श्रीमदहोबिलमाहात्म्यम् Part 3

श्रीः

श्रीमते रामानुजाय नमः

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम् ॥ (Continued)

॥ श्रीमदहोबिलमाहात्म्ये षष्ठोऽध्यायः ॥

ऋषयः

कथमेतद्वधम्चक्रेभगवान्पुरुषोत्तमः।

कथम्वाब्रह्मणादत्तमरक्षत्वरमात्मनः॥१॥

हिरण्यकशिपोश्चैवप्रह्लादस्यमहात्मनः।

कथमासीन्महद्वैरम्तन्मेब्रूहिसविस्तरम्॥२॥

श्रीनारदः

विप्रचित्तसुतस्यास्यहिरण्यस्यसुरद्विषः।

चत्वारस्तनयाआसन्बलवीर्यगुणालयाः॥३॥

अनुह्लादश्चह्लादश्चसम्ह्लादश्चैवधर्मवित्।

प्रह्लादश्चमहावीर्योदैत्यवम्शविवर्धनः॥४॥

तेषाम्मध्येमहाभागःसमदृक्सचराचरे।

प्रह्लादःपरमाम्भक्तिम्यउवाहजनार्दने॥५॥

सतुबाल्येविवेकात्मागुरोर्वचनगौरवात्।

पपाठबालवाक्यानिगुरुगेहेमहर्षिभिः॥६॥

कदाचिद्गुरुणासार्धम्जगामपितृमन्दिरम्।

पानासक्तस्यपुरतोहिरण्यकशिपोःपदम्॥७॥

कराभ्याम्प्रतिजग्राहसुतमुत्थाप्यसोऽसुरः।

हिरण्यकशिपुप्राहप्रह्लादम्धर्मवित्तमम्॥८॥

सुभाषितम्सारतमम्वत्सप्रह्लादकथ्यताम्।

शिक्षितम्गुरुणायत्तुकालेनैतावतात्वया॥९॥

प्रह्लादः

वक्ष्यामिशृणुतातेदम्सारभूतम्तवाज्ञया।

चित्तम्समाहितम्कृत्वायन्मेमनसिसम्स्थितम्॥१०॥

आदिमध्यान्तरहितमवृद्धिक्षयमव्ययम्।

प्रणतोऽस्मिसदानन्दम्सर्वकारणकारणम्॥११॥

श्रुत्वैतद्वचनम्घोरम्कोपेनस्फुरिताधरः।

तद्गुरुम्प्राक्षितम्प्राहकिमेतदितिचिन्तयन्॥१२॥

किमेतत्कृतवान्मूढोविपक्षस्तुतिसम्युतम्।

बालम्हिमूढमाचेख्युःपुनर्मूढमुपागतम्॥१३॥

गुरुः

दैत्येन्द्रमयिकोपोऽयमकाण्डेकल्पितःप्रभो।

मयोक्तम्वचनम्किञ्चिन्नगृह्लातितवात्मजः॥१४॥

हिरण्यः

प्रह्लाद कथ्यतामेतत् शिक्षायाः कस्य वा फलम् ।

नमयाप्रोक्तमित्याहगुरुस्तेमूढचेतनः॥१५॥

प्रह्लादः

हृदिस्थितःसमस्तानाम्भूतानाम्भगवान्हरिः।

तमृतेपरमात्मानम्तातकःकेनशास्यते॥१६॥

हिरण्यः

मयिस्थितेमहाभागेत्रैलोक्यैश्वर्यभर्तरि।

मूढविष्णुरितिप्रोक्तम्मृषैवेत्यवधारय॥१७॥

प्रह्लादः

सूक्ष्मज्ञोविभुरज्ञेयआत्मदःशब्ददूरगः।

योविश्वम्विश्वतोव्याप्तःसविष्णुःपरमेश्वरः॥१८॥

हिरण्यः

यदयम्बालिशःप्राहवचनम्त्वसमञ्जसम्।

ध्रुवम्चेतसियःकश्चिदस्यविष्णुर्दुरात्मनः॥१९॥

प्रह्लादः

हृदयम्हिममाविष्टःकेवलम्परमेश्वरः।

भुवादीनखिलान्लोकान्सम्युक्तःसर्वगोचरः॥२०॥

हिरण्यः

निष्क्राम्यतामयम्दुष्टःशासनीयःपुनःपुनः।

केनेयम्कल्पितावार्ताविपक्षस्तुतिसम्युता॥२१॥

श्रीनारदः

इत्युक्तेबालिशेदैत्याःप्रह्लादम्धर्मसुंयुतम्।

आनिन्युर्गुरुगेहम्तुनीतिम्जग्राहसोऽप्यथ॥२२॥

कालेऽतीतेतुमहतिप्रह्लादमसुरेश्वरः।

समाहूयाब्रवीत्काचित्गाथापुत्रकगीयताम्॥२३॥

प्रह्लादः

यस्मात्तुप्रकृतिर्जीवःप्रपञ्चोऽयम्यतोबभौ।

समेदेवःप्रसन्नःस्यात्कारणस्यापिकारणम्॥२४॥

हिरण्यः

वध्यताम्वध्यतामेनम्व्यर्थमेतस्यजीवितम्।

शुष्कवम्शइवाभातिस्वकुलस्यविनाशकः॥२५॥

इत्थमाकर्ण्यवचनम्दैतेयास्तुसहस्रशः।

जगृहुःशस्त्रजालानिज्वालामालाकुलानिवै॥२६॥

प्रह्लादः

नाक्रमिष्यन्त्यायुधानिसत्यमेतद्वदामिवः।

दैतेयामयियुष्मासुविष्णुःशस्त्रेषुसम्स्थितः॥२७॥

तस्यवाक्यमनादृत्यदैत्यास्तेशस्त्रपाणयः।

प्रह्लादम्परितःस्थित्वाजघृरत्यन्तकोपिताः॥२८॥

हिरण्यः

प्रह्लाद विनिवर्तस्व जहि शत्रुकथासुत ।

अभयम्तेप्रदास्यामिमौढ्यम्तेकथमागतम्॥२९॥

प्रह्लादः

भूतानाम्प्रभवैविष्णौहृदिस्थेकुत्रवाभयम्।

तस्मिन्स्थितेजन्मजरामृतिकेनविपद्यते॥३०॥

हिरण्यः

भोभोसर्पागुरोर्भारम्कालकूढविषोल्बणाः।

समानयतसद्योवैयमस्यायतनम्प्रति॥३१॥

इत्युक्तास्तक्षकमुखाःपन्नगास्तुसहस्रशः।

ददम्षुः सर्पगात्रेषु मर्मस्वतिविषोल्बणाः ॥३२॥

प्रह्लादश्चिन्तयन्विष्णुम्गरुडोपरिसम्स्थितम्।

नवेदसर्वसम्भूताम्वेदनामतिदुस्तराम्॥३३॥

सर्पाः

फणिनाम्हृदयेतापोविशीर्णादन्तपङ्क्तयः।

तवपुत्रस्यगात्रेषुनछिद्रम्विद्यतेक्वचित्॥३४॥

ततस्तुदिग्गजामत्ताःप्रेषिताःसुरवैरिणा।

भूभृच्छिखरमारोप्यपातयन्तिस्मभूतले॥३५॥

अपीड्यतसतैर्बालोविषाणैरुग्रकर्मभिः।

नावापवेदनाम् किञ्चिद्गोविन्दासक्तमानसः॥३६॥

शीर्णादन्तागजेन्द्राणामुवाचपितरम्सुतः।

तातनैतत्त्बलम्मेऽस्तिप्रभावःपरमात्मनः॥३७॥

यतःशीर्णागजेन्द्राणाम्दन्ताःकुलिशनिष्ठुराः।

हिरण्यकशिपुःक्रुद्धोदैतेयानिदमब्रवीत्॥३८॥

जाज्वल्यतामयम्वह्निरपसर्पतदिग्गजाः।

वायोसमेधयाग्नेत्वम्दहैनम्पापकृत्तमम्॥३९॥

इत्युक्ताश्चितिमारोप्यमहाकाष्ठसमुच्छ्रिताम्।

प्रज्वाल्यदानवावह्निम्ददहुःसोऽब्रवीद्वचः॥४०॥

वायुनावर्धितोह्येषवह्निरत्यन्तमुल्बणः।

नमाम्दहतिपश्यामिपद्मास्तरणमीदृशम्॥४१॥

इदम्वचनमाकर्ण्यदैत्यराजम्पुरोहितः।

वचनैश्चन्दयामासदैत्येन्द्रमतिकोपनम्॥४२॥

बालोऽयम्किम्नजानातिबाल्यम्दोषकरम्महत्।

कृत्याकृत्यविमुक्तात्माबाल्यएवहिवर्तते॥४३॥

तस्मादस्मद्वासनयाबुद्धियुक्तोभविष्यति।

नोचेत्कृत्याम्प्रमोक्ष्यामोययामृत्यम्गमिष्यति॥४४॥

इत्युक्त्वाबालकोनीतःपुरोहितगृहान्प्रति।

तत्रस्थित्वानीतिशास्त्रम्पपाठबहुविस्तरम्॥४५॥

मध्येऽवकाशमालम्ब्यविप्राम्स्तानिदमब्रवीत्॥४६॥

विवेकोनास्तियुष्माकम्यथादैत्यपतेर्द्विजाः।

सम्सारेवीतसारेऽस्मिन्कुतःसौख्यम्तुविद्यते॥४७॥

सुप्तावस्तास्वयम्जन्तुर्दुःखदुखेनजीवति।

षड्भावानाम्विकाराणाम्कथम्सम्हरणक्रमः॥४८॥

दुःखमेवम्हरिध्यानम्तदेवात्यन्तिकम्भिषक्।

कथम्तेषाम्नसन्देहोयुष्माकमपिलभ्यते॥४९॥

इत्येवम्बहुधाप्रोक्तमाकर्ण्यचपुरोहिताः।

हिरण्यकशिपोर्भीतास्तस्मैसर्वम्न्यवेदयन्॥५०॥

सतुकोपेनसम्रक्तनयनस्त्वसुरेश्वरः।

सूदानाहूयबलिनोवचनम्चेदमबवीत्॥५१॥

अन्नेनदीयतामस्मैविषम्हालाहलाह्वयम्।

तद्भुक्त्वाबालिशःक्षिप्रम्यमलोकम्गमिष्यति॥५२॥

इत्युक्तैस्तैस्तुतद्दत्तम्प्रह्लादोऽनन्तचिन्तकः।

जरयामासधर्मात्मायदाह्यन्नम्सुसम्स्कृतम्॥५३॥

सूदाश्च भयमापन्ना दैत्यराजमथाब्रुवन् ॥५४॥

राजन्विषम्दत्तमतीवभीषणम्

अस्मोभिरत्यन्तसमाहितात्मभिः।

अन्नेनभक्ष्यैःसहपेयवर्गैः

जीर्णम्विचित्रम्भुवनेष्वदृष्टम्॥५५॥

एतच्छ्रुत्वादैत्यराजःप्राहचैतान्पुरोहितान्।

त्वरयन्तुविनाशायदुष्टस्यास्यसमीहिताम्॥

उत्पादयन्तुकृत्याम्वैसद्योनाशकरीम्पराम् ॥५६॥

