनिष्पन्नसमाधिश्च परं निर्वाणमाप्तवान् ॥ (१८९)
तौ च बुद्धिमतां श्रेष्ठौ पिशाचाकृतिनौ मुने।
तस्मिन् तीर्थवरे पुण्ये निवासं चक्रतुस्स्वयम्॥ (१९०)
उपेत्यमुनि शापान्तं कर्मणां च परिक्षयम् ।
आगच्छतां महात्मानौ निर्वाणपरमां गतिम् ॥ (१९१)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्ताधिकशततमोऽध्यायः।
श्रीरङ्गमाहात्म्यम्– १०८
एतत्फलश्रुतिः
एतत्पुण्यमुपाख्यानं परं निश्रेयसां नृणाम् ।
सर्व दुःखप्रशमनं सर्वसिद्धिकरं भुवि॥ (१)
यस्त्वेतत्कीर्तयेन्नित्यं श्रुत्वा पर्वणि पर्वणि ।
पूतपाप्मा जयेत्सर्वं ब्रह्मा चैति सनातनम्॥ (२)
यस्त्वैतच्छ्रावयेन्नित्यं श्राद्धादिषु च कर्मसु ।
पितृभ्यो दत्तमक्षय्यं भवेत्तत्र न संशयः ॥ (३)
य इदं परमाख्यानं पठति श्रद्धयान्वितः।
स वाजिमेधस्य फलं प्राप्नुयात्पुरुषो मुने॥ (४)
इति सकल जगत्प्रसूतिहेतोः अखिल जगच्छरणस्यतस्य पुंसः ।
चरितमखिलमादिपुरुषस्य क्षपयति कल्मषमाशु शृण्वतां च ॥ (५)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टाधिकशततमोऽध्यायः।
इति श्री गारुडपुराणान्तर्गत श्रीरङ्गक्षेत्रमाहात्म्यं सम्पूर्णम् ।
सर्वं श्रीरङ्गनाथार्पणमस्तु