श्रीः
श्रीमते रामनुजाय नमः
श्रीगारुडपुराणे श्रीरङ्गमाहात्म्य-प्रारम्भः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
यस्य द्विरदवत्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
श्री रङ्गनाथपरब्रह्मणे नमः
हरिः ओं
श्रीरङ्गमाहात्म्यम् – १ (प्रथमोऽध्यायः – सूत महर्षि संवादः)
मुनयो नैमिशारण्ये सत्रं द्वादश वार्षिकम्।
समासत महात्मानो ब्रह्मण्याहित-चेतसः ॥ (१)
तत्रान्येऽपि समागच्छन् दिग्भ्योऽपि च तपस्विनः।
हिमालये चान्ये विन्ध्यपर्वत-वासिनः ॥ (२)
सूतपुत्रो महातेजः समायाद्रौ महर्षणिः ।
महात्माऽतिविनीतश्च पुराणार्थ-विशारदः ॥ (३)
तस्मिन्नभ्यागतानां च मुनीनां भावितात्मनाम् ।
युगपत्सङ्गतानां च ससमाजो महानभूत् ॥ (४)
तेषु सत्सु सदन्येषु सम्यक्प्रावर्तताध्वरः ।
कर्मान्तरे च मुनयस्सूतं प्रच्छुरादरात् ॥ (५)
ततस्त्वङ्केषु देशेषु सङ्गतोऽसि महामते।
आश्चर्याणि च दृष्टानि यदि तानि वदाद्यनः॥ (६)
एवं पृष्टस्तु मुनिभिस्सादरं रौमहर्षणिः।
प्रत्युवाच प्रहृष्टात्मा बभूव विनयान्वितः ॥ (७)
सूतः –
जनकस्य च राजर्षेरध्वरो भूरि-दक्षिणः।
निर्वर्तितो वसिष्ठाद्यैः मुनिभिः ब्रह्मवादिभिः॥ (८)
तत्र संयक्प्रवृत्ताश्च चित्राः पापहराः कथाः।
गुरोः सम्पूजितन्यैव वेदव्यासस्य सन्निधौ ॥ (९)
मुनीनां पृच्छतां तत्र कृष्णद्वैपायनो गुरुः।
पुराणं गारुडं श्रीमदाचख्यौ लोकपूजितः॥ (१०)
क्रतौ समाप्तसमयाद् व्यासोऽपि च यथागतम्।
अन्ये च मुनयस्सर्वे जग्मुः पूर्णमनोरथाः॥ (११)
भवन्तो नैमिशारण्ये सत्रं द्वादश-वार्षिकम् ।
कर्तुं व्यवसितास्सर्वे इत्यश्रौषमहं तथा ॥ (१२)
मुनीनां सङ्गतं श्रुत्वा सत्रेऽस्मिन् भावितात्मनाम् ।
इमं पुण्यं समाजं तु दिधृक्षुरहमागतः ॥ (१३)
मुनयः –
अहो सौभाग्यमस्माकं समेतानामिहाध्वरे ।
यतस्त्वमागतस्सूत तत्वज्ञान-निधिस्स्वयम् ॥ (१४)
यथा जनकराजस्य प्रवृत्तं च महाध्वरे ।
गरुडाख्यं पुराणं तत् तथाचक्ष्व महामते ॥ (१५)
त्वदुच्यमानमस्माकं पुराणं पापनाशनम्।
शृण्वतामिति हर्षस्यादमृतं पिबतामिव ॥ (१६)
इति श्रीगारुडपुराणे श्रीरङ्गमहात्म्ये प्रथमोऽध्यायः
श्री रङ्गमाहात्म्यम् – २ (व्यासमुनिं प्रति नागदन्तमुनेः प्रश्नः)
श्री रङ्गनाथपरब्रह्मणे नमः
सूतः-
नमस्कृत्याप्रमेयाय व्यासायामिततेजसे।
वेदार्थज्ञान-निधये तत्प्रणीतं वदामिवः॥ (१)
अध्वरे च सदासीनं जनकस्य महात्मनः।
कृतज्ञं कृतकर्माणं कृतमैत्रं कृपालयम् ॥ (२)
भारतामृत-सम्भूति भूरि-विज्ञानतोयधिम्।
शिष्यैः परिवृतं शश्वत्सर्व वेदार्थपारगैः ॥ (३)
पाराशर्यं मुनिश्रेष्ठं हिमवत्पादमाश्रिताः।
तीर्थानि च सुमुख्यानि पापघ्नानि नृणां क्वचित् ॥ (४)
सेवमाना महात्मानस्सम्यक् ध्वस्ताघ-सञ्चयाः ।
अत्रिर्वसिष्ठश्शाण्डिल्यो विश्वामित्रोथ नारदः ॥ (५)
मार्कण्डेयस्तु जाबालिः वाल्मीकिः गौतमोऽङ्गिराः ।
कुम्भयोनिश्शतानीको वामदेवस्तु शौनकः ॥ (६)
एते चान्ये च मुनयस्तीर्थयात्राकृतश्रमाः ।
प्रणेमुः ऋषयस्सर्वे तं च सत्यवती-सुतम् ॥ (७)
परमं सर्वलोकस्य गुरुं गौरवयन्त्रिताः।
तदध्याशेतदा तस्थुर्मुनयश्च ससाध्वसाः ॥ (८)
परस्मिन् पुरुषे शश्वदनादिनिधने गुरौ ।
परे ब्रह्मण्यजे शान्ते परेशे परमात्मनि ॥ (९)
युक्तात्मानम् ऋषिं दृष्ट्वा विस्मयन्तो द्विजर्षभाः।
अथ तानग्रतो दृष्ट्वा सर्वानृषिगणान्विभुः ॥ (१०)
प्रसन्नया दृशालोक्य कुत इत्यब्रवीद्गुरुः।
अधिकं लब्धमाश्चर्यं दर्शनं पश्चिरेप्सितम्॥ (११)
आपादयति मे प्रीति मत्यर्थं वस्समागमः ।
नूनं विपक्षवस्सर्वे कामं ब्रूत तपोधनाः॥ (१२)
इत्येवं समनुज्ञाता मुनयो वाचमब्रुवन् ।
मुनयः –
भवन्तं सर्ववेदार्थ-प्रदायिनमनामयम्॥ (१३)
प्रपन्नास्म वयं दृष्ट्वा भवद्दर्शनलालसाः।
श्रोतुकामा वयं त्वत्तः पुराणं गारुडं परम्॥ (१४)
सूतः –
इत्युक्त्वा मुनयस्सर्वे सादरं तपसि स्थिताः ।
नागदन्तं तु मुनयः प्रेरयामासुरुत्तमम्॥ (१५)
अथोवाच स देवर्षीन् सर्वेषां मनसीप्सितम् ।
विनयावनतो भूत्वा नागदन्तो महामुनिः ॥ (१६)
नागदन्तः –
तीर्थयात्रां प्रकुर्वन्तस्त्वां यता स्म वयं पुरा।
अध्वरे च समासीनं जनकस्य महात्मनः॥ (१७)
पुरा पुराणतीर्थानि कीर्तितानि महामुने।
तानि सर्वानि चास्माभिस्सेवितानि द्विजोत्तम॥ (१८)
गङ्गद्यास्सरितोयाश्च स्थानान्यापि महन्ति च।
वयं पुण्येषु तीर्थेषु स्थानेषु च महत्सु च॥ (१९)
सेव्यज्ञानाग्निनादग्ध किल्बिषाश्च महामुने।
गारुडाख्यं पुराणं तत्वत्तो वै भूरितेजसः ॥ (२०)
श्रोतुकामास्त्वदभ्याशं सङ्गतास्तत्वतोऽधुना।
तस्माद्भवानपि ब्रूहि प्रसन्नेन्द्रियमानसः॥ (२१)
कुतो विश्वं समुद्भूतं कस्मिंस्तिष्ठति केन वै।
पाल्यते भूतमखिलं केन वै नाशयते पुनः॥ (२२)
कति भूतविशेषाश्च लोका अपि मुने वद।
जन्तूनां विविधोत्पत्तिस्सर्वेषां किं निबन्धना॥ (२३)
नियन्तृत्वनियाम्यत्वे सर्वेषां किं निबन्धने।
नियन्तारश्च बहव एकोवासोऽपि कः परः॥ (२४)
वेदेषु यत्परब्रह्म शब्देनैवाभिलप्यते ।
तत्किमेष यतोऽन्यो वा नियन्ता जगतो वद ॥ (२५)
स्थिति-संहृति-सम्भूति-धृति-भक्ति-कृतिष्वपि ।
को वाऽस्य जगतो मूलं कर्तृत्वेनोपलक्षितः॥ (२६)
प्रमाणं किञ्च लोकानामद्रिद्वीपार्णवेषु च।
पुण्यानि यानि तीर्थानि पुण्यस्थानानि वा भुवि ॥ (२७)
पुण्याश्च नद्यः पुण्यानि प्रायश्चित्तव्रतानि च।
सर्वमेतदशेषेण प्रब्रूतादद्य मे भवान्॥ (२८)
परावरज्ञो भगवान् व्यासस्सत्यवतीसुतः ।
इति लोको वदत्येव लोकस्सूनृतवाक् खलु॥ (२९)
त्वामेव हि प्रसन्ना स्मः दयां भद्रां कुरुष्व नः ।
इत्युदीरितमाकर्ण्य दध्यौ स भगवान् हरिम्॥ (३०)
परेशं परमात्मानं पुण्डरीक-निभेक्षणम्।
अनन्तमक्षरं श्रीशं परात्परतरं विभुम् ॥ (३१)
तद्गुणाविद्धहृदयो नागदन्तं पुरः स्थितम्।
अन्यान्यर्पिरित आसीनानभिवीक्ष्येदमब्रवीत्॥ (३२)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्वितीयोऽध्यायः।
श्रीरङ्गमाहात्म्यम्-३ (दक्षाध्वरे व्यासोक्त गरुडागमनम्)
व्यासः –
शृण्वन्तु मुनयस्सर्वे नागदन्तं कथां शुभाम् ।
पुराण संहितामाद्यां सादरं तार्क्ष्य सञ्ज्ञिताम्॥ (१)
पुरा दक्षाध्वरे देवाः मुनिभिस्सार्धमासत ।
सदस्याश्चाभवंस्तत्र बहवो नारदादयः ॥ (२)
वर्तमाने कृतौ तस्मिन् दक्षस्य ब्रह्मवादिनः ।
उद्गाता च जगौ तत्र सूत्रं सौवर्णमुच्चकैः॥ (३)
अथ सद्यो महाघोष आकाशे समपद्यत।
चचाल वसुधा चैव दिशश्चाव्याकुलीकृताः॥ (४)
अद्वारे वर्तमानानामृत्विजां च दिवौकसाम्।
ब्राह्मणानामतीवासीत् सङ्क्षोभो गात्रवेपथुः॥ (५)
अथ ते शुश्रुपुर्व्योम्नि सामानि मधुरं बहु।
आसीदुच्चावचानां तत्सामगीत्याकुलं नभः॥ (६)
तदा दिशि दिशि व्योम्नि व्याजृम्भत जयध्वनिः ।
गान्धर्वं चातिमधुरं गीतं व्योम्नि च शुश्रुषे॥ (७)
दिग्भ्यो विनिसृतो वातस्सुखस्पर्शो ववौ तदा।
सहंश्च बहुसौरभ्यं कुर्वन् सुरभितं नभः॥ (८)
एवं जगत्सङ्क्षुभितं कुर्वन्व्योम्नि सनातनः।
सुपर्णः पन्नगरिपुः वेदात्मा समदृश्यत॥ (९)
वक्रतुण्डो महादंष्ट्रो पीनोन्नत-भुजद्वयः।
सौवर्णशिखरप्रख्य-किरीटोज्वलिताननः॥ (१०)
विलसत्पन्नगाभोग-कुण्डलद्वय-भूषणः।
दामोदर-पदाम्भोज-किणभूषित-कन्धरः ॥ (११)
विलोलमृदुलस्निग्ध बाहुस्कन्ध समद्युतिः ।
वनमालाञ्चितोरस्को ह्युद्दामोदर-बन्धनः ॥ (१२)
चलद्वलय-रत्नाग्र्य-विराजितकराम्बुजः।
रुक्माचलसमासक्त बालातप निभाम्बरः ॥ (१३)
रत्नमुक्तोज्ज्वलमहाकाञ्चीदामकटिस्थलः ।
शिञ्जनीमापुरोद्दामभूषा जुष्टपदाम्बुजः॥ (१४)
स बभौ रुक्मशिखरस्सुपक्ष इव पर्वतः ।
सौम्यध्वरं समासाद्य तिष्ठौ गिरिरिवाक्षयः ॥ (१५)
पुर उत्तरवेद्यास्तु गीर्वाणगणवन्दितः।
तं दृष्ट्वा ऋत्विजास्सर्वे मुनयश्च दिवौकसः॥ (१६)
प्रणेमुस्सहितास्तत्र दृष्ट्वा तार्क्ष्यं त्रयीमयीम् ।
तुष्टुवुस्तं महात्मानो मुनयस्संशितव्रताः॥ (१७)
मुनयः –
त्रिवृच्छिरास्त्वं भगवान् गायत्रं तव लोचने।
स्तोम आत्माचले गात्रं वामदेव्यं महामते ॥ (१८)
बृहद्रथन्तरे चोभे तव वक्षावुभावपि ।
छन्दांसि तव चाङ्गानि सामान्यन्यानि ते बलम्॥ (१९)
चितयस्तव रोमाणि दर्भाश्चैव महामते ।
यूपदंष्ट्रो भवान्वेदाः चत्वारः पादबाहवः॥ (२०)
त्रयी विद्या च ते जिह्वा दशनानि यजूंषि च।
सामवेदमयौ पक्षौ हृदयम् ऋङ्मयं तव॥ (२१)
तथाऽथर्वमयं वासः कुक्षिश्चोपनिषण्मयः।
साम्नां गीतिश्च ते बुद्धिः वर्णोस्त्वङ्गुलयस्तथा ॥ (२२)
बृहत्वं ब्रह्मणश्शक्तिः सर्वाधारपरस्य या ।
ऋचो यजूंषि सामानि तवात्मापततां वर ॥ (२३)
वेदाश्च त्वं वेदमयो वेदवेद्यः परः पुमान् ।
वेदात्मना त्वया शश्वद्धार्यते विश्वभावन ॥ (२४)
जगतस्तस्थुषश्चैव त्वमेव शरणं परम् ।
ब्राह्मणानां विशेषेन भगवान्नः परागतिः ॥ (२५)
क्रतुना यज्ञपुरुषं परं विष्णुं यजामहे ।
त्वदधीनं जगत्सर्वं स देवासुरमानुषम्॥ (२६)
क्रतुर्वेदमयस्सर्वः क्रतवश्च भवान् खलु।
कृतार्थाश्च वयं देव कृतार्थाश्च मनोरथाः॥ (२७)
कृतार्थं च जगत्सर्वं स देवासुरमानुषम्।
कृतार्थं च जगद्विश्वं कृतार्थाश्चाध्वरः कृतः॥ (२८)
पाहि पाहि जगद्विश्वं पाहि यज्ञं च पाहि नः ।
इति स्तुतो द्विजस्तार्क्ष्यः प्रीतिमानभवद्द्विजः॥ (२९)
गरुडः –
वरं वृणुत भद्रं व इति होवाच धर्मवित्।
इति श्रुत्वा च मुनयो देवाश्चाध्वरसंश्रिताः।
नमस्तस्मै च कुर्वन्तो वव्रिरे वरमुत्तमम्॥ (३०)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये तृतीयोऽध्यायः
श्री रङ्गमाहात्म्यम् – ४
पुराणमुपदिश्य गरुड निर्गमन कथनम्
मुनयः –
भवान् वेदमयो देव विद्या वेदे प्रतिष्ठिता।
साक्षादाधारशक्तिर्हि परस्य ब्रह्मणो भवान्॥ (१)
सर्वतत्त्वमयश्चैव सर्वविद्यामयो भवान्।
त्वयि प्रतिष्ठिता विद्या वेद्यश्च भगवांस्त्वयि ॥ (२)
अतो विद्यामयं तत्वं परम्ब्रह्म सनातनम्।
परं तत्वं हि विदुषां चेतसामप्यगोचरः॥ (३)
अतस्तद्ब्रूहि सकलं त्वयि सर्वं समाहितम् ।
परापरं च यच्चान्यत् सर्वं त्वद्बुद्धिगोचरम्॥ (४)
व्यासः –
इत्युक्तो भगवान्तार्क्ष्यो रुक्माचलसमप्रभः।
उवाच मधुरं वाक्यं दिशो दश विनादयन् ॥ (५)
परं च यत्तथा चान्यद्यपृष्टं मुनिभिः क्रतौ ।
तत्सर्वं स्पष्टमप्यग्रमर्थवन्मधुरं प्रियम्॥ (६)
ऋषिभ्यस्सर्ववेदार्थसंश्रयं भिन्नसंशयम् ।
पावरज्ञो भगवान् पुराणं निर्ममे स्वयम् ॥ (७)
प्रोवाच सर्वं स्वांशेन पुराणार्थं कृपानिधिः ।
उक्त्वा ययौ महायोगी तार्क्ष्यो दृष्टपरावरः ॥ (८)
संस्तूयमानो गन्धर्वैः सुपर्णो हि विहायसा।
अथाजगामतद्यज्ञे ब्रह्मलोकपितामहः ॥ (९)
लोकपालैसमं सर्वैर्देवैश्चमुनिभिस्सह ।
यथार्हं पूजयामासुः ब्रह्माणं च जगद्गुरुम्॥ (१०)
सोऽपि सुश्राव संवृत्तं पुराणं तार्क्ष्यसञ्ज्ञितम्।
उवाच वचनं श्रीमान् श्रुत्वा तत्कमलासनः॥ (११)
ब्रह्मा –
अष्टादशपुराणानि सेतिहासानि सर्वशः।
विधातुं च प्रवृत्तानि वेदार्थस्योपबृह्मणम्॥ (१२)
अतो वेदमयस्तार्क्ष्यो वेदवेद्यं बिभर्ति यः।
विश्वाधारं परम्ब्रह्म विश्वोद्भवलयस्थितिः ॥ (१३)
साक्षादाधारशक्तिर्हि परस्य परमात्मनः।
अक्षयो भगवान् तार्क्ष्यो देवदेवस्य वाहनम्॥ (१४)
अनेनाद्यपुराणाग्र्यं यदुक्तम् ऋषिसत्तमाः।
एतदन्यपुराणेभ्यस्सर्वेभ्यः श्रेष्ठमुत्तमम् ॥ (१५)
युष्माभिरपि विज्ञेयममृषार्थमसंशयम् ।
एषो ह्यविप्लुतज्ञानस्तार्क्ष्यो विप्लुतवाक्तथा ॥ (१६)
ततस्तत्कृतमेतद्धि पुराणं परमं मतम् ।
सह्याम्नायमयो देवस्सुवर्णस्सर्वसत्तमः ॥ (१७)
मुनयः –
भगवन् काश्यपसुतो वैनतेयः पितामह ।
अक्षयं सत्यमेवेदं यं ब्रवीशि कथञ्चन ॥ (१८)
यो वै जगति सम्भूता देवमानुषपन्नगाः ।
पशुवृक्षादयस्सर्वे विनश्यन्ति हि कालतः॥ (१९)
कालवश्यमिदं सर्वं जगत्स्थावरजङ्गमम्।
न कश्चित्कालमत्येति कथमेतत् ब्रवीहि नः ॥ (२०)
ब्रह्मा –
एतद्धिपरमं गुह्यं सूक्ष्मं सूक्ष्मदृशामपि।
निर्मलज्ञानमनसामलक्ष्यं योगिनामपि॥ (२१)
नित्यो ह्ययं महायोगी भगवान् वेदपूरुषः ।
अथाप्यस्यावताराद्धि सन्ति विष्टपरक्षकाः॥ (२२)
नित्यस्य निरवद्यस्य निर्मलस्याक्षयात्मनः।
सर्वकल्याणयुक्तस्य परस्य परमात्मनः॥ (२३)
बह्वो विभूतयस्तस्य नित्याः कल्याणसंश्रिताः।
अनन्तास्त्वपरिच्छिन्नविमलाभूतिहेतवः॥ (२४)
कालस्तु कर्मवश्याणां परिक्षयकरः खलु।
कालात्मा भगवान् विष्णुः कालचक्रप्रवर्तकः ॥ (२५)
न तत्र कालसंस्पर्शो भगवत्यमलात्मनि।
अक्षय्यमखिलाधारममेयमखिलं ध्रुवम्॥ (२६)
परात्परतरं ब्रह्म सत्यं चैव विदुर्बुधाः ।
विभूतयो हरेस्तस्य विश्वस्यैव च कारणम्॥ (२७)
विश्वं बिभर्ति भगवान् विभूत्यंशांशयोगतः ।
परिपूर्णोऽपि भगवान् विष्णुः क्रीडन् स्वतस्सुखी ॥ (२८)
जगतामुपकाराय देवादिषु भवत्ययः ।
सर्वज्ञे सर्वभूतानामाधारे परमात्मनि ॥ (२९)
देवे जगति सम्भूते तथास्युस्तद्विभूतयः ।
लक्ष्मीद्वयं च वसुधा तथा परिजनादयः ॥ (३०)
देवा देवस्य देवत्वे मनुष्यत्वे च मानुषाः।
अन्यत्राप्यनुरूपाणि जन्मान्यपि च कुर्वते॥ (३१)
यथा च देवदेवस्य परस्य ब्रह्मणो हरेः।
केवलं त्ववतारेषु स्वेच्छा तस्य हि कारणम्॥ (३२)
ततो देवां च सर्वेषां स्वकीयाणां महात्मनाम्।
तस्मादयं च गरुडो देवदेवस्य वाहनम्॥ (३३)
इच्छाविहारचतुरो वैनतेयत्वमागतः।
अजायमानो बहुधा यथा विष्णुर्विजायते॥ (३४)
तथैवायमपि क्रीडन् काश्यपात्मजतां गतः।
एतत्कृतपुराणं च परमं तद्भविष्यति॥ (३५)
व्यासः –
इत्युक्त्वा स ययौ ब्रह्मा लोकपालैस्सहामरैः।
अथाध्वरसमाप्तिं तौ ऋत्विजश्चक्रुरुत्तमाम्॥ (३६)
एवं प्रवृत्ता मुनयस्तस्मिन् दक्षाध्वरे पुरा ।
यथावृत्तं पुरा तत्र स्वयोगेन गरुत्मता ।
तथा च वर्तयिष्यामि पुराणं वो द्विजोत्तमाः।
सर्वपापहरं लोके महायोगिवरैरपि।
