श्रीरङ्गमाहात्म्यम् Part 02

श्रीरङ्गमाहात्म्यम् – Part 02

श्रीरङ्गमाहात्म्यम्–३६

चन्द्रकृत–भगवत्स्तुतिः

नागदन्तः –

यथा च देवदेवेशं परं ब्रह्म सनातनम् ।
जन्मादिभिरसंस्पृष्टं मनसामप्यगोचरम्॥ (१)

परं स्तौति स्म तं देवमिन्दुस्तोत्रं च तद्वद ।
श्रोतुमिच्छामि भगवन्त्सर्वार्ति व्यपनुत्तये॥ (२)

व्यासः –

मुने तुभ्यं प्रवक्ष्यामि यथा चन्द्रस्तुतिं पुरा।
चक्रे चक्रायुधस्त्येव तथा स्वस्त्ययनं स्तवम्॥ (३)

चन्द्रः –

नमो जगन्मङ्गलदायिने नमो जगत्प्रसूतिस्थितिनाशहेतवे।
नमो जगत्पावन नाम कर्मणे नमो जगत्कारणकारणात्मने॥ (४)

नमः परेशाय परमात्मने नमो नमः पुराणाय सदात्मने नमः।
नमस्सुरेशेश विधिप्रसूतये नमस्त्रिलोकाश्रयमङ्गलाङ्घ्रये॥ (५)

नमस्समस्तेन्द्रिय देवदेव प्रधानभूताय नमोऽस्तु विष्णवे।
नमःप्रधानादिवि शेषभूमये गुणाश्रयाय प्रभवे नमो नमः॥ (६)

अनन्तपूर्णामलकान्त कान्तिमन्महाविभूतिप्रवराय जिष्णवे।
समस्तकल्याणगुणाश्रयाय ते परात्परेशाय परमात्मने नमः॥ (७)

सनन्दनाद्या मुनयः पुराविदः श्रुतिप्रवीणा हतरागमत्सराः ।
पदं न जानन्ति परस्य यस्य ते परेशितु स्तं प्रणमाम्यधोक्षजम् ॥ (८)

दोर्दण्डचण्डप्रहराभिभूतो विप्रद्रुतोऽनन्तसुरारिसङ्घः ।
यस्याखिलेशस्य सदा स्तुतं पदं नमामि विष्णोः परमस्य तस्य॥ (९)

विश्वं जगद्यो वपुषा बिभर्ति यस्मिंस्तदन्ते लयमेष्यतीशे ।
यस्मादिदं यस्य कृते समस्तं तस्मै नमस्ते पुरुषोत्तमाय॥ (१०)

यज्ञेश्वरो यज्ञपुमांस्त्वमेव यज्ञप्रियो यज्ञफलप्रदाता ।
इज्या च देवस्त्वमथर्त्विजश्च मन्त्रौषधाद्या अपि दक्षिणा च ॥ (११)

त्वया स नाथेन जगत्त्रयं हि त्वमेव सन्धुक्षयशीतरश्मिन् ।
इति स्म शक्तिं च विधाय तावकीं पुरा निसृष्टोऽहमिहेश्वरेण॥ (१२)

तवेच्छया क्लृप्त समानुषौषधि प्रभूत भूतावन शक्तिविग्रहम्।
परेशितुर्देव नमों प्रजापतिः क्षयं प्रवेष्टेत्य शपत्सुतेरितः॥ (१३)

अहं समाप्यायितुं त्वशक्नुवन् जगच्च विश्वं क्षयसञ्चयात्प्रभो।
क्षयं कुरुष्वाद्य तु शापजन्मनः क्षयस्य देव त्वरितं सदा मम ॥

सुरासुरेशेषु सयक्षमानुषेष्वशेषभूतेषु समस्सदा स्थितः॥ (१४)

अथ प्रभो नाथ महान्महात्मनां निरस्तदोषामलशान्तिसंश्रयः।
न लक्षयेऽहं त्वदृतेऽन्यमक्ष यक्ष यक्षयेदक्ष मधोक्षज प्रभो ॥ (१५)

नमो नमःपङ्कजनाभये नमो नमो नमः पङ्कजलोचनायते।
नमो जगन्मङ्गल दायिने नमो नमोस्तु लक्ष्म्याश्रय चारु वक्षसे॥ (१६)

व्यासः –

इति स्तुतो देव निकाय संवृतः प्रफुल्ल नीलोत्पल चारु दर्शनः।
अथोपनृत्येन्दु सरस्तटं प्रियं जगाद चन्द्रं मधुरं वचो हरिः ॥ (१७)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षट्त्रिंशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–३७

चन्द्रभगवत्संवादः

श्री भगवान् –

त्वया स्तुतोऽहं शीतांशो वद किं ते विवक्षितम् ।
मद्दर्शनात्तव क्षिप्रमिष्टं संवक्ष्यतेतराम्॥ (१)

चन्द्रः –

गुहां प्रविष्टं पुरुषं पुराणं पश्याम्यदृश्यं च तमीशितार्थम् ।
अतः कृतार्थान् सकला मनोरथाः क्षयं गता चार्ति परम्परा च मे॥ (२)

श्री भगवान् –

अपि पातकिनश्चन्द्र मद्दर्शन सुधोक्षिताः।
भवन्त्यतितरां शुद्धाः किं पुनस्त्वं प्रियोऽसि मे॥ (३)

तव क्षयः क्षयं यातु सन्धुक्षय यथा पुरा ।
जगन्मङ्गल सम्भूतिर्भवत्वं नयनोत्सवः॥ (४)

यतस्त्वयास्मिन् सरसि तपस्तप्तं सुदुश्चरम्।
अतश्च त्वत्सनाम स्यात् पुण्यतीर्थाश्रयं सरः ॥ (५)

यथा योषिद्वरा लक्ष्मीः यथा पुंसु परः पुमान् ।
यथा सरिद्वरा गङ्गा तथैव तत्सरोवरम् ॥ (६)

चन्द्रः –

यथेह पश्यामि सु पुष्करेक्षणं तवाननं सुस्मित चारुदर्शनम्।
तथा चिरम्पश्यतु मे मनो महद्विलोचने चापि तथा च पश्यताम्॥ (७)

श्री भगवान् –

अव्यस्तदोषबुद्धीनां निर्मलज्ञान सम्पदाम्।
न गोचरोहं शीतांशो किमुत त्वमथाल्पकः ॥ (८)

चन्द्रः-

वद त्वमेवेश्वर लोकनाथ यथा च पश्यन्त्यनिवारितं जनाः।
अत्यर्थमल्पाल्पविवेकसत्क्रियाः परात्परं त्वां पुरुषं श्रियःपतिम्॥ (९)

श्रीभगवान् –

परोक्ष एव भूतानामन्यत्र वसतां सताम् ।
अहं भवामि प्रत्यक्षो ह्यत्रैव वसतां सताम् ॥ (१०)

सर्वप्रत्यक्षतां यातो विभीषणकृतेऽनिशम्।
अतो निरामया पृथ्वी त्वासीत् कल्याणजृम्भिता॥ (११)

यदा विभीषणः चन्द्र महद्धाम सरस्तटे ।
निधाय स ययौ लङ्कां तदाप्रभृति चन्द्रमः॥ (१२)

तस्मिन् रंस्ये शयानोहं तत्र मां द्रष्टुमर्हसि।
तत्र प्रत्यक्षतां यामि लोकानुग्रहकाम्यया॥ (१३)

एहि पुष्करिणी तीरमिन्दो पर्वणि पर्वणि।
ज्योत्स्नया च तपस्पृष्टं जगत्पूतं भविष्यति॥ (१४)

व्यासः –

इत्युक्त्वान्तर्दधे सद्य स्तत्र देवो जनार्दनः।
सोऽपि पर्वणि तत्तीर्थं सेवते स्म निशाकरः ॥ (१५)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्तत्रिंशोऽध्यायः।

श्रीरङ्गमाहात्म्यम्–३८

कलियुग प्रशंसा

व्यासः-

अथ कालविपर्यासे कृतत्रेतादि सञ्ज्ञिते।
देशश्चायं सरश्चैव शनकैर्यास्यति क्षयम्॥ (१)

तत्र स्थाने भविष्यन्ति भूतान्यन्तर्हितानि च।
दशयोजनविस्तारं स्मृतं पुष्करिणी सरः॥ (२)

कृते तदर्धह्रासश्च त्रेतायां द्वापरे तथा ।
कलिस्तदर्धं ग्रसति ततः प्रतिदिनं भवेत्॥ (३)

यथा यान्ति शनैर्ह्रासं कवेरस्तमुपेयुषः ।
केतवस्तत्सरः काले तदा ह्रासं समेष्यति ॥ (४)

बहुयोजनविस्तारमिदं तीर्थवरं सरः।
स्वल्पं प्रतिदिनं ह्रासात्कलापं ते भविष्यति॥ (५)

सुगन्धमेतदत्यच्छं सरसोऽम्भस्सुशीतलम् ।
दुर्गन्धं सलिलं चैतत्कलावन्ते भविष्यति॥ (६)

यदा स्याद्राजमरणं राज्यनाशः प्रजाक्षयः ।
रक्तं हरितवर्णं स्यात्तदम्भः कृमिदूषितम् ॥ (७)

यदा जनपदक्षोभो राष्ट्रस्य च पुरस्य च ।
तदा सफेनमम्बु स्यात्प्रतप्तं दूषितं मुने ॥ (८)

राजन्यस्य यदाशान्तिस्तदा स्यात् क्षीरसन्निभम्।
स्फटिकाभं तदम्बस्स्याद्यथा शान्ति द्विजन्मनाम् ॥ (९)

यथा तु भूयसुवृष्टिर्भुवि वै सम्भविष्यति।
तदा सरस्सु पूर्णं स्यात् प्रसन्नममलं शुचि॥ (१०)

अनावृष्टिर्यथा लोके सर्वभूतविनाशिनी।
सरस्संशोषमतुलं तदानीं च समेष्यति॥ (११)

निर्मनुष्यो ह्ययं देशस्सर्वावासो भविष्यति।
यद्यत्सरसि लक्ष्येत मुने मङ्गलदर्शनम्॥ (१२)

तत्तत्समृद्धि ये नृणां विपरीतं विपत्तये।
अवेहि देशविस्तारं द्वात्रिंशद्योजनं मुने॥ (१३)

ततः कालविपर्यासे ह्रास स्तस्य भविष्यति।
कलावपि महाबुद्धे सर्वभूतक्षयङ्करे ॥ (१४)

विप्लवस्सर्व धर्माणां सहसैव भविष्यति।
सर्वे पातकिना लोके सर्वे वै वेदनदकाः॥ (१५)

विद्वेषिणो भविष्यन्ति भगवत्यच्युतौ हरौ ।
वैरिणो धर्मवृद्धेषु साधुष्वपि भयङ्कराः॥ (१६)

उच्छिष्टनिरतास्सर्वे सदाचारविवर्जिताः ।
पाषण्डाचारनिरता ह्यसद्धर्मानुवर्तिनः ॥ (१७)

अल्पायुषो भविष्यन्ति भुविमत्र्याः कलौ युगे ।
वेद विद्वेषिणो ये च येच वै धर्मदूषकाः ॥ (१८)

असुरा राक्षसाश्चैव पिशाचा ब्रह्मराक्षसाः।
श्मशान वर्तिनोये च वेदब्राह्मण निन्दकाः॥ (१९)

एतेषामसतां देवः शङ्करो ह्यधिदैवतम्।
प्राकृतानीह भूतानि प्रकृतिस्त्रिगुणात्मिका॥ (२०)

तमः प्रवर्तको रुद्रो राजसस्तु चतुर्मुखः।
सत्वप्रवर्तको विष्णुः तथा सर्वप्रवर्तकः ॥ (२१)

सत्वनिष्टा हि पुरुषाः विष्णुमेव यजन्ति ते ।
ब्रह्माणं राजसास्सर्वे तमोनिष्ठास्तु शूलिनम्॥ (२२)

सत्वं हि सर्वधर्माणां प्रतिष्ठा मुनिसत्तम।
ज्ञानस्य हि प्रतिष्ठा च शाश्वतस्य सुखस्य च ॥ (२३)

लोभस्य हि प्रतिष्ठा च रक्षो मतिमतां वर ।
प्रमादालस्यजनकं दुःखमोह भवं तमः ॥ (२४)

मार्गं स्वोज्जीवनं गत्वा सात्विका यान्ति तत्परम् ।
तमोनिष्ठाह्यधो यान्ति राजसाः कर्मसङ्गतिम्॥ (२५)

कृते च सत्वबाहुल्यं त्रेतायां च तथा मुने।
द्वापरे रजसावृद्धिः कलौ कल्कं भवेत्तमः ॥ (२६)

तमोनिष्ठानि तानिस्स्युस्तद्धि सद्धर्मनाशयुक्।
अतः कलौ युगे प्राप्ते सर्वभूतानि वै मुने॥ (२७)

तमसा पुरुषास्सर्वे सतां धर्म प्रदूषकाः।
तमःप्रवर्तकं रुद्रं तत्स्वभावाद्वजन्ति तम्॥ (२८)

स च शम्भु र्महाबुद्धे जगन्मोह प्रवर्तकः।
जगतां मोहनार्थाय मोहशास्त्रं चकार वै॥ (२९)

तत्कृतं मोहशास्त्रं तत् कलौ सर्वत्र वर्तते ।
सर्वे तद्वर्तिनो लोभधर्मानुसरणान् मुने॥ (३०)

वेदवादान्विनिन्दन्तस्तद्धर्माणि त्यजन्ति हि।
हिंसाक्रूरा दुरात्मानो नृशंसाः पापिनो नराः॥ (३१)

देहायुस्सप्त वै लोकान् शूलिनश्चाव्यपाश्रयाः।
रावणस्तु जगत्सर्वमदहच्छिव सम्मतः॥ (३२)

हिरण्यश्च हिरण्याक्षस्सिंहिका तनयस्तथा ।
बलिर्विलोचन सुतो वाली परमदारुणः॥ (३३)

अन्ये क्रूराश्च ये दैत्याः राक्षसा भृशदारुणाः।
ये ये च भुवि राजानो जरासन्धादयो मुने॥ (३४)

ते वै धर्मं प्रदूष्यन्ति पूजयन्तो ह्युमापतिम्।
कलावपि महाबुद्धे मनुष्याः शङ्करप्रियाः॥ (३५)

आस्थाय मोहशास्त्राणि दूषयेयुश्च सात्विकान्।
सत्वनिष्ठाः प्रहीयन्ते शनैःप्राप्तैः कलौ युगे॥ (३६)

राजसाश्चापि तिष्ठन्ति वर्धन्ते ह्यपि तामसाः ।
ये वै मोहपरांशास्त्रं समास्थाय कलौ युगे ॥ (३७)

साधयन्ति हि कार्याणि तेषां कामान् सुपुष्कलाः ।
वैदिकानां च वैयर्थं यततामपि सुव्रत ॥ (३८)

एवमेव हि सच्छास्त्रं नराणां मोहनं भवेत् ।
निरामयायश्च बलिनो मोहशास्त्रप्रवर्तकाः॥ (३९)

भूतिमन्तस्तस्तेस्युः कालेनोन्मीलिता मुने।
क्षयिष्णुवो हि ते सर्वे कलिकाले क्षयोन्मुखे ॥ (४०)

क्षयप्रवर्तकश्शम्भु र्जगत स्तस्तुषश्च हि।
सर्व भूतक्षयकरे सम्प्राप्ते च कलौ युगे॥ (४१)

परं पुमांसं तं विष्णुं नार्चयन्ति क्षयिष्णवः।
ये हरौ भक्तिनिरताः कलावपि महामते॥ (४२)

ते मोहमाशुचाक्रम्य संशुद्धाः प्राप्नुयुः परम्।
तानि शास्त्राणि सर्वाणि कलौ धर्मविपर्ययात् ॥ (४३)

कलौ धर्मविपर्यासो देवतानां सतामपि।
अनिशमीश्वरं व्यक्तमनन्तं सन्तमित्यपि॥ (४४)

मोहशास्त्रं च सकलमपरं च परं त्विति ।
तत्वं यथार्थं च कृते त्रेतायां तत्तिरोहितम्॥ (४५)

कलौ तु विपरीतं स्यादिति शास्त्रविदां स्थितिः।
शास्त्राण्यपि च सर्वाणि त्रिविधानि महामते ॥ (४६)

यानि सत्वपरं विष्णुं वदन्ति परमेश्वरम्।
तानि शास्त्राणि सर्वाणि सात्विकानि मतानि वै ॥ (४७)

प्रजापतिं कृशानुं च तथा देवीं सरस्वतीम् ।
परत्वेन वदच्छास्त्रं राजसं परिचक्षते॥ (४८)

यच्छास्त्रं लिङ्गमाहात्म्यं परन्दैवमुमापतिम् ।
तमः प्रवर्तकं व्यक्ति तत्तामस मुदाहृतम् ॥ (४९)

स च कालविपर्यासादन्योन्याभिभवो भवेत्।
अभिभूतं भवेच्छास्त्रं सात्विकं तु कलौ युगे॥ (५०)

सात्विकं दैवतं चापि तामसं तु समेधते।
ततस्तु बलवच्छास्त्रं तामसं दैवतं कलौ ॥ (५१)

भवेयुर्बलिनस्सर्वे तद्व्यपाश्रयिणो नराः।
सात्विकेषु तदा बाधां प्रकुर्युस्तामसा जनाः॥ (५२)

तमोनिष्ठं जगत्कृत्वा सञ्जिघृक्षुः परःपुमान्।
शनैस्सर्वाणि भूतानि भगवान्त्समुपेक्षते॥ (५३)

उपेक्षिते च जगति विधात्रा परमेष्ठिना ।
सात्वकानामभिभवस्ततः प्रतिदिनं भवेत् ॥ (५४)

एतत्सर्वं हि कालुष्यं कलिकालकृतं भुवि ।
तत्कालकृत मेवाऽत्र न स्पृशत्यपि जातुचित्॥ (५५)

विभीषणकृते देवः शयानो रङ्गधामनि।
इमं पुण्यतमं देशं न जातुचिदुपेक्षते॥ (५६)

कलेरपि कलित्वं हि परोपेक्षाकृतं मुने।
जगज्जन्मलयत्राणलीलस्य परमात्मनः॥ (५७)

यदेष्टा संहृतिस्तस्य तदानीं स कलिर्भवेत् ।
सर्वदा भगवान् रङ्गी ह्यस्मिन् देशे च न स्पृहाः॥

तत्प्रीतये सरिच्छेयं देशश्चायमनाकुलः ॥ (५८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टत्रिंशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–३९

श्रीरङ्गदेशस्य कदाचित् दुर्भिक्ष प्राप्तिकथनं

व्यासः –

अस्मिन्देशे महाबुद्धे पुण्यतीर्थशुभाश्रये।
शृणुष्व त्वं पुरावृत्तमाख्यानं मुनिभिः श्रुतम्॥ (१)

कदाचिद्दोषसङ्गत्या पुरामतिमतां वर ।
अनावृष्टिरभूद् भूम्यां द्वादशाब्दोपलक्षिता॥ (२)

अनावृष्ट्या तया ब्रह्मन् प्रणष्टमभवज्जगत्।
नृपापराधाद्धरणी केशवेनाप्युपेक्षिता॥ (३)

पृथिव्यां यानि भूतानि चराणि स्थावराणि च।
जलक्षया त्प्रणष्टानि प्रदग्धानि महामते॥ (४)

निरूदकानिर्मनुष्यास्सिकता पूरितां तराः।
भुव्यासन्प्रथिता नद्यो मृत्युः खेलनभूमयः ॥ (५)

तस्मिन् काले तु कावेरी स तोया समदृश्यत ।
ऋषयश्च तपस्सिद्धाः भेजिरे सरसिस्तटम् ॥ (६)

इयं सरिच्च भूतानां तदासीच्छरणं परम् ।
प्रतप्तेऽपि जगत्यस्मिंस्तया वै ब्रह्महत्यया ॥ (७)

सुपुष्पमभवत्तीरं तेजसा रङ्गशायिनः।
ततस्सर्वे मुनिगणाः ब्रह्मणः ब्रह्मचारिणः॥ (८)

तापाग्निदग्धा मर्त्याश्च कावेरीमधिशिश्रिरे।
इयं पुण्यनदी ब्रह्मन्निस्तोया शनकैरभूत्॥ (९)

सती सर्वस्य जगतश्शरण्यात्वातुरस्य हि।
नदीमल्पजलां दृष्ट्वा भूतेशा वृष्टि सङ्क्षयात् ॥ (१०)

मेघपङ्कीमुपारुह्य बिभुदुस्ते घनोदरम्।
ततो भूरि प्रसुस्राव जलं तद्विमलं भुवि ॥ (११)

अक्षमात्राश्च धारास्ता स्समपद्यन्त सर्वशः।
ततः पूर्णजला ब्रह्मन्! तदासीत्तत्क्षणान्नदी॥ (१२)

प्रजास्तदम्भसः पानाज्जीवन्ति स्म क्षयं गताः।
अथ काले गते तस्मिन् यदनावृष्टिकारणम् ॥ (१३)

नृपस्य ब्रह्महत्या सा पिशाची तत्पपौ जलम् ।
क्षणेन निर्जला तेन कावेरी सा बभूव है॥ (१४)

पतत्यपि जलौघे स्यां नद्यां मेघोदराद्भृशम्।
अथाम्भसः क्षयं दृष्ट्वा रक्षिणस्सहसोत्थिताः॥ (१५)

निपीय जलसर्वस्वंव्यात्तास्यां ज्वलनप्रभाम्।
नदीमावृत्य वक्रेण प्रेक्षन्तीं तज्जलागमम्॥ (१६)

ब्रह्मघ्नां ददृशुस्तत्र संस्थितां देशरक्षिणः ।
तद्वत्रकुहरं गत्वा जलौघं ज्वलनप्रभम्॥ (१७)

दृष्ट्वा नष्टं जलं पीतं व्यस्मयं तत्र रक्षिणः ।
अथासौ विष्णुभूतेशान् भृकुटी कुटिलाननान्॥ (१८)