ततःसकाशमागत्यप्रह्लादस्यपुरोहिताः।

सामपूर्वमथोचुस्तेप्रह्लादम्विनयान्वितम्॥५७॥

प्रह्लादजातोविख्यातेकुलेमहतिवेधसः।

हिरण्यकशिपोःपुत्रोज्ञातोऽसिपृथिवीतले॥५८॥

किम्देवैरल्पवीर्यैस्तुकिमनन्तेनशम्भुना।

समस्तलोकशास्तायम्त्वत्पितातुहिरण्यकः॥५९॥

तस्मात्परित्यजकथाम्विपक्षस्तुतिसम्युताम्॥६०॥

प्रह्लादः

तथ्यमेतद्गुरुवराःश्लाघ्यमेतद्गुरोःकुलम्।

पिताचसर्वलोकानाथाश्लाघ्यश्चपरिपालकः॥६१॥

इदमन्यत्प्रवक्ष्यामिसत्यमेवावधार्यताम्।

यदुक्तम्किमनन्तेनेत्युक्तम्युष्माभिरञ्जसा॥

विविधानर्थजननाद्वाक्यमेतदनर्थकम् ॥६२॥

इत्युक्त्वासोऽपिमुनिवत्तूष्णीम्तेषाम्व्यवस्थितः।

पुनःप्रहस्यप्राहेदम्किमनन्तेनसात्त्विकी॥६३॥

यस्माद् भवतिलोकेऽस्मिन्पुरुषार्थचतुष्टयम्।

कोवाब्रूतेविवेकात्माकिमनेनेत्यचोदितः॥६४॥

मरीचिमिश्रामुनयो जनकाद्याश्च भूमिपाः ।

स्वेप्सितार्थमनुप्राप्तायस्मात्सकेथमल्पकः॥६५॥

कथञ्चिद्गुरवोयूयम्श्रोतव्यम्वचनम्मम॥६६॥

इत्युक्तेत्वतिसङ्क्रुद्धादैत्यराजपुरोहिताः।

कृत्यामुत्पादयामासुर्ज्वालामालाकरालिकाम्॥६७॥

सातिभीमातिसङ्क्रुद्धासम्हरन्तीजगत्रयम्।

शूलेननिशिताग्रेणप्रह्लादम्सञ्जघानवै॥६८॥

यतापात्रेकृतम्दानम्यथाषण्डेतुकन्यका।

तथाप्रह्लादमासाद्यशूलम्तच्चवृथाभवत्॥६९॥

शूलेभग्नेतुसव्रीडाशिथिलीकृतवैभवा।

पुरोहितान्दैत्यपतेःपुनर्दग्धम्प्रचक्रमे॥७०॥

एतद्वीक्ष्यमहद्घोरम्प्रह्लादोधर्मवित्तमः।

कृपयापरयाभक्त्याह्यनन्तम्शरणम्गतः॥७१॥

देवदेवजगन्नाथअनन्तपुरुषोत्तम।

कृत्ययादह्यमानम्माम्त्राहित्राहिजगत्पते॥७२॥

यथामयितथातेषुतथासर्वेषुजन्तुषु।

अवतीर्णोऽसिभगवन्अतःपाह्यच्युताग्रजान्॥७३॥

यथासर्पागजेन्द्राश्चमाम्च बाधितुमक्षमाः।

तथाद्विजोत्तमान्कृत्यानबाधेत्पुरुषोत्तम॥७४।

इत्युक्तेतेनकृत्यातत्प्रभावान्नाशमागता।

द्विजाभूयःप्रसन्नाश्चआशीर्भिस्तमतोऽषयन्॥७५॥

ततःप्राञ्जल्यःसर्वेहिरण्यायन्यवेदयन्।

सोऽपिविस्मयमापन्नःपुत्रम्पप्रच्छसादरम्॥७६॥

प्रह्लादसुप्रभावोऽसिकिमेतत्तेविचेष्टितम्।

किमेतत्साहसम्तातकिम्वामन्त्रादिसम्भवः॥७७॥

इत्युक्तेप्रणिपत्यासौपितुःपादावथाब्रवीत्।

ममनैसर्गिकोऽयम्वैनैवमन्त्रादिसम्भवः॥७८॥

सामान्योऽयम्प्रभावस्तुहृदिस्थोयस्यकेशवः॥७९॥

यस्तुसर्वेषुभूतेषुपापानिनविचिन्तयन्।

तस्यपापागमस्तात्हेत्वभावान्नविद्यते॥८०॥

नाहम्परेषाम्दोषाम्स्तुचिन्तयामिकदाचन।

चिन्तयामिहरिम्साक्षात्सर्वत्रास्मिन्व्यवस्थितम्॥८१॥

सर्वत्रात्मेश्वरम्ज्ञात्वासर्वभूतेष्ववस्थितम्।

कर्तव्यापण्डितैर्नूनम्भक्तिरव्यभिचारिणी॥८२॥

एतच्छुत्वातुदैत्येन्द्रःप्रासादाग्रमुपस्थितः।

कोपसम्रक्तनयनोदैत्यानाहसनिष्ठुरम्॥८३॥

प्रासादात्क्षिप्यतामेषशतयोजनमायतात्।

ततस्तेचिक्षिषुसर्वेप्रह्लादम्दैत्यकिङ्कराः॥८४॥

हृद्यनन्तम्समास्थायपपातपृथिवीम्प्रति॥८५॥

धरणीलोकमातातुपतमानम्तुभूतले ।

दधारसहसादेवीदधानम्हृदयेहरिम्॥८६॥

हिरण्यकशिपुर्दृष्ट्वासुतमव्याकुलाङ्गकम्।

शम्बरम्प्राहदुष्टात्मामायाशतविधायकम्॥८७॥

हेशम्बरमहाशक्तेदुर्जयोऽयम्सुतोमम।

मायासहस्रम्निर्मायशीघ्रमेनम्निघातय॥८८॥

शम्बरः

दैत्येन्द्रसूदयाम्येनम्पश्यमायाबलम्मम।

सहस्रमन्त्रमायानाम्पश्यकोटिशतम्तथा॥८९॥

इत्युक्त्वासोऽसृजन्मायाःशतशोऽथसहस्रशः।

प्रह्लादेभगवद्भक्तेसर्वत्रसमदर्शिनि॥१०॥

प्रह्लादोऽपिविशुद्धात्माशम्बरेवीतमत्सरः।

हृदयेस्वेसमाधायचिन्तयामासवैहरिम्॥९१॥

नृहरिश्चिन्त्यमानस्तुचक्रम्चैवसुदर्शनम्।

सहस्रादित्यासङ्काशम्सहस्रवदनम्परम्॥९२॥

वहन्तम्हारकेयूरकटकाङ्गदभूषणम्।

सर्वलोकक्षयकरम्सर्वाभरणभूषितम्॥९३॥

क्वणत्किङ्किणिजालेनराक्षसघ्नम्महारवम्।

व्याप्तकेशम्विरूपाक्षम्प्रणतार्तिहरम्परम्॥१४॥

रक्तमल्याम्बरधरम्रक्तचन्दनचर्चितम्।

रक्तवर्णम्रक्तनेत्रम्सहस्रारम्सदाशुचिम्॥

सुदर्शनाभिधानम्तुप्रेषयामासवैहरिः॥९५॥

तच्चशीघ्रम्समागत्यशम्बरेणविनिर्मिताः।

मायाश्चिच्छेदतरसातूलराशिमिवानलः॥९६॥

सहसानिधनम्नीतेमायाभिःसहशम्बरे।

शोषकम्नामवैवायुम्प्रेषयामासदैत्यराट्॥९७॥

सोऽपिसूक्ष्मातिवेगेनप्रविष्टोह्यतिदुस्सहः॥९८॥

प्रह्लादस्तमतिक्रूरम्ज्ञात्वाशोषकमारुतम्।

तस्यापिशोषकम्देवम्चिन्तयामासवैहरिम्॥९९॥

सहरिःक्षणमात्रेणशोषयामासमारुतम्॥१००॥

एवम्कृतेषुसर्वेषुमारणोपायराशिषु।

व्यर्थीकृतेषुसर्वत्रप्रह्लादेभगवत्प्रिये॥१०१॥

क्षयम्गतेशम्बरस्यमायाशतसहस्रके।

शोषितेशोषकेवायौतप्तायसिजलम्यथा॥१०२॥

प्रह्लादस्तुविशुद्धात्माप्रविश्यगुरुमन्दिरम्।

पपाठनीतिशास्त्राणिगुरोरुच्चारितम्यथा॥१०३॥

कालेऽतीतेहिरण्यस्यपितुर्गृहमुपागतः।

पित्रातुचोदितःप्राहगोविन्दासक्तमानसः॥१०४॥

शास्त्राणिशास्त्रज्ञानानिशास्त्रसाध्यम्चयत्फलम्।

सर्वम्विफलताम्यातिगोविन्देविमुखीकृते॥१०५॥

गोविन्दासक्ताचित्तानाम्यान्येववचनानिवै।

तान्येवधर्मशास्त्राणिनीतिशास्त्राणिवापुनः॥१०६॥

इत्युक्तेक्षुभितोऽत्यर्थनीहिरण्यकशिपुस्तदा।

स्वकिङ्करानुवाचेदम्बलवीर्यसमन्वितान्॥१०७॥

दुरात्माक्षिप्यतामेषप्रह्लादःकुलकण्ठकः।

नागपाशैर्दृढम्बद्ध्वासागरेतुभयङ्करे॥१०८॥

इत्युक्तास्तेनतेसर्वेविक्षिपुर्लवणार्णवे।

यथापारम्नगच्छेत्तुकथञ्चिदपिबालकः॥१०९॥

तस्योपरितरुञ्छैलान्पूरयामासुरञ्जसा॥११०॥

सतुध्यायन्विशुद्धात्माप्रणतार्तिहरम्हरिम्।

क्षणेनतीरमानीतोनवेदसतुवेदनाम्॥१११॥

यस्त्वासक्तमतिःकृष्णेतस्यसाम्सारिकाःक्रियाः।

क्षणेनविलयम्यान्तिस्वप्नलब्धधनम्यथा॥११२॥

असङ्गतम्ह्याश्रयणम्ह्याश्रयोमहदाश्रयः।

कर्तव्यःसमहाविष्णुर्येनैवम्रक्षतोऽर्भकः॥११३॥

प्रायेणमनुजालोकेसेवन्तेपुरुषाधमान्।

नचिन्तयन्तिगोविन्दम्चिन्तामात्रैणसर्वदम्॥११४॥

इतिबहुविधदुःखैर्भीषणैरुग्ररूपैः

दितिसुतपरिवृत्तैःपीडितोदैत्यसुनुः।

नचलतिकरुणार्तश्चैवसर्वेशभक्तेः

अचलइवमहौघैःपीडितस्तोयपूरैः॥११५॥

॥इतिश्रीब्रह्माण्डपुराणेक्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

षष्ठोऽध्यायः॥

श्रीः

श्रीमते रामानुजाय नमःऋ

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥श्रीमदहोबिलमाहात्म्येसप्तमोऽध्यायः॥

