श्रीमदहोबिलमाहात्म्यम् Part 2

श्रीः

श्रीमते रामानुजाय नमः

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम्

॥ श्रीमदहोबिलमाहात्म्ये प्रथमोऽध्यायः ॥

नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् ।
देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् ॥
प्रणम्य परमात्मानम् परमानन्दकारणम् ।
प्रवक्ष्यामि यथापूर्वम् माहात्म्यम् हयमेधसः ॥ १ ॥

पुरा तु जाह्नवीतीरे मुनयः शौनकादयः ।
कृतात्मानः परप्रीत्या पप्रच्छुर्नारदम् मुनिम् ॥ २ ॥

भगवन् ज्ञानिनाम् श्रेष्ठ भवसन्तप्तचेतसाम् ।
उत्तारणकर प्राज्ञ सत्यसङ्कल्पवैभव ॥ ३ ॥

हिरण्यगर्भादमलादवतीर्णमहात्मनः ।
भूतभव्यभवत्कालजन्तुजालविनिर्णये ॥ ४ ॥

समर्थ सकलातीत सर्वज्ञ ऋषिसत्तम ॥ ५ ॥

श्रुत्वा हिमवतः पार्श्वे सेतोरुत्तरतस्तटे ।
यानि तीर्थानि पुण्यानि दैवतायतनानि च ॥ ६ ॥

नद्यश्च गिरयश्चैव पुण्यान्युपवनानि च ।
तथा ह्रदाश्च पुण्यानि गुहागहनकाननम् ॥ ७ ॥
श्रीमुष्णम् वेङ्कटाद्रिश्च सालग्रामम् च नैमिषम् ।
तोताद्रिम् पुष्करम् चैव नरनारायणाश्रमम् ॥ ८ ॥
श्रीरङ्गम् वृषभाद्रिश्च नारायणगिरिस्तथा ।
अनन्तशयनम् बैल्वम् कुरङ्गम् मलयाचलम् ॥
कृतशौचहरम् पापम् सिम्हाद्रिश्चाप्यहोबिलम् ॥ ९ ॥

इत्येवमादयः सर्वे श्रुता वै ब्रह्मणो मुखात् ।
ततस्तु विस्तराद्वक्तुमेतन्माहात्म्यमुत्तमम् ॥ १० ॥
भगवान् वृषभः प्राह कपिलाय महात्मने ।
कपिलः पुरुकुत्साय पुरुकुत्सोऽङ्घ्रिचक्षुषे ॥ ११ ॥
तत्राहोबिलमाहात्म्यमत्यद्भुतमुदाहृतम् ।

अस्माभिः सावधानैस्तु न श्रुतम् कर्मचोदितैः ॥ १२ ॥
इदानीम् श्रोतुमिच्छामो विस्तरेण महामते ।
माहात्म्यम् देवदेवस्य क्षेत्रस्य हयमेधसः ॥ १३ ॥
न प्रीतिराश्रमाचारे न प्रीतिर्गृहकर्मणि ।
न प्रीतिः परचिन्तायाम् न प्रीतिः सुखवर्धने ॥ १४ ॥
तृष्णार्तस्तु यथा तोयम् क्षुधार्तो भुक्तमादरात् ।
यथा गृह्णन्ति तद्वच्च माहात्म्यम् हयमेधसः ॥ १५ ॥
त्वम् तु कल्यः कविर्दक्षः परार्थैकप्रयोजनः ।
कृतार्थान् कुरु नो मौने वचोगुम्भैरनुत्तमैः ॥ १६ ॥
एतञ्छ्रुत्वा तु वचनम् परमम् रोमहर्षणम् ।

प्रसन्नवदनः प्राह भगवान् नारदो मुनिः ॥ १७ ॥
श्रीनारदः –
शृणुध्वम् मुनयः सर्वे शौनकात्रिपुरोगमाः ।
क्षेत्राण्यन्यानि सन्त्येव लोके पुण्यतराणि वै ॥ १८ ॥
पुरुषार्थेकभूतानि निर्मितानि स्वयम्भुवा ।
तैषाम् नामानि सङ्ख्यातुम् माहात्म्यम् च न शक्यते ॥ १९ ॥
तथापि श्रूयताम् किञ्चित् प्रीत्या चैव वदामि वः ।
अवन्ती च कुरुक्षेत्रम् काशी बदरिकाश्रमम् ॥ २० ॥
गया प्रयाग केदारम् देवदारुवनानि च ।
एतेषामुत्तमम् क्षेत्रम् प्रयागम् लोकपावनम् ॥ २१ ॥
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः ।
समागच्छन्त्यमायाम् वै प्रयागे मुनिसत्तमाः ॥ २२ ॥
अहोबिलनृसिम्हस्य समन्ताद् योजनत्रयम् ।
गयाप्रयागकाशिभ्यः सत्यम् शतगुणाधिकम् ॥ २३ ॥
गयाम् गच्छेत् पितृप्रीत्यै तनुत्यागाय जाह्नवीम् ।
काशीम् तारोपदेशाय एभिस्त्रिभिरहोबिलम् ॥ २४ ॥
काश्याम् युगसहस्राणि प्रयागे युगविम्शतिः ।
गयाम् युगशतम् चैव वसेद्दिनमहोबिले ॥ २५ ॥
गयायामयुतम् भुक्तम् प्रयागे लक्षभोजनम् ।
काश्याम् चैव द्विलक्षम् तु ग्रासमेकमहोबिले ॥ २६ ॥
अहोबिलार्पितद्रव्यमणुमात्रमपि द्विजाः ।

तद् द्रव्यम् मेरुणा तुल्यम् वर्धते वटबीजवत् ॥ २७ ॥
पञ्चानामपि पापानाम् पञ्चकोऽयम् महामनुः ।
प्रातरुत्थाय वक्तव्यमहोबिलमहोबिलम् ॥ २८ ॥
अहोबिलमिति ह्येतञ्चतुरक्षरमुत्तमम् ।
चतुर्वर्गफलाकारम् चतुराननपूजितम् ॥ २९ ॥
योजनत्रयविस्तीर्णम् योजनत्रयमायतम् ।
वीरक्षेत्रमिति ख्यातम् नृसिम्हस्याभिमानतः ॥ ३० ॥
यस्मिन् वसन्ति मुनयो वीतरागा भयद्रुहः ।
कृतात्मानः कृतावासा नारायणपदाम्बुजे ॥ ३१ ॥
अम्बक्षा वायुभक्षाश्च निराहाराश्च केचन ।
जटिलाश्चैव मुण्डाश्च साधारणपरिग्रहाः ॥ ३२ ॥
तथा शब्दे च निष्णाता ब्रह्मण्यानन्दरूपिणि ।
अमाययात्मव्यक्त्या च तोषयन्तो जगद्गुरुम् ॥ ३३ ॥
सर्वतो मनसोऽसङ्गम् कुर्वन्तः साधुसङ्गमम् ।
दयाम् मैत्रीम् प्रश्रयम् च कुर्वन्तो जन्तुराशिषु ॥ ३४ ॥
ब्रह्मचर्यम् समत्वम् च मौनम् स्वाध्यायमार्जवम् ।
शौचम् तपस्तितिक्षाम् च सर्वत्वम् च सहिष्णुताम् ॥ ३५ ॥
सर्वत्रात्मेश्वरान्वीक्षाम् कलयन्तोऽमलाशयाः ।
विविक्तचीरवसनाः सन्तुष्टा येन केन च ॥ ३६ ॥
मनोवाक्कायदण्डम् च सत्यम् शमदमावपि ।
श्रवणम् कीर्तनम् ध्यानम् नृहरेः प्रियमित्यतः ॥ ३७ ॥
सम्पादयन्तो यद्दत्तमिष्टम् यज्जप्तमात्मनः ।
दासान् सुतान् गृहान् प्राणान् परेशायेति चिन्तकाः ॥३८॥
अनन्ययाजिनः सर्वे सदा कैवल्यचिन्तकाः ।
तस्मिन् क्षेत्रे महाशैलो गरुडाद्रिरिति श्रुतः ॥ ३९ ॥
योजनत्रयविस्तीर्णम् योजनत्रयमायतम् ।
वीरक्षेत्रमिति ख्यातम् नृसिम्हस्याभिमानतः ॥ ४० ॥
उच्छ्रितैः शृङ्गनिचयैः चलद्भास्करचन्द्रमाः ।
दूरादालक्ष्यते शृङ्गैर्दुःखसागरसेतुभिः ॥ ४१ ॥
मेरुवत् प्रकटाकारम् कश्चिच्छृङ्गस्तु लक्ष्यते ।
तच्छायाचलनम् नास्ति मुक्तानाम् पदवी यथा ॥ ४२ ॥
हिरण्यकशिपोः पूर्वमसुराणाम् महीयसः ।
गृहस्य स्तम्भभूतोऽयम् कालादचलताम् गतः ॥ ४३ ॥
अद्यापि दृश्यते तत्र मध्यदेशे हरिः स्वयम् ।
ज्वालाऽऽकारोनृसिम्होऽयमयुतार्कसमप्रभः ॥ ४४ ॥
हिरण्यकशिपोस्तत्र वक्षःपीठम् व्यदारयत् ।
नखैर्दम्भोलिसङ्काशैर्नाकिप्रीतिकरैः शुभैः ॥ ४५ ॥
तत्र देवः क्षालितवान् करपङ्केरुहद्वयम् ।
रक्तकुण्डमिति ख्यातम् मध्यदेशे विराजितम् ॥ ४६ ॥
न वायुना नातपेन कतिचित् क्षीयते जलम् ।
ये तु तज्जलमालोक्य नृसिम्हम् सम्स्मरन्ति वै ॥ ४७ ॥
ते रक्तमिश्रिताम् योनिम् न यान्ति हि कदाचन ।
अस्य चोग्रस्य देवस्य शान्त्यर्थम् देवतागणः ॥ ४८ ॥
गङ्गाम् त्रिपथगान्नीय स्नापयामास सादरम् ।
सा पश्चिमाभिमुखतः प्रवहन्त्यतिभीषणा ॥ ४९ ॥
भवसन्तापहरणात् तन्नामा भवनाशिनी ।
ऋषयो निश्चयम् चक्रुः निर्मलाञ्चप्रभावतः ॥ ५० ॥
अस्य गारुडशैलस्य शतयोजनसम्मिते ।
मुनयो दक्षभागे तु ये विशेषा महीयसः ॥ ५१ ॥
भूधरस्योत्तरे भागे योजनद्वयसम्मि॒ते ।
नन्द्याश्रमम् महापुण्यम् यत्र वै नन्दिकेश्वरः ॥ ५२ ॥
शिवमुद्दिश्य भगवान् तपस्तेपे सुदारुणम् ।
ततः प्रसन्नो भगवान् शिवस्त्रैलोक्यपूजितः ॥ ५३ ॥
प्रमथानामाधिपत्यम् दत्वा तन्नाम तत्सरः ।
भूमिम् विभज्य हर्षेण शिवः सान्निध्यमातनोत् ॥ ५४ ॥
तस्य चोत्तरभागे तु श्रीशैल इति विश्रुतः ।
गरुडाचलभागोऽयम् गहनो देवदानवैः ॥ ५५ ॥
यत्र प्रीतिम् हरश्चक्रे हित्वा रजतभूधरम् ।
स्वयम्भूस्तत्र देवोऽयम् वरदोऽद्यापि दृश्यते ॥ ५६ ॥
तत्र कृष्णा प्रवहति लोककण्ठकलोपिनी ।
सावधिः पर्वतस्यास्य ततः प्रत्यन्तपर्वताः ॥ ५७ ॥
ये के चात्र स्थिताः पुण्या नद्यो भूधरकन्दराः ।
सिद्धाश्रमाः सुरावासा यक्षा गन्धर्वकिन्नराः ॥ ५८ ॥
वैभवान्नारसिम्हस्य सर्वे पूज्यतमा भुवि ।
ऋषयः –
कुत्रेदम् पावनम् क्षेत्रम् यत्र वै गरुडाचलः ।
विस्तीर्णस्यास्य शैलस्य कथमेकत्र वैभवः ॥ ५९ ॥
श्रीनारदः –
पञ्चाशत्कोटिविस्तीर्णा धरणी हरिवल्लभा ।
द्वीपैः समुद्रैः सहिता सप्तभिश्च शिलोच्चयैः ॥ ६० ॥
तस्याम् पृथिव्याम् द्वीपेषु जम्बूद्वीपमनुत्तमम् ।
कर्मभूमिर्यतो लोके साधकत्वान्महत्तमा ॥ ६१ ॥
तस्मिन् द्वीपे महाभागे खण्डे भरतसञ्ज्ञिके ।
मेरोर्दक्षिणभागे तु कृष्णवेण्याश्च दक्षिणे ॥ ६२ ॥
सप्तयोजनमात्रे तु पूर्वाम्भोधेस्तु पश्चिमे ।
अहोबिलम् तु विख्यातम् भागे वै सप्तयोजने ॥ ६३ ॥
तस्मिन्नहोबिलक्षेत्रे गरुडाद्रिरिति श्रुतः ।
यथा भगवतो व्यक्तिः परिपूर्णस्य सर्वतः ॥ ६४ ॥
एकत्र दृश्यते तद्वत् गरुडाचलसञ्ज्ञितः ।
एवम् क्षेत्रस्य नामेदम् पर्वतस्यास्य विश्रुतम् ॥ ६५ ॥
नानादृमलताकीर्णम् नानापक्षिनिषेवितम् ।
तरुभिश्चम्पकैस्तालैस्तमालैर्हेमभूरुहैः ॥ ६६ ॥
अशोकैस्तिलकैर्नागैर्नालिकैरैर्नभोगतैः ।
भूनिम्बैश्च कदम्बैः खर्जूरैः केतकीदृमैः ॥ ६७ ॥
पनसैः पाटलैश्चूतैः फलपुष्पविभूषितैः ।

