श्रीमद् भूतपुरीमाहात्म्यम् Part 2

श्रीः

श्रीयतिराजवल्ली समेत श्री आदिकेशव परब्रह्मणे नमः ॥

श्रीमते रामानुजाय नमः ॥


श्रीमद् भूतपुरीमाहात्म्यम्

(श्रीस्कान्द पुराणान्तर्गत स्कन्द अगस्त्यसम्वादः)

अध्यायः१

सूतं प्रति महर्षिकृतप्रश्नप्रकारः हरितवृत्तान्तश्च

पुण्ये तु नैमिषारण्ये पुरा धर्मविदाम् वरम् ।

महर्षयस्सूतपुत्रम् पप्रच्छुरिदमादरात् ॥ १ ॥

मुनयः-

सूत! सूत! महाप्राज्ञ! सर्वशास्त्रविशारद! ।

त्वमेव सकलम् वेत्सि नान्यस्त्वत्सदृशो भुवि ॥ २ ॥

मुनेर्भगवतस्साक्षाद् व्यासस्यामिततेजसः ।

कृपया परया सर्वम् त्वयैव विदितम् किल ॥ ३ ॥

त्वया खलु पुराणानि सेतिहासानि सर्वशः ।

मुनेस्सकाशादव्यासस्य बहुशः पठितानि वै ॥ ४ ॥

अस्माकम् च त्वया तात! कथितानि महात्मनाम् ।

देवानाम् च मुनीनाम् च चरितानि महीक्षिताम् ॥ ५ ॥

आख्याता बहवो धर्मा नृणाम् स्वर्गापवर्गदाः ।

तथा पुण्यान्यरण्यानि पावनान्याश्रमाणि च ॥ ६ ॥

सरितश्चैव गङ्गाद्याः क्षेत्राणि च महान्ति च ।

श्रीरङ्गादीनि दिव्यानि स्वयम्व्यक्तानि भूतले ॥ ७ ॥

विमानानि महाभाग! यानि विष्णोर्महात्मनः ।

यत्तु सत्यव्रतम् नाम क्षेत्रम् पापहरम् शुभम् ॥ ८ ॥

यत्र काञ्ची त्वया ख्याता पुरी पुण्यविवर्द्धनी ।

तत्र भूतपुरी नाम्ना नगर्यन्या त्वयोदिता ॥ ९ ॥

यत्राविरास भगवान्केशवः क्लेशनाशनः ।

यत्रानन्तसरो नाम तीर्थञ्च पापप्रणाशनम् ॥ १० ॥

कुत्र सा नगरी पुण्या कीदृशी केन वा कृता ।

कदा वा कस्य वा हेतोराविरासीज्जनार्दनः ॥ ११ ॥

एतद्वेदितुमिच्छामस्सर्वे वयमिह त्वया ।

आख्यातव्यमशेषेण तस्य क्षेत्रस्य वैभवम् ॥ १२ ॥

एवमुक्तस्तदा सूतो मुनिभिस्तद्भुभुत्सुभिः ।

बद्धाञ्चलिरुवाचेदम् सम्स्मरन् बादरायणम् ॥ १३ ॥

सूतः-

एवमेतन्महाभागा! भगवान्बादरायणः ।

अनन्यसुलभम् शिष्ये कृतवान्मय्यनुग्रहम् ॥ १४ ॥

कलौ भविष्यतो मर्त्यानवेक्ष्यात्यल्पमेधसः ।

हिताय तेषाम् भगवानाविरासीद्यदात्मना ॥ १५ ॥

अष्टादश पुराणानि सुमहद्भारतम् च तत् ।

कृतम् येन मनुष्याणम् हिताय जगतीतले ॥ १६ ॥

तेनाहम् मुनिवर्येण पाराशर्येण धीमता ।

दययावेक्षितः पुत्रनिर्विशेषम् महात्मना ॥ १७ ॥

इममेव पुरा प्रश्नम् कृतवान्कुम्भसम्भव : ।

देवम् शक्तिधरम् साक्षाद्यद्यूयम् परिपृच्छथ ॥ १८ ॥

अगस्त्यः-

अनन्तसरसीतीरे रम्ये भूतपुरे वरे ।

केशवो भगवान्कस्य प्रसन्नोभून्महामते ॥ १९ ॥

एवमुक्तस्तदा स्कन्दो मुनिना कुम्भयोनिना ।

प्रत्युवाच महातेजा अगस्त्यमृषिसत्तमम् ॥ २० ॥

स्कन्दः-

साधु पृष्टम् महाभाग! त्वया कलशनन्दन ।

यद्भूतपुरमाहात्म्यम् सन्क्षेपात्तद्वदाम्यहम् ॥ २१ ॥

न हि विस्तरतः शक्यम् वक्तुम् श्रोतुम् च मानद ।

ततः सङ्ग्रहतो वक्ष्ये समाहितमनाः शृणु ॥ २२ ॥

यत्तु भूतपुरम् नाम नगरम् पापनाशनम् ।

तस्य दर्शनमात्रेण नरः पापैः प्रमुच्यते ॥ २३ ॥

श्रवणात्स्मरणाद्वापि दर्शनादपि मानवः ।

सर्वपापैः प्रमुच्येत नित्यवासात्तु किम् पुनः ॥ २४ ॥

भूतपूरिति यन्नाम्नि कीर्तिते सर्वपातकैः ।

प्रमुच्यते नरस्सद्यस्ताम् न सेवेत कस्सुधीः ॥ २५ ॥

राजाभूद्युवनाश्वस्तु पुरा धर्मभृताम् वरः ।

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥ २६ ॥

मान्धाता नाम तस्यासीत्पुत्रः परमधार्मिकः ।

धनुर्वेदविदाम् श्रेष्ठस्सर्वशास्त्रविशारदः ॥ २७ ॥

यस्य श्लोकोयमद्यापि मुनिभिः परिगीयते ।

यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ॥ २८ ॥

सर्वम् तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ।

तस्याम्बरीषः पुत्रोभून्महाभागवतो नृपः ॥ २९ ॥

सर्वशास्त्रार्थविद्वीरस्सर्वशत्रुनिबर्हणः ।

तस्य पुत्रो महावीरो युवनाश्वो व्यजायत ॥ ३० ॥

योश्वमेधान्दशातानीद्देवर्षिगणपूजितः ।

सोऽपुत्रः पुत्रकामस्तु पुत्रीयामिष्टिमातनोत् ॥ ३१ ॥

तदाध्वर्युः प्रमादेन ब्रह्मतेजोभिवर्द्धकान् ।

जजाप मन्त्रान्सहसा तद्विज्ञाय नृपोब्रवीत् ॥ ३२ ॥

किमिदम् पठ्यते ब्रह्मन्प्रस्तुतम् विस्मृतम् तु ते ।

राजानमब्रवीत्सोध प्रमादेनान्यथा कृतम् ॥ ३३ ॥

जातम् देवेच्छयैवैतत्तत्तथैव भविष्यति ।

इति तद्वचनम् श्रुत्वा राजा परमधर्मवित् ॥ ३४ ॥

सर्व देवकृतम् जानन् पुत्रोत्पत्तिम् प्रतिक्षते ।

अथास्य पत्नी सुषुवे पुत्रमुज्ज्वलतेजसम् ॥ ३५ ॥

सर्वलक्षणसम्पन्नम् सर्वावयवसुन्दरम् ।

वसिष्ठो भगवाम्स्तस्य पुत्रस्यामिततेजसः ॥ ३६ ॥

नाम चक्रे महाभागश्शुभम् हरित इत्यथ ।

ववृधे स महाबाहुस्सर्वशास्त्रविशारदः ॥ ३७ ॥

उपयेमे च विधिवत्काशीराजसुताम् ततः ।

युवनाश्वो नरपतिः पुत्रम् राज्येभिषिच्य तम् ॥ ३८ ॥

सभार्यो हिमवत्पार्श्वम् गतस्तेपे महत्तपः ।

पित्रा नियुक्तो राज्ये तु हरितो नृपसत्तमः ॥ ३९ ॥

शशास विधिवत्पृथ्वीम् दिवम् देवपतिर्यथा ।

स कदाचित्समारुह्य तुङ्गम् तुरगपुङ्गवम् ॥ ४० ॥

ससैन्यो मृगयाम् यातो मृगाम्स्तत्राऽवधीद्बहून् ।

शैलद्रोण्याम् नृपस्तत्र कानने गहनेऽशृणोत् ॥ ४१ ॥

धेनोर्दीनतरम् नादम् सोन्वधावद्यतो रवः ।

तत्समीपम् समासाद्य ताम् ददर्श भृशातुराम् ॥ ४२ ॥

व्याघ्रेणाक्रम्यमाणाम् तु समारुह्योपरि द्विज ।

धर्मात्मनो नरपतेस्तस्य सन्दर्शनादथ ॥ ४३ ॥

कारुण्यार्द्रमभूच्चित्तम् जाते सान्द्रे च लोचने ।

सन्धाय धनुषि क्षिप्रम् शरम् शत्रुविनाशनम् ॥ ४४ ॥

वधाय तस्य व्याघ्रस्य मुमोचेन्द्र इवाशनिम् ।

स शरेणाहतो रोषात्ताम् धेनुम् कण्ठदेशतः ॥ ४५ ॥

विददम्श नखैस्तीक्ष्णैर्विरराद च पृष्ठतः ।

शार्दूलेन विनिर्भिन्ना सा धेनुरभवन्मृता ॥ ४६ ॥

शराभिघातभिन्नात्मा स भूमावपतद्व्यसुः ।