श्रीनारदः

प्रह्लादस्तुविशुद्धात्मातीराद्वैसागरस्यतु।

हिरण्यकशिपोर्गेहमाससादमुदान्वितः॥१॥

पितुर्जाग्राहपादौचबहुमानपुरस्सरम् ।

सोऽपिसूनुम्समुत्थाप्यपरिष्वज्यचसादरम्॥२॥

मूर्ध्न्याघ्रायसुतम्प्राहहृदिकोपम्निवेशयन्।

कुतस्ते भगवानास्ते यम् ब्रवीषि पुनः पुनः ॥३॥

प्रह्लादः

त्वय्यस्तिमयिचाप्यस्तिसमस्तेषुचजन्तुषु॥४॥

ब्रह्माद्याःसकलादेवामनुष्याःपशवस्तथा।

जङ्गमाजाङ्गमम्सर्वम्जगन्नारायणात्मकम्॥५॥

उर्व्यामस्त्युदकेषुचाप्युडुपतावप्यस्तिचोष्णद्युतौ

वह्नौदिक्षुविदिक्षुवायुनभसोऽस्तिर्यक्ष्वतिर्यक्षुच।

अस्त्यन्तर्बहिरस्तिसत्यवचनेसारेष्वारेषुच

सर्वत्रास्तिसदास्तिकिम्बहुगिरात्वय्यस्तिमय्यस्तिच॥ ६ ॥

इत्युक्तेसहसाप्राहप्रह्लादमसुरेश्वरः।

यद्यस्तिभगवानत्रस्तम्भेमेबालदर्शय॥

इत्युक्त्वाताडयामासस्तम्भम्वैपुरतःस्थितम्॥७॥

ततोघुमुघुमाशब्दोब्रह्माण्डम्प्रविदारयन्।

उच्चैर्बभूवलोकानाम्बहिरन्तर्भयङ्करः॥८॥

तन्मध्येभगवान्विष्णुर्नरसिम्हस्वरूपधृक्।

सटाच्छटाचोटनेनकुट्यद्गुणद्गुणध्वनिः॥९॥

दम्ष्ट्राकरालवदनोदर्शनत्रस्तदैत्यराट्।

दम्भोलिनिशिताकारनखरोज्वलविग्रहैः॥

करैरापुरयन्दिक्षुकलयन्दैत्यकिङ्करान्॥१०॥

सहस्रशतदम्भोलिसम्भ्रमातिशयाशयम्।

अट्टहासमतीवोग्रम्कुर्वन्निष्क्रामसङ्क्रमम्॥११॥

हिरण्यकशिपुम्दैत्यम्विदारयितुमागतः।

ततस्त्रस्ताःसुरगणाःसर्वेऋषिगणैःसह॥१२॥

अद्यैवप्रलयःकालःसर्वथानास्तिसम्शयः।

क्कगमिष्यामसर्वेवैसर्वेषाम्शरणम्कुतः॥१३॥

इत्युद्भ्रान्ताशयाःसर्वे कान्दिशीकाःसुरोत्तमाः।

दिशश्चविदिशश्चैवयाताविभ्रान्तलोचनाः॥१४॥

ततोहिरण्यकशिपुम्जग्राहनिशितैःकरैः।

सोऽपिजग्राहदैत्येन्द्रोनृसिम्हमतिभीषणम्॥१५॥

ततोयुद्धमभूत्तत्रनृसिम्हदितिपुत्रयोः॥१६॥

शङ्खचक्रगदाखड्गमुसुलाङ्कशडिण्डिमाः।

शङ्खचक्रविहीनास्तुदैत्यराजस्यहेतयः॥ १७॥ खड्गस्यखड्गम्समुमोचवीर्यवान्

पाशस्यपाशम्सहभिण्डिपालम्।

यान्यायुधान्यच्युतनिर्मितानि

दैत्येन्द्रमुक्तानिततोऽधिकानि॥१८॥

यतोयतोधावतिदैत्यराजःततस्ततोधावतिनारसिम्हः।

यतोहिरक्षोऽधिपतेरवस्थाततोनविश्रान्तिरधोक्षजस्य ॥ १९ ॥

हिरण्यकशिपोस्तस्यशोणितम्कणमात्रकम्।

यत्रयत्रापतत्तत्रशतशोऽथसहस्रशः।

असुरास्तुसमुत्पन्नाहिरण्याधिकतेजसः ॥२०॥

एकैकस्यतुदैत्यस्यविनाशायजगत्पतिः।

शतरूपाणिविदधेह्यमितात्माजगन्मयः॥२१॥

तत्रदैत्यासृगवनौयत्रयत्रपतिष्यति।

तत्रतत्रासुशतम्नृसिम्हायुधकम्बभौ॥२२॥

बाह्वोस्तुबाहुयुद्धाभ्याम्कराभ्याम्तुकरस्यतु।

पादयोश्चैवपदयोश्चोरसाचोरसस्तथा॥

युयुधातेमहावीर्यौनृसिम्हदितिनन्दनौ॥२३॥

नबलम्कस्यचिद्ज्ञातम् न जयोवाकथञ्जन।

पराजयोवादौर्बल्यम्निश्चितम्नकथञ्चन॥२४॥

एवम्हियुद्धेसम्प्राप्तेनृसिम्हस्यारिणासह।

पृथिव्यामन्तरिक्षेचनृसिम्हासुरताभवत्॥२५॥

इदमित्थमिदम्रूपमीदृशाकारसम्युतम्।

इतिवक्तुम्तत्रशक्यम्नसुरासुरकिन्नरैः॥२६॥

देवामहर्षर्यःसिद्धाःसाध्याश्चपितरस्तथा।

अस्तुवन्मनसादेवम्जयशब्दपुरस्सरम्॥२७॥

जयदेवजगन्नाथजयलोकैकपालक।

जहिशत्रुममेयात्मन्किमर्थम्त्वम्विलम्बसे॥२८॥

त्वयासृष्टमिदम्विश्वम्सङ्कल्पात्पुरुषोत्तम।

त्वय्येवलीनम्भगवन्पितात्वम्चजगत्पते॥२९॥

समाःसहस्रम्देवेशव्यतीतादेवमानतः।

विलम्बसेकिमर्थम्त्वम्देवकार्यम्कुरुप्रभो॥३०॥

इत्येवम्बहुधावाक्यम्मान्यम्दैन्यपुरस्सरम्।

श्रुत्वानृकेसरीदेवःकोपसम्रक्तलोचनः॥३१॥

अट्टहासम्प्रकुर्वन्वैब्रह्माण्डम्दारयन्निव।

अङ्केहिरण्यमारोप्यवीक्ष्यतन्मुखमण्डलम्॥३२॥

नखैर्विदारयामाससाटोपरवसम्युतम्।

हाहाकारम्ततश्चक्रेभाङ्कारम्चपुनःपुनः॥३३॥

रोषताम्रैःसनयनैर्विकिरन्वह्निजालकम्।

हुङ्कारेणजगत्सर्वम्तर्जयन्निवकेसरी॥३४॥

अन्धीचकारभुवनम्हाहाकारपुरस्सरम्।

मुहूर्तमात्रम्सकलम्जगदेकार्णवीकृतम्॥३५॥

ततोदेवाःसगन्धर्वास्तुष्टुवुःपुरुषोत्तमम्।

नमस्तेपुण्डरीकाक्षनमस्तेविश्वभावन॥३६॥

नमस्तेऽस्तुहृषीकेशमहापुरुषपूर्वज।

नमस्तेसर्वलोकात्मन्नमस्तेतिग्मचक्रिणे॥३७॥

नमोब्रह्मण्यदेवायगोब्राह्मणहितायच।

जगद्धितायकृष्णायगोविन्दायनमोनमः॥३८॥

नमस्तेसृजतेविश्वम्पालयित्रेस्थितौनमः।

रुद्ररूपायकल्पान्तेनमस्तुभ्यम्त्रिमूर्तये॥३९॥

देवाः यक्षाः सुराः सिद्धाः नागगन्धर्वकिन्नराः ।

पिशाचाराक्षसाश्चैवमनुष्याःपशवस्तथा॥४०॥

पक्षिणःस्थावराश्चैवपिपिलिकसरीसृपाः।

भूरापोऽग्निर्नभोवायुःशब्दःस्पर्शस्तथारसः॥४१॥

रूपम्गन्धोमनोबुद्धिरात्माकालस्तथागुणाः ।

एतेषामन्तरात्मात्वम्त्वमेवपरमेश्वर॥४२॥

विद्याविद्येभवान्सत्यमसत्यममुतामृते।

प्रवृत्तिम्चनिवृत्तिम्चकर्मवेदोदितम्भवान्॥४३॥

समस्तकर्मभोक्ताचकर्मोपकरणानिच।

त्वमेवविष्णोसर्वाणिसर्वकर्मफलम्चयत्॥४४॥

योगिनस्त्वाम्चिन्तयन्तियाजकाश्चयजन्तिहि।

हव्यकव्यभुगेकस्त्वम्पितृदेवस्वरूपधृक्॥४५॥

रूपम्महच्चभवनम्ततःसूक्ष्मम्चकिञ्चन।

भूतरूपाणिसूक्ष्माणिह्यन्तरात्माचसूक्ष्मधृक्॥४६॥

अगोचरम्यत्परमम्प्रमाणम्चप्रमातृच।

अचिन्त्यरूपम्यस्तस्मैनमस्तेपुरुषोत्तम॥४७॥

सर्वभूतेषु याशक्तिःसर्वात्मन्नरकान्तक।

गुणाश्रयनमस्तस्मैशाश्वतायसुरेश्वर॥

ओम्नमोवासुदेवायतस्मैभगवतेनमः॥४८॥

व्यतिरिक्तोनवाप्यस्तिव्यतिरिक्तोऽखिलस्ययः।

नमस्तस्मैनमस्तस्मैनमस्तस्मैमहात्मने॥४९॥

यस्यसूक्ष्मम्परम्रूपमपशयन्तोमहर्षयः।

अवतारेषुयद्रूपम्तदर्चन्तिमहौजसः॥५०॥

ओम्नमःपरमार्थायस्तूलसूक्ष्माक्षराक्षर।

व्यक्ताव्यक्तकलातीतसकलेशनिरञ्जन॥५१॥

मूर्तामूर्तमहामूर्तसूक्ष्ममूर्तेस्फुटास्फुट।

कलारूपेशसौम्यात्मन्विद्याविद्यामयाच्युत ॥५२॥

नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामराच्युत।

नारसिम्हमहादेवब्रह्मन्नव्याप्तविग्रह॥५३॥

त्वयाकृतमिदम्कर्मचिन्तनीयम्नमादृशैः।

लोकाःसमस्ताभगवन्रक्षिताःक्षणमात्रतः॥५४॥

यदित्वम्नकरोषीशरूपमेतादृशम्हरे।

अन्धीभवतिलोकोऽयम्दर्शेरात्रिर्यथातथा॥५५॥

महत्कर्मकृतम्देवहिरण्यकशिपुर्हतः।

स्थापितानिसुरेन्द्राणाम्स्थानानिजगतीपते॥५६॥

कोपम्सम्हरसर्वात्मन्कस्तेकोपस्यगोचरः।

एतादृशान्सुररिपून्सहसापरिशिक्षय॥५७॥

अनुग्रहायभक्तानाम्रूपमेतदवाप्तवान्॥५८॥

अहोवीर्यमहोशौर्यमहोबाहुपराक्रमः।

नारसिम्हःपरम्दैवमहोबिलमहोबलम्॥५९॥

श्रीनारदः

इत्थम्प्राञ्जलयःस्थित्वाशतशोऽथसहस्रशः।

स्तोत्रैर्वेदमयैःसारैस्तुष्टुवुःपुरुषोत्तमम्॥६०॥