पारिभद्रैः कदम्बैश्च सालैः सरलभूरुहैः ॥ ६८ ॥
करञ्जस्तिन्त्रणीभिश्च कपित्थैः पिप्पलदृमैः ।
चन्दनैः पनसैः काण्डैः सदा पुष्पलतान्वितैः ॥ ६९ ॥
शुकशारिमयूरादिकोकिलालापसम्युतैः ।
मरन्दपानादुन्मत्तभ्रमरैरुपशोभितम् ॥ ७० ॥

मदोन्मत्तैर्नीलमेघसङ्काशैर्गजपङ्क्तिभिः ।
परितः शोभमानोऽयम् मृगेन्द्ररुग्रकर्मभिः ॥ ७१ ॥
सारङ्गैः शरभैरुष्ट्रैर्भल्लूकैगौमृगैः शतैः ।
मृगधूर्तैर्मृगैरन्यैः फणिभिर्मणिशोभितैः ॥ ७२ ॥
कारण्डैः कलहम्सैश्च नीलकण्ठैर्मनो॒हरैः ।
नीलाञ्चनसमप्रख्यैघोर्रैः परमदारुणैः ॥ ७३ ॥
धनुर्बाणधरैर्म्लेच्छैः स्त्रीयुक्तैरुग्रदर्शनैः ।
शोभितः सर्वजन्तूनाम् रक्षणोपायदक्षकः ॥ ७४ ॥
मुनीन्द्रैः सेवितो नित्यम् सदानुष्ठानतत्परैः ।
भूसुरैर्भासितालापैः गुरुपूजापरायणैः ॥ ७५ ॥
क्रीडद्भिरप्सरोभिश्च सेवितः सर्वकामदः ।
महाशैलस्य माहात्म्यम् वक्तुम् वर्षशतैरपि ॥ ७६ ॥
न शक्यम् ब्रह्मणा वापि किम् पुनर्मादृशैर्जनैः ।
शैलस्य दक्षिणे भागे दशयोजनसम्मिते ॥ ७७ ॥
वेङ्कटाख्यो महाशैलो यत्रास्ते भगवान् हरिः ।
सेवितो नित्यमुक्तैश्च ऋषिभिश्च महात्मभिः ॥ ७८ ॥
एवमामलयाच्छैलो विस्तृतो गरुडाभिधः ।
एतद्वः सर्वमाख्यातम् यथासान्त्वम् सुभाषितम् ॥ ७९ ॥

**
॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे**

श्रीमदहोबिलमाहात्म्ये प्रथमोऽध्यायः **॥
**

॥ श्रीः ॥
॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥
॥ श्रीमदहोबिलमाहात्म्ये द्वितीयोऽध्यायः ॥

ऋषयः
भगवन् तपसाम् श्रेष्ठ नारदानादिपूरुष ।
कथमस्य तु शैलस्य नामासीद् गरुडाचलः ॥ १ ॥
श्रीनारदः
शृणुध्वम् मुनयः सर्वे सावधानमिदम् वचः ।
पुरा कृतयुगे पुण्ये गरुडो विनतासुतः ॥ २ ॥
तपश्चर्तुम् मनः कुर्वन् पितरम् वाक्यमब्रवीत् ।
केनोपायेन भगवन् सर्वेषामिष्टसम्भवः ॥ ३ ॥
को वा पूरयिता लोके मनोरथशतस्य तु ।
त्वम् हि नो जनकः साक्षाद् गुरुराचार्य एव च ॥ ४ ॥
यद्धितम् ब्रूहि मे तत्त्वम् नान्यम् पश्याम्यहम् गतिम् ।
अनाथम् कृपणम् मूढम् मग्नम् सम्सारसागरे ॥
उपदेशप्रदानेन समुद्धर्तुमिहार्हसि ॥ ५ ॥

कश्यपः
ये भवार्णवसम्मग्नाः विषयाक्रान्तचेतसाः ।
आराधनीयस्तैः सर्वैर्विष्णुरेव महीतले ॥ ६ ॥
स एव तेषामुद्धर्ता नान्योऽस्ति विनतासुत ।
तस्माज्जगत्पतिम् विष्णुम् तमाराधय सुव्रत ॥ ७ ॥
अनाराध्य हरिम् भक्त्या को लोकान् कामयेद् बुधः ।
हरावाराधिते तस्मिन् सुलभाः सर्वसम्पदः ॥ ८ ॥
यमाराध्य चतुर्वक्त्रः कृतवान् सृष्टिसम्भवम् ।
यद्भक्त्या देवराजत्वम् पुरुहूतस्तदाप्तवान् ॥ ९ ॥
सम्स्मृतः पूजितो धार्यो यः पुम्साम् भवहानिदः ।
स ते श्रेयः करोत्येव यदि भक्तिः सुनिश्चला ॥ १० ॥
न तथा विविधैर्यज्ञैर्न पुष्पैर्नानुलेपनैः ।
आराध्यते यथाभक्त्या विष्णुर्लोकनमस्कृतः ॥ ११ ॥
नाश्वमेधसहस्राणाम् सहस्रैरपि स प्रभुः ।
तुष्यते खगवर्यैवम् यथाभक्त्या जनार्दनः ॥ १२ ॥
न वेदैर्न तपोभिर्वा सन्तप्तैर्विविधैः प्रभुः ।
तुष्टिम् याति नृसिम्होऽयम् यथाभक्त्या जगत्पतिः ॥ १३ ॥
निष्किञ्चना ये ऋषयो भक्त्याराध्य जगत्पतिम् ।
यथा मुक्तिम् द्विजश्रेष्ठ धर्मार्थे च यथा परैः ॥ १४ ॥
यस्येश्वरे न भक्तिः स्यात् तम् विद्यात् पुरुषाधमम् ।
नाधीतवेदशास्त्रेऽपि न कृताध्वरविस्तरः ॥ १५ ॥
यो भक्तिम् कुरुते विष्णौ तेन सर्वम् कृतम् भवेत् ।
स्वाधीने चक्षुषि श्रोत्रे वाचा कायेन यो नरः ॥ १६ ॥
न पश्यति हरेर्मूर्तिम् तत्कथाम् न शृणोति यः ।
न वदेत गुणान् वापि तत्पूजाम् न करोति वा ॥ १७ ॥
स नरः पक्षिराजेह वृथा जीवति केवलम् ।
स्मर्यते न च सर्वात्मा विष्णुस्तन्नाम नानघे ॥ १८ ॥
स्तौति विष्णुम् यया वाचा सा वागित्यभिधीयते ।
श्रोत्रे ते तद्गुणा याभ्याम् श्रूयन्ते खगनायक ॥ १९ ॥
तावेव तु करौ यौ तु हरिपूजापरायणौ ।
यत्र क्वापि हरेर्मूर्ति प्रतिमाम् लक्षणान्विताम् ॥ २० ॥
आदरेण न पश्येद् यः सोऽन्ध इत्यभिधीयते ।

ऋग्यजुःसामगाथाभिः श्रुतिभिः सेतिहासकैः ॥ २१ ॥
न स्तौति देवदेवेशम् यः स मूढोऽभिधीयते ।
न शृणोति गुणान् वापि लीला नरमृगात्मनः ॥ २२ ॥
स नरो बधिरो ज्ञेयः सर्ववेदबहिष्कृतः ।
तस्मात् त्वम् शुद्धभावस्तु मनोवाक्कायकर्मभिः ॥ २३ ॥
आराधयन् हृषीकेशम् मनोनयननन्दनम् ।

तदा सुकुसुमैर्गन्धैः कर्पूरागरुचन्दनैः ॥ २४ ॥
सुवस्त्रैरर्चितो भक्त्या यथा देवो नृकेसरी ।
तस्मात् त्वम् सात्त्विको भूत्वा भक्तिम् कृत्वा तु निश्चलाम् ॥ २५ ॥
भज पापहरम् देवम् नारायणमनामयम् ।
स ते समस्तभूतात्मा सम्सारोच्छित्तये हरिः ॥ २६ ॥
भवत्यव्याहतैश्वर्यो भक्त्या सम्पूजितोऽनघः ।
श्रुत्वा सुभाषितम् तस्य कश्यपस्य महात्मनः ॥ २७ ॥
ननाम शिरसा भूमौ गरुडः पतगेश्वरः ।
उत्थाय च पुनः प्राह भगवन्तम् मुनीश्वरम् ॥ २८ ॥
तव वाक्येन ज्ञातोऽहम् कृतार्थो ह्यधुना मुने ।
पिता मम तव प्रेष्यः भूयो भूयोऽनुशाधि माम् ॥ २९ ॥
दर्शनात् तव वै ब्रह्मन् कृतार्थोऽस्मि न सम्शयः ।
कश्यपः
आराधय जगन्नाथमखिलाधारमच्युतम् ।

सर्वभावेन देवेशम् शरणम् गच्छ पुत्रक ॥ ३० ॥
भक्त्या त्वनन्यया पूज्यः पूजितः सर्वदो हरिः ।
किम्नाम दुर्लभम् लोके प्रसन्ने पुरुषोत्तमे ॥ ३१ ॥
गरुडाचलचेतास्त्वम् तपसे कृतनिश्चयः ।
अहोबिलमाहाक्षेत्रम् सर्वपापविनाशनम् ॥ ३२ ॥

साक्षादधिष्ठितम् प्रीत्या हरिणालोकेधरिणा ।
तत्र शैलो महानास्ते गुहाशत समन्वितः ॥ ३३ ॥
स तु नारायणाख्यस्तु शैलशृङ्गः समुच्छ्रितः ।
तपसस्तव माहात्म्यात् गरुडाद्रिर्भविष्यति ॥ ३४ ॥
श्रीनारदः