तत्समालोक्य भूपालो भृशमाकुलमानसः ॥ ४७ ॥

चिन्तयामास दुःखेन विनिश्वस्य मुहुर्मुहुः ।

अहो महत्कष्टमिदम् कृतमासीन्मयाधुना ॥ ४८ ॥

व्याघ्रम् मारयतः सद्यः प्राप्तोयम् गोवधो मया ।

केन वा निष्कृतिस्स्यान्मे किम् तपो वा चराम्यहम् ॥ ४९ ॥

कुत्र वा पापमेतन्मे विनाशमुपयास्यति ।

निन्दन्ति मानवास्सर्वे हन्त सम्प्राप्तगोवधम् ॥ ५० ॥

निन्दितस्य नरैर्लोके धिग्जीवितमिदम् मम ।

तमेवमात्मनात्मानम् विनिन्दन्तम् महीपतिम् ॥ ५१ ॥

स्निग्धगम्भीरमाभाष्य प्राह वागशरीरिणी ।

मा शुचस्त्वम् महाराज सत्यव्रतमितो व्रज ॥ ५२ ॥

तत्र भूतपुरे किंचित्सरो विकचपङ्कजम् ।

तत्र स्नानादिदम् पापम् सद्यो नङ्क्ष्यति मानद ॥ ५३ ॥

श्रेयश्च बहुधा तत्र भविष्यति तवानघ ।

तच्छ्रुत्वा स महीपालो धैर्यमालम्ब्य सत्वरः ॥ ५४ ॥

प्रययौ राजधानीम् स्वाम् पौरैरभ्यर्चितो जनैः ।

स प्रविश्य निजम् सद्म सचिवानात्मनो हितान् ॥ ५५ ॥

पुरोहितम् वसिष्ठम् च आनयामास सत्वरः ।

समाहूतास्ततस्तेन मन्त्रिणा राजमन्दिरम् ॥ ५६ ॥

प्रविश्य च यथार्हास्ते सत्कृताः पृथिवीभुजा ।

अथाजगाम भगवान्वसिष्ठो ब्रह्मवित्तमः ॥ ५७ ॥

तमागतमवेक्ष्याथ समुत्थाय च आसनात् ।

प्रणम्य च यथान्यायमासनम् समुपानयत् ॥ ५८ ॥

कृताञ्जलिरुवाचेदम् कृतासनपरिग्रहम् ।

लज्जयावनतः किञ्चिद्वसिष्ठमृषिसत्तमम् ॥ ५९ ॥

हरितः-

मया हि भगवन्नद्य वने किमपि पातकम् ।

प्राप्तम् तन्माम् दहत्यन्तः कोटराग्निर्यथा तरुम् ॥ ६० ॥

स्कन्दः-

ततः पृष्टवते तस्मै मन्त्रिणामुपशृण्वताम् ।

कथयामास तद्वृत्तम् यथावन्मुनये नृपः ॥ ६१ ॥

कथयित्वा च तत्सर्वम् वसिष्ठम् पुनरब्रवीत् ।

क्षेत्रम् सत्यव्रतम् नाम गन्तव्यम् यन्ममोदितम् ॥ ६२ ॥

कुत्र तद्भूतनगरम् कस्मिन्देशे महामुने ।

यत्रानन्तसरो नाम तीर्थम् तत्पापनाशनम् ॥ ६३ ॥

यत्कर्तव्यम् तपस्तत्र कीदृशम् तच्च सत्तम ।

ध्यातव्यः को मया देवः को मन्त्रः कश्च वा विधिः ॥ ६४ ॥

एतत्सर्वम् मम ब्रूहि यत्कर्तव्यम् मया गुरो ।

स्कन्दः-

एवमुक्तो नृपतिना वसिष्ठ इदमब्रवीत् ॥ ६५ ॥

क्षणम् ध्यात्वा प्रसन्नात्मा सर्वविज्जगतीपतिम् ।

वसिष्ठः-

श्रूयताम् तन्महाराज यत्पृष्टोहमिह त्वया ॥ ६६ ॥

तत्सर्वमभिधास्यामि शुभोदर्कमिदम् भवेत् ।

श्रूयते हि महान् शैलो दक्षिणापथमण्डनम् ॥ ६७ ॥

वेङ्कटाद्रिरिति ख्यातो विविधद्रुमभूषणः ।

यक्षराक्षसगन्धर्वसिद्धोरगनिषेवितः ॥ ६८ ॥

वैखानसैर्वालखिल्यैस्तपोनिर्धूतकल्मषैः ।

अन्यैरपि महाभागैर्मुनिभिस्सेवितस्सदा ॥ ६९ ॥

देवानाम् दानवानाम् च मुनीनाम् च नृणाम् तथा ।

अभीष्टमखिलम् दातुम् यत्रास्ते कमलासखः ॥ ७० ॥

तस्य दक्षिणभागे तु योजनत्रितयाधिके ।

क्षेत्रम् पापहरम् पुण्यम् तद्धि सत्यव्रताह्वयम् ॥ ७१ ॥

सप्तयोजनविस्तीर्णम् सप्तयोजनमायतम् ।

अनेकविष्णुस्थानाढ्यमनेकनगरान्वितम् ॥ ७२ ॥

नानावनसमाकीर्णम् नानाजननिषेवितम् ।

यत्र हस्तिगिरिर्नाम शैलः पुण्यतमो महान् ॥ ७३ ॥

आजहार चतुर्वक्रो वाजिमेधम् यतः पुरा ।

यत्र प्रादुरभूद्वाजिवपास्वादनलोलुपः ॥ ७४ ॥

धातुरुत्तरवेद्यन्तस्सर्वभूतवरप्रदः ।

यत्र काञ्चीति विख्याता पुरी पुण्यविवर्द्धनी ॥ ७५ ॥

वासाद्यत्र नरा मुक्तिं प्रयान्त्यपि सुदुर्लभाम् ।

तस्याः प्रागुत्तरे देशे योजनद्वयमात्रके ॥ ७६ ॥

विदेहवनमित्येव ख्यातमस्ति महद्वनम् ।

तस्य पश्चिमतः किञ्चिदरुणारण्यसञ्ज्ञकम् ॥ ७७ ॥

तस्य दक्षिणतो भूतनगरी सा यशस्विनी ।

धर्मार्थकाममोक्षाणाम् साधनम् सर्वदेहिनाम् ॥ ७८ ॥

यत्रानन्तसरो नाम सरस्तदमलोदकम् ।

हम्ससारससङ्कीर्णम् कैरवोत्पलशोभितम् ॥ ७९ ॥

तत्र गत्वा यथान्यायम् स्नात्वा तस्मिन्सरोवरे ।

सर्वपापविनिर्मुक्तः श्रेयो महदवाप्स्यसि ॥ ८० ॥

इति स्कान्दे पुराणे स्कन्दागस्त्यसम्वादे श्रीभूतपुरीमाहात्म्ये

प्रथमोऽध्यायः


श्री भूतपुरीमाहात्म्यम् – अध्यायः२


वसिष्ठोक्तभूतपुरीसञ्ज्ञानिबन्धनप्रकारः

स्कन्दः-

एवमुक्तो महीपालो वसिष्ठम् तपताम् वरम् ।

प्रश्नयावनतो भूत्वा पप्रच्छेदम् सकौतुकम् ॥ १ ॥

राजाः-

यत्त्वयोक्तम् महाभाग पुरम् भूतपुराह्वयम् ।

तस्य वेदितुमिच्छामि तथा सञ्ज्ञानिबन्धनम् ॥ २ ॥

वसिष्ठः-

साधु पृष्टम् महाराज भूतसञ्ज्ञा यथा भवेत् ।

तदहम् तेऽभिधास्यामि श्रूयतामवधानतः ॥ ३ ॥

आसीदिदम् तमोभूतमप्रज्ञातमलक्षणम् ।

अप्रतर्क्य॑मविज्ञेयम् प्रसुप्तमिव सर्वतः ॥ ४ ॥

नाहो न रात्रिर्नैवार्को नेन्दुर्न ग्रहतारकाः ।

नादित्या न च दैतेया नेन्द्राद्याश्च दिगीश्वराः ॥ ५ ॥

न प्रजापतयो नाहम् न शर्वो न चतुर्मुखः ।

प्रधानम् च पुमाम्श्चैव प्रलीनौ परमात्मनि ॥ ६ ॥

नामरूपविनिर्मुक्तौ सूक्ष्मावस्थौ बभूवतुः ।

महदादिषु लीनेषु प्रकृतौ गुणसाम्यतः ॥ ७ ॥

सर्वात्मा सर्वदस्सर्वशक्तिर्ज्ञानबलर्द्धिमान् ।

भगवानेक एवासीत्साक्षान्नारायणोऽव्ययः ॥ ८ ॥

स हि धाता विधाता च कर्ता भर्ता स्वयम् प्रभुः ।

प्रधानपुरुषात्मासावेक एवाभवत्पुरा ॥ ९ ॥

स तिष्ठम्श्चिरमेकाकी शून्ये लोके चराचरे ।

नैवारमत चित्ते स सिसृक्षुरभवत्प्रजाः ॥ १० ॥

जीवात्मनानुप्रविश्य प्रधानम् जगदीश्वरः ।

सन्क्षोभयामास शनैर्गुणवैषम्यकारकः ॥ ११ ॥

महानभूत्ततस्तस्मात् त्रिगुणाद्गुणभेदत : ।

अहङ्कारोऽभवत्तस्मान्महतस्रिगुणास्त्रिधा ॥ १२ ॥

सात्त्विको राजसश्चैव तामसश्चेति भेदतः ।

वैकारिकस्तैजसश्च भूतादिश्चेति नामतः ॥ १३ ॥

अहङ्कारात्तु भूतादेश्शब्दतन्मात्रमुद्भवौ ।

तस्मादुदभवद्राजन्नाकाशः शब्दलक्षणः ॥ १४ ॥

ततो विकुर्वतस्तस्मात्स्पर्शतन्मात्रतोल्बणः ।