ब्रह्महत्या महाबुद्धे दृष्ट्वा गन्तुमियेष ह।
दृष्ट्वा जिगमिमं ते हि विष्णुभूतेश्वरेश्वराः॥ (१९)

द्रुतं प्रदुद्रुवुस्सर्वे तां गृहीतुममर्षिणः।
ब्रह्महत्या तु तान् दृष्ट्वा भयात्तेभ्यः प्रदुद्रुवे॥ (२०)

तां च प्रोचुर्महात्मानः का त्वं का त्वमिति स्फुटम्।
अहं पापमहं पापमित्युक्त्वा सा द्रुतं ययौ ॥ (२१)

पुनश्चोवाच तान् दृष्ट्वा न च मां हन्तुमर्हथ ।
अहं राज्ञस्समुत्पन्ना ब्रह्महत्या क्षयात्मिका ॥ (२२)

पापानां ज्यायसी चाऽहं न हि कैश्चन्निराकृता ।
श्रूयतां मम चोत्पातैः कारणं कमलेक्षणाः॥ (२३)

अस्य देशस्य यो राजा सोमको नाम नामतः ।
स चाप्यन्यापराधेन तथान्यं ब्राह्मणं परम्॥ (२४)

विनीतं श्रोत्रियं मौढ्याद्धत्तवान् स नृपाधमः ।
मन्त्रिणोऽस्य तथा चान्ये ये च तत्पुरवासिनः॥ (२५)

तद्राष्ट्रवासिनो ये च ये जहिर्विषया जनाः।
तेषां तु द्वित्रपुरुषा नियच्छन्ति स्वकं नृपम्॥ (२६)

समक्षं कुर्वतः पापं न नियच्छन्ति यो जनाः।
यथा बलं च तत्पापे त्वंशभाजो भवन्ति ते ॥ (२७)

तथायं सकलो देशः तस्य पापेन दूषितः ।
तत्कृतेयमनावृष्टिरन्याश्चैवापदो भुवि॥ (२८)

स निष्कृतिः कृताराज्ञा तस्य पापस्य कर्मणः।
तन्मया दूषितं सर्वं जगत् स्थावर जङ्गमम्॥ (२९)

उपयुक्तं मया तावदुदकं जगतीतले ।
नष्टप्रायमभूत्तस्माद्विश्वमेच्चराचरम्॥ (३०)

के यूयमागताः क्रूराः कथं मां हन्तुमुद्यताः।
न शक्या हन्तुमीशानै रपि युष्माभिरेव वा॥

इत्युक्त्वा सा प्रदुद्राव ते चाप्येनामथोचिरे ॥ (३१)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये नवत्रिंशोऽध्यायः


श्रीरङ्गमाहात्म्यम्–४०

भूतेश्वर ब्रह्महत्या संवादः

भूतेश्वराः –

लोकसामान्यदृष्ट्या तु त्वया पापं चिकीर्षितम्।
जीवितस्य विनाशः स्यान्नेह चामुत्र च स्थितः॥ (१)

शृणु दीर्घाह्वयं देशो विष्णुभूतैस्सुरक्षितः।
सर्व तीर्थमया पुण्या दिव्या चेयं सरिद्वरा॥ (२)

रङ्गाभ्यर्णगता शश्वत् स्मृतमात्राऽघ नाशिनी ।
पापिनोऽपि नदी तोयं स्पृशन्तश्शुद्धिमाप्नुयुः ॥ (३)

जगत्योप्यम्भसः पानात्त्वत्तो मुक्तिर्भविष्यति।
पुनन्ति सर्वपापानि तदम्भांसि विशेषतः॥ (४)

तस्मादपः सरः क्षिप्रं विमुच्य सकलं जलम् ।
अन्यथा चेद्धनिष्यामो वयं त्वां क्रूरदर्शने॥

व्यासः –

इत्युक्ता ब्रह्महत्या सा सद्यो नाशं जगाम ह ॥ (५)

अथ ते विष्णु भूतेशाः स्वं स्वं निलय माययुः।
ततो वृष्टिर्महत्यासी द्धरण्यां वै महामते ॥ (६)

विजह्रुश्च प्रजा स्सर्वा स्सर्वत्र ह्येन सः क्षयात्।
इति ब्रह्मन् पुरा वृत्तं विष्णुभूतेश्वरेश्वरैः॥ (७)

अस्मिन् पुण्यसमुद्देशे मुने! पुण्यसमाश्रये।
एतत्पुण्यं समाख्यानं सर्वपापक्षयङ्करम्॥

श्रुत्वा विभूतिमान् मत्र्यो भुविस्वर्गे महीयते ॥ (८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चत्वारिंशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–४१

व्यासः-

अन्यच्च शृणु देवर्षे पुण्यं श्रुतिमनोहरम्।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते भुवि मानवाः ॥ (१)

कश्चित्प्रमत्तो गन्धर्वो गायन्ननुचरैस्समम्।
व्योम्नि तं त्वनुगायद्भिर्गन्धर्वैरनुयायिभिः॥ (२)

छायामयं महद्धाम व्यतिचक्राम साहसात् ।
ज्ञात्वाऽनुयायिनो धाम्नश्चायां न व्यतिचक्रमुः॥ (३)

न लङ्घनीया तच्छाया कैश्चिदित्यभि मेनिरे।
सोऽपि मौढ्याश्च गन्धर्वस्तच्छाया लङ्घनं व्यदात् ॥ (४)

छायानिरुद्धगतयः तेऽप्यतिष्ठन्त वर्त्मनि ।
तं गृहीत्वाथ गन्धर्वं विष्णुपारिषदेश्वराः॥ (५)

चिक्षुपुर्बलवन्तस्ते पश्यतामनुयायिनाम्।
निपपात बहिद्र्यीपे गन्धर्वस्सहसा मुने॥ (६)

यथा राघवबाणेन मारीचः क्षणदाचरः ।
अथ तेऽप्यनुगन्तारो गन्धर्वमनुदुद्रुवुः॥ (७)

गन्धर्वो यत्र पतितो निश्चेष्टस्समपद्यत ।
अब्रवीत्सोऽपि तां दृष्ट्वा केनेदं केन केन च॥ (८)

इत्युक्तास्तेऽपि गन्धर्वास्तमूचुस्तद्व्यतिक्रमम्।
त्वयाप्रमत्तेन पुरा रङ्गाभ्याशमुपेयुषा ॥ (९)

तस्य च्छायामयं रूपं लङ्घितं तत्फलं त्विदम् ।
सोऽपि तेषां वचश्श्रुत्वा गन्धर्वस्त्रस्तमानसः॥ (१०)

अचिन्तयित्वा तत्सर्वं गन्तुमैच्छत्सहानुगैः।
न शशाक पदङ्कर्तुं व्योम्निमर्त्यो यथातुरः॥ (११)

भृशार्तस्त्वं गन्धर्वस्तत्रोच्चैर्विललाप ह।
मया मूर्खेण तन्मौर्त्योन्मौढान्मूढेन तत्कृताम्॥ (१२)

केनोपायेन पापस्य विधास्याम्यन्यनिष्कृतिम्।
यूयं वदत भद्रं वः केनास्मि पततो बहिः॥ (१३)

देवैर्वा मानुषैर्वापि किमन्यैः नष्टजीवितैः ।
सहव्रजं तु युष्माभिर्यैश्चाहं पातितो भुवि॥ (१४)

तानहं शक्रकोपाग्नौ हुत्वा तत्फलयोगतः।
यथा पूर्वं भविष्यामि पतिर्वः पतितो ह्यहम्॥ (१५)

अनिरुद्धा हि युष्माकं यथापूर्वं वियद्गतिः ।
ममैवेह्यनिरुद्धा सा किमेतद्वदता खिलम् ॥ (१६)

किञ्च यूयं न पतितास्तत्र मे शङ्कितं मनः ।
युष्माकं मम गन्धर्वास्तभ्याशगतिस्समा ॥ (१७)

महान् हि पक्षपातोऽत्र पतितः पतने मम ।
असमञ्जसमेवैतत्कथं केन तदुच्यताम्॥ (१८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकचत्वारिंशोऽध्यायः।

श्रीरङ्गमाहात्म्यम्–४२

विमानोल्लङ्घन पतित चित्रसेनस्य धुर्जटी प्रत्यक्षं

व्यासः-

गन्धर्वस्य वचः शृत्वा क्रुद्धस्य पतितस्य च ।
प्रोचुस्तमितरे सर्वे गन्धर्वा वियति स्थिताः ॥ (१)

गन्धर्वाः-

मा वादीर्मा च मामायं न केषाञ्चिद्व्यतिक्रमः।
नाऽन्यस्यकृतिरन्येषां स्वकृतं स्वेन भुज्यते ॥ (२)

देवमानुष पश्वादिष्वखिलेष्वेव जन्तुषु ।
परस्परस्य वैषम्यं स्वकृतेनेति तच्छ्रुतम्॥ (३)

त्वं तां मोहात्तु गन्धर्वच्छायां लङ्घितवानपि।
अस्माभिर्महिता धाम्नस्सेतिमत्वा न लङ्घिता॥ (४)

तन्निरुद्धा गतिर् व्योम्नि ततोऽस्माकमनाहता।
न कार्यमत्र गन्धर्व मनस्ते क्रोधदूषितम् ॥ (५)

विधाय निष्कृतिं तस्य शश्वत्प्रीतो भविष्यति।
अथ प्रयामो गन्धर्वा वयं शक्रान्तिकं प्रभो ॥ (६)

तान् वै वयं न जानीमो यैस्ते प्रपतनं कृतम् ।
नाकुर्वतस्तु भवतस्तस्य पापस्य निष्कृतिम्॥ (७)

वैहायसी गतिश्शक्या सुगतिर्दुष्कृतामिव।
यथागतं प्रयामोऽद्य सततं भद्रमस्तु ते ॥ (८)

वयं निवेदयिष्यामश्शक्राय तव चेष्टितम् ।
भूतानि पृच्छ गन्धर्व युष्मत्पतन कारणम्॥ (९)

आकाशादीनि सर्वत्र साक्षित्वेन स्थितानि वै ।
महान् हि विप्रकर्षोयं गन्धर्व पततस्तव॥ (१०)

अद्रिद्वीपसमुद्राश्च सप्त सप्त च सप्त च।
तस्य देशस्य गन्धर्व यत्र तेऽभूद्व्यतिक्रमः॥ (११)

तवपद्भ्यामशक्यं हि गन्तुं वर्षशतैरपि।
समुद्राद्या दुष्प्रवेशास्तवचाभ्यन्तरे स्थिताः॥ (१२)

तस्मादत्रैव वसता भवता यदि निष्कृतिः।
विहिता तव तत्सर्वं सुखं दुःखं भविष्यति॥ (१३)

व्यासः –

इत्युक्त्वा प्रययौ शीघ्रं गन्धर्वास्ते यथागतम्।
चित्रसेनः प्रपतितःविलप्य करुणं बहु॥ (१४)

भ्रष्टो नष्टगतिः क्षीणः कृत्यानि विममर्श वै।
महार्णवाभ्यार्णगतस्तत्र स्तुष्टाव शङ्करम् ॥ (१५)

तन्मनाः प्रयतो भूत्वा गन्धर्वः करुणं मुने।
चित्रसेनस्य सन्तुष्टस्सन्निधत्ते स्म धुर्जटीः॥ (१६)

प्रसादाभिमुखो देवः करुणं तं विलोक्य च।
किं किमित्यब्रवी द्देवो वदय त्ते विवक्षितम् ॥ (१७)

तस्य तद्वचनं श्रुत्वा गन्धर्वो मुनिसत्तम ।
प्रणम्योत्थाय सकलं सोब्रवीत्स्वं व्यतिक्रमम् ॥ (१८)

पिनाकी तद्वचश्श्रृत्वा ततः पतन हेतुकम्।
चिन्तयामास किं कृत्वा कथमेतद्भविष्यति॥ (१९)

स्तोतुः प्रसन्नो भगवान् त्रिनेत्रः त्रिपुरान्तकः।
प्रेषयामास भूतेशां च्छतशोथ सहस्रशः॥ (२०)

माहेश्वराणि भूतानि स्कन्देन सह निर्ययुः।
यत्र प्रतिष्ठितं धाम श्रीमद्रङ्गमिति श्रुतम् ॥ (२१)

तदभ्याशं समागत्य पपुस्तत्सरितो जलम् ।
प्लवमानानि पुष्पाणि लम्बितान्यभवंस्तटे॥ (२२)

जृम्भितानि च तत्रासन् पुलिनान्यम्भसः क्षयात् ।
पूर्वं पूर्णोदकं दृष्ट्वा सद्यस्स्वल्पजलां नदीम्॥ (२३)

रक्षिणो हि महाप्राज्ञा व्यचरन् सरितस्तटम् ।
पिबतां च पिशाचानां रौद्राणां तन्नदीजलम् ॥ (२४)

उद्बभूव महान्घोषो दिशश्च प्रति नादयन्।
समुद्धतध्वनीं श्रुत्वा रक्षिण स्तत्र नित्यशः॥ (२५)

तान् दृष्ट्वा पिबतो रौद्रान् निजघ्नुस्तत्र सङ्गताः।
अथ स्कन्दः प्रदुद्राव तान् समादाय पीडितः॥ (२६)

भयार्तानि च भूतानि पीडितानि च रक्षिभिः।
विप्रद्रुतानि सर्वाणि ददृशे तान् उमापतिः॥ (२७)

किं किमेतददिति ह्यूचे केनेदं प्रद्रुतं बलम् ।
इति वै मन्यमानस्य तस्य रुद्रस्य चान्तिकम्॥ (२८)

समेत्य प्रणतस्कन्दस्तत्र वृत्तमथोचिवान् ।
विष्णुभूतेश्वर कृतं श्रुत्वा तत्र जगाद वै॥ (२९)

शिवश्शिवमथो वाक्यं भूतानामपि शृण्वताम्।
न जातु बलिभिस्सार्धं विरोधः कार्य एव हि ॥

चित्रसेनत्वमन्यत्र याहि त्युक्त्वाप्युपारमत् ॥ (३०)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्विचत्वारिंशोऽध्यायः


श्रीरङ्गमाहात्म्यम्–४३

देवैर्विष्णुभूतेश्वर युद्ध वर्णनं

व्यासः-

अथ शक्र स्वकं मित्रं चित्रसेनं तथागतम् ।
शृत्वा चुक्रोध सुभृशं स्फुरिताधरपल्लवः॥ (१)

सहसा निर्ययौ तस्मात् वज्रिदेवगणैर्वृतः।
स्वान्यायुधानि विबुधाः क्षिप्रं जगृहिरे तदा ॥ (२)

स्वं स्वं यानमुपारुह्य लोकपालाश्च निर्ययुः।
बृन्दारकगणो व्योम्नि हेतिभिर्दारुणो बभौ ॥ (३)

घनाब्रपटलं विद्युत्पिनद्धमिव जृम्भितम् ।
तथो ध्वनिसमुत्तस्थौ दिशश्चोप्याकुली कृताः॥ (४)

वियति प्रस्फुरन्ति स्म ह्यायुधानि समन्ततः।
यथा जलदसन्नद्धे व्योम्नि विद्युत्परिभ्रमः॥ (५)

प्रववौ परुषो वायुस्तपणस्तपति स्म ह।
सञ्चादयन्प्रजज्वाल ज्वलनो ज्वालयादिशः॥ (६)

वलाहका व्याकुलाश्च प्रवर्षन्ति स्म शोणितम्।
ददृशु र्विष्णुभूतेशा स्सुरसङ्गावृतं नभः॥ (७)

किमेतदिति मन्वानास्तस्थुस्सर्वे महाबलाः ।
अथ चण्डानिलस्तत्र सुरेन्द्र प्रेषितो ववौ ॥ (८)

यत्र व्यतिक्रमात्सद्यो गन्धर्वः पतितो भुवि ।
उत्थितो वैष्णवो वायुः तं वायुं ग्रसति स्म ह ॥ (९)

ज्वालामालावृतो देवो वैष्णवो हव्यवासयम्।
स्व तेजसा समाहृत्यदहं स्तस्थौ दिशो दश ॥ (१०)

अथ रुद्रास्तथादित्यास्साध्याश्चान्ये मरुद्गणाः।
लोकपालाश्च गन्धर्वाश्शतशोऽथ सहस्रशः॥ (११)

स्वान्यायुधानि सङ्गृह्य सन्निपेतुस्समन्ततः।
ततः कुमुदनामादौ विष्णुभूतेश्वरो वरः॥ (१२)

दृष्ट्वा देवगणान् क्रुद्धः किङ्करान्व्यादिदेश ह।
समुत्पत्य सुरान्सर्वान् निजघ्नुर्विष्णुकिङ्कराः॥ (१३)

हन्यमानस्सुरास्सर्वे दुद्रुवुस्ते दिशो दश।
वज्री हतबलो वज्रमुत्सृष्टुमुपचक्रमे॥ (१४)

हाहाकारेण सकलं व्याकुलं त्वभवन्नभः ।
अथोत्ससर्ज तद्वज्रं विष्णुभूतेषु वज्रभृत् ॥ (१५)

निर्ययौ सहसा वज्रं विष्णुचक्रमिवापरम्।
तत्करेणैव जग्राह कुमुदस्तस्य पश्यतः ॥ (१६)

व्याजृम्भत महान्घोषस्ततो दिशि दिशि द्विज।
हृतवज्रो हृतबलो व्रीलितस्तु सुरेश्वरः॥ (१७)

दर्शयन्पश्चिमं भागं पलायनपरो भवत्।
रुद्राः प्रदुद्रुवुस्सर्वे नष्टशूला हत त्विषः ॥ (१८)

आदित्यावसवश्चैव सर्वे ते नष्टचेतनाः ।
पलायनपरं दृष्ट्वा सुरेशं विष्णुकिङ्कराः॥ (१९)

जिहुसुर्बहुशस्तूच्छैस्तिष्ठ तिष्ठेति चाब्रुवन्।
तूष्णिं प्रदुद्रुवे शक्रो नोचे किञ्चित्प्रपीडितः॥ (२०)

न न्यवर्तन्त भूतेशाः प्रहरन्तस्ततस्सुरान्।
अत्र कोलाहलं वृत्तं सुराणां रक्षिणामपि॥ (२१)

स व्रजग्मुर्महात्मानो रङ्गाभ्यर्णगता मुने।
व्योम्नि वा भुवि वा तत्र विशेषेणोपलक्षितः॥ (२२)

सर्वस्य जगतामीशे परस्मिन्पुरुषे हरौ ।
किमेतदद्भुतं ब्रह्मन् शयाने रङ्गधामनि॥ (२३)

स हि सर्वस्य जगतः कर्ता पालयितान्तकः।
ईश्वरः परमात्मायं नात्र चित्रं मनागपि॥ (२४)

अनुकूलां विधायात्र नदीं तस्यास्तटे प्रिये ।
आत्मेश्वरो रङ्गधामा स शेते रङ्गधामनि॥ (२५)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रिचत्वारिंशोऽध्यायः।

श्रीरङ्गमाहात्म्यम्–४४

तेषां युद्धकाले ब्रह्मागमन वर्णनम्


व्यासः –

हृतवज्रमथो दृष्ट्वा सुरेशं कमलासनः।
समागत्याब्रवीदिन्द्रं कथं केन कुतस्त्विति ॥ (१)

शक्रः-

कथमेतद्वदां यत्र कृतं कमलसम्भव।
हृतवज्रो हृतश्रीको हन्यश्चासं जगत्त्रये ॥ (२)

ब्रह्मा –

अविमृश्य कथं शक्र बलवद्विग्रहः कृतः ।
बलिनो विष्णुभूतेशाः मृत्योरपि च मृत्यवः॥ (३)

विजानत त्वया सर्वं कथं तेषु प्रयोजितम्।
तावकं वज्रमस्त्रं वै मामकं यदुमापतेः॥ (४)

यच्चान्यन्मोघमेव स्यात्सर्वं तेषु प्रयोजितम्।
कालचक्रं हरेश्चक्रमपि तस्मान्निवर्तते ॥ (५)

एवं शक्रबलं तेषां किङ्कारणां महात्मनाम् ।
बलिभिर्विष्णुभूतेशैः कथं ते विग्रहः कृतः॥ (६)

व्यासः-

पितामह वचः श्रुत्वा शक्रस्तु व्यधितो भृशम् ।
नोवाच किञ्चिद्वचनं तूष्णिमासीच्छतक्रतुः॥ (७)

चित्रसेनस्य पतनं प्रब्रूतेति स्वयं भुवे ।
विलोचनाभ्यां गन्धर्वान् व्यादिदेश शतक्रतुः ॥ (८)

अथ गन्धर्वपतनं चित्रसेनोऽनुयायिनः।
ऊचुः प्राञ्जलयस्सर्वे समक्षं ब्रह्मणो मुने॥ (९)

गन्धर्वाः-

शृण्वन्तु नो वचस्तावद्भगवन्तो यथा तथम्।
चित्रसेन इति ख्यातः सुरेशस्य प्रियस्सखा॥ (१०)

गन्धर्वस्स परोऽस्माकं वयं तदनुसारिणः ।
स तु तावत्सहस्माभिः पपौ पानं मुदायुतः॥ (११)

प्रमत्तो मधुरं गायन्वियति स्खलितं व्रजन् ।
छायामयं रङ्गधाम्नः व्यतिचक्राम साहसात् ॥ (१२)

अलङ्घनीया तच्छाया जनैस्सर्वैः कथञ्चन।
इति जानद्भिरस्माभिः तत्पापं न कृतं प्रभो॥ (१३)

अज्ञानादथवा ज्ञानात्तच्छाया तेन लङ्घिता।
तस्य व्यतिक्रमं दृष्ट्वा विष्णुभूतेश्वरेश्वराः॥ (१४)

तं गृहीत्वा तु सम्पीड्य प्राक्षिपन् भुव्यधो मुखम् ।
सोऽपि नष्टगतिर्नष्टो निपपात ततो बहिः ॥ (१५)

पतितश्चित्रसेनस्तु पूजयामास शङ्करम् ।
सोऽपि प्रसन्नो भगवान् गन्धर्वायाऽभयं ददौ ॥ (१६)

शक्रः प्रपतनं श्रुत्वा सख्युस्तस्य प्रियस्य च।
तेषूत्ससर्ज वज्रं च यैस्तस्य पतनं कृतम्॥ (१७)