ततःप्रसन्नोभगवानव्यक्तोव्यञ्जयन्महः।

ब्रह्मरुद्रादिकान्देवानिदम्वचनमब्रवीत्॥६१॥

श्रीभगवान्

ब्रह्माद्याःसकलादेवाःऋषयश्चमहौजसः।

हिरण्येनातिपापेनपीडितामूढचेतसा॥६२॥

हतःशत्रुर्नसन्देहोनिर्वृत्तम्नःप्रयोजनम्।

स्वम्स्वम्पदमनुप्राप्यमोदध्वम्विगतज्वराः॥६३॥

इतिसन्दिश्यसर्वास्तान्प्रेषयामासमाधवः।

प्रह्लादमग्रनिलयम्प्राहवैनरकेसरी॥६४॥

कुर्वतस्तेप्रसन्नोऽहम्भक्तिमव्यभिचारिणीम्।

यथाभिलषितम्मत्तःप्रह्लादव्रियताम्वरः॥६५॥

प्रह्लादः

नानायोनिसहस्रेषुयेषुयेषुव्रजाम्यहम्।

तेषुतेष्वचलाभक्तिरच्युतास्तुसदात्वयि॥६६॥

श्रीभगवान्

तवास्तिभक्तिःप्रह्लादयथावैशङ्करस्यतु।

तुष्टोऽस्म्यहम्नसन्देहोहतस्तेकण्टकःपिता॥६७॥

कुरुराज्यम्पितुर्व्यम्त्वम्नहितेकण्टकोभुवि।

यावश्चन्द्रश्चसूर्यश्चयावत्तिष्टतिमेदिनी॥६८॥

तावत् तेकथयिष्यन्तिकीर्तिःदेवाःसवासवाः।

भुङ्क्ष्वराज्यम्समृद्धम्त्वम्सवाहनपरिष्कृतम्॥६९॥

सपुत्रपौत्रपत्नीकम्सबान्धवसमित्रकम्।

कुरुधर्मानलग्नस्त्वम्कर्तृत्वत्यागपूर्वकम्॥७०॥

अर्थानार्जयधर्मेणकुरुदेवर्षिपूजनम्।

कामानाप्नुहिधर्मेणशास्त्रीयान्दैत्यनन्दन॥७१॥

त्रिवर्गसङ्ग्रहम्कुर्वन्मद्भक्त्यातुनसीदति।

अन्तेविरक्तिमासाद्यविषयेदोषदर्शनात्॥७२॥

याहिवैमामकम्स्थानम्यतोनावर्ततेपुनः।

तवचान्यानिभूतानिममाज्ञापरिपालनात्॥७३॥

येद्विषन्तिमहात्मानम्माम्सर्वत्रव्यवस्थितम्।

तेऽपित्वत्पितृवत्प्राज्ञयास्यन्तियमसादनम्॥७४॥

जन्मान्तरसहस्रेषुतपोध्यानसमाधिभिः।

नराणाम्क्षीणापापानाम्मयिभक्तिःप्रजायते॥७५॥

तावन्मत्कृपयातातजातबुद्धिस्तुसात्त्विकी।

यथाभक्तिस्समुत्पन्नासर्वभूताभयप्रदा॥७६॥

येतुमाम्सम्स्मरन्त्यद्धामद्भक्तेरेकभाजनम्।

तेचभक्तियुताःसर्वेमुच्यन्तेसर्वपातकैः॥७७॥

इदम्क्षेत्रम्महापुण्यम्ममाविर्भावकारणात्।

अद्यप्रभृतिलोकोऽयमहोबलमितीरयेत्॥७८॥

ममातुलम्बलम्ज्ञात्वादैवतैरेवमीरितम्।

अहोवीर्यमहोशौर्यमहोबाहुपराक्रमः॥

नारसिम्हःपरम्दैवमहोबिलमहोबलम्॥७९॥

तस्मादहोबलम्क्षेत्रमिदम्तावद्भविष्यति।

निवसाम्यहमत्रैवगजकुण्डसमीपतः॥८०॥

तीरेतुभवनाशिन्यास्त्वम्चतिष्ठाग्रतोमम।

अत्रैवत्वम्वसन्सर्वम्भुङ्क्ष्वराज्यम्समृद्धिमत् ॥ ८१॥

ऋषयः पितरो देवा मामत्रैव स्तुवन्ति हि ॥ ८२॥

इतिकिलपरमात्माधारयन्नारसिम्ह

वपुरखिलजनानाम्कण्टकम्दैत्यराजम्।

निशितनखरजालैर्दारयम्स्तस्यसूनुम्

महतिविपुलराज्येह्यभ्यशिञ्चन्मुरारिः॥८३॥

गरुडाभिधभूधरस्यभागे

निवसनवैभवनाशिनीतटे।

विनुतस्सकलैर्महीसुरेन्द्रै–

र्विजयीतिष्ठतिनारसिम्हरूपी॥८४॥

॥इतिश्रीब्रह्माण्डपुराणेक्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

सप्तमोऽध्यायः॥

॥श्रीः॥

॥श्रीमतेलक्ष्मीनृसिम्हपरब्रह्मणेनमः॥

॥श्रीमदहोबिलमाहात्म्येअष्टमोऽध्यायः॥

ऋषयः–

श्रुतम्प्रह्लादचरितम्पावनम्परमाद्भुतम्।

लोकत्रयैकनिलयम्श्रुतम्पूर्वम्नकेनचित्॥१॥

श्रुताभागवताःपुण्याःकथाकलिमलापहाः।

एतादृशीकथाब्रह्मन्नश्रुताकल्पकोटिषु॥२॥

अहोबिलस्यमाहात्म्यम्हरौनिष्ठातुकीदृशी।

कथमेतादृशीबुद्धिःसञ्जाताऽसुरजन्मनि॥

अद्यैवपावनानूनम्कथासाररसाप्लुता॥३॥

नहायनैर्नपलितैर्नवित्तैर्नचबन्धुभिः।

इष्टोभवतिधर्मात्मायथाभक्त्याजनार्दनः॥४॥

भक्तोक्तिसमकालम्तुह्युदतिष्ठत्त्वरान्वितः।

कथमेतादृशम्दैवम्भुवनेषुभविष्यति॥५॥

अहोमूढानरालोकेनजानन्तिहरेःपदम्॥६॥

यस्तुभक्त्यैकनिलयम्प्रह्लादमभिषिञ्चयन्।

कथम्नसेव्यतेदेवश्चिन्तयद्भिस्तुमानवैः॥७॥

अहोघोरेपतन्त्येवनिरयेव्यर्थजीविनः।

कृतार्थाःस्मवयम्लोकेवयमेवमहामुने ॥८॥

शरभम्नामलोकानाम्भयङ्कररवान्वितम्।

तत्रैवोग्रम्निहतवान्नखराग्रैर्नृकेसरी॥९॥

इतिश्रुतम्वामदेवात्तन्नोविस्तरतोवद॥१०॥

नृसिम्हस्यकथायाम्तुशृण्वतोबुवतोऽपिवा।

नतृप्तिर्जायतेपुम्साम्कल्पकोटिशतैरपि॥११॥

अमृताब्धौनिमग्नस्तुकथमन्यद्विचिन्तयेत्॥१२॥

श्रीनारदः

शृणुध्वम्मुनयःसर्वेशरभस्योपसम्हृतिम्।

यथातुकृतवान्देवोनरसिम्हस्वरूपधृक्॥१३॥

हत्वातुतम्दुरात्मनम्हिरण्यमसुरेश्वरम्।

प्रशान्तरवकोपस्तुपुनःप्रक्रमतेतराम्॥१४॥

नारसिम्होऽखिलान्लोकान्पुनर्दग्धम्प्रचक्रमे।

तस्योग्रमभवत्तत्रनृसिम्हस्यजगत्पते॥

दृष्ट्वाभयात्मकम्रूपम्तत्रासुर्देवदानवाः॥१५॥

ततःप्रणम्यतम्देवम्देवाःसर्षिगणास्तथा।

तुष्टुवुःपुण्डरीकाक्षमसुरेन्द्रनिबर्हणम्॥१६॥

देवाः

जयदेवजगन्नाथजयचक्रिन्गदाधर।

जयादिदेवदेवेशजयदैत्यनिबर्हण॥१७॥

जयदेवजगन्नाथशरणागतरक्षक।

जय विज्ञान चिद्रूप गुणातीत परायण ॥१८॥

जय निर्द्वन्द्वविश्वात्मन्विश्वभूतिविभावन।

जयाखिलजगद्धामन्जयपङ्कजलोचन॥१९॥

जयाखिलजगत्सृष्टिस्थितिसम्हारकारण।

जन्तुम्त्राहिजगत्सर्वम्नृसिम्हासुरसूदन॥२०॥

हिरण्यकशिपोस्त्रस्तान्लोकान्स्थावरजङ्गमान्।

रक्षितुम्देवदेवेशप्राप्तोऽसिनरसिम्हताम्॥२१॥

त्यजकोपममेयात्मन्यतस्तेनासुरोहतः।

पाहिलोकानिमान्सर्वान्पवित्रचरिताव्ययः॥२२॥

एवम्सम्स्तूयमानस्यदेवैरिन्द्रपुरोगमैः।

रौद्रमासीद्वपुस्तत्रयुगान्ताग्निरिवप्रभोः॥२३॥

ततोभयेननिहतासमुद्विग्नःशतक्रतुः।

जगामब्रह्मभवनम्देवर्षिगणसेवितः॥२४॥

तम्दृष्ट्वाभगवन्तम्वैब्रह्माणम्पाकशासनः।

प्रणिपद्यमहोतेजाःकृताञ्जलिरभाषत॥२५॥

इन्द्रः

हतोहिरण्यकशिपुर्नारसिम्हेणविष्णुना।

बाधमानोऽखिलान्लोकान्त्वत्तोलब्धवरोऽसुरः॥२६॥

यस्तम्जघानदैत्येन्द्रम्रक्षितुम्भुवनत्रयम्।

कोपःप्रवर्धतेतस्यनृसिम्हस्यमहात्मनः॥२७॥

समीक्ष्यकुपितम्देवम्तम्दैत्येन्द्रनिबर्हणम्।

भयेनवेपथेसर्वम्त्रैलोक्यम्सचराचरम्॥२८॥

लोकानामिहसर्वेषाम्स्रष्टात्वम्भूतभावन।

कृपयापाहिसर्वाम्स्त्वमुद्विग्नान्नरसिम्हतः॥२९॥

ब्रह्मा

भयम्त्यजध्वम्त्रिदशाअभयम्वोददाम्यहम्।

करिष्यत्येवभगवान्रक्षामस्माकमच्युतः॥३०॥

तमेवमुक्त्वाभगवान्ब्रह्माशतमखम्प्रति।

ध्यात्वाकिञ्चिदुवाचेदम्भीतान्कालेदिवौकसः॥ ३१ ॥

नैषशक्यःशमयितुमस्माभिर्नरकेसरी।

क्रोधाभिभूतोभगवानृतेदेवम्पिनाकिनम्॥३२॥

प्रपद्यामोमहादेवम्शूलिनम्वृषभध्वजम्॥३३॥

तेनदेवादिदेवेनशङ्करेणामिततेजसा।

जगतस्त्राणकामेनकृतम्कर्मसुदुष्करम्॥३४॥

उग्राणामुग्रचेष्टानामसुराणाम्पुरत्रयम्।

दग्धम्क्षणेनविभुनाचतुर्वर्गप्रदायिना॥३५॥

भञ्जनोनामदैत्येन्द्रोयुधिनित्यापराजितः।