ज्ञातुं वक्तुमशक्यं च नागदन्तोप्यचूचुदत् ।
नारायणाय विश्वाय परात्परतराय च।
नमस्कृत्य प्रवक्ष्यामि संहितां तार्क्ष्यसञ्ज्ञिताम्।
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुर्थोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्-५
व्यासकृत भगवन् महिमानुवर्णनम्
परस्मात् ब्रह्मणो जातं ब्रह्मात्मकमिदं जगत्।
ब्रह्मण्यवस्थितं ब्रह्म सष्टृ संहतृ भोक्तृ च॥ (१)
ब्रह्मणा विहिता लोकाश्चतुर्दश महामुने।
देवमानुषभेदेन तिर्यक्स्थावरभेदतः॥ (२)
एवं चतुर्धा भूतानि ब्रह्मणा विहितानि वै।
तेषां प्रसूति वैषम्यं निजकर्मनिबन्धनम्॥ (३)
तत्र तत्रोच्चनीचेषु तत्तत्कर्मोपपादितम्।
एकमेवपरं ब्रह्म सर्वभूतनियन्तृ च॥ (४)
हरौ परस्मिन् पुरुषे सर्वकारणकारणे।
सर्वेश्वरे हरौ विष्णौ तस्मिन्नारायणाह्वये॥ (५)
परब्रह्मेति शब्दोऽयं भगवत्येव पठ्यते ।
वेदे भूरिप्रयोगाच्च गुणयोगाश्च शार्ङ्गिनि ॥ (६)
तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामते ।
तस्य सर्वप्रयोगेषु प्रसिद्धिरपि तादृशि॥ (७)
बृहत्वात् बृह्मणत्वाच्च ब्रह्मेति प्रोच्यते बुधैः।
भगवानिति शब्दश्च षड्गुणैरभिधानतः॥ (८)
विशधात्वर्थनाम्ना च व्यप्तथात्वर्थशब्दतः।
नारायणत्वनिर्वाहाद् रूढ्या भास्करशब्दवत्॥ (९)
एतत्सर्वं श्रुतिप्रोक्तं कल्पते पुरुषोत्तमे।
हृषीकेश निरुक्त्या चाप्यधोक्षजनिरुक्तितः ॥ (१०)
अच्युतः परमात्मेति नारायण इतीरितः।
विष्णुरेव परं ब्रह्म भगवानिति शब्द्यते॥ (११)
गुणयोगाद्धि सर्वत्र ब्रह्मशब्दः प्रयुज्यते।
ब्रह्मत्वं ब्रह्मणत्वं च परस्मिन्नेव युज्यते॥ (१२)
यस्मिन् प्रयुज्यमाने तु गुणयोगस्सुपुष्कलः।
तत्रैव मुख्यवृत्तोऽयम् अन्यत्र ह्युपचारतः॥ (१३)
तत्परं ब्रह्म ब्रह्मेति नामनी शाश्वते हरौ।
एतत्समासतः प्रोक्तं व्यासतस्तदिदं शृणु॥ (१४)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चमोऽध्यायः
श्रीरङ्गमाहात्म्यम् – ६
जगत्सृष्ट्यादि क्रम प्रदर्शनं
व्यासः-
नमः परावरेशाय व्यक्ताव्यक्तस्वरूपिणे ।
सदसद्रूपिणेऽचिन्त्य ज्ञानानदामलात्मने॥ (१)
नारायणः परं ज्योतिः परमात्मा सनातनः ।
विश्वदृग्विश्वगोप्ता च विश्वभोक्ता च शाश्वतः॥ (२)
विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः।
सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः॥ (३)
सर्वेश्वरेश्वरस्सर्वः सर्वात्मा सर्वतः परः।
आदिकर्तादितस्सर्वं मनसा निर्ममे पुरा॥ (४)
ततः पुरुषमव्यक्तं शक्त्याविष्टं प्रसूय च।
स सन्निधानसंयोगान्नानार्थ प्रसवोन्मुखम्॥ (५)
नानाभूतानिनानासं सर्गकाले ससर्ज ह ।
कालो हि नित्यः कालात्मा सर्वभूतेश्वरो हरिः॥ (६)
तमसस्तु महान् जातस्त्वहङ्कारस्ततो भवत्।
त्रेधाभवदहङ्कारो गुणयोगादयं मुने॥ (७)
वैकारिकस्तैजसश्च भूतादिश्च यथाक्रमम्।
तस्मादाकाशतन्मात्रभूतादेरभवत्स्वयम्॥ (८)
ततस्त्वभवदाकाशस्स शब्दगुण उच्यते।
आकाशात्स्पर्शतन्मात्रा तस्माद्वायुरभूत्तदा ॥ (९)
तस्माद्वायुस्तु तन्मात्रात्ततो वायुरजायत ।
वायोस्पर्शगुणात्तस्मात्तेजश्च समुपद्यते ॥ (१०)
तन्मात्रात्तत उत्पन्नं तेजोरूपगुणं मतम् ।
ज्योतिषो रस तन्मात्रा तत आपोऽभवन्मुने॥ (१०)
तस्मादपाञ्चतन्मात्रात्तत आपोऽभवन्मुने।
अद्भ्योरसगुणेभ्यस्तु गन्धमात्राप्यजायत॥ (११)
ततस्समभवद्धात्री सापि गन्धगुणा मता।
भूतसृष्टिरिति प्रोक्ता मुनिभिर्वेदपारगैः॥ (१२)
तेभ्यस्तदण्डमभवत् सङ्गतेभ्यस्तु तत्क्षणात्।
अण्डं च तत्सहसा वृद्धं कालेन महता मुने॥ (१३)
तस्माद्भूतपतिर्देवो विष्णुरव्यक्त मूर्तिमान्।
व्यक्तस्वरूपो भगवान् ब्रह्माणमसृजत्स्वयम्॥ (१४)
परब्रह्मात्मको ब्रह्म प्रजानां पतिरव्ययः ।
तच्छक्त्याविष्टशक्त्यात्मा ससर्जादौ प्रजापतीन्॥ (१५)
ब्रह्मणः परिवर्तन्ते मनवस्तु चतुर्दश।
अहन्यहनि साहस्रं युगानां तदहर्विदुः॥ (१६)
तदा मनुविपर्यासे शक्रादीनां विपर्ययः।
तथाप्रति विपर्यासो देवादीनां महामते॥ (१७)
मानान्यन्यानि सर्वेषां सूर्यादीनां तथैव च।
प्रजानां पतयश्चैव ब्रह्मणाहितशक्तयः॥ (१८)
प्रजास्समसृजन् सर्वाः स्वकर्मानुगुणाकृतीः।
वृत्तिमुच्चावचां नीतास्स्वकर्मानुविधानतः ॥ (१९)
देवत्वेन मनुष्यत्व-तिर्यत्व-स्थावरत्वतः ।
कर्मानुविद्धास्स्वां योनि सेवमाना हि जन्तवः ॥ (२०)
प्रसादाद्धि मुनिश्रेष्ठ ईशितुस्सर्वदेहिनः।
कर्मणां विलयं कृत्वा यान्ति विष्णोः परं पदम्॥ (२१)
लभ्यते तत्प्रसादस्तु स्वधर्माचारकोविदैः।
नृभिश्शास्त्र पराधीनैः विष्ण्वाराधनचिन्तकैः॥ (२२)
एवं कर्मस्वभावोत्थं भुञ्जते जन्मनः फलम्।
जन्तवस्तु स्वगेहस्था यथाप्ता धूमकेतुना॥ (२३)
कर्मणां लयमायान्ति नारायणपरायणाः।
अन्यथा न लयं यान्ति स्वच्छायातिक्रमे यथा॥ (२४)
एवमेव प्रवर्तते रजस्सत्वादिसंश्रिताः।
प्रजास्समभिवर्तन्ते लीयन्ते च दिनात्यये॥ (२५)
इत्येवं भूतसङ्घोऽयं तमस्येव प्रवर्तते।
अथ वैकारिकं सत्वं तैजसं राजसं स्मृतम् ॥ (२६)
तत्र वैकारिकाद्देवा दश चैकादशं मनः।
वदन्ति तेजसानीति केचित्कर्मेन्द्रियाणि तु।
श्रोत्रं त्वक्चक्षुरेवाथ नासिका जिह्वया सह ॥ (२७)
ज्ञानेन्द्रियाणि पञ्चैतान् येषां शब्दादयो गुणाः।
वाक्करोपस्थपाय्वङ्घ्रीत्येवं कर्मेन्द्रियाणि च॥ (२८)
विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ।
मनस्सङ्कल्परूपं च विकल्पात्मकमिष्यते॥ (२९)
व्यवसायात्मिका बुद्धिरिति बुद्धिस्समीरिता ।
इत्येवं ब्रह्मणा स्रष्टं जगत्स्थावरजङ्गमम् ॥
तत्तु सङ्क्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि॥ (३०)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षष्ठोऽध्यायः।
श्रीरङ्गमाहात्म्यम्-७
नागदन्तस्य व्यासेन भूगोलवर्णनं
नागदन्तः –
भुवः प्रमाणमधमे वक्तुमर्हस्यशेषतः।
अद्रि द्वीप समुद्राणां विशेषं च महामुने॥ (१)
व्यासः –
विभूतिं ब्राह्मणः कैश्चिदृषिभिर्देवदानवैः।
न शक्यमखिलं वक्तुं तत्सङ्क्षेपतश्शृणु॥ (२)
भूमिस्तु नवधाभिन्ना वर्षभेदेन वै मुने।
भूयोभूस्सप्तधा भिन्ना द्वीपभेदात्तपोधन॥ (३)
जम्बूःप्लक्षश्शाल्मलिश्च कुशक्रौञ्चौ तथैव च ।
शाकस्तु पुष्करश्चैव सप्तद्वीपास्तथोदिताः॥ (४)
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवैः।
जम्बूप्लक्षादयो द्वीपास्सप्तभिस्सप्त संवृताः॥ (५)
भारतं वै किम्पुरुषं हरिवर्षं तथैव च।
इलावृतं च भद्राश्वं केतुमालं तथैव च॥ (६)
रम्यं हिरण्मयं तद्वदुत्तरं चैव तेन च।
नवधा भारतं वर्षं पुनरेवाभवन्मुने॥ (७)
एवं तु नवधा भिन्ना वर्षभेदेन वै द्विज।
लक्षयोजन विस्तारो जम्बूद्वीप इहोच्यते॥ (८)
तस्य द्विगुणमिच्छन्ति प्लक्षद्वीपं प्रमाणतः ।
तस्य द्विगुणविस्तारश्शाल्मलस्य च कथ्यते॥ (९)
तस्य द्विगुणमित्येव तस्य तस्य यथाक्रमम्।
एवं प्रमाणमित्युक्तं द्वीपानां च यथाक्रमम्॥ (१०)
पञ्चाशत्कोटिविस्तारा सर्वा वसुमती मता।
सप्त तेस्तु सहस्राणिकोटिरूर्ध्वं प्रकीर्तिता॥ (११)
अधस्ताद्दश साहस्रं तलादिषु च कथ्यते।
अतलं वितलं चैव नितलं च गभस्तिमत् ॥ (१२)
महातलं च सुतलं पातालं चैव सप्तमम्।
इति प्रत्येकमेकं तु दशसाहस्रविस्तृतम्॥ (१३)
भुवोऽधः परिमाणेन कथ्यते लोकसप्तकम्।
शेषाख्यब्रह्मणश्शक्तिः अधस्तान्मुनिसत्तम ॥ (१६)
रौद्राधारयते धात्रीं साद्रिद्वीपवनार्णवाम्।
भुवोमानमधो लोका सप्त ते परिकीर्तिताः॥ (१७)
तिग्मांशोःकेतवस्त्विन्दो यावद्भान्ति महामुने ।
तावती भूमिरुदिता तावद्विस्तारितं नभः ॥ (१८)
भुवो योजनलक्षे तु भानोर्बिम्बमथोपरि।
तावता शशिनस्तस्माद् द्विगुणं तस्य मण्डलम् ॥ (१९)
ततस्तु तावति बुधः तस्मात्काव्यस्तु तावति ।
ततस्तु तावता भौमः तावत्तस्माद्बृहस्पतिः॥ (२०)
एतावति ततस्सौरिर्लक्षे सप्तर्षयस्ततः ।
ज्योतिश्चक्रस्य कूटस्य एकलक्षे ध्रुवस्थितिः ॥ (२१)
त्रैलोक्यमेतदेतस्मान्महःकोट्युपरिस्थितम् ।
ततः कोटिद्वयादूर्ध्वं जनोलोकस्तथोपरि॥ (२२)
चतुर्गुणास्तपोलोके षड्गुणात्सत्यमिष्यते।
वाताधीनगतं सत्वं मुने यावति वर्तते॥ (२३)
तावद्भूरिति विख्याता भुवो भूभास्वदन्तरम्।
तिग्मांशुध्रुवयोरन्तः सुपरित्यभिधीयते॥ (२४)
महोजनस्तपस्सत्यमिति सप्त प्रकीर्तिताः ।
एवं तवोदिता लोकाः पातालाद्याद्यश्चतुर्दश॥
विस्तारोऽण्डस्य कथितो लोकानां च प्रमाणतः॥ (२५)
ततोऽण्डभित्या सकलं समावृतं दशोत्तरेणावृतमम्भसा बहिः।
कृशानुनागन्धमहेनतद्बहिः नभो ह्यहङ्कारमहद्भिरेधितैः ॥ (२६)
ततः प्रधानेन समासमावृतं मुने समस्तमेतन्महदादिसञ्ज्ञितम्।
ततश्च दिक्कालविशेषणादिभिः स्वरूपतो नावधिमेत न क्षयम्॥ (२७)
अनाद्यनन्तं त्वधमूलसञ्ज्ञितं तदक्षरेणावृतमव्ययात्मना ।
वृतौ च शक्त्या परमापरेशितुः प्रधानतत्वं पुरुषश्च वै मुने॥ (२८)
ततस्तु सा शक्तिरनन्तसद्गुणैः विनाश वृद्धिक्षय जन्मवर्जिते ।
सुभद्रदेहोत्तम सत्वसंश्रिते विशुद्धविज्ञानविधौ हरौ स्थिता ॥ (२९)
सृजत्यजो विश्वममोघवाञ्छितस्थितिं विधत्ते विलयं गुणाश्रयः ।
गुणादिकक्षेमकरश्शुभालयः प्रजापतिर्विश्वपतिर्जनार्दनः॥ (३०)
परः पराणां परमः परेश्वरः प्रजापतीनां पतिरादिपूरुषः ।
न तत्समोवाप्यधिकोऽपि दृश्यते न तत्परं ब्रह्म यतोऽखिलं मुने॥ (३१)
इतीव सर्वामरमौलिलोल लसत् सगुद्धामपराग सम्भृतः ।
भृशं क्वणन्नूपुरमञ्जुसत्पदं परस्य विष्णोर्महिमा मयोदितः॥ (३२)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्तमोऽध्यायः।
श्रीरङ्गमाहात्म्यम् – ८
पुण्यतीर्थप्रशंसा
नागदन्तः –
भुवि पुण्यानि तीर्थानि यानि क्षेत्राणि वा मुने।
श्रोतुमिच्छामि तत्सर्वं ममाचक्ष्वच पृच्छतः॥ (१)
व्यासः –
नमस्कृत्याप्रमेयाय शार्ङ्गिणे सत्कथामिमाम्।
शृणु वक्ष्यामि देवर्षे नारायणगुणाश्रयाम्॥ (२)
सुपवित्रं परं विष्णो मङ्गलायतनं मुने।
साभारती महापुण्या या हरिस्तुतिसंश्रिता॥ (३)
तच्छिरस्तत्पदाम्बोजयुगलौ प्रणतौनतम् ।
तौ करौ हरिमुद्दिश्य याभ्यामेवाञ्जलिः कृतः ॥ (४)
तावेव पादौयाभ्यान्तत्पूजाद्यर्थन्तु गंयते ।
तन्मनस्तत्पदस्मर्तृ बुद्धिस्सानिश्चयात्मिका॥ (५)
ज्ञानं तु तद्गुणालविस्मृतिस्तद्गुणलोलुपा ।
यत्र सन्निहितो विष्णु नक्षत्रं पुण्यलक्षणम्॥ (६)
तत्पादरेणु संस्पृश्य पवित्राम्बोनिमज्जनम्।
तीर्थस्नानं महत्पुण्यं तदम्बस्तीर्थमुत्तमम्॥ (७)
बहुनात्र किमुक्तेन भगवत्स्पर्शसम्भवः ।
तत्स्पर्शनं भवस्तस्य तस्य स्पर्शन् प्रसक्तितः॥ (८)
इति साक्षात्प्रणाड्या वा यस्य तत्स्पर्शसम्भवः ।
सतो वाप्यसतो वापि तत्पवित्रतमं मतम्॥ (९)
सर्वपुण्यमयोदेव सर्वतीर्थमयो हरिः।
सपवित्रं परं गुह्यमित्याहं गृत्सयो मलाः॥ (१०)
गुणत्रयात्मकं सर्वं गुणावै दोषभूमयः ।
गुणाश्रमभूतेषु कुतस्तेषु पवित्रता॥ (११)
स्मृतिमात्राघनाशेन पवित्रेण च शार्ङ्गिणा।
यया कया च विधया सम्बन्धस्स तु पावनः॥ (१२)
तदा हि गङ्गातोयस्य विष्णुपादाब्जजन्मनः।
सर्वस्य सर्वपापानि लीयन्ते स्पर्शमात्रतः ॥ (१३)
सरस्वतीसरिच्छ्रेष्ठा यामुनातीर्थ शालिनी।
पद्मिनी पद्मनाभार्हा कावेरी सरितां वरा॥ (१४)
अन्याश्च नद्यस्तत्स्पर्शात्पावनं भोवहामुने।
तस्मात्पातकिनोऽप्यासां विशुध्यन्त्यम्भसा भुवि ॥ (१५)
मुकुन्दध्यान तन्नाम कीर्तन्तस्तत्क्रियादिभिः।
तद्वृत्तेस्तकथालापैस्तत्समाहितसंश्रयैः॥ (१६)
तत्स्थान संश्रयात्तस्य पुण्यतीर्थावगाहनात् ।
तन्नामश्रवणाद्भक्तै स्तद्विश्वगुणचिन्तनात् ॥ (१७)
मुच्यन्ते पातकैस्सद्यो महापातकिनोऽपि च।
शौरि प्रणामावसतं शिरो येषां करोज्ज्वलौ ॥ (१८)
मनस्तद्गुणरक्तं च तेषामभ्यर्णसंश्रयात्।
तदाश्रितस्याश्रमणात्तस्य तस्यापि तस्य च ॥ (१९)
संसेवनान्नरा लोके मुच्यन्ते सर्वपातकैः।
स हि पातकिनां पुंसां सर्वेषां च महामुने॥ (२०)
वैकुण्ठस्मरणादन्यद्विद्यते पापनाशकृत्।
अनन्तानन्तसम्भूतिप्रदा श्रीपरमेष्टिनः॥ (२१)
स्मृतिस्सर्वस्य लोकस्य एष शास्त्रविनिर्णयः।
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टमोऽध्यायः।
श्रीरङ्गमाहात्म्म्यम्-९
गङ्गादि पुण्यतीर्थ माहात्म्यं
नागदन्तः –
भगन्या मम प्रोक्ता गङ्गाद्या सरितस्त्वया।
तासां पुण्यतमालोके पुण्यतीर्थजलाश्रयाम् ॥ (१)
यामुत्कृष्टां विदुः प्राज्ञास्तां प्रब्रूहि महामते ।
व्यासः-
विष्णुपादाब्ज सम्भूति समुच्छित गुणाश्रयाम् ॥ (१२)
अघौघविध्वंसकरीं वाञ्चितार्थप्रदायिनीम्।
सुरासुरमनुष्येषु विश्रुतोचितसत्कथाम्॥ (१३)
आहुर्गङ्गां सरिच्छ्रेष्ठां मुनयस्तीर्थवित्तमाः।
प्रयागाद्यानि तीर्थानि तस्यां यानि हसन्ति वै ॥ (१४)
तान्यहं न प्रसङ्ख्यातुं शक्तोऽस्मि विमलानि वै ।
सर्वार्तिशमनि प्रोक्ता यमुना तीर्थशालिनी ॥ (१५)
तस्यां स नित्यं वसति भगवान् देवकीसुतः।
तस्यास्तीरेमुनेद्यापि दृश्यते तत्पदावलिः॥ (१६)
सेविता सा सरिच्छ्रेष्ठा निरस्ताशेषकल्मषैः ।
मुमुक्षुभिर्मुनिगणैः कृष्ण चेष्टानुरागिभिः॥ (१७)
ससूक्ष्मिसिकतोधामराभिश्चन्द्रगौरकैः।
शश्वत्पुष्पफलोपेतैः शाखिभिस्तीरजैः श्रिता॥ (१८)
बहूनि सन्ति तीर्थानि तस्यां तानि शृणुष्व मे।
मधुरातीर्थममलं पापज्ञं लोकसत्कृतम्॥ (१९)
यत्र कृष्णस्तु गोपालैः शमं क्रीडितवाञ्जले।
तत्र स्नात्वा नरो ब्रह्मन् मुच्यते सर्वपातकैः॥ (२०)
भगिन्या मम प्रोक्ता गङ्गाद्या सरितस्त्वया ।
तासां पुण्यतमां लोके पुण्यतीर्थजलाश्रयाम्॥ (२१)
यामुत्कृष्टां विदुः प्राज्ञास्तां प्रब्रूहि महामते।
व्यासः-
विष्णुपादाब्ज सम्भूति समुच्छ्रित गुणाश्रयाम्॥ (२२)
त्रिरात्रमुषितस्तत्र यथाहारो जितेन्द्रियः।
निहरं तं जले कृष्णं ध्यात्वा मुक्तो भवेन्नरः ॥ (२३)
तत्रस्नात्वा च या नारी सा पुत्रं लभते शुभम्।
तत्समीपे तु तीर्थं तत्पुण्डरीकमिति श्रुतम्॥ (२४)