प्रवरः किङ्कराणां तु कुमुदो नाम विश्रुतः ।
वज्रं वज्रभृतोत्सृष्टं जगृहे तत्करेण सः॥ (१८)

पलायनपरं दृष्ट्वा हृतवज्रं शतक्रतुम्।
कुमुदः प्रददौ तस्मै वज्रं तस्य च वज्रिणे॥ (१९)

व्यासः –

इत्येवं ब्रुवतां तेषां गन्धर्वाणां च धुर्जटीः।
पूजितश्चित्रसेनेन प्रययौ ब्रह्मणान्तिकम्॥ (२०)

अथागतं हरं दृष्ट्वा ब्रह्म प्रोवाच सादरम्।
कुतस्त्वं क्व च ते कामो विपक्षा कथमित्यपि॥ (२१)

श्रुत्वा विरिञ्च वचनं भगवान् स वृषध्वजः।
तत स्तस्मादकथयद्गन्धर्वस्य व्यतिक्रमम्॥ (२२)

स्वस्य प्रयत्नवैयर्थं प्रयत्नोन्मथनं च यत्।
शङ्करस्य वचश्श्रुत्वा ततः कमलसम्भवः ॥ (२३)

विमृश्यतानथाभाष्य जगाद प्रथितं वचः।
महानतिक्रमस्तावत् गन्धर्वेण कृतः खलु ॥ (२४)

महानतिक्रमस्तावत् गन्धर्वेण कृतः खलु ।
न शूलिना सुष्ठुकृतं तत्र कार्यं न जानता॥ (२५)

तिष्ठत्वयं सुरपतिस्सदा हसितविक्रमः।
श्रूयतां मद्वचस्तथ्यं यदत्र प्रतिभातिमा॥ (२६)

एवं नाम जनस्सर्वः स्वं स्वं भाग्यमुपाश्नुते।
शुभं कृत्वा शुभं भुङ्क्ते पापं कृत्वाऽशुभं फलम्॥ (२७)

शुभाशुभात्मकं कर्म सर्वभूतप्रवर्तकम्।
नियोजयति भूतानि तत्र तत्र परः पुमान् ॥ (२८)

हृच्छयस्सर्व भूतानां सर्वं वेदशुभाशुभम्।
न तं विना क्वचित्किञ्चित्कदाचिदपि चेष्टिते॥ (२९)

नाथश्शक्तश्च भूतानां विधिरेष प्रवर्तकः ।
न शक्यमन्यथा कर्तुं विधे र्वृत्तं च कैश्चन॥ (३०)

वेदा देवोखिलो धर्मान् वेद एव परायणम्।
वेद एव च भूतानि प्रतितिष्ठन्ति शाश्वतम्॥ (३१)

वेदाधीनमिदं नो चे द्विनश्येयु रिमाःप्रजाः ।
वेदैक निलयास्सन्तो वेदवेद्यः परःपुमान्॥ (३२)

तद्धर्मानुस्मृतिर्येषां तेषां कामास्सुपुष्कलाः।
वेदव्यतिक्रमोयेषां तेनैव निरयगामिनः ॥ (३३)

एष एवादि सङ्कल्पो विधातुः परमस्य हि ।
महान्व्यतिक्रमस्तेन गन्धर्वेण कृतः खिल॥

येन प्रव्रजताज्ञानाद्दिव्यच्छायोपमर्दिता ॥ (३४)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुश्चत्वारिंशोऽध्यायः।

श्रीरङ्गमाहात्म्यम्–४५

विमानच्छायाति लङ्घने प्रत्यवाय कथनं

व्यासः –

पद्मोद्भववचश्श्रुत्वा धर्मार्थसहितं हितम् ।
शृण्वतश्शङ्करस्यैव वज्री पप्रच्छ सादरम् ॥ (१)

इन्द्रः –

ब्रह्मन्नाचक्ष्व तत्सर्वं दिव्यच्छाया व्यतिक्रमम्।
नराणां कुर्वतां पापं यच्च याताच्छ निष्कृतिः ॥ (२)

ब्रह्मा –

स्वयं प्रतिष्ठितं दिव्यं तथा सिद्धप्रतिष्ठितम् ।
पौरुषं चेति त्रिविधां प्रतिष्ठां ब्रह्मणा विदुः ॥ (३)

तत्सन्निधानवैशेष्यात्पूर्वं पूर्वं च पूजितम्।
कुशलाकुशलं कर्म कुर्वतां तत्र तत्र च ॥ (४)

वैषम्यात्फलसम्बन्धः परप्रत्यक्षभेदतः ।
छाया तु सर्वभूतानां द्वेधा तावदवस्थिता ॥ (५)

उपच्छाया प्रभेदेन न साक्षीणेह दृश्यते ।
आयुःपरिक्षये प्राप्ते स्वस्य च्छाया परिक्षयः॥ (६)

अव्याहतश्च भवति तथा सर्वत्र दृश्यते ।
अत्यन्तकाल सङ्गत्या स्वच्छायाखण्डिता भवेत् ॥ (७)

न दृश्यते ह्युपच्छाया नराणां कालसङ्क्षये।
उपच्छाया तथाच्छाया स्वस्थस्यैव हि दृश्यते ॥ (८)

ज्येष्ठकानिष्ठ्यतो भेदं सर्वत्रैवाऽवधारय ।
न लङ्घनीया ज्येष्ठस्य छायापद्भ्यां कनीयसा ॥ (९)

गुरूणां न तु शिष्येण पित्रापुत्रेण न क्वचित् ।
यदि कुर्यात्स गुर्वादीन् पद्भ्यामाक्रम्य गच्छति॥ (१०)

यस्तिष्ठति गुरूणां च समक्षमकृताञ्जलिः ।
समदृष्ट्या तदाज्ञाना त्स सद्यो निरयं व्रजेत् ॥ (११)

आसनं शयनं वान्यत्तदीयं यच्चकल्पितम्।
आक्रामन्ति पदातद्येते नरा यान्त्यधोगतिम् ॥ (१२)

भूतिकामो नरस्तावत्तत्तच्छायां न लङ्घयेत् ।
सात्वतः परमो धर्मो धर्माणां च शतक्रतो ॥ (१३)

तमास्थाय प्रवर्तन्ते ये नरास्सात्वत प्रियाः ।
त एव सर्वलोकानां गुरवः परमामताः ॥ (१४)

चेतसा क्रियया वाचा परमे पुंसि संश्रिताः ।
तेषु मर्त्यश्च यः कुर्यात्पद्भ्यां छायापमर्धनम्॥ (१५)

न निष्कृतिस्स्मृता तस्य वैष्णवानां नतिं विना।
सन्निधत्ते सदा शक्र तेषु सत्सु परः पुमान् ॥ (१६)

अथ ये वैष्णवीं छायां लङ्घयेयुरबुद्धयः ।
नष्टात्मनश्च ते शक्र जायन्ते क्रिमि यो भुवि ॥ (१७)

पङ्गवः पादहीनाश्च कुष्ठिनो भुवि यो नराः।
विष्णुच्छाया द्रुवन्तैश्च लङ्घिताया च्छतक्रतो ॥ (१८)

तथा तु भगवद्धाम्नः च्छायामाक्रमते च यः।
धरण्यां जायते पङ्गुस्सद्यो रोगादि पीडितः ॥ (१९)

तत्प्रदक्षिणमाकाङ्क्षन् पुरुषस्तु शचीपते ।
त्रिधा कृत्वा च तच्छायां पूर्वभागेन स व्रजेत् ॥ (२०)

प्रदक्षिणविधावेव विधिरेष न चान्यथा।
अवमत्य च ये यान्ति भगवत्कीर्तनं नराः ॥ (२१)

नाधिक्यमुपयान्त्याशु ते वै जन्मनि जन्मनि ।
पश्यन्तो भगवद्वन्धं धाम वा तत्परिच्छदम्॥ (२२)

अकृत्वा तत्प्रणामादि यो यान्ति पुरुषाधमाः ।
जात्यन्धास्ते च जायन्ते ह्यङ्गहीनाः परिग्रहः ॥ (२३)

अभ्येत्य भगवद्धाम योगच्छेत्सव्यतो नरः ।
क्षीणपुण्यश्च यो नष्टस्स वै यात्यधमां गतिम् ॥ (२४)

तत्प्रदक्षिणमार्गेण व्रजेत्सर्वत्र सर्वदा।
कृच्छ्रेऽपि नान्यथा यायादेकान्ती सत्यसंस्थितः॥ (२५)

अद्वारेण प्रवेशस्तु भगवद्धाम्नि वृत्रहम्।
नराणां सर्वधर्माणां हानं च कुरुते भृशम्॥ (२६)

एवं सामान्यकल्पोऽयं मयोक्ताद्य शतक्रतो ।
दिव्य मानुष सिद्धेषु भूम्यामायतनेषु च ।
द्विगुणः फलसम्बन्धः पूर्वस्मादुत्तरत्र च ॥ (२७)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चचत्वारिंशोऽध्यायः

श्रीरङ्गमाहात्म्यम् ४६

तल्लङ्घने ब्रह्मोक्त दोषपरिहार क्रमः

ब्रह्मा –

शृणु दिव्यं महद्धाम श्रीरङ्गमिति शब्दितम् ।
महता तपसा लब्धमिदं शक्र मया पुरा ॥ (१)

एतद्धि मनवे दत्तं तस्मादिक्ष्वाकुराप्तवान्।
तथश्चैतत्क्रमाल्लब्धं राघवेण महात्मना ॥ (२)

ददौ विभीषणायासौ प्रियाय प्रियकारिणे ।
सोऽपि गच्छन्स्वकं देशमवतार्य नदीतटे ॥ (३)

विमानवरमप्यत्र पूजयामास राक्षसः ।
तदुद्धर्तुमनायत्नमकरोद्बलवानपि ॥ (४)

न शशाकमनागस्मादेतच्चालयितुं तदा ।
अथापतद्धरण्यां वै विललाप च दुःखितः॥ (५)

आर्तं विभीषणं दृष्ट्वा विलपन्तमनाधवत् ।
उवाच भगवान्रङ्गी स्वरेण महता तदा ॥ (६)

रङ्गी –

आश्चर्यो धर्मदेशोऽयं रमणीयो महामतः ।
प्रसन्नोदवहो चेयं नदी प्रियसखी मता ॥ (७)

अस्मिन्नेव शयानोऽहं रंस्ये त्वामभिलक्षयन्।
विभीषणानुजानी हि कुरुष्व च मम प्रियम्॥ (८)

माभूस्त्वं दुर्मना याहि क्षिप्रं लङ्कां निशाचर।
तत्र त्वं तु समृद्धार्थः श्रियं भुङ्क्ष्वाऽनपायिनीम् ॥ (९)

इत्युक्त प्रियया चार्तो लङ्कामेव विभीषणः ।
मर्त्यानां भाग्यवैशेषाद्वर्ततेऽत्र नदीतटे॥ (१०)

रङ्गधामनि रङ्गेशश्शयानस्तु शतक्रतो।
दिव्यं ह्येतन्महद्धाम दिव्यास्तत्र निवासिनः॥ (११)

दिव्या चेयं नदी तद्वद्दिव्यतीर्थमयं नरः ।
अनन्तशक्तियुक्तं तद्विमानं तत्स्वयम्भवम्॥ (१२)

गन्धर्वस्तत्र तद्धाम्नश्छायां तु व्यतिचक्रमे ।
गन्धर्वेण हि भुक्तं च फलं पापस्य कर्मणः॥ (१३)

किङ्करा विष्णुभूतेशाः बलिनः कामरूपिणः ।
ते च रक्षन्ति तद्देशं सर्वे ह्यनिमिषेक्षणाः ॥ (१४)

त्वयाप्याचरितस्तैश्च विरोधो बलिभिर्महान् ।
कृतं च बलिभिर्वैरं शूलिना ह्यविजानता॥ (१५)

नैतद्विजानतां कर्म यत्फलेन्नायशो भुवि ।
सञ्जातो बलिभिस्साद्र्धं विरोधो नाशयेद्बलम् ॥ (१६)

यथा काष्ठ च ये क्षिप्तो ह्यतिमवन्दोऽपि हव्यवाट्।
मा चैवं मा च माकार्षी भुवि ते तेजसः क्षयम् ॥ (१७)

व्यासः –

इत्युक्त्वा भगवान्ब्रह्म विरराम सनातनः ।
शक्रश्चोवाच वचनं ह्रिया किञ्चिदवाङ्मुखः॥ (१८)

अयं हि चित्रसेनस्तु सखा मे प्रियकृत्तमः ।
अस्मदर्थमतो ब्रह्मन् प्रब्रूह्येतस्य निष्कृतिम् ॥ (१९)

ब्रह्मा –

तत्पूजननमस्कारस्तोत्राद्यैः कुशलैः कृतैः ।
प्रसन्नो भगवान् रङ्गी प्रदास्यत्यस्य निष्कृतिम् ॥ (२०)

व्यासः –

इत्युक्त्वा प्रययौ ब्रह्म सोऽप्यागच्छदुमापतिः ।
वज्रीत्वभ्येत्य गन्धर्वं यत्रासौ पतितः क्षितौ ॥ (२१)

सकलां निष्कृतिं तस्मै शक्रस्तूपदिदेशः।
सोऽपि निर्वेदमापन्नश्चचार पृथिवीं द्विज ।
सरितः पुण्यतीर्थानि सेवमानो द्विजैस्समम् ॥ (२२)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षट्चत्वारिंशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–४७

काश्यप चित्रसेन संवादः

व्यासः-

आससादाथ गन्धर्वाः काश्यपं मुनिसत्तमम्।
चिरन्तनं महाप्राज्ञ मुग्रेतपसि संस्थितम्॥ (१)

विप्रं प्रणम्य सहसा पप्रच्छाव्यग्रमानसः।
कृताञ्जलि र्नम्रशिराः विनयोपगतो भृशम्॥ (२)

गन्धर्वः –

पापानलप्रदग्धानां किं नः कृत्यं वद प्रभो ।
किं वाच्यं किमु विज्ञेयं कथं कृत्वाप्नुयां सुखम्॥ (३)

काश्यपः –

शृणुष्व परमं गुह्यं श्रुत्वा सुखमवाप्स्यसि ।
परं पुमांसं जगतामीश्वरम्पुरुषोत्तमम् ॥ (४)

नारायणं विभुं देवं स्मृतिमात्राऽघनाशनम् ।
प्रणमत्वं परात्मेशं ध्यायस्व जगतीपतिम् ॥ (५)

तद्यशोक्ति नमस्कारैः कालशेषं नयात्मनः ।
व्यपोह्यात्मगतं त्वेन स्तदैवाप्स्यसि तत्पदम् ॥ (१६)

गन्धर्वः –

कथं वयं परात्मेशं जानीमस्तं तपोधन।
क्वास्थि तत्कीदृशं ब्रह्म किं परञ्चाऽपरं च किम् ॥ (१७)

काश्यपः –

शुद्धिगतेन मनसा कर्मणा संस्कृतेन च।
वाचा प्रसन्नया युक्तः परं वेत्स्यसि पूरुषम् ॥ (१८)

गन्धर्वः –

कीदृशीमानसश्शुद्धिः कर्मणां संस्कृतिः कथम्।
वाक्प्रसन्ना कथं जाता सर्वं ब्रूहि महामते ॥ (१९)

काश्यपः –

अन्नदोषादशमनात् नानाविषयदर्शनात् ।
देहाशौचादिविरहात्स कल्कं जायते मनः॥ (२०)

विहीताकरणाच्चैव प्रतिषिद्धस्य सेवनात् ।
नृणां गन्धर्वकालेन दूषितं कर्म जायते ॥ (२१)

असत्यनिरताया वै पुरुषा च निरर्धिका।
जायते वागसाधूनां वाच्यावाच्यमजानताम् ॥ (२२)

सर्वदा सर्वभूतेषु सोऽप्ययो व्याप्य तिष्ठति।
अतस्सर्वगतो विष्णुस्सर्वत्रास्ति सदा हि नः ॥ (२३)

त्वय्यस्ति मयि चाप्यस्ति स तथाऽन्येषु जन्तुषु ।
उपर्यधस्तात्सर्वात्मा स्थित स्सर्वत्र सर्वदा॥ (२४)

गन्धर्वः –

यत्किञ्चिद्वस्तु सञ्जातं तत्तदैव हि दृश्यते ।
स विष्णुरस्ति चेत्सोऽपि लक्ष्येत न हि लक्ष्यते॥ (२५)

काश्यपः –

उक्तं गन्धर्व भवता साधु तत्र शृणुष्व मे ।
वस्तुष्वपि च सर्वेषु सदा संविहितेष्वपि॥ (२६)

लक्ष्यते स त्वया किञ्चित्करणाधीनवृत्तिना ।
यत्किञ्चिल्लक्ष्यते वस्तु किन्तदृष्टमखण्डितम् ॥ (२७)

त्रिकोणं च पलत्वादि पश्चादन्तर्न दृश्यते।
यस्येन्द्रियसमायोगः पुरोवर्तिनि वस्तुनि॥ (२८)

तद्भागो दृश्यते नान्यः प्रत्यक्षस्य गतिस्त्वियम् ।
यच्च वस्त्वपि यादृक्च यया तद्दृश्यतेऽखिलम् ॥ (२९)

साचाप्यवारिता दृष्टिः ज्ञानदृष्टिर्हि तादृशी।
नाप्रकाशे प्रकाशोऽस्ति प्रकाशस्तु चितो गुणः ॥ (३०)

चैतन्यप्रसराण्यस्य करणानि विदुर्बुधाः ।
अनावृतं यथाज्ञानं तदा सर्वं प्रकाशते॥ (३१)

ज्ञानवृत्तिर्हि गन्धर्वा कबन्धोऽस्य देहिनः ।
यस्त्वत्मानमथात्मस्थं पश्यन् ब्रह्म स पश्यति॥ (३२)

यावद्ब्रह्म च यच्छेति न तद्वचन गोचरम्।
ज्ञानं ज्ञेयं परं ब्रह्म विज्ञानं ज्ञानिनो विदुः ॥ (३३)

अथाक्षरं परं विद्धि क्षरं चान्यत्तथापरम्।
त्वं तु पुष्करिणीं याहि सर्वपाप प्रणाशिनीम् ॥ (३४)

तत्र स्नात्वा ततश्शुद्धो रङ्गधाम विश स्वयम्।
तत्र द्रक्ष्यसि देवेशं परं ब्रह्म सनातनम्॥ (३५)

शयानं पुण्डरीकाक्षं परेशं रङ्गधामनि।
तत्प्रसादाच्च गन्धर्व परांशुद्धिं समेष्यसि ॥ (३६)

व्यासः –

इत्युक्तस्स च गन्धर्वः काश्यपेन महात्मना।
उत्पन्न ज्ञानवैराग्यो ययौ पुष्करिणीं तदा ॥ (३७)

तत्र स्नात्वा तु विमलो रङ्गधाम समेयिवान् ।
जगौ मधुरमव्यग्रः समतालपदक्रमम्॥ (३८)

तारमन्त्रक्रमेणैव षड्जादीन्न् सप्त मिश्रितान्।
रम्यं गन्धर्वसङ्गीतं श्रुत्वा तत्र निवासिनः॥ (३९)

निश्चेष्टास्समपद्यन्त पतङ्गा अपि वै मुने।
शुश्राव मधुरं गीतं भगवान् रङ्गराट् स्वयम्॥

चक्रे प्रसादं तं तस्मै स्वावस्थां च ददौ हरिः ॥ (४०)

ततस्तु सम्प्रज्वलितः श्रिया युतो विमानमारुह्य महान्महायशाः ।
ययौ च गन्धर्व पतिःप्रतापवान् स्तुतश्च गन्धर्ववरैः स्वमालयम्॥ (४१)

ततस्सहस्राक्षसमप्रभावं श्रिया स्फुरन्तं प्रसमीक्ष्य विस्मितः।
प्रियं च गन्धर्वपतिं शचीपति स्स तेन सार्थं मुमुदे चिरं दिवि॥ (४२)

इति गन्धर्व चरितं श्रुत्वा मर्त्यो महामुने ।
सर्वपापविनिर्मुक्तो गन्धर्वपदमाप्नुयात् ॥ (४३)

यस्तेतच्छृणुयान्नित्यं स्वजन्मवषेषु पूरुषः ।
स्वपदात्प्रच्युतिस्तस्य विद्यते न हि जातुचित्॥ (४४)

य इदं शृणुयाद्विप्रो विद्यां पुष्टिं समाप्नुयात्।
क्षत्रियापि नरश्श्रृण्वन् क्षिप्रं स्यात्पृथिवीपतिः॥ (४५)

वैश्योऽपि धनवान्काले शूद्रस्सुखमवाप्नुयात्।
इत्येतत्पुण्यमाख्यानं सर्व पाप प्रणाशनम् ॥

उक्तं पुष्टिकरं नॄणां किमन्यच्छ्रोतुमिच्छसि ॥ (४६)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्तचत्वारिंशोऽध्यायः।

श्रीरङ्गमाहात्म्यम्–४८

चन्द्रपुष्करिणी तीरे तीर्थषट्कस्थिति कथनम्।

नागदन्तः-

आश्चर्यमिदमाख्यानं परं त्वत्तश्रृतं मया ।
प्रभावः पुण्यतीर्थस्य क्षेत्रस्य च महामुने ॥ (१)

सर्वविद्या प्रतिष्ठा च सर्वज्ञत्वमिति श्रुतम्।
लोकेष्वपि च सर्वेषामपि सर्वं विजानताम् ॥ (२)

समस्तविद्या प्रसृतिस्त्वत्त एव न संशयः ।
इतिहासपुराणानि यानि यानि महामुने ॥ (३)

प्रवृत्तानि च वेदानामुपब्रह्मण कर्मणि ।
त्वत्त एव प्रवृत्तानि तानि सर्वाणि वै मुने॥ (४)

अतस्त्वमेव जानीषे पदार्थस्य विनिश्चयम्।
तद्ब्रूहि भगवन्नद्य तीर्थान्यत्र महामते॥ (५)