शतयोजनविस्तीर्णःशतयोजनमायतः॥३६॥

तेनकृत्वामहादेवःसम्युगम्शरदाम्शतम्।

निजघानमहातेजाःशूलीशूलेनतम्शिवः॥३७॥

सामादिभिरुपायैस्तमशक्यम्चन्द्रशेखरः।

शमयिष्यतिसर्वेषाम्देवानाम्हितकाम्यया॥३८॥

सोऽस्माभिःप्रार्थितोदेवोमन्मथारिरुमापतिः।

नरसिम्हसमुद्भूतम्भयम्नःशमयिष्यति॥३९॥

तमेवमुक्वाभगवान्देवराजम्चतुर्मुखः।

जगामदेवमीशानम्द्रष्टुम्कैलासपर्वतम्॥४०॥

गच्छन्तम्तम्तदादेवायक्षगन्धर्वचारणाः।

वायुभूताःपिशाचाश्चसमुद्राःसरितोदिशः॥४१॥

लोकपालास्तथाचाष्टौपर्वताश्चसरीसृपाः।

जग्मुस्तम्परिवार्यैनम्मुनयश्चतपोधनाः॥४२॥

ततोऽचिरेणभगवान्सहितोदेवदानवैः।

कैलासम्पर्वतश्रेष्ठमाससादपितामहः॥४३॥

प्रविश्यशम्भुम्भगवानपश्यद्वृषकेतनम्।

विद्योतमानम्प्रभयासूर्यकोटिंसमप्रभम्॥

सेव्यमानम्गिरिजयाश्रियैवपुरुषोत्तमम्॥४४॥

स तम्समीक्ष्यभगवान्ब्रह्माणम्ब्रह्मसम्भवः।

उवाचवचनम्श्लक्षणम्बहुमानपुरस्सरम्॥४५॥

आगतोऽसिकिमर्थम्त्वम्चतुर्मुखसुरैःसह।

कच्चित्क्षेमम्तुसर्वेषाम्देवानाममितौजसाम्॥४६॥

किमर्थमागतश्चायम्सुरैःसहशतक्रतुः।

देवगन्धर्वयक्षाश्चऋषयश्चतपोधनाः॥४७॥

ब्रह्मा

येषाम्चैवपुरोदेवाप्राणकामवरप्रभुः।

कुतःस्यादशुभम्तेषाम्शङ्करात्रदिवौकसाम्॥४८॥

तथापिकिञ्चिद्वक्तव्यमस्तिनःपरमेश्वर।

तच्छ्रुत्वाकुरुदेवानाम्रक्षणम्चन्द्रशेखर॥४९॥

पुराहिरण्यकशिपोरस्माभिर्वधकाङ्क्षिभिः।

प्रार्थितोलोकरक्षार्थम्विष्णुर्दानवसूदनः ॥५०॥

नैवशान्तिम्गतोरोषस्तस्यदेवस्यशार्ङ्गिणः।

तस्मिन्भगवतिक्रुद्धोनरसिम्हेमहात्मनि॥

प्रवेपतेजगदिदम्देवेशेकुपितेभृशम्॥५१॥

त्वत्तोहिनान्यच्छरणम्देवनामिहविद्यते।

नरसिम्हसमुद्भूतम्भयम्नाशयनोहर॥५२॥

पितामहस्यवचनम्श्रुत्वापशुपतिस्तदा।

मुहूर्तम् चिन्तयित्वातुब्रह्माणमिदमब्रवीत्॥५३॥

शङ्करः

हतोहिरण्यकशिपुर्येनदैत्योमहाबलः।

कोऽन्यःशमयितातस्यकोपस्यहयमेधसः॥५४॥

त्वम्मेजनयितादेवसतेजनयिताहरिः।

तस्यदेवस्यकःशक्ताविष्णोर्वैनिग्रहोभवेत्॥५५॥

यद्भयात्पवतेवायुःसूर्यस्तपतियद्भयात्।

यद्भयात्धरणीधत्तेनिग्रहेतस्यकःप्रभुः॥५६॥

तथाप्युपायोदृष्टेमेपरमेणसमाधिना।

कृतेतस्मिन्भवेच्छ्रेयस्तूष्णीम्भूतेनचेतसा॥५७॥

अश्वानाम्महिषःशत्रुर्वारणानाम्मृगाधिपः।

वानराणाम्तथामेषःफणिनाम्गुरुडस्तथा॥५८॥

मूषिकाणाम्तुमार्जारोमुगाणाम्श्वाप्रकीर्तितः।

वायसानाम्दिवाभीतःसिम्हानाम्शरभस्तथा॥५९॥

अतोनिर्वापयिष्यामःशरभम्भयशान्तये।

शरभोऽधिष्ठितोऽस्माभिर्नृसिम्हम्शमयिष्यति॥६०॥

इत्येवमुक्त्वाभगवान्ससर्जशरभम्तदा।

यस्यसन्दर्शनादेवत्रस्तमासीज्जगत्त्रयम्॥६१॥

ततस्तस्याथ गौरीशस्तुण्डस्थानमरोचत।

पृष्ठभागेचतुर्वक्त्रम्तस्यरुद्रोन्यवेशयत्॥६२॥

चन्द्रसूर्यौनयनयोर्मारुतम्पक्षयोर्द्वयोः।

पादेषुभूधरान्सर्वान्शिवस्तस्यन्यवेशयत्॥६३॥

एवम्निर्मायशरभम्भवम्प्रमथनायकः।

ससर्जनारसिम्हम्तम्समुद्दिश्यभयानकम्॥६४॥

सविसृष्टोभगवतादेवानाम्पुरतस्तदा।

जगामशरभोहन्तुम्नृसिम्हममसुरान्तकम्॥६५॥

गच्छतस्तस्यवेगेनजगद्विपरिवर्तितम्।

नादेनसकलालोकाःसहसात्वधरीकृताः॥६६॥

चचालपृथिवीसर्वाचेलुश्चाष्टौचदिग्गजाः।

अधरोत्तरविन्यासाबभूवुःसप्तसागराः॥६७॥

ततःक्षणेनशरभोनादपूरितदिङ्मुखः।

अभ्याशमगमद्विष्णोर्विन्दन्भैरवरस्वनम्॥६८॥

तौयुध्यमानौतुतदाचिरेणबलवत्तरौ।

नशमम्जग्मतुर्देवौनृसिम्हशरभाकृती ॥६९॥

ततःक्रुद्धोमहाकायोनृसिम्होभीमनिस्स्वनः।

सहस्रकरजैस्त्रस्तस्यगात्राणिपीडयन्॥७०॥

ततःस्फुरच्छटाचोटोरुद्रम्शरभरूपिणम्।

व्यदारयन्नखैस्तीक्ष्णैर्हिरण्यकशिपुम्यथा॥७१॥

निहतेशरभेतस्मिन्रौद्रेमधुनिघातिना।

तुष्टुवुःपुण्डरीकाक्षम्देवादेवर्षिणस्तदा॥७२॥

तदा प्रसन्नोभगवानिदम्वचनमब्रवीत्।

क्रोधःसर्वात्मनाशान्तोयुष्माभिःकृतसाधनात्॥ ७३॥

अद्यप्रभृतिलोकोऽयम्भवेत्विगतसञ्ज्वरः।

तत्त्वतस्तुनमेकोपोनमेशान्तिःसुरेश्वराः॥७४॥

तत्तत्कार्यानुकारेणतत्तत्कार्यञ्चिग्रहीष्यते।

शरभोनिहतःसङ्ख्येकृत्रिमोऽयम्नसम्शयः॥७५॥

स्वम्स्वम्पदमनुप्राप्यमोदध्वम्विगतज्वराः।

इत्युक्तवतिसर्वेशेब्रह्मावचनमब्रवीत्॥७६॥

ब्रह्मा

शङ्करेणकृतम्कर्मजगदर्तेमहात्मना।

नतुद्रोहाभिभूतेनतववीर्यमजानता॥७७॥

यत्किञ्चिद्वापिक्षन्तव्यम्प्रेष्यास्तेसर्वदेवताः॥ ७८॥

यत्रासौनिहतःशेतेहरःशरभरूपधृक्।

तत्स्थानम्सर्वपूज्यम्स्यात्तवदेवप्रसादतः॥७९॥

अस्मिञ्छैलेतुये कुण्डाःस्वल्पाःस्थूलतरास्तथा।

सर्वास्तवप्रसादेनशर्वरूपाभवन्तिहि॥८०॥

इत्येवमुक्तोवचनम्भगवान्पद्मयोनिना।

श्रुत्वातुसादरम्तस्मैदत्वावरमनुत्तमम्॥

पश्यताम्सर्वदेवानाम्तत्रैवान्तरधीयत॥८१॥

अयम्तुपर्वतोविप्रागरुडाद्रेरदूरतः।

अच्छायमेरोःप्राग्भागेह्यद्यापिपरिदृश्यते॥८२॥

तत्र स्थिताः शिलाः सर्वाः शिवलिङ्गवपुर्धराः ॥८३॥

येतत्रशिवसूक्तानिपठन्त्यहरहर्नराः।

षण्मासैःशिवसालोक्यम्यास्यान्तिगतबन्धनाः॥८४॥

एतत्सर्वम्समाख्यातम्शरभागमकारणम्॥८५॥

अन्तर्धानम्गतवतिहरौदेवदेवेनृसिम्हे

हत्वारौद्रम्शरभमभयम्देवताभ्यःप्रदाय।

सर्वान्देवान्निजसुरपदेस्थापयित्वाब्जयोनिः

प्रायात्स्थानम्निजमनुपमम्स्तूयमानोमुनीन्द्रैः॥८६॥

॥इतिश्रीब्रह्माण्डपुराणेक्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

अष्टमोऽध्यायः॥

श्रीः

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥श्रीमदहोबिलमाहात्म्येनवमोऽध्यायः॥

श्रीनारदः

इदम्वःकथयिष्यामिचरितम्रोमहर्षणम् ।

नद्यास्तुभवनाशिन्याःसर्वेषामुपकारकम्॥१॥

अच्चायमेरोरुद्भूताधर्मात्माभवनाशिनी।

पूर्णयन्तीजगत्सर्वम्कल्लोलैरमितप्रभा॥२॥

स्वर्लोकवासिदेवानाम् निर्लेपगुणखण्डिनी ।

मण्डयन्ती जगत्सर्वम् मण्डिताखिलमण्डला ॥ ३ ॥

चण्डप्रतापदोर्दण्ड आकण्डल इवापरः ।
लोलयन्ती सहस्राक्षभवनम् भुवनत्रयम् ॥ ४ ॥
प्रवहत्यतिवेगेन प्रलये सागरो यथा ।
अन्तरिक्षगता ये च ये च गन्धर्वकिन्नराः ॥ ५ ॥

स्वर्लोकम् समनुप्राप्ताः ते च शर्म न लेभिरे ।
तत्रत्यैः सह सर्वैस्तुः महर्लोकम् प्रपेदिरे ॥६॥

एवम् जाते महाघोरे तेन धर्मेण दारुणे ।
बृहस्पतिमुवाचेदमिन्द्रः स्वेन्द्रत्व सिद्धये ॥ ७ ॥
भगवन् कथमेतद्धि नद्या वै सम्भ्रमो महान् ।
लोकान् सर्वान् भ्रामयति मेदनीमधरोत्तरम् ॥ ८ ॥
किमेतत् सहजम् कर्म आहो ऋष्यादि सम्भवः ।
प्रभावो वा नृसिम्हस्य क्षेत्रमाहात्म्यमेव वा ॥ ९ ॥