इत्युक्त्वा पुत्रमालिङ्ग्य कश्यपो गरुडम् तथा ।
प्रेषयामास तपसे ह्याशीर्भिः पूरयन् सुतम् ॥ ३५ ॥
सोऽपि गत्वा महाशैलम् गरुडः पतगेश्वरः ।
तूष्णीम् बभूव मनसा न किञ्चिदपि चिन्तयन् ॥ ३६ ॥
पर्वतोऽयम् सुविस्तीर्णम् तपः कुत्र चरामि वै ।
सिद्धिक्षेत्रम् कथम् ज्ञास्ये किम् वा निर्णयकारणम् ॥ ३७ ॥
इत्येवम् चिन्तयानस्य पुरतो वाक्यमुत्थितम् ।
किम् चिन्तयसि वै बाल गरुडामरपूजित ॥ ३८ ॥
इदम् क्षेत्रम् नृसिम्हस्य अहोबिलमिति श्रुतम् ।
अत्रायम् भूधरेन्द्रस्तु सुरगन्धर्वसेवितः ॥ ३९ ॥
ऋषयः पितरश्चैव सिद्धगन्धर्वमानुषाः ।
अत्रेप्सितफलम् प्राप्ता नृसिम्हस्य प्रसादतः ॥ ४० ॥
तस्मात् त्वमपि शुद्धात्मा जिताहारो जितेन्द्रियः ।
ध्यायस्व जगतामीशम् स ते श्रेयो विधास्यति ॥ ४१ ॥
इत्युक्त्वा तु महावाणी विरराम क्षणान्तरे ।
गरुडोऽपि विशुद्धात्मा परम् विस्मयमागतः ॥ ४२ ॥
तमर्थम् चिन्तयामास इदम् वाक्यम् पुनः पुनः ।
कथमेतदिदम् वाक्यमकारणसमुद्भवम् ॥ ४३ ॥
मम भाग्यप्रभावो वा प्रभावो वा हरेः स्वयम् ।
क्षेत्रस्य वाथ शैलस्य देवदेवस्य वा गुरोः ॥ ४४ ॥
एवम् वै चिन्तयानस्तु सन्तुष्टः पूर्णमानसः ।
तपश्चर्तुम् मनश्चक्रे भूधरस्य तटान्तरे ॥ ४५ ॥
तीरे तु भवनाशिन्याः गजकुण्डसमीपतः ।
आराधयन् जगन्नाथमनन्तम् पुरुषोत्तमम् ॥ ४६ ॥
जजाप च परम् ब्रह्म द्वादशाक्षरमुत्तमम् ।
केवलम् मौनमास्थाय वायुभक्षो जितेन्द्रियः ॥ ४७ ॥
चिन्तयामास गोविन्दम् द्विजः शुद्धेन चेतसा ।
तस्यैवम् चिन्तयानस्य हृदिस्थो भगवान् हरिः ॥ ४८ ॥
अरक्षत् सकलापत्सु नृहरिर्भक्तवत्सलः ।
स्तुतिसङ्कीर्तनादेव सम्यक्तत्त्वविचिन्तनात् ॥ ४९ ॥
पूजनाञ्च तपोवृद्धिरभूत् तस्य महात्मनः ।
पूर्वार्जितम् च यत् पापमिह जन्मनि वा पुनः ॥ ५० ॥
तत्सर्वम् लयमापन्नम् नृसिम्हस्य प्रभावतः ।
चिन्तिते तु जगन्नाथे मुक्तिरेव करस्थिता ॥ ५१ ॥
तस्मिन्नासक्तचित्तानाम् का चिन्ता वृजिनक्षये ।
एवम् हि सङ्क्षयात् तस्य शुद्धे मनसि चिन्तया ॥ ५२ ॥
सर्वव्याप्तोऽपि सर्वेशस्तत्रैवाभूज्जगद्गुरुः ।
एवम् तपसि तिष्ठन्तम् सर्वाधारमनामयम् ॥ ५३ ॥
वहन्तम् चेतसा विष्णुमुद्दोढुम् न शशाक भूः ।
शैलकाननसम्पूर्णा चचाल पृथिवी तदा ॥ ५४ ॥
क्षोभम् गताः समुद्राश्च दिग्विभागो न शोभते ।
पुरुहूतमहादेवा भयम् प्राप्ता महत्तरम् ॥ ५५ ॥
तपसस्तस्य माहात्म्यान्न लोका लेभिरे सुखम् ।
तत उद्विग्नचित्तस्तु चिन्तयानः पुरन्दरः ॥ ५६ ॥
परितोऽप्सरसः प्रेक्ष्य उर्वशीम् प्राह गर्विताम् ।
भो भो शाधि महाभागे देवकार्यार्थनिर्मिते ॥ ५७ ॥
शीघ्रम् याहि ममादेशात् यत्रास्ते गरुडो मुनिः ।
विलासैर्विविधैर्स्तस्य निष्ठाम् भञ्जय सुव्रते ॥ ५८ ॥
ब्रह्मा विष्णुश्च रुद्रश्च मोहमापुः सविस्मयाः ।
मानवा मुनिशार्दूलाः स्मृत्वा ते मुखचन्द्रिकाम् ॥ ५९ ॥
मोहम् गता मुनीन्द्राश्च किमन्ये तु पृथग्जनाः ।
इत्युक्ता प्रेषिता तेन पुरुहूतेन कुट्टनी ॥ ६० ॥
आजगाम मुहूर्तेन योषाशतसमावृता ।
गत्वा सा सुमहात्मानम् तपसा रूढचेतसम् ॥ ६१ ॥
उर्वशी मधुरालापैर्गरुडम् वाक्यमब्रवीत् ।
पश्य मामगताम् स्वर्गात् पतगेन्द्र सविस्मयम् ॥ ६२ ॥
पुरन्दरेण प्रहितामुर्वशीम् नामविश्रुताम् ।
क्षणेनैतेत् क्षणार्धेन यदस्ति सचराचरम् ॥ ६३ ॥
सर्वम् स्ववशमानेतुम् समर्था लोकविश्रुता ।
मद्दृष्टिगोचरा ये तु विमुक्ताऽशेषबन्धवाः ॥ ६४ ॥

मुमुक्षव इवाभान्ति रसान्तरपराङ्मुखाः ।
ब्रह्मन् यदस्ति वा लोके हित्वा रूपवतीः स्त्रियः ॥ ६५ ॥
परमानन्दकारिण्यः प्रजानाम् सृष्टिहेतवः ।
योषितो न कथम् ब्रह्म परचिन्ता परार्थके ॥ ६६ ॥
ब्रह्मेति कीर्तिते लोके जन्मना जडचेतसाम् ।
विविक्तचेतसो लोका जानन्त्येवामृतम् परम् ॥ ६७ ॥
यस्तु योषामृतम् त्यक्त्वा परमस्तीति मन्यते ।
लब्धम् त्यक्त्वा धनम् मूढो गुप्तमन्वेति च क्षितौ ॥ ६८ ॥
अहो बत महत् कष्टम् विपरीतमिदम् जगत् ।
सुखदुःखम् न जानाति दुःखेष्वेव प्रवर्तते ॥ ६९ ॥
अपरोक्षम् तु योषायाः रूपम् त्यक्त्वान्यदिच्छति ।
करस्थमुदकम् त्यक्त्वा घनस्थमभिवाञ्छति ॥ ७० ॥
इत्येवम् सादरालापैः शतशोऽथ सहस्रशः ।
मोहयामास तनयम् कश्यपस्य महात्मनः ॥ ७१ ॥
एतच्छ्रुत्वा तु वचनम् असदालापसम्युतम् ।
अपार्थकमनर्थम् च परलोकविदूषकम् ॥ ७२ ॥
शृण्वताम् पापजनकम् श्रुतिमार्गविदूषकम् ।
किञ्चिन्नोवाच गरुडः कृष्णसम्सक्तमानसः ॥ ७३ ॥
पुनः प्रोवाच दयया अनादरपुरस्सरम् ।
गच्छ त्वम् धूर्तवनिते विफलस्ते मनोरथः ॥ ७४ ॥
गिरयो वर्षधाराभिर्हर्न्यमाना यथा व्यथाम् ।
नाप्नुवन्ति तथा दुःखम् हरिसम्सक्तचेतसः ॥ ७५ ॥
क्वा वाच्युतसमासक्तचेतसाम् सात्त्विकोदयः ।
क्व वा दिङ्मूढमनसः प्रीतयो दारसङ्ग्रहः ॥ ७६ ॥
अत्यन्तस्तिमिताङ्गानाम् ह्यायामेन सुखैषिणाम् ।
भ्रान्तज्ञानवताम् पुम्साम् प्रहारोऽपि सुखायते ॥ ७७ ॥
चर्माऽसृङ्माम्समेदोऽस्थिमज्जाशोणोपसम्हतौ ।
देहेस्मिन् प्रीतिमान् मूढो भविता नरकेऽपि सः ॥७८ ॥
स्नेह्यन्ति योषितः काम्श्चित् काम्श्चिद्विभ्रमयन्ति च ।
तेषाम् वापि प्रियम् केन कुतेस्तासाम् विनिर्णयः ॥ ७९ ॥
इत्येवम् ताम् विनिर्भर्त्स्य उर्वशीम् कश्यपात्मजः ।
पुनर्ध्यायन् हरेः पादौ निश्चलोऽभूद्विजोत्तमः ॥ ८० ॥
सा तु व्रीडानम्रमुखी गत्वा तु त्रिदशालयम् ।
पुरन्दरम् नमस्कृत्य वचनम् चेदमब्रवीत् ॥ ८१ ॥
भगवन् देवदेवेश ! भवता प्रेषितास्म्यहम् ।
तपोलोके ब्रह्मलोके लोके वा हयमेधसः ॥ ८२ ॥
पाताले वापि यत्कार्यम् साधयामि न सम्शयः ।
अत्र मे कुण्ठिता शक्तिरनर्हे पापकर्मणि ॥ ८३ ॥
कथम् बन्धयितुम् शक्यः मत्तेभो बिसतन्तुना ।
कथम् चण्डप्रभावस्तु तमसा क्षीयते रविः ॥ ८४ ॥
कथम् वा बडवाग्निस्तु समुद्रैरभिभूयते ।
कथम् मण्डूकघोषेण समुद्रे क्षीयते रवः ॥ ८५ ॥
ब्रह्मण्यासक्तचित्तानाम् विवेकामलचेतसाम् ।
केन वा शक्यते लोके हृदयस्य विमर्दनम् ॥ ८६ ॥
न सुरालयकाङ्क्षी च नामरेन्द्रपदम् प्रियम् ।
नचापि ब्रह्मपदवीम् साभिलाषी तपोधनः ॥ ८७ ॥
केवलम् हरिपादाब्जदर्शनोत्कण्ठमानसः ।
एतत्सर्वम् मया ज्ञातम् दृष्ट्वा रूपम् महात्मनः ॥ ८८ ॥
इत्येवम् बहुधा वाक्यैर्दुःखसन्तापजम् भयम् ।
उर्वशी पुरुहूतस्य श्रावयामास कुट्टिनी ॥ ८९ ॥
गरुडोऽपि विशुद्धात्मा चिन्तयन् पुरुषोत्तमम् ।
नान्यद् वै मेरुसङ्काशम् फलम् किञ्चिदचिन्तयत् ॥ ९० ॥
ततः प्रसन्नो भगवान् शङ्खचक्रगदाधरः ।
चतुर्भुजश्चतुर्वक्त्रः पुरन्दरनिषेवितः ॥ ९१ ॥
शारदाम्भोजसदृशः पुण्डरीकनिभेक्षणः ।
सहस्रसूर्यद्युतिना किरीटेन विराजितः ॥ ९२ ॥
सुनासया समायुक्तः नीलकुञ्चितमूर्धजः ।
चारुपल्लवसङ्काशः मृणालज्वलिताधरः ॥ ९३ ॥
कम्बुग्रीवो विचित्राङ्गः कुण्डलद्वयमण्डितः ।
कौस्तुभालङ्कतोरस्कः श्रीवत्सेन समाश्रितः ॥ ९४ ॥
हारी हारयुतः श्रीमान् केयूरविलसद्भुजः ।
विचित्रवलयानम्र अङ्गुलीवरभूषितः ॥ १५ ॥
नीलमेघप्रतीकाशो भातः पीतेन वाससा ।
तारामण्डलसम्युक्तः शशीव पुरुषोत्तमः ॥ ९६ ॥
कनकाचलमध्यस्थः अद्रिराज इवापरः ।

अनन्ताद्यैः सुरगणैरमलैरुपसेवितः ॥ ९७ ॥
वैनतेयस्य पुरतः कृत्वा सन्नाहसम्पदम् ।
इदम् प्रोवाच भगवान् श्लक्ष्णम् वचनमुत्तमम् ॥ ९८ ॥
भो भो बालिश कल्याण विनतानन्दवर्धन ।
तुष्टोऽहम् तपसोग्रेण तव साहसकर्मणा ॥ ९९ ॥
उत्तिष्ठोत्तिष्ठ कार्यम् ते किमर्थम् विनतासुत ।
किम् तेऽभिलषितम् ब्रूहि सर्वम् ते करवाण्यहम् ॥ १०० ॥

श्रीनारदः
एतच्छ्रुत्वा वचस्तस्य साक्षाद् भगवतो हरेः ।
गरुडः प्रणनामोच्चैः शतशोऽथ सहस्रशः ॥ १०१ ॥
उत्थायोत्थाय तम् दृष्ट्वा प्रणम्य च पुनः पुनः ।
अपूर्वम् रूपमालोक्य विस्मयोत्फुल्ललोचनः ॥ १०२ ॥
पुलकाङ्कितसर्वाङ्गः वासुदेवमथास्तुवत् ।
नमस्ते जगताम् स्रष्ट्रे जगद्रूपाय शाश्वते ॥ १०३ ॥

रक्षकाय नमस्तेऽस्तु लयस्थाय च सम्हृते ।

नमः कार्यस्वरूपाय कारणाय नमो नमः ॥ १०४ ॥
पुरुषोत्तमाय नमः परेशाय नमो नमः ।
रूपभेदेन सकलमाक्रान्ताय नमो नमः ॥
नमोऽस्तु शार्ङ्गसिगदाशङ्गचक्रधाराय च ॥ १०५ ॥

नमोऽस्तु ते पद्मदलायताक्ष नमोऽस्तु ते भक्तजनानुकम्पिनम् ।

नमोऽस्तु ते सर्वजगन्निवास नमोऽस्तु ते कारणकारणात्मन् ॥ १०६ ॥
स्वयम्भुवस्ते विभवम् स्तोतुम् कस्यापि निश्चयः ।
क्वाहमत्यन्तदुर्बुद्धिः कथम् स्तोष्ये जगद्गुरो ॥ १०७ ॥
किम् वा स्तोतुम् देवदेव कथम् जिह्वा प्रवर्तते ।
चतुर्मुखायुर्यदि कोटिवक्त्रः भवेन्नरः क्वापि विशुद्धचेताः ।
स ते गुणानामयुतैकदेशम् वदेन्नवा देववर प्रसीद ॥ १०८ ॥
आयुरारोग्यमर्थाश्च भोगाम्श्चैवानुषङ्गिकान् ।
ददाति ध्यायिनाम् नित्यमपवर्गप्रदो हरिः ॥ १०९ ॥
देवत्वम् मनुजैः कैश्चिद् गन्धर्वत्वम् तथा परैः ।
यक्षत्वमपि सिद्धत्वम् त्वामाराध्य प्रपेदिरे ॥ ११० ॥
इन्द्रः क्रतुशतेनेश समाराध्य जगद्गुरुम् ।
देवेन्द्रत्वम् गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ॥ १११ ॥
आराध्य त्वाम् विदेहानाम् पुरुषाः सप्तसन्ततिः ।
हेहयानाम् च पञ्चाशदाममृतत्वमुपागताः ॥ ११२ ॥
योऽर्थम् विपुलमाकाङ्क्षी त्वामाराध्य जगत्पते ।
निस्सम्शयमवाप्नोति दुन्दुमारो नृपो यथा ॥ ११३ ॥
आराध्य त्वाम् कार्तवीर्यो राज्यम् विपुलमाप्तवान् ।