अथ वायोर्विकुर्वाणाद्रूपतन्मात्रमुद्भवौ ॥ १५ ॥

तस्माच्च रूपतन्मात्रात्तेजोभूद्रूपलक्षणम् ।

ततश्च रसतन्मात्रम् विकुर्वाणात्तु तैजसः ॥ १६ ॥

उदतियत्ततोम्भाम्सि जज्ञिरे रसवन्ति वै ।

अम्भसो गन्धतन्मात्रमभूतमात्ततो मही ॥ १७ ॥

एवमेतानि भूतानि समुत्पन्नान्यनुक्रमात् ।

नानागुणानि नैवाण्डम् यथा स्रष्टुम् च शेकिरे ॥ १८ ॥

ततस्समेत्य चान्योन्यम् विष्णुशक्त्या महामते ।

ब्रह्माण्डमसृजम्स्तस्मिम्श्चतुर्मुखमजीजनत् ॥ १९ ॥

नारायणाख्यो भगवान् दिव्ये नाभिसरोरुहे ।

चतुर्मुखशरीरस्थस्ततस्स भगवान्हरिः ॥ २० ॥

ससर्ज तिर्यक्वृक्षादीन्यक्षरक्षाम्सि चानघ ।

योगिनस्सनकार्दीश्च प्रजानाम् च तथा पतीन् ॥ २१ ॥

रुद्राम्श्च रुद्रपत्नीश्च भूतप्रेतगणानपि ।

ततः कदाचित्सन्ध्यायाम् जटाम् धून्वन्दिगम्बरः ॥ २२ ॥

ननर्त बहुधा रुद्रो जटोन्मत्ताकृतिस्स्वयम् ।

अथ भूतगणास्तम् तु समालोक्य दिगम्बरम् ॥ २३ ॥

जटिनम् भस्मसन्छिन्नम् जहसुस्ते परस्परम् ।

विज्ञाय भगवाञ्छम्भुः स्वात्मानमवमानितम् ॥ २४ ॥

अशपत्ताम्स्तु सन्क्रुद्धो रोषप्रस्फुरिताधरः ।

यस्मान्मामवजानीयुर्नृत्यन्तम् लीलयात्मनः ॥ २५ ॥

तस्मान्नार्हथ यूयम् तु मत्पार्श्वपरिवर्तनम् ।

अतोपगच्छतादद्यैव युष्माकम् विहितम् तथा ॥ २६ ॥

स्थानभ्रम्शकरो यस्मात्पुम्साम् महदतिक्रमः ।

ततस्तेनैव मुक्तास्ते भीता भूतगणाः शिवम् ॥ २७ ॥

प्रदक्षिणीकृत्य नताश्चतुर्मुखमुपागमन् ।

तस्मै विज्ञापयामासुर्वृत्तम् निरवशेषतः ॥ २८ ॥

नटनम् तस्य हासम् च स्वात्मनाम् शापमेव च ।

तच्छ्रुत्वा प्रहसन्प्राह ब्रह्मा भूतगणाम्स्ततः ॥ २९ ॥

भवितव्यमिदम् प्राप्तम् युष्माभिर्नान्यथैव तत् ।

शृणुध्वम् मद्वचस्सर्वे श्रुत्वा चैवावधार्यताम् ॥ ३० ॥

जम्बूद्वीपे भारते च वर्षे पुण्यतमे महान् ।

वेङ्कटाद्रिरिति ख्यातो विभाति धरणीधरः ॥ ३१ ॥

तस्य दक्षिणतः किञ्चित्सत्यव्रतसमाह्वयम् ।

क्षेत्रम् पापप्रशमनम् सिद्धगन्धर्वसेवितम् ॥ ३२ ॥

वाजिमेधमहम् यज्ञम् यत्र स्वायम्भुवान्तरे ।

आरिराधयिषुः कृष्णमकारिषमनन्यधीः ॥ ३३ ॥

तस्य चोत्तरपूर्वस्याम् दिशि नानामृगायुतम् ।

अरुणारण्यमित्येव विश्रुतम् विपिनम् महत् ॥ ३४ ॥

युष्माभिस्तत्र गन्तव्यम् कर्तव्यम् च महत्तपः ।

अचिरादेव सिद्धिम् च समेष्यथ रमापतेः ॥ ३५ ॥

विकलान्यपि सिद्ध्यन्ति यत्र नृणाम् व्रतानि वै ।

ततस्सत्यव्रतम् नाम तत्क्षेत्रम् भुवि विश्रुतम् ॥ ३६ ॥

तद्गच्छतम् विलम्बोऽत्र न कार्यस्सिद्धिमेष्यथ ।

युष्माकमीप्सितम् सर्वम् केशवस्तत्र दास्यति ॥ ३७ ॥

इत्युक्तास्तम् प्रणम्याथ हृष्टा भूतगणास्तदा ।

ययुस्सत्यव्रतक्षेत्रमरुणारण्यमेव च ॥ ३८ ॥

तत्र ते नियताहारास्तपश्चेरुरनुत्तमम् ।

हृदि नारायणम् देवम् भावयन्तो रमासखम् ॥ ३९ ॥

एवम् हि तपताम् तेषाम् गतम् वर्षसहस्रकम् ।

ध्यायताम् हृदि गोविन्दम् भूतानाम् भूतभावनम् ॥ ४० ॥

ततः कदाचित्सञ्जज्ञे देवदुन्दुभिनिस्वनः ।

जयशब्दश्च सुमहान्मुनीनाम् भावितात्मनाम् ॥ ४१ ॥

ततः प्रादुरभूद्दिव्यं विमानममितद्युति ।

अनेकशतबालार्ककिरणावलिसुन्दरम् ॥ ४२ ॥

ते समीक्ष्य विमानम् तद्विस्मयोत्फुल्ललोचनाः ।

तत्प्रभावहृतस्वान्ताः किमेतदिति मेनिरे ॥ ४३ ॥

तस्मिन्विमाने ददृशुस्तेजोमण्डलमध्यगम् ।

चिरेण पुण्डरीकाक्षम् बिम्बमध्ये यथा रविम् ॥ ४४ ॥

दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् ।

दिव्यनानाविभूषाढ्यम् दिव्यनानाविधायुधम् ॥ ४५ ॥

देवदानवगन्धर्वयक्षचारणकिन्नरैः ।

सिद्धविद्याधराद्यैश्च सेव्यमानम् स्तवानतैः ॥ ४६ ॥

देवर्षिभिर्नारदाद्यैर्ब्रह्मर्षिभिरकल्मषैः ।

योगिभिस्सनकाद्यैश्च पार्षदैर्गणनायकैः ॥ ४७ ॥

भक्त्या नतैस्सेव्यमानम् जितम् त इति वादिभिः ।

एवमन्तःस्थितम् तस्मिन्विमाने मधुसूदनम् ॥ ४८ ॥

समालोक्य समुत्थाय प्रणेमुर्भक्तिविह्वलाः ।

बद्धाञ्जलिपुटास्सर्वे सम्प्रहृष्टतनूरुहाः ॥ ४९ ॥

हर्षगद्गदया वाचा भगवन्तम् समीडिरे ।

भूतगणाः-

नमस्ते वासुदेवाय नमस्सङ्कर्षणाय च ॥ ५० ॥

प्रद्युम्नायानिरुद्धाय नमस्ते परमात्मने ।

नमस्ते जगताम् नाथ नमस्ते चक्रपाणये ॥ ५१ ॥

नमस्ते पद्मनाभाय नमस्ते जगदात्मने ।

नमो हिरण्यगर्भाय नमो नारायणाय च ॥ ५२ ॥

नमः पशूनाम् पतये सृष्टिस्थित्यन्तहेतवे ।

त्वत्तस्सर्वमिदम् जातम् त्वयि नित्यम् प्रतिष्ठितम् ॥ ५३ ॥

त्वदात्मकम् त्वमेवेदम् त्वय्येव लयमेष्यति ।

प्रपन्नार्तिहरम् देवम् शरणम् त्वाम् गता वयम् ॥ ५४ ॥

पाहि नः पुण्डरीकाक्ष प्रपन्नाम्स्त्वत्पदाम्बुजम् ।

वसिष्ठः-

इत्थम् स्तुतस्स भगवान्मेघस्तनितकल्पया ॥ ५५ ॥

वाचा प्रशमयन् दुःखम् प्रत्यभाषत तानिदम् ।

श्रीभगवान्-

वरम् वृणीध्वम् भद्रे वो वरदोहमिहागतः ॥ ५६ ॥

मद्दर्शनान्तम् भूतानाम् दुःखमित्यवधार्यताम् ।

भूतगणाः-

वेत्सि सर्वम् जगन्नाथ भूतानाम् यन्मनोगतम् ॥ ५७ ॥

किन्नु विज्ञाप्यतेऽस्माभिर्देव सर्वात्मनि त्वयि ।

वसिष्ठः-

एवमुक्तस्तानुवाच भगवान्भूतभावनः ॥ ५८ ॥

जानामि हृद्गतम् सर्वम् सफलम् वोस्तु तत्तपः ।

एवमुक्त्वा हृषीकेशस्सस्मार वृषभध्वजम् ॥ ५९ ॥

चिन्त्यमानः क्षणादेव ततः प्रादुरभूच्छिवः ।

आस्थाय वृषभम् श्वेतम् कैलासाद्रिमिवापरम् ॥ ६० ॥

स्कन्देन गणनाथेन प्रमथानाम् गणैरपि ।

नन्दिना मुनिभिर्देवैस्सेवमानैः समावृतः ॥ ६१ ॥

अथाऽवरुह्य वृषभादभ्याशम् शार्ङ्गधन्वनः ।

आसाद्य प्रणतो भक्त्या तस्थौ बद्धाञ्जलिः शिवः ॥ ६२ ॥

तमञ्जलौ समाकृष्य परिष्वज्य च सादरम् ।

स्वागतम् तव भूतेशेत्युवाच प्रहसन् हरिः ॥ ६३ ॥

अथोवाच शिवः प्रीत्या स्वामिन्किम् करवाण्यहम् ।