सूतः –

इत्युक्त्वा भगवान् व्यासो नागदन्तेन धीमता।
पुनः पुष्करिणी तीरे षट्-तीर्थानि जगाद सः ॥ (६)

मुनयः –

विचित्रमेतत्कथितं सूत तीर्थम्परं त्वया ।
प्रभो वा महतो धाम्नः श्रैष्ठ्यं क्षेत्रस्य च श्रुतम्॥ (७)

प्रमादाद्गच्छतस्तस्य तच्छाया लङ्घने महत्।
अहो खल्विदमाश्चर्यं गन्धर्वपतनं भुवि ॥ (८)

यानि तीर्थपराण्यत्र प्रोक्तानि परमर्षिणा ।
तान्याचक्ष्व महाबुद्धे पृथक्त्वं सूत नन्दन ॥ (९)

सूतः –

अथोवाच पुरा पृष्टो मुनिभिर्वेदपारगैः ।
तीर्थानि भगवान् व्यासस्तान्यद्यैव वदामि वः ॥ (१०)

व्यासः –

भरद्वाजोऽथ देवर्षीन् शिष्यैः परिवृतो मुनिः ।
परिव्रजन् स तीर्थानि कावेरीं च ययौ द्विज॥ (११)

पुण्याश्रमजनोपेतं पुण्यतीर्थपरान्वितम्।
सिद्धगन्धर्वपतिभिस्सेवितं यक्षचारणैः ॥ (१२)

आम्नायाध्वनिभिश्शश्वद्दिव्य गन्धर्व गीतिभिः ।
देव स्त्री नूपुररवैः भ्रमद्धमरगीतिभिः ॥ (१३)

कूजच्छुकमुखो दीर्णमधुराक्षरभाषितैः।
सुस्निग्धरक्तसंश्राव्य पुंस्कोकिलरवैर्युतम्॥ (१४)

नानापक्षगणैर्जुष्टं नानामृगनिषेवितम्।
नानातीर्थ समावेशं नानावास समन्वितम् ॥ (१५)

नीपाश्व कर्णखदिर सहकारवटार्जुनैः ।
कदम्ब कर्णिकाराम्र पनसैश्च लतावृतैः॥ (१६)

कुलोत्खात विभिन्नाग्रविषाणैर्नागयूधपैः ।
निपतद्भिस्तथैवान्यैः प्रविशद्भिश्च तत्पयः॥ (१७)

अवगाहद्भिरत्यर्थमुत्तरद्भिर्जनैर्युतम् ।
प्रव्याहरद्भिस्सततं ब्रह्मब्रह्मविदां वरैः ॥ (१८)

एकान्तिभिर्महद्भिस्तैर्दिव्यसंस्कारसंस्तुतैः ।
उद्वहद्भिः परां भक्तिं परस्मिन्पुरुषोत्तमे॥ (१९)

सात्विकैस्सत्वनिरतै स्थितैस्सात्विकवर्त्मनि।
काषायिभिस्सदा ब्रह्मध्यायिभिस्त्यक्तसङ्ग्रहैः॥ (२०)

निर्ममैर्निरहङ्कारैः निरालम्बनभावनैः ।
यतिभिस्संवृताकारै र्भक्तैरन्यैर्महात्मभिः ॥ (२१)

संश्रितं तन्नदीतीरं भरद्वाजो ददर्श वै ।
तदभ्याशे महत्तीर्थं श्रुतं पुष्करिणीति च॥ (२२)

अनन्तपीठं तत्रैव यस्मिन्शेते सदाहरिः ।
तत्राद्रिं महतीं दृष्ट्वा विस्मित स्सहसाभवत्॥

मनोज्ञं दिव्यशयनं दिव्यान् भावान् ददर्श सः ॥ (२३)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टचत्वारिंशोऽध्यायः

श्रीरङ्गमाहात्म्यम्– ४९

वाल्मीक भारद्वाज संवादः

व्यासः –

वाल्मीकिर्भगवान् तत्र वसतीत्यनु शुश्रुवे ।
भरद्वाजस्तु तत्र स्थान् ऋषीन्पप्रच्छ तं मुनिः॥ (१)

भरद्वाजः –

वसत्यस्मिन्वनोद्देशे वाल्मीकिरिति मे श्रुतम् ।
महामतिर्महाभागः क्वासो वसति मे गुरुः॥ (२)

मुनयः –

अहोस्विदत्र भगवन् पश्यन्नपि न पश्यसि ।
यशसा खण्डलो लोके दीप्त्या भानुश्श्रियोडुपः ॥ (३)

यथा परस्तथाश्रेयानयमात्मगुणैः मुनिः ।
सोऽयं पारमिकामृद्धिं सम्प्राप्यात्र वसन् मुनिः ॥ (४)

व्यासः-

भरद्वाजस्तु तं दृष्ट्वा वाल्मीकिं गुरुमात्मनः ।
स तमभ्यवदत्प्रीत्या नामस्वं श्रावयन्मुनिः ॥ (५)

स तं पप्रच्छ भगवान् कथं किं कुत इत्यपि ।
चकार कुशलप्रश्नमाश्रमेतत्परिग्रहे॥ (६)

श्रुत्वा तु प्रेमयुक्तानि गुरोर्वाक्यानि सादरम् ।
उवाच मधुरं वाक्यं भरद्वाजो महामनाः॥ (७)

भरद्वाजः –

तीर्थानि सेवमानोऽहमागतोस्मि दिदृक्षया।
वसन्ति चात्र गुरव इति प्रीत्या समुत्सुकः ॥ (८)

आश्चर्यं बहुदृष्टं च श्रुतं चात्र मया गुरो ।
अत्र दिव्यं महद्धाम दिव्यं च शयनं प्रभोः ॥ (९)

आगतोऽहं तथा कर्तुं गुरोः पादाभिवन्दनम्।
वाल्मीकिः –

पश्यमानो नदी तीरं तीर्थं तत्पुष्कराह्वयम् ॥ (१०)

शृणुष्वावहितो ब्रह्मन् यदि ते श्रवणे मतिः ।
पुष्कलार्थमसन्दिग्धं वचस्तद्वदतो मम ॥ (११)

यदा विभीषणेनात्र सदा राघवबन्धुना ।
रङ्गधाम समानीतं तदा प्रभृति सत्तम॥ (१२)

कर्तुं पुष्करिणी स्नानं रङ्गधामाभिवन्दनम्।
इदमेव समासाद्य वसामि सरितस्तटम् ॥ (१३)

गतकालो बहुतिथस्त्वत्र संवतस्सुखम् ।
पश्यतो रङ्गशयनं मम ध्यानमुपेयुषः ॥ (१४)

आश्चर्याणि बहून्यत्र दृष्टानि बहुशो मया ।
परं पुमांसं धर्मज्ञ सदा पश्यामि चक्षुषा॥ (१५)

योगनिद्रारतं श्रीशं शयानं रङ्गधामनि ।
ततः कृतार्थं सञ्जातं मनो मम महामुने ॥ (१६)

भरद्वाजः-

भगवन्नद्य मे ब्रूहि यान्यत्र वसता गुरो।
आश्चर्याणि पुरादृष्टान्यखिलान्येव तानि वै ॥ (१७)

वाल्मीकिः –

शृणुतान्यहमाख्यान्ये विचित्राणि महामते।
एषां श्रवणमात्रेण नरः पापात्प्रमुच्यते॥ (१८)

इदं पुष्करिणीतीर्थं त्रिषु लोकेषु विश्रुतम् ।
तदभ्यासे तु तीर्थानि षडुक्तान्यत्र सन्ति हि॥ (१९)

मुनिभिर्योगिभिस्सिद्धैस्तपोनिष्ठैरकल्मषैः।
काषायिभिस्तथान्यैश्च सततं सेवितान्यपि॥ (२०)

अश्वत्थं वकुलं चाम्रं चतुर्थं च कदम्बकम् ।
जम्बुकं बैल्वमित्याहुः तेषां नामानि चानघ ॥ (२१)

सुरापो ब्रह्महत्येनो गोघ्नश्च गुरुतल्पगः।
ये चान्ये पापिनस्तीव्राः कृतघ्नश्चापि ये भुवि॥ (२२)

तीर्थान्येतानि तैस्सर्वैस्संसेव्यानि द्विजोत्तम ।
विशुध्यन्त्यकृतात्मानः कृतात्मानो भवन्ति हि ।
द्वित्रगव्यूति देशोऽयं रङ्गधाम समीपतः ॥ (२३)

सर्वपापक्षयकरं सर्वकामै र्यतो द्विज ।
नैतच्चित्रं महाभाग यस्मिञ्च्छेते परः पुमान् ॥ (२४)

शृणुष्वात्र पुरा वृत्तं मुनिभिर्बहुभिश्श्रुतम् ।
अश्वत्थतीर्थं सततं सुपुण्यजनसंवृते ॥ (२५)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोनपञ्चाशोऽध्यायः

श्रीरङ्गमाहात्म्यम् ५०

माधवी यमकिङ्कर संवादः–

वाल्मीकिः –

अथ योषिद्वरा काचिन्माधवीति च विश्रुता ।
विदुषी सर्वधर्माणां सर्वकाम विवर्जिता॥ (१)

तपश्चचार बहुलं तस्मिन्तीर्थवरे शुभे ।
अनाहारा जितक्रोधा सदा चैवाम्भसि स्थिता ॥ (२)

एवं स्थितायां धर्मज्ञ कालोऽतीतो महान् किल।
अतो हता हतास्मीति त्राहि त्राहीति चासकृत् ॥ (३)

आर्तशब्दस्ततस्सद्य आकाशे समुपद्यत ।
शुश्राव तच्च विदुषि धर्मज्ञार्तं प्रजल्पितम्॥ (४)

मा भैषीर्मा च मा भैषीर्मा भैषीर्मा च मा च या ।
इति होवाच सावक्त्रमुन्नम्याकाशगं वचः ॥ (५)

अथ वैवस्वतभटैः पाशहस्ते महाबलैः ।
पीड्यमाना च ललना शुश्रुवै तद्वचस्फुटम् ॥ (६)

तां दृष्ट्वा वेपमानाङ्गी माधवीं धर्मवत्सलाम् ।
उदक्रोशदहो नाम हतास्मि त्राहि मामिति ॥ (७)

तामब्रवीन्महाभाग गम्भीरं सा तपस्विनी ।
स्खलितं प्रलपन्तीं तु करुणं साश्रुपातनम्॥ (८)

माधवी –

का त्वं कात्वमतीवार्ता कुतस्त्वे तैः प्रपीडिता ।
योषित्प्रपीडां कुर्वन्तः के यूयमति निर्घृणाः ॥ (९)

कथमेषामतिर्जाता पुरुषाणां स्त्रियं प्रति ।
आर्तास्वपि च योषित्सु कथं पीडां प्रकुर्वते ॥ (१०)

अहो सु निर्घृणो लोकः कथमेनां कथं घ्नत।
त्राह्येनां त्राहि गोविन्द लोकनाथ सुखावह ॥ (११)

समस्त भूतार्तिहर सर्वावास नमोऽस्तु ते ।
वाल्मीकिः –

इत्येवमुक्त्वा वचनं विरराम वरानना॥ (१२)

परया कृपयाविष्टा माधवी धर्मवत्सला ।
गरीयस्तद्वचश्श्रुत्वा धर्मार्थसहितं हितम्॥ (१३)

विस्मिताःकिङ्करास्सर्वे प्रत्यूचुः ब्रह्मवादिनीम् ।
नमस्तस्यै च ते कृत्वा सहसा हृष्टमानसाः ॥ (१४)

विदुषीं सर्वधर्माणां मन्यमानाश्च सादरम्।
किङ्कराः –

शृणु त्वं नो भगवति वाक्यं तु वदतां वरे ॥ (१५)

कारणं च महाभागे धर्मज्ञे धर्म वत्सले ।
यतस्त्वेनामतीवार्तामपि पीडां प्रकुर्महे ॥ (१६)

आदिकृच्चादिपुरुषः पुराणश्च परः पुमान्।
परमात्मा जगत्सर्वं स्ववशे कुरुते प्रभुः ॥ (१७)

सर्वकार्येषु सर्वात्मा चेष्टयत्यनिशं प्रजाः।
शुभाशुभात्मकं कर्म सदा कुर्वन्ति जन्तवः ॥ (१८)

भुञ्जते चापि कर्तारः फलं तस्य शुभाशुभम् ।
प्रीतिद्वेषावुभौ न स्तः परस्मिन्तन्निमित्तजौ॥ (१९)

तथापि सर्वजन्तूनां कर्मणां तु शुभाशुभम्।
फलं प्रयच्छति विभुस्तत्तत्कर्मोपलक्षितम्॥ (२०)

यथा निरात्मको देहि न च किञ्चिच्च चेष्टिते।
तथेश्वरं विनास्सर्वं न किञ्चिच्चेष्टते जगत् ॥ (२१)

यः करोति च यत्कर्मा शुभं वा यदिवेतरत् ।
तस्य तेनैव सकलं भुज्यते कर्मणः फलम्॥ (२२)

शुभाशुभात्मकं कर्म कुर्वता देहिनां प्रभुः ।
तत्र तत्र च सर्वात्मा साक्षित्वेन व्यवस्थितः ॥ (२३)

तन्नातिक्रमितुं शक्यं स्वकृतं देव सन्निधौ ।
कैश्चिदप्यमलप्राज्ञे स्स हि सर्वजगत्प्रभुः ॥ (२४)

ततः पापीयसी चेयमतः पीडां प्रकुर्महे।
नियन्त्रा सर्वाभूतानां चक्रिणा परमेष्ठिना ॥ (२५)

यमो वैवस्वतो भर्ता विधात्रा च विनिर्मितः ।
तस्य वै धर्मराजस्य नायमादेशवर्तिनः॥ (२६)

तनया ह्यकृतं पापं विद्यते न तु किञ्चन।
ये वै सुकृतिनो लोके तेषां सुखकरा वयम्॥ (२७)

ये च दुष्कृतिनो लोके तेषां दुःखकरा वयम्।
यतः पापीयसी चेयमतःपीडां प्रकुर्महे ॥ (२८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चाशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–५१

माधवी यमकिङ्कर संवादः-

वाल्मीकिः –

इत्येवमुक्ता विदुषी यथार्थं यमकिङ्करैः ।
इदं पुनरथोवाच धर्मार्थसहितं वचः ॥ (१)

माधवी –

एवमेव हि भूतानां गतिरेषा सनातनी ।
विधात्रा विहितं यच्च प्रियं वा यदि वाप्रियम् ॥ (२)

न शक्यमन्यथा कर्तुमीशानैरपि कैश्चन।
अथापीयमनुप्राप्ता पीड्यमाना ममान्तिकम्॥ (३)

ततो भवद्भिर्विहितां पीडां नार्हति जातुचित् ।
केनेयं सुगतिं यायात्कथं वा किं करोम्यहम् ॥ (४)

इत्युक्ताः किङ्करास्सर्वे श्रुत्वा ते वाक्यकोविदाः।
अव्याहतार्थं वचनं प्रत्यूचुस्तां तपस्विनीम् ॥ (५)

किङ्कराः –

को हि विश्वसृजस्तस्य शासनं शार्ङ्गधन्वनः।
लङ्घयेत स तच्चक्रदीप्तौं शलभतामियात् ॥ (६)

वाल्मीकिः –

श्रुत्वा तु तद्वचस्तेषां किङ्कराणां महात्मनाम्।
विमृश्य च तदाभाष्य माधवी वाक्यमब्रवीत् ॥ (७)

माधवी –

सत्यमेतन्महाभागाश्शासनं शासितुः परम्।
सर्वत्राव्याहतं शश्वदित्येतत्सुष्ठु तद्वचः ॥ (८)

नास्याः पुण्यफलं किञ्चिद्विद्यते यमकिङ्कराः।
ममास्तु सुकृतं तस्या एष धर्मस्सनातनः ॥ (९)

तान्कृताञ्जलीन्वृद्धान् तथैव शरणं गतान् ।
जीवितव्यत्ययेनापि यो रक्षति स पुण्यकृत् ॥ (१०)

य एतान् समुपेक्षन्ते दुःखभाजो भवन्ति ते ।
एतत्क्षेत्रं महापुण्यं सर्वलोकेषु पूजितम्॥ (११)

यत्र संवासमात्रेण मुच्यते सर्वपातकैः।
यस्मिन् प्रसन्नो भगवान् सततं रङ्गधामनि ॥ (१२)

श्रीमद्रङ्गमिति ब्रूयादजस्त्रं यश्च पूरुषः ।
स पूज्यस्सर्वलोकेषु सर्वकल्मषनाशनः ॥ (१३)

भुवि वै सर्वतीर्थानि यानि यानि महान्ति च।
तेषां वै सर्वतीर्थानामेतत्तीर्थं सुपूजितम्॥ (१४)

तस्मादत्र निवासं तु कुर्वत्या मम यत्फलम् ।
एकाह्नस्सकलं त्वेनां फलं समुपतिष्ठतु ॥ (१५)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकपञ्चाशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–५२

माधवी यमकिङ्कर संवादः

वाल्मीकिः –

इत्युक्तमात्रे वचने सहसा साप्यमुच्यत ।
याम्यैर्भटैः पीड्यमाना तथा तत्पाशबन्धनैः ॥ (१)

तस्यास्तदाभवत्पन्थाश्शीतलः पुष्पसञ्चयः ।
पुरा कण्टकदुस्स्पर्श प्रतप्ताङ्गारसञ्चयः ॥ (२)

येऽस्याः पीडां प्रकुर्वन्ति भीषणा भयदायिनः ।
ते बान्धवाः प्रसन्नाश्च तदा स हितकारिणः॥ (३)

सद्यो विनाशमायान्ति क्षुत्पिपासाद्युपद्रवाः ।
नानाप्रकारसंश्लेष बहुताडनसद्वणम् ॥ (४)

वपुस्तु तस्यास्सञ्जातं सुन्दरं सुमनोहरम् ।
उपर्युपर्यधश्चापि पीडास्तस्या मुने पुरा ॥ (५)

ताश्च दिव्या महाभोगा भूत्वा तां समुपासदन्।
व्याजह्रुश्च ततस्सिद्धा स्त्रियं दृष्ट्वा तथागताम्॥ (६)

याहि याहि सुखं याहि गतिमिष्टामवाप्नुहि ।
यथेष्टमस्तु ते पन्था लोकास्सन्तु सनातनाः॥ (७)

वाल्मीकिः –

इत्युक्ता प्रययौ सापि शोभनेन पथा सुखम् ।
ये च नानाप्रहर्तारस्सर्वे प्राञ्जलयस्स्थिताः ॥ (८)

ये च हुङ्कृतिवित्रासकारिणस्तर्जनेन च ।
स्त्रियं तां पथि गच्छन्तीं दृष्ट्वा ते मधुरं जगुः ॥ (९)

ततोऽयमक्षयं यान्ती निर्भया निरुपद्रवा ।
आससाद सुखं सा स्त्री सभां वैवस्वतस्य च ॥ (१०)

ददृशे सा नियन्तारं धर्मराजं जगद्गुरुम्।
उपास्यमानं विविधैर्लोकपालैश्च राजभिः ॥ (११)

पितृभिर्मुनिभिस्सिद्धैर्देवतैश्च सुपूजितम् ।
पापिनो भुवि ये तेषामतीवाशुभदर्शनम् ॥ (१२)

तथा सुकृतिनां चैव बन्धुवत्प्रियदर्शनम् ।
पितेव धर्मराजोभूत्तस्यास्तु प्रियदर्शनः ॥ (१३)

सान्त्वयन् स महातेजाः व्याजहार च तां प्रियम्।
यमः –

भद्रे त्वया सुष्ठु कृतं न किञ्चिदिह विद्यते॥ (१४)

इतो द्वादश जन्मान्ते त्वां कश्चित्सिद्ध आविशत् ।
विष्णुभक्तो निवासार्थं रात्र्यास्तु तव वेश्मनि ॥ (१५)

तत्सन्निधानप्रभवस्तव साधुसमागमः ।
सा हि वै ब्रह्मविदुषी श्रीमद्रङ्गमुपाश्रिता ॥ (१६)

तत्र तीर्थोत्तमं श्रीमदश्वत्थं नाम संश्रिता ।
धर्मज्ञा धर्मपरमा यस्यास्ते सङ्गमोऽभवत् ॥ (१७)

एकाह्न वसतस्तत्र यत्फलं समुदीरितम् ।
तत्फलं तु त्वया प्राप्तं माधव्यास्सन्निधानतः ॥ (१८)

ब्रह्मलोकनिवासस्ते तेन पुण्येन कर्मणा ।
यावत्कालान्तरं भद्रे तावत्तत्र सुखं वस ॥ (१९)

वाल्मीकिः –

इत्युक्त्वा प्रययौ सापि ब्रह्मलोकं शुभास्पदम् ।
पश्यतां सर्वभूतानां विमानेन विहायसा॥ (२०)

अथात्र माधवी सापि तपस्तत्वा सुदुष्करम्।
भगवन्तं प्रपन्ना सा भगवन्तमवाप सा ॥ (२१)

प्रशस्तमेतत्तत्तीर्थमश्वत्थमिति तच्छ्रुतम्।
तत्र स्नात्वा पितृन्देवान् तर्पय त्वं समाहितः ॥ (२२)

एतत्ते सर्वमाख्यातं मया तत्र कृतं पुरा।
यस्त्वेतच्छृणुयाद्भक्तया तस्य लोकास्सनातनाः॥ (२३)

य इदं श्रावयेद् विद्वान् श्राद्धादिषु च कर्मसु ।
अक्षय्यं तस्य तत्कर्मफलं जनयति ध्रुवम्॥ (२४)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्विपञ्चाशोऽध्यायः।

श्रीरङ्गमाहात्म्यम्– ५३

कण्डुमुनि कथा

वाल्मीकिः –

उक्तं मयैतन्माहात्म्यं तीर्थस्यैव महामते ।
माधवीचरितं चैव किमन्यच्छ्रोतुमिच्छसि॥ (१)

व्यासः –

एवमुक्तो महातेजाः पुनः पप्रच्छ सादरम्।
भरद्वाजस्तु देवर्षे तेन वाल्मीकिना मुनिः॥ (२)