धर्मस्तवप्रप्रसादेन मुद्गलो बाष्कलः कृणिः ॥ ११४ ॥
प्रापुरन्ये महाभागा नरेन्द्रा नहुषादयः ।

नृपः कुशध्वजो नाम जनकः समितिञ्जयः ॥ ११५ ॥
धर्मध्वजस्तथा मुक्तिम् कृपया तव सङ्गताः ।
तथान्ये मुनयो दैत्या राजानश्च सहस्रशः ॥ ११६ ॥
प्रापुर्मुक्तिम् महाभागाः कृत्वा भक्तिम् त्वयि प्रभो ।
यथा प्रज्वलितो वह्निस्तमो हन्ति तदर्थिनाम् ॥ ११७ ॥
शीतहानिम् तथान्येषाम् स्वेदम् स्वेदाभिलाषिणाम् ।
करोति क्षुधितानाम् च भोज्यपाकक्रियाम् शिखी ॥
तथैव कामान् भोगाम्श्च ददाति पुरुषोत्तमः ॥ ११८ ॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ।
भवन्तम् वैद्यमासाद्य दुर्व्याधिरिव नश्यति ॥ ११९ ॥
अव्याहतानि सौम्यानि चक्रादीन्यायुधान्यपि ।
रक्षन्ति सकलापद्भयो ये त्वाम् देव समाश्रिताः ॥ १२० ॥
सर्वदुःखविमुक्तस्य सौम्यास्तस्य सदा ग्रहाः ।
देवानामप्यदृश्योऽसौ तुष्टो यस्य जनार्दनः ॥ १२१ ॥
पृथिव्याम् विजयो वापि त्रैलोक्यविजयोऽपि वा ।
ध्रुवो वा यदि देवेश येषाम् तुष्टोऽसि माधव ॥ १२२ ॥

नाधिः प्राप्नोति न व्याधिर्न विषग्रहबन्धनम् ।
कृत्या स्वप्नभयम् वापि तोषिते त्वयि माधव ॥ १२३ ॥
आरोग्यम् परमामृद्धिम् मनसा यद्यदिच्छति ।
तत्तदाप्नोत्यसन्दिग्धः प्रसन्ने त्वयि माधव ॥ १२४ ॥
धर्मार्थकाममोक्षाणाम् पुरुषार्थः प्रकल्पितः ।
लोभादिव्याप्तचित्तो यस्त्वामुपास्ते नरो यदि ॥
तत्पापम् विलयम् याति तोयस्थलवणम् यथा ॥ १२५ ॥
न तेषाम् दुष्करम् किञ्चित् त्रिषु लोकेषु विद्यते ।
सर्वलोकगुरुर्येषाम् तम् नाथो मधुसूदन ॥ १२६ ॥
न तेषाम् विद्यते पापम् सङ्ग्रामे वा पराजयः ।
त्रिदशेश्वरनाथस्त्वम् येषाम् तुष्टोऽसि माधव ॥ १२७ ॥
स्रष्टारम् सर्वलोकानाम् परमात्मानमच्युतम् ।
ये प्रपन्ना हृषीकेशम् न ते मुह्यन्ति कर्मसु ॥ १२८ ॥
पृथिवी वायुराकाश आपोऽग्निश्चन्द्रमा रविः ।
सर्वम् ते रूपमेवेदम् सर्वदेवनमस्कृत ॥ १२९ ॥
इत्यनेकविधैः स्तोत्रैः स्तुत्वा देवम् जनार्दनम् ।
तूष्णीम् बभूव गरुडः प्रश्रयावनतस्तदा ॥
ततस्तु भगवान् प्राह प्रसन्नवदनस्तदा ॥ १३० ॥

श्रीभगवान्

परितुष्टोऽस्मि भद्रम् ते स्तोत्रेण विनतासुत ।
यच्छेष्टम् तव मे ब्रूहि सर्वम् सम्पादयाम्यहम् ॥ १३१ ॥
देवेशवचनम् श्रुत्वा खगेशः पुनरब्रवीत् ॥ १३२ ॥
गरुडः
यदि तुष्टोऽसि भगवन्नवधारय मद्वचः ।
पृथिव्याम् विजयो वापि त्रैलोक्यविजयोऽपि वा ॥ १३३ ॥
ध्रुवो वा यदि देवेश येषाम् तुष्टोऽसि माधव ।
अद्य प्रभृति देवेश तव माम् कुरु वाहनम् ॥ १३४ ॥
स्कन्धे मम वसन्नेव मत्प्रीतिर्दीयताम् प्रभो ।
सर्वाधारस्य देवेश वाहनत्वम् महत् फलम् ॥
केन वा शक्यते प्राप्तुमृते च विनतासुतम् ॥ १३५ ॥
नामरत्वम् सुरेन्द्रत्वम् न ब्रह्मत्वमुमेशताम् ।
नन्दनानुभवम् वापि वाञ्छन्ति हरिकिङ्कराः ॥ १३६ ॥
भूयः पप्रच्छ मतिमान् वरमन्यमनुत्तमम् ॥ १३७ ॥
गरुडः
देवेश बहुकालोऽयम् पर्वतः समुपाश्रितः ।
मन्नामव्यवहारम् तु देवदेवास्य कल्पय ॥ १३८ ॥
एवम् वरद्वयम् दत्वा देवदेवो जनार्दनः ।
प्रीतः प्रसन्नवदनः पाणिना देहमस्पृशत् ॥ १३९ ॥
श्रीभगवान्
सुबालोऽसि कृशोऽसि त्वम् कथम् ते बुद्धिरीदृशी ।
महान्तो मुनयः पूर्वम् बहवो मामुपाश्रिताः ॥
तेषामेतादृशी बुद्धिर्न कदाचिदजायत ॥ १४० ॥
भवान् कल्यः कविर्दक्षो बुद्धिनीतिविशारदः ॥ १४१ ॥
वरद्वयम् त्वया प्रोक्तम् वाहनत्वम् मदीयकम् ।
त्वन्नाम गिरिविख्यातिरुभयम् स्यात् तथैव तु ॥ १४२ ॥
गरुडः पन्नगारातिर्वेदात्मा विहगेश्वरः ।
नारायणरथश्चेति त्वाम् वक्ष्यन्ति जना भुवि ॥ १४३ ॥
यावच्चरति वै भानुर्यावच्चरति चन्द्रमाः ।
तावद्भवति लोकेऽयम् गारुडः पृथिवीधरः ॥
इत्येवमुक्त्वा देवोऽयम् तत्रैवान्तरधीयत ॥ १४४ ॥
इत्येवम् भवनाशिन्यास्तीरम् दक्षिणमाश्रितः ।
गारुडो राजते शैलः सुरालय इवापरः ॥ १४५ ॥
खगपतितपसोच्चैः सर्वतो भासमानः
फलतृणजलपानैः सेवितस्तापसौघैः ।
सकलभुवनरक्षादक्षिणः सर्वदायी
विलसतु भुवि नित्यम् पर्वतो गारुडाद्रिः ॥ १४६ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे
श्रीमदहोबिलमाहात्म्ये द्वितीयोऽध्यायः ॥

॥ श्रीः ॥

॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्रीमदहोबिलमाहात्म्ये तृतीयोऽध्यायः ॥

इत्थम् गारुडशैलस्य श्रुत्वा माहात्म्यमुत्तमम् ।
आनन्दाम्बुनिधौः मग्ना नारदम् पुनरब्रुवन् ॥ १ ॥

ऋषयः
भगवन् ब्रह्मसम्भूत परमानन्दनिर्भर ।
त्वत्प्रसादाच्छ्रुतम् सर्वम् गरुडाचलवैभवम् ॥ २ ॥
नित्यानाम् चैव मुक्तानाम् स्वभावाद् ध्वस्तकर्मणाम् ।
सम्सारेऽस्मिन् कथम् जन्म कथम् वै तापासी क्रिया ॥ ३ ॥
अयम् तु गरुडः साक्षान्नित्यमुक्त उदाहृतः ।
अस्य वाहनभावश्च श्रुतिभिः परिगीयते ॥
इमम् नः सम्शयम् छिन्धि तवाज्ञातम् न विद्यते ॥ ४ ॥
नारदः
यदा धर्मस्य हानिः स्यादधर्माभिरतिर्जने ।
तदापि भगवान् साक्षादवतारम् करोति वै ॥ ५ ॥
रक्षायै सर्वमर्त्यानाम् पापिनाम् पीडनाय च ।
पालनाय च धर्मस्य आत्मानम् सृजति प्रभुः ॥ ६ ॥
अजहत् स्वस्वभावोऽयमवतारम् करोति वै ।
तस्यानुधावनम् सर्वे कुर्वन्ति गरुडादयः ॥ ७ ॥
अवतारेषु या चेष्टा मानुषी दैविकी च या ।
तामेवानुगमिष्यन्ति नित्यम् वै गरुडादयः ॥ ८ ॥
क्वचिद् ग्रुह्णन्ति वै देहम् केषाञ्चिद् बान्धवो भवेत् ।
क्वचित् पिता तु काचित् तु माता स्यात् प्रेमनिर्भरा ॥९॥
केचित् सखायः सञ्जाताः केचित् प्रद्वेषिणस्तथा ।
क्वचिज्जयति युद्धेन क्वचिज्जयति सामतः ॥ १० ॥
क्वचिदुग्रम् तपश्चक्रे क्वचिच्छास्त्रप्रवर्तकः ।
क्वचिदुत्पथगामी स्यात् क्वचिद्धाचारवर्जितः ॥ ११ ॥
इत्येवम् ह्यवतारेषु लौकिकाभिरताः क्रियाः ।
करोति भगवान् साक्षान्नित्यास्तदनुसारिणः ॥ १२ ॥

लीलेयम् कमलाक्षस्य केवलानन्दरूपिणः ॥ १३ ॥
स धर्मो वाप्यधर्मो वा धर्माधर्मसमुच्चयः ।
जन्मनः कारणम् विष्णोर्धर्मत्राणाय कैवलम् ॥ १४ ॥
तस्मान्न चित्रताम् याति गरुडस्य तपः क्रिया ।
एतद्वः सर्वमाख्यातम् किमन्यच्छ्रोतुमिच्छति ॥ १५ ॥

ऋषयः
तस्मिन् शैले तु भगवन् यानि तीर्थानि सन्ति वै ।
तानि नो विस्तराद् ब्रूहि त्वम् नः साक्षाद् गुरुः पिता ॥ १६ ॥
तारयास्मान् सागरतः सम्साराख्यान्महामुने ॥ १७ ॥
नारदः
अस्मिञ्छैले तु यत्तोयम् यत्र क्वापि च दृश्यते ।
तत्सर्वम् तीर्थमुद्दिष्टम् साक्षात् त्रिपथगोपमम् ॥ १८ ॥
तस्मान्न चित्रताम् याति गरुडस्य तपः क्रिया ।
एतद्वः सर्वमाख्यातम् किमन्यच्छ्रोतुमिच्छति ॥ १५ ॥
तस्मिन् शैले तु भगवन् यानि तीर्थानि सन्ति वै ।
तानि नो विस्तराद् ब्रूहि त्वम् नः साक्षाद् गुरुः पिता ॥ १६ ॥
तारयास्मान् सागरतः सम्साराख्यान्महामुने ॥ १७ ॥
नारदः
अस्मिञ्छैले तु यत्तोयम् यत्र क्वापि च दृश्यते ।
तत्सर्वम् तीर्थमुद्दिष्टम् साक्षात् त्रिपथगोपमम् ॥ १८ ॥
बहून्यनन्ततीर्थानि बहुदेशेषु सन्ति वै ।
तेषाम् नामानि सङ्ख्यातुम् ब्रह्मणापि न शक्यते ॥ १९ ॥
यानि तीर्थानि सर्वाणि लोके पुण्यतराणि वै ।
सितासितम् चन्द्र॑मार्गमिन्द्रतोयमनुत्तमम्॥ २० ॥
कन्याकूपम् शरच्छैलम् कौशिकम् च कपोतकम् ।
कपालमोचनम् धारा धनुष्कोटो विवर्तकम् ॥ २१ ॥
कुशेशयम् च केदारम् तथा नर्तकहिङ्गलम् ।
महाह्रदम् महापुण्यम् मरुद्गणमनुत्तमम् ॥ २२ ॥
गुञ्जानुगम् सप्तगङ्गम् तथा गाङ्गमनुत्तमम् ।
केदारम् कलिकातीर्थम् कौशाम्बम् कविदाक्रमम् ॥ २३ ॥
बिम्बाश्रमम् जम्बुमार्गम् कम्बुमार्गमनुत्तमम् ।
रामातीर्थम् रामसरो भद्रम् भद्रवटम् तथा ॥ २४ ॥
दशाश्वमेधकम् तीर्थम् मत्स्योदम् पुष्करम् सरः ।
हृत्तापनाशिनी पुण्या स्वामिपुष्करिणी तथा ॥ २५ ॥
आकाशगङ्गा भूगङ्गा कौमारी तुलिताह्वया ।
गृध्रपुष्करिणी चैव हेमाम्भोजसरस्तथा ॥ २६ ॥
अनन्ताह्वम् सरश्चैव चन्द्रपुष्करीणी तथा ।
गङ्गा गोदावरी चैव गोमती गौतमी तथा ॥ २७ ॥
कावेरी कौशिकी चैव कालिन्दी कनकावती ।