किमर्थम् च समुद्दिश्य समाहूतोहमद्य वै ॥ ६४ ॥

यदिष्टम् तव गोविन्द तन्ममापि न सम्शयः ।

यदनिष्टम् तव स्वामिन् तत्तथैव ममापि हि ॥ ६५ ॥

त्वया सृष्टस्त्वदादिष्टः करोमि तव शासनम् ।

यदात्मा च त्वदाधारस्त्वयैव परिपालितः ॥ ६६ ॥

न केवलमहम् देव ब्रह्माद्या देवयौनयः ।

त्वदादेशकरास्सर्वे भगवम्स्त्वामुपासते ॥ ६७ ॥

त्वदाज्ञापालनोद्युक्ता वयमन्ये च देहिनः ।

तव चैव वशम् यामो वायोरिव बलाहकाः ॥ ६८ ॥

इदानीम् यदनुष्ठेयम् मया तव जगत्प्रभो ।

भवानाज्ञापयतु तन्नमस्ते पुरुषोत्तम ॥ ६९ ॥

वसिष्ठः-

इत्युक्तो देवदेवेन भगवानादिपूरुषः ।

प्रहस्य भावगम्भीरम् भवमेवमुवाच ह ॥ ७० ॥

श्रीभगवान् –

एते भूतगणाश्शम्भो भव ते कृतकिल्बिषाः ।

क्रोधात्त्वया परित्यक्तास्त्वदन्तिकविहारिणः ॥ ७१ ॥

पुण्ये सत्यव्रतक्षेत्रे विशेषादरुणे वने ।

तपस्तप्तम् हि सुचिरादेभिस्तत्किल्बिषापहम् ॥ ७२ ॥

त्वया साधु कृतम् पूर्वम् यदेषाम् दर्पशान्तये ।

कृतः क्रोधोऽविनीतानाम् शास्तारो हि भवद्विधाः ॥ ७३ ॥

तस्मादद्य प्रभृत्येते चरन्तु तव सन्निधौ ।

यथापूर्वम् क्वचित्काले कस्य न स्याद्व्यतिक्रमः ॥ ७४ ॥

वसिष्ठः-

एवमुक्तो भगवता शम्भुश्शमवताम् वरः ।

तथैवास्त्वित्युवाचैनम् यथा वदसि केशव ॥ ७५ ॥

एवमुक्तस्स भगवान्प्राञ्जलिम् पार्श्वतस्थितम् ।

अनन्तम् प्राह नागेशम् सरो निर्मीयताम् त्वया ॥ ७६ ॥

किञ्चित् कुमुदकल्हारकैरवोत्पलशोभितम् ।

इत्यादिष्टो भगवता सरः किञ्चिन्मनोहरम् ॥ ७७ ॥

निर्माय दर्शयामास नागेशः केशवाय तत् ।

तदालोक्य मुदा प्राह सर्वान्भूतगणानथ ॥ ७८ ॥

कुरुध्वमत्र स्नानम् च सर्वे यूयमतन्द्रिताः ।

इदम् पापहरम् पुण्यम् सरो विकचवारिजम् ॥ ७९ ॥

मत्प्रीतये ह्यनन्तेन निर्मितम् भवताम् कृते ।

इत्युक्तास्ते विगाह्याप्सु सरसस्तस्य निर्मलाः ॥ ८० ॥

प्रदक्षिणम् परिक्रम्य प्रणेमुर्वृषभध्वजम् ।

तान्दयामृतवर्षिण्या दृशालोक्य त्रिलोचनः ॥ ८१ ॥

स्वपार्श्वमनयत्प्रीत्या तस्य तुष्टो भवद्धरिः ।

ततो भूतगणास्सर्वे प्रणम्य गरुडध्वजम् ॥ ८२ ॥

एवम् विज्ञापयामासुर्महादेवानुमोदिताः।

अद्य प्रभृति देवेश क्षेत्रे वस्तुमिहार्हसि ॥ ८३ ॥

अभीष्टदायी सर्वेषामाकल्पम् कमलासखः ।

इत्युक्तो भगवान्भूतैरालुलोके त्रिलोचनम् ॥ ८४ ॥

तदिङ्गितमथावेक्ष्य महादेवो व्यजिज्ञपत् ।

यावत्स्वारोचिषस्येदमन्तरम् जगदीश्वर ॥ ८५ ॥

एतेषाम् प्रीतये देव तावद्वस्तुमिहार्हसि ।

अथ ते प्रीतमनसस्सर्वे भूतगणा हरेः ॥ ८६ ॥

उत्सवम् कर्तुमीशस्य पुरीम् चक्रुर्मनोहराम् ।

योजनत्रयविस्तारम् योजनत्रितयायताम् ॥ ८७ ॥

हर्म्यप्रासादसम्बाधाम् प्राकारेण परिष्कृताम् ।

उत्सवार्थम् च देवानामागतानाम् यथार्हतः ॥ ८८ ॥

चक्रुरावसस्थाम्स्तत्र नराणाम् च महीभुजाम् ।

वैशाखशुद्धद्वादश्याम् हस्तर्क्षे शोभने दिने ॥ ८९ ॥

उत्सवावभृथम् चक्रुरुमापतिसमन्विताः ।

अथ तेषु प्रयातेषु देवेषु मुनिभिस्सह ॥ ९० ॥

नगरे तत्र वर्णाम्श्च ब्राह्मणादीन्निवेशयन् ।

यथोचितमसम्बाधम् ते भूतनिवहा मुदा ॥ ९१ ॥

अथोवाच हरिश्शम्भुममीभिस्सह शङ्कर ।

कैलासम् पर्वतवरम् गच्छ तत्र रमस्व च ॥ ९२ ॥

उत्सवावभृथम् यस्मिन्दिने समकृथा मम ।

तस्मिन्दिने त्वमागच्छ प्रत्यब्दम् मद्दिदृक्षया ॥ ९३ ॥

देवा मनुष्याः पितरो ये चान्येपि शरीरिणः । ।

वैशाखशुक्लैकादश्याम् समुपोष्यात्र सम्यताः ॥ ९४ ॥

अनन्तसरसि स्नात्वा ममार्चनपरायणाः ।

द्वादश्यामर्चयिष्यन्ति तेषाम् सर्वमभीप्सितम् ॥ ९५ ॥

अहमेव प्रदास्यामि मुक्तिमप्यतिदुर्लभाम् ।

तस्मात्त्वम् मत्प्रसादाय सर्वभूतगणैर्वृतः ॥ ९६ ॥

आगत्य मामिहालोक्य प्रत्यब्दम् याहि शङ्कर ।

वसिष्ठः-

वरमेवम् पुरा दत्त्वा भूतानाम् भूतभावनः ॥ ९७ ॥

सर्वभूतगणैस्सार्द्धम् प्रेषयामास शङ्करम् ।

यस्माद्भूतैरियं सृष्टा पुरी पुण्यविवर्द्धनी ॥ ९८ ॥

तस्माद्भूतपुरी नाम्ना कीर्त्यते भवनोदरे ।

एतत्ते सर्वमाख्यातम् यस्मात्त्वम् परिपृच्छसि ॥ ९९ ॥

तस्मात्त्वमपि राजेन्द्र तत्र गत्वा यथासुखम् ।

तपसाऽऽराधय श्रीशम् स ते श्रेयो विधास्यति ॥ १०० ॥

इति स्कान्दे पुराणे स्कन्दागस्त्यसम्वादे श्रीभूतपुरीमाहात्म्ये

द्वितीयोऽध्यायः




श्री भूतपुरीमाहात्म्यम् – अध्यायः ३


हरितम् प्रति वसिष्ठकृतमन्त्रोपदेशप्रकारः

स्कन्दः-

एवमुक्तो वसिष्ठेन हरितः प्रीतमानसः ।

उवाच प्रश्रयादेतदाचार्यम् सम्यताञ्जलिः ॥ १ ॥

हरितः-

मया तद्विदितम् क्षेत्रम् त्वत्प्रसादान्महामुने ।

श्रोतुमिच्छामि तन्मन्त्रम् यज्जप्तव्यम् तपस्यता ॥ २ ॥

वसिष्ठः-

श्रूयताममिधास्यामि मन्त्रम् सर्वार्थसाधकम् ।

यज्ज्ञात्वा पद्मभूः पूर्वम् भगवन्तमतोषयत् ॥ ३ ॥

तारमादौ समुच्चार्य ततो हृदयमेव च ।

पदम् च सम्प्रदानान्तम् वासुदेवेति कीर्तयेत् ॥ ४ ॥

मन्त्र एष महीपाल मन्त्राणाम् परमो मतः ।

एतम् जप्त्वा प्रयत्नेन सद्यस्सिद्धिमवाप्स्यसि ॥ ५ ॥

ध्यायन् हृदि रमानाथम् सर्वभूतगुणाशयम् ।
सर्वभूतसमश्शान्तस्सर्वत्र समदर्शनः ॥ ६ ॥

अब्भक्षो वायुभक्षो वा शीर्णपर्णाशनोपि वा ।
ग्रीष्मे पञ्चतपा भूत्वा हेमन्ते शिशिरेपि च ॥ ७ ॥

आकण्ठमग्नस्सलिले निर्ममो निरहङ्कृतिः ।
एवम् सुदुश्चरम् तप्त्वा तपो निर्धूतकल्मषः ॥ ८ ॥

दयया परया विष्णोस्सर्वान्कामानवाप्स्यसि ।
राजा-

धन्योस्म्यनुगृहीतोस्मि यस्य मे मुनिपुङ्गवः ॥ ९ ॥

भवान्प्रसन्नहृदयो मन्त्रमेतमुपादिशत् ।
राज्यमेतत्त्वयि न्यस्तमनुजानीहि माम् विभो ॥ १० ॥

स्कन्दः-

इत्युक्तवन्तम् राजानम् वसिष्ठो जपताम् वरः ॥
प्रस्थापयामास तदा कृत्वा रक्षाम् विधानतः ॥ ११ ॥