भरद्वाजः

ब्रह्मन् प्रब्रूहि माहात्म्यं तीर्थस्यैतस्य मे पुनः ।
यस्य संसेवया शुद्धिं प्राप्ता च ब्रह्मवादिनी॥ (३)

वाल्मीकिः –

शृणु ब्रह्मन् पुरा वृत्तं तस्य माहात्म्यसूचकम्।
कण्डुना मुनिना तत्र धर्मज्ञेन महात्मना ॥ (४)

कण्डुर्नाम महातेजास्संयतस्सत्त्ववर्त्मनि ।
स कदाचिन्महद् द्रष्टुं रङ्गधाम समभ्यगात् ॥ (५)

तत्र दृष्ट्वा तु कावेरीं लोलकल्लोलवाहिनीम्।
स्नात्वा तस्यां महाबाहुं रङ्गनाथमुपेयिवान्॥ (६)

स ददर्श ततो देवं शयानं रङ्गधामनि।
तमालकाननश्यामं समुन्मीलाम्बुजेक्षणम् ॥ (७)

मन्यमानस्तदात्मानं कृतार्थं मुनिसत्तम ।
प्रणम्य प्रणतस्तस्मान्निर्ययौ स कृताञ्जलिः॥ (८)

अथासौ सरितस्तीरे पद्मपत्रायतेक्षणम् ।
विस्मिताननमत्यर्थं नीलकुञ्चितमूर्धजम् ॥ (९)

आजानुबाहुं श्रीमन्तं पीनोरस्स्थलशोभितमम्।
तादृग्भिद्र्धित्रपुरुषैः भक्तैरनुचरैस्समम् ॥ (१०)

चरन्तं पुरुषं तत्र श्यामीकृतदिगन्तरम्।
कान्तप्रिया कान्तिमती कान्ती रूपवती यथा ॥ (११)

पद्मासना पद्महस्ता पद्मपत्रासितेक्षणा ।
श्रीदेवी देवदेवेशं भर्तारमनुयायिनी ॥ (१२)

महिष्या तु तया सार्धं क्रीडन्तं सरितस्तटे।
यथैनं दृष्टवान्विप्रः शयानं रङ्गधामनि॥ (१३)

तथैव तु नदीतीरे चरन्तं ददृशे मुनिः ।
दृष्ट्वाऽऽगत्य तदभ्याशं सस्मितो विस्मितोऽभवत्॥ (१४)

कोऽयं कोऽयमयं कोऽयं को वाऽयं कथमित्यपि।
आश्चर्यमेतदाश्चर्यमहो खल्वित्यथाब्रवीत्॥ (१५)

चिन्तयामास धर्मात्मा मनसा कोऽयमित्यपि।
तच्चिन्तयानं तु मुनिन्दृष्ट्वा रङ्गपतिः प्रभुः॥ (१६)

तमुवाच स्मितं कृत्वा मेघगम्भीरनिस्वनः ।
श्रीरङ्गी –

मुने प्रब्रूहि मे सत्यं यच्चिन्तयसि चेतसा ॥ (१७)

श्रोतव्यं यदि चास्माकं नो चेत्तत्त्वयि तिष्ठतु।
वाल्मीकिः –

ऋषिस्तद्वचनं श्रुत्वा सर्वलोकेश्वरस्य हि॥ (१८)

प्रणम्य प्रणतो भूत्वा वक्तुमेवोपचक्रमे।
कण्डुः –

सद्यश्शयानं भगवन्नागभोगे तवोचिते॥ (१९)

चारुस्मितमुखं तत्र त्वामहं पुरुषोत्तमम्।
अद्राक्षं पुनरत्रैव चरन्तमनपायिभिः ॥ (२०)

समं समानवेषैश्च बहिरेवमितस्ततः ।
अत्रैव त्वामहं दृष्ट्वा कोयमित्यप्यचिन्तयम् ॥ (२१)

सोऽयमित्येव सञ्जाता मतिर्मम सुनिश्चिता।
धन्योऽस्मि कृतकृत्योऽस्मि योऽहं त्वां पुरुषोत्तमम्॥ (२२)

शरण्यं सर्वभूतानां शयानं रङ्गधामनि।
दयितं सरसस्तीरं चरन्तं तमितस्ततः॥

सदृशैरनुगच्छद्भिस्साकं त्वां दृष्टवानहम् ॥ (२३)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रिपञ्चाशोऽध्यायः

श्रीरङ्गमाहात्म्यम् ५४

अश्वत्थतीर्थ कथा

वाल्मीकिः –

इत्येवमुक्तो भगवान् कण्डुना परमर्षिणा।
रङ्गधामा महाबुद्धे मुनिं सस्मितमब्रवीत्॥ (१)

श्रीभगवान् –

अयं हि दयितो देशो रमणीयश्च मे मतः ।
तथा च दयिता चेयं स्वच्छोदकवहा नदी॥ (२)

अतस्तत्सरितस्तीरं रोचते मे मनो मुने।
एतत्प्रीत्या मया चापि शयितं रङ्गधामनि ॥ (३)

अभ्यर्थितस्य मे ब्रह्मन् राक्षसेन्द्रेण धीमता ।
विभीषणेन चान्यत्र न रेमे जातुचिन्मनः ॥ (४)

चरामि सरितस्तीरे रम्येषु पुलिनेषु च।
पुष्पितेषु वनान्तेषु तीर्थेषु च सरित्सु च ॥ (५)

अनया प्रियया सार्धमेभिश्च प्रियदर्शनैः ।
भक्तैरनुचरैश्चैव व्यचरं सुसुखं मुने॥ (६)

इति ब्रुवाणो भगवान् ययौ तीरं शनैश्शनैः ।
चूतचम्पकखर्जूरपनसैश्च सबिल्वकैः ॥ (७)

प्लक्षन्यग्रोधतिनिशैः कदम्बबदरीधवैः ।
कपित्थकदलबिम्बफलिनीभिस्सुपुष्पितैः ॥ (८)

भ्रमद्भ्रमरसङ्घैश्च कूजद्भिरपि कोकिलैः।
जलजैः पत्रिसङ्घैश्च गायद्भिर्मधुरं बहु ॥ (९)

अन्यैश्च विविधैर्वृक्षैर्मनोनयनहारिभिः।
मुनिभिर्योगिभिश्चान्यैरुपेतं सरितस्तटम्॥ (१०)

गत्वा पुष्करिणीतीर्थं दृष्ट्वासीनान्मुनीन्हरिः।
चक्रे तत्र जलक्रीडां प्रिययानुचरैस्समम् ॥ (११)

तदाश्चर्यवरं दृष्ट्वा मुनयः पुरुषोत्तमम्।
अन्योन्यमूचुस्संहृष्टाः कोयं कोयं कथं न्विति॥ (१२)

किं रङ्गधामा स ह्येष दृष्टपूर्वः कथञ्चन ।
इत्येवं ब्रुवतां तेषां रङ्गधामा ययौ ततः ॥ (१३)

अश्वत्थो यत्र सञ्जातस्सुमहान् पर्वतोपमः।
तत्र देवास्सगन्धर्वाः पूजां कुर्वन्ति सर्वशः॥ (१४)

तत्पूजामग्रतो दृष्ट्वा भगवान् रङ्गराट् स्वयम् ।
मुनीनां पश्यतां तेषां तत्रैवान्तरधीयत ॥ (१५)

तस्यानुयायिनस्सर्वे महिषीचायतेक्षणा ।
मुनीनां पश्यतां तेषां तत्रैवान्तर्दधुर्मुने॥ (१६)

अथाश्चर्यमिदं दृष्ट्वा मुनयः क्षीणकल्मषाः ।
विचित्रमेतदित्यूचुः सर्वे ते विस्मितेक्षणाः॥ (१७)

कण्डुरप्यद्भुतं दृष्ट्वा विषण्णस्समपद्यत।
अपश्यमानस्तं देवं तत्रैव निषसाद ह ॥ (१८)

निराहारो मुनिस्तत्र विलप्य करुणं बहु ।
बहून्वर्षगणांस्तत्र निन्ये कण्डुर्भृशातुरः ॥ (१९)

अथ काले बहुतिथे गते कण्डोर्महात्मनः।
मा शुचस्त्वमिति व्योम्नि भारती समपद्यत ॥ (२०)

श्रीभगवान् –

इदं च शृणु धर्मज्ञ तीर्थानामुत्तमोत्तमम्।
अश्वत्थतीर्थमेतद्धि सर्वकल्मषनाशनम् ॥ (२१)

अत्र स्नात्वा च पीत्वा च निरयस्थाश्च वै मुने।
सर्वपापविनिर्मुक्ता गतिमिष्टां व्रजन्ति ते॥ (२२)

अतिप्रशस्तं गोदानमत्रैव मुनिसत्तम ।
गां दत्त्वा विष्णुलोकं तं प्राप्नुयात्क्षीणकिल्बिषः ॥ (२३)

अन्नदानं भवेच्छस्तं तिलदानं ततोधिकम्।
तारयेच्च तिलं दत्त्वा पितॄन् सप्त च सप्त च ॥ (२४)

सुवर्णदानमत्रैव ब्रह्महत्यां व्यपोहति ।
अपस्मृतिस्तथा नश्येदेकरात्रोपवासतः॥ (२५)

त्रिरात्रं समुपोष्यात्र वाग्यतो हरिमर्चयेत् ।
सप्तजन्मकृतं पापं तत्क्षणात्तस्य नश्यति ॥ (२६)

अत्र मासमुपोष्यैवमर्चयेद्रङ्गशायिनम्।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात्॥ (२७)

तथा त्वमपि भद्रं ते पश्य मां रङ्गधामनि ।
न विषादस्त्वया कार्यो विशेषेण कृतात्मना॥ (२८)

इत्युक्त्वान्तर्हिते देवे विरराम महामते ।
कण्डुरप्यचरत्तत्र चिरकालं समाहितः॥ (२९)

ध्यानयोगपरो नित्यं दध्यौ ब्रह्म सनातनम् ।
एवमेतत्पुरावृत्तमस्मिन्तीर्थवरे पुरा ॥ (३०)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुःपञ्चाशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–५५

सुकीर्ति नामक काशीराजोपाख्यानं

वाल्मीकिः –

भरद्वाज शृणुष्वाऽत्र तीर्थं केसरसञ्ज्ञितम्।
श्रुत्वा यत्सर्वपापेभ्यो मुच्यते भुवि मानवः ॥ (१)

पुरा काश्यपनामा तु धर्मवृत्तो द्विजोत्तमः ।
उग्रं तपस्समातिष्ठत्तस्मिन् तीर्थवरे शुभे ॥ (२)

तत्र काशीपतिर्वीरश्चतुरङ्गबलान्वितः ।
आजगाम महाराजस्सुकीर्तिरिति विश्रुतः ॥ (३)

नानारोगप्रपीडार्तां गजवाजिसमाकुलाम्।
तां सेनां तीर्थसङ्गत्या रक्षितुं यतते स्म ह॥ (४)

स दृष्ट्वा मुनिशार्दूलमुग्रे तपसि संस्थितम् ।
काश्यपं मृगशार्दूलस्तस्थौ क्षणमथाकुलः ॥ (५)

बहिस्सेनां च संस्थाप्य केवलो मुनिमभ्यगात्।
स तत्प्रसादमाकाङ्क्षन् प्रणम्य पुरतः स्थितः ॥ (६)

स समाप्य द्विजो धीमान् तत्र पौर्वाह्निकक्रियाम्।
कृताञ्जलिं काश्यधिपमद्राक्षीत्पार्श्वतः स्थितम् ॥ (७)

कस्त्वं ब्रूहि कुतः किं त्वं कथं यातो ममान्तिकम्।
किं विवक्षुर्महाबाहो त्वयि प्रीतिर्ममातुला ॥ (८)

दिवि वा भुवि वा यच्च त्वया समभिवाञ्छितम् ।
दुर्लभं त्वपि ते सर्वं प्रयच्छामि नरोत्तम॥ (९)

राजा –

अहं काशीपतेः पुत्रः सुबलस्य महात्मनः ।
सुकीर्तिरिति मे नाम भवन्तमभिवादये॥ (१०)

काश्यपः –

केवलस्त्वं कथं यातो ज्ञातः पूर्वं पिता तव ।
कुशली त्वं किमाहोस्विदातोर्वा यदि भूपते ॥ (११)

राजा –

भवत्प्रसादात्सर्वत्र कुशलं नाऽत्र संशयः ।
अनीकिन्या प्रयातोऽस्मि समं सा तु बहिः स्थिता ॥ (१२)

भवतां मानसक्षेमं कर्तुकामेन वै मया।
तीर्थानि सेवमानोहमधुना सेनया सह ॥ (१३)

भवन्तं दृष्टवानस्मि कृतार्था मे मनोरथाः ।
सा विमुक्ता भवद्या च सेना रोगप्रपीडिता ॥ (१४)

काश्यपः –

कुतस्त्वयेह सम्प्राप्ता तीर्थयात्रा नृपात्मज ।
सबलस्य च सत्यं तत् ब्रूहि राज्यं प्रकुर्वतः ॥ (१५)

राजा –

नानाव्याधिसमुत्थाभिर्व्यथाभि भृशमातुरम् ।
चतुरङ्गबलं दृष्ट्वा विषादो मे महामुने॥ (१६)

स बलस्तु प्रयातोऽस्मि तदार्तिव्यपनुत्तये ।
तीर्थं तीर्थविदां श्रेष्ठो दिष्ट्या दृष्टो भवानसि ॥ (१७)

काश्यपः –

इदं विजानता तावत्त्वया सुष्टु कृतं हितम् ।
अद्य ते किं प्रयच्छामि वरं यत्तेऽभिवाञ्छितम् ॥ (१८)

राजा –

कृतार्थं मे मनोजातं पितरश्च सुपूजिताः।
यन्महान्तं सतां श्रेष्ठं भवन्तं दृष्टवानहम्॥ (१९)

मुने ब्रूहि हितं शश्वद्दीनस्य मम बिभ्यतः ।
संसारार्णवमग्नस्य ह्याशाबद्धस्य जीर्यतः॥ (२०)

काश्यपः –

अनाराध्य च गोविन्दं कथं मुक्तो भवेन्नरः ।
अतो विश्वस्य प्रभवमाराधय भवान् हरिम् ॥ (२१)

राजा –

कथमाराधनं तस्य विधास्याम्यतिमन्दधीः ।
अगोचरोयं मनसां परमं योगिनामपि ॥ (२२)

काश्यपः –

सत्यमेतन्नरश्रेष्ठ दुर्विज्ञेयमतीन्द्रियम्।
निर्मलं यत्परं ब्रह्म कल्याणाश्रयमित्यपि ॥ (२३)

तथापि तद्दिदृक्षूणां सतामेकान्तिनां नृप ।
सिद्धये सर्वभूतानां स्वयमेवार्तिशान्तये॥ (२४)

तदेव परमं ब्रह्म वासुदेवादिमूर्तिमत् ।
अखण्डितमनादृश्यं काले कालेप्यपालयत्॥ (२५)

तस्य वै देवदेवस्य मूर्तयो भद्रदा नृप ।
ब्रह्माद्यैर्मुनिभिस्सिद्धैरर्च्यन्ते भुवि मानवैः ॥ (२६)

तत्राराधनमीहस्व यस्यां निर्विशते मनः ।
सुपुष्कलार्थस्तेन त्वं परेशं प्राप्स्यसे चिरात् ॥ (२७)

राजा –

यथापरं स्वरूपं तु परस्य परमात्मनः।
अगोचरं तथा त्वेषां योगिनाममलात्मनाम॥ (२८)

तथा कालविपर्यासात् महाभाग्यविपर्ययात् ।
भद्राश्रया भद्रदस्य मूर्तयो ज्ञानगोचराः॥ (२९)

मनो हि विषयालम्बि विज्ञानं चाल्पकं मम।
इन्द्रियाणि न वश्यानि कथं कृत्वा कथं भवेत् ॥ (३०)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चपञ्चाशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–५६

काश्यप रचित भगवत् प्रशंसा

काश्यपः –

हन्त विश्वसृजस्तस्य परस्य ब्रह्मणो नृप।
न पारं विद्यते तस्य महिम्नः परमेष्ठिनः ॥ (१)

समस्तहेयरहितं कल्याणं गुणसंश्रयम्।
विष्ण्वाख्यं परमं ब्रह्म यतश्चैतज्जगत्त्रयम् ॥ (२)

भूतानामुपकाराय स्वावतारान् करोति हि ।
समस्तशक्तिरूपाणि कर्माण्यपि स्वतस्सुखी ॥ (३)

देवो मनुष्यश्चान्यश्च भूत्वा ह्याविर्भवेद्धरिः ।
देवानां मानुषाणां च भूतानां कृते हरिः ॥ (४)

अन्यच्च कुरुते भूप दयासारो हि स प्रभुः।
अज्ञत्वमतिमन्दत्वं विवशत्वं प्रजापतिः॥ (५)

प्रजानां प्रसमीक्ष्याथ केवलं गुणवत्तया ।
अनन्तोऽनन्तकल्याणगुणाना माश्रयोऽपि सन्॥ (६)

सद्भिरभ्यर्थितो विष्णुस्सन्निधत्ते क्वचित् क्वचित् ।
भुवि भूतेश्वरो राजन् भूतानुग्रहकाम्यया ॥ (७)

भूतानां शरणग्राह्यः नानाकृतिसमन्वितः।
तत्र चाखण्डितो नित्यं भूतानां सम्प्रकाशते ॥ (८)

यस्य यावांश्च विश्वासो भगवद्विम्बसंश्रितः ।
तस्यासौ तावतीमाशां कुरुते तामखण्डिताम्॥ (९)

सुवर्णताम्रलोहादिधात्वारब्धं च यद्यपि ।
तदेव भगवद्विम्बं दिव्यं जानीहि भूपते ॥ (१०)

यद्दीनमपि राजेन्द्र प्राकृतं वस्तुनाशयुक्।
तदेवोत्कृष्टमेव स्यादक्षय्यं देवसन्निधेः ॥ (११)

सर्वशक्तिमयो देवस्सोच्युतः परमः पुमान्।
तत्तत्सङ्कल्पवृत्तं हि स्वेतरत्सकलं नृप ॥ (१२)

वस्तु वस्त्वन्तरं देवः कुरुते तत्तदात्मकम् ।
सर्वस्य कारणत्वेन प्रधानस्समवस्थितः ॥ (१३)

यदा यत्कार्यमखिलमुच्चनीचं विनिर्ममे।
विशुद्धसत्त्वकरणैस्तस्य प्राकृतवस्तुनः॥ (१४)

देवस्य कः प्रयत्नः स्यात् सर्वशक्तेर्महात्मनः।
अथ प्राकृतधात्वादिसमारब्धमपि प्रभो॥ (१५)

तद्विम्बं दिव्यमेवस्स्यात्तद्भोगायतनं महत् ।
समस्तशक्तियुक्तं तत् सर्वकल्याणसंश्रयम्॥ (१६)

बिम्बं भगवतस्तस्य तत्त्वनन्तपरिग्रहात्।
भूरिभाग्यवतां लोके सतां सुकृतशालिनाम् ॥

निश्चयस्सम्भवेदस्य शास्त्रार्थस्य न कस्यचित् ॥ (१७)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षट्पञ्चाशोऽध्यायः।

श्रीरङ्गमाहात्म्म्यम्–५७

काश्यप रचित भगवत् प्रशंसा–२

राजा –

निर्गुणः परमात्माऽयं सर्वशक्तिगुणाश्रयः ।
सगुणं प्राकृतं देहं स्वीकरोति कथं मुने॥ (१)

सर्वव्यापी च भगवान् सदा सर्वत्र च स्थितः ।
विशेषतस्सन्निधानं तस्य भेरे कुतः कृतम्॥ (२)

काश्यपः –

एषोऽतिमहिमा तस्य देवदेवस्य शार्ङ्गिणः।
यत्प्राकृतं च संस्थानं दिव्यमास्थाय संश्रितः॥ (३)

सगुणं निर्गुणं कर्तुं निर्गुणं सगुणं नृप ।
शक्तो ह्येष महाबाहो सर्वशक्तिमयो यतः ॥ (४)

परिपूर्णो हि भगवान्निरपेक्षः स्वतस्सुखी।
पदे स्वे सुस्थितस्तेषां प्रयच्छत्यभिवाञ्च्छितम्॥ (५)

दारुधातुशिलाद्येषु स्तम्भकुम्भेषु स प्रभुः।
यत्र यत्र सदा सद्भिरनुरक्तैर्महात्मभिः ॥ (६)

एकान्तिभिर्योगिर्विर्यैः परध्यानोपबृंहितैः ।
अभ्यर्थितो नरश्रेष्ठ शुभेन मनसाऽमलः॥ (७)

तत्र तत्र तथा प्रीत्या सन्निधत्ते च तत्क्षणात्।
यथा विश्वेश्वरो विष्णुः परमे व्योम्नि निष्ठितः॥ (८)

योगिभिः प्रार्थितः कामान् प्रयच्छत्यमलात्मनाम्।
तथा तत्रैवस्थितो देवो येन येन यथा यथा ॥ (९)

अर्थितः पूजितः प्रीतः संस्तुतो मुनिसत्तमैः ।
तथा तथा च तत्कामान् यच्छत्येव सु पुष्कलान्॥ (१०)

देवप्रतिष्ठा त्रिविधा मुनिभिः परिकीर्तिता।
स्वयं सिद्धप्रतिष्ठानं तृतीयं मानुषं स्मृतम् ॥ (११)

यत्र यत्र च देवेशो रमते च स्वयं हरिः ।
तत्तद्दिव्यमधिष्ठानमिति विद्धि सनातनम्॥ (१२)

यथा क्षीरार्णवे तद्वत् स्वयं वै रङ्गधामनि।
दिव्यप्रतिष्ठाविषयो मया ते परिकीर्तितः ॥ (१३)

सिद्धमानुषयोरेव बिम्बक्लृप्तिस्तथेष्यते।
स्वयं प्रतिष्ठिते तावत् स्वस्वरूपेण संस्थितः॥ (१४)

एवं संस्थानभेदेन सन्निधत्ते जनार्दनः ।
तत्र तत्र च विश्वात्मा पूजितस्स च संस्थितः ॥ (१५)