कथमेतादृशी शक्तिर्नदीमात्रस्य कल्पते ।
बृहस्पतिः

न ह्येषा तु नदीमात्रा हरिपाद समुद्धवा ॥ १० ॥

स्तोष्यामस्ताम्नदीमेवसाप्रसन्नाभविष्यति।

लोकस्यपरितापोऽयम्किमर्थम्परिकल्प्यते॥११॥

एतदाकर्ण्यवचनम्भगवान्पाकशासनः।

गरुडाचलमासाद्यतुष्टावभवनाशिनीम्॥१२॥

नमस्तुभ्यम्भगवतिभवनाशिनिपावनि।

त्राहित्रस्तानिमाल्ँलोकान्विष्णुपादब्जसम्श्रये॥१३॥

मातात्वम्सरिताम्प्रसीदकरुणेसम्सक्तचित्तेपरम्

लोकान्रक्षमहारवम्त्यजजगज्जालम्मुदापालय।

भीतानुद्धरमेघवाहनमुखान्देवाम्श्चलोकाधिपान्

कल्याणम्करुणालयेकरुणयादेहिप्रसन्नाभव॥१४॥

मातःमाम्परिपाहिपुण्यनिलयेपापौघविध्वम्सिनि

क्षोणीरक्षणलक्षणेनचतुरेचञ्चत्कटाक्षान्विते।

धीरोदात्तधराधरप्रभृतयेस्तेष्वष्टदिक्पालका

धर्तुम्तावकनिर्झरीकणलवम्शक्तेनलोकाःकिमु?॥ १५ ॥

इतिस्तोत्रेकृतेप्रेम्णादेव्याःकोपोव्यवर्धत।

अजानन्त्यापरम्कार्यम्जडताप्रकटीकृता॥१६॥

आकाशेवागुवाचेदमातुरम्तम्शतक्रतुम्।

मघवन्परितापोऽयमकस्मात्सम्भवस्तव॥१७॥

तवस्तोत्रेणदेवीयम्नयातितववश्यताम्॥१८॥

गरुडाचलभूभागेभैरवोलोकभैरवः।

रक्षन्समस्तभूतानितत्रास्तेहरितोषकृत्॥

सम्रम्भम्भवनाशिन्याःसतुक्षामयितुम्क्षमः॥१९॥

इत्युक्तोवासवस्तूष्णीमामन्त्र्यतुकपालिनम्।

जगामत्रिदिवम्विप्राःकपालीतुव्यचिन्तयत्॥२०॥

शमयिष्यामिसाम्नातुनदीम्वैभवनाशिनीम्।

अन्यथातादृशीशक्तिःकथम्शामयितुम्क्षमा॥२१॥

इतिसञ्चिन्त्यमनसातुष्टावसनदीञ्चितदा॥२२॥

भैरव

नमस्तेभवनाशिन्यैनरकोत्तारहेतवे।

विष्णुपादसमुद्भूतेविष्णुनापरिपालिते॥२३॥

विष्णुरूपेविष्णुमयेविविधागमसम्स्तुते।

प्रसीददेविपद्माक्षिप्रसन्नवदनाम्बुजे॥२४॥

धर्मात्मिकेधर्मधात्रिधर्मसञ्चयवर्धिनि।

दुर्मानसञ्चिताशेषकर्मनिर्मूलनक्षमे॥२५॥

अकाण्डेताण्डवीतन्त्रेदानवातत्परागमैः।

पाहिलोकान्भयत्रस्तान्पालनीभवनाशिनी॥२६॥

इतिस्तोत्रम्बहुविधम्भैरवेणसमीरितम्।

अनादृत्यययौदेविपश्चिमाभिमुखीतदा॥२७॥

उत्खातयन्तीवेगेनपर्वताम्स्तरुसञ्चयान्।

पृथिव्याकाशयोमध्येह्यन्तरालम्नविद्यते॥२८॥

तदातुभैरवःक्रुद्धःकोपसम्रक्तलोचनः।

देवकार्यमनुस्मृत्यकर्मान्तरपराङ्मुखः॥२९॥

शमयिष्यामिवेगेनसाहसेनैवकर्मणा।

ज्वलितस्यनतोयेनशान्तिःकल्पशतैरपि॥३०॥

इत्यालोचयतुमनसाखङ्गेननिशितेनतु।

शिरःकृन्त्वास्वकम्कोपात्नदीमध्येह्यपातयत्॥ ३१॥

सारूद्धवेगासहसादारुणेनैवकर्मणा।

किम्मेभविष्यतीत्येवम्चिन्ताकुलितमानसा॥३२॥

पातालम्साजगामाशुयत्रास्तेफणिनाम्वरः।

फणिराट्सहसोत्थायकृताञ्जलिरभाषत॥३३॥

देविकल्याणनिलयेकिमर्थम्त्वमिहागता।

कस्यायमुत्तमःकायःकिमर्थम्व्यग्रमानसाः॥३४॥

कात्वम्भवसिकल्याणिकस्यवात्वम्परिग्रहः।

नदीनदाःसागराश्चभूलोकेकृतकेतनाः॥३५॥

श्रुत्वेदम्वचनम्तेनशेषेणपरिभाषितम्।

भीषणम्भीषणाकारावचनम्चेदमब्रवीत्॥३६॥

नहरेःपादसम्भूतामामाहुर्भवनाशिनीम्।

जलौघैघौरसङ्काशैःपूरयन्तीजगत्त्रयम्॥३७॥

स्तुताभगवतासाक्षात्सादरम्वज्रपाणिना।

नश्रोत्रपदवीम्यातम्स्तोत्रम्सत्त्वानुभाषितम्॥३८॥

तत्प्रेषितेनमहतालोकण्ठककर्मणा।

स्तुताहम्भैरवेणास्मिन्लोकेभैरवकर्मणा॥३९॥

नशमम्गमिताकिञ्चित्स्त्रीस्वभावानुबन्धनात्॥४० ॥

ततःक्रद्धेनमहतातरसाभैरवेणतु।

शिरोनिपातितम्तेनरुद्धाहम्त्वामुपागता॥४१॥

इत्येवम्वचनम्घोरमाश्रुतम्देवदानवैः।

शिरःप्रकम्पयन्देवःशेषोवचनमब्रवीत्॥४२॥

नह्यत्रप्रसरोदेविनदीनाम्तुप्रवर्तते।

भूतलम्गच्छतत्रैवप्रवहस्वयथेप्सितम्॥४३॥

सर्वम्सहावसुमतीसहिष्यतिहितेरवम्॥४४॥

इतिश्रुत्वावचस्तस्यह्यङ्गीकृत्यचसादरम्।

पुनर्जगामभूलोकम्यत्रास्तेतिन्त्रिणीतरुः॥४५॥

कर्मणाकायिकेनैवतरुःकश्चिद्विजोत्तमाः ।

तत्रोद्भूतामहापुण्यालोकपावनपावनी॥४६॥

यत्रोद्भूतातुतत्रैवतिन्त्रिणीतरुमूलके।

भैरवस्यशिरःपुण्यम्स्थापयामासपावनी॥४७॥

तच्छिरःपूज्यमानम्तुजनैरिष्टार्थदायकम्।

सानदीकृष्णवेण्यास्तुसङ्गमेह्यविदूरतः॥४८॥

योजनद्वयमात्रेतुगमितासागरम्प्रति।

पृथग्भूतातुतत्रैवभर्तारम्परिषस्वजे॥४९॥

यथाकृष्णायथावेणीयथातुङ्गातुभद्रका।

यथाभीमरथीपुण्यायथैवमलहारिणी॥

पृथक्पृथक्सागरगातथेयम्भवनाशिनी॥५०॥

भैरवःखण्डरूपस्तुसुप्रीतोहयमेधसा।

रूपलावण्यसौन्दर्यम्दत्तम्मूर्तान्तरम्तदा॥५१॥

पतिजग्राहनैवायमुग्रकर्मातुभैरवः।

देवदेवम्जगन्नाथमिदम्वचनमब्रवीत्॥५२॥

महत्यापत्तिस्तुसम्प्राप्तानद्यास्तुजगदीश्वर।

शर्मणेजगताम्दत्तम्शिरस्तुतटिनीम्प्रति॥५३॥

अहमेवम्विशिष्यामित्वत्प्रसादैकभाजनम्।

माम्वदिष्यन्तिसर्वत्रदुष्करम्कर्मवैकृतम्॥५४॥

भैरवेणसुपूर्णेनलोकानुग्रहमिच्छता।

इयम्मेपरमाकीर्तिर्यन्मुण्डितैवसम्स्थितिः॥५५॥

अद्यप्रभृतिलोकोऽयम्मुण्डोभैरवइत्यपि।

वदिष्यतिनसन्देहोनमेऽस्तिपरिवेदना॥५६॥

इत्येवम्वचनम्श्रुत्वाभगवान्नरकेसरी।

यदुक्तम्भवतालोकेतत्तथैवास्तुभैरव॥५७॥

येतुसाधारणजनामयिभक्तिम्प्रकुर्वते।

तेजनाःप्रीतिसम्युक्ताद्रक्ष्यन्तिक्षेत्रपालकम्॥५८॥

येत्वत्रसमयाचारलङ्गनैकपरायणाः।

तेषाम्वैपापचित्तानाम्शासनैकपरोभव॥५९॥

इतिसन्दिश्यभगवाम्स्तत्रैवान्तरधीयत।

श्रीनारदः

इतिसर्वम्समाख्यातम्भवनाशिनिवैभवम्॥६०॥

भैरवस्योत्तरेभागेगुहावैपर्वताभिधा।

अष्टयोजनविस्तीर्णाश्रीशैलान्तिकमागता॥६१॥

तत्रदेवःसमध्यास्तेनृसिम्होगह्वराधिपः।

एतद्गह्वरमाविष्टागन्धर्वाश्चैवकिन्नराः॥६२॥

गायन्तिपरमम्गानम्परमानन्दकारणम्।

अच्युतानन्तगोविन्दमुकुन्दमुरनाशन ॥

नृकेसरिन्जगद्धामेत्युच्छार्यान्योन्यमोदिताः॥६३॥

इत्थम्गुहासुसर्वासुऋषयश्चतपोधनाः।

ऋग्यजुस्सामवेदानाम्गायकाविचरन्तिहि॥६४॥

वदन्तिचपुराणार्थानागमार्थाननेकधा।

सद्विद्यानिरताःकेचिदन्तरादित्यनिश्चयाः॥६५॥

परविद्यारताःकेचित्केचिद्भूमैकवादिनः।

केचित्कर्मप्रशम्सन्तिकेचित्तुशरणागतिम्॥६६॥

एकान्तिनःसदासर्वेपरमात्मपरायणाः।

पाञ्चरात्रविदःकेचित्सम्हितावेदपारगाः॥

अर्चयन्तिजगन्नाथम्कापिञ्जलविधानतः॥६७॥

तन्त्राणामुत्तमम्ज्ञेयम्वेदसारम्महोदयम्।

साङ्ख्ययोगकृतान्तेनपाञ्चरात्रानुशब्दितम्॥६८॥

इदम्श्रेयम्इदम्ब्रह्मइदम्हितमनुत्तमम्।

ऋग्यजुस्सामाभिर्जुष्टमथर्वाङ्गिरसस्तथा॥६९॥

प्रमाणमेतदुदितम्साक्षान्नारायणोदितम्।

तन्त्रेषुसात्तित्वकम्प्रोक्तम्सकलागममूलकम्॥७०॥

इतिसकलजनानाम्सर्वदापापराशिम्

स्ववचनपरिपाटीमात्रतःक्षालयन्ती।

भवहरतटिनीयम्वर्णितासानुभावा

हृदिविलसतुनित्यम्सर्ववर्णामृतानाम्॥७१॥

कालेऽवगाह्यभवनाशिनितीर्थसारम्

कल्पेषुसञ्चितमपोह्यमहाघराशिम्।

अल्पीकृतासुरबलस्यनृसिम्हमूर्तेः

कल्पेतपादयुगलीपरिचारकृत्ये॥७२॥

अलमिहमुनिवर्याःसम्पदोघैरमेयैः

अमितगुणगणानामालयेनारसिम्हे।

दधतविपुलभक्तिम्दीनभावम्त्यजध्वम्

वितरतिफलराशिम्वीतशोकाम्मुदम्वः॥७३॥

धिग्धिग्देवान्क्षुढ्रकान्प्रार्थयन्ते।

तैर्वादत्तम्तत्क्षणेनश्वरम्च।

गीर्वाणानामीश्वरोगीतमात्रात्

सर्वान्कामान्सर्वदासन्दधाति॥७४॥

गृहेषुसक्ताःप्रलपन्त्यनेकधा

गृहेषुवासःसकलार्तिसाधकः।

विवेकिनस्तत्परिभूयभुञ्जते

गुहासुतीर्थेषुहरेःकथामृतम्॥७५॥

शाकान्कणान्वाफलमूलकम्वा

कृत्वाशरीरेन्द्रियधारणाय।

तीरेतटिन्याभवनाशहेतोः

सदामधुद्विट्सुकथानुदृप्राः॥७६॥

सम्सारसारस्त्वयमेकएव

दुःखावहान्यन्यविचरणानि।

यत्पादभक्तिर्भगवत्यनन्ते

विविक्तवासोगिरिगह्वरेषु॥ ७७ ॥

॥इतिश्रीब्रह्माण्डपुराणेक्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

नवमोऽध्यायः॥

॥श्रीः॥

॥श्रीमतेलक्ष्मीनृसिम्हपरब्रह्मणेनमः॥

॥श्रीमदहोबिलमाहात्म्येदशमोऽध्यायः॥

ऋषयः

भगवन्ब्रह्मसम्भूतश्रुताविस्तरतःकथाः।

नारायणैकनिलयाःश्रुतिपीयूषकल्पकाः॥१॥

इदानीम्श्रोतुमिच्छामोमोक्षोपायविनिर्णयम्।

साङ्ख्ययोगादिकेधर्मेनाधिकारोऽस्तिकस्यचित्।

यद्यस्तिसुकृतोपायःकृपयावैप्रकाशय॥२॥

श्रीनारदः

कालदोषान्मनुष्याणाम्मनश्चाञ्चल्ययोगतः।

दुर्ग्राह्यत्वादिन्द्रियाणाम्विश्वासाधिक्यहानितः॥३॥

कर्मादिष्वधिकारस्तुनराणाम्नोपजायते॥४॥

शुश्रूषणविधानेनहरेर्मूर्तिमवाप्नुयात्।

क्रिययोगोह्ययम्मार्गो योगवन्मुक्तिसाधकः॥५॥

स्नानैस्तीर्थोदकैर्हूद्यैःपुष्पगन्धानुलेपनैः।