स राजा विविधान्देशान्समतीत्य जनाकुलान् ।

गङ्गाद्यास्सरितः पुण्याश्शैलाम्श्च विविधद्रुमान् ॥ १२॥

वेङ्कटाचलमासाद्य तत्र नत्वा रमासखम् ।

सत्यव्रतमथ क्षेत्रम् दृष्ट्वा हृष्टोऽभवन्नृपः ॥ १३ ॥

काञ्चीपुरीम् ततो गत्वा तत्र हस्तिगिरिम् च तम् ।

तन्मूर्ध्नि वरदम् देवम् प्रणनाम स भक्तितः ॥ १४ ॥

प्रागुदीची दिशम् गत्वा सार्द्धयोजनमात्रतः ।

वनम् चारुणमासाद्य वल्गुभाषिमृगद्विजम् ॥ १५ ॥

तत्रानन्तसरो दृष्ट्वा महतीम् मुदमाययौ ।

नानाविहगसङ्कीर्णान्नानाकुञ्जसमावृतम् ॥ १६ ॥

सिम्हव्याघ्रवराहैश्च महिषैश्च तृषाकुलैः ।

आपीयमानसलिलममर्त्यगजसङ्कुलम् ॥ १७ ॥

तदालोक्य नृपस्तस्य परितः काननम् महत् ।

पश्यम्श्चचार जीर्णस्य नगरस्य च लाञ्छनम् ॥ १८ ॥

प्रासादस्थानचिह्नानि तटाकाम्श्च ततस्ततः ।

प्राकारपरिघास्थानान्यपि तत्र व्यलोकयत् ॥ १९ ॥

देवतायतनस्थानान्यायताश्चापि वीथिकाः ।

विलोक्य निश्चिकायासौ गुरुणोक्तमिदम् त्विति ॥ २० ॥

पुनस्तीर्थमनन्ताख्यमासाद्य जगतीपति : ।

पयस्यगाधे विमले सस्नौ सम्हृष्टमानसः ॥ २१ ॥

ततो नियममास्थाय तपस्यभिरतो नृपः ।

यतवाग्यतचित्तश्च तपस्तेपे सुदारुणम् ॥ २२ ॥

फलमूलकृताहारो दशवर्षाणि नीतवान् ।

पत्रपुष्पकृताहारो विम्शतिम् नीतवाम्स्ततः ॥ २३ ॥

अथ शुष्कैर्दलैः कुर्वन्देहयात्राम् महीपतिः ।

चत्वारिम्शतमब्दानाम् निनाय नियतेन्द्रियः ॥ २४ ॥

अद्भिरेव कृताहारष्षष्टिम् वर्षाणि नीतवान् ।

शरीरधारणम् कुर्वन्वायुभिर्धरणीपतिः ॥ २५ ॥

शतम् निनाय वर्षाणि ज्वालाभिश्च शतम् समाः ।

निरुच्छ्वासतया भूयो निराहारो जितेन्द्रिय : ॥ २६ ॥

गुरूपदिष्टम् मन्त्रम् च जपन्विष्णुम् हृदि स्मरन् ।

तपः परममास्थाय शतम् वर्षाणि नीतवान् ॥ २७ ॥

ततो वायुस्सुखस्पर्शो ववौ सुरभिगन्धवान् ।

प्रसन्नाश्च दिशस्सर्वा जज्वलुश्चाग्नयश्शुभाः ॥ २८ ॥

अन्तरिक्षे च देवानाम् दिव्यो दध्वान दुन्दुभिः ।

पुष्पवृष्टिर्महत्यासीज्जयशब्दो महानभूत् ॥ २९ ॥

नभसोऽक्तताराऽथ विमानमतुलप्रभम् ।

आश्रमे तस्य राजर्षेरनन्तसरसीतटे ॥ ३० ॥

सुनन्दनन्दप्रमुखाः पार्षदाश्शार्ङ्गधन्वनः ।

राजानमब्रुवन्प्रीत्या ध्यानव्यामिलितेक्षणम् ॥ ३१ ॥

पश्य राजन्महाभाग तपसस्ते परम् फलम् ।

भगवानरविन्दाक्षः प्रत्यक्षविषयोभवत् ॥ ३२ ॥

स्कन्दः-

वच एतत्समाकर्ण्य राजा ध्यानाद्विरम्य सः ।

ददर्श पुण्डरीकाक्षम् विमाने श्रीमहीसखम् ॥ ३३ ॥

विमाने ददृशे तस्मिन्स्तेजोमण्डलमध्यगम् ।

चिरेण जगतामिशम् बिम्बमध्ये यथा रविम् ॥ ३४ ॥

नीलजीमूतसन्काशम् पीतवाससमच्युतम् ।

सौदामिनीपरिष्वक्तम् धारधरमिवोन्नतम् ॥ ३५ ॥

नानामणिविचित्रेण मुकुटेन विराजितम् ।

नानाधातुसमेतेन शृङ्गेणेव धराधरम् ॥ ३६ ॥

शारदेन्दुप्रकाशेन वदनेन समन्वितम् ।

स्मरचापलताचारुभ्रूवल्लीसमलङ्कृतम् ॥ ३७ ॥

तत्क्षणोन्मिलदम्भोजमनोहरदृगञ्चितम् ।

मणिदर्पणकान्ताभ्याम् कपोलाभ्यामलङ्कृतम् ॥ ३८ ॥

आपीनाम्सविलम्बिभ्याम् कुण्डलाभ्याम् च मण्डितम् ।

कल्पद्रुमाङ्कुरोद्भेदकान्तया नासयाऽन्वितम् ॥ ३९ ॥

पक्कबिम्बफलच्छायदन्तच्छदमनोहरम् ।

मन्दस्मितमनोहारिदन्तमौक्तिकसुन्दरम् ॥ ४० ॥

सुजातशङ्खसङ्घर्षिकण्ठमापीनवक्षसम् ।

हारेण महता राजदुरस्थलविलम्बिना ॥ ४१ ॥

निर्झरेण समाश्लिष्टमिन्द्रनीलाचलम् यथा ।

चन्द्रार्कसदृशाभ्याम् च शङ्खारिभ्याम् समन्वितम् ॥ ४२ ॥

करेणैकेन भूतानाम् दिशन्तमभयम् तथा ।

अन्येन करपद्येन कटीतटजुषान्वितम् ॥ ४३ ॥

कौस्तुभज्योतिषाक्रान्तदिव्यावयवसम्हतिम् ।

सन्ध्यारागेण महता कालमेघमिवावृतम् ॥ ४४ ॥

श्रीवत्सवनमालाभ्याम्म् सेव्यमानम् श्रिया च वै ।

यमुनावर्तगम्भीरनाभिह्रदमनोहरम् ॥ ४५ ॥

सुजातपीतकौशेयशोभमानकटीतटम् ।

सम्फुल्लकमलन्यस्तचरणाम्भोरुहद्वयम् ॥ ४६ ॥

तद्दर्शनजसन्तोषमहिम्ना व्याकुलेन्द्रियः ।

मुहूर्तमभवत्स्तब्धः कृत्याकृत्यविमूढधीः ॥ ४७ ॥

ततः परमसम्हृष्टः प्रणम्य च पुनः पुनः ।

पार्श्वतः पृष्टतश्चास्य प्रणनाम सहस्रधा ॥ ४८ ॥

मूर्ध्नि बद्धाञ्जलिर्भक्त्या पुलकाञ्चितविग्रहः ।

सन्तोषाश्रुपरीवाहतरङ्गितविलोचनः ॥ ४९ ॥

स्तोत्रैः श्रुतिसुखैर्देवम् तोषयामास भूपतिः ।

हरितः-

नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम ॥ ५० ॥

नमस्ते करुणासिन्धो नमस्ते कमलापते ।

त्वम् कर्ता त्वम् विकर्ता च त्वम् भर्ता च त्वमीश्वरः ॥ ५१ ॥

त्वमात्मा सर्वजगताम् त्वमेवेदमिदम् जगत् ।

त्वयि सर्वमिदम् प्रोतम् दाम्नीव कुसुमोच्चयः ॥ ५२ ॥

त्वमाविश्य पुरा देव प्रधानपुरुषावुभौ ।

नीत्वा सन्क्षोभमसृजो महदादीञ्जगत्प्रभो ॥ ५३ ॥

सृष्ट्वा भूतानि भूतादेस्सम्योज्य च परस्परम् ।

तैरण्डम् च चतुर्वक्रम् सर्वान्देवाम्श्चकर्थ च ॥ ५४ ॥

त्वत्प्रसादादभूद्ब्रह्मा त्वत्क्रोधात्त्रिपुरान्तकः ।

त्वदाज्ञासेतुपालाश्च ये चान्ये देवतागणाः ॥ ५५ ॥

त्वद्भयात्पवनो वाति सूर्यश्चरति ते भयात् ।

अग्निरिन्द्रश्च मृत्युश्च त्वद्भयादुपकुर्वते ॥ ५६ ॥

त्वामाराध्य जगत्सर्वम् धाता सृजति विश्वसृक् ।

त्वत्क्रोधोद्धतवीर्यश्च हरो हरति चान्तकः ॥ ५७ ॥

त्वदाराधनलब्धानि स्वानि स्वानि पदानि च ।

इन्द्रादयो लोकपाला भुञ्जते पुरुषोत्तम ॥ ५८ ॥

मुकुन्द त्वामनाराध्य कः पुमान्समवाप्नुयात् ।

त्रिवर्गमपवर्गम् वा त्रिषु लोकेषु केशव ॥ ५९ ॥

त्वमेवान्तः प्रविश्येदम् जगत्स्थावरजङ्गमम् ।

तत्तत्कर्मानुगुण्येन सन्चोदयसि कर्मसु ॥ ६० ॥

येषाम् त्वम् प्रीयसे देव त्वन्मायाम् ते तरन्ति हि ।

ये तु त्वत्क्रोधविषयास्ते त्वन्मायातिरोहिताः ॥ ६१ ॥