प्रयच्छत्यखिलान् कामान् सर्वेभ्यो राजसत्तम।
इति ते सर्वमाख्यातं सर्वशास्त्रेषु सत्तम ।
सत्त्वप्रसूतस्त्वं राजन्न विस्मर्तुमिहार्हसि ॥ (१६)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्तपञ्चाशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–५८

सुकीर्ति काश्यप संवादः

राजा –

कृतार्थं मे मनोजातं तव सन्दर्शनात्प्रभो।
मनोरथश्च सफलः श्रेयो मे समुपस्थितम् ॥ (१)

इच्छामि त्वामनुगतो रङ्गधामाभिवन्दितुम् ।
सबलोहमितिक्षिप्रं प्रयास्याम्यधुना त्वया॥ (२)

वाल्मीकिः –

इत्युक्तो गन्तुमारेभे काश्यपोग्निसमप्रभः ।
यत्र रङ्गं महच्छ्रीमदादाय सबलं नृपम् ॥ (३)

अग्रतः प्रययौ च्छत्री सशिष्यो मुनिसत्तमः ।
सानुगः सपरीवारो नृपस्तमनुजग्मिवान्॥ (४)

जम्बूकं तीर्थमासाद्य मुनिः प्रोवाच तं नृपम्।
ध्वजिन्या च महात्मानं साकं यान्तं कृताञ्जलिम्॥ (५)

काश्यपः –

एतत्तीर्थवरं लोके प्रथितं सुरपूजितम्।
सर्वपापहरं श्रीमन्नाम्ना जम्बूकसञ्ज्ञितम्॥ (६)

अत्र वृक्षो महानेष स्थितो जम्बूकसञ्ज्ञितः ।
अत्र शक्रः पुरा राजन् पूजयामास केशवम् ॥ (७)

स तु वृत्रवधाद्देवः प्रतप्तो ब्रह्महत्यया।
अपाकर्तुं च तत्पापं परिचक्राम मेदिनीम्॥ (८)

यत्र यत्र ययौ शक्रः पापभीतस्सुरोत्तमः।
तत्र तत्र च तं पापं छायेवानुजगाम ह ॥ (९)

आसाद्य ब्रह्मसदनं भृशं तप्तस्सुरेश्वरः ।
आचचक्षे यथा वृत्तं ब्रह्मणे पद्मयोनये॥ (१०)

व्याजहार वचो ब्रह्मा शक्राय नृपसत्तम ।
अक्षयं पुण्डरीकाक्षं स्मृतिमात्राघनाशनम् ॥ (११)

विष्णुं जिष्णुं हृषीकेशं शक्र त्वं शरणं व्रज।
पुण्यक्षेत्रनिवासश्च पुण्यतीर्थनिषेवणम्॥ (१२)

नाम्नां व्याहरणं तस्य पुण्यश्लोकस्य वै हरेः ।
एतानि क्षपयन्त्येव सर्वपापान्यशेषतः ॥ (१३)

इत्युक्तो वासवो राजन्निर्ययौ गुरुणा सह ।
अन्वसर्पत तत्पापं भावयन् नृपसत्तम ॥ (१४)

गुरुस्सपवनं चक्रे तस्य पापापनुत्तये।
पुरन्दरः पर्यचरदुर्व्यां तीर्थवराण्यपि॥ (१५)

पुष्करे न्यवसद्राजन् वर्षाणि त्रीणि पञ्च च ।
गङ्गाद्वारे वसन्निन्ये शक्रस्संवत्सरान् दश॥ (१६)

गत्वा च यमुनातीरं तत्र तीर्थान्यसेवत ।
सालग्रामे महाविष्णुं वाराणस्यां त्रिलोचनम्॥ (१७)

सरस्वतीं सरस्वत्यां पूजयामास वासवः ।
प्रशस्तं कर्म कुर्वाणं तत्पापं न जहौ नृप॥ (१८)

ततः पुष्करिणीं गत्वा वर्षाणि त्रीणि विंशतिः।
यापयामास राजेन्द्र सुसुखं स पुरन्दरः ॥ (१९)

जम्बूकतीर्थमासाद्य तत्रैव न्यवसत्सुखम् ।
देवस्याहरहः पूजां चकार मतिमान् हरेः ॥ (२०)

अथ काले बहुतिथे गते मतिमतां वरः।
शक्राय त्रिदशेन्द्राय सम्यक्पूजां प्रकुर्वते ॥ (२१)

आत्मानं दर्शयामास भगवान् शङ्खचक्रभृत् ।
दृष्ट्वा तं सहसोत्थाय तुष्टाव मधुसूदनम्॥ (२२)

शक्रः –

नमस्ते सर्वलोकेश नमस्ते चक्रपाणये।
नमः परावरेशाय नमश्शान्ताय जिष्णवे॥ (२३)

जगदुत्पत्तिविभवलयलीलाय विष्णवे।
व्यक्ताव्यक्तस्वरूपाय नमस्ते परमात्मने॥ (२४)

ज्ञानज्ञेयाय गुह्याय शान्तानन्तस्वरूपिणे।
विमलोत्कृष्टसत्त्वाय तेजसां निधये नमः॥ (२५)

इति स्तुतो हरिस्तेन शक्रेण पुरुषोत्तमः।
व्याजहार शुभं वाक्यं मेघगम्भीरनिस्वनः ॥ (२६)

श्रीभगवान् –

परितुष्टोऽस्म्यहं शक्र स्तोत्रेणानेन सुव्रत ।
तव, किं ते वरं दद्मि व्रयतां यत्तवेप्सितम्॥ (२७)

इन्द्रः –

भगवन्न् सुचिरं कालमनया ब्रह्महत्यया ।
पीडितोऽस्मि परं सद्यो विनाशं पापमृच्छतु॥ (२८)

श्रीभगवान् –

अस्मिन् तीर्थे विगाहस्व शक्र तीर्थवरे शुभे ।
विनाशं याति तत्पापं यच्च त्वां बाधते तराम् ॥ (२९)

ये चेदं परमं तीर्थमाश्रयन्ते च मानवाः ।
तेषां वै सर्वपापानि लयं यास्यन्ति वृत्रहन् ॥ (३०)

एतच्च परमं तीर्थं सर्वकल्मषनाशनम् ।
भविष्यति नृणां लोके तव शक्र तथास्तु तत् ॥ (३१)

काश्यपः –

इत्युक्त्वा भगवान् रङ्गी देवदेवो जनार्दनः ।
प्रविवेश स्वकं धाम तदेतद्रङ्गशब्दितम् ॥ (३२)

सस्नौ शक्रस्ततस्तीर्थे तत्पापं च ननाश ह।
विमलं रङ्गधामानं ववन्दे स पुरन्दरः ॥

कृतार्थस्त्रिदिवं राजन् ययौ शक्रः श्रिया ज्वलन् ॥ (३३)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टपञ्चाशोऽध्यायः

श्रीरङ्गमाहात्म्यम्–५९

जम्बूकतीर्थ प्रशंसा

काश्यपः –

अथात्र त्वं विगाहस्व सर्वपापापनुत्तये।
तत्र स्नात्वा नरश्शुद्ध्येदपि पापीयसां वरः ॥ (१)

अत्रैव मुनयस्सिद्धा वीतरागविमत्सराः ।
अध्यात्मज्ञानविरमा बहवस्स्वां गतिं गताः ॥ (२)

तत्र स्नाता च या नारी सा पुत्रं लभते ध्रुवम्।
राजा राज्यच्युतः स्नात्वा त्रैलोक्यमपि विन्दति॥ (३)

यस्त्रिरात्रमनश्नन् वै स्नायात्रिषवणं नरः ।
सप्तजन्मकृतं पापं तस्य नश्यत्यसंशयः ॥ (४)

ज्वराक्षिरोगापस्मारप्लीहगुल्मादयो नृणाम्।
तीर्थस्नानाद्विनश्यन्ति यथाग्नौ तूलराशयः ॥ (५)

त्वमद्यार्तं बलं तीर्थे तावकं स्नापयारिहन् ।
तव व्याधिकृतामार्तिं तीर्थं सद्यो व्यपोहति ॥ (६)

वाल्मीकिः –

इति तस्य वचश्श्रुत्वा काश्यपस्य महात्मनः।
राज्ञः सेना समाज्ञप्ता सस्नौ तीर्थवरे शुभे ॥ (७)

राजा च काश्यपश्चैव पश्चात्स्नानं प्रचक्रतुः ।
अतीवार्तं बलं राज्ञो नानारोगाश्रयेण तत् ॥ (८)

स्नानमात्रे बलं सौम्यं सहसा समुपद्यत ।
ततो जगाम भगवान् आम्रतीर्थमनुत्तमम् ॥ (९)

राजाऽपि सबलः श्रीमाननुवव्राज तं मुनिम्।
तस्मिन् तीर्थवरे पुण्ये स नृपस्सबलानुगः॥ (१०)

सस्त्रौ स बलवान् ब्रह्मन् सर्वकल्मषनाशने ।
सुस्नातस्सबलो राजा बभौ चन्द्रो यथा निशि॥ (११)

रराज च मुनिश्श्रीमान् सहचन्द्रो यथा गुरुः।
तत्तीरमपि बभ्राज चतुरङ्गबलान्वितम् ॥ (१२)

यथा शरदि नक्षत्रताराधिपयुतं नभः ।
मुनयश्च तपस्सिद्धास्तत्रस्था वीतकल्मषाः ॥ (१३)

वृद्धं तु काश्यपं दृष्ट्वा हृष्टास्तमुपतस्थिरे ।
तानुवाच मुनीन् वृद्धः काश्यपोऽग्निसमप्रभः ॥ (१४)

कृष्णाजिनधरान्विप्रान् प्रसन्नेन्द्रियमानसान्।
काश्यपः –

किमस्मिन्वृत्तमाश्चर्यं यदेतत्सुमनोहरम्॥ (१५)

नानाकुसुमसङ्कीर्णलतादिभिरलङ्कृतम् ।
फलोपहारसञ्च्छन्नं दिव्यग्न्धवहं शुचि ॥ (१६)

तीरं तीर्थवरस्यैतद्विचित्रं प्रतिभाति मे।
वदताखिलमद्यैव तत्र कौतूहलं महत् ॥ (१७)

भवन्तो धर्मनिरतास्सदा दृष्टपरावराः।
वाल्मीकिः –

मुनयस्तद्वचश्श्रुत्वा सर्वे वै हृष्टमानसाः॥

अस्तीत्यूचुर्महात्मानं श्रूयतामिति चाब्रुवन् ॥ (१८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोनषष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम् ६०

पुष्कराख्य द्विजवृत्तान्तः

वाल्मीकिः –

अथ भार्गवनामा तु मुनिवृद्धो जितक्लमः ।
यत्तत्र च पुरा वृत्तं वक्तुमेवोपचक्रमे ॥ (१)

भार्गवः –

शृणु काश्यप धर्मज्ञ पुरा वृत्तं तदद्भुतम् ।
आयुः पुष्टिप्रदं श्रीमच्छृण्वतामघनाशनम् ॥ (२)

पुरा पुष्करनामा तु द्विजो मतिमतां वरः ।
धरण्यां तीर्थयात्रां तु परिचक्राम सत्तमः ॥ (३)

इदं तीर्थवरं श्रुत्वा प्रशस्तं लोकविश्रुतम् ।
गन्तुमेतत्समारेभे यताहारो जितेन्द्रियः ॥ (४)

तं प्रयान्तं मुनिं दृष्ट्वा पिशाची व्याघ्ररूपिणी ।
व्यात्तानना भृशं घोरा जग्राह तपसां निधिम् ॥ (५)

स तु क्रूरतरां दृष्ट्वा पिशाचीं घोरदर्शनाम् ।
मा मेत्युवाच विस्रब्धः श्रुत्वा तं व्यसृजच्च सा ॥ (६)

भो भोः क्रूरेऽतिपापिष्ठे कथं मां हन्तुमुद्यता ।
ब्राह्मणं व्रतिनं शुद्धं तपोनिर्धूतकल्मषम्॥ (७)

पिशाची –

अत्र नास्त्यपराधो मे दैवस्येवेति निश्चितम्।
येन क्रूरतरं जन्म दत्तं मे चातिदारुणम् ॥ (८)

ब्राह्मणः –

आत्मतन्त्रस्य दैवस्य ह्यपराधोस्ति न क्वचित्।
शुभाशुभं तु स्वेनैव यतस्स्वकृतभुक् पुमान् ॥ (९)

ईश्वरस्सर्वभूतानां साक्षित्वेन व्यवस्थितः ।
शुभाशुभफलप्राप्तौ हेतुः कर्मकृतं नृणाम् ॥ (१०)

पिशाची –

ब्राह्मण त्वं न जानासि तत्त्वमेतद्धि भूसुर ।
शृणु ते यदि दैवस्य यथार्थश्रवणे मतिः॥ (११)

ईश्वरस्सर्वभूतात्मा सर्वं व्याप्य व्यवस्थितः ।
सर्वस्य कर्ता भोक्ता च तमृते नास्ति किञ्चन॥ (१२)

ततः कृत्स्नस्य जगतः कर्तुरेव परेशितुः ।
शुभाशुभस्य करणे शक्तिर्नान्यस्य कर्हिचित्॥ (१३)

ब्राह्मणः –

नैतदेवं तदा तच्चेत्परस्य परमात्मनः ।
कर्मप्रसक्तिस्तस्य स्यात् न तु तस्यास्ति कर्हिचित्॥ (१४)

कर्तारं च तथान्वेति क्रियाफलमिति श्रुतिः।
कर्ता चेत्तत्क्रियाशक्तिः देवस्यापि प्रसज्यते ॥ (१५)

पिशाची –

न विज्ञानं तवाप्यस्ति विशेषज्ञा हि पण्डिताः।
तत्त्वं तद्धि विजानद्भिः पण्डितैर्यद्विविच्यते ॥ (१६)

परं विनाऽपरं सर्वं क्वचित्कर्हि न चेष्टते।
नियन्ता सर्वभूतात्मा चेष्टयत्यखिलाः प्रजाः ॥ (१७)

ईश्वरो हि नियुङ्क्ते तु सर्वं सर्वत्र सर्वगः।
अतस्सर्वं करोत्येव देवदेवो जनार्दनः॥ (१८)

विश्वरूपो हि भगवान् विश्वस्यापि प्रवर्तकः ।
विश्वं बिभर्ति नयति स च विश्वं चराचरम् ॥ (१९)

ब्राह्मणः –

समस्तहेयरहितं परं ब्रह्म समीरितम् ।
शुभेतरस्य सम्बन्धो न सम्भवति तस्य हि ॥ (२०)

निर्गुणः परमात्मा हि प्रकृतिस्त्रिगुणात्मिका ।
जडात्मिका परं तेजः कथमन्योन्यसङ्गमः॥ (२१)

पिशाची –

आहोस्विद् ब्रह्मणाधीतं यत्त्वया ब्राह्मणाधम।
नोपासिताश्च गुरवो जीवितं तु वृथा तव ॥ (२२)

तिर्यगूर्ध्वमधश्चैव व्याप्य नारायणः स्थितः।
इति श्रुतिशतं वक्ति तस्य व्याप्तिरनाहता॥ (२३)

विचित्रशक्तिकं ब्रह्म श्रुतिमूर्धसु राजते।
अतस्सदसदत्यर्थं करोति न करोति च॥ (२४)

ब्राह्मणः –

अहो क्रूरत्वमज्ञत्वं त्वय्येव समुपस्थितम्।
कथं स्यात्तत्तथैवैकं करोति न करोति च॥ (२५)

पिशाची –

हृदयं तव नास्त्येव येन तात्पर्यनिश्चयः।
सर्वस्यात्मा परस्त्वेको वेदवेद्यस्सनातनः ॥ (२६)

कार्यसाधनशक्तिस्तु तस्यैवेति सतां मतम्।
अतस्सर्वं करोत्येव स एव भगवान् हरिः ॥ (२७)

तस्मिन् फलान्वयो नस्यान्न करोति सदामलः ।
यथा दृष्टेर्न शक्तिस्ते विष्णुं ब्रह्म निरीक्षितुम् ॥ (२८)

विलक्षणो ह्ययं योसौ मयि त्वयि च संस्थितः ।
द्विजः –

अदूरे ह्याम्रकं तीर्थं तस्मिन्सन्ति महर्षयः ॥ (२९)

अस्यार्थस्य यथा तत्र निर्णयो मुनिभिः कृतः ।
तत्त्वयोक्तप्रकारं चेत्तदा भक्षय मामपि ॥

नोचेन्मया वधः कार्यस्तव नास्त्यत्र संशयः ॥ (३०)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम्–६१

ब्राह्मण पिशाच्योः संवादः

भार्गवः –

इत्येवं संविदं कृत्वा पिशाची च द्विजोत्तमः ।
तीर्थं प्रययतुहृष्टौ तौ परस्परभाषिणौ ॥ (१)

अथात्रैव निषण्णास्ते मुनयस्तीर्थसत्तमे।
पिशाचीं मानुषं दृष्ट्वा सर्वे ते विस्मयं ययुः ॥ (२)

उपसृत्य तु तान्सर्वान् कृताञ्जलिपुटावुभौ ।
तीर्थस्नानहता शेषकल्मषौघावपृच्छताम्॥ (३)

द्विजः –

अहं वै ब्राह्मणः कश्चित्तीर्थानि परितो व्रजन् ।
पिशाच्या व्याघ्ररूपिण्या गृहीतोस्म्यनयाऽधुना॥ (४)

उक्तं च नापराधोत्र मम, देवस्य सोस्त्विति ।
नैवं शुभाशुभप्राप्तौ स्वयमेव हि कारणम् ॥ (५)

इत्यब्रुवमथो नेति ह्यनयैतत्समीरितम् ।
एवं विवादस्सम्प्राप्तः सुमहान् पूर्वमावयोः॥ (६)

अत्र प्रवादीयस्ते न वदस्स्यादितरस्य तु ।
इत्येवं संविदं कृत्वा तदिहावां समागतौ ॥ (७)

तद् ब्रूत भगवन्तोपि यथार्थं वदतां वराः ।
प्रकृष्टे तु विवादेस्मिन् कथं स्यात्तद्विनिर्णयः ॥ (८)

पिशाची –

केनचित्कर्मणा येन प्राप्तं मे जन्म चेदृशम् ।
तथापि न जहौ बुद्धिर्मां तावन्मुनिसत्तमाः॥ (९)

यद्यप्येवं मया जातेरनुरूपा क्रिया श्रिता ।
गृहीतश्च मया ह्येष कथमस्मि विनिर्दया ॥ (१०)

श्रुत्वा कोलाहलं वृत्तं महर्षीणामतीव हि ।
मुनीनां शृण्वतामत्र समाजश्च महानभूत् ॥ (११)

अथात्र ददृशे श्यामः पुरुषः प्रवरो युवा ।
इन्द्रनीलगिरिप्रख्यः तरुणः पुष्करेक्षणः ॥ (१२)

पीनवृत्तायतभुजः पीतवासस्समार्जितः ।
स्कन्धावसक्तकर्णीको लसच्चारुकपोलकः ॥ (१३)

चारुपल्लवसङ्काशमृदुलोज्ज्वलिताधरः।
चारुहासश्च चार्वाङ्घ्रिश्चारुचित्रनखावलिः ॥ (१४)

शोभनैः पुरुषैः श्यामैः श्यामीकुर्वन्नदीतटम् ।
आपीनांससमासक्तनीलकुञ्चितमूर्धजः ॥ (१५)

तादृशैर्द्वित्रपुरुषैः प्रसरद्भिरितस्ततः।
चारुस्मितैश्चार्वलकैस्संवृतः प्रियदर्शनः ॥ (१६)

चारुस्मिता चारुदती पीनोन्नतपयोधरा।
सविलासगतिश्यामा श्रीमती पृथुलोचना॥ (१७)

चलत्कुण्डलभाराक्ता साक्षाच्छ्रीरिव गां गता।
वपुरुद्यत्स्वसौरभ्यसंवासित दिगन्तरा॥ (१८)

नवयौवनसम्प्राप्ता वराभरणशोभिनी ।
पश्यन्ती फुल्लपद्मानि सरांसि सरितस्तटे॥ (१९)

चतुरापाङ्गसङ्गत्या सन्धुक्षितवनान्तरा।
सीतेवानुसरन्ती तं पुरुषं पुरुषोत्तमम्॥ (२०)

रममाणो वनोद्देशे स तया प्रियया सह ।
क्रीडासक्तमतिः कृष्णो यथा बृन्दावनेचरत् ॥ (२१)

श्रुत्वा कोलाहलं सोऽपि समाजं समुपाविशत्।
तं दृष्ट्वा मुनयस्सर्वे समुत्पेतुरचिन्तिताः ॥ (२२)

यथा परं पुमांसं च दृष्ट्वा पद्मोद्भवादयः ।
ततः क्रमात्समापन्ना मुनयस्संश्रितव्रताः ॥ (२३)

आसीनं पुण्डरीकाक्षं पप्रच्छुः पुरुषोत्तमम्।
को भवान् किं पुनः का ते विवक्षा कथमद्य नः ॥ (२४)

समाजमध्यं सम्प्राप्ता केयं पद्मासरूपिणी ।
समानवेषाः पुरुषाः के चेमे विमलेक्षणाः॥ (२५)

भार्गवः –

एतच्छ्रुत्वा शुभं वाक्यं मुनीनां भावितात्मनाम् ।
सस्मितं सविलासं च मधुरं च जगाद सः ॥ (२६)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकषष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम् ६२

मुनिमध्ये भगवदाविर्भावः

श्रीभगवान् –

अहं च कश्चिन्मुनयो दयितेयं ममानुगा ।
मृगयार्थं प्रयातोस्मि निवासोयमनन्तरः॥ (१)

अस्माकं च वनोद्देशः पुण्यः पुण्यजनाश्रयः।
रममाणो वनोद्देशे स तया प्रियया सह ॥ (२)

क्रीडासक्तमतिः कृष्णो यथा बृन्दावने चरत् ।
श्रुत्वा कोलाहलं सोऽपि समाजं समुपाविशत्॥ (३)