वेणी वेत्रवती चापि ताम्रपर्णी च नर्मदा ॥ २८ ॥
वीरस्तनी भीमरथी पुण्या चर्मण्वती नदी ।
सिद्धमाहेश्वरी चैव सिन्धुर्वे भोजनावती ॥ २९ ॥
पूर्वाभाद्रा पराभाद्रा देविका सरयूस्तथा ।
शरावती शतदूश्च नन्दा मन्दाकिनी तथा ॥ ३० ॥
एता नद्यः समाख्यातास्तीर्थानि विविधानि च ।
आज्ञया नृहरेस्तत्र ऋषीणाम् च प्रभावतः ॥
निवसन्ति समस्तानि गरुडाद्रेः समन्ततः ॥ ३१ ॥
तीर्थानामेव सर्वेषामुत्तमा भवनाशिनी ।
साक्षात् त्रिपथगा गङ्गा ह्यवतीर्णा महाचले ॥ ३२ ॥
अहोबिलपथम् गत्वा दृष्ट्वा वै भवनाशिनीम् ।
जन्मकोट्यार्जितात् पापान्मुच्यते नात्र सम्शयः ॥ ३३ ॥
अत्रत्यानाम् तु तीर्थानामुत्तमा भवनाशिनी ।
यथा त्रिपथगा लोके नदीनामुत्तमा तथा ॥ ३४ ॥
नद्यन्तरे नदीमन्याम् न प्रशम्सेत् कदाचन ।
लोके द्वे तु प्रशस्येते गङ्गा च भवनाशिनी ॥ ३५ ॥
विष्णुम् सदा समभ्यर्च्य तस्य पादोदकम् त्विदम् ।
धारयेच्छिरसा भक्त्या गङ्गास्नातो न सम्शयः ॥ ३६ ॥
एतत्तीर्थम् समादाय भक्त्या देवमनुस्मरेत् ।
आत्मानम् प्रोक्षयेद् यस्तु सर्वपापैः प्रमुच्यते ॥ ३७ ॥
इदम् तीर्थम् तु शिरसा धारयन् वा पिबन्स्तु वा ।
जन्मनः कलुषम् हित्वा स याति परमम् पदम् ॥ ३८ ॥
तदैव पितरस्तेषाम् नृत्यन्ति च पितामहाः ।
यदैव भवनाशिन्यास्तीरम् गच्छति मानवः ॥ ३९ ॥
प्रायश्चित्तमिदम् प्राप्तम् कृच्छ्रम् वाप्यघमर्षणम् ।
एतत्तीर्थोदकम् पीत्वा शुद्धिमाप्नोति तत्क्षणात् ॥ ४० ॥
इदम् तीर्थम् पिबेद्यस्तु सालग्रामशिलार्पितम् ।
प्रक्षालयति तत्तीर्थम् ब्रह्महत्यादिपातकम् ॥ ४१ ॥
सद्यः फलप्रदम् पुण्यम् सर्वपापप्रणाशनम् ।
सर्वमङ्गलमाङ्गल्यम् सर्वाधिपरिमोचनम् ॥
सर्वपापप्रशमनम् सर्वरोगकभेषजम् ॥ ४२ ॥
दुष्टग्रहोपशमनम् सर्वाधिपरिमोचनम् ।
सर्वपापप्रशमनम् सर्वरोगविभेदनम् ॥ ४३ ॥
सर्वकल्याणसुखदम् सर्वकामफलप्रदम् ।
सर्वसिद्धिप्रदम् सद्यः सर्वसन्तोषकारणम् ॥ ४४ ॥
न हि तत् सर्वतीर्थेषु सरित्सु च निमज्जनात् ।
फलम् भवति वै विप्रा यादृगेतन्निषेवणात् ॥ ४५ ॥
सङ्ग्रामे निहतानाम् च कुर्वतोऽनशनव्रतम् ।
ये वर्जयन्ति माम्सानि तथा ह्युपवसन्ति ये ॥ ४६ ॥
तेषाम् लोकास्तु ये प्रोक्तास्तत्तीर्थतटसेवनात् ।
त्रिषु लोकेषु ये तीर्थाः कूपा नदनदीह्रदाः ॥ ४७ ॥
स्रोतः समुद्राश्चत्वारो ह्रदाः पुण्याः शिलोच्चयाः ।
कुरुक्षेत्रम् नैमिशम् च भूमिभागाश्च ये शुभाः ॥ ४८ ॥
सर्वे तु भवनाशिन्याः कलाम् नार्हन्ति षोडशीम् ।
इमम् मन्त्ररहस्यम् वा कथयामि मुनीश्वराः ॥ ४९ ॥
भूतप्रेतपिशाचानाम् डाकिनीनाम् च नाशनम् ।
यक्षराक्षसकूष्माण्डखेचराणाम् च नाशनम् ॥ ५० ॥
ज्वरव्याप्तशरीराणाम् केसरीणाम् च दारणम् ।
तीर्थस्य भवनाशिन्याः स्वभावोऽयमुदाहृतः ॥ ५१ ॥
रोगिणाम् मूर्तिखिन्नानाम् विषशस्त्रहतात्मनाम् ।
पित्तवातकफश्लेष्मसर्वव्याधिविनाशनम् ॥ ५२ ॥
ज्वरव्याप्तशरीराणाम् सर्वव्याधिविनाशनम् ।
अपि चोरभयम् किञ्चिदप्यग्निजभयम् तथा ॥
तथा चोष्णभयम् नास्ति यत्तु तत्तोयमाश्रितः ॥ ५३ ॥
आशौचम् विद्यते नैव सूतके म्रुतके तथा ।
प्राशनाद्धारणात्तस्य तीर्थस्य मुनिसत्तमाः ॥ ५४ ॥
अन्त्यकाले तु यस्यास्ये दीयते तोयमुत्तमम् ।
सोऽपि सद्गतिमाप्नोति यश्चाचारबहिष्कृतः ॥ ५५ ॥
अपेयम् पिबते यस्तु यस्तु भुङ्क्तेऽप्यभोजनम् ।
अगम्यागमना ये वै पापाचाराश्च ये नराः ॥ ५६ ॥
तेऽपि पूता भवन्त्याशु एकतीर्थनिषेवणात् ॥ ५७ ॥
तप्तकृच्छ्रान्महाकृच्छ्रात् पञ्चगव्याद् विशिष्यते ।
चान्द्रायाणात् सर्वकृच्छ्रात् पराकादपि सुव्रताः ॥ ५८ ॥
किमुच्यतेऽस्या माहात्म्यादपि तीर्थोदके नरः ।
सलिलम् तस्य तीर्थस्य कथम् श्रेयो विधास्यति ॥ ५९ ॥
इति सञ्चिन्त्य भगवानब्जयोनिः पितामहः ।
धर्मम् समीपतो दृष्ट्वा द्रवीभव महामते ॥ ६० ॥
लोकानाम् पावनार्थाय भव त्वम् भवनाशीनी ।
द्रवीभूतस्तथा धर्म आज्ञयाब्जभवस्य तु ॥ ६१ ॥
तुष्टये जगदीशस्य बभूव भवनाशिनी ।

बहुनात्र किमुक्तेन माहात्म्येनास्य वै द्विजाः ॥ ६१ ॥
यद्यदिच्छति वै मर्त्यो ह्वैहिकम् पारलौकिकम् ।
तत्तदाप्नोत्सन्देहस्तीर्थस्यास्य तु वैभवात् ॥ ६३ ॥
नद्याम् ह्यस्याम् तु यानीह तीर्थानि मुनिसत्तमाः ।
ऋषिभिः परिगीतानि तैरेवाधिष्ठितानि च ॥

कथयामि यथापूर्वम् शृणुध्वम् मुनिसत्तमाः ॥ ६४ ॥
अचलच्छायमेरोस्तु पश्चिमे भाग उत्तमे ।
अधस्तान्नारसिम्हस्य तीर्थम् स्यादचलध्रुवम् ॥ ६५ ॥
गालवस्तु मुनिश्रेष्ठस्तपस्तेपे सुदारुणम् ।
तस्य तीरे महाबाहो बहून्यब्दशतानि वै ॥ ६६ ॥

जजाप परया भक्त्या नारसिम्हम् महामनुम् ।
द्वात्रिम्शद्वर्णसम्युक्तमग्निष्टोमसमन्वितम् ॥ ६७ ॥
मृत्युमृत्युकरम् ह्युग्रम् मृदुशान्तिसमन्वितम् ।
अजप्यमसुरैरन्यैरात्मरक्षाकरम् परम् ॥
अष्टाशीतिसहस्राणाम् मन्त्राणाम् मूर्ध्नि सम्स्थितम् ॥ ६८ ॥
ततः प्रसन्नो भगवानव्यक्तो व्यक्तरूपधृक् ।

गालवम् तपसा क्लिन्नमिदम् वचनमब्रवीत् ॥ ६९ ॥
श्रीभगवान्
भो भो द्विज प्रसन्नोऽहम् तपसानेन सुव्रत ।
यथेच्छसि वरम् यत्ते प्रयच्छामि न सम्शयः ॥ ७० ॥

गालवः
भगवन् परमानन्द परमानन्दमन्दिर ।
सन्निधत्ते यतो मह्यम् किमन्यद्वरमस्ति मे ॥ ७१ ॥
वाञ्छन्ति मुनयः सर्वे वीतरागा विमत्सराः ।
सम्सारोच्छिन्नकरणम् तव पादाब्जदर्शनम् ॥ ७२ ॥
ये चाप्यन्येऽन्यदिच्छन्ति लौकिकम् पारलौकिकम् ।
तेऽपि त्वद्दर्शनेनैव विमुक्तान्यकथारसाः ॥ ७३ ॥
नाहम् सुरपदाकाङ्क्षी न शतक्रतुलुब्धकः ।
न धिष्ण्यमब्जसम्भूतम् न रौद्रपदमुत्तमम् ॥ ७४ ॥
न कैवल्यम् त्वद्रचितम् नान्यद्वा सुखमुत्तमम् ।
सेवा भवत्पदाम्भोजे भक्तिरव्यभिचारिणी ॥
जन्मान्तरेऽपि मे भूयादचला पुरुषोत्तम ॥ ७५ ॥
श्रीभगवान्
सम्यग् व्यवसिता बुद्धिरध्यात्मगहने वरे ।
तत्तथैव न सन्देहो मत्प्रसादान्मुनीश्वर ॥ ७६ ॥
अद्य प्रभृति निष्कामश्चर धर्माननुत्तमान् ।
हित्वा त्वम् धर्मसङ्घातम् चर तूष्णीम् तु गालव ॥ ७७ ॥
गरुडस्कन्धमारोप्य यथेष्टमनिवारितः ।
त्वाम् नयामि परम् स्थानम् यद् गत्वा न निवर्तते ॥ ७८ ॥