निश्चयम् नाधिगच्छन्ति स्वहिताहितकर्मसु ।

ब्रह्मादिस्थावरान्तानि भूतानि भगवम्स्तव ॥ ६२ ॥

माययैव विमूढानि सर्वाण्याश्चर्यरूपया ।

आराध्यसे ब्राह्मणाद्यैर्वर्णैः स्वोचितकर्मभिः ॥ ६३ ॥

यज्ञैस्समिज्यसे देव यज्वभिर्वेदवित्तमैः ।

त्वत्प्रीतिकामा मुनयस्तपः कुर्वन्त्यनुत्तमम् ॥ ६४ ॥

चतुर्विधास्तनुभृतो नियतास्त्वामुपासते ।

त्वयि चित्तम् समाधाय यान्ति मुक्तिम् मुमुक्षवः ॥ ६५ ॥

अन्ये तु ज्ञानिनः शुद्धास्त्वामेव शरणम् गताः ।

त्वत्पादपरिचर्यैकशरणा यान्ति निर्वृतिम् ॥ ६६ ॥

पञ्चरात्रविदोऽन्ये च पञ्चकालपरायणाः ।

त्वामर्चयन्ति देवेशम् सततम् शुद्धयाजिनः ॥ ६७ ॥

अन्ये विखनसा प्रोक्तमास्थाय नियमम् नराः ।

त्वदाराधनमीहन्ते त्वय्येव कृतनिश्चयाः ॥ ६८ ॥

एवम् नानाविधैर्मार्गैः स्वगुणानुगुणैर्विभो ।

इज्यसे त्वममेयात्मन् सर्वदेवमयाच्युत ॥ ६९ ॥

प्रतिसन्चरकाले तु सर्वमेतच्चराचरम् ।

त्वमेव जठरे कृत्वा निद्राम् प्राप्तो महार्णवे ॥ ७० ॥

नरात्त्वत्तोभवन्नापो नारशब्दसमीरिताः ।

तवायनमिमास्तस्माद्भवान्नारायणाह्वयः ॥ ७१ ॥

त्वयि सर्वम् वसत्येतत्त्वम् च सर्वत्र वर्तसे ।

ततस्त्वाम् वासुदेवेति कथयन्ति विपश्चितः ॥ ७२ ॥

त्वया व्याप्तमिदम् यस्माज्जगत्स्थावरजङ्गमम् ।

विष्णुनामा ततो देव विद्वद्भिः परिपठ्यसे ॥ ७३ ॥

पुरैव सत्त्वात्पुरुषम् कथयन्ति मनीषिणः ।

क्षराक्षराभ्यामधिकः कथ्यसे पुरुषोत्तमः ॥ ७४ ॥

एवम् गौणान्यनन्तानि नामानि तव केशव ।

देव सर्वशरीरत्वात्सर्वैश्शब्दैरुदीर्यसे ॥ ७५ ॥

सहस्रशिखरम् देवम् सहस्राक्षम् पुराविदः ।

सहस्रपाणिपादम् च वदन्ति त्वाम् रमन्ति च ॥ ७६ ॥

सर्वतः पाणिपादश्च सर्वतोक्षिशिरोमुखः ।

सर्वगस्सर्ववेत्ता च स्वतस्त्वम् परमेश्वर ॥ ७७ ॥

येन रूपेण परमव्योम्नि त्वम् समवस्थितः ।

जातम् तेनैव रूपेण देवतिर्यङ्नरादिषु ॥ ७८ ॥

परित्राणम् च साधुनाम् सम्हृतिम् तद्विरोधिनाम् ।

धर्मसम्स्थापनम् चैव कल्पे कल्पे करोषि च ॥ ७९ ॥

अवतारास्तव ह्येते स्वेच्छयैव कृता विभो ।

धर्मप्रतिष्ठासिद्धयर्था नान्येषामिव कर्मणा ॥ ८० ॥

तवावताररूपाणि समर्चन्ति दिवौकसः ।

न हि तच्छक्यते द्रष्टुम् दिव्यम् यद्रूपमस्ति ते ॥ ८१ ॥

नमोऽनिमिषरूपाय नमः कमठरूपिणे ।

नमस्ते कोलवपुषे नमो नृहरिरूपिणे ॥ ८२ ॥

नमो वामनरूपाय त्रैलोक्याक्रान्तिहेतवे ।

नमोऽस्तु जामदग्न्याय दृप्तक्षत्रप्रशासिने ॥ ८३ ॥

नमोऽस्तु दाशरथये रामायामिततेजसे ।

नमोऽस्तु बलभद्राय प्रलम्बध्वम्सकारिणे ॥ ८४ ॥

नमो यदुनाम् पतये वासुदेवाय वेधसे ।

नमस्ते कल्किरूपाय दुष्टजन्तुप्रमाथिने ॥ ८५ ॥

नमः शुचिषदे तुभ्यम् हम्साय परमात्यने ।

ज्ञानशक्तिबलैश्वर्यवीर्यतेजाम्सि ते विभो ॥ ८६ ॥

नित्यान्येव यतस्तस्माद्भगवाम्स्त्वम् नहीतरः ।

नमस्ते जगदीशाय नमस्ते जगदात्मने ॥ ८७ ॥

नमस्ते पद्मनाभाय नमस्ते पद्मपाणये ।

नमस्ते पद्मपादाय तुभ्यम् पद्मदृशे नमः ॥ ८८ ॥

नमः पुरस्ताद्भगवन्नमस्ते पृष्ठतो विभो ।

नमस्ते पार्श्वयोर्देव नमस्ते सर्वतो हरे ॥ ८९ ॥

नमस्तेऽस्तु सकृद्देव द्वित्रिरस्तु नमस्तव ।

शतकृत्वो नमस्तेऽस्तु नमस्तेऽस्तु सहस्रधा ॥ ९० ॥

पुनः पुनर्नमस्तेऽस्तु नमस्तेऽस्तु पुनः पुनः ।

भूयो भूयो नमस्तेऽस्तु भूयो भूयो नमो नमः ॥ ९१ ॥

स्कन्दः-

इति स्तुवन्तम् राजानम् भक्तिप्रवणमानसम् ।

प्राह गम्भीरया वाचा भगवान्भक्तवत्सलः ॥ ९२ ॥

श्रीभगवान् –

प्रीतोऽस्मि तव राजेन्द्र तपसा दुश्शकेन ते ।

तपो हि भवता तप्तम् दुश्चरम् दैवतैरपि ॥ ९३ ॥

स्तोत्रम् च यत्कृतम् राजम्स्त्वया परमशोभनम् ।

तेन चास्मि विशेषेण प्रीतस्तेऽहम् नरेश्वर ॥ ९४ ॥

वरम् वरय विस्रब्धो यश्च तेऽभिमतो हृदि ।

जानाम्यहमथापि त्वन्मुखादिच्छामि वेदितुम् ॥ ९५ ॥

राजा –

सर्वेषामात्मभूतस्त्वम् भूतानाम् भूतभावनः ।

अज्ञातम् नास्ति ते देव तथाप्येतद्विविच्यते ॥ ९६ ॥

मृगयायाम् हि यज्जातम् दुरितम् गोवधात्मकम् ।

तत्क्षम्यताममेयात्मन्भवता मधुसूदन ॥ ९७ ॥

पवित्राणाम् हि परमम् पवित्रम् तव दर्शनम् ।

तवावलोकनान्तम् तद्भूतानाम् दुरितम् हरे ॥ ९८ ॥

श्रीभगवान् –

सत्यमात्थ महाराज भूतानाम् दुरितोदयः ।

मद्दर्शनान्तो नास्त्यत्र सम्शयः किम् पुनस्तव ॥ ९९ ॥

व्यपेतु दुःखम् मनसो भवतो नृपनन्दन ।

बुद्धिपूर्वम् त्वया नेदम् कृतम् कर्म जुगुप्सितम् ॥ १०० ॥

बलादाक्रममाणम् गाम् दुष्टव्याघ्रम् जिघाम्सता ।

त्वया कृतो बाणमोक्षस्तेन रोषाद्धता हि सा ॥ १०१ ॥

तस्मान्नात्र त्वया कार्यश्शोकशङ्कुर्मनागपि ।

तपश्च सुमहत्तप्तम् भवता नियतात्मना ॥ १०२ ॥

तेन प्रीतोहमधुना दद्मि ब्राह्मण्यमुत्तमम् ।

अनेनैव शरीरेण ब्राह्मणस्त्वम् भविष्यसि ॥ १०३ ॥

ब्राह्मण्यैकाश्रयास्सर्वे ते ते मन्त्राः स्फुरन्तु ते ।

मदम्शो यो महावीर्यश्शेषाख्यो धरणीधरः ॥ १०४ ॥

जगतामुपकाराय तव वम्शे भविष्यति ।

तद्वम्श्याश्च भविष्यन्ति महाभागा दृढब्रताः ॥ १०५ ॥

भक्तिमन्तो मयि सदा ब्राह्मणा ब्रह्मवित्तमाः

त्वद्वम्श्यजानामखिलम् दिशन्नहमभीप्सितम् ॥ १०६ ॥

स्थास्याम्यत्रैव सुमते यावद्वैवस्वतान्तरम् ।

भूतैरियम् कृता पूर्वम् पुरी पुण्यविवर्द्धनी ॥ १०७ ॥

प्रीतये मम राजेन्द्र रम्या स्वारोचिषान्तरे ।

तदन्तरावसाने च जीर्णवन्या किलाभवत् ॥ १०८ ॥

कुरुष्व नगरीमेनामद्य पूर्ववदेव हि ।

अनन्तसरसश्चास्य प्राचीने रोधसि प्रभो ॥ १०९ ॥

ममालयम् च क्रियताम् नानारत्नपरिष्कृतम् ।

मासश्चैत्रो ह्ययम् शुक्लः पक्षश्चातिमनोहरः ॥ ११० ॥

आरभ्यताम् च सप्तम्यामद्यैव मम चोत्सवः ।