तं दृष्ट्वा मुनयस्सर्वे समुत्पेतुरचिन्तिताः ।
यथा परं पुमांसं च दृष्ट्वा पद्मोद्भवादयः ॥ (४)

ततः क्रमात्समापन्ना मुनयस्संश्रितव्रताः ।
आसीनं पुण्डरीकाक्षं पप्रच्छुः पुरुषोत्तमम्॥ (५)

को भवान् किं पुनः का ते विवक्षा कथमद्य नः ।
समाजमध्यं सम्प्राप्ता केयं पद्मासरूपिणी ॥ (६)

समानवेषाः पुरुषाः के चेमे विमलेक्षणाः।
भार्गवः –

एतच्छ्रुत्वा शुभं वाक्यं मुनीनां भावितात्मनाम् ॥

सस्मितं सविलासं च मधुरं च जगाद सः ॥ (७)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकषष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम् ६२

मुनिमध्ये भगवदाविर्भावः

श्रीभगवान् –

अहं च कश्चिन्मुनयो दयितेयं ममानुगा ।
मृगयार्थं प्रयातोस्मि निवासोयमनन्तरः॥ (१)

अस्माकं च वनोद्देशः पुण्यः पुण्यजनाश्रयः।
श्रुत्वा कोलाहलं तत्र तद्विजिज्ञासयागतः ॥ (२)

भवन्तोऽपि महात्मानो यूयं मद्दर्शनं गताः।
नूनं भद्राणि कार्याणि निर्विघ्नाश्च मनोरथाः ॥ (३)

सुसुखोऽयं वनोद्देशो भविष्यति सुखं च नः।
किं वा न जनयेल्लोके नृणां साधुसमागमः ॥ (४)

भार्गवः –

श्रुत्वा ते तु शुभं वाक्यमर्थवन्मधुरं प्रियम्।
मुनयो विस्मितास्सर्वे तं प्रेक्षन्ते स्म कामतः॥ (५)

ऊचुश्च तं प्रपश्यन्त एवं सस्मितमित्यपि।
अयं लक्ष्मीपतिर्नूनमियं सा श्रीर्भुवं गता॥ (६)

इमे च सिद्धाः पुरुषास्समानाकृतयः किल ।
अहो कान्तिरहो तेषामित्यूचुर्मुनयोमलाः॥ (७)

तस्य सन्दर्शनात्तत्र जनघोषो महानभूत् ।
शान्ते तस्मिन् महाध्वाने सोऽपि प्रोवाच सस्मितम् ॥ (८)

श्रीभगवान् –

किमिदं ब्रूत भद्रं वः श्रोतव्यं यदि मे द्विजाः ।
व्याघ्री च मनुजश्चोभौं चिरमत्र च संस्थितौ॥ (७)

स्वभावतो विरुद्धौ हि परस्परममर्षिणौ ।
बाध्यबाधकतां प्राप्तौ कथं तूष्णीं च संस्थितौ ॥ (८)

मुनयः –

आश्चर्यमेवमेतद्धि यदुक्तं सौम्यपूरुष ।
शृणु भद्रद भद्र त्वं यदर्थो मुनिसङ्गमः॥ (९)

विवादस्सुमहानासीत्तदानीमनयोः पुरा।
दैवे न्यस्तापराधेयमितरस्स्वात्मनीति च॥ (१०)

विवादस्तु श्रुतोस्माभिर्न कैश्चिच्छक्यनिर्णयः।
तदर्थमेव सञ्जातो मुनीनामत्र सङ्गमः॥ (११)

नृणां शुभाशुभप्राप्तौ दैवमेव हि कारणम् ।
तं विना परमात्मानं न किञ्चिच्चेष्टते यतः ॥ (१२)

व्याघ्रीवचनमेतद्धि हेतुवत्परमार्थवत् ।
पुरुषस्य वचस्सौम्य शृणु त्वं पुरुषोत्तम॥ (१३)

निर्गुणः परमात्मा च प्रकृतिस्त्रिगुणात्मिका।
प्राकृतानि च भूतानि हेयान्यतितरां यतः ॥ (१४)

अतश्शुभाशुभप्राप्तौ देही तत्र च कारणम् ।
परस्य हेयाधारत्वमयोगात्तद्व्यपाकृतम्॥ (१५)

तस्मात्क्रियाफलं तत्तत्कना स्वेनैव भुज्यते ।
इत्येवं प्रस्तुतो वादो ह्यनयोर्व्याघ्रिमर्त्ययोः॥ (१६)

अशक्यो निर्णयो यस्माद् वयं तूष्णीमिहास्महे।
सर्वलक्षणसम्पन्नश्श्रीमांस्त्वममरप्रभुः ॥ (१७)

त्वय्येव भाग्यसम्पत्तिस्त्वदधीनोन्यनिर्णयः।
आकारसदृशं चैव ज्ञानं बुद्धिर्बलं तव ॥ (१८)

अन्यानि सर्वभाग्यानि ह्याकारसदृशानि ते ।
यद्यनिर्णय एव स्यादन्योन्यं निश्चितो वधः ॥ (१९)

सर्वभूतसुहृच्छान्तस्त्वादृशः पुरुषोत्तमः।
लोके दृष्टचरोस्माभिर्यथा रामो महायशाः ॥ (२०)

यथा नन्दसुतः कृष्णस्तथा त्वमपि मानद ।
अतोऽन्योन्यविवादस्य निर्णयं कर्तुमर्हसि ॥

शक्यं चैतत्तवाशक्यमशक्यं तदिति ध्रुवम् ॥ (२१)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्विषष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम् ६३

भगवत् कृत तत्वोपदेशः

भार्गवः –

इति तेषां वचश्श्रुत्वा निश्चयज्ञो महामतिः ।
वचनं वक्तुमारेभे निर्णयार्थं नरोत्तमः ॥ (१)

भगवान् –

चराचरमिदं विश्वं परमात्मप्रवर्तनम् ।
हेयाकारमसद् विश्वं तत्क्षेत्रस्य प्रवर्तनम् ॥ (२)

उभौ सुष्ठु तदा ब्रूतां व्याघ्रीमर्त्यो महामती।
उभयोस्संविवादस्स्यान्न चान्यस्य विपर्ययः ॥ (३)

समस्तहेयरहितं परमात्मेति सूनृतम् ।
सर्वदोषाश्रयो जीव इति द्विजसमीरितम् ॥ (४)

तत्र किञ्चित्प्रपश्यामि ह्यनुक्तं मुनिसत्तमाः ।
एवं हि सर्वभूतेषु परमात्मावतिष्ठते॥ (५)

विधाय विविधानीह करणानि च देहिनाम्।
सङ्गल्प्य देहिनो देहं तत्तत्कर्मोपलक्षितम्॥ (६)

आत्मनो भोक्तृशक्तिं च क्रियाशक्तिं तथेश्वरः।
विधाय चैवं विश्वं तन्नियन्तुमवतिष्ठते ॥ (७)

सर्वस्याधारभूतत्वात्तथा विश्वप्रवर्तनात्।
विश्वं करोति भगवान् तथा विश्वस्य जन्मभूः ॥ (८)

परमात्मस्थितिरियं सर्वभूतेषु शाश्वती ।
विश्वमस्य शरीरं तद् विश्वस्यात्मा स ईश्वरः॥ (९)

सुखदुःखादियोगित्वमात्मनः कर्महेतुकम्।
कर्मबद्धो ह्ययं जीवः सदसत्कुरुतेनिशम्॥ (१०)

तं नियच्छति विश्वात्मा शरीरमितरो यथा ।
परप्रेरितशक्तिस्सन्नात्मा सर्वं करोति हि॥ (११)

एतावदेव कर्तृत्वमात्मनोस्त्येव सर्वदा।
यदिष्टकार्यकरणं शुभं वाप्यथवाऽशुभम्॥ (१२)

अतश्शुभाशुभं कर्म कुर्वतस्तत्फलान्वयः।
शुभं कृत्वा शुभं भुङ्क्ते पापं कृत्वा शुभेतरत् ॥ (१३)

इदं शरीरमात्मानं व्याप्य तिष्ठत्यपीश्वरः ।
न कर्मणा परिष्वक्तः पद्मपत्रमिवाम्भसा॥ (१४)

उदास्ते सर्वभूतात्मा साक्षित्वेन व्यवस्थितः।
अतश्शुभाशुभैस्सङ्गः कर्मबन्धनहेतुकः॥ (१५)

सर्वबन्धविनिर्मुक्तः परमत्मा स्वतस्सुखी ।
करणायत्तभोगश्च वश्यः क्षेत्रज्ञ इष्यते ॥ (१६)

परापरविभागज्ञो बन्धान्मुक्तिं समेष्यति ।
यदा स्वस्मिन् स्थितो विष्णुस्तदाज्ञानाद् विशुध्यति ॥ (१७)

विचित्रकार्यकरणे शक्तिरस्त्येव चात्मनि ।
नोचेत्सर्वस्य शास्त्रस्य वैयर्थं च प्रसज्यते ॥ (१८)

यद्ययं सर्वकार्याणि कर्तुं किञ्चन च प्रभुः।
प्रवर्तकं हि तच्छास्त्रं तं प्रकृत्य प्रवर्तते ॥ (१९)

इदं कुर्यादिदं नेति नेश्वरे प्रेरणं भवेत्।
अवाप्तसर्वकामस्तु न नियोज्यस्स ईश्वरः ॥ (२०)

शुभाशुभे प्रवृत्तस्य सापेक्षस्य करोति हि।
निवृत्तिमशुभाच्छास्त्रं प्रवृत्तिं च शुभेषु च ॥ (२१)

शुभाशुभप्रवृत्तं च सापेक्षमधिकारिणम्।
फलं प्रदर्शयच्छास्त्रमधिकृत्य प्रवर्तते॥ (२२)

शास्त्रं हि विपुलं तस्य शासनं तत्परेशितुः।
अतस्तत्परिहारार्थमर्थयाथार्थ्ययोगतः॥ (२३)

आत्मनः कार्यसामर्थ्यं तस्यैव च फलान्वयः ।
स्वं स्वमभ्येति सर्वत्र ह्येष शास्त्रविनिर्णयः ॥ (२४)

परं निश्रेयसं प्राप्तौ व्याघ्रीमर्त्यावुभाविमौ ।
परापरविभागज्ञौ परां सिद्धिं समेष्यतः ॥ (२५)

अस्मिन्विवादे विजयः परस्परमतीव हि ।
युवाभ्यामस्तबन्धाभ्यां ज्ञातव्यमधुना सुखम् ॥ (२६)

साध्वी वा यदि वाऽसाध्वी मतिरेषा मम द्विजाः।
प्रमाणं भगवन्तोत्र यूयं दृष्टपरावराः ॥ (२७)

भार्गवः –

इति मुनिजनमध्यगो महात्मा पुरुषवरः परमं जगाद वाक्यम्।
श्रुति सुखवहमर्थवत्प्रहृष्टा मनुजवरस्य वचस्त्वपूजयंस्ते ॥ (२८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रिषष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम् ६४

व्याघ्री मनुजयोः शक्रलोक गमनम्

मुनयः –

अहो खलु महात्मायं य इदं प्रब्रवीति च।
ब्रुवाणस्यास्य वाक्यानि मधुराणि महान्ति च॥ (१)

सुस्मितं चारुनयनं वदनं राजतेऽधिकम् ।
स्पष्टाक्षरमसन्दिग्धमर्थवन्मधुरं लघु ॥ (२)

श्रोत्रानुकूलं हृद्यं च वाक्यं यत्तत्त्वयोदितम्।
अनेनैव च वाक्येन हृदयानि हृतानि नः॥ (३)

भार्गवः –

इत्युक्ते वचने तत्र मुनिभिर्भावितात्मभिः ।
प्रहृष्टौ तावपश्येतां व्याघ्री च मनुजश्च सः ॥ (४)

तावूचिरे महात्मानो मुनयः क्षीणकल्मषाः ।
युवयोस्सङ्गमात्सर्वे वयं वै छिन्नसंशयाः॥ (५)

पूजिता निर्वृताश्च स्मो दृष्टश्चायं नरोत्तमः।
विहाय योनिं वैयाघ्रीं मानुषीमपि सत्तमौ ॥ (६)

कृतात्मानौ चिरं कालं देवत्वं च समेष्यथः ।
इत्युक्तौ व्याघ्रिमनुजौ तीर्थं विविशतु द्रुतम् ॥ (७)

मुनीनाम् पश्यतां तेषामदृश्येतां दिवि स्थितौ ।
विमानवरमारुह्य शक्रलोकं च जग्मतुः ॥ (८)

ततस्तु पुरुषश्रेष्ठो मनुष्यानुचरैस्सह ।
तस्माद्गन्तुं समारेभे द्विजांश्च परिहृत्य च ॥ (९)

तमनुव्रतसम्पन्नास्सर्वे च मुनयो ययुः ।
नानाक्रीडारतस्सोपि विहृत्य च नदीतटे ॥ (१०)

तत्र चान्तर्दधे श्रीमान् सानुगः पश्यतां सताम्।
ते विषण्णास्त्वपश्यन्तो मुनयो मधुराकृतिम् ॥ (११)

नदीतीरं न मुञ्चन्तो रुदन्तश्च तपस्विनः।
वायुभक्षा निराहारास्तद्दर्शनकुतूहलाः॥ (१२)

क्वासौ क्वासाविति मुहुः प्रजल्पन्तो हि बभ्रमुः ।
अथ काले गते तेषां वागासीद्वियति स्फुटम्॥ (१३)

मा विषादोस्तु युष्माकमहं रङ्गी द्विजोत्तमाः।
तत्र गत्वा तु पश्यन्तु भवन्तो मां यथा पुरा ॥ (१४)

देवदानवयक्षाणां गन्धर्वासुररक्षसाम् ।
मनुष्याणां च नागानामन्येषामपि गोचरः ॥ (१५)

हिताय सर्वभूतानां शयेहं रङ्गधामनि ।
अहं च सर्वविदुषां योगिनामप्यगोचरः॥ (१६)

तथापि सर्वजन्तूनां रङ्गधामनि गोचरः।
केवलं रङ्गशयने लोकानां हितकाम्यया॥ (१७)

अहं प्रकाशितः पूर्णो ममैवेच्छात्र कारणम्।
इत्येवमुक्त्वा सा वाणी विरराम क्रमेण च ॥ (१८)

अथोक्ता मुनयस्सर्वे सञ्जग्मू रङ्गधाम तत् ।
दृष्ट्वा तु रङ्गशयनं तुष्टुवुश्च यथा पुरा॥ (१९)

प्रसीद सर्व भूतेश प्रसीद पुरुषोत्तम ।
प्रसीद पुण्डरीकाक्ष जय चारुस्मितानन ॥ (२०)

ज्वलन्मकरकेयूरहारिहारोपशोभित।
मेघश्याम श्रियःकान्त पीनबाहो नमोऽस्तु ते ॥ (२१)

विपुलेक्षण चार्वंस नीलकुञ्चितमूर्धज।
सुभ्रूक सुनस स्वक्ष सुस्मिताधर सुश्रवः ॥ (२२)

चलत्कान्तिकपोलाढ्य श्रीमच्चारुशिरोधर ।
मृदुलामल सुस्निग्ध रुचिमत्कर्णभूषण॥ (२३)

विशालवक्षस्संलोलविचित्रोदरबन्धन ।
विमलोत्तमकाञ्चीक पीताम्बरधर प्रभो ॥ (२४)

लसन्नूपुर चार्वङ्घ्रिनखपतिविराजित ।
फणामणिगणोद्दाम गभस्तिचयसंवृत॥ (२५)

विचित्रशयन श्रीमन् रङ्गेश मधुराकृते ।
विमलेक्षण विश्वेश देवदेव नमोऽस्तु ते ॥ (२६)

इति स्तुतो मुनिगणैः प्रसन्नो रङ्गराट् स्वयम्।
आबभाषे स्वदन्तांशु शबलं वदनं दधत् ॥ (२७)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुष्षष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम् ६५

रङ्गेशं प्रणम्य मुनीनां आम्रतीर्थगमनं

लोकानां च हितार्थाय स्थितये निगमाध्वनः ।
प्रियाय चानुरक्तानां शयेयं रङ्गधामनि ॥ (१)

शयानमत्र मुनयो ये जनाः पर्युपासते।
तेषां कामाः प्रसिध्यन्ति तदुद्योगान्न संशयः॥ (२)

अतो यूयं त्रिकालज्ञाः ज्ञाततत्त्वार्थनिश्चयाः।
निर्वाणपरमा नित्यं भविष्यथ मम प्रियाः ॥ (३)

भार्गवः –

निर्ययुश्च पुनस्सर्वेप्याम्रतीर्थमुपागमन्।
ततः प्रभृति तीर्थेस्मिन् सायम्प्रातस्समाहिताः॥ (४)

पूजयन्तिस्म रङ्गेशं पुष्पगन्धानुलेपनैः।
तदेते पुष्पनिचयाः प्रातःपूजार्थमाहिताः ॥ (५)

इत्युक्त्वा मुनयस्सर्वे तं प्रणेमुः प्रहर्षिताः।
तत्र प्रणाममव्यग्रः कुरुष्व मुनिसत्तम ॥ (६)

वाल्मीकिः –

तथोक्तो मुनिना सोऽपि स नृपो मुनिसत्तमः ।
स्नात्वोत्थाय ततस्तीरे प्रणामादि चकार वै ॥ (७)

राज्ञस्सेनापि सा सस्नौं तस्मिन् तीर्थवरे शुभे ।
अस्तरोगा हितबला प्रहृष्टगजवाजिका॥ (८)

ध्वजिनी सा सुवर्णाभा सहसा समपद्यत ।
सौम्यं बलं समालक्ष्य राजा मुनिमथाब्रवीत् ॥ (९)

प्रशस्तमेतत्सुमहत्तीर्थं लोके सुपूजितम् ।
तत्र स्नातश्च सबलो भवतस्तेजसा ह्यहम् ॥ (१०)

किं नु कार्यमिहस्थेन क्षत्रियेण महामुने ।
किमत्र देयं प्रब्रूहि सिद्धं तदवधारय ॥ (११)

ब्राह्मणः –

कृशानामन्नदानं च गोदानं च कुटुम्बिनाम् ।
तथा प्रतिष्ठाहीनानां क्षेत्रदानं प्रशस्यते ॥ (१२)

सुवर्णं यायजूकानां सुविद्यां चोध्वरेतसाम्।
कन्याश्चैवानपत्यानां ददतां गतिरुत्तमा ॥ (१३)

प्रतिग्रहो ब्राह्मणस्य शास्त्रविद्भिरुदाहृतः।
दद्यान्न प्रतिगृह्णीयाद राजाकृच्छ्रगतोऽपि सन् ॥ (१४)

क्षत्रियःप्रतिगृह्णीयाद्यदि लुब्धो नराधिपः ।
सपुत्रदारस्सामात्यस्स सद्यो निरयं व्रजेत् ॥ (१५)

प्रशस्ते देशकाले च पात्रे दत्तं तदक्षयम्।
कोटिजन्मार्जितं पापं ददतस्तस्य नश्यति॥ (१६)

सकलाङ्गोपसंहारो यस्य दानक्रियाविधौ ।
अपि चेदपि पापीयान् स सद्यो मुक्तिमेष्यति ॥ (१७)

क्षेत्रमेतत्प्रशस्तं तत्पात्रं चातितरामिह ।
कालश्चानुगुणो ह्येष तद्ददस्व नराधिप ॥ (१८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चषष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम् ६६

काश्यपबोदितेन सुकीर्तिराजेन ग्रामनिर्माणं

वाल्मीकिः –

एवमुक्तो नरपतिः काश्यपेन महात्मना।
तत्र क्षेत्रे सुवर्णादीन् प्रदातुमुपचक्रमे ॥ (१)

पुण्यक्षेत्रान्वयाद्राज्ञः पुण्यतीर्थ समाश्रयात् ।
आसीद्विमलमत्यर्थं मनस्स्वच्छमिवोदकम् ॥ (२)

सत्सन्तानप्रसूतानां ब्राह्मणानां विजानताम् ।
यज्वनां वेदविदुषां सद्वत्र्मनिरतात्मनाम् ॥ (३)

चक्रे प्रतिष्ठाहीनानां प्रतिष्ठामपि शाश्वतीम्।
सर्वकामसुसम्पूर्णं तुङ्गप्रासाद गोपुरम् ॥ (४)

दासीदासयुतं श्रीमान् ग्रामं चक्रे नराधिपः ।
ब्राह्मणानां त्रिसाहस्रं ग्रामार्थमभिमन्त्रितम्॥ (५)

सतान् प्रासादवर्येषु ब्राह्मणान् द्विजसत्तमान् ।
न्यवेशयत्क्रमेणैव मुहूर्ते च शुभान्विते ॥ (६)

गवां सहस्रं प्रत्येकं तेभ्य एव ददौ नृपः ।
चक्रे चान्नप्रतिष्ठा च मतिथीनां विशेषतः ॥ (७)

ग्राम प्रान्तेषु वीध्यन्ते चत्वरेषु महीपतिः।
स्वर्णनिष्कशतं तेभ्यः प्रत्येकम् प्रददौ नृपः॥ (८)

कन्याश्चैवानवद्याङ्गी रूपलावण्य सम्युताः।
एवं कृत्वा तदाग्रामं सर्वकाम समृद्धिकम् ॥ (९)

तदन्वीक्षितुमारेभे पुरस्कृत्य पुरोहितम् ।
तदभ्याशं जगामाशु नृपतिस्स परिच्छदः॥ (१०)

आम्नायध्वनि रत्यर्थं शुश्रुवेच्छादयन्दिशः ।
समुदीर्णार्णवन्येव वाता हततरङ्गिणः ॥ (११)

चितयश्चैव यूपाश्च तत्र तत्र चकाशिरे ।
सत्रमासेव मानानाम् ब्राह्मणानां तथर्त्विजाम् ॥ (१२)

स्वाहाकारो वषट्कारस्सामघोषश्च शुश्रुवे ।
वेदानधीयमानानां वटूनां सामगायताम् ॥ (१३)

श्लक्ष्णध्वानस्समुत्तस्थावुदीर्णस्योदधेरिव।
एवमित्थमिदं नेति वादम् प्रवदतां सताम् ॥ (१४)