अद्यप्रभृतियेह्यस्मिन्तीर्थेस्नानम्प्रकुर्वते।

तेऽपिमत्कृपयासर्वेविमुक्ताःस्युर्नसम्शयः॥७९॥

कार्तिकेमासितीर्थेऽस्मिन्स्नानम्दानम्चकुर्वते।

तेसमृद्धाम्श्रियम्भुक्त्वाअन्तेमत्पदमाप्नुयुः॥८०॥

इत्युक्त्वातुतदादेवस्तत्रैवान्तरधीयत।

इदम्तुप्रथमम्तीर्थम्नारसिम्हमुदाहृतम्॥८१॥

द्वितीयम्चतृतीयम्चरामलक्ष्मणसञ्ज्ञितम्।

चरन्वैदण्डकारण्येपितुर्वचनकारणात्॥८२॥

तत्रसन्तिचतीर्थानिसरितश्चसराम्सिच।

काननानिविचित्राणिविविधाश्चशिलोच्चयाः॥८३॥

चरन्सौमित्रिणारामःसीतयाचसमोदया।

कदाचिद्भवनाशिन्यास्तीरदेशमुपागतः॥८४॥

तत्रचूताम्श्चपनसान्नालिकेराम्श्चचम्पकान्।

अहोकान्करवीराम्श्चतथापूगवनानिच॥८५॥

अन्याम्श्चविविधान्वृक्षान्लताश्चकनकप्रभाः।

पुष्पिताःफलिताश्चैवसर्वर्तुषुविशेषतः॥८६॥

ददर्शभगवान्श्रीमद्राघवोलक्ष्मणाग्रजः।

सीताचपरमप्रीताह्यावासायमतिम्दधे॥८७॥

अवसम्स्तत्रसुप्रीतादिनानिकतिचित्तदा।

रामकुण्डाद्वयेतत्रनित्यानुष्ठानतत्पराः॥८८॥

तदाप्रभृतिवैनाम्ना रामलक्ष्मणसञ्ज्ञिते।

तत्रस्नात्वाचपीत्वाचजन्मत्रयसमार्जितात्॥

पातकान्मुच्यतेजन्तुःराघवस्यप्रभावतः॥८९॥

मार्गशीर्षेचपौषेचस्नात्वादानम् करोतियः।

तद्दानमक्षयम्चैवसयातिपरमम्पदम्॥९०॥

चतुर्थम्भीमतीर्थम्तुभीमम्पापस्यकर्मणः॥९१॥

यत्ररुद्ध्वापुरासिन्धुम्भगवान्पार्वतीपतिः।

मार्गप्रदर्शनम्चक्रेभञ्जयित्वाशिलोच्चयम्॥९२॥

तत्रभीमरवासिन्धुरत्यन्तकलुषाशाया।

भञ्जयत्तरुषण्डानिमण्डितानिमहीधरे॥९३॥

तथापुष्टातिभीमाम्ताम्सुरसङ्गामहर्षयः।

भीमसञ्ज्ञाम्ततश्चक्रुःप्रदेशस्यविशेषतः॥९४॥

तदाप्रभृतिलोकोऽयम्भीमतीर्थम्प्रचक्षते।

तत्रस्नात्वातुयोमर्त्योनिष्कम्निष्कार्धमेववा॥ ९५॥

श्रोत्रियायदरिद्रायहरिभक्तायसादरम्।

ददातिदशदानानाम्फलमाप्नोत्यसम्शयम्॥९६॥

प्रयतोमाघमासेतुकिञ्चिदभ्युदितेरवौ।

समन्त्रकम्तुयःस्नातिसयातिविपुलाम्श्रियम्॥ ९७ ॥

तत्कालेजलमध्येतुगायत्रीम्तुसहस्रधा।

आवर्तयन् नरो याति यत्र देवः पुरन्दरः ॥ ९८ ॥

मासमेकम्व्रतम्कुर्वन्ब्रह्मणापूज्यतेसदा।

नित्यम्स्नानम्तुयःकुर्यादच्युतास्तस्यसम्पदः॥९९॥

पञ्चमम्शङ्खतीर्थम्तुशङ्खोयत्रमहामुनिः।

लिखितेनसहभ्रात्राततापपरमम्तपः॥१००॥

लोकानाम्तुहितार्थायविगताम्वेदसम्हिताम्।

समाहृत्यस्तुतिम्चक्रेद्वितीयाम्युगपद्धतिम्॥१०१॥

तस्मादिदम्महातीर्थम्भुवनेषुप्रशस्यते॥१०२॥

अस्मिन्स्तीर्थेचयःस्नातिषडङ्गम्तुनिरन्तरम्।

जन्मान्तरस्मृतिस्तत्रजायतेधर्मसम्हिता॥१०३॥

पितॄनुद्दिश्ययःस्नातिफाल्गुणेमासिमानवः।

भोजयेत्प्रयतोविप्रानन्नम्बहुगुणान्वितम्॥

तृप्यन्तिपितरस्तेनदशपूर्वादशापराः॥१०४॥

वाराहम्षष्ठमुद्दिष्टम्तीर्थम्तीर्थकुलोत्तमम्॥१०५॥

पुरातुप्रलयेभूमिम्निमग्नाम्सलिलाशये।

उद्धर्तुकामोभगवान्वाराहम्रूपमाप्तवान्॥१०६॥

ऋषिभिर्देवगन्धर्वैःसम्स्तुतःपरमेष्ठिना।

लोकानाम्तुहितार्थायउज्जहारमहीम्प्रियाम्॥१०७॥

यथातुधून्वतातेनकिटिरूपादनुत्तमात्।

सलिलम्तत्रपतितम्वाराहम्तेनसम्स्मृतम्॥१०८॥

तदङ्गभावमाश्रित्यभगवान्किटिरूपधृत्।

एतत्तीर्थेमहादेव्यैपुराणम्चोपदिष्टवान्॥१०९॥

धर्मार्थकामसम्युक्तम्मोक्षार्थैकप्रयोजनम्।

वाराहम्सात्त्विकम्प्रोक्तम्सात्त्विकीयत्रदेवता॥११०॥

अत्रतीर्थेनरःस्नात्वाभक्त्याभ्यर्च्यचकेशवम्।

उपवासत्रयम्कुर्वन्त्रैलोक्येसर्वमाप्नुयात्॥१११॥

मुस्तामूलसमायुक्तम्तण्डुलम्सितमव्रणम्।

सगुडम्देवदेवस्यह्यर्पयन्सर्वमाप्नुयात्॥११२॥

चैत्रैमासिसितेपक्षेद्वादशीम्वापिपूर्णिमाम्।

समाश्रित्यतुयद्दत्तम्तत्सर्वम्चाक्षयम्भवेत्॥११३॥

वस्त्रदानम्तुयःकुर्याज्जीर्णवस्त्रायसादरम्।

एकैकतन्तोर्दशधासर्वलोकेमहीयते॥११४॥

सौदर्शनम्महातीर्थम्सप्तमम्समुदाहृतम्।

तत्रस्नात्वातुमनुजाःसप्तावस्थानभेजिरे॥११५॥

अम्बरीषस्तुभगवानब्जयोनेःप्रसादतः।

सुदर्शनमहामन्त्रम्जजापसरहस्यकम्॥११६॥

ततःप्रसन्नोभगवान्सहस्रारःसहस्रजित्।

तदाप्रभृतितत्तीर्थम्सौदर्शनमुशन्तिवै॥११७॥

कुदर्शनाश्चयेलोकेमनुजाःपापकर्मणः।

सुदर्शनाश्चजायन्तेस्मरणात्तीर्थदर्शनात्॥११८॥

तत्रवेदानधीयन्तेभृग्वाद्याश्चमहर्षयः॥११९॥

वैशाखेतुविशाखायाम्दध्यन्नम्चसुसम्स्कृतम्।

ददद्विप्रायमनुजोनित्यतृप्तोऽभिजायते॥१२०॥

अष्टमम्चूततीर्थम्स्यात्कष्टसम्सारनाशनम्।

दुष्टानामपिजन्तूनामभीष्टफलदायकम्॥१२१॥

अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम्।

आवासोऽयमिहापूर्वमचलस्यसमीपतः॥१२२॥

अत्रतीर्थेपुराविष्णुर्दुर्भिक्षेद्वादशाब्दिके। क्षुधयापीडितेजन्तौपरिवृत्तेजगत्त्रये॥१२३॥

कुब्जाम्रभूरुहोभूत्वाफलैरमृतसम्मितैः।

सर्वेषामेवजन्तूनाम्क्षुधादैन्यमपाकरोत्॥१२४॥

तदाप्रभृतिलोकेऽस्मिन्चूततीर्थमुदाहृतम्।

चूततीर्थेतुयःस्नायाञ्च्युतःपापात्तुकर्मणः॥ १२५ ॥

ज्येष्ठमासेतुज्येष्ठर्क्षेसाक्षरान्वेदपारगान्।

कन्याम् पृथ्वीम् सुवर्णम् वा ददाति प्रयतात्मधृत् ॥१२६॥

कन्याप्रदानात्कल्पान्तम्रमतेब्रह्मणासह।

भूप्रदानात्तुसाम्राज्यम्भुङ्क्तेह्यव्याहतम्पदम्॥१२७॥

कनकस्यप्रदानेनकनत्कनकसन्निभः।

कुबेरभवनम्गत्वातस्याध्यक्षोभवेद्ध्रुवम्॥१२८॥

धारातीर्थम्महापुण्यम्मुक्तिधाराप्रदायकम्।

कारागारसमम्विश्वमारात्पारयितुम्क्षमम्॥१२९॥

साक्षाद्भगवतोविष्णोर्नृसिम्हस्यमहात्मनः।

आराधनोपयुक्तानितीर्थान्यत्रतुगृह्णते॥१३०॥

आषाढेमासिद्वादश्याम्स्नात्वागाम्चपयस्विनीम्।

ददद्विप्रायमनुजोयातिविष्णोःपरम्पदम्॥१३१॥

सालग्रामम्तुयोदद्यात्तस्यपुण्यम्महत्फलम्॥ १३२॥

दशमम्गजकुण्डम्स्यादवगाहितुमक्षमम्।

यस्मिन्गजेन्द्राःकृष्यन्तेविचरन्तिमहीतले॥१३३॥

गारुडस्योत्तरेभागेभूधरस्यतटान्तरे।

छत्रीकृतगुहायाम्तुसमध्यास्तेनृकेसरी॥

तस्येदम्पुरतस्तीर्थम्गम्भीरम्लोकपावनम्॥१३४॥

सिम्हम्दृष्ट्वायथालोकेगजयूथानिबृन्दशः।

परिधावन्तिवेगेनभयेनाविष्टचेतसा॥१३५॥

तद्वन्नरस्यपापानिब्रह्महत्याकृतीनिवै।

धावन्तिनरमुत्सृज्य ह्येतत्तीर्थनिषेवणात्॥१३६॥

महाशान्तोदोषवशात्गजेन्द्रत्वमुपाश्रितः।

यत्रस्नात्वाविशुद्धात्माजन्मान्तरमचिन्तयत्॥१३७॥

श्रावणेमासितत्तीरे धान्यदानम्ददातियः।

तस्यपुण्यफलम्वक्तुम्ब्रह्मणापिनशक्यते॥१३८॥

एकादशम्तुतीर्थम्स्याद्वैनायकमनुत्तमम्।

तपश्चरतिधर्मात्मायत्रवैविघ्ननायकः॥

तदाप्रकृतिलोकेस्मिन्नैनायकमुशन्निवै॥१३९॥

मासिभाद्रपदेचैवपितॄणामन्नेदोयदि।

तदन्नमक्षयम्चैवसयातिपरमम्पदम्॥१४०॥

द्वादशम्भैरवम्तीर्थम्यत्रतीर्थेभयङ्करः।

अध्यासीनःशिरोहीनोभैरवोलोकभैरवः॥१४१॥

आश्वयुङ्ग्माम्सियोमर्त्यःस्नात्वास्वर्णम्प्रयच्छति।

तस्यविष्णुःप्रसन्नात्मापुत्रपौत्रान्प्रयच्छति॥१४२॥

त्रयोदशम्तुयत्तीर्थम्रक्तकुण्डमुदाहृतम्॥१४३॥

एतानिसर्वतीर्थानिविश्रुताभवनाशिनी।

तस्याःप्रदेशेभेदाश्चमाहात्म्यम्तुपृथक्पृथक्॥ १४४ ॥

॥इतिश्रीब्रह्माण्डपुराणेक्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

तृतीयोऽध्यायः॥

श्रीः

श्रीमते रामानुजाय नमः

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥
॥ श्रीमदहोबिलमाहात्म्ये चतुर्थोऽध्यायः ॥