पौर्णमास्यामवभृथम् कुरुष्व कुलनन्दन ॥ १११ ॥

यदद्य भवता प्रोक्तम् स्तोत्रम् मत्प्रीतये नृप ।

तेन प्रातस्तथा सायम् ये माम् स्तोष्यन्ति मानवाः ॥ ११२ ॥

तेषामभीष्टमखिलम् मत्प्रसादाद्भविष्यति ।

अद्य प्रभृति तस्मात्त्वम् मदाराधनतत्पर : ॥ ११३ ॥

पुत्रपौत्रान्वितोऽत्रैव वस्तुमर्हसि मानद ।

त्वद्वंश्याश्च पुरेत्रैव स्थास्यन्ति सुखिनो द्विजाः ॥ ११४ ॥

मच्चित्ता मद्गतप्राणा वेदवेदान्तपारगाः ।

स्कन्दः-

इत्युक्तो देवदेवेन हरितः प्रीतमानसः ॥ ११५ ॥

पुरीम् मनोहराम् चक्रे यथापूर्वमभूद् द्विज ।

दिव्यालयम् च देवस्य नानामणिविभूषितम् ॥ ११६ ॥

तपःप्रभावाद्भगवत्प्रसादाच्च तदीप्सितम् ।

क्षणादेवाभवत्सर्वम् तदद्भुतमिवाभवत् ॥ ११७ ॥

अथ दिव्यालये तस्मिन्विमानेन सहैव तम् ।

स्थापयामास देवेशम् वैखानसविधानतः ॥ ११८ ॥

तस्मिन्नेव दिने विष्णोरारभ्योत्सवसत्क्रियाम् ।

कारयामास विधिवत्तैरेवावभृथक्रियाम् ॥ ११९ ॥

प्रत्यब्दमेवम् हरितः कारयन्नुत्सवम् हरेः ।

तत्प्रसादाच्छरीरान्ते तत्सायुज्यमुपेयिवान् ॥ १२० ॥

तदा प्रभृति देवेशो हरिते प्रीतिमावहन् ।

तद्वम्श्यैरर्च्य॑तेऽद्यापि भगवानादिकेशवः ॥ १२१ ॥

एवम्भूतपुरस्यैतन्माहात्म्यम् कुम्भसम्भव ।

कथितम् ते समासेन किमन्यच्छ्रोतुमिच्छसि ॥ १२२ ॥

इति स्कान्दे पुराणे स्कन्दागस्त्यसम्वादे श्रीभूतपुरीमाहात्म्ये

तृतीयोऽध्यायः




श्री भूतपुरीमाहात्म्यम् – अध्यायः४


अगस्त्यम् प्रति स्कन्दकृतानन्तसरोमाहात्म्यवर्णनप्रकारः

सूतः-

एवमुक्तो भगवता स्कन्देन कलशोद्भवः ।

प्राञ्जलिः प्रश्रयादेतदब्रवीच्छिखिवाहनम् ॥ १ ॥

अगस्त्यः

श्रुतमेतन्मया त्वत्तो माहात्म्यम् नगरस्य हि ।

तीर्थस्य तस्य माहात्म्यम् वक्तुमर्हसि मे प्रभो ॥ २ ॥

स्कन्दः-

हन्त ते कथयिष्यामि पुरावृत्तम् मुनीश्वर ।

माहात्म्यानुगतम् तस्य सरसः पुण्यवर्द्धनम् ॥ ३ ॥

अस्ति त्रैलोक्यविख्यातः सुकेतुर्नाम नामतः ।

सत्यसन्धो महेष्वासो धर्मात्मा पाण्ड्यभूपतिः ॥ ४ ॥

तस्य पत्न्योऽभवन्सप्त वह्नेः सप्तेव जिह्विकाः ।

रूपयौवनशालिन्यो भर्तुः प्रियहिते रताः ॥ ५ ॥

न तासु कम् चिदात्मानुरूपम् पुत्रमविन्दत ।

ततो गोकर्णमासाद्य तोषयामास शङ्करम् ॥ ६ ॥

तपसा दुश्चरेणाथ परितुष्टोऽभवच्छिवः ।

उवाच चैनम् भगवानुमापतिरुदारधीः ॥ ७ ॥

रुद्रः-

भो भो क्षत्रियदायाद परितुष्टोऽस्मि तेऽधुना।

मनोगतं ते जानामि मा शुचो भद्रमस्तु ते ॥ ८ ॥

या इमाः सप्त पत्न्यस्ते न तासूत्पत्स्यते सुतः ।

पूर्वजन्मनि शप्तास्ताः केनचिन्मुनिना रुषा ॥ ९ ॥

सार्वभौमपतिं प्राप्य यूयम् वन्ध्या भविष्यथ ।

राजा-

किम् कृतम् हेलनम् तस्य मुनेराभिर्महात्मनः ॥ १० ॥

येन शप्ता इमाः कोसौ काश्चैताः पूर्वजन्मनि ।

रुद्रः-

राजन् श्रुणु पुरा वृत्तम् विन्ध्ये पर्वतसत्तमे ॥ ११ ॥

स्थूलाक्ष इति विख्यातः कश्चिन्मुनिवरोऽभवत् ।

मधूदकमिति ख्यातम् तत्र किश्चिन्महत्सरः ॥ १२ ॥

तद्रोधस्यन्तिमपदम् कृत्वा तेपे महत्तपः ।

तस्य पत्नी महाभागा सत्यधर्मपरायणा ॥ १३ ॥

भर्तृशुश्रूषणपरा पतिम् पर्यचरत्सती ।

तस्यैवम् वर्तमानस्य तपस्यभिरतस्य च ॥ १४ ॥

व्यतीयाय महाकालः शतसाहस्रवार्षिकः ।

सैकदा दयितम् कान्तम् ययाचे वरवर्णिनी ॥ १५ ॥

पुत्रमात्मानुरूपम् ते दातुमर्हसि सुव्रत ।

एवमुक्तस्तथेत्युक्त्वा गजरूपम् समास्थितः ॥ १६ ॥

ताम् कृत्वा करिणीमप्सु मैथुनायोपचक्रमे ।

एतस्मिन्नेव काले तु सप्ताप्सरस उत्तमाः ॥ १७ ॥

दिवोऽवतेरुर्धरणीम् लीलायै रचितादराः ।

तिलोत्तमोर्वशी रम्भा मेनका पुञ्जिकस्थला ॥ १८ ॥

विश्वाची च घृताची च विन्ध्यम् पर्वतमागताः ।

ददृशुस्तम् महाशैलम् बहुकाननकन्दरम् ॥ १९ ॥

नानाविहगसङ्कीर्णम् नानामृगनिषेवितम् ।

नानातरुभिराकीर्णम् मञ्जरीपुञ्जहारिभिः ॥ २० ॥

अवलोक्य समन्तात्तमलसादेव योषितः ।

परिश्रमेण खिन्नास्ता जले स्नातुम् मनो दधुः ॥ २१ ॥

स्नातुकामास्तदा तास्तु मधूदन्नाम तत्सरः ।

आगत्य ददृशुस्तत्र दम्पती दन्तिरूपिणौ ॥ २२ ॥

ता दृष्ट्वा मुनिपत्नी सा लज्जात्राससमन्विता ।

अदृश्याऽभूत्सा च जलादुत्ततार स्वरूपधृक् ॥ २३ ॥

ता वीक्ष्य तापसः क्रुद्धो निर्दहन्निव चक्षुषा ।

इदमाह वचः क्रूरम् रोषप्रस्फुरिताधरः ॥ २४ ॥

मुनिः-

पत्न्या मे पुत्रकामाया नैव तृप्तिर्यतोऽभवत् ।

अतो यूयम् महीपृष्ठे मानुष्यम् प्राप्य गर्हितम् ॥ २५ ॥

रूपयौवनसम्पन्नाः सार्वभौमस्य भूपतेः ।

अनन्यसुलभम् लोके पत्नीत्वम् प्रतिपद्य च ॥ २६ ॥

चिरम् पुत्राभिलाषिण्यः सर्वा वन्ध्या भविष्यथ ।

इत्युक्त्वाऽन्तदेधे सद्यः स मुनिः पार्थिवर्षभ ॥ २७ ॥

ता इमाश्चोलराजस्य सप्तपुत्र्योऽभवन्किल ।

तस्मादेतास्वपत्यम् ते न भविष्यति किञ्चन ॥ २८ ॥

अथापि ते प्रवक्ष्यामि पुत्रोत्पत्तिकरम् विधिम् ।

अस्त्युत्तरस्याम् दिशि तु क्षेत्रम् किञ्चित्सुपावनम् ॥ २९ ॥

सत्यव्रतमिति ख्यातम् विद्धि क्षेत्रम् तपस्यताम् ।

तत्रारुणाख्यम् विपिनम् सिद्धगन्धर्वसेवितम् ॥ ३० ॥

चकास्ति दिव्यतरुभिः सङ्कीर्णम् कल्पकोपमैः ।

तत्र चास्ति सरः किञ्चिदनन्ताख्यम् मनोहरम् ॥ ३१ ॥

अभीष्टार्थप्रदम् पुम्सामत्यच्छसलिलायुतम् ।

तत्र ध्यायन् हरिम् भक्त्या स्नात्वा नियतमानसः ॥ ३२ ॥

अचिराल्लप्स्यसेऽभीष्टमत्र ते नास्ति सम्शयः।

तद्गच्छ त्वरितम् राजन् सत्यव्रतमितोऽधुना ॥ ३३ ॥

स्कन्दः-

इत्यादिष्टो भगवता सुकेतुस्त्रिपुरद्विषा ।

तम् प्रणम्याजगामाशु तत्क्षेत्रम् पापनाशनम् ॥ ३४ ॥

तत्र दृष्ट्वा सरः स्वच्छम् सम्प्रहृष्टतनूरुहः ।

सस्नौ परमया भक्त्या सम्स्मरन्मधुसूदनम् ॥ ३५ ॥