न्यायमार्गविदां तेषाम् बहुलं शुश्रुवे बहिः ।
गृहे गृहे समुत्तस्थौ महोत्सव समुद्भवः॥ (१५)

कर्मपुण्याह घोषश्च योषिताम् मङ्गलध्वनिः ।
नानाक्रीडासुसक्तानाम् बालानामधिक ध्वनिः ॥ (१६)

वियत्यतीव सुस्निग्धः शुश्रुवे दिक्षु विश्रुतः ।
नृपश्च सर्व मद्राक्षीत्सपुरोधास्सहानुगः ॥ (१७)

अत्यर्थम् मुमुदे राजा नित्योत्सवसमन्वितम्।
प्रेक्षमाणो जनावासं सिद्धाश्च द्विजसत्तमान् ॥ (१८)

अथ सर्वे समाकर्ण्य द्विजा राज्ञस्समागमम्।
निर्ययुर्हृष्टमनसः जलपूर्णघटैस्समम् ॥ (१९)

धृतप्रदीपास्सहसा पूर्णेन्दुसदृशाननाः।
नार्यस्तरुन्यो निर्जग्मुः सर्वालङ्कारसंयुताः ॥ (२०)

भवनं चाप्यलञ्चक्रुः स्वं स्वं ग्रामनिवासिनः ।
तोरणोत्तुङ्ग कदलि पूग पूर्णाघटोत्तमैः ॥ (२१)

चन्दनागरुधूपैश्च मुक्तादामाङ्गुरोत्तमैः ।
पताकाध्वजमालाभिः नरनारी गणोत्तमैः ॥ (२२)

जयेति प्रति जल्पद्भिस्स्तोतृभिस्सूतमागधैः ।
गायद्भिर्मधुरं सद्भिः नृत्यद्भिर्वेदपारगैः ॥ (२३)

अन्यैर्मङ्गलयुक्तैश्च सुकृतैस्सम्यतात्मभिः ।
राजापि प्रतिजग्राह ब्राह्मनोपहृतानि च॥ (२४)

संसिद्धार्थो द्विजान् दृष्ट्वा ननन्द सुमहामतिः ।
शङ्कभेरीनिनादैश्च जयशब्दैस्समन्वितः॥ (२५)

भूपतिःप्राविशग्रामं वृत्रहा स्वपुरं यथा।
ग्राममध्यगतो राजा ब्राह्मणानां धनं ददौ ॥ (२६)

कुटुम्बिनां च प्रत्येकं सहस्रं च गवामपि।
शतं शतं ददौ तेषां दासीदासगणा नृपः॥ (२७)

भुवनान्यपि सर्वासां युवतीनां ददौ बहु।
शोभनानि च वासांसि चन्दनानि च भूपतिः॥ (२८)

गृहोपकरणं चान्यत्तेभ्यो भूरि ददौ नृपः ।
एवं दत्वा स भूपालो हृष्टद्विजगणैर्वृतः ॥ (२९)

पुरोधनं पुरस्कृत्य रङ्गधाम समाविशत्।
अथ सात्वतधर्मज्ञास्सात्वतास्तत्वनिश्चयाः ॥ (३०)

सम्यक्संस्कारसंयुक्तास्सदाचारसमन्विताः।
सर्वकृत्येषु कुशलाः कृतिनश्च दयालवः॥ (३१)

उत्पन्नज्ञान वैराग्याः प्रियज्ञाः प्रियकारिणः ।
सम्यग्भावनया युक्ताः जपध्यानपरायणाः ॥ (३२)

परमात्मनि गोविन्दे विनिवेशित बुद्धयः ।
भक्तिनम्रात्ममनस स्तत्पूजा निरतास्सदा ॥ (३३)

सन्यासयोगनिरताः पवित्रीकृतमूर्तयः ।
आयान्तं राजवृषभमुपसङ्गृह्य तस्थिरे॥ (३४)

स तेभ्यः प्रददौ राजा प्रकृष्टद्रविणं बहु ।
समस्तेभ्यो नमश्चक्रे प्रह्वाञ्जलिपुटो नृपः॥ (२५)

सतैः प्रसन्नवदनैस्समवेतो नृपो बभौ ।
यथाशरदि नक्षत्र तारागणवृतश्शशी॥ (२६)

पताकाध्वजमालाभिः किङ्किणीभिरलङ्कृतम्।
चित्रनिर्माणनिपुण नाना पर्यन्तभूमिकम् ॥ (२७)

उदग्रनासिका जुष्टं बृहद्वीध्युपवीधिच ।
रत्नस्तम्भ समायुक्त हर्म्यस्थल विराजितम् ॥ (२८)

प्रांशु प्रान्त निषण्णोच्चरत्नसन्दोह वेदिकम्।
नानाकृति विचित्रान्त संस्थान चतुरश्रकम्॥ (२९)

विचित्र भक्तिराजीभिश्चित्रबृन्दारकैर्वृतम् ।
अत्यर्थमुच्छ्रितैर्लोलै र्नासिकान्तैर्विराजितम्॥ (३०)

हिमवत्पुङ्गशिखरैः प्रविशद्भिरिवाम्बरम्।
अनन्त रत्नसन्देश स्फुरत्तोरण राजितम्॥ (३१)

चन्दनागरुकर्पूर मिश्रितैघ्राणहारिभिः ।
ऊर्जद्धूमोद्गमैर्दिव्यैः भृशंसुरभितान्तरम् ॥ (३२)

शातकुम्भमयैः पूर्णैर्विमलाक्षत संयुतैः ।
विचित्रपुष्पोपचयैः कुम्भैरुभयतो वृतम् ॥ (३३)

अङ्कुरैर्हरितप्रान्तैस्तण्डुलै श्शालि सम्भवैः ।
रुक्मपात्रभृतैश्शश्वत् श्रीमद्भिस्समलङ्कृतम्॥ (३४)

मुक्तादामनिकाशैश्च नृत्तरत्न नियन्त्रितैः।
तन्मयूखसुसन्दोह विराजित दिगन्तरैः ॥ (३५)

विचित्रग्रधितैर्दिव्यैरम्लालवनपङ्कजैः ।
मालावितानकैर्जुष्टं भ्रमद्भ्रमर संयुतैः ॥ (३६)

किरीटहारकेयूर कुण्डलोज्वलिताननैः।
स्थविरैःक्षौमवसनैः कञ्चुकोष्णीषधारिभिः॥ (३७)

रक्षाविधानचतुरैर्वेदवेदान्तपारगैः ।
काश्मीरसम्भवैःपुम्भिः विविधैर्वेत्रपाणिभिः॥ (३८)

भो माविशत मामेतिव्याहरद्भिस्समावृतम्।
ततो द्विजवरैर्जुष्टस्सबलस्सपुरोहितः ॥ (३९)

उत्तुङ्गगोपुरद्वारं प्रविवेश महाद्युतिः।
द्वारस्थैरनुवृतो राजा प्राविशत्प्रथमां वृतिम् ॥ (४०)

तां प्रदक्षिणमार्गेण गच्छन् सोऽन्तरमाविशत्।
ततः प्रदक्षिणीकृत्य प्रविवेशापरां नृपः॥ (४१)

तत्र तत्र नमश्चक्रे प्रदक्षिण गतिस्स्वयम् ।
ततः प्रविश्य सबलः तृतीयावरणं नृपः ॥ (४५)

तत्र प्रदक्षिणं कृत्वा प्रविवेशा परं नृपः।
तत्प्रदक्षिण मार्गेण गच्छन् सोऽन्तरमाविशत्॥ (४६)

दिक्ष्वष्टसु यथायोगं कुमुदादीन् प्रणम्य च ।
चतुर्षु द्वारदेशेषु द्वारपालगणानपि॥ (४७)

अन्तःप्रविश्य सबलो विष्वक्सेनं प्रणम्य च ।
ततो ववन्दे सुप्रीतो रङ्गधाम स भूपतिः ॥ (४८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षट्षष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम् ६७

राजकृतम् रङ्गनाथ सेवनस्तवनं

वाल्मीकिः –

तत्रत्या द्वित्रपुरुषाः विष्वक्सेनगणाधिपाः।
तच्छासनादुपादाय राजानं सबलानुगम् ॥ (१)

विविशू रङ्गराजस्य भवनं शाश्वतं महत् ।
फणासहस्र मालाड्ये नागभोगे सुखोचिते॥ (२)

शयानं रङ्गधामानं ददर्श पृथुलोचनम् ।
यथा पुरा महातीर्थे दृष्टवान् पुरुषोत्तमम्॥ (३)

तथा तं दृष्टवान् राजा शयानं रङ्गधामनि ।
लोचने विपुले तस्य चतुरे चारुपक्ष्मणी ॥ (४)

सुब्रूविलासदयिते दृष्ट्वा राजा मुमोह सः ।
ललाटपलकं त्वीषत्प्रस्विन्नमिवलक्षितम् ॥ (५)

अरालकुटिलप्रान्तैस्तरलैरलकैर्वृतम् ।
स पश्यन् चतुरापाङ्गं स्फुरगण्डं समुन्नसम्॥ (६)

विद्रुमप्रतिमावल्गु मृदुलाधरफल्लवम् ।
चारुस्मितान्तरासक्त दशनांशुविराजितम्॥ (७)

वदनं विस्मितो दृष्ट्वा देवस्य मुमुदे चिरम्।
प्रज्वलन्मकरोद्भासि श्रवणान्तकपोलकम् ॥ (८)

चारुकर्णावतंसं च मनो दद्रे महीपतिः ।
किरीटं च बृहच्छ्रीमद्युति जुष्टं विलोक्य च ॥ (९)

अरालकुटिलोद्दाम केशपाशन्ननन्दनः ।
स्फुरदङ्गदसन्नद्ध पीनवृत्त भुजद्वयम् ॥ (१०)

विचित्रवलयाबद्धमङ्गुलीयविभूषितम्।
हारिहारयुतं वक्षश्चतुरोदरबन्धनम्॥ (११)

अत्यच्छपीतवसनं काञ्चीगुणविराजितम् ।
दृष्ट्वाऽथ मुमुदे राजा विस्मितश्च मुमोह च॥ (१२)

देवदेव महाबाहो विमलायतलोचन।
अत्यन्तातिशयाचिन्त्य नमस्तुभ्यमितीरयन्॥ (१३)

निषसादाथविवशो राजा तत्र महाद्युतिः ।
तद्दर्शनभवानन्द सुधा विप्लुतमानसः॥ (१४)

उवाच किञ्चिद्वचनं वाचा गद्गदया पुनः।
अहो सुशयनं त्वस्य सौम्यमेतदमानुषम् ॥ (१५)

अहो नु वपुषःकान्तिरहो लक्ष्मीर्विलोचने।
अहो वसनमन्येतन्मनो मम हरत्यपि ॥ (१६)

अहो सुस्मितमत्यन्तं हृदयापहरं मम ।
अहो विलोचनेचेमे हृदये प्रतितिष्ठितः॥ (१७)

अहो बाहुद्वये कान्तिरहो वक्षो विराजते।
वाल्मीकिः –

इत्युक्त्वा विररामाथ भूपतिर्हृष्टमानसः॥

प्रणम्य प्रणतस्थौ सतामेव विलोकयन् ॥ (१८)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्तषष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम्–६८

राजानं प्रति रङ्गनाथ कथित स्ववृत्तान्तः

वाल्मीकिः –

तमन्वीक्ष्य महाबाहु श्शयानो रङ्गरादयम् ।
प्रव्याजहार मधुरं जीमूत इव नादयन्॥ (१)

श्री भगवान् –

जानामि त्वानुरक्तं च याते प्रीतिरनुत्तमा ।
मयिद्र्वादतां वेद्मि दयितत्वं भृशं मम ॥ (२)

अहं नारायणो नाम यत्र विश्वभवाव्ययौ ।
लोकानां च हितार्थाय शयानं रङ्गधामनि॥ (३)

पुरा पद्मभुवा राजन् ! संस्थतः प्रार्थितस्तदा ।
दर्शनं याहि याहीति सो हन्त दर्शनं गतः ॥ (४)

कृतार्थस्तु चिरं ब्रह्म पूजयामास मामपि ।
दयितं दाम तद्विद्धि शेषाख्यमिति भूपते ॥ (५)

अनेन सार्थं सुप्रीतो ब्रह्मणस्सदने वसम् ।
हितं चिकीर्षुलोकानां केनचित्कारणेन हि॥ (६)

विश्वम्भरायमवसमयोध्याधिप मन्दिरे।
पूर्वकैस्तव राजेन्द्र राजभिस्सत्कृतश्चिरम्॥ (७)

तदेतद्राघवः श्रीमान् राक्षसेन्द्राय दत्तवान्।
प्रियाय प्रियकामश्च प्रियन्धामात्मनोदिकम्॥ (८)

दृष्ट्वैतत्सरितस्तीरं विमलोदपहं नदीम् ।
रमणीयं मनोद्देशं रोचते स्म मनो मम ॥ (९)

तं प्रहस्यमहात्मान मनुरक्तं विभीषणम् ।
अत्रैव रममाणोऽहं शयेयं रङ्गधामनि॥ (१०)

प्रीतोऽस्मि तव वृत्तेन भक्त्या पुष्कलयामयि।
अत्राऽऽराधनमीहस्य वृणीष्वार्थान् यथेप्सितान् ॥ (११)

राजा –

कृतः कृतार्थो भगवन् सफलाश्च मनोरथाः ।
अद्य मे सफलं जातं जन्मत्वामत्र पश्यतः॥ (१२)

वाल्मीकिः –

इत्युक्त्वास नृपो ब्रह्मन् तस्मै चक्रे नमो मुदा ।
तस्मै पूजादिकमपि प्रीत्याचाप्यग्रमानसः ॥ (१३)

प्रणम्य कृच्छ्रादुत्थाय बहिर्निर्गम्यभूपतिः ।
द्वारस्थान् पूजयामास भूषाद्यैर्दिव्यपूरुषान् ॥ (१४)

प्रदक्षिणमथागत्य विष्वक्सेनं प्रणम्य च ।
सबलस्सानुगोराजा तस्थौ तत्र कृताञ्जलिः ॥ (१५)

कालमेघनिभं धाम श्रीमच्छ्रीरङ्गशब्दितम् ।
दृष्ट्वा पुरोहितं राजाप्यत्यर्थमिदमूचवान् ॥ (१६)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टषष्टितमोऽध्यायः

श्रीरङ्गमाहात्म्यम्–६९

पुरोहित कथित रङ्गधाम प्रशंसा

भगवन् किमिदन्त्वेतद्धामदिव्यं ब्रवीहि मे।
अक्षय्यं व्योम्नि विततं नीलशृङ्गमिवोच्छ्रितम् ॥ (१)

पुरोहितः –

अनन्तशक्तियुक्तस्य सर्वाधारस्य चेशितुः ।
धरणाद्दिव्यमेवैतद्धामविद्धि सनातनम्॥ (२)

शयनासनसच्छत्र पादुकांशूपधानतः।
देवस्याकृतिभेदेन शेषो वहति शेषताम् ॥ (३)

ज्ञानशक्तिबलैश्वर्य वीर्यतेजांस्यशेषतः।
अनन्ते समवेतानि निरपेक्षाणितानि तु ॥ (४)

गुणानन्त्याच्च पूर्णत्वादनन्त इति संस्मृतः।
साक्षादाधारशक्तिर्हि सशेषः परमात्मनः॥ (५)

सप्तद्वीपार्णवा पृथ्वी सशैलवन पत्तना।
तस्यानन्तस्य राजेन्द्र शिखरेसमुपस्थिता ॥ (६)

तदात्मना जगद्व्यक्ति कालेकारणपूरुषः ।
विश्वम्भरा च विश्वं च सर्वं तस्मिन्त्वयाहितम् ॥ (७)

तन्मयं धाम चैवेतत् कोऽन्यो धारयते परम्।
समस्तशक्तियुक्तं तदक्षय्यमचलं धृवम् ॥ (८)

जगज्जन्मलयेप्येत दप्रदृश्यमनाकुलम् ।
श्रीमद्दामपरं राजन् श्रीमतश्शेषशायिनः ॥ (९)

तव सौभाग्य सम्पत्या दृष्टवानसि भूपते ।
प्रतिष्ठितं कुरुष्वैतन्मानसे तव शोभनम्॥ (१०)

दिव्यं विमानं परमं श्रीरङ्गमिति शब्दितम् ।
यस्त्वेतद्भगवद्धाम दिव्यमक्षय्यमद्भुतम् ॥ (११)

अध्रुवं मन्यते नष्टस्सोऽशुचौ नरके पतेत्।
अध्रुवाणि फलान्यस्य सोढु वां गतिमेष्यति ॥ (१२)

यस्तु सामान्यदृष्ट्वैतदीक्षते धामशाश्वतम्।
स याति नरकं घोरं मृत्युवकोपमं भुवि ॥ (१३)

उच्चेषु नीचबुद्धिर्हि महतामपि नाशकृत् ।
असतामपि नष्टानां जायते ह्यनिमित्ततः ॥ (१४)

उच्छ्रिते नीचबुद्धिस्स्यान्नाशयेत्तस्य तत्फलम् ।
ईश्वरेन ईश्वरज्ञानात् याति संसृति बीजताम्॥ (१५)

यथा तस्मिन् तथाज्ञानादमृतत्वमियान्नरः ।
एतद्दिव्यं महद्दामसर्ववेदमयं परम्॥ (१६)

यथा विश्वेश्वरो विष्णुर्वेद एवाऽवतिष्ठते ।
सर्वशक्तिमयञ्चैतत्सर्व शक्त्याश्रयाश्रयम् ॥ (१७)

विष्णोराधारशक्तिर्हि शेषाख्यं नृपसत्तम ।
अत एव बिभर्त्येष धरित्रीं शिखरे स्थिताम्॥ (१८)

युगे युगे यथाविष्णुः वर्णभेदोपलक्षितः।
तथैतद्धाम राजेन्द्र पृथग्वर्णं कृतादिषु ॥ (१९)

ह्रासवृद्धिप्रभावोऽस्य कालभेदकृतो नृप।
प्रापौ कलियुगे राजन् सर्वं स्यादधरोत्तरम् ॥ (२०)

मतिश्च प्राणिना सत्सु विपरीता च जायते ।
असच्च सत्यादुत्कृष्टो निकृष्टस्यात्कलौ युगे॥ (२१)

अनित्यानि च नित्यानि कृतानि सकृतानि च ।
शूद्रस्तु द्विजधर्मास्याच्छुद्रधर्मा द्विजो भवेत् ॥ (२२)

पतिं च भार्या त्यजति शिष्यश्च गुरुमव्ययम्।
यज्ञदानतपस्सिद्धान् द्विजानपह्रंसति च॥ (२३)

प्रद्विषन्ति पतिं विष्णुं देवानामधिदैवतम्।
कलौ गुरूणां च गुरुं पापेनोपहता नराः॥ (२४)

प्रयान्ति नरकं तेऽपि नष्टात्मानो ह्यधोमुखाः ।
एतदायतनं नित्यं ध्रुवं चाकृतमेव च ॥ (२५)

श्रीमता शयितं श्रीमद्विष्णुना शेषशायिना ।
यस्तुकालवशादेतदन्यथा मन्यते नरः ॥ (२६)

सयाति नरकं राजन् निकृष्टां यो निमेष्यति ।
यथार्थमेतद्विज्ञाय नमो धाम्ने करोति यः ॥

स सर्वशुद्धिमाप्नोह्यमृतत्वाय कल्पते ॥ (२७)


इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोनसप्ततितमोऽध्यायः

श्रीरङ्गमाहात्म्यम्–७०

रङ्गधाम समीपस्थित गिर्यारोपणं

वाल्मीकिः –

एवमुक्तस्ततो राजा पूजयामास तं गुरुम् ।
प्रणामं च करोद्धाम्ने नृपस्सत्यपराक्रमः ॥ (१)

द्वारस्थानपि च सत्कुर्वन्निर्यमास बहिर्नृपः।
अथ दक्षिणतस्तस्य देशस्यान्ते महागिरिः॥ (२)

तमारुरोह स नृपः सबलस्सपुरोहितः।
उदग्रगिरिमारुह्य स्थित्वासौ तत्र मूर्धनि ॥ (३)

अवैक्षत दिशस्सर्वा नदीमारामसंश्रिताम् ।
तत्रस्थ स महीपालो यं यं देशमवैक्षत ॥ (४)

तं तं देशमतिप्रीत्या रङ्गिणे समकल्पयत् ।
तद्वच्च दासदासीनां युवतीनां महामतिः ॥ (५)

अनेकशतसाहस्रं प्रीत्यास्मै समकल्पयत्।
तत्रैव वासमकरोत्पर्वतस्य च पश्चिमे ॥ (६)

नगरी निर्मिता तत्र यथा नाकेऽमरावती ।
तस्याचक्रे स राजर्षीन् निवासं सुहृद्गुणः॥ (७)

व्यराजत नृपः पुर्यामुव्यं शक्रो यथा दिवि ।
ततस्त्वनुदिनं राजा दृष्ट्वा तं रङ्गशायिनम् ॥ (८)

अत्यर्थं मुमुदे श्रीमान् पुण्डरीकनिभेक्षणम् ।
महान्तं कालमनयद्देवदेवं महीपतिः॥ (९)

राज्यं तत्र तु निक्षिप्य सुतेदक्षे सुनामनि ।
चिरकालं समभ्यच्य रङ्गराजपदाम्बुजम् ॥ (१०)

जितेन्द्रियो जितारिस्तु वैष्णवीं गतिमाप सः।
अद्यापि दृश्यते तस्य पुरं देवपुरोपमम् ॥ (११)

एवं तीर्थस्य माहात्म्यं भरद्वाज समीरितम्।
यस्त्वेतच्छृणुयात्सोऽपि सर्वपापैः प्रमुच्यते॥ (१२)

धौतपाप्मा जितक्रोधो ब्रह्मभूयाय कल्पते ।
व्यासः –

एवं श्रुत्वा भरद्वाजः पप्रच्छ मुनिसत्तमम्॥

वाल्मीकिं वदतां श्रेष्ठं मुनिं दृष्ट्वापरावरम् ॥ (१३)

इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्ततितमोऽध्यायः