यत्र गोवर्धनधरः श्रान्तिं कृष्णो व्यपानुदत् ।
तत्र स्नात्वा हृषीकेशं वश्यमेकोपवासतः॥ (२५)
कालिन्दी ह्रदमासाद्य विष्णुतीर्थमनुत्तमम्।
दृष्ट्वा स्नातो नरश्शुद्धिर्देव देवप्रसादतः ॥ (२६)
गोपालतीर्थमासाद्य स्नात्वा शुद्धो भवेन्नरः।
यत्र गोपालकैस्सार्धं चिक्रीडोत्तम पूरुषः ॥ (२७)
ततो गोवर्धने तीर्थे स्नात्वा तु पुरुषोत्तमम्।
पायसेनार्चयेन्मर्त्यो विष्णुसायुज्यमाप्नुयात्॥ (२८)
ततस्तु गोमतीतीर्थं गोह्रदं गोधनं प्रियम्।
वत्सधेनुं वत्सपालं कृष्णधेनुं सुवर्णकम्॥ (२९)
यामुनं कृष्णवसनं कृष्णनाभं पुराणगम्।
एवमादीनि तीर्थानि मङ्गलानि बहून्यपि॥ (३०)
सेवमानो नरश्शुद्धो विष्णुसायुज्यमाप्नुयात्।
तदा पुण्यतमां लोके कीर्तयिष्यामि तां शृणु॥ (३१)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये नवमोऽध्यायः।
श्रीरङ्गमाहात्म्यम्- १०
श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये
निखिल नदीभ्यो कावेरीसरय्वोः आधिक्यवर्णनं
व्यासः –
नदी सरस्वती नामा सद्यः पापहराशुभा।
प्रच्छन्ना च प्रकाशा च देशभेदेन सा स्मृता॥ (१)
सा हि साक्षात्सरस्वत्या ब्रह्मपत्न्या द्विजोत्तम।
समस्त वागदीशाया मूर्तिर्नद्यात्मिका परा॥ (२)
तस्या प्लक्षवनोद्धाल परिसारक वादयः।
सन्ति तीर्थ विशेषास्तु सर्व पाप हराद्विज॥ (३)
स्नानश्राद्धोपवासादि तेष्वनुष्ठितमादरात् ।
अनन्तफलमाम्नातं शमनं केशवे यथा॥ (४)
तत्प्रकाश प्रदेशाच्च परिसारक सञ्ज्ञिता।
आम्नायजं साचिरं हि पवित्रं ज्ञानमुत्तमम्॥ (५)
तीर्थसेवाभ्यसना प्रीता देवीसरस्वती।
प्रयच्छेद्वाच ममलां बुद्धिंसूक्ष्माकपि द्विज॥ (६)
सर्वासां सरितामेतास्तिस्त्रः श्रेष्ठतमामताः ।
उत्पत्ति प्रभृति प्राज्ञा तासामपि च जाह्नवी॥ (७)
सरसामपि सर्वेषामपि श्रेष्ठं विप्रसरोद्वयम्।
उत्तरा पथगं शुद्धं पुष्कराख्यं महासरः॥ (८)
दक्षिणापथगं चन्द्रसरसञ्ज्ञं च पावनम्।
स्मृतिकीर्तनमात्रं च ययोस्सर्वाघमार्जनम्॥ (९)
उत्पत्युत्तर कालं तु कारणैः कैश्चनै द्विज ।
सरव्याख्या नदीश्रेष्ठा कावीरी च सरिद्वरा ॥ (१०)
अवापसर्वतीर्थेभ्यः श्रैष्ठ्यमेतन्नदी द्वयम् ।
नागदन्तः-
कैःकारणैर्महादिख्यमवापै तन्नदी द्वयम्॥ (११)
तद्वदस्व महाप्राज्ञ परं कौतूहलं हि नः।
व्यासः-
कोसलाख्ये जनपदे प्रसिद्धा सरयू नदी॥ (१२)
अयोध्या नगरी पुण्या ध्यानस्तोत्राऽघनाशिनी।
मनुना निर्मिता पूर्वं विभूषयति तत्तटम् ॥ (१३)
तस्यं दशरथाद्राज्ञो दशग्रीव वधार्थिभिः ।
ब्रह्माद्यैरर्थितो विष्णुरंशांशेनावतीर्णवान्॥ (१४)
तस्य रामाभिधानस्य जगन्नाथस्य शार्ङ्गिणः ।
लक्ष्म्यंशां सात्समुद्भूता सीतायुक्तस्य नित्यशः ॥ (१५)
स्वयमाप्लावनाद्विप्र चिरकालं जगत्पते ।
श्रीरङ्गाख्यं महद्धाम चिर संश्लेषतोऽपि च॥ (१६)
गङ्गादिभ्योऽपि तीर्थेभ्यः सरयू श्रेष्ठतां गता।
तस्माच्छ्राद्धादिकं तस्यां स्नानं चापि कृतं मुने॥ (१७)
पुनाति सर्वपापेभ्यः सरव्यां यज्ञ कर्म वै ।
सा च सर्वसरिद्भ्योऽपि पुष्करात्सरसोऽपि च॥ (१८)
सा पवित्रतमाह्यासीत् सरयू सरितां वरा।
अनन्तरं शृणुष्वत्वं कावेरीमपि पावनीम्॥ (१९)
सर्व तीर्थाग्र्यतां प्राप्तां सिद्धगन्धर्व सेविताम्।
सर्वपापहरां शश्वत् सर्वपातकनाशनीम्॥ (२०)
सर्वतीर्थवहां पुण्यां सर्वकामप्रदायिनीम्।
तत्तीरसौख्यत्सौगन्ध्या त्तच्छैत्यत्तत्प्रियत्वतः॥ (२१)
रक्षसाभ्यर्थितश्चापि तदन्यत्र निनीषता।
कावेरीं नजहौ रङ्गी कीर्तिलक्ष्मीं यथात्मवान्॥ (२२)
तस्माद्विभीषणान्नीतं धाम श्रीरङ्गसञ्ज्ञितम् ।
तत्समीपे निविष्टं वै ततस्सा सरितां वरा॥ (२३)
सर्वातिशायिनी दिव्या सर्व सौख्य प्रदायिनी।
गङ्गादिभ्योऽपि चाधिख्यं प्राप्ताजन्तून् पुनाति वै ॥ (२४)
तद्धामोभयतो गच्छेत् परिरभ्य सरिद्वरा ।
यथा पतिं चिरप्राप्तं भुजाभ्यां प्रियमङ्गना॥ (२५)
तत्संश्लेषादि सम्प्रीत्या तच्छ्रद्धा दर्शने न च ।
यस्माच्छतां न प्रजहौशेष शायि जगत्पतिः॥ (२६)
ततस्सा सर्व तीर्थेभ्यः श्रेष्ठतामगमन्नदी।
कावेर्यागमनादूर्ध्वं चन्द्रतीर्थं सापि च॥ (२७)
यस्माद्वयं सम्मिलितं तस्माच्छ्रेष्ठा सरिद्वरा ।
अन्येभ्योऽखिल तीर्थेभ्यो नगदन्ताधिका ह्यभूत्॥ (२८)
सनन्दनाद्या मुनयो भगवध्यानबृह्मिताः।
रङ्गभ्यर्णं समागत्य चकृस्ते काङ्क्षितां स्थितिम्॥ (२९)
ततः स्थिरप्रतिष्ठायै जङ्गमत्वं विहाय वै ।
स्थावरत्वेन वर्तन्ते तत्र रङ्गसमीपतः ॥ (३०)
परितस्सर्वतीर्थानि सेवते तां नदीं सदा ।
देवासुर मनुष्याश्च गन्धर्वासुर राक्षसाः॥ (३१)
तथा स्थानं समागम्य स्वं समर्थं च लेभिरे।
सरिद्वरां तु कावेरीं यामाहुः ऋषयोमलाः॥ (३२)
आसमुद्रात्तु भयतः पुण्यक्षेत्रजलाशयाम्।
पुण्यशीलैस्सुकृतिभिः द्विजैरुभयतश्रिताम्॥ (३३)
अस्यास्तीरे तु यावन्ति पुण्यक्षेत्राणि नामतः।
पुण्यतीर्थानि यान्येव प्राधान्येन शृणु द्विज ॥ (३४)
स्वर्ग द्वारमिति ख्यातं स्थानं देवनिषेवितम्।
तत्र स्नात्वा नरः कुर्वन् देवर्षि पितृपूजनम्॥ (३५)
पित्रादिभ्यो त्रयं दत्तं तदक्षय्यं मुने भवेत्।
आराधितो हरिस्तत्र भुक्तिं मुक्तिं प्रयच्छति॥ (३६)
तिलदानं भवेत्सस्तङ्गोदानं चात्र वैद्विज।
यतःकुतश्चित् पुण्याद्धि तुष्यन्त्यत्रसुरादयः॥ (३७)
भवता तत्र गन्तव्यं संसाराब्धिं तितीर्षुणा।
ततः पुरस्ताद्ब्रह्मर्षे पुण्डरीकमिति स्मृतम्॥ (३८)
तत्र पातकिनः सर्वे स्नात्वा शुध्यन्ति तत्क्षणात्।
प्रसन्नो भगवांश्चापि ददाविष्टमधोक्षजः॥ (३९)
वटस्तिष्ठति तत्रैव बहुशाखासु विस्तृतः ।
तत्र पुण्यो महानस्ति कुशलो नाम पर्वतः॥ (४०)
नारायणस्तमध्यास्ते तं याति शरणार्थिनः ।
तस्मिंश्चैव गिरौ पुण्ये पुरा देवो वृषध्वजः ॥ (४१)
तपश्चचार बहुलं ब्रह्महत्यापनुत्तये ।
तस्य प्रसन्नो भगवान् व्यनुदत्पातकं हरिः ॥ (४२)
अद्यापि शौरिः सर्वेषां पातकानि व्यपोहति ।
सहसा तत्र गन्तव्यं मुनिभिश्चारु रुक्षुभिः ॥ (४३)
ततश्च पूवं भगवान् तीर्थं वकुल सञ्ज्ञितम् ।
पुरा शक्र स्तपश्चक्रे तत्र वर्षगणान् बहून्॥ (४४)
निश्रीकश्रीसमाराध्य विमलामाप्तवाञ्च्छ्रियम्।
एवमुक्तं च देवर्षे तीर्थ जातं समासतः।
अति प्रधानं यच्छ्रुत्वा सर्वपापैः प्रमुच्यते॥ (४५)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये दशमोऽध्यायः।
श्रीरङ्गमाहात्म्यम्-११
अनन्तशय्या महिमानुवर्णनं
नागदन्तः –
विभीषणेन चानीतं महद्धामेति संश्रुतम्।
कवेरकन्यका तीरे यत्र तद्विस्तरा द्विज ॥ (१)
व्यासः –
यत्तीर्थमुक्तं भवतो महावकुलचिङ्घितम्।
तत्पुरस्ताद्दक्षिणतोऽनन्तशय्येति विश्रुता ॥ (२)
तत्र विन्दन्ति सुधियः पुरुषार्थां समाहिताः।
यस्मिन्नित्यं सन्निधत्ते सक्षान्नारायणोऽव्ययः ॥ (३)
यत्राम्भस्पर्शमात्रेण यान्ति पापक्षयं नराः ।
भद्रं भद्रप्रदं पुण्यं तीर्थानामुत्तमं विदुः ॥ (४)
पवित्रं परमं पुण्यं देशोऽयं सर्वकामधुक् ।
यस्मिन् वासरमात्रेण वासं विदधतां नृणाम्॥ (५)
भवेत्तु योऽन्वये तेषां भवः क्वचन विद्यते।
भवान्वया विनश्येयुः लोभमोहादयो द्विज॥ (६)
यत्रदेवास्तपोयोगात्सिद्धाश्च परमर्षयः ।
स्तम्भगुल्मलताघाता स्थावरत्वमुपाश्रिताः॥ (७)
यत्रच्छदन विच्छेद मात्रेणापि द्विजोत्तम।
ब्रह्महत्या समं पापमधिकं प्राप्नुयान्नरः॥ (८)
यत्र पीडाधिकं किञ्चिद्बालक्रीडादिगोचरम्।
कुर्वन्तः प्रपतन्त्येव सद्यस्सुकृतिनोऽपि च॥ (९)
अद्यापि खलु दृश्यन्ते जन्तवोऽत्र विचक्षणाः।
ज्ञानशक्तिसमायुक्ताः क्रिमिकीटादयोऽपि च॥ (१०)
सिंह व्याघ्र मृगव्यालवन्तिनो हरिणास्तथा।
मूषिका विषमार्जारास्सन्ति सत्वादिकास्त्विह॥ (११)
प्रव्याहरन्तो मधुरां वाणीं कर्णसुखावहम् ।
न तत्रवसतां पीडा क्षुत्पिपासादिजाधुना॥ (१२)
नाधिव्याध्यादिकावापि न जरावाविवेकिता।
त्रैकाल्य ज्ञान सम्पन्ना स्सर्वकाम विवर्जिताः ॥ (१३)
सर्वभूतदयायुक्ता स्सर्वदा सत्यसंश्रिताः।
सर्वज्ञास्सत्व सम्पन्ना स्सर्वदुःख विवर्जिताः ॥ (१४)
उत्पन्न ज्ञान वैराग्यास्सत्कृत्यां नियताशयाः।
बहुत्वाद्धैर्य सम्पन्ना श्शीतोष्णादि सहिष्णवः॥ (१५)
ब्रह्मण्यो ब्रह्मणीरताः ब्रह्मण्या हितचेतसः ।
ब्रह्मभाव समासार संसार कृत्यवर्जिताः॥ (१६)
परानुषक्त सद्भावाः परतन्त्राः परेप्सवः ।
परेण तेजसा युक्ताः परध्यानोपबृंहिताः॥ (१७)
परस्परमतिस्निग्धाः परस्परमतन्द्रिताः।
परस्परं भावयन्तः परस्परहितैषिणः ॥ (१८)
परस्परप्रणयनाः परस्परसमप्रियाः।
निर्ममानिष्कृया नित्या निर्विण्णा निष्परिग्रहः॥ (१९)
नित्यशुद्धाः नित्यतृप्ताः निर्विकारा निरामयाः।
निस्तन्द्रयो निराहाराः निरवद्या निराशिषः॥ (२०)
निराकुला निराक्रोशा निर्द्वन्द्वा निर्विकल्पकाः।
समचित्तास्समधियः समर्थास्समदृष्टयः ॥ (२१)
समाक्षास्समसङ्कल्पा स्समभोगास्समप्रियाः ।
समसत्वास्सकृता स्समसंस्कार कारिणः ॥ (२२)
समलीलास्सम हिताः समांसास्सम निश्चयाः ।
सुस्निग्धास्सुप्रसन्नाक्षा स्सौवेषास्सुकृत प्रियाः ॥ (२३)
सुनामान स्सुवदनास्सुमुखा स्सुस्मिताननाः।
देवासुर मनुष्याद्या स्सर्वभूत दयालवः ॥ (२४)
चरन्ति तत्र विविधा विमलाकृतयो मुने।
अप्युन्मत्तः प्रशान्तिस्स्यात् बधिरोऽपि सबोधवान्॥ (२५)
खलोऽपिस्स्यान्मृदुर्दातश्चपलस्स्याज्जितेन्द्रियः।
मूडस्स्याद्बुद्धिमान्सद्यः कृशाङ्गस्थूलतामियात्॥ (२६)
संशयात्तमतिश्च स्यात्सद्यो वै च्छिन्न संशयः।
नास्तिको ह्यास्तिकस्स स्यात्कृतघ्नस्साधुकर्मकृत्॥ (२७)
यत्र प्रवेशमात्रेण सन्तस्स्युः पापनिश्चयाः।
अनादि निधनस्स्स्रष्टा देवेशो रङ्गधामनि॥ (२८)
शयानो नजहू यत्र वासे तृष्णां समार्जिताम्।
तत्र रक्षः पुराधाम जगत्यर्थे समानयत्॥ (२९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकादशोऽध्यायः।
श्रीरङ्गमाहात्म्यम्-१२
सुबोध सत्य नाम्नोः मुनयोः कथा
नागदन्तः –
तत्राश्चर्याणि वृत्तानि देशे यानि द्विजर्षभ।
तानि मे वद भूयोपि परं कौतूहलं हिनः ॥ (१)
व्यासः –
सः शृणुष्वेदं पुरा वृत्तममस्मिन्मुनिवराखिलम्।
सुबोधस्य च सत्यस्य शृण्वतामघनाशनम् ॥ (२)
शक्तेः पुत्रस्य सच्चिष्यौ मुनीमतिमतां वरौ ।
सुबोधसत्यनामानौ नारायणपरायणौ॥ (३)
महात्मानौ जितक्रोधौ वीतरागौ विमत्सरौ ।
दृढव्रतौ सदाचारौ दान्तौ दृष्टपरावरौ॥ (४)
चेरतुश्च तपस्सिद्धौ गङ्गाद्वारमुपागतौ।
अखण्डिताशामाशङ्क्य तयोस्तपसि तिष्ठतोः ॥ (५)
व्यचरं स्तपसो विघ्नं तयोराखण्डलादयः।
ऊर्ध्वां पर्यटतां तौ तु तीर्थानि विविधानि च॥ (६)
कदाचित्तावृषीब्रह्मं स्तद्देशं चाभ्यगच्छताम्।
सुपुण्यं शेषशयनं निवासं परमेष्ठिनः॥ (७)
तावेत्यवसतां तत्र सुचिरं तपसि स्थिरौ।
कवेरकन्यापूताम्भः क्षपिता शेषपातकौ॥ (८)
तत्पवित्रोदपानाच्च तपस्संसिद्धिमावतुः।
सरिद्वरायाः कावेर्यास्तोय संस्पर्शमात्रतः॥ (९)
भवन्ति पूतपाप्मानस्तिर्यञ्चोऽपि भुवि द्विज।
किम्पुनर्मर्त्ययोस्तत्र तत्पानाच्च निमज्जनात्॥ (१०)
पुण्यक्षेत्रनिवासाच्च शाश्वती सिद्धिरित्यपि।
अथ प्रभातवेलायां तावृषी मुनिपुङ्गवौ ॥ (११)
कवेरकन्यकातीरं स्नानार्थं समगच्छताम्।
व्यतीतायां निशायां तु सतोयं तामपश्यताम्॥ (१२)
जलोर्मिमीलिनीं दृष्ट्वा पदं विस्मयमावतुः ।
क्वचिच्च विपुलावर्ता समुन्मीलितपादपाम् ॥ (१३)
प्लवैस्तीररुहैर्यातैर्जङ्गत्वमुपागताम् ।
कदम्बसूनस्तबक निकरभ्रमरोत्कराम् ॥ (१४)
अरालबहुलोद्दाम सुकेशां प्रमदामिव ।
अशोकसारस्तबक परागावृति पिञ्जराम्॥ (१५)
काश्मीर चन्दनक्षोद मण्डिताङ्गां वधूमिव।
जलप्रवाह संलीन स्वल्पान्त पुलिनस्तनाम्॥ (१६)
ईषत्सञ्जात विलसत्कुचयुग्मामिवाबलाम्।
तीरावसक्त शैवालपटलाच्छादिदोदकाम्॥ (१७)
हरित क्षौम वसनां वनितामिव चाशुगाम्।
प्लवत्फुल्लाब्ज निकरां निमीलत्कुमुदोत्कराम्॥ (१८)
विकसद्वत्रनयनां साट्टहासामिवाङ्गनाम्।
स्वोर्मिबाहु परामृष्ट पतत्पृथुनगां शुकाम्॥ (१९)
प्रियोपगूहनोन्मत्तदयितां शयितामिव।
कूजत्सारस कादम्ब कारण्डन निषेविताम्॥ (२०)
मकरन्दरसपानोद्यत्प्रगीतां प्रमदामिव।
चलोर्मि भङ्ग विक्षोभ व्यालोल शबरीकुलाम्॥ (२१)
निशामुखे तु पूर्वे तु विन्यस्तां स्नान शाटिकाम् ।
कमण्डुल्वादिकं सर्वं तत्तोयेन हृतं क्षणात्॥ (२२)
विलोक्य विस्मिताक्षौ तु तस्थतुस्तत्र सत्तमौ ।
चिरं ध्यात्वा तु तावेवं मेनाते पुरुषर्षभौ॥ (२३)
सरिद्वारा भीमवेगा दुस्तरा दुर्ग्रहाश्रया ।
यद्येधिता जत्सद्यः सर्वं सम्प्लावयिष्यति ।
तस्मादेतच्छमोपायो विधेयादो विधिक्रमात् ॥ (२४)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये कावेरी वर्णनं नाम द्वादशोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्-१३
सुबोधाय भगवदाविर्भावः तत्प्रशंसा च
नागदन्तः –
अथ सत्यो विमृश्यैतद्दद्यौ ब्रह्मपरं मुने।
मङ्गलायतनं श्रीमद्विष्णोख्यं मुनिसत्तम॥ (१)
सुबोधस्तु नदीक्षोभं दृष्ट्वा तत्तीरसंस्थितः।
इयं सरिद्वरा सद्यो जगद्वै प्लावयिष्यति॥ (२)
अत्र प्रतिविधानं तु कर्तव्यं जीविलेप्सुभिः।
यया कया च विधया परिहार्यमितीव हि॥ (३)
इति मत्वा च तत्तोयं पातुमेवोपचक्रमे।
स्थित्वा मुहूर्तं तस्यां वै सुबोधो बुद्धिसत्तमः ॥ (४)
करेणापस्समाहृत्य दिशस्सर्वान्विलोकयत्।
तं दृष्ट्वा विबुधास्सर्वे किं किमत्यब्रुवन्मुने ॥ (५)
विपर्यस्तं जगदृष्ट्वा विधिर्वै व्यधितो भवत्।
आखण्डलः खण्डिताशो दृष्ट्वा विप्रं प्रविष्यते ॥ (६)
ततो वियत्यसन्दिग्धा गम्भीरा वागजायत।
माकार्षीर्माचमामेति श्रुत्वा वः प्राक्षिपत् द्विजः॥ (७)
शीतलात्यन्तमधुरा प्रशान्तोदक वाहिनी ।
इयं सरिद्वरा ब्रह्मन् प्रजा वै धारयिष्यति ॥ (८)
अन्यच्च शृणु तत्तीरे सन्निधत्ते जनार्दनः।
विश्रुतं शेषशयनं धामतश्शेष शायिनः॥ (९)