ऋषयः

आख्यातम्भवनाशिन्यामाहात्म्यम्चफलम्विभो।

तत्रत्यानाम्चतीर्थानाम्वैभवम्चपृथक्पृथक्॥१॥

नह्येतादृशसौभाग्यमनुभूतम्कदाचन।

नश्रुतम्नापिदृष्टम्वाविद्यतेवानचक्वचित्॥२॥

अहोबतमहत्कष्टम्गृहेष्वासक्तचेतसः।

जानन्तितीर्थमाहात्म्यम्नजातुनरपेशलाः॥३॥

वृथाजन्मवृथाजन्मवृथाजन्मदुरात्मनः।

योनपश्यतिनस्नायात्पावनीम्भवनाशिनीम्॥४॥

अलम्तपोभिस्तीर्थैर्वाश्रुतैर्वाविविधैर्मखैः।

यःस्नातिभवनाशिन्याम्हरिम्पश्यतितत्तटे॥५॥

वयम्पूज्यतमालोकेवयम्धन्यतमाभुवि।

येनैवभवनाशिन्याह्यर्पितम्वैभवम्हृदि॥६॥

कृतार्थाःस्मवयम्ब्रह्मन्भगवन्ब्रह्मसम्भव।

इदानीम्श्रोतुमिच्छामोमहान्हर्षःप्रवर्तते॥७॥

नवानाम्नारसिम्हानाम्नामानिचपृथक्पृथक्।

स्थानानिब्रूहितत्त्वेनस्थास्यामोविगतज्वराः॥८॥

श्रीनारदः

स्थानानामेवसर्वेषाम्गजतीर्थतटम्शुभम्।

विदारयन्रिपूम्स्तत्रनरसिम्हःप्रकाशते॥९॥

चक्रासनेसमासीनश्चक्राद्यायुधसेवितः।

चङ्क्रमक्रमितानाम्तुवक्त्राशयविनाशनः ॥१०॥

सटाच्छटासमायुक्तोविधूतासुरमण्डलः।

दम्ष्ट्राकरालवदनोभयस्यापिभयङ्करः॥११॥

शितदम्भोलिपरुषैर्नखैर्विलुलितासुरः।

फालेक्षणसमुद्भूतवह्निनादारुणात्मना॥

अप्रमेयकृताकारस्त्रिलोकम्निर्दहन्निव॥१२॥

भक्तानुकम्पयानित्यम्भावितामृतवीक्षणः॥१३॥

अग्रेप्राञ्जलिमासीनम्प्रह्लादम्प्रियपूरितम्।

प्रेम्णानुगृह्णन्सद्भक्तम्समध्यास्तेऽतिहर्षितः॥१४॥

इदम्तुप्रथमम्स्थानम्ब्रह्मादिभिरुपासितम्।

स्थानान्यन्यानिसन्त्येवशतशोऽथसहस्रशः॥१५॥

नसिम्हरहितम्क्षेत्रम्नभूतम्नभविष्यति।

नृसिम्हनायकोविश्वम्व्याप्तवान्पुरुषोत्तमः॥१६॥

भूमौनृसिम्होभुवनेनृसिम्होवायौनृसिम्होवचनेनृसिम्हः।

अग्नौनृसिम्होऽप्यमृतेनृसिम्होऽप्याकाशदेशेऽप्यखिलेनृसिम्हः॥१७॥

कायोनृसिम्हःकनकम्नृसिम्हश्छायानृसिम्हःसवनम्नृसिम्हः।

वनम्नृसिम्होवनतानृसिम्होयदस्तियन्नास्तिचतन्नृसिम्हः॥ १८ ॥

नृसिम्हदेवादपरम्विजानन्नरःपशुःपादयुगप्रसूतः।

ततोवरम्ह्यप्रसवोमृतिर्वायतोहरिम्सर्वगतम्नवेद॥ १९ ॥

जानन्तोऽपिनजानन्तिजाङ्यासक्तमनीषकाः।

किमुदेहात्मविज्ञानरहितानाम्दुरात्मनाम्॥२०॥

श्रुणुध्वम् मुनयः सर्वे नारसिम्हानक्रमात् ॥२१॥

वाराहम्रूपमास्थायधत्तेजायाम्वसुन्धराम्।

वेदाद्रेःपृष्ठभागेतुस्थित्वादेवःसनातनः॥२२॥

तस्यभूधरवर्यस्यउन्नतेमस्तकोत्तमे।

दक्षिणाभिमुखःश्रीमान्नरसिम्हःप्रकाशते॥२३॥

तस्यभागेमहाभागाकनकाख्यामहानदी।

सदाद्रवतिधाराभिरुद्वहन्तीसदामुदम्॥२४॥

प्राधान्यम्तत्रदेव्यास्तुहरिःकल्पितवान्पुरा ।

ततःप्रभृतिलोकास्तुलक्ष्म्यास्पदमवादयन्॥२५॥

ऋषयः

कथितम्भगवन्पूर्वम्गरुडाचलवैभवम् ।

वेदाचलइतिप्रख्यामध्येकथमभूत्प्रभो॥२६॥

किमेतन्नामभेदानिवस्तुभेदानिवापुनः ।

कथ्यताम्तपताम्श्रेष्ठयत्तत्त्वम्मुनिपुङ्गव॥२७॥

श्रीनारदः

गरुडाचलनामातुभूधराणाम्तुपुङ्गवः।

तस्यावयवभूतोऽयम्भूधरोवेदसञ्ज्ञितः॥२८॥

पुराकृतयुगेक्रूरःसोमकोनामदुर्मतिः।

वेदापहरणम्चक्रेअब्जयोनेःपितामहात्॥२९॥

ततःसङ्क्षोभितोधातात्रैलोक्यम्सचराचरम्।

नस्वाध्यायवषट्कारौनाग्निहोत्रक्रियास्तदा॥

न वर्णाश्रमधर्माणामाचारस्तुप्रवर्तते॥३०॥

एतत्सर्वम्समालोक्यभगवान्पुरुषोत्तमः।

जघानसोमकम्रक्षम्आजहारचवैत्रयीम्॥३१॥

ततस्तुदत्तवान्देवःशोचतेवेधसेपुनः।

वेदास्तुसर्वेसम्भूयपरस्परमचिन्तयन्॥३२॥

ब्रह्मायम्वरदानेतुनसमर्थःकथञ्चन।

तपस्यामोवयम्नूनम्यास्यामःसर्वजिष्णुताम्॥३३॥

असुरैर्वासुरैर्वापिनरैर्वाह्यजितात्मभिः।

शास्त्रैरन्यैः पुराणैर्वा स्मृतिभिः सेतिहासकैः ॥३४॥

यथास्माकम्परिभवोनजायेततथावयम्।

यतिष्यामोनसन्देहइतियातावनाद्वनम्॥३५॥

आरुह्यपर्वतम्सर्वेह्यग्रतःकमलापतेः।

नृसिम्हस्यतपश्चक्रुर्दारुणम्रोमहर्षणम्॥३६॥

ततःप्रसन्नोभगवान्स्तानुवाचजटाधरान्।

किमर्थम्तप्यतेघोरमात्मविज्ञानहीनवत्॥३७॥

युष्मदर्थम्जनाःसर्वेःतप्यन्तेरोमहर्षणम्।

इत्येवमुक्तास्तेवेदानारायणमथाब्रुवन्॥३८॥

सर्वज्ञस्त्वम्जगन्नाथनजानासिहिताहितम्।

किमर्थम्मोहयस्येशपृथग्जनमिवप्रभो॥३९॥

श्रीभगवान्

जानेयुष्मत्कथाम्सर्वाम्तत्तथैवास्त्वसम्शयः।

दत्तोवरोमयाचाद्यसेन्द्रैरपिसुरासुरैः॥४०॥

सर्वैःपरिभवोवेदाःनकदाचिद्भविष्यति।

येनिन्दन्तित्रयीमार्गम्सर्वेपाषण्डिनस्तथा॥ ४१॥

यानियुष्मद्विरुद्धानिशास्त्राणिविविधानिच।

पुराणानीतिहासाश्चस्मृतयश्चसहस्रशः॥

दूषितानिनसन्देहोगङ्गाम्भःसुरयायथा॥४२॥

अद्यप्रभृतिलोकोऽयम्युष्मन्नाम्नातुपर्वतम्।

वदिष्यतिनसन्देहइत्युक्त्वान्तर्दधेहरिः॥४३॥

ततःप्रभृतिशैलस्यनामासीत्वेदसञ्ज्ञितम्॥ ४४॥

लक्ष्मीकटाक्षविक्षेपात्सदायम्पर्वतोत्तमः।

फलपुष्पलताकीर्णःसर्वतःसम्प्रकाशते॥४५॥

वेदाद्रेःपश्चिमेभागेलक्ष्मीस्थानात्समीपतः।

दक्षिणाभिमुखोदेवोयोगानन्दोनृकेसरी॥४६॥

योगाभ्यासम्तुकृतवान्प्रह्लादस्यमहात्मनः।

तदाप्रभृतिलोकस्तुयोगानन्दइतिब्रुवन्॥४७॥

तस्यवायव्यभागेतुभगवान्नरकेसरी।

योगानन्दस्वरूपेणगुहायाम्सम्प्रकाशते॥४८॥

गरुडाद्रेर्दक्षिणतःपावनम्नामतीर्थकम्।

तत्रास्तेभगवान्विष्णुर्नृसिम्हस्यस्वरूपधृत्॥

सम्श्रितानाम्तुजन्तूनामभीष्टार्थप्रदायकः॥४९॥

गरुडाद्रेःपश्चिमतःह्यविदूरेकरञ्जकः।

महान्वृक्षस्तत्रचास्तेतन्मूलेनरकेसरी॥५०॥

तत्स्थानान्नैर्ऋतेभागेक्रोशार्धेह्यविदूरतः।

आस्तेछत्रवटच्छायामाश्रितोनरकेसरी॥५१॥

तस्यचोत्तरभागेतुपर्वतान्तरितेस्थले।

भार्गवेतीर्थवर्येतुसमास्तेनरकेसरी॥५२॥

अचलच्छायमेरोस्तुमध्येज्वालानुकेसरी।

एतेनवविधाःप्रोक्तानृसिम्हानवधास्मृताः॥५३॥

एकैकस्यप्रभावस्तुवक्तुम्शक्यम्नवेधसा।

तथाप्युद्देशतोवक्षयेकिञ्चिदेवपृथक्पृथक्॥५४॥

वाराहारूपीभगवान्यत्रास्तेमधुसूदनः।

वाराहम्क्षेत्रमुद्दिष्टम्क्षेत्राणामुत्तमोत्तमम् ॥५५॥

येकेचननरास्तत्रवैष्णवम्मन्त्रमुत्तमम्।

जपन्तिपुष्कराक्षस्यपुरतोनियतव्रताः ॥५६॥

सप्ताहात्पञ्चरात्राद्वासिद्धिस्तेषाम्नसम्शयः

भूकामाराज्यकामावायेवैकेचनमानवाः॥५७॥

अनेनस्तोत्रवर्येणसायम्प्रातःसमाहिताः।

स्तुवन्तोमासषट्केनस्वेप्सितार्थमवाप्नुयुः॥५८॥

भूमिः

नमस्तेसर्वरूपायतुभ्यम्खड्गधरायच।

मामुद्धरास्मादद्यत्वम्त्वत्तोऽहम्पूर्वमुत्थिता॥५९॥

त्वत्तोऽहमुत्थितापूर्वम्त्वन्मयाहम्जनार्दन।

तथान्यानिचभूतानिगगनादीन्यशेषतः॥६०॥

नमस्तेपरमात्मात्मन्पुरुषात्मन्नमोऽस्तुते।

प्रधानवस्तुभूतायकालभूतायतेनमः॥६१॥

त्वम्कर्तासर्वभूतानाम्त्वम्पितात्वम्विनाशकृत्।

स्वर्गादिषुपरोब्रह्माविष्णुरुद्रात्मरूपधृत्॥६२॥

सम्भक्षयित्वासकलम्जगत्येकार्णवीकृते।

शेषेत्वमेवगोविन्दचिन्त्यमानोमनीषीभिः॥६३॥

भवतोयत्परम्रूपम्तन्नजानन्तिकेचन।

अवतारेषुयद्रूपम्तदर्चन्तिदिवौकसः॥६४॥

त्वामाराध्यपरम्ब्रह्मायातामुक्तिम्मुमुक्षवः।

वासुदेवमनाराध्यकोमोक्षम्समवाम्नुयात्॥६५॥

यत्किञ्चिन्मनसाग्राह्यमग्राह्यम्चक्षुरादिभिः।

बुद्ध्याचयत्परिज्ञेयम्तद्रूपमखिलम्तव॥६६॥

त्वन्मयाहोत्वदाधारात्वत्सृष्टात्वामुपाश्रिता।

माधवीतिचविज्ञेयमभिधत्तेततोहिमाम्॥६७॥

जयाखिलजगन्नम्यजयस्थूलमयायच।

जयानन्दमयाव्यक्तजयव्यक्तमयप्रभो॥६८॥

परावरात्मन्विश्वात्मन्जययज्ञपतेऽनघ।

त्वम्यज्ञस्त्वम्वषट्कारस्त्वमोङ्कारस्त्वमग्नयः॥६९॥

त्वम्वेदास्त्वम्षडङ्गानित्वम्यज्ञपुरुषोहरे।

सूर्यादयोग्रहास्तारानक्षत्राण्यखिलम्जगत्॥७०॥

मूर्तामूर्तमदृश्यम्चदृश्यम्चपुरुषोत्तम।

यच्चोक्तम्यच्चनैवोक्तम्मयोक्तम्परमेश्वर॥

तत्सर्वम्त्वम्नमस्तुभ्यम्भूयोभूयोनमोनमः॥७१॥

इदम्स्तोत्रम्भगवतोधरण्यापरिकीर्तिततम्॥७२॥

येपठन्तिनरालोकेश्रावयन्तिचमानवान्।

तेयान्तिपरमाम्सिद्धिम्लभन्तेपार्थिवम्फलम्॥७३॥

वेदाद्रेःशिखरेरम्येलक्ष्म्याःक्षेत्रमुदाहृतम्।

तत्रास्तेभगवान्विष्णुर्लक्ष्म्यासहनृकेसरी॥७४॥

श्रीकामायेनरालोकेसम्पदम्वासुरेशताम्।

लक्ष्मीनृसिम्हमन्त्रेतुअष्टाक्षरसमन्वितम्॥७५॥

जपन्तोमासषट्कम् तु हविष्यान्नमुपाश्रिताः ।

तेप्राप्नुवन्तिविपुलाम्श्रियम्वायदभीप्सितम्॥७६॥

योगानन्दनृसिम्हस्ययोगक्षेत्रमुदाहृतम्।

योगिनोमुनयोयत्रयोगसिद्धिम्प्रपेदिरे॥७७॥

मनश्चञ्चल्ययुक्तस्तुपुराब्रह्माचतुर्मुखः।

तत्रैवाराध्यगोविन्दम्प्रतिष्ठितमनाह्यभूत्॥७८॥

चित्तेप्रतिष्ठितेपुम्साम्किमन्यद्भुविदुर्लभम्॥७९॥

क्षेत्ररत्नमिदम्प्रोक्तम्पावनम्लोकपावनम्।

यत्रपूर्वम्भरद्वाजोब्रह्महत्यामपाकरोत्॥८०॥

महापातकसम्युक्ताह्युपपातकसम्श्रिताः।

जातिभ्रम्शकरायेचयेचान्येपापसम्श्रयाः॥८१॥

सर्वेतेविप्रमुच्यन्तेक्षेत्रस्यास्यतुदर्शनात्॥८२॥

करञ्जमूलेभगवान्यत्रास्तेशार्ङ्गचक्रधृत।

कारञ्जम्क्षेत्रमुद्दिष्टमोश्रितम्भवनाशिनीम्॥८३॥

येषाम्स्नानरतिःकाङ्क्षायेषाम्वैज्ञाननिश्चयः।

तत्तदिष्टफलम्प्रादाद्भगवान्नरकेसरी॥८४॥

पुरादुर्वाससाशप्तोगोभिलोमुनिसत्तमः।

ततापकतिचित्कालान्जपन्वैमन्त्रराजकम्॥ ८५॥

सर्वशास्त्रेष्वभिज्ञत्वम्मनसाचिन्तयन्बुधः।

ततःप्रसन्नोभगवान्गोभिलम्प्राहसादरम्॥८६॥

परितुष्टोऽस्मिभद्रम्तेशास्त्रज्ञानम्ददामिते।

सारासारविवेकज्ञःसर्वशास्त्रविशारदः॥८७॥

अन्तेविरक्तिमासाद्यप्रविशत्वम्ममालयत्।

अद्यप्रभृतियेह्यत्रमामुद्दिश्यजपन्तिवै॥८८॥

नारसिम्हम्मनुवरम्तेषाम्दास्याम्यभीप्सितम्।

इतिगोभिलमामन्त्र्यतत्रैवान्तरधीयत॥८९॥

तथाछत्रवटम्क्षेत्रम्सुत्रामादिभिराश्रितम्।

यत्रास्तेभगवान्प्रचीमनृगृह्णनृकेसरी॥९०॥

सिद्धगन्धर्वयक्षाद्याःशतशोऽथसहस्रशः।

गायन्तिविविधैर्गानैःक्षेत्रेऽस्मिन्पुरुषोत्तमम्॥९१॥

हाहाहूह्वाख्यगन्धर्वौमेरुपृष्ठादुपागतौ।

अगायेताम्तुनृहरेरग्रतःस्वरसम्युतम्॥९२॥

निषादर्षभगान्धारषड्जमध्यमधैवताः ।

पञ्चमश्चेत्यमीसप्तस्वराःकल्याणहेतवः॥९३॥

तेषाम् सर्वप्रभेदज्ञौकालमानविशारदौ।

तौतुदृष्ट्वाहरिःप्रीतोदत्तवानुत्तमम्वरम्॥९४॥

अद्यप्रभृतिलोकेऽस्मिन्गायकेषुवरौमतौ।

युष्मत्सदृशगातारोनभविष्यन्तिवैभुवि॥९५॥

येत्वत्रभरतेशास्त्रेनियताब्रह्मवादिनः।

तेवदिष्यन्तिगानेषुनियतौलोकविश्रुतौ॥९६॥

भार्गवाख्यम्तथाक्षेत्रम्पुण्यम्स्वर्गापवर्गदम्।

अत्रैवह्यक्षयम्तीर्थम्रक्षकम्भुवनत्रयम्॥९७॥

तत्रास्तेभगवान्शैलेह्यविदूरेनृकेसरी।

पद्मैः सौगन्धिकैः फुल्लैर्नीलोत्पलवनैरपि ॥९८॥

परितोनीपवानीरैःपरिमण्डितमण्डलम्।

हम्सकारण्डवाकीर्णम्सम्सारार्तिच्छिदम्वरम्॥९९॥

पनसैःपाटलैःपूगैरन्यैःफलितभूरुहैः।

वनान्युपवनान्यत्रतीरदेशेसमावृतम्॥१००॥

अक्षयम्तीर्थमुद्दिष्टम्सर्वपापविनाशनम्।

यःस्नात्वातत्रदेवेशम्नियतात्मादृढव्रतः॥१०१॥

पूजयेत्परयाभक्त्याभगवन्तमधोक्षजम्।

पारमेष्ठ्यम्चन्द्रधिष्ण्यम्पादाक्रान्तम्तुतस्यवै॥१०२॥

किम्क्षुद्राभोगसम्भूतिर्मुक्तिर्यस्यकरेस्थिता।

अद्यापिभार्गवस्तत्रतपश्चरतिनिश्चलम्॥१०३॥

अनुगृह्णन्हियेकेचित्स्वस्वेप्सितफलार्थिनः।

स्तुवन्तिवानमस्यन्तिभार्गवम्भक्तवत्सलम्॥१०४॥

इदम्तीर्थमुपाश्रित्यवसिष्ठाद्यामहर्षयः।

स्वम्स्वम्पदमनुप्राप्तानृसिम्हस्यप्रसादतः॥१०५॥

ज्वालाख्यमुक्तिक्षेत्रम्तुअवग्रहनिबर्हणम्।

अव्यग्रास्तत्रतिष्ठन्तिऋषयःसम्शितव्रताः॥१०६॥

कार्तिकेमासिनियतादीपमारोपयन्तिये।

घृतेनवाथतैलेनदेवदेवस्यसन्निधौ॥१०७॥

तेजःकान्तिसमायुक्ताःसायुज्यम्प्राप्नुवन्तिते।

वीतरागाश्च मुनयो बहवः समुपाश्रिताः ॥१०८॥

उद्यद्भास्वत्सहस्रप्रभमशनिनिभम्स्वेक्षणैर्विष्किरन्तम्

वह्रीनह्नायविद्युत्ततिविततिसटाभीषणम्भूषणैश्च।

दिव्यैरादीप्तदेहम्निशितनखलसद्वाहुदण्डैरनेकैः

सम्भिन्नम्भिन्नदैत्येश्वरतनुमतनुम्नारसिम्हम्भजामः॥ १०९ ॥

इत्थम्नवानाम्क्षेत्राणाम्माहात्म्यमुपवर्णितम्।

नारसिम्हाधिष्ठितानिसन्त्यन्यानिसहस्रशः॥११०॥

यस्त्वेतच्छृणुयान्नित्यम्यस्त्वेतत्परिकीर्तयेत्।

तावुभौपरमाम्सिद्धिम्नियमादुपगच्छतः॥१११॥

यथाहरेरभिव्यक्तेरेकस्यापिसहस्रशः।

तत्तथाहोबिलम्क्षेत्रम्तत्तद्देशेऽभिधीयते॥११२॥

पक्षीन्द्रम्पोत्रसञ्ज्ञम्जलनिधितनयासञ्ज्ञितम् योगसञ्ज्ञम्

कारञ्जम्क्षेत्रवर्यम् फलितफलचयम् छत्रपूर्वम्वटम्च।

ज्वालाख्यम् भार्गवाख्यम्भगवदभिमतम्भावितम्योगिवर्यैः

पुण्यम्तत्पावनाख्यम्हृदिकलयताम्कल्पतेसत्फलाय ॥११३॥

॥इतिश्रीब्रह्माण्डपुराणेक्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्येचतुर्थोऽध्यायः॥

॥श्रीः॥

॥श्रीमतेलक्ष्मीनृसिम्हपरब्रह्मणेनमः॥

॥श्रीमदहोबिलमाहात्म्येपञ्चमोऽध्यायः॥

ऋषयः

श्रुतम्विस्तरतोब्रह्मन्माहात्म्यम्हयमेधसः।

नारसिम्हाधिष्ठितानाम्क्षेत्राणाम्सुखसङ्ग्रहम्॥१॥

इदानीम्श्रोतुमिच्छामोदेवस्यहयमेधसः।

कथमासीत्समुद्भूतिःस्तम्भेसम्भावितात्मनः॥२॥

कथम्विरोधउत्पन्नोजनकस्यसुतस्यच।

एताम्विस्तरतोब्रूहिकथाम्नृहरिसम्श्रिताम्॥३॥

श्रीनारदः

वैकुण्ठाख्येकार्यलोकेश्रीभूमिसहितोहरिः।

आस्तेविष्णुरमेयात्माभक्तैर्भागवतैःसह॥४॥

सनकाद्याःमुनिवराःसदाहरिपरायणाः।

स्वयम्आगतविज्ञानाःनिवृत्तिम्धर्मम्आश्रिताः॥५॥

बाल्यात्अनुपनीताश्चदिगम्बरपदाश्रिताः।

भगवन्तमथोद्रष्टुम्नारायणमनामयम्॥६॥

वैकुण्ठपुरमाजग्मुःअनिवारितचेष्टिताः।

तन्मध्येभगवद्दामनानामणिविचित्रितम्॥७॥

हेमप्राकारसम्युक्तम्पताकाभिःअलङ्कृतम्।

दिव्यैःमणिमयैःकान्तैःगोपुरैश्चविचित्रितम्॥८॥

परितःकल्पतरुभिःसारिकाशुकसेवितम्।

मण्डितम्पुण्डरीकाक्षमन्दिरम्विविशुःतदा॥९॥

विशमानास्तुतेसर्वेवारिताद्वारपालकैः॥१०॥

तत्रद्वौद्वारपालौतुजयश्चविजयस्तथा।

तौतुपुण्यविशेषेणभगवद्वारमाश्रितौ॥

तौतुदृष्ट्वामहाकायौयोगिनःकोपकर्शिताः॥११॥

निस्पृहाणामिहास्माकम्किमर्थम्वारणम्कृतम्।

सस्पृहाणाम्वारणार्थम्कल्पितौहरिणायुवाम्॥१२॥

यस्मादनपराधानाम्भवद्भ्याम्वारणम्कृतम्।

तेनपापेनसम्भूतमसुरत्वम्गमिष्यथः॥१३॥

इतिशापेदीयमानेभगवान्पुरुषोत्तमः। करौधून्वन्सम्भ्रमेणश्रियमङ्कगताम्नुदन्॥१४॥

इदमर्घ्यमिदम्पाद्यमिदमाचमनीयकम्।

इदमासनमित्येवम् प्राह तान् पुरुषोत्तमः ॥१४॥

तदाकर्ण्यतुसन्त्रस्तामुनयःसनकादयः।

त्वरयापरयायुक्तम्भगवन्तम्ववन्दिरे॥१६॥

भगवानपिसर्वात्माप्राहतानृषिसत्तमान्।

क्षेमम्वोमुनयस्सर्वेसनकाद्यामहौजसः॥१७॥

दीयतेऽत्रसमर्थम्हिभवद्भिःसत्त्वम्सम्स्थितैः।

अस्माकम्गुरवःसाक्षात्पोषकाःसौम्यहेतवः॥१८॥

युष्मत्प्रसादादखिलम्परिपूर्णम्जगत्त्रयम्।

सृष्टिस्थितिअन्तकरणेशक्तिःयुष्मत्प्रसादतः॥

स्वयम्दाराश्चमित्राणिबान्धवाःपादचारकाः॥१९॥

आधिपत्यम्सुरेन्द्राणामनन्य॒गतवैभवम्।

युष्मत्प्रसादात्सन्देहोनमेस्याद्वाञ्छितम्फलम्॥२०॥

अहोभाग्यमहोभाग्यमद्यापिभुवनेश्वरः। यदहम्दृष्टवान्युष्मान्सनकादीन्महामुनीन् ॥२१॥

कृतार्थोऽस्मिनसन्देहोयन्मेस्याद्वाञ्छितम्फलम्।

यन्मेगृहाङ्गणम्प्राप्तामुनयःसनकादयः॥२२॥

इत्येवम्बहुधास्तुत्वातूष्णीम्भूतेजनार्दने।

मुनयःसाध्वसम्प्राप्ताःकिञ्चित्पीडितचेतसः॥

भगवन्तमथप्रोचुःप्रश्रयानतकन्धराः॥२३॥

सनकादयः

भगवन्क्षम्यतामेतद्यच्छप्तौद्वारपालकौ।