विविधैर्भूषणैर्भक्ष्यैर्गीतनादैर्मनोहरैः॥६॥

चन्दनागरुधूपैश्चकिञ्चिद्भोग्यादिकेनच।

भक्त्यानमेन्नरश्रेष्ठःकुर्याद्विष्णवर्चनम्परम्॥७॥

रागेणाकृष्यतेचेतोगान्धर्वाभिमुखम्यदि।

हरौबुद्धिम्समावेश्यगातव्यम्गानमुत्तमम्॥८॥

श्रोतव्याःप्रीतियुक्तेनअवतारकथाःशुभाः।

हरौविन्यस्यसर्वस्वम्आत्मानम्यततदग्रतः॥९॥

तदर्थम्कुरुतेधर्ममधर्मस्तव्यतिक्रमः।

राज्यम्वापिमुनिश्रेष्ठानिवेद्यहरिसन्निधौ॥१०॥

अत्रैवोदाहरन्तीममितिहासम्पुरातनम्॥११॥

चक्रवर्तीमहावीर्योमान्धातायुवनाश्वजः।

शशाससमहाबाहुःसप्तद्विपाम्वसुन्धराम्॥१२॥

यावत्सूर्यउदेतिस्मयावत्तिष्ठतिमेदिनी।

तत्सर्वम्यौवनाश्वस्यमान्धातुःक्षेत्रमुच्यते॥१३॥

सकदाचित्सपत्नीकोवसिष्ठम्वाक्यमब्रवीत्।

कथमेतादृशीसम्पदावयोःसमुपस्थिता॥१४॥

वसिष्ठाः

त्वमासीःशूद्रजातीयःपरहिम्सापरायणः।

इयम् च भवतो भार्या पूर्वमप्यायतेक्षणा ॥१५॥

प्रेष्याबभूवत्वच्चित्तातवशुश्रूषणेरता।

वासुदेवालयेनित्यम्कृतम्सम्मार्जनम्त्वया॥१६॥

तथैवाभ्युक्षणम्भूपनित्यम्चैवानुलेपनम्।

पत्न्यानयाचधर्मज्ञयुष्मच्चित्तानुवृत्तया॥१७॥

अहन्यहनितत्कर्मयुवयोर्नामकुर्वतोः।

अत्रैवतन्मयत्वेनपापहानिरजायत॥१८॥

विष्णोःकार्यम्मयाकृत्यम्योगशुश्रूषणेरता।

नप्रभाम्तुप्रभावम्तुचिन्तयाचभवन्निशि॥१९॥

कदाहम्भगवत्कार्यम्करिष्येऽभ्युक्षणादिकम्।

इतिचिन्तयतोनित्यम्मनश्शुद्धिरभूत्तव॥२०॥

स्मारितःपुण्डरीकाक्षःकार्येणातिदृढात्मना।

निश्शेषमपयातम्तत्पापम्योगनिषेवणात्॥२१॥

ततोऽधिकतरम् तस्मादगाराद्यनुलेपनम्।

सम्मार्जनम्च बहुशःसपत्नीकेनवैकृतम्॥२२॥

तत्रागतश्चसौवीरःकुरुजन्मातुभूपतिः।

महासैन्यपरीवारःप्रभूतगजवाहनः॥२३॥

सर्वसम्पदुपेतम्तम्सर्वाभरणभूषितम्।

वृतम्भार्योसहस्रेणदृष्ट्वास्रक्चन्दनोज्ज्वलम्॥२४॥

स्पृहाकृतात्वयातत्रचारुमालिनिपार्थिवे।

सर्वकामप्रदम्कर्मदेवस्यार्तेप्रकुर्वता॥२५॥

तेनेदमखिलम्राज्यमशेषम्नृपसत्तम॥२६॥

तत्रैवावसथेदीपःप्रशान्तःस्रेहसङ्क्षयात्।

निजभोजनतैलेनपुनःप्रज्वलितस्त्वया॥२७॥

अनयाचोत्तरीयान्तचीरलेशोपबृम्हितः।

तवपत्न्यासजज्वालकान्तिरस्यास्ततोऽधिका॥२८॥

तवाप्यखिलभूपालमनःक्षोभकरम्ततः।

तेजोनरेन्द्रनस्याद्वाकिमाराध्यजनार्दनम्॥२९॥

एवम्नरेन्द्रशूद्रस्त्वम्विष्णुकर्मपरायणः।

तन्मयत्वेनसम्प्राप्तोमहिमानमनूपमम्॥३०॥

किम्पुनर्योनरोभक्तोविष्णुशुश्रूषणादृतः।

करोतिसततम्पूजाम्निष्कामोऽनन्यमानसः ॥३१॥

ततोसमृद्धिमिमाम्लब्ध्वासर्वलोकेश्वरेश्वरम्।

पूजयाच्युतमीशेशपूतमाराध्यनसीदति॥३२॥

पुष्पैर्धूपैस्तथाचान्यैर्दीपैर्वस्त्रानुलेपनैः।

आरधयाच्युतम्तस्यवेश्मसम्मार्जनादिना॥३३॥

यद्यदिष्टम्तुकिञ्चिद्यद्यदत्यन्तदुर्लभम्।

तत्तदत्वाजगद्धात्रेवैकुण्ठायनसीदति॥३४॥

सुगन्धागरुकर्पूरचन्दनक्षौद्रकुङ्कुमैः।

वासोभिर्विविधैर्धूपैःपुष्पस्रक्चामरध्वजैः॥३५॥

अन्नोपहारैविविधैर्घृतक्षीराभिषेचनैः।

गीतवादित्रनृत्ताद्यैस्तोषयन्वाच्युतम्नृप॥३६॥

पुण्यरात्रिषुगोविन्दम्नृत्तगीतरथोत्सवैः।

भूपजागरणैर्भक्त्यातोषयाच्युतमव्ययम्॥३७॥

एवम्सन्तोषितोभक्त्याभगवान्भवभङ्गकृत्।

करोतिसकलम्सम्यगन्तेविष्णुपदम्तथा॥

श्रीनारदः

इत्युक्त्वातुवसिष्ठस्तुस्वाश्रमम्प्रययौमुदा॥३८॥

यावत्यःपाम्सुकणिकामार्जनेकेशवालये।

वर्षाणिदिवितावन्तितिष्ठत्यस्तमलोनरः॥३९॥

उपलेपनकर्तारःसम्मार्जनकराश्चये।

कृष्णालयेपरित्याज्यम्यमेनतुकुलत्रयम्॥४०॥

शनैःसम्मार्जनम्कुर्यान्मार्जन्यामृदुकूर्चया।

पश्यन्परिहरन्जन्तून्चान्द्रायणफलम्लभेत्॥४१॥

अग्निष्टोमम्तुपक्षेणवाजपेयम्तुमासतः ।

सम्वत्सरेणाश्वमेधम्मार्जनात्फलमुच्यते॥४२॥

नैरन्तर्येणयःकुर्यातसम्मार्जनमतन्द्रितः।

युगकोटिशतम्दिव्यम्विष्णुलोकेमहीयते॥४३॥

तस्यान्तेतुचतुर्वेदीसुरूपःप्रियदर्शनः।

अर्च्यःसर्वगुणोपेतोराजावाभवतिप्रियः॥४४॥

यावज्जीवम्नरःकुर्वन्कर्मविष्णुगुहेतथा।

तत्फलम्शतसाहस्रम्ज्ञानम्प्राप्यहरिम्व्रजेत्॥४५॥

प्रतिष्ठाम्नृहरेर्यस्तुकरोतिदृढमानसः।

वैकुण्ठम्लभतेमर्त्योयतोनावर्ततेपुनः॥४६॥

प्रतिमाम्लक्षणोपेताम्नारसिम्हस्यकारयेत्।

भक्त्यायःसतुपापानित्यक्त्वाविष्णुपुरेवसेत्॥ ४७ ॥

विधिवत्स्थापयेद्यस्तुकारयित्वाजनार्दनम्।

नजानेनिर्गमम्तस्यविष्णुलोकादहम्द्विजाः॥४८॥

योहिस्थापयतेविष्णुम्सर्वदेवनमस्कृतम्।

स्थापितम्तेनसर्वम्स्याज्जगत्स्थावरजङ्गमम्॥

पूजितम्चयथान्यायमत्रमेनास्तिसम्शयः॥४९॥

काष्ठलोहशिलामृद्धिःप्रतिमाक्रियतेनरैः।

मातृतःपितृतश्चैवयतश्चोद्वहतेस्त्रियम्॥

कुलैकविम्शमुद्धृत्यविष्णुलोकेमहीयते॥५०॥

सागराणाम्क्षयोऽप्यस्तिक्षीयतेहिमवानपि।

विष्णुलोकक्षयोनास्तियेतुनारायणाश्रयाः॥५१॥

शरीरममृतम्प्रोक्तम्शरीरम्बिम्बमुच्यते।

तस्यप्राणइतिप्रोक्तम्कौतुकम् मुनिसत्तमाः॥५२॥

लोहम्तुकौतुकायैवपूर्वम्सृष्टम्स्वयम्भुवा।

सुवर्णम्रजतम्ताम्रमित्येतत्कौतुकावहम्॥५३॥

मणिभिश्चापिनिर्दिष्टम्कौतुकम्तुविशेषतः।

ताम्रात्सहस्रगुणितम्राजतम्कौतुकाकृति ॥ ५४ ॥

तस्माद्दशसहस्रन्तुसौवर्णकुतुकेफलम्॥५५॥

अकौतुकालये यस्तु कौतुकम् स्थापयेन्नरः ।

लभतेसतुपुण्यात्माअपरावर्तिनीस्रस्मृतिम्॥५६॥

येभविष्यन्तियेऽतीताःआकल्पाःपुरुषाःकुले।

तान्स्थापयतिसम्स्थाप्यदेवस्यप्रतिमाम्हरेः॥५७॥

येनचायतनम्विष्णोःकारितम्तत्कुलोद्भवम्।

पुम्साम्शतम्नचलोक्यम्यमदूतैःकदाचन॥५८॥

यस्तु देवालयम्विष्णोर्दारबम्शैलजम्तथा।

मृन्मयम्वाहरेःकुर्यात्श्रोतव्यम्तस्यवैभवम्॥५९॥

अहन्यहनियज्ञेनयाजितोयत्फलम्महत्।

प्राप्नोतितत्फलम्विष्णोर्यःकारयतिमन्दिरम्॥६०॥

कुलानाम्शतमागामिसमतीतम्तथाशतम्।

ज्येष्ठताम्चविमानेनयात्यच्युतसलोकताम्॥६१॥

सप्तजन्मकृतम्पापम्स्वल्पम्वायदिवाबहु।

विष्णोरालयनिर्माण प्रारम्भादेव नश्यति ॥६२॥

सर्वलोकमयोविष्णुस्तस्यायःकुरुतेगृहम्।

प्रतिष्ठाम्वासमाप्नोतिसनरःसार्वकालिकम्॥६३॥

इष्टकायाश्चविन्यासोयावद्वर्षाणितिष्ठति।

तावद्वर्षसहस्राणिधर्मवान्दिवितिष्ठति॥६४॥

आलयम्मण्टपम्चैवप्राकारम्गोपुरम्तथा।

उद्यानमुदकम्चैवपीठतोरणापालिकाः॥

हरेर्दत्वामहाभागसोऽनन्तम्फलमश्नुते॥६५॥

मृण्मयात्कोटिगुणितोधर्मःस्याद्दारुणाकृतिः।

कोट्याःकोटिगुणम्तस्यदारवादिष्टकाकृतिः॥६६॥

ततोद्विगुणितोधर्मःशैलजःस्याद्धरेर्गृहे।

मृच्छैलजम्समम्ज्ञेयम्पुण्यमाढ्यदरिद्रयोः॥६७॥

अपीष्टकामायुक्तम्योविष्णोर्गृहकम्नरः।

विदूतपापसङ्घातोविष्णुलोकम्व्रजेच्चसः॥६८॥

क्रीडमानोऽपियःकुर्याद्बालोविष्णुगृहम्शुचिः।

लभतेसर्वलोकेषुविमानम्सर्वगम्शुभम्॥६९॥

खण्डस्फटिकसङ्काशम्यःकुर्याद्वैहरेर्गृहम्।

आरामावसथाद्येषुलभतेमौलिकम्पदम्॥७०॥

प्रत्यक्षम्चप्रकुर्वीतविष्णोरायतनम्महत्।

धवलक्षीरसुधयाबहुशोभनवर्णकैः॥७१॥

यावतोऽब्दान्प्रकुरतेधवलम्तुसुरालयम्।

तावद्युगसहस्राणिसवितुर्लोकमेष्यति॥

भुक्त्वातत्रमहाभोगान्विष्णुलोकेमहीयते॥७२॥

यः कुर्यात्कुट्टिमाम्भूमिम्दर्पणोदरसन्निभाम्।

नानामणिविचित्रान्ताम्विचित्रकुसुमोत्कराम्॥७३॥

क्वचित्कुशलविन्यासैःफलकैरूपशोभिताम्।

मनोऽभिरामाम्सुशुभाम्नारायणगृहोच्छ्रिताम्॥७४॥

यावद्दण्डाभवेद्भूमिःसमन्ताश्चैवशोभना।

तावद्युगसहस्राणिविष्णुलोकेमहीयते॥७५॥

देवतालयकर्तुश्चसुधालेपनकारिणः।

प्रतिमायाश्चपीठस्यकौतुकस्यतथैवच॥७६॥

नवकर्भकृतश्चैवपञ्चानाम्तत्फलम्समम्।

समम्फलतमम्तेषाम्भोगदातासमश्नुते॥७७॥

प्राकारगोपुरादीम्श्चविमानम्मण्टपम्तथा।

भूषणादीनिपात्राणिजीर्णान्यन्यानियोनरः॥७८॥

यदिकुर्यात्पुनस्तानिकर्तुःशतगुणम्भवेत्।

सर्वेषामेवपात्राणामतिपात्रम्तुकेशवः॥७९॥

पातकात्त्रायतेयस्मादतीवनरकार्णवे।

तस्मात्`पात्रमितिप्राहुःपात्राणामुत्तमोहरिः॥८०॥

तस्यपात्रस्यमाहात्म्याद्दानम्दत्तमनन्तकम्।

तस्मादस्मैसदादेयमप्रमेयपदार्थिभिः॥८१॥

नारायणेहुतम्जप्तम्दत्तम्पूजाबलिक्रिया।

एकेकमत्यन्तफलम्तद्भवेन्नात्रसम्शयः॥८२॥

ताम्रपात्रप्रदानेनयत्पुण्यम्वेदपारगे।

तस्मात्सहस्रगुणितम्`काँस्यपात्रप्रदानतः॥८३॥

हेमपात्रम्तुयद्दत्तम्पुण्यम्वैवेदपारगे।

ताम्रपात्रेषुतत्सर्वम्सहस्रगुणितम्भवेत्॥८४॥.