ततः कदाचित्तम् देशमाजगाम यदृच्छया ।

अप्सरा सुरुचिर्नाम सह पुत्र्या महामते ॥ ३६ ॥

सा तदाश्रममासाद्य सत्कृता तेन भूभुजा ।

सरोवगाह्य विमलम् मुहूर्तम् तत्र सम्स्थिता ॥ ३७ ॥

तत्कन्या समवेक्ष्यैनम् कोटिकन्दर्पसुन्दरम् ।

चकमे स च ताम् दृष्ट्वा स्मरस्य वशमीयिवान् ॥ ३८ ॥

तयोर्भावमभिज्ञाय सुरुचिः प्रीतमानसा ।

ताम् कन्याम् प्रददौ तस्य रमयामास सा च तम् ॥ ३९ ॥

समुद्वाह्य विधानेन ताम् कन्याम् पाण्ड्यभूपतिः ।

रममाणस्तया सार्द्धम् निनाय कतिचित्समाः ॥ ४० ॥

दधार गर्भमचिरात्सुषुवे च समुज्ज्वलम् ।

पुत्रम् सुकेतुर्नाम्ना तम् द्युतिमन्तमथाकरोत् ॥ ४१ ॥

तस्यानुजौ द्वौ क्रमतः सञ्जातौ देवरूपिणौ ।

सुदर्शनः सुप्रतीक इति नाम्ना प्रकीर्तितौ ॥ ४२ ॥

ततः सञ्जाततारुण्यो द्युतिमान् रुचिराननः ।

पद्मपत्रविशालक्षः परिघायतबाहुकः ॥ ४३ ॥

विशालवक्षा विबभौ कन्दर्प इव मूर्तिमान् ।

सम्प्राप्तयौवनम् राजा तमालोक्य महाभुजम् ॥ ४४ ॥

निजम् नगरमासाद्य तस्योद्वाहमचीकरत् ।

अथाभिषिच्य राज्ये स्वे द्युतिमन्तम् सुतम् नृपः ॥ ४५ ॥

भूयः सत्यव्रतम् क्षेत्रम् प्रपेदे चारुणम् वनम् ।

तत्रानन्तसरस्तीर्थे स्नानम् कुर्वन्यथाविधि ॥ ४६ ॥

समर्चयन्सदा ध्यायन्हृदि नारायणम् प्रभुम् ।

शरीरान्ते समभजत्तद्विष्णोः परमम् पदम् ॥ ४७ ॥

एवम् सुकेतुर्विप्रर्षे तत्तीर्थस्नानमात्रतः ।

पुत्रानवाप सुचिराद्भार्याम् चाप्सरसः सुताम् ॥ ४८ ॥

एवमन्ये च बहवस्तत्तदिष्टार्थकाम्यया ।

तत्र स्नानम् प्रकुर्वन्तः सर्वान्कामान् प्रपेदिरे ॥ ४९ ॥

पुत्रार्थी लभते पुत्रान् पशुकामः पशूनपि ।

भार्यार्थी च प्रियाम् भार्याम् धनकामो धनान्यपि ॥ ५० ॥

ब्राह्मणो ब्रह्मविद्याश्च राज्यम् राजन्यवम्शजः ।

धनम् च लभते वैश्यः सन्मानम् तुर्यजातिजः ॥ ५१ ॥

अनन्तसरसि स्नाने किञ्चिन्नैवास्ति दुर्लभम् ।

धर्मार्थकाममोक्षाणाम् साधनम् सर्वदेहिनाम् ॥ ५२ ॥

वैशाखशुक्लद्वादश्याम् स्नानम् तत्र विधानतः ।

स्नानात्सरस्वनन्तेषु यत्फलम् लभते नरः ॥ ५३ ॥

तदनन्तसरःस्नानाल्लभते नात्र सम्शयः ।

गङ्गायाम् वर्षसाहस्रम् माघस्नानेन यत्फलम् ॥ ५४ ॥

वैशाखशुक्लद्वादश्याम् तदनन्तसरोजले ।

चैत्रमासे सिते पक्षे सप्तम्याम् पूर्णिमासु च ॥ ५५ ॥

वैशाखशुक्लपक्षे च चतुर्थ्याम् मृगशीर्षके ।

द्वादश्यामपि हस्तर्क्षे यदनन्तसरोवरे ॥ ५६ ॥

लभते मनुजः स्नानम् नहि तस्यास्ति दुर्लभम् ।

चैत्रे तु शुक्लसप्तम्याम् यः स्नात्वाऽनन्ततीर्थके ॥ ५७ ॥

दद्याद्धिरण्यम् विप्राय स धनेशत्वमाप्नुयात् ।

पूर्णिमायाम् तु यश्चैत्रे तत्र स्नात्वा विधानतः ॥ ५८ ॥

कुर्याद्गोदानमतुलम् स गोलोके चिरम् वसेत् ।

सितपक्षचतुर्थ्याम् तु वैशाखे मासि यो नरः॥ ५९ ॥

अनन्तसरसि स्नात्वा ब्राह्मणेभ्यो यथाविधि ।

वस्त्राणि दद्यात्स स्वर्गे दिव्यवस्त्रधरो भवेत् ॥ ६० ॥

वैशाखशुक्लद्वादश्याम् योऽनन्तसरसीजले ।

स्नात्वा कन्याः प्रयच्छन्ति विप्राय ब्रह्मचारिणे ॥ ६१ ॥

तेषामप्सरसस्सर्वा भविष्यन्ति वशम्वदाः ।

एवमुक्तेषु कालेषु कालेष्वन्येषु वा नरः ॥ ६२ ॥

स्वशक्त्यनुगुणम् द्रव्यम् दद्याच्चेत्पुण्यभाग्भवेत् ।

मानसम् वाचिकम् चापि कायिकम् चापि यत्कृतम् ॥ ६३ ॥

हन्त्येव दुरितम् सर्वम् तत्र स्नानम् शरीरिणाम् ।

अनन्तसरसि स्नानादपि यन्नापनुद्यते ॥ ६४ ॥

तत्पापम् नैव पश्यामि पापिनामपि देहिनाम् ।

तत्क्षेत्रम् तद्वनम् तच्च नगरम् तत्सरोवरम् ॥ ६५ ॥

तम् चादिकेशवम् देवम् स्मृत्वा पापैर्विमुच्यते ।

सत्यव्रतसमम् क्षेत्रम् वनम् चारुणतुल्यकम् ॥ ६६ ॥

नगरम् भूतपूस्तुल्यम् सरश्चैतत्समम् भुवि ।

आदिकेशवतुल्यम् च देवमर्चासु कञ्चन ॥ ६७ ॥

विमृशन्बहुधा चित्ते न पश्यामि कथञ्चन ।

किम् वात्र बहुनोक्तेन सन्क्षेपश्श्रूयताम् मुने ॥ ६८ ॥

अनन्तसरसि स्नानमादिकेशवदर्शनम् ।

भूतपत्तनवासम् च नराणाम् जन्मनः फलम् ॥ ६९ ॥

एवमेतन्मया प्रोक्तम् भूतपत्तनवैभवम् ।

अनन्तसरसश्चैव माहात्म्यम् पापनाशनम् ॥ ७० ॥

धन्यम् यशस्यमायुष्यम् स्वर्ग्यम् सौभ्रात्रकारकम् ।

सर्वपापक्षयकरम् सर्वमङ्गलसाधनम् ॥ ७१ ॥

नैतच्छठाय वक्तव्यं नास्तिकाय दुरात्मने ।

न जिह्याय न मूर्खाय न महापापकारिणे ॥ ७२ ॥

न विष्णुभक्तिहीनाय न भागवतवैरिणे ।

नान्यदैवतभक्ताय नैव पाषण्डसङ्गिने ॥ ७३ ॥

वक्तव्यं ब्राह्मणायैव वैष्णवाय विशेषतः ।

भगवद्भक्तियुक्ताय प्रशान्तायामलात्मने ॥ ७४ ॥

भगवद्गुणसक्ताय तच्छुश्रूषारताय च ।

वर्णाश्रमाचारवते दान्ताय नियताय च ॥ ७५ ॥

गुणज्ञाय बहुज्ञाय गुरूपासनशालिने ।

रहस्यमेतत्कथितम् त्वयि प्रीत्या महामुने ॥ ७६ ॥

माहात्म्यम् भूतपुर्यास्तु मया कलशनन्दन ।

सूतः-

एवमुक्तस्तदा तेन स्कन्देन कलशोद्भवः ॥ ७७ ॥

प्राञ्जलिः प्रश्रयादेतदूचे सम्हृष्टमानसः ।

अगस्त्यः-

धन्योस्म्यनुगृहीतोस्मि यस्य मे शिखिवाहन ॥ ७८ ॥

त्वयैतत्कथितम् पुण्यम् भूतपुर्यास्तु वैभवम् ।

त्वत्प्रसादान्मया सर्वम् श्रुतम् माहात्म्यमुत्तमम् ॥ ७९ ॥

क्षेत्रस्य विपिनस्यापि तीर्थस्य नगरस्य च ।

हरितस्य विशेषेण यो ब्राह्मण्यमुपेयिवान् ॥ ८० ॥

अहो महान्महाभाग भवतो मय्यनुग्रहः ।

नास्ति धन्यतरो मत्तो भुवने कश्चनाधुना ॥ ८१ ॥

कृतार्थोहम् कृतार्थोहम् नमस्ते शम्भुनन्दन ।

सूतः-

एतद्वस्सर्वमाख्यातम् यन्माम् पृच्छथ सत्तमाः ॥ ८२ ॥

भूतपुर्यास्तु माहात्म्यम् सर्वपापहरम् शुभम् ॥ ८३ ॥

इति स्कान्दे पुराणे स्कन्दागस्त्यसम्वादे श्रीभूतपुरीमाहात्म्ये

चतुर्थोऽध्यायः


॥ इति श्रीभूतपुरीमाहात्म्यम् सम्पूर्णम्