ब्रह्मन् ब्रह्माण्डमध्यस्थं पदं तद्ब्रह्मणो विदुः।
असार सार संसार तापतप्ताश्रयं महत् ॥ (१०)
श्रीमच्छ्रीरङ्गमित्याहुः तच्छेषशयनं बुधाः।
श्रीनिवासस्य या पत्नी तया समनुरुज्यते॥ (११)
श्रीनम्ररङ्गमिति यत् श्रीरङ्गमिति शब्द्यते।
तद्दक्षिण तटे सिद्धं तस्याः श्रैष्ठ्यं च तत्कृतम्॥ (१२)
व्यासः –
इत्युक्त्वा विररामाशु भूतमन्तर्हितं वचः।
अथोवाच च तं विप्रं प्रार्थ्यतां यत्तवेप्सितम्॥ (१३)
सुबोधस्तु वचः श्रुत्वा केवलं तद्वियद्गतम्।
अहो केनेति केनेति सम्भ्रमाद्विस्मितो भवत्॥ (१४)
पुनश्चोवाच भगवान्विस्मितेनान्तरात्मना।
स्पष्टाक्षरमसन्दिग्धं दिशो दश निनादयन् ॥ (१५)
यस्त्वेदमवदत्तन्तु न पश्यामि वचः श्रुतम्।
विभ्रमोयमधस्वप्नः किंवा भ्रान्तिर्ममाप्यभूत् ॥ (१६)
वदन्नन्तर्हितो देवः को भवान्नः प्रसीदतु ।
व्यासः –
इति श्रुत्वा महाबुद्धेर्भगवान् सर्वलोककृत् ॥ (१७)
व्याजहार गभीरं तद्वचस्त्वन्तर्हितो हरिः ।
श्री भगवान् –
विप्र विप्र महाबुद्धे प्रसादस्ते मया कृतः॥ (१८)
यद्यदिष्टं प्रयच्छामि प्रियतां तत्तवाधुना।
सुबोधः –
यदि प्रसन्नो भूतेश प्रत्यक्षो भव भद्रद ॥ (१९)
त्वां च वेदितुमिच्छामि कस्त्वमित्यपि तद्वद।
श्री भगवान् –
भूतेश्वरं च मां विद्धि भूतानां प्रभवाप्ययम्॥ (२०)
अधारभूतं विश्वस्य तवानुग्रहकाम्यया।
तव सन्दर्शयिष्यामि स्वरूपं भूतभावनम्॥ (२१)
अभक्तानां च दुर्दर्शं यतितामपि सुव्रत।
व्यासः –
इत्युक्त्वा सर्वभूतेशो भूतानामादिरव्ययः।
दर्शयामास विप्राय स्वरूपं सर्वरूपधृत्॥ (२२)
योगिध्येयं परमममलं व्यापकं व्याप्यविश्वं
श्रीमद्वाहादशशतयुतं कौस्तुभोद्भास्करस्कम् ।
श्रीवत्साद्यैः स्फुरदुरुचलत्कुण्डलोद्धामहारं
लोलत्काञ्ची कनकवसनं रूपमाविर्बभूव॥ (२३)
भूताधारं भुवनभवनं भूधराभं प्रभूतं
दान्तं शान्तं कमलनिकरोद्भासिनीलाचलाभम्।
विश्वत्राणं विलसितदृशं दीपितं चारुहासं
लक्ष्मीवासं बहुलललितोद्दामवक्षश्रियाढ्यम्॥ (२४)
दृष्ट्वा तटित्पुञ्ज पिनद्धनीलघनाकृतिश्याम मुदारसत्वं
रूपं परं सर्वगुणाश्रयं तद्विजोप्यति प्रीतमनाबभूव।
तुष्टाववाग्भिःप्रणयप्रगल्भ श्रुते प्रियादात पदाक्षराभिः
विनम्रकायः करपङ्कजाभ्यां कृताञ्जलि स्निग्ध मनास्सुबोधः॥ (२५)
नमामि सर्वेश्वर सर्वभूत प्रियप्रणामा वसतार्तिहस्तः
परावरात्मन् मधुहन्प्रसीद समस्तकल्याण गुणाश्रयेश।
जगत्प्रविष्टं तव वक्रमध्ये दृशाप्रविष्टावदचन्द्रसूर्यौ
भुजप्रविष्टाः ककुभोऽखिलास्ते श्रुतिप्रविष्टं च नभश्च नाभौ ॥ (२६)
सभूत सङ्घात वनाद्रिनिम्नगा सतोय तद्वीप गुणावृता तथा
धरानिविष्टा तव पादमूले चराचरं विश्वमिदं त्वयीश।
त्वमग्निरापः पवनोऽनिलस्त्वं नभो मनो बुद्धिरहङ्कृतिस्त्वम्
महान्प्रधानं पुरुषः परस्त्वं परात्परं ज्योतिरपित्वमेव ॥ (२७)
अगोचरं यद्वचसामनादि विधातृविश्वस्य च भूतभर्तृन्
अनन्तमक्षय्यमजन्त्वरूपमनाश्रयं त्वं तत्परमं त्वमेव ।
तवेशलीलाश्रयं वस्तु चैतत्समस्तकार्याप्रभवं प्रधानम्
पराचया सत्वमयी प्रधाना तवामला भोगनिबन्धनासा॥ (२८)
नमन्ति ये तापक पाद पङ्कजं तवस्तवप्रोद्यत मानसानराः
तरन्ति ते संसृतिमोहमाशु वै व्रजन्ति ते त्वत्पदमस्त बन्धनाः।
क्वपुण्डरीकोरु सरोमुखं ते क्व च प्रसन्नामल नेत्रयुग्मं
क्व वक्त्र वक्षः करणाभि पादयुग्वपुः क्व पद्मोत्करषण्डकाननम्॥ (२९)
कथं सुपश्यामि परात्परं त्वां कथं सुकृत्वाकिमहं व्रजामि
विलोकयात्मानममित्र घातिन्प्रसन्नलोलत्सघृणे न चक्षुषा ।
मयि प्रसन्नो भगवानधीश्वरः पतिः पराणामपि सत्यविक्रमः
करोति मे निर्वृतिमुग्रकर्मणः समस्तलोकप्रभवाप्यमो महान्॥ (३०)
भुवि प्रशस्तानि च यानि तीर्थान्यायान्तु सद्यस्सुसरिद्वरायाम्
पिबन्ति ये तीर्थमुदारदर्शनास्तरन्तु संसारमसारसारम्।
तपश्च तप्तं यदुतात्र दत्तं हुतं च यत्कर्म कृतं मनुष्यैः
समग्रमेतद्भगवन्प्रसादाद्भवत्वसन्ते प्रणतिश्च तेषाम्॥ (३१)
व्यासः –
इतीदमुक्त्वा विरराम वाक्यं कृताञ्जलिर्नम्रशिरास्सुबोधः।
उपादशौरि मधुरार्थ वाक्यं स्वरेणमेघस्वन सन्निभेन॥ (३२)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रयोदशोऽध्यायः।
श्रीरङ्गमाहात्म्म्यम्-१४
भगवता श्रीरङ्गविमानाऽऽगमन कथनं
श्री भगवान् –
सुबोधयत्प्रार्थितमद्य वै यथा त्वया तथैवास्त्वधरस्तमादरात् ।
समस्ततीर्थान्यधनं तु वै नृणां कृतं च यद्दत्तमिहस्तु चाक्षयम्॥ (१)
अवैहि मां विप्र परात्परन्त्वमनन्तमाद्यं पुरुषप्रधानम् ।
समस्तभूतार्थिहरं सुरेशं प्रभुं च नारायणमप्रमेयम् ॥ (२)
मद्दण्डमण्डाद्बहिरप्यतः परं प्रधानपुंसः परमं च तत्पदम् ।
ततः पराशक्तिरमेयरूपा ममेयमात्मा जगतां नियन्त्री॥ (३)
समस्तकर्ता च समस्तपाता समस्तभोक्ता च समस्तमेव ।
अहं समस्तः परमास्ति योगिनां सगोचरस्सूक्ष्मदृशां कथञ्चन॥ (४)
हिताय विश्वस्य मुनेशयानः पयोँबुधौ भद्रमहं करोमि।
समस्तमक्ष्णां विधिशङ्करेन्द्र मुनीश्वराणां सलिलेचराणाम् ॥ (५)
पुराविधिर्दुष्करमुग्ररूपं तपस्समातिष्ठददृश्यरूपः।
परं च दद्यौ पुरुषं पुराणमयतोखिलं यत्रलयं च विश्वम्॥ (६)
सपुण्डरीको करचारुदर्शनं प्रतप्तकार्तस्वरवाससं प्रभुम् ।
शतह्रदानद्ध घनप्रकाशं परस्य रूपं सहसा ददर्श ॥ (७)
प्रणम्य बद्धाञ्जलिरग्र्यमग्र्यः प्रसीद देवेत्यसकृद्वचोऽब्रवीत्।
तथाब्रुवन्तं च हिरण्यगर्भं प्रियं वरं ते प्रियतामितीर्थम्॥ (८)
अथाह वेदः पुरुषोत्तम त्वं कुरुष्व मद्रूपमिदं तवाद्यम्।
यथाहृदिस्थं भगवप्रसादात्समस्तमक्ष्णामनिशं परेश॥ (९)
अथ प्रसन्नोऽहमवेक्ष्य वेधसं वचो ब्रुवं श्रीमदुदारमद्भुतम्।
अनेन रूपेण सतामदृश्योऽप्यतीव दृश्यस्तव सम्भवामि ॥ (१०)
अथासनस्थेन सहस्रमूर्ध्ना महोरगेणासकृतासु शय्या।
पुरा जगत्स्रष्टु मुदारकीर्तिनाप्यनन्त शय्या शयिना महामुने॥ (२०)
तव प्रियेष्ठं तु विधे विधातुं त्वदर्धमेवाहमितश्शयिष्ये।
त्वमद्य पद्मासन संयुतात्मवान् कुरुष्व संराधनमादरान्मम ॥ (२१)
इदं च धाम प्रियमस्मदिच्छया स्वसम्भवद्दर्शितमम्बुजासन।
श्रियायुतं श्रीमदिदं तु वै जगद्विभूतिमद्रङ्गमुदाहरिष्यति ॥ (२२)
इदं जगज्जन्मलयेप्यनाकुलं सदा मया यच्छयितं च शाश्वतम्।
गृहाण तद्धाम सदान्यपूजनं कुरुष्व चेत्येवमुदीरितं मया ॥ (२३)
विधिश्च तत्प्राप्य परं च धाम तत्स्वयं तदाराधन माचचार ह ।
ततो मनुःप्राप्य विरिचिनात्तदा सचापि पुत्राय ददौ प्रसादितः ॥ (२४)
ततस्तदिक्ष्वाकु कुलेऽवतारितं चिरं च राजप्रवरैश्च पूजितम्।
स्वयं क्रमादेत्य तु रङ्गधाम तत्प्रपूजयामास स लक्ष्मणाग्रजः॥ (२५)
स राघवो धाम तदात्मनोदिकं विभीषणाय प्रियकारणा ददौ ।
स तद्गृहीत्वा समयान्नदीस्तटं प्रियं सरश्च पद्मोत्करषण्डमण्डितम्॥ (२६)
सुशीतलं वृक्षचयैस्समावृतं विलोक्य देशस्सहसेप्सितो मया।
विधाय पूजां विधिवत्सुपुष्कलां विमानमुद्धर्तुमितो महात्मा॥ (२७)
विभीषणस्तन्न शशाक धर्मवित्ततो धरण्यां स पपात दुःखितः।
तदार्तमुद्वीक्ष्यतमब्रुवं वचस्सुखम्प्रयाहि त्वमितो विभीषण॥ (२८)
तत्राहमभ्येत्य नदीतटे त्वां प्रतीक्षमाणस्सुसुखं शयानः।
सचाप्यगाद्राक्षस वंशवर्धनो गते च लङ्कामभिवीक्ष्य तं प्रियम्॥
मम च शश्वयितं त्वमानुषं भवांश्च मां पश्यतु रङ्गधामनि॥ (२९)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुर्दशोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्- १५
श्रीगारुडपुराणे श्रीरङ्गमाहात्ं
श्रुत भगवद्वचनेन सुबोधेन श्रीरङ्गस्य गमनं
श्री भगवान् –
इयं सरिद्वै तरुषण्डमण्डिता समुद्रगाच्छोन्दवहा मयेप्सिता
नृणामघौघक्षपणक्षमा सदा प्रभूतभूतिमर्पोह्य संस्थिता।
न पानयस्या मुनिनामधेयं सतां मनस्सर्वगुणाश्रयं खलु
पयो विगाहस्व पिब त्व मादरात्कुरुष्व पूजां मम रङ्गधामनि ॥ (१)
व्यासः –
इतीदमुक्त्वा विरराम भूयो महान्महार्थानुगतं वचःप्रियम्।
सुबोधनामापि सुविस्मिताननो ययौ महद्धाम सरङ्गशब्दितम् ॥ (२)
आश्चर्यमिदमाख्यानं पुरावृत्तं स्वयम्भुवा।
पठतां शृण्वतां चैव दीर्घमायुः प्रयच्छति॥ (३)
यस्त्वे तत्कीर्तयेद्भक्त्या नरः पर्वणि पर्वणि।
स वन्द्योऽपि लभेत्पुत्रं श्रुत्वा योषित्सु तं लभेत्॥ (४)
ब्रह्मचारी पठंस्त्वेतत्क्षिप्रं स्याद्वेदपाठगः।
गृहस्थस्तु पठेद्यस्तु क्षिप्रं वै बन्धुमान् भवेत्॥ (५)
वसस्थोऽपि महाद्धे क्षिप्रं स स्याज्जितेन्द्रियः।
परिव्राड्यस्तु पठति पुण्यमाख्यानमुत्तमम्॥ (६)
सर्वावरुणतो मुक्तो विष्णुसायुज्यमाप्नुयात्।
राजस्य श्रद्धयायुक्त श्रुत्वैतत्पुण्य सम्भवम्॥ (७)
एकातपत्रां पृथिवीं कृत्वा राज्यं सभोक्ष्यति।
वैश्योऽपि श्रद्धया शृण्वनिदमाख्यानमुत्तमम्॥ (८)
समृद्धिमिष्टामतुलां शाश्वतीमाप्नुयाद्भुवि ।
शूद्रोऽपि शृण्वन् सुभगस्समृद्धिस्सुखमाप्नुयात् ॥ (९)
य इदं पुण्यमाख्यानं शृणुयात्तस्य नश्यति ।
कोटिजन्मार्जितं पापं तूलपुञ्जी यथाऽनलः ॥ (१०)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चदशोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्-१६
सनत्कुमार तपोभीत देवकृत भगवत् स्तुतिः
व्यासः –
अन्यच्च शृणु देवर्षे भूयिष्ठं धर्मसंहितम्।
पुष्करिण्यां पुरावृत्तमाख्यानं मुनिभिश्श्रुतम्॥ (१)
सनत्कुमारो भगवान् ययौ पुष्करिणीं पुरा।
तपश्चचारतस्यां वै वाय्वाहरो जितेन्द्रियः॥ (२)
तस्यर्षेर्जपतां श्रेष्ठ तपस्तप्तप उत्तमम्।
तत्रासन् बहवो विघ्नास्ताननाधृत्य यत्नतः॥ (३)
उग्रं तपस्समासाय तस्थौ पञ्चाग्निमध्यगः ।
तपसा तस्य तप्ताङ्ग श्शक्रो ब्रह्माणमब्रवीत्॥ (४)
शक्रः –
सनत्कुमारस्तपसा भस्मसात्कुरुते जगत्।
यया हि क्षोभितस्तत्र गन्धर्वाप्सरसाङ्गणैः ॥ (५)
विभ्रमैर्विविधैश्चापि मलयाचलवायुना।
चचाल मनस्तस्मात्तपसस्तवसान्निधैः ॥ (६)
उग्रस्वरूपी भगवान् साक्षादन्तकसन्निभः ।
क्षणं तिष्ठति चेल्लोकान् भस्मीभूतान् करिष्यति ॥ (७)
तपसा च सुतिग्मेन लोकोद्वेगकृता पुनः।
यद्यदिच्छति धर्मात्मा शक्र त्वं वा ततोऽधिकम्॥ (८)
अन्यच्च लभतां सर्वे लोकास्सन्तु गतप्यथाः।
ब्रह्मन्नाचक्ष्व किं कुर्मस्त्वां प्रपन्नभिया वयम्॥ (९)
इत्येवमुक्त्वा ब्रह्माणं मघवानप्युपारमत्।
पिनाकी तु जगामाथ तत्क्षणाद्ब्रह्मणस्सभाम्॥ (१०)
पृष्ट्वाभ्यर्ण स्थितं शक्रममरांस्तान् शेषतः।
किमागमन कार्यम् इति होवाच दुर्जटी॥ (११)
शूलिनोक्तास्सुरास्सर्वे शक्राद्या वाचमब्रुवन्।
सभां च ब्रह्मणः प्राप्तं शूलिनं च प्रजापतिम्॥ (१२)
किं सञ्ज्ञातं भगवता त्रैलोक्यं भस्मसात्कृतम्।
सनत्कुमार तपसा नजानीमस्तदीप्सितम्॥ (१३)
त्रैलोक्याधिपत्यं वाऽन्यत्वा लभतां स्वयम्।
लोकाविषण्णास्सीदन्ति तेन देव द्विजन्मना ॥ (१४)
व्यासः –
इति नानाविधानर्थान् जगाद त्रिदशाधिप ।
तेषां तद्वचनं श्रुत्वा शक्रादीनां दिवौकसाम् ॥ (१५)
उवाच सर्वस्रष्टारं कथमेतत्किमित्यपि।
किमत्रकृत्यं किं कृत्वा लोकास्ते सुखमाप्नुयुः ॥ (१६)
भवस्य वचनं श्रुत्वा त्रिदशानां च पश्यताम् ।
विमृश्य स समीक्ष्येनमुवाच कमलासनः॥ (१७)
ब्रह्मा –
जानाम्यहं पुरा शक्र मुनि कालाग्निवर्चसम् ।
अशक्यं प्रतिसन्धानं कर्तुमन्यैर्मयापि वा॥ (१८)
सनत्कुमारो भगवान् सर्वं वेदशुभाशुभम्।
अद्यात्म पदपदमन्विच्छन् यति ते मुनिसत्तमः॥ (१९)
वयं सर्वे परं यामः तदर्थं गरुडध्वजम्।
सह्यस्माभिः परं शक्यं पदं प्रापयितुं भव॥ (२०)
सर्वैश्शक्यं परं प्राप्तुं प्रसन्ने शार्ङ्गधन्वनि।
नेतरेषां प्रसदनाद् भव नास्त्यत्र संशयः॥ (२१)
व्यासः –
ततः स्वर्गौकसन्सर्वे भशुक्रपुरोगमाः।
प्रजापतिं पुरस्कृत्य जग्मुः क्षीरनिधेस्तटम्॥ (२२)
ततः प्राञ्जलयस्सर्वे भवन्तं सुरेश्वराः।
तुष्टुवुः पुण्डरीकाक्षं शरण्यं शरणार्थिनः॥ (२३)
ब्रह्मा –
नमो भगवते तस्मै शान्तायामित तेजसे।
पराय परमेशाय परमेष्ठ्यात्मने नमः ॥ (२४)
शान्तानन्दविभूत्येकनिधये परमात्मने ।
नमः परापरेशायं परमाचिन्त्य रूपिणे ॥ (२५)
आदिकर्त्रा नमस्तुभ्यं विश्वभोक्त्रे परात्मने।
विश्वसृष्टा पुराणात्मा विश्वभोक्ता निरञ्जनः ॥ (२६)
विश्वं बिभर्ति भगवान् येन येन चराचरम्।
विश्वप्रतिष्ठा भगवान् विश्वात्मा विश्वसम्भवः ॥ (२७)
त्वमेवाहं भवश्शक्रस्त्वमेवान्यच्चराचरम्।
त्वत्तो विश्वमिदं देव पाल्यते प्रियते त्वया॥ (२८)
तवरूपमिदं सर्वं विश्वमूर्तेः परात्मनः।
तव विश्वसृजो वेदास्सङ्कल्पस्थिति हेतवः॥ (२९)
समस्तकर्मभोक्ता त्वं कर्ता कारयितात्मवान्।
उरुगायस्य ते लोकास्त्रयः क्रान्तास्त्रिभिः क्रमैः॥ (३०)
यत्पदं सूरिभिर्मृग्यं तद्धाम परमं तव ।
त्वं सर्ववचसां वाच्यस्त्वं वैदसतः परः॥ (३१)
त्वमीशस्सर्वभूतानामस्माकं त्वं परागतिः।
पाहि पाहि जगन्नाथ पाहिनश्शरणागतान्॥ (३२)
सर्वज्ञस्सर्वगोयस्मात्सर्वं जानासि नः क्षमम्।
व्यासः –
इत्युक्त्वा भगवान् ब्रह्म प्रहृष्टानान्तरात्मना॥ (३३)
प्रणयन् देव देवेशं विरराम सनातनम् ।
अथ प्रणम्य भगवान् देवदेवमनामयम् ॥ (३४)
अल्पाक्षरमसन्दिग्धं शूली वचनमब्रवीत् ।
शङ्करः –
परत्वात्परमात्वाद्वैशिष्ट्याद्वैश्व रूप्यतः ॥ (३५)
सर्वाय सर्वरूपाय स सर्वव्यापिने नमः ।
अदृश्यायाप्रमेयाय सदसद्व्यक्तिहेतवे॥ (३६)
महाविभूतयोऽचिन्त्य षाड्गुण्यनिधये नमः।
पाहि विप्र तपः क्रौर्यभीतानेतान्सुरान्गुरो॥ (३७)
शरणं त्वां प्रपन्नोश्च भगवान् देवरक्षक।
विभूति भूतयोः कृष्णा तवसर्वेश्वरावयोः॥ (३८)
ब्रह्मणो ममचाप्यद्य दर्शयात्मानमेव च।
व्यासः-
इत्युक्ते शूलिनस्तोत्रे गम्भीरार्थेऽल्पशब्दके॥ (३९)
उवाचानन्तरं वाक्यं शक्रः श्लक्ष्णतरं लघु।
इन्द्रः-
जानन्नपि न जानाति पदंश्च न वदत्यपि॥ (४०)
प्रजापतिः पशुपतिः पश्यन्नपि न पश्यति।
परस्मात्परमं यस्य वपुर्विश्वं चराचरम्॥ (४१)
तस्मै सम्पूर्णकामाय परस्मै ब्रह्मणे नमः।
ज्ञानानन्दमयं यस्य स्वरूपं नित्यरूपिणः॥ (४२)
तस्मै परापरेशाय नमश्शान्तविभूतये ।
तपसा चातितीव्रेण लोकोद्वेगवता पुनः ॥ (४३)
यद्यदिच्छति धर्मात्मा शक्र त्वं वा ततोऽधिकम् ।
अद्यैव लभतां कामं लोकास्सन्तु गतव्यथाः ॥ (४४)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षोडशोऽध्यायः
श्रीरङ्गमाहात्म्यम् – १७
व्यासः –
एवं स्तुतस्स भगवानुत्फुल्लकमलेक्षणः।
क्षीराब्धेरुद्गतश्श्यामः श्यामीकृत दिगन्तरः॥ (१)
चन्द्रांशुगरैः कल्लोलैस्तदैवाभाति नीलितः।
चलच्छन्द्राशु सन्नद्ध नभो निभ इवार्णवः॥ (२)
ददृशुः कृष्णमीशाद्रेरुपरिस्थमिवाम्बुदम्।
तटिन्नद्धमिवानं भूषणैर्भूषितं सुराः॥ (३)
प्रबुद्धकमलाभाक्षं चलत्कुण्डलमण्डितम्।
सहस्रांशु सहस्राभं किरीटधरमच्युतम्॥ (४)
हरिहर चलद्वक्षस्फुरच्छ्रीवत्सकौस्तुभम्।
स्फुरदङ्गद सन्नद्ध बाहु परिगमद्भुतम्॥ (५)
शङ्खचक्रधरं देवं दृष्ट्वा देवाश्च विस्मिताः।
तुष्टुवुः पुण्डरीकाक्षं वाग्भिररग्र्याभिरच्युतम्॥ (६)
देवाः –
नमस्ते पुष्कराक्षाय नमः पुष्करनाभये।
नमः परावरेशाय नमस्ते परमात्मने ॥ (७)
नमस्ते विश्वमूर्ताय चतुर्मूर्ताय ते नमः।
अमूर्ताय नमस्तुभ्यम् एकमूर्ताय विष्णवे॥ (८)
सद्रूपाय नमस्तुभ्यं सुसद्रूपाय शार्ङ्गिणे ।
नमः प्रधानरूपाय भद्ररूपाय ते नमः॥ (९)
नमोऽहङ्कृतिरूपाय त्रिधा भिन्नाय विष्णवे।
नमो बुद्धीन्द्रियग्रामस्वरूपायामलात्मने॥ (१०)
नमश्शब्दस्वरूपाय स्पर्शरूपाय विष्णवे।
रूपरूपाय हरये रसरूपाय ते नमः॥ (११)
नमो गन्धस्वरूपाय नमस्ते जगदात्मने।
हिरण्यगर्भरूपाय नमश्शङ्कररूपिणे ॥ (१२)
विष्णवे वासुदेवाय नमोऽनन्तस्वरूपिणे।
चराचरस्वरूपाय नारसिंहस्वरूपिणे॥ (१३)
नमो वराहरूपाय मत्स्यरूपाय विष्णवे।
नमस्ते कूर्मरूपाय वामनाय नमो नमः॥ (१४)
नमो राघवरूपाय नमः कृष्णाय जिष्णवे।
नमस्ते कल्किरूपाय नमः परशुधारिणे॥ (१५)
विशुद्धज्ञानरूपाय नमोऽनन्तविभूतये ।
सूरिभिर्दृश्यरूपाय ज्ञानानन्द स्वरूपिणे ॥ (१६)
व्यासः –
इति स्तुतो हरिस्तत्र देवानुच्छेरुवाच ह ।
प्रसन्नया दृशालोक्य जगद्विस्मापयन्निव ॥ (१७)
श्रीभगवान् –
किमर्थमागता यूयं को वा नोऽभूदुपद्रवः ।
के यूयं कुत आयातः क्षिप्रं प्रब्रूत मा चिरम् ॥ (१८)
जगत्सन्दुक्षयन्तीं तां वाणीं श्रुत्वा तु शार्ङ्गिणः ।
प्रणयोवाच च ब्रह्म प्रश्रयात्साद्वसान्वितः ॥ (१९)
ब्रह्मा –
अहं ब्रह्मा त्वयं शूलि भगवन्मघवानयम्।
इमे देवा वयं सृष्टास्त्वया पुष्टाश्च केशवः ॥ (२०)
ऋषिस्तप्त तपादेव तिग्मे तपसि च स्थितः ।
सनत्कुमारस्तपति न विद्मस्तस्य चेप्सितम्॥ (२१)
यदिष्टं भगवत्कर्तुं न शक्ता स्म वयं प्रभो।
दह्यन्ते तपसा तस्य प्रायो लोकास्तु सर्वशः॥ (२२)
तदर्थं शार्ङ्गिणं प्राप्ता वयं त्वां भक्तवत्सलम्।
लोकवृत्तमिदं देव प्रमाणं त्वमतः परम्॥ (२३)
व्यासः –
इत्युक्तो भगवान् विष्णुः ब्रह्मणाव्यक्तजन्मना।
स्थितमुग्रे च तपसि प्रभविष्णुः परा गतिः।
चिन्तयानो मुनिः धीमान् प्रजहास भृशं हरिः॥ (२४)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्तदशोऽध्यायः।
श्रीरङ्गमाहात्म्यम्-१८
सनत्कुमाराय उपाध्यायरूपेण भगवदाविर्भावः
श्री भगवान् –
जानाम्यह्यृषेस्तय वाञ्च्छितं च सुदुर्लभम्।
तत्तु सर्वं विधास्यामि यूयं यात यथागतम्॥ (१)
मम दृष्टिपथं यातः कश्चिदेव हि पद्मज ।
आर्तिं स याति परमामृद्धिं विन्दति च ध्रुवम्॥ (२)
किमुत त्वादृशानां हि सर्वं संवत्स्यतेतराम्।
अस्माकमन्तरं तावन्न विजानन्ति केचन॥ (३)
व्यासः –
इत्युक्त्वाऽन्तर्दधे विष्णुः तेऽपि जग्मुर्यथा गतम्।
कृतार्थतां कीर्तयन्तः स्वात्मानः कृष्णदर्शनात्॥ (४)
अहो रूपमहो रूप महो कान्तिरियं हरेः ।
अहो नयन लक्ष्मीर्नो मनो हरति सन्ततम्॥ (५)
अहो सुमुग्ध मधुर प्रियेक्षणमिति स्म ह।
इत्थं देवः प्रजल्पन्तो ययुर्ब्रह्मा पुरागमाः॥ (६)
भगवानपि देवर्षे यया यत्रर्षिसत्तमः।
हरिरध्यानको भूत्वा सहशिष्यैर्मनोरमैः ॥ (७)
शङ्खं चक्रं गदां पद्मं मुसलां शार्ङ्गधन्वनः।
तथा शार्ङ्ग्यसि वज्राद्याश्शेषः पतगरागथा ॥ (८)
एते शिष्यमहात्मानो बभूवुः क्रीडितो हरेः।
सर्वे कृष्णाजिनधराः वटवो मधुरस्वराः॥ (९)
सर्वे पद्मपलाशाक्षा नीलकुञ्चितमूर्धजाः।
पादं पादमधीयाना सूक्तं सूक्तं च सुस्वराः॥ (१०)
क्वचित्सामानि गायन्तो वेदवेद्यं तमस्वयुः।
स्वतेजसा महाबुद्धे विश्वमाप्यायन्मुहुः ॥ (११)
अनुजग्मुश्च ते सर्वे गुणैस्तस्य वशीकृताः ।
वेदा विग्रह सन्तश्च चत्वारस्समनुद्रुताः ॥ (१२)
शास्त्राण्यपि च सर्वाणि स्वरूपाणि च भेजिरे।
सनन्दनाद्या मुनयस्सिद्धगन्धर्वचारणाः ॥ (१३)
निभृतां तर्हि तास्सर्वे हरिमेवानु सुस्रुवुः।
दृष्ट्वा स पुण्डरीकाक्षं ध्वजं च मधुरा कृतीम् ॥ (१४)
क्वचित्पादं क्वचिच्छार्थं क्वचित्सूक्तं तथैव च ।
क्वचित्साधूनि मधुरमुच्चनीचप्रभेदतः॥ (१५)
एवं प्रव्याहरं तं तं वेदान् शिष्यगणान्प्रति।
मुनि र्मतिमतां श्रेष्ठस्समुत्तस्थौ कृताञ्जलिः॥ (१६)
उवाच च महाबुद्धिः दृष्ट्वा तं विस्मितेक्षणः।
सनत्कुमारः –
कोऽयं कोऽयमितीवासौ सौम्यगात्रश्शुभेक्षणः॥ (१७)
क इमे पटवस्तस्य शिष्याः पद्मनिभेक्षणाः।
इत्येवं वदतस्तस्य मुनेरभ्यासमन्वगात्॥ (१८)
उपाद्यायो महामायो मनसामप्यगोचरः।
पुनः प्रोवाच भगवान् समालोक्यद्विजोत्तमः॥ (१९)
मुह्यमानस्समृद्धार्थमात्मानमवशो मुनिः।
अनङ्गो वासवो वापि विष्णुर्वा पुरुषोत्तमः॥ (२०)
कथमासीदयं लोके कावस्य पितरो भुवि ।
इहागच्छति मां विप्रो लक्ष्मीं कृत्य विलोकयन्॥ (२३)
इच्छा विचार चतुरः किं सुवास्य चिकीर्षितम् ।
व्यासः –
इत्येवं संशयानन्तं सर्वस्य प्रियदर्शनः ॥ (२४)
मुनि प्रोवाच भगवान् साक्षाल्लक्ष्मी महीपतिः।
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टादशोऽध्यायः ।
******
श्रीरङ्गमाहात्म्यम्-१९
उपाध्याय सनत्कुमार संवादः
श्री भगवान्-
ऋषे कस्त्वं तपस्याग्रे वर्तमानस्सुदारुणे।
किमुद्दिश्य तपश्चैतत्किंवास्य फलमादिश॥ (१)
सनत्कुमारः –
सनत्कुमारं मां विद्धि तपश्चर्यार्थमास्थितम्।
आराध्यश्चैह तपसा देवो नारायणः प्रभुः॥ (२)
तद्दीप्तिरेव तपसः फलं चैव मयादृतम्।
कस्त्वमत्यद्भुताकारः किमर्थं कुत आगतः॥ (३)
ब्रूहि मे सकलं ब्रह्मन् त्वद्दर्शनहतेन नः।
व्यासः –
इत्युक्तः प्राह मधुरमुपाध्यायोऽब्जलोचनः॥ (४)
मेघस्तनित गम्भीरमर्धगर्भं प्रियं वचः ।
श्री भगवान् –
अहं महानुपाध्यायो मुने दैवादुपागतः॥ (५)
प्रयोजनं मयान्यच्च सत्वदभ्युदयं विना।
सनत्कुमारः-
कृतः कृतार्थो भगवान् इहाद्य तव दर्शनात्॥ (६)
कृतार्थं च तपस्तप्तं सिद्धाश्चापि मनोरथाः।
विष्णुर्वा वासवो वा त्वं पिनाकी वाथ तत्वतः॥ (७)
त्वं च वेदितुमिच्छामि तथेमानपि मानद।
प्रव्याहरन्तो मधुरं वेदान् स्वध्याय शीलिनः॥ (८)
कृष्णाजिनधरास्सर्वे ये च त्वां पर्युपासते।
श्री भगवान् –
नाहं शक्रो न शर्वो वा नान्यः किञ्चित्तु पूरुषः ॥ (९)
अहं तु सहसा प्राप्तो लोकार्ती क्षपणः क्षमः।
इमे शिष्या महाबुद्धे पटनस्सामगा मम ॥ (१०)
अहं तावदुपाध्यायसर्वेषां च सनातनः।
सनत्कुमारः –
अदृष्टपूर्वस्सौम्याङ्गः साक्षाद्विष्णुरिवापरः॥ (११)
प्रीणयन्दर्शनेनैव तद्भावान्यदिहागतः।
त्वं च वेदितुमिच्छामि त्वच्छिष्यांश्च मनोरमान्॥ (१२)
कस्त्वं क्व च निवासस्ते भवान् कस्य परिग्रहः।
जन्मवाते कुलीकेऽस्मिन् किं तेनाब्रवीहि मे॥ (१३)
श्री भगवान्-
अहं वसामि सर्वत्र न माता न पिता मम ।
बन्धुर्नापि मे जन्म नामजात्याधयोऽपि च ॥ (१४)
इमे च वटवास्सर्वे सम्भूतास्त्वन्निमित्ततः।
किं ज्ञातेन ममा वाते प्रष्टव्यं यच्च तच्छृणु॥ (१५)
समस्तवस्तु महान् विप्र! तव वेदेषु लक्ष्यते।
प्रष्टव्यं किञ्चिदस्त्यत्र तत्प्रति ब्रूहि मे लघु॥ (१६)
किं कार्यं सर्ववर्णानां किं वाच्यं सर्वदा नृणाम्।
किं चक्षुस्सर्वजन्तूनां किमेकं सर्वदा बहु॥ (१७)
वर्तते किमनाधारं प्रभूतं वाऽल्पकिञ्च किम्।
सदसत्किमतोस्यत्किं किमहं बहु जन्मना ॥ (१८)
केनस्विद्वर्तते विश्वं जगदेतच्चराचरम्।
एतस्माद्वेदय ब्रह्मन् जानीषेयदिचेच्छसि॥ (१९)
सर्वे सर्वं विजानन्ति मुनयश्चेति न श्रुतम्।
सनत्कुमारः-
त्वं वैजगत्सृष्टिकरो भवान्नरायणोऽव्ययः॥ (२०)
अनुग्रहार्थं भूतानामवतीर्णोसि भूतले।
भवितव्यं तु तेनैव चतुर्वेदस्त्वर्थसङ्ग्रहः॥ (२१)
कार्येन न पृच्छता नूनं हरिणा परमेष्ठिना।
यत्पृष्ठं भवता ब्रह्मन् दुज्ञेयं जानतामपि॥ (२२)
ज्ञातुं वा प्रतिवक्तुं वा तन्न शक्यं मयोदितः ।
त्वमेव सर्वं जानीषे सर्वत्र कुशलो भवान्॥ (२३)
यथा पृष्ठं त्वया ब्रह्मन्तथा वद महामुने ।
अहमध्यात्मचित्तस्सन्निह वर्ते द्विजोत्तम ॥ (२४)
तद्वक्तुमागतः किं त्वं भगवन्मय्यनुग्रहात् ।
यदि प्रसन्नो भगवान् प्रतिवक्तुं त्वमर्हसि॥ (२५)
आश्चर्यं हि द्विजश्रेष्ठ शिष्याश्च सदृशास्तव।
श्री भगवान्-
बाढं परिहर्तव्या वै जगदेतच्चराचरम्॥ (२६)
भवतस्तेजसा तप्तं विधातुं प्रियमात्मनः।
अभ्यर्थितस्सुरगणैः द्रष्टुं त्वामागतोऽस्म्यहम्॥
तद्ब्रवीम्यधुना पूर्वं मदुक्तं दुर्वचं वचः ॥ (२७)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोनविंशोऽध्यायः
*****
श्रीरङ्गमाहात्म्यम्-२०
सनत्कुमाराय उपाध्यायकृत तत्वोपदेशः
श्रीभगवान् –
धर्मः कार्योऽनिशं सर्वे स्वसंस्कारानुसारिभिः।
सर्वेषां सूनृतं वाच्यं सर्वदा सु विजानिताम्॥ (१)
आदित्यश्चक्षुर्भूतानां शक्त्याविष्टस्तदव्यया।
प्रधानमेकं त्वं विद्धि कार्यरूपं स चा बहु॥ (२)
आधारं हि स ब्रह्माहं बृहत्वाल्पं च तन्मतम्।
यथा न कार्यः क्षमता कुणपस्सह्यनात्मनः ॥ (३)
तथा विश्वप्रवृत्तिर्हि तदधीनेति वै ध्रुवम् ।
तेनाविष्टोज्वलत्यग्निस्तथा वायुस्तथा रविः ॥ (४)
सर्वं जगच्छेष्टयति परमात्मा परः पुमान् ।
नियच्छन् स्ववशे देवस्त्वेतरं सकलं मुने॥ (५)
परमे व्योम्नि भगवान् सुखमास्ते स्वतस्सुखी।
यच्छ यच्छोर्जितं दृष्टं त्वया वस्तु मुने स्थितम् ॥ (६)
तत्तद्विद्धि महाबुद्धे विष्णुशक्त्या विजृम्भणम्।
एकस्य वस्तुनस्तावत् बहुत्वं न विरुध्यते॥ (७)
कार्यकारणभावाद्धि दृश्यते च विभिन्नता।
छिन्नस्यैव तरोर्मूला द्विरूढास्तरवो परे॥ (८)
अङ्गप्रत्यङ्गभेदोऽपि यथैकस्मिंस्तु दृश्यते।
तथा विन्यासवैषम्यं बहुनां न तु भेदकम्॥ (९)
एकत्वप्रतिवत्तौ हि जात्यादिः खलु कारणम्।
तद्भेदाद्वस्तुभिन्नं स्यात्सजातिर्येन भेदधीः॥ (१०)
तथाप्याकृतिवैषम्याद्बहुत्वमपि युज्यते।
तथैकत्वमतिस्तेषु कारणप्रतिपत्तितः॥ (११)
सर्वाधारं परं ब्रह्म सत्यस्याधारसम्भवः ।
असम्भवादशक्यत्वादन्यस्यादेय संश्रयात्॥ (१२)
परमं ब्रह्मणोऽत्यल्पं चिदचिन्नकुरुबकम् ।
तदल्पादल्पकं तस्य कथमाधार इष्यते ॥ (१३)
एकस्य वस्तुनो ब्रह्मन् महत्वं स्वल्पदापि च।
तत्सङ्कोचविकासाभ्यामुपपन्नतरं भवेत्॥ (१४)
अचिन्त्यशक्तियुक्तस्य परस्य ब्रह्मणो मुने।
बहुधा किमवस्थानं नैरपेक्ष्यान्न सम्भवेत् ॥ (१५)
सदक्षरमिति प्रोक्तमसत्क्षरमितीरितम्।
ब्रह्मनि क्षरणायोगादसतोऽन्यत्स्फुटं भवेत् ॥ (१६)
सर्वसामान्यमुक्तत्वात् सजातीयस्य वर्जनात्।
अनिर्देश्यविशेषत्वात्कल्याणानन्दसंश्रयात्॥ (१७)
सतोऽप्यस्यदिति ज्ञेयं तद्धि वाचामगोचरम्।
ब्रह्मादि परिणामेषु ह्यात्मतद्वश्यतामियात्॥ (१८)
असकृद्विज्ञायमानोऽपि न तद्वश्यः परः पुमान्।
नन्वेच्छया विर्भवतो ब्रह्मणो जन्म पश्यता॥ (१९)
रामोपेन्द्रादिरूपेण तस्मात्तद्बहुजन्मकम्।
अनाविशी च रक्षायै जगतां लीलयापि च॥ (२०)
परस्य सर्वशक्तित्वादजातो जात इष्यते।
अल्पश्चैव शुद्धश्च तस्माद्ब्रह्मजमुच्यते॥ (२१)
अजायमानो बहुधा विजायत इति श्रुतिः।
ब्रह्मन्शक्तिसमावेशं जगतोऽस्याधुना शृणु॥ (२२)
नियच्छन् स्ववशे चैतत्स्वेतरं सकलं मुने।
परमे व्योम्नि भगवान् समासीनः स्वतस्सुखी॥
तस्मात्स्पष्टमसन्दिग्धं प्रकाश्योत्तरमीरितम् ॥ (२३)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये विंशोऽध्यायः ।
***
श्रीरङ्गमाहात्म्यम्-२१
उपाध्यायेन ज्ञानस्य प्रकर्ष कथनं
सनत्कुमारः –
त्वयोदितमुपाध्याय सर्वसञ्छिन्नसंशयम्।
वेद्यं वेदविदां श्रेष्ठ वेदान्तपरिनिष्ठितम्॥ (१)
नानाशापाशयुक्तेऽस्मिन् शोकमोहमहाग्रहौ।
तापत्रयोर्मिनिकरा काममीनमहोरगे॥ (२)
विषयार सरिद्वेग महावर्ते भवार्णवे।
निमज्जतोन वै पारं कदाचिदपि पश्यतः ॥ (३)
श्रान्तस्य ममाधीनस्य जीर्णस्य च भवे भवे ।
नानादुःख प्रवाहेषु परितस्तस्य शीर्यतः॥ (४)
भूतानि भो विजयतो जन्तोः पीडां प्रकुर्वतः।
सदा पश्यस्य सततं नानाजन्म परिग्रहे॥ (५)
जातस्य म्रियतश्शश्वत्पुनर्गर्भमुपेयुषः।
इष्टस्य विप्रयागाच्छ विपरीतस्य योगतः॥ (६)
जन्मना गर्भवासाच्च जरया मरणादपि।
अपत्यमित्रभार्यार्थगृहक्षेत्राद्यलाभतः॥ (७)
तथा मानावमानाभ्यां परितापभयेन च।
आध्यात्मिकादिना चैव दुःखमेवोपगच्छतः ॥ (८)
का गतिः किं नु गत्वाहं तरेयमशुभास्पदम् ।
भवजं बालगर्ततदनाद्यज्ञानसम्भवम् ॥ (९)
श्री भगवान् –
एतदज्ञानतिमिरं ज्ञानाञ्जनशलाकया।
मनो नेत्रगतं नृणां तयैवाप्यपनीयते॥ (१)
ज्ञानमेव परं विद्धि ज्ञानमेव परं धनम्।
ज्ञानी सर्वमवाप्नोति ज्ञानमेव परं सुखम्॥ (२)
ज्ञानादात्यन्तिकी शुद्धिरिष्यते नान्यतः क्वचित्।
ज्ञानादन्यत्र सर्वेषां नशुद्धिर्नसुखं भवेत्॥ (३)
अतस्त्वं ज्ञानपदवीमधिरोहयतात्मवान्।
तेन दुःखतरं कृच्छ्रं तरिष्यसि भवार्णवम्॥ (४)
अनात्मन्यात्मविज्ञानं मूलम्भवतरोर्मुने।
छित्वा तदात्मविज्ञानाद्योगी निर्वाणमृच्छति॥ (५)
ज्ञानमेवाक्षरं सत्यमन्यत्सर्वं मृषात्मकम्।
एवं ज्ञात्वाऽपरं मुक्त्वा परं योगी प्रपद्यते॥ (६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकविंशोऽध्यायः।
** ****
श्रीरङ्गमाहात्म्यम्-२२
उपाध्यायेन अध्यात्मविषयज्ञान कथनं
सनत्कुमारः –
अध्यात्मनिरतस्यैव त्वरते मे मनोमहात्।
अध्यात्मविषयां वाणीं श्रोतुं श्रुतिमतां वर ॥ (१)
आकिञ्चनस्य मे ब्रह्मन् सनातं जीवितं कृतम् ।
त्वया पुरुषसारेण कारुण्यामृतसिन्धुना॥ (२)
श्रीभगवान्-
अतस्सर्वं प्रवक्ष्यामि यद्भूयं श्रोतुमिच्छसि।
गोपनीयं सदासद्भिः शृणुष्वैकमहामुने ॥ (३)
आध्यात्ममिति यज्जज्ञानमात्मानमधि तिष्ठति।
आध्यात्मविद्याविदुषां प्रीतिर्येषां महामुने॥ (४)
योगं युञ्जीत सततं योगेनात्मानमश्नुते।
संसार विषवृक्षस्य योगो हि परमौषधम्॥ (५)
योगमातिष्ठ भगवान्नारुरुक्षुस्तपोधन।
योगं विना न ते शुद्धिर्गर्हसत्कर्म सञ्ज्ञितम्॥ (६)
प्रकृत्यात्माप्यशठो भूत्वा शास्त्रेष्वास्तिक्यमा व्रज।
विधानाचोदितं कर्म सत्यभेधाः कथञ्चन॥ (७)
आसनं च स्वस्तिकादिष्वेतेष्वन्यतमं व्रज।
विविक्तसेवी लघ्वाशी भवेताः त्वमतन्द्रितः ॥ (८)
विषयेभ्यस्समाहृत्य शब्दैरेवेन्द्रियाणि च।
आत्मा सन्दर्शयित्वाथ मनस्तत्र निवेशय॥ (९)
महदादि विशेषां तान् नेति नेति व्यपोह्य च।
तत्तत्स्वभावं सम्मृश्य शाश्वते तु मनो नय॥ (१०)
अल्पाशी शास्त्रनिरतो निर्ममस्त्वं सदा भव ।
आत्मानममलं शुद्धं सदैवात्मानि भावय॥ (११)
शुभाश्रयं परं ब्रह्म स्मृत्वा तत्र स्थितिं कुरु ।
शुभाश्रये परिष्वक्तं मनः कृत्वा सुखीभव॥ (१२)
शश्वद्विकारनिर्मुक्तं ध्वस्तकर्मावलोकनम्।
विशोकं विगतक्लेशं परं विज्ञानशब्दितम् ॥ (१३)
सततं भावयागादात्मानं द्रक्ष्यसे ततः।
सुखहेतुं परं विद्धि प्रतिष्ठां चामृतस्य च॥ (१४)
सर्वावरणनिर्मुक्तमात्मतत्वं परात्परम्।
यदे तदुक्तं विमलमात्माख्यं परमं विभुम् ॥ (१५)
परस्य ब्रह्मणो रूपं तस्य तत्परमं पदम्।
इत्येवं कथितो ब्रह्मन्नध्यात्म विषयामतिः॥
स कस्मैचिदिदं ब्रूयादमित्राय कदाचन ॥ (१६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्वाविंशोऽध्यायः।
******
श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये
श्रीरङ्गमाहात्म्यम्-२३
उपाध्यायेन भगवत्स्वरूप कथनं तिरोभावनं च
सनत्कुमारः –
भगवंस्तत्वतो ब्रूहि परब्रह्माश्रयां कथाम् ।
भवान् सर्वं विजानीति त्वयि सर्वं प्रतिष्ठितम्॥ (१)
कथं तदवगच्छामः कथं प्राप्ति कथञ्चन।
विज्ञाय ते कथं केन कस्मिन्नित्यं प्रतिष्ठितम्॥ (२)
एतदाचक्ष्व भगवन् विस्तरेण मनो मुने।
दुर्वच वदतां श्रेष्ठ त्वं हि विज्ञान जन्मभूः ॥ (३)
श्रीभगवान् –
वदामि त्वयि कारुण्यात्सर्वेषामप्यगोचरम् ।
ज्ञातुं वक्तुं तथा श्रोतुमशक्यं भुवि केनचित् ॥ (४)
विज्ञातपरतत्वानां श्रीमतां श्रुतिशालिनाम्।
सौभाग्य सम्पद्युक्तानां जिज्ञासा जायते मुने॥ (५)
परस्मिन् ब्रह्मणि ब्रह्मन् तथा जिज्ञासितं त्वया ।
जानाम्यहं मनूचानं त्वमद्य प्रियवादिनम् ॥ (६)
अप्यतीन्द्रियमेवार्थं ज्ञानं ज्ञेयं परात्परम् ।
उपदेक्ष्यामि तत्सर्वं सङ्क्षेपेण तवाधुना ॥ (७)
वेदवेद्यं परं ब्रह्म विदुर्वेदान्तवादिनः ।
अमृतस्य प्रतिष्ठा हि वेदस्सत्यस्य चानघ॥ (८)
भक्तिनम्रशिरोभिस्तत्प्राप्यते योगिभिर्द्विज ।
कल्याणानन्द सम्पूर्ण कल्याणाश्रय मव्ययम्॥ (९)
भद्रसेतुं परं ब्रह्म विश्वाधारं विदुर्बुधाः ।
सर्वभूतान्तरात्मस्थमिति जानीहि सत्तम॥ (१०)
स्वकर्मणा विशुद्धेन चेतसा तत्समश्नुते ।
नित्यं प्रतिष्ठितं ब्रह्म परमे व्योम्नि शाश्वते ॥ (११)
तच्च वै सूरिभिर्दृश्यं नान्यैरप्यसदाश्रयैः ।
ज्ञानं ज्ञेयं परं विद्धि ब्रह्मानन्दमयं महत् ॥ (१२)
ज्ञानिनस्तत्र ज्ञात्वा प्राप्नुवन्ति परां गतिम् ।
इति सङ्क्षेपतः प्रोक्तं परब्रह्माश्रयं पदम् ॥ (१३)
विस्ताराद्ब्रह्मणो वक्तुं विभूतिं नेशते सुराः ।
व्यासः –
इत्येवमुक्त्वा भगवानुपाध्यायो महामुने॥ (१४)
सनत्कुमारं धर्मज्ञं तत्रैवान्तरधीयत।
तस्मिन्नन्तर्हिते ब्रह्मन् स शिष्ये शार्ङ्गधन्वनि॥ (१५)
मुनिस्सन्तापमगमत्परं विश्लेषसम्भवम्।
अप्युक्तवन्तं तत्वार्थं चिरस्य समुपस्थितम् ॥ (१६)
मुने मतिमतां श्रेष्ठो मुनिस्तन्मावजज्ञवान्।
सनत्कुमारो भगवान् पुष्करिण्यामुपावसत्।
स्मरं स्तप्तमनास्तत्र स शिष्यं वै द्विजं मुने॥ (१७)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रयोविंशोऽध्यायः।
****
श्रीरङ्गमाहात्म्यम्-२४
ब्रह्म सनत्कुमार संवादः
व्यासः –
अथ पद्मासनस्तत्र ह्याजगाम यदृच्छया ।
दृष्ट्वा सनत्कुमारस्तु पितरं त्वमभ्यवादयत्॥ (१)
सापि सर्वं पुरावृत्तं द्विजवर्येण धीमता।
स शिष्येण समासेन ब्रह्मणश्चावदत्पुरः ॥ (२)
सनत्कुमारः –
अध्यात्मविषयं ज्ञानं धर्मश्चापि प्रदर्शितः।
अन्यच्छ द्विजवर्येण स शिष्येण महात्मना । (३)
सहसान्तर्दधे देवि प्रस्तद्विस्मोपयति प्रभो।
भवन्तं तं तु पृच्छामि कोसाविति पितामह॥ (४)
व्यासः –
इत्युक्तस्तु स्मितं कृत्वा ब्रह्म प्राह स सादरम्।
सनत्कुमारं भगवान् ऋषिणां शृण्वतां मुने॥ (५)
ब्रह्मा –
कृतार्थस्त्वं द्विजश्रेष्ठं विद्धि नारायणं प्रभुम्।
अनन्तभोगे सुसुखं शयनं रङ्गधामनि॥ (६)
यः पूर्वं तव विज्ञानमध्यात्मगतमुक्तवान्।
यस्य प्रसादात् त्वं ब्रह्मन्नद्राक्षीस्तमतीन्द्रियम्॥ (७)
तं विद्धि रङ्गधामानं शिष्यास्तस्या युधानि हि।
स हि स्वल्पमपि त्वस्य विभूते ज्ञानदृष्टयः॥ (८)
द्रष्टा रोनवयं सान्ये किम्पुनस्त्वद्वदो मुने।
तमदृश्यं च भूतानामप्रमेयमनौपमम्॥ (९)
तवसौभाग्य सम्पत्या सहसा दृष्टवानपि।
पुनर् द्रक्ष्यसि धर्मज्ञ सततं रङ्गधामनि॥ (१०)
पुष्करिण्यां वसन् ब्रह्मन् कालेकालेतु सादरम्।
नियंयचात्मनात्मानं सदा तत्र प्रबुद्धधीः ॥ (११)
शृणु तीर्थस्य माहात्म्यमस्य श्रुतिमतां वर ।
यस्मिन् विश्वादिको विष्णुः प्रतितिष्ठत्यहर्निशम्॥ (१२)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुर्विंशोऽध्यायः
श्रीरङ्गमाहात्म्यम्-२५
ब्रह्मरचित चन्द्रपुष्करिणी महिमानुवर्णनं
व्यासः –
तत्रैव मुक्तो भगवानुवाच प्राञ्जलिस्थितः ।
ब्रूहि तीर्थस्य माहात्म्यमस्य श्रुतिमतां वर ॥ (१)
अथोवाच पुनर्ब्रह्मस्पष्टार्थं तं मुनिं प्रति।
त्रैलोक्यस्योपकाराय मुनीनां शृण्वतामपि॥ (२)
ब्रह्मा –
पुष्करिण्याश्च माहात्म्यं शृणुष्वावहितो मुने।
यस्य स्मरणमात्रेण नरः पापात्प्रमुच्यते ॥ (३)
परं हि सर्वतीर्थानां ज्ञानतीर्थं महामुने।
ज्ञानेन हि नृणां लोके शुद्धिरात्यन्तिकी मता॥ (४)
यथा समिद्धो दहति कृशानुःकाष्ठसञ्चयम्।
ज्ञानाग्निस्सर्वकर्माणि तथा निर्दहति द्विज॥ (५)
ज्ञानेन सिद्धिमाप्नोति विद्यते न हि तत्समम् ।
सर्वेषामीश्वर ज्ञानान्मुक्तिरव्यभिचारिणी॥ (६)
येषां परावरं ज्ञानं जायते भुवि वै नृणाम्।
ते महान्तो महात्मानो महत्वं ज्ञानहेतुकम्॥ (७)
ज्ञानी तु मुख्यस्सर्वेषामपि जात्यावरो हि सन्।
परापरत्वं गुणतो ज्ञानं हि महतां गुणः॥ (८)
न च देवादिभेदोऽपि ज्ञानेन मुनिसत्तम।
समानमात्मना यूपं तद्विद्धि ज्ञानशब्दितम् ॥ (९)
ज्ञानमेव सदन्यत्तु निखिलं नाशयुग्द्विज ।
ब्रह्मशब्दाभिधेयं तदात्मा ज्ञानमिति श्रुतिः ॥ (१०)
तस्य प्रकृतिसङ्गाद्धि तिरोभाव महि वै।
स्वयं पवित्रो विमलोऽप्यात्मा ज्ञानमयो विभुः ॥ (११)
शुभेतरस्य संयोगादशुभत्वमियादजः।
परिणामादिरहितः प्रकाशगुणको विभुः॥ (१२)
निर्गुणो निर्मलो नित्यो ज्ञानमात्मस्वतस्सुखी।
प्रधनं च जडं विद्धि क्षयिष्णु त्रिगुणात्मकम् ॥ (१३)
अचेतनमसच्छेदं तदा सर्वाशुभाश्रयम्।
कर्माणि विविधानीह पुण्यपापात्मकानि वै॥ (१४)
कृतानि क्रियमाणानि सर्वेषामपि देहिनाम्।
देशकालप्रभेदेन देहभेदेन वै मुने॥ (१५)
तत्तकर्माणि कर्तॄणां फलमुत्पादयन्ति हि।
भोक्तव्यं तच्च सर्वेषां देवादीनां द्विजोत्तम॥ (१६)
कर्मणां च फलं तत्तद्देशकालोपलक्षितम् ।
आत्मशुद्धिप्रकाशात्मा तद्विपर्यायधर्मिणी॥ (१७)
विलक्षणा चानित्या च प्रकृतिस्त्रिगुणात्मिका।
आत्मशुद्धोऽप्यशुद्धस्स्यात् अशुचि द्रव्यसेवया॥ (१८)
तत्सङ्गमः कर्मकृतं सर्वेषामात्मनां मुने।
उदयास्तमनयोगेन ह्यक्षय्या कर्मसन्ततिः॥ (१९)
कारणं कार्यमन्योन्यं मुने बीजाङ्कुरौ यथा ।
अनादिवासना ह्यस्य हेतुः कर्मकृतौ द्विज ॥ (२०)
प्राप्यनाना विधां योनिविवशो वर्तते विभुः ।
भुङ्क्ते निशं सुखं दुःखं तत्तत्कर्मोपलक्षितम्॥ (२१)
एवं प्रकृति सङ्गत्य मलरूपस्य देहिनः ।
कर्माण्यस्योप चिन्वन्ति शुभान्येवाऽशुभानि च॥ (२२)
तत्कर्म कण्टकोच्छेदो नान्यज्ञानासिना विना।
ज्ञाननिष्पत्तये पुंसां यज्ञ दान व्रतादयः॥ (२३)
इदं कुर्यादिदं नेति शास्त्रेष्वेव प्रदर्शितम्।
यज्ञादीनि च कर्माणि यानि शास्त्रोदितानि वै॥ (२४)
देवतायै परस्यैतदिति मत्वा कृतानि च।
भवेयुस्तानि भद्राणि नोचेन्मोघ फलानि हि॥ (२५)
ज्ञानानामीश्वरज्ञानं परं विद्धि भवार्तिहृत्।
ज्ञानशब्दस्य वाच्यं तदन्यदज्ञान मिष्यते॥ (२६)
हन्ति बोधप्रकाशात्मा बाह्यमाभ्यन्तरं तमः।
तस्माच्छास्त्रं तदुत्पत्ति प्रकारान् विदधाति हि॥ (२७)
यज्ञदानतपो योग प्रायश्चित्त व्रतानि च।
निवासः पुण्यतीर्थेषु पुण्यक्षेत्रगतिस्तथा॥ (२८)
व्रतोपवासतीर्थानि प्रायश्चित्तात्मकानि च।
कुर्वन्त्यपतितं ब्रह्मन् देहिनां पापकर्मणाम्॥ (२९)
देहिनः क्षीणपापस्य सम्यग्ज्ञानं च जायते।
नृणामुत्पन्नबोधानां सर्वार्तिरपि नश्यति॥ (३०)
परं हरेः स्मृतिः ब्रह्मन् निष्कृतिस्सर्वदेहिनाम्।
तद्वन्दनं स्तुतिः पूजा कीर्तनश्रवणादयः॥ (३१)
तन्नामकीर्तनात्तस्य पुण्यक्षेत्रस्य सङ्गमात् ।
सर्वस्य सर्व पापाणि लयं यान्ति न संशयः॥ (३२)
उत्पादयति तद्ज्ञानं पुण्यतीर्थस्य सङ्गमः।
तीर्थानामुत्तमं तीर्थं ज्ञानतीर्थं परं विदुः ॥ (३३)
अतो ज्ञानाय भगवन् प्रयतं ते विपश्चितः।
त्वमपि ज्ञान सिद्ध्यर्थं तपोनिष्ठां कुरु द्विज॥ (३४)
देवानां प्रवरो विष्णुः गङ्गा च सरितां वरा।
तीर्थानामुत्तमं तीर्थं तथा पुष्करिणी मता॥ (३५)
दर्शनादम्भसः पानात्सेवनात्तन्निमज्जनात्।
कीर्तनात्तत्र गमनात् श्रवणात् स्पर्शनादपि॥
सर्वदा सर्वभूतानि या पावयति भूतले ॥ (३६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चविंशोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्-२६
कस्यचित् शूद्रस्य कथा
व्यासः –
सनत्कुमारो भगवान् पुनः प्रोवाच सादरम्।
ब्रह्माणं लोककर्तारं पुष्कलार्थमिदं वचः॥ (१)
सनत्कुमारः –
ब्रूहि मे भगवन् भूयः पुष्करिण्या जगद्गुरो ।
माहात्म्यं श्रोतुमिच्छामि त्वत्तः कमलसम्भव॥ (२)
ब्रह्मा –
शृणु वक्ष्यामि धर्मज्ञ! पुष्करिण्याश्रयां कथाम् ।
यं श्रुत्वा सर्व पापेभ्यो मुच्यन्ते भुवि मानवाः॥ (३)
जगत्पवित्रं परमं जगन्मङ्गलदाय च ।
श्रीमत्पुष्करिणीतीर्थं तीर्थानां परमं स्मृतम्॥ (४)
शुद्धात्मानो जितात्मानो भक्तिमन्तः परात्मनि।
अस्यां स्नात्वा च पीत्वा च रमन्ति विरमन्ति च॥ (५)
स्नात्वा जितन्ते मन्त्रेण देवेशं स्तौति यो नरः।
सर्व पापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात्॥ (६)
अक्षय्यं च भवेद्दत्तं समृद्धिश्च सफला भवेत्।
कृतान्यत्रप्रतादीनि स्वल्पस्य हि महन्ति च॥ (७)
पितृभ्यो दत्तमक्षय्यं भवेदत्र न संशयः।
स्नानमात्रेण शुद्ध्यन्ति महापातकदूषिताः॥ (८)
अल्पायासेन भगवन्नरास्वर्गमवाप्नुयुः।
ब्रह्मन्पुष्करिणी स्नानं ब्रह्महत्यां व्यपोह्यति॥ (९)
कृतघ्नोऽपि विशुध्येत किं पुनस्त्वितरे जनाः।
अत्र वासरमात्रेण तपस्तप्तं कृतं च यत्॥ (१०)
कल्पकालकृतं पुंसां भवेदत्र न संशयः ।
वेदपादमधीयानः सर्वाध्ययनभाग् भवेत् ॥ (११)
शुक्लपक्षे तु पञ्चम्यां नरः पूर्वमुपोषितः ।
स्नात्वा सभार्यो विप्रेभ्यस्तिलं दद्याद्धृतान्वितम् ॥ (१२)
घृतपात्रत्रयं पूर्णं तिलपात्र त्रयं च यः।
मागधप्रस्थमानेन मितं दद्यात्सुवर्णकम्॥ (१३)
स पुत्राल्लभते क्षिप्रं परमायुश्च विन्दति ।
अथवा केवलं दानं तिलानामुत्तमं स्मृतम्॥ (१४)
घृतं वा केवलं दद्यात् नरो नारी सुतार्थिनी।
निष्कमात्रं सुवर्णस्य दद्यादामय शान्तये॥ (१५)
स्नात्वा प्रतिकृतिं दद्याद्गृहीतो राजयक्ष्मणा।
जातरूपमयीं चित्रां सदृशीमात्मनस्तनुम्॥ (१६)
विप्राय श्रुतवर्याय दद्याद्दक्षिणया सह।
स्वजन्मव्रुषे ततस्स्नायात्सद्य स्वस्थो भवेन्नरः ॥ (१७)
अतिप्रशस्तं गोदानं पुष्करिण्यां महामुने।
धेन्वां यावन्ति रोमाणि तावन्त्यब्दशतानि च॥ (१८)
स्वर्गे निवासस्तस्यस्याद्विपुला श्रीर्भवेदिह।
मानसक्षेत्रयोगे तं यस्नायादब्दमात्रतः ॥ (१९)
अश्वमेधादिकं पुण्यं लभतेनात्र संशयः।
अस्यां पर्वणि यस्स्नातः पातकादीन्व्यपोह्यति॥ (२०)
स्वजन्मक्षेत्रे तु राजन्य स्नात्वाप्नोत्यखिलां महीम्।
शुक्लपक्षे तु पञ्चम्यां स्नात्वोपोष्य दिनत्रयम्॥ (२१)
दिनत्रयं पयः पीत्वा हविष्याशी दिनत्रयम् ।
स्नायात्त्रिसन्ध्यं यस्तस्य पापं नश्यति वै द्विज ॥ (२२)
ज्वरगुल्म-प्लीह-शूल-कुष्ठरोगाद्युपद्रवः ।
गच्छन्ति स्नान मात्रेण स्नानं विददतां नृणाम्॥ (२३)
दुष्कृतान्यप्सु नश्यन्ति यथा लवणराशयः।
कृतघ्नश्च सुरापश्च ब्रूणहा गुरुतल्पगः ॥ (२४)
परम पुमांसं यो द्वेष्टी पतितो वेददूषकः।
एतेषां पुष्करिण्यां तु स्नानं निष्कृतिरुच्यते॥ (२५)
स हि पापीयसां पुंसां गोविन्दस्मरणं विना।
निष्कृतिः पुष्करिण्यास्तु स्नानं तेषां तथोदितम्॥ (२६)
पञ्चतीर्थाधिपतयो दिक्षु मध्ये व्यवस्थिताः।
पुष्करः पुष्कराक्षश्च कुमुदः काल एव च॥ (२७)
सुप्रतीक इति ख्यातः तीर्थं रक्षन्ति तेऽनिशम्।
तेन तीर्थस्य रक्षार्थं विधात्रा परिकल्पिताः॥ (२८)
पूर्वं तत्प्रीणनं कृत्वा पश्चात्स्नानादि कारयेत्।
इन्दुना च यतो जुष्टं सरः पर्वणि पर्वणि॥ (२९)
चन्द्रपुष्करिणीत्येवं नाम लोकेषु जृम्भते।
तस्यां स्नात्वा महद्धाम याहि तत्र रमस्व च॥ (३०)
मा कृदास्तपसा लोकान् समुद्विग्नान्महामुने।
सिद्धार्थोऽसि कृती चासीन्निवासात्सरितस्तटे॥ (३१)
शान्तो दान्तो भवद्ब्रह्मन् पुष्कलार्थोऽसि शाश्वतः ।
व्यासः-
इत्युक्त्वा प्रियया ब्रह्म लोकपालैस्सु पूजितः ॥ (३२)
संस्तूयमानो मुनिभिः गन्धर्वैस्सहितोमुने।
सनत्कुमारो भगवान् सोपि तत्रावसत्सुखी॥ (३३)
त्रिसन्ध्यं पुष्करिण्यां तु स्नात्वा नियतमानसः ।
इदं च पुण्यमाख्यानं कीर्तयेद्यो नरो भुवि ॥ (३४)
सर्वपापविनिर्मुक्तो ब्रह्मगच्छेत्सनातनम्।
य इदं श्रावयेद्विद्वान् श्राद्धादिषु च कर्मसु॥ (३५)
पितृभ्यो दत्तमक्षय्यं भवेत्तस्य न संशयः।
राजस्य सार्वभौमस्स्याद्वैश्योपि धनवान्भवेत्॥
शृण्वञ्छूद्रोऽपि बहुलां धरायामृद्धिमश्नुते॥ । (३६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये षड्विंशोऽध्यायः।
******
श्रीरङ्गमाहात्म्यम्-२७
यमकिङ्कर भूतेश्वर संवादः
व्यासः –
अन्यच्च शृणु देवर्षे पुरावृत्तमसंशयम्।
धर्मार्थसहितं युक्तं परं निश्रेयसं नृणाम्॥ (१)
कश्चिच्चतुर्थ परः पथिकानर्थलिप्सया ।
हत्वादाय च तद्वित्तमश्नुते चाघसञ्चयम् ॥ (२)
शूद्रेण निधनं नीताः बहवो ब्राह्मणादयः।
गावश्च सकलानीताः क्षयं समुमुदेचिरम् ॥ (३)
अथ कालेमहती च गते मतिमतां वर।
स पापः पथिकान् हन्तुं मार्गमाश्रित्य तस्थिवान्॥ (४)
ययौ महान् द्विजः कश्चित् शूद्रं पुरुषघातिनम्।
उपाक्रामत तं हन्तुं रिक्तहस्तं स पापकृत् ॥ (५)
मा मेत्युवाच तं विप्रो भयावाकुलितेन्द्रियः।
वृधा वधेन किं कार्यं केवलं विद्धि मां नरम्॥ (६)
तमब्रवीद् द्विजं शूद्रः कुत आयासि तद्वद।
बृहच्छरीरस्सहसा केवलत्वं द्विजाधम॥ (७)
जातस्वेदोभयाद्ब्रह्मन् द्विजस्सञ्जातवेपथुः।
शूद्रं हन्तारमासाद्य दीनो वचनमब्रवीत्॥ (८)
ब्राह्मणः –
भुवः प्रदक्षिणं कुर्वन् तीर्थानि परितो व्रजन्।
ततः पुष्करिणी तीर्थं शनैस्सङ्गतवानहम्॥ (९)
प्रणम्य पुण्डरीकाक्षं शयानं रङ्गधामनि।
कृत्वा पुष्करिणी स्नानं स्वदेशं यामि भद्रद ॥ (१०)
व्यासः –
पुण्येन द्विजवर्येण सह सम्भाषणान्मुने।
पापीयसां वरिष्ठोऽपि सहसाबुद्धिमाप सः ॥ (११)
तत्त्यज व्यवसायं च परहिंसात्मकं मुने।
तदा कृत्वाञ्जलिं शूद्र उच्छैर्वचनमब्रवीत्॥ (१२)
शूद्रः –
क रङ्गधाम भगवन् किं वा पुष्करिणी मुने।
किं नु पापीयसां पुंसां मादृशानामगोचरम् ॥ (१३)
वदाखिलं द्विजश्रेष्ठ! पुण्यशीलोऽसि मे मतः।
सुखं प्रियो हि भगवन् सुखं याहि सुखं त्विह॥ (१४)
व्यासः –
इत्याकर्ण्य द्विजस्तस्य जहौ मरणनिश्चयम् ।
स्थिरगात्र स्थिरमति जिजो विगतवेपथुः ॥ (१५)
शूद्रमत्युग्रकर्माणं वचसा परिसान्त्वयन्।
व्याजहार पुनर्वाक्यमर्थवन्मधुरं हितम्॥ (१६)
ब्राह्मणः –
सौम्यगात्रो भवानद्य स्निग्धं त्वयि मनो मम।
कुरु प्रसादं धर्मज्ञं मयि तापन्नरोत्तम॥ (१७)
यथार्थं सम्प्रवक्ष्यामि यदि ते श्रवणे मतिः।
विशेषेण त्वयापृष्टं तथैवैकमना शृणु॥ (१८)
विश्रुतं शेषशयनं तद्रङ्गमिति शब्दितम् ।
यत्र शेते महाबाहुः पुष्कराक्षः परः पुमान् ॥ (१९)
तदभ्यासे महत्तीर्थं श्रीमत्पुष्करिणीति च।
तत्र स्नात्वा विशुध्यन्ते महापातकिनो ध्रुवम्॥ (२०)
अयं पन्था महाबुद्धे योजनार्थेन संहितः।
तस्मादित स्त्वयप्याशु याहि निर्विघ्नमद्य हि ॥ (२१)
व्यासः –
इत्युक्त्वाथ ययौ क्षेत्रं द्विजो मतिमतां वरः।
स्वं देशं तद्भयाद्भूयस्तं शूद्रमवलोकयन्॥ (२२)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये सप्तविंशोऽध्यायः ।
******
श्रीरङ्गमाहात्म्यम्-२८
यमकिङ्कर भूतेश्वर संवादः-२
व्यासः –
सोऽपि जातसुनिर्वेदः प्रीतस्तब्ध इवाभवत्।
महत्सम्भाषणाद्ब्रह्मन् पापस्य क्षयमेयिवान्॥ (१)
अथ श्रुत्वा वचस्तस्य गन्तुमैच्छद् द्विजस्य हि।
विहाय चोग्रकर्माणि साधुकर्म चकार वै॥ (२)
अथ गच्छति काले तु समायात्सरितस्तटम् ।
पापराशौ क्षयं नीते स्वयमेव प्रबुद्धधीः॥ (३)
तीर्थान्तिकं शनैर्यातो द्विजं वाख्यान्महामुने।
आयुः परीक्षयादस्य कालस्थं जगृहे पथि॥ (४)
दृष्ट्वा वैवस्वत प्रेष्यान् भयाच्छापि प्रविव्यथे।
सद्यः प्रयुक्तो विधिना यातना परिपीडितः॥ (५)
यत्र पुष्करिणीतीर्थं रङ्गधामं च सुस्थितम्।
द्वित्रिगव्यूतिदेशं हि परितस्तस्य रक्षिणः॥ (६)
भूतेश्वरा महात्मानो महातेजस्समावृताः।
दिव्यशक्तिसमाविष्टा बहवो दण्डपाणयः ॥ (७)
रक्षति स्म सदायुक्ता नृशिंसास्तिग्मतेजसः ।
गजाननाया चत्वारस्तथा दिक्षु चतुर्षु च ॥ (८)
विष्वक्सेनाज्ञया पान्ति मुख्यास्ते सरितस्तटम् ।
तथा ते रक्षणस्तत्र स्वदेशे यम किङ्करैः ॥ (९)
पीड्यमानं नरं दृष्ट्वा निजघ्नुर्यमकिङ्करान् ।
पद्भिर्गदाभिर्मुसलैर्मुष्टिभि र्वज्रसन्निभैः ॥ (१०)
अनुद्धृत्य च ते सर्वे किङ्करां स्तानताडयन्।
पलायनपरास्सर्वे तैश्चापि भृशपीडिताः ॥ (११)
अन्योन्यं प्रपतन्तस्ते दुद्रुवुर्यमकिङ्कराः ।
द्रुतं द्रवन्तस्ते सर्वे नानाताडनपीडिताः॥ (१२)
स गद्गदमथोचुस्तान् के यूयमिति चासकृत्।
अथाब्रुवन् रक्षिणस्तान्मामाद्रवत किङ्कराः॥ (१३)
अस्मिन् शृणुत भद्रं वो मुहूर्त तिष्ठता शुभाः।
व्यासः –
इति तेषां वचश्रुत्वा दूरं याताश्च किङ्कराः॥ (१४)
भीतभीताश्च ते सर्वे कथञ्चित्सम्प्रतस्थिरे।
तान्प्रत्यूचुर्महात्मनो विष्णुभूतेश्वरा मुने॥ (१५)
वाक्यमर्थवदव्यग्रं स्पष्टाक्षरमथोच्छकैः।
विष्णुभूतेश्वराः –
अत्र रक्षा विधानार्थं भूतेश्वरविनिर्मिताः॥ (१६)
बहवः कृतकर्माणो रक्षामस्सरितस्तटम्।
सर्वे सुकृतवेषाश्च सर्वे वै दण्डपाणयः॥ (१७)
सर्वे सर्वत्र कुशलान् सर्वे भूतभयङ्कराः ।
वयं भूतेश्वरप्रेष्यास्तत्समादेशवर्तिनः ॥ (१८)
तस्मादनिमिषा रक्षामस्य देशस्य कुर्महे ।
देवासुरमनुष्याद्यैः गन्धर्वोरगराक्षसैः॥ (१९)
दुष्प्रवेशो ह्ययं देशः प्रसह्यापि सुरद्विषाम् ।
अस्मच्छन्दमविज्ञाय न वायुर्वातनो रविः ॥ (२०)
नाना भूतेश्वराणां हि प्रभावो दुर्वचः खलु।
पुष्पाण्युन्मीलयन्नत्र वर्णाग्राणि विचालयन्॥ (२१)
वाति मन्दाऽनिलो मन्दं सर्व सत्वानि वर्धयन्।
चरन्ता लोकमात्रेण यत्र मार्ताण्डरश्मयः॥ (२२)
न म्लानायनतापाय प्रभवन्ति हि कस्यचित्।
तपसस्तपसोयोगादत्र चन्द्रायते दिवा॥ (२३)
हिमांशु र्हिमविश्लेषादत्र सूर्यायते निशि।
निरामयाश्च निद्र्यन्द्वा मनुष्याः पक्षिणस्तथा॥ (२४)
अत्र वृक्षा निराबाधास्संवर्तुकुसुमान्विताः।
बुद्धिमन्तो महात्मानस्तिर्यञ्चोऽप्यत्र संश्रिताः॥ (२५)
भवन्ति दुष्टसत्वानि शान्तान्यत्र प्रवेशनात्।
देशोऽयं रङ्गनाथस्य तेजसा सम्यगेधितः॥ (२६)
अत्र रङ्गं महद्धाम किं वा श्रुतिपथं गतम्।
अतोऽत्र सुष्ठु न कृतं युष्माभिः पुरुषाधमैः॥ (२७)
यदस्मिन् पुरुषे पीडा ह्यजानद्भिर्नियोजिता ।
के यूयमुग्रकर्माणो मूढाः कस्य परिग्रहः॥ (२८)
दिव्यदेशमिमं प्राप्तं बाधन्ते नितरां च ये।
न तु युष्मादृशानां हि देशोऽयं क्रूरकर्मणाम् ॥ (२९)
दान्तानां सत्वशीलानां योगिनाममलात्मनाम्।
स्वानुकूलमिमं देशं विमलोद वहं नदीम् ॥ (३०)
निधाय भगवान् शेते दयिते रङ्गधामनि।
न लोकपालानेन्द्रो वा न शर्वो जातु नाऽमराः॥ (३१)
प्रसह्य प्रविशन्त्यत्र प्रणताः प्रत्युपासते।
दुष्प्रवेशो ह्ययं देशो युष्माकं खलु जातु चित्॥ (३२)
अस्माकमयमुद्देशः पुण्यः पुण्यजनाश्रयः।
युष्माभिर्निहतस्त्वत्र पीडितश्च भृशं त्वयम्॥ (३३)
अस्मिन्युष्मत्कृता पीडा यासान्मा सुप्रयोजिता।
आगस्त्वतिबलानस्मान् परिभूय नवं कृतम्॥ (३४)
ननः परिभवं कृत्वा क्षणं स्थास्यति वासवः।
बलीयसां हि बलिनस्ताननाधृत्य नः कृतः॥ (३५)
के यूय मागता ह्यद्य क्षिप्रं प्रब्रूत मा चिरम्।
इत्युक्ताः किङ्करास्सर्वे प्रत्यूचुर्जातविस्मयाः॥
रक्तनेत्रान्महाकायान् विष्णोः पारिषदेश्वरान्॥ (३६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये अष्टाविंशोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्-२९
यमकिङ्कर भूतेश्वर संवादः – ३
किङ्कराः –
वयं वैवस्वत प्रेष्यास्तद्भूभङ्गानुवर्तिनः।
लोकपालस्य देवस्य सर्वस्यान्तकरस्य च॥ (१)
आदेशवर्तिनस्सर्वे सह्यस्याज्ञा वयं परैः।
मत्वा तं सर्वभूतात्मा धर्मराजं तु धार्मिकम्॥ (२)
प्रजातकरणे पूर्वं नियुङ्क्ते स्म परः पुमान्।
चतुर्विधानिभूतानि यान्ति तस्य वशं प्रभोः॥ (३)
कुशला सकुलानन्तकर्मबन्ध नियन्त्रिताः।
प्रजा स्सर्वास्समभ्येत्य तदादिष्ठां गतिं गताः॥ (४)
तन्नियोगाच्च सर्वत्र प्रजाः कालोपलक्षिताः।
सत्याज्ञस्य वयं शश्वन्नयामस्तस्य सन्निधिम् ॥ (५)
कालो हि ग्रसते सर्वं कालः क्षपयति प्रजाः।
कालवश्यमिदं सर्वं न कालस्यास्य वश्यता॥ (६)
कालात्मा भगवान्विष्णुः कालचक्रप्रवर्तकः।
अतः कालात्क्षयं प्राप्त मिमं प्रापयितुं यमम्॥ (७)
समवेता वयं सर्वे प्राप्ता वै पुरुषाधमम्।
वयं पापीयसां पुंसां भवामः क्रूरदर्शनाः॥ (८)
भीषणाभयदास्तेषां बाधां कुर्मस्तरां पथि।
सौम्यः पथ्यकृतश्चैव वयं वै प्रियकारिणः॥ (९)
सतां पुण्यकृतां चैव पथि पूजां प्रकुर्महे ।
अनेन च कृतं पापं पुण्यं किञ्चिन्न विद्यते॥ (१०)
अयं शूद्राधमो हन्ता ब्राह्मणानां गवामपि।
नृशंसस्यास्य पापस्य पापस्यान्तो न विद्यते॥ (११)
अतः पापं ग्रहीत्वैनं यास्यामोन्तकसन्निधिम्।
तदप्रतिहताज्ञस्य यमस्याज्ञा मनाहताम्॥ (१२)
तां मोघां कुर्वतां तेषां विनाशो भवति ध्रुवम्।
यमस्याज्ञां पुरस्कृत्य गताः पापं प्रपीडितुम्॥ (१३)
पलायिता विघ्नताश्च भवद्भिः पीडिता भृशम्।
अयं पुण्यकृतां देशः पापः पापीयसामयम्॥ (१४)
तं नयामो वयं देवं विघ्नं नाचरतामलाः।
चतुर्विधानां भूतानां यमोदेवः परागतिः॥
सुकृतामप्ययं पन्था येन यान्ति यमान्तिकम्॥ (१५)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकोनत्रिंशोऽध्यायः
******
श्रीरङ्गमाहात्म्यम्-३०
यमकिङ्कर भूतेश्वर संवादः – ४
व्यासः –
किङ्कराणां वचः श्रुत्वा विष्णुभूतेश्वरेश्वराः।
तान् प्रत्यूचुर्महात्मान स्सस्मिता यमकिङ्करान्॥ (१)
भूतेश्वराः-
कालोपलक्षितं सर्वं नियच्छति यमो जगत्।
इति सुष्ठु च सर्वेषां गतिरेवेत्यपेशलम्॥ (२)
ये कर्मफलभोक्तारस्तेषां पन्थास्त्वयं भटाः ।
ये भजन्ति महात्मानो विष्णुं च पुरुषोत्तमम्।
सर्वबन्धविनिर्मुक्ता स्तेषां पन्थास्सु पूजितः॥ (३)
सद्रीचीनो ह्ययं पन्था वैष्णवानां च नान्यगः।
उद्वाहन्तः पराम्भक्तिं येन यान्ति हरेः पदम्॥ (४)
अत्र प्रविष्ठा भुवि ये कृतघ्नाः पापिनस्तथा।
तेषा मात्यन्तकीशुद्धिं स्वयमेव ह्युपस्थिता॥ (५)
यथाग्निस्पर्शमात्रेण कलङ्गं हन्ति धातुजम् ।
तथायं पापहृद्देशस्सकाशाच्छार्ङ्गधन्वनः॥ (६)
देशोऽयं सर्वभूतानां पापराशीन् व्यपोहति।
यस्मिन् सौख्यात्स शेते स्म रङ्गधाम्नि परः पुमान्॥ (७)
वासं विदधतामत्रभूतानां च महात्मनाम्।
प्रवेशस्सम्भवेदत्र जन्मादिषु न कस्यचित् ॥ (८)
तेषामजस्रं सुलभश्शयानो रङ्गराट् स्वयम्।
यमस्य हि नियन्ता च कालचक्रप्रवर्तकः ॥ (९)
सर्वेशस्सर्वभूतात्मा स हि सर्वं स चक्रभृत्।
तस्य सर्वात्म भूतस्य दयितं सरितस्तटम्॥ (१०)
न ह्यत्र कालसंस्पर्शस्तस्मा ध्यानयथागतम्।
कालोपलक्षितेष्वेव शासनं तस्य वर्तते॥ (११)
तेषु प्रवर्ततां कामं नात्रकालः क्षयङ्करः।
आकुलेऽपि जगत्यस्मिन् देशो ह्ययमनाकुलः॥ (१२)
सर्वशक्तिमयं धाम सर्वतीर्थमयं सरः।
सर्व पुण्यमयो देशस्सर्वदेवमयो हरिः॥ (१३)
यथाग्निस्पर्शमात्रेण सर्वदोषान् व्यपोह्यति।
तथायमपि पापानां विलयं कुरुतेऽनिशम्॥ (१४)
अयं शूद्रोऽपि पापीयान् पुण्यदेशसमाश्रयात्।
तीर्थाभ्यर्ण समायोगात्क्षिप्रं शुद्धो भविष्यति॥ (१५)
अन्यथाऽप्येनमादाय न शक्यं गन्तुमञ्जसा ।
ततोऽस्मान् बलिनो मत्वा द्रुतं द्रवति किङ्कराः॥ (१६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रिंशोऽध्यायः।
***
श्रीरङ्गमाहात्म्यम्-३१
यमस्य किङ्कराणां संवादः
व्यासः –
इत्युक्ताः किङ्करास्सर्वे दुद्रुवुः भयविह्वलाः।
विहाय पतितं शूद्रं सोऽप्युत्तस्थौ यथा वृषः॥ (१)
विमलस्सत्वसम्पन्नस्सहसा शुद्धमानसः।
तं च पस्पर्शिरे सिद्धा मा भैषीरिति चाब्रुवन्॥ (२)
तान्ववन्देथ शिरसा शूद्रोऽपि स्वयमुत्तमः।
सोऽपि पुष्करिणीं गत्वा तत्र स्नात्वा च कामतः॥ (३)
तत्रासीनान् ऋषीन् दृष्ट्वा सर्वांस्तानभ्यवादयत्।
तैस्समेतो महद्धाम्नि भगवन्तं ददर्श सः ॥ (४)
विष्वक्सेनस्तु तं दृष्ट्वा प्रणामानतकन्दरम्।
आनन्दाश्रु परिक्लिन्नं सौम्यगात्रं कृताञ्जलिम्॥ (५)
तेषामनुचरं चक्रे भूतेशानां च रक्षिणाम्।
अथ वैवस्वत प्रेष्याः कथञ्चिच्च भृशातुराः॥ (६)
प्रययुस्तत्क्षणं क्षुण्णास्स गद्गदमथाब्रुवन् ।
किङ्कराः –
सर्वाप्रतिहताज्ञस्य तवाज्ञा वितधीकृता॥ (७)
वयं च व्रीलितास्सर्वे विष्णुभूतेश्वरैः प्रभो।
तव देव समादेशात्सर्वपातकदूषितम्॥ (८)
शूद्रमानयितुं स्वामिन्नितः क्षिप्रं गता वयम्।
तं गृहीतुं समारब्धान् रक्षिणोऽस्मांश्च ताडयन्॥ (९)
अतीव बलिनः क्रुद्धा भृकुटी कुटिलाननाः।
पीड्यमाना वयं सर्वे जानुभिर्मुष्टिभिस्तथा॥ (१०)
विहाय तं च पतितं त्वां प्रपन्ना वयं प्रभो।
व्यासः –
इति श्रुत्वा वचस्तेषां यमश्रवणतापनम्॥ (११)
उवाच भृशरुष्टस्तान् स्फुरिताधरपल्लवः।
यमः –
केन केन च केनैव ममाज्ञा वितधीकृता ॥ (१२)
सर्वस्यान्तकरस्येह सर्वस्यैवानुशासिनः ।
इत्युक्त्वा तु यमो भूयश्चिन्तयामास बुद्धिमान् ॥ (१३)
प्रजज्ञे स यथावृत्तमत्र भूतेश्वरैः कृतम् ।
सद्यश्शिरो ननामास्य अञ्जलिं चक्रतुः करौ ॥ (१४)
विभीषणेन चानीतं रङ्गधाम तदा स्मरन् ।
ततः पुष्करिणीतीर्थं सस्मराः सरितस्तटे ॥ (१५)
परितस्तस्य देशस्य माहात्म्यमुपजग्मिवान्।
अपश्यच्छेतसा देवं शयानं रङ्गधामनि ॥ (१६)
भूतेशानुचरं शुद्धं पुरा शूद्रं विवेद सः।
ततस्तु सकलं दृष्ट्वा मनसा तान् यमो ब्रवीत्॥ (१७)
शृण्वतामपि सर्वेषां वाक्यमर्थवदुत्तमम्।
यमः –
अयुक्तं खलु युष्माकम् इममर्थं विजानताम्॥ (८)
नावज्ञा विष्णुभूतेषु न पीडा तत्परिग्रहे।
न तत्समीपे युष्माकं गतिरित्यपि न श्रुतम्॥ (९)
तथापि तत्कृतं मौढ्या युष्माभिस्तत्फलं त्विदम्।
परितो योजनार्धं तु रङ्गधाम्नि महोदयः॥ (१०)
देशोऽयं सर्वतीर्थानामाश्रयः श्रमनाशनः।
वसन्ति तत्र भूतानि स्थावरादीनि यानि च॥ (११)
ज्ञानशक्तियुतान्येव तानि सर्वाणि किङ्कराः।
दयितं सरितस्तीरं तस्य वै रङ्गशायिनः॥ (१२)
तस्य देशस्य रक्षार्थं विधात्रा च विनिर्मितम् ।
रक्षिणां शतसाहस्रमेवं प्रतिदिशं कृतम्॥ (१३)
कलाकाष्ठामयः कालस्सर्वभूतक्षयात्मकः ।
न जातु कुरुते तत्र लयं सत्वस्य कस्यचित् ॥ (१४)
तृणगुल्मलतादीनां स्वेच्छा तत्र हि कारणम् ।
शरीरसङ्ग्रहत्यागे स्वकर्मात्र न कारणम्॥ (१५)
अहं तु कर्मवश्यानां नियन्ता स महात्मनाम्।
तत्र नित्यानि भूताध्यक्षो सुशान्ति हि ॥ (१६)
तस्मात्तत्र न गन्तव्यं युष्माभिर्जीवितेप्सुभिः।
तथा च बलिनोमत्तो विष्णुभूतेश्वरेश्वराः॥ (१७)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये एकत्रिंशोऽध्यायः
श्रीरङ्गमाहात्म्यम्-३२
यमकृत श्रीरङ्गमहिमानुवर्णनम् – १
व्यासः –
इत्युक्त्वा विररामाथ धर्मराजोऽपि किङ्कराः।
कृत प्राञ्जलयस्सर्वे वैवस्वतमथा ब्रुवन् ॥ (१)
किङ्कराः –
केनानीतं महद्दाम नदीतीरे महात्मना ।
अहो सुमहिमा तस्य कथञ्चिदिति कथ्यताम्॥ (२)
व्यासः –
किङ्कराणां वचश्श्रुत्वा धर्मराजो महान् विभुः ।
ध्यात्वा मुहूर्तं धर्मात्मा जगाद मधुरं वचः॥ (३)
यमः –
ऋषिभ्यस्समवेतेभ्यो धर्मविद्भ्यो नदीतटे ।
पुरा विभीषणेनोक्तं वचः शृणुत भद्रदम्॥ (४)
मुनयो राक्षसश्रेष्ठं नदीतीरे यथागतम्।
पुष्पाणि च विचिन्वन्तं दृष्ट्वा पप्रच्छुरुत्तमम्॥ (५)
मुनयः –
यथानीतं पुरा त्वत्र रङ्गधाम महद्यशः।
त्वया महात्मना विष्णोस्तथा वद विभीषण॥ (१०)
यमः –
तथैवं श्रूयतां तेषां मुनीनां भावितात्मनाम्।
विभीषणश्च धर्मात्मा श्रुत्वा वाक्यं जगाद ह॥ (११)
किङ्कराः –
किमर्थमागतो देव राक्षसेन्द्रो नदी तटम्।
मुनिभिस्सङ्गमो वास्य कथं स्यादिति तद्वद॥ (१२)
यमः –
पुरा स लेभे रघुवंशवर्धनात् वपुष्मतामुत्तमपूरुषात्स्वयम्।
विभीषणस्स्वस्य कुलस्य भूषणं प्रियं महद्धाम तदित्यपि श्रुतम्॥ (१३)
स तद्गृहीत्वा विपुलं समभ्यगात् कवेरकन्यापुलिनं विभीषणः।
प्रियं प्रियज्ञस्तरुषण्डमण्डिते न्यवेशयेत्तत्र सुरैस्सुपूजितम्॥ (१४)
अथोसपर्यां विधिवद्विधातुं प्रसूनकार्थं विचरन् ददर्श सः।
समस्त तीर्थायतनं सरोवरं समस्तपापक्षय दक्षमक्षयम्॥ (१५)
जगत्पवित्रं मुनिसङ्घसेवितं सरश्च दृष्ट्वा सहसा समेयिवान्।
विभीषणो धर्मभृतां वरिष्ठश्चतुर्भिरन्यैः परिचारकैर्वृतः॥ (१६)
सरो निषण्णाङ्गतकल्मषान्मुनि सुदार सत्वानमलाशयावसौ ।
स्तव प्रणामाञ्जलिभिर्विलोक्यतां प्रपूजयामास च राक्षसेश्वरः ॥ (१७)
अथोचुरन्वीक्ष्य परं समागतं विभीषणं विस्मय चारु दृष्टयः ।
कृताञ्जलिं किं गमनेन चात्र मनीषितं किं कुत इत्यपि द्विजाः॥ (१८)
अथाऽब्रवीत्तान् परिसान्त्वयन् वचस्सुपुष्कलार्थं गतकल्मषान्मुनीन्।
विभीषणोऽयं सदयं वदन्तु मां सतां मनसस्वधनाकुलं खलु॥ (१९)
इति ब्रुवाणं सहसामृदूत्तमं वचः प्ररूढं मुनयो मनस्विनम्।
समुत्पतन्तं सहसासमीक्ष्य तं मुदान्विता स्तं परिरेभिरे तदा॥ (२०)
तपस्विनस्सानुनयं प्रियं वचः प्रियं प्रियज्ञास्त्वाभिनन्द्य सत्कृतम्।
तमूचुरुच्चैरतिविस्मितेक्षणाः कुतो भवान् किं पर इत्यनाकुलम्॥ (२१)
भवन्तमासाद्य मनांसि नः प्रियं प्रयान्ति सद्यस्तु यथाकृतं त्वया।
सुरद्विषः प्रद्विषतश्च तापसान्वधे च यत्नं चरतोग्रजन्मनः॥ (२२)
श्रुतं तदास्माभिरतीव सत्कृतं तव प्रियोदारमुदग्रचेष्टितम्।
रघूत्तमो लक्ष्मण पूर्वजस्त्वयं शशंस सत्कर्म जनस्य संसदि॥ (२३)
यमः –
अथैव मुक्तः परमं वचोऽब्रवीत् कृतः कृतार्थो मुनिभिश्च पूजितः।
कृताञ्जलिस्मेरमुखान् समागतान् प्रियं वदान्वाक्यविदो महामुनीन् ॥ (२४)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये द्वात्रिंशोऽध्यायः ।
श्रीरङ्गमाहात्म्यम्-३३
यमकृत श्रीरङ्गमहिमानु वर्णनम् – २
विभीषणः –
समस्तलोकनाथेन राघवेन महात्मना।
रावणो निधनं नीतो भवद्भिरिति तच्छ्रुतम्॥ (१)
सर्वलोकशरण्येन कृतज्ञेन महात्मना ।
अभिषिक्तोऽस्मि रामेण लङ्कायामिति तच्छ्रुतम्॥ (२)
तस्मिन्विनिहते क्रूरे स सुते क्षुद्रराक्षसे।
सुहृद्भिस्सह दुर्दशो राघवस्स्वां पुरीं ययौ॥ (३)
दृष्ट्वा तु भरतं दीनं राघवस्तु कृताञ्जलिम्।
तस्य व्यपानुदद्दुःखं चिरस्य भ्रातृवत्सलः॥ (४)
सुग्रीवोऽपि जितारिः तं सुहृद्भिस्सह सादरम्।
राघवं मुनिभिस्सार्धं वसिष्ठस्य मतेन च॥ (५)
अमात्यमन्त्रिप्रवरैः अन्यैः जनपथैस्सह ।
सुहृद्भिर्नागरैः पौरैः रामप्रियचिकीर्षिभिः॥ (६)
जगतामुपकाराय कपीन्द्रस्त्वभ्यषेचयत्।
तदाभिषिक्ते नृपता रामे धर्मभृतां वरे॥ (७)
सर्वाः प्रकृतयो विप्राः लक्ष्मणं लक्ष्मिवद्धनम्।
युवराजममन्यस्त स च नैवाकरोत्प्रभुः॥ (८)
बहुशः प्रतिषिद्धे तु लक्ष्मणेनाभिषेचने ।
भरतस्तु ययौ योगं यौवराज्ये द्विजोत्तमाः ॥ (९)
ततो रघुवर श्रीमान् रामो रमयतां वरः ।
भूषणानि विचित्राणि वासांसि विमलान्यपि ॥ (१०)
रत्नानि च परार्थानि माल्यानि रुचिराणि च ।
प्रददौ वानरेन्द्राणां कामतः कमलेक्षणः॥ (११)
अलं लब्ध्वा धनान्यस्माद्वानरामुदिता भृशम्।
ययुः प्रणाम्य संहृष्टाः कृतार्थान्ते यथा गतम् ॥ (१२)
सुग्रीवस्तु तथा सर्वैस्सत्कारैरपि सत्कृतः।
मानितः पूजितस्तेन रामेण परिसान्त्वितः॥ (१३)
कृच्छ्राद्विसृज्य सुहृदं प्रययौ स यथा गतम्।
वानरेन्द्रेभिः निर्व्याते रामो मामित्युवाच ह॥ (१४)
सर्वधर्मभृतां श्रेष्ठो मेघगम्भीरनिस्वनः।
यावद् भवति भूरेषा चन्द्रादित्यौ नभस्थले॥ (१५)
तावद्दत्तं तवाक्षय्यं लङ्कैश्वर्यमिदं मया।
गच्छ लङ्कापते लङ्कां कृतार्थस्ससुहृज्जनः॥ (१६)
तत्र भुङ्क्ष्य यथाकामं राज्यमक्षय्यभूतिदम्।
प्रियस्य प्रियकामेन मयैतत्प्रियकारिणः ॥ (१७)
श्रीमद्रङ्गमिति ख्यातं मया दत्तं तवाधुना।
एतद्धि परमं धाम पुरा पद्मासनस्तु वै॥ (१८)
महता तपसा युक्तो लेभे स सुप्रसादतः।
लब्ध्वा विमानं तरसा ब्रह्म लोके पितामहः ॥ (१९)
तमाराधयितुं देवं तत्र पूजां चकार सः ।
वेदास्तथेप्सितानर्थान् स्तुत्वे तद्धाम चाप्तवान्॥ (२०)
ततस्तु मनुना लब्धं तस्मादिक्ष्वाकुराप सः ।
इक्ष्वकोस्तु सुतैरेतत्पूर्वेक्षे मनुराजभिः॥ (२१)
पूजितं तत्क्रमाल्लब्ध्वा तद्योगान्मय सङ्गतम्।
महद्भूषणमेतद्वै इक्ष्वाकूणां कुलस्य नः॥ (२२)
बहुमानात्सुहृद्येण प्रणयात्प्रियकरिणः।
ददामि तव तद्धाम जीवितं त्वात्मनो यथा॥ (२३)
प्रदत्तं भवनं लोके ग्रहणास्मद्धनं महत्।
तत्राराधननीचास्व वृणीष्व प्रियमात्मनः॥ (२४)
आनीय तत्सु संहृष्टो लङ्कायां त्वं रमस्व है।
इत्युक्त्वा मां महातेजाः ददौ तद्धाम चात्मनः॥ (२५)
निधाय मूर्ध्नि तन्न्यस्थं राघवस्य च शासनात्।
लङ्कां प्रति प्रयातोऽस्मि तदैवं हि द्विजोत्तमाः॥ (२६)
सरिद्वरेयं प्रथिता कवेरतनया भुवि ।
दृष्टा स्पृष्टा च पीता च स्मृता सा पापनाशिनी॥ (२७)
तस्यास्तु पुलिनं शुद्धं विजनं मुनिसेवितम्।
रमणीये तु तद्देशे निधाय भगवन्मयम्॥ (२८)
विमलं तपतां श्रेष्ठास्तस्मिन् श्रीरङ्गशब्दितम् ।
प्राप्तस्सपर्या समय इति पुष्पार्थमागतः॥ (२९)
दृष्ट्वा भवन्तस्संसिद्धा स्सिद्धार्था मे मनोरथाः ।
एतद्वः कथितम् पूर्वं यदस्माभिर्विचेष्टितम्॥ (३०)
यमः –
विभीषणवचश्श्रुत्वा मुनयो वीतकल्मषाः।
संहृष्ट मनसस्सर्वे पुनस्तं परिरेभिरे॥ (३१)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये त्रयस्त्रिंशोऽध्यायः।
श्रीरङ्गमाहात्म्यम्-३४
यमकृत श्रीरङ्गमहिमानु वर्णनम्-३
यमः –
अथ सौ मुनिभिस्सार्धं पुष्पान्याहृत्य कामतः।
पुष्करिण्यां तथा स्नात्वा रङ्गधामाभ्युपेयिवान्॥ (१)
विविशुर्मुनयस्सर्वे कृतप्राञ्जलयोऽग्रतः।
तत्र प्रणम्य मुनयः तुष्टुवू रङ्गशायिनम्॥ (२)
अथ रक्षश्चिरं पूजां भक्त्या परिसमाप्य च।
आरेभेद् तदुद्धर्तुं न शशाक विभीषणः॥ (३)
मुनयो विस्मितास्तास्थुरार्तं दृष्ट्वा विभीषणम्।
तद्धामोद्धरणारम्भवैयर्थ्यं श्रान्तमानसः॥ (४)
विषसाद परिश्रान्तो विललाप निशाचरः।
परिम्लान मुखश्श्रीमान् अश्रुपातपरिप्लुतः॥ (५)
तमार्तं पतितं भूमौ विलपवन्तमनाथवदत्।
स तं विभीषणं दृष्ट्वा रङ्गधामा जगाद है॥ (६)
श्रीभगवान्-
सुप्रसन्नो ह्ययं देशः सुप्रसन्नजला नदी ।
अतश्शयिष्ये सुचिर मत्रैवाऽहं विभीषण ॥ (७)
समक्षं सर्वभूतानां लोकानां हितकाम्यया।
त्वं प्रयाहि प्रियं कुर्वन् लङ्कां प्रति विभीषण॥ (८)
प्रकरिष्यन्प्रियां भूरि पूजां लङ्कापते मम।
रमस्व त्वं सुखं गत्वा समृद्धज्ञातिबान्धवः॥ (९)
प्रियोऽसि मम भद्रं ते माविषादे मनः कृथाः।
यमः –
इत्युक्तस्स पपाताथ रङ्गनाथ पदान्तिके॥ (१०)
पतितं पादमूले तं शरण्यश्शरणागतम्।
उत्तिष्ठोत्तिष्ठ वत्सेति सस्मितं प्राह तं हरिः ॥ (११)
उत्थाय पूर्ववृत्तान्तं राक्षसः प्राह तं हरिम्।
विभीषणः –
रामो वैकुण्ठयात्रायां जातुविश्लेषमूर्छितम्॥ (१२)
सान्त्वयन् प्राह भगवाननुगन्तुं कृतत्वरम्।
श्री रामः –
लङ्कां प्रयाहि मद्दत्तां ममाज्ञां परिपालय॥ (१३)
राज्यं प्रशादिधर्मेण मत्कैङ्कर्यमिति स्मरन्।
अन्ते मद्भक्तियोगेन संसाराब्धिं तरिष्यसि ॥ (१४)
विभीषणः –
विना त्वदर्चनं स्वामिन्नाहं मुक्तिं च कामये।
ममापराधं सकलं क्षान्त्व मां रक्ष राघव ॥ (१५)
इत्यश्रुनेत्रो दुःखार्तो रामपादाम्बुजद्वयम्।
पुनः पुनः प्रणम्याह रक्ष मां शरणागतम्॥ (१६)
ततस्तद्भक्तिमद्वै तां दृष्ट्वा प्राह विचिन्तयन्।
श्री रामः-
मदात्मकमिदं राजन् श्रीरङ्गं प्रणवाकृति ॥ (१७)
विमाने ह्यत्र भवान् ममात्मैव श्रियः पतिः ।
शेते श्रीरङ्गशायीति शेषपर्यङ्क ईश्वरः ॥ (१८)
इदमेव महात्मानं श्रद्धाभक्तिपुरस्सरम्।
मामेव सततं ध्यात्वा पूजयस्व विमुक्तये ॥ (१९)
इत्याज्ञप्तोहमीशेन रामेण सु महात्मना ।
ब्रवीषि त्वं च मामेवं किं करोमि हतोऽस्म्यहम्॥ (२०)
यमः –
इति श्रुत्वाऽथ भगवान् दुःखार्तस्य वचोऽमलम्।
सस्मितं सान्त्वयं प्राह परिष्वज्य च तं हरिः ॥ (२१)
हरिर्भक्तपराधीनो विससर्ज विभीषणम्।
इत्युक्तः प्रययौ श्रीमान् लङ्कां प्रति विभीषणः॥ (२२)
प्रकरिष्यन्प्रियं भूरि रङ्गिणो विभृशातुरः ।
पश्यन्नाराम संवीतं देशं शीतोदकान्वितम्॥ (२३)
अद्यापि सु सुखं शेते रङ्गधामनि रङ्गराट्।
अतो दिव्यो ह्ययं देशः सर्वबाधाविवर्जितः ॥ (२४)
तथा दिव्या सरिच्छ्रेष्ठा दिव्यं तत्तीर्थमुत्तमम् ।
न हि तत्र कदाचिद्वस्सन्देश श्शुभमिच्छताम् ॥
प्रभवामि ततोऽन्यत्र नियन्तुं सर्वदा प्रजाः ॥ (२५)
इत्येवमुक्त्वा विरराम देवो यमो महार्थं मधुराक्षरं परम्।
हितं हितज्ञा यमकिङ्कराश्च ते वचस्तदाकर्ण्यभयं भृशं ययुः॥ (२६)
अथैव माख्यानमिदं मयोदितं शुभाश्रयं श्रीमदुदारमद्भुतम्।
नरस्त्वजस्रं बहुजन्म सञ्चितं ब्रुवंस्तदेन स्सहसा व्यपोहति॥ (२७)
इदं च शृण्वन्पुरुषस्तु सादरं न याति यांयक्ष यमक्षयं सुधीः।
वदं च मायात्परमस्य संयतः पुराणपुंसस्सहसास्तद् बन्धनः॥ (२८)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये चतुस्त्रिंशोऽध्यायः।
श्रीरङ्गमाहात्म्म्यम्- ३५
चन्द्रस्य शापागमन कथा
नागदन्तः –
यदुक्तं भगवन् चन्द्रपुष्करिण्यां च पर्वसु ।
स्नायादिति मुने ब्रूहि तत्तस्य तु कथं श्रुतम् ॥ (१)
व्यासः –
दक्षस्य चात्मजाः पूर्वमुपयेमे स चन्द्रमाः।
तासां सोमः परां मत्वा बहुमेने स रोहिणीम्॥ (२)
अन्यारुदन्त्यः पितरं प्रोचुश्चन्द्रव्यतिक्रमम्।
वयं त्वयेत्थं वै दत्तास्स न पश्यति नः पितः॥ (३)
स चन्द्रो रोहिणीसक्तो न वेत्यस्मान् कदाचन।
व्यासः –
इति तासां वचश्श्रुत्वा स दक्षश्चन्द्रमाह्वयत्॥ (४)
तमुवाच भृशं तप्तस्तासामर्थे प्रजापतिः।
दक्षः –
मा मैवं साहसं कार्षीस्समावृत्तिस्तवोचिता॥ (५)
अन्यथा ते कृतं पापं महत्स्याद्रोहिणीप्रिय।
तुभ्यं कन्या मया दत्ताः पुरा वै सप्तविंशतिः॥ (६)
त्वदधीनात्मभोगा हि सर्वास्तत्सांयमावह।
अतोऽन्यथा च सीचेन्महान्स्यात्ते व्यतिक्रमः॥ (७)
गम्यतां काममित्युक्त्वा तांश्चन्द्रं विससर्ज है।
व्यासः –
चन्द्रोऽपि रोहिणीसक्तो यथा पूर्वमवर्तत॥ (८)
पुनश्च पितरं गत्वा प्रोचुस्तत्पापकर्शिताः ।
मामेति चोक्तो बहुशो दक्षेणैवाप्यथोडुपः॥ (९)
चचार विषमन्तासु तमाहूया शपत्पिता ।
दक्षः –
चापल्याद्बहुशोऽप्युक्तो यन्नकार्षीर्वचो मम॥ (१०)
क्षयार्तो भव शीतांशो ह्यधर्मिष्ठेषु न क्षमा।
व्यासः –
स शापाभिभवात्सद्यो भृशार्तो भयविह्वलः॥ (११)
हतप्रभो गतमतिः कृशगात्रोभवच्छशी।
तदभ्याशात्तु निर्गच्छं स्तदा पुष्करिणीमिमाम्॥ (१२)
समेत्य शापमोक्षार्थं चचारात्र तपो महत्।
विगाह्य सलिलं स्थित्वा दशवर्षाणि पञ्च च॥ (१३)
महान्तं कालमेवासौ तीर्थापः प्रविशन्मुने।
मुहूर्तमिव शीतांशु व्यनयत्कालमत्र सः॥ (१४)
आरिराधयिषुर्देवमच्युतं पुष्करेक्षणम्।
विकसत्पुष्कराण्यस्मात्समाहृत्य दिने दिने॥ (१५)
तत्तीरे दशवर्षाणि पूजयामास चन्द्रमाः।
पूजितस्तेन देवेशः तस्य प्रत्यक्षतां ययौ॥
तप स्ततिभिरर्घ्याभिस्तुष्टाव मधुसूदनम्॥ (१६)
इति श्रीगारुडपुराणे श्रीरङ्गमाहात्म्ये पञ्चत्रिंशोऽध्यायः।
******