फलम्कोटिसुवर्णस्यदानाद्यद्वेदपारगे।

नारायणेरूप्यदानात्तत्पुण्यमयुतायुतम्॥८५॥

हेमपात्रम्तुयोदद्याद्विष्णवेभक्तिसम्युतः।

नशक्यम्तस्यतद्वक्तुम्पुण्यम्वर्षशतैरपि॥८६॥

तुल्यमेवफलम्प्रोक्तम्यत्तदाढ्यदरिद्रयोः।

तयोरप्यधिकम्तस्ययस्यभक्तिर्हरौभवेत्॥८७॥

ध्वजम्चविष्णवेयस्तुगरुडेनसमन्वितम्।

दद्यात्कोटिध्वजाकीर्णम्विमानेनविराजितम्॥८८॥

विष्णुलोकम्अवाप्नोतिसेव्यमानोअप्सरोगणैः।

योगाम्पयस्विनीम्विष्णोःकपिलाम्सम्प्रयच्छति।

ससर्वपापहरितःसर्वभूषणभूषितः॥

गवाम्सहस्रदानस्यफलम्प्राप्यहरिम्व्रजेत्॥८९॥

आराधनाययोगाम्तुयत्किञ्चिद्द्रव्यमुत्तमम्।

नरसिम्हायदद्यात्सविष्णूलोकेमहीयते॥९०॥

वासुदेवम्समुद्दिश्यसर्वदानानिमानवैः।

वेदिविद्भयःप्रयत्नेनदातव्यानिमनीषिभिः॥९१॥

आराध्यवैष्णवम्शान्तम्सदातद्भावभावितम्।

प्रीयताम्भगवान्विष्णुरितिसङ्कल्प्यभोजयेत्॥९२॥

वेदाध्ययनसम्पन्नम्सदाचारम्कुटुम्बिनम्।

विष्णुप्रीत्यासमभ्यर्च्यभोजयेद्भक्तिसम्युतः॥९३॥

यत्रनारायणोदेवःपरमात्मासनातनः।

यत्रसर्वम्जगत्सर्वम्तीर्तान्यायतनानिच॥९४॥

नारायणोदरोविप्रोयस्यान्नम्प्रीतमानसः।

अश्णातितद्धरेरास्येगतमन्नम्नसम्शयः॥९५॥

यतिर्यस्यगृहेभुङ्क्तेतत्रभुङ्क्तेहरिःस्वयम्।

हरिर्यस्यगृहेभुङ्क्तेतत्रभुङ्क्तेजगत्रयम्॥९६॥

क्रियायोगोबहुविधोनिर्मलोमुक्तिसाधकः।

इदम्वःकथयिष्यामिशृणुध्वमृषिसत्तमाः॥९७॥

गारुडम्शैलमासाद्यनद्याम्स्नात्वाशुचिर्नरः।

मार्गशीर्षेतुयोमासेएकभुक्तेनसङ्क्षिपेत्॥९८॥

कुर्वन्वैविष्णोःशुश्रूषाम्सावम्शेजायतेशुभे।

पौषेस्यात्सङ्गरहितःसौभाग्यम्फाल्गुनेलभेत्॥९९॥

चैत्रेसुवर्णरत्नाढ्योवैशाखेस्वकुलोत्तमः।

ज्येष्ठेतुसम्पदम्विद्यादाषाढेधनपुत्रवान्॥१००॥

श्रावणेधान्यनिलयोमासिभाद्रपदेऽन्नवान्।

प्रजावान्मानवोऽप्याश्वयुजेमासेतुपुत्रवान् ॥ १०१॥

कार्तिकेचैकधाभुक्तेयश्चविष्णुपरोनरः।

शूरश्चकृतविद्यश्चबहुपुत्रश्चजायते॥१०२॥

फाल्गुनेमासिसम्प्राप्तेपूर्णिमायाम्नृकेसरी।

त्रयस्त्रिम्शत्कोटिसङ्ख्यैर्देवैरिन्द्रेणशम्भुना॥१०३॥

चतुर्मुखेनमुनिभिर्ब्रह्मैपूर्वैरनेकशः।

महषिभिर्महाभागैर्भूभागनिलयैः शुभैः ॥१०४॥

पितृदेवैःकर्मदेवैर्यक्षगन्धर्वकिन्नरैः।

भूलोकवासिभिश्चैवनरैर्भक्तिसमन्वितैः॥

आराध्यतेजगन्नाथोवर्षेवर्षेत्वनेकधा॥१०५॥

गङ्गाद्याःसरितश्चैवसागराश्चसराम्सिच।

तस्मिन्दिनेसमागत्यविशन्तिभवनाशिनीम्॥१०६॥

नृहरेरुत्सवम्द्रष्टुम्नराभक्त्याप्रतस्थिरे।

पदेपदेऽश्वमेधस्यफलम्तेषाम् नसम्शयः॥१०७॥

येतुपिण्डान्प्रयच्छन्तिपितृनुद्दिश्यतद्दिने।

तरन्तिपितरस्तस्यकुयोनिष्वाश्रिताअपि॥१०८॥

वैशाखेमासिसम्प्राप्तेध्वजारोहम्प्रकुर्वते।

देवस्यनरसिम्हस्यगरुडाचलवासिनः॥१०९॥

ब्रह्मणाकल्पितम्पूर्वम्कमलोदरजन्मना।

श्रुत्वाभगवतःसाक्षात्तन्त्रम्वैपाञ्चरात्रकम्॥११०॥

कापिञ्जलविधानेनतीर्थम्वैलोकपावनम्।

अद्यापिक्रियतेसद्धिर्भक्त्यापूर्तैःसउत्सवः॥१११॥

तीर्थार्तमागतानाम्तुअन्नम्पानीयमेववा।

प्रयच्छन्त्यतिसन्तोषात्तेषाम्तुनिलयाःशुभाः॥ ११२॥

येत्वावासम्प्रयच्छन्तियेत्वेवमुपकुर्वते।

तेषाम्तुसुखदान्लोकान्प्रयच्छतिनृकेसरी॥११३॥

येतुदानानिकुर्वन्तिहिरण्यादीन्यसङ्ख्यया।

एकैकस्याक्षयोलोकोभवत्येवनसम्शयः॥११४॥

इत्येतत्सकलमुदीरितम्मुरारेः

अत्यन्तप्रवणमतेःस्वभावहेतोः।

त्यक्त्वान्यद्भवरससम्भवम्प्रमोदम् भक्त्यातम्भजतिनृकेसरिस्वरूपम्॥११५॥

इत्येवमुक्ताहयमेधसःकथाः

श्रुत्वापियाःपामरताम्जहाति।

आमन्त्र्यमोदेनचशौनकादीन्

ययौ स्वकम् धाम स नारदो मुनिः ॥११६॥

श्रावम्श्रावम्मुररिपुकथाःश्रोत्रपीयूषपूरान्

स्मारम्स्मारम्सकलसुखदम्भाषितम्नारदेन।

सारम्सारम्हृदिमुनिजनाःकल्पवल्लीसमानाम्

वारम्वारम्भवहरभवम्वारिजाक्षम्भजन्ते॥११७॥

देवोहरिर्दैत्यपतेर्निहन्ता

अहोबिलम्क्षेत्रमनुत्तमम्च।

तीर्थम्चपुण्यम्भवतापमोचनम्

एतत्रयम्यस्यसवैमहान्भुवि॥११८॥

नप्रार्थनीयम्सुरराजवैभवम्

प्रजापतेर्वापशुपालकस्य।

यस्याधिवासोगरुडाचलेऽभूद्

द्रुमादिभिर्मोक्षपदेनकिम्वा॥११९॥

बाल्येवयस्याप्तजनेचपूर्णे

सर्वङ्कषेशास्त्रवरेषुचित्ते।

त्यक्त्वासमस्तम्जयतिक्रियार्थम्

कर्तव्यमेको गरुडाद्रिवासः ॥१२०॥

नब्रह्मचर्यम्नगरेनिवासो

नकाननस्थोनगृहेनिवासः।

तीर्थान्यनन्तानिवसन्तुलोके

वसन्तु वा भूधरनायकाश्च ॥१२१॥

देवास्त्वनेकेकिटिवामनाद्याः

तथापिचित्तेनहिरोचनीयाः।

तीर्थम्त्वमेयम्भवनाशिनीयम्

गिरिश्चवेदात्मकभूधरेन्द्रः॥१२२॥

देवोनृसिम्होजगताम्निवासो

भवेभवेतिष्ठतुपावनाय ॥ १२३ ॥

इदम्महोपनिषदम्चतुर्वेदसमन्वितम्।

आख्यानानाम्महाख्यानम्गुह्यानाम्गुह्यमुत्तमम्॥१२४॥

चतुर्मुखादिभिर्दृष्टम्नानार्थैरुपबृम्हितम्।

अहौबिलनृसिम्हस्यमाहात्म्यम्रोमहर्षणम्॥१२५॥

ऋषिभिर्बहुधागीतम्नारदाद्यैर्मह॒र्षिभिः।

धर्मार्थकाममोक्षाणामालयम्धर्मसञ्चयम्॥१२६॥

नास्तिकायनवक्तव्यम्नचान्यगतचेतसे।

अवेदान्तविदेचैवहरिम्वायोऽभ्यसूयति॥

तद्भक्तान्सात्त्विकाम्श्चैवयस्तुविप्राम्श्चनिन्दति॥१२७॥

श्रोत्रियायसुशीलायविष्णुभक्ताय्चैवहि।

वक्तव्यम्सादरम्ह्येतन्माहात्म्यम्हयमेधसः॥१२८॥

इदम्तत्सर्वमाख्यातमाख्यानम्लोकपूजितम्।

यःपठेच्छृणुयाद्वापिमहद्भयःश्रावयिष्यति॥

तेत्रयःपरयाभक्त्याविशन्तिपरमाम्गतिम्॥१२९॥

यएतब्द्धरिमाहात्म्यम्लिखित्वापुस्तकम्तुवै।

ददातिभक्तिवर्यभ्यस्तस्यपुण्यमनन्तकम्॥१३०॥

यद्गृहेपुस्तकम्चैतदर्चितम्गन्धधूपकैः।

तद्गृहेभूतवेतालकूश्माण्डाद्याःसहस्रशः॥

नशक्नुवन्तितद्द्रष्टुम्सतुपुण्यवताम्वरः॥१३१॥

जयतुजयतुदेवोदेवतामौलिरत्नम्

जयतुजयतुनित्यःसच्चिदानन्दरूपः।

जयतुजयतुदेवःप्राणशैलाधिवासो

जयतुजयतुदेवोनारसिम्होमुकुन्दः॥१३२॥

ननारसिम्हादधिकश्चदेवो

नतीर्थमन्यद्भवनाशहेतोः।

नगारुडाद्रेरपरोऽस्तिशैलो

नभक्तजन्तोरपरोऽस्तियोगी॥१३३॥

लोकेद्वयम्सारतमम्वदन्ति

विचार्यमाणेपरमार्थएव।

विलोकनम्वासुरसुन्दरीणाम्

आलोचनम्वागिरिगह्वरेषु॥१३४॥

प्रमेयम्नृहरिःसाक्षात्प्रमातारश्चसात्त्विकाः।

प्रमाणम्वेदवचनम्जयत्वाचन्द्रतारकम्॥१३५॥

अहोमुचामात्मविदाम्मुनीनामनन्यसाधारणदेवतानाम्।

हरिप्रियोत्पादनतत्पराणामहम्पदाम्भोरुहमाश्रयामि॥ १३६॥

त्यक्त्वासमस्ताधनदारसुताम्श्चबालान्

त्यक्त्वाक्रियात्मकविमोचनसाधनानि।

भक्त्यानृकेसरकथामृतसारमाशु

मर्त्याभजन्तुशुभयामधुकैटभारेः॥१३७॥

॥इतिश्रीब्रह्माण्डपुराणेक्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

दशमोऽध्यायः॥

॥श्रीमदहोबिलमाहात्म्यम्सम्पूर्णम्॥

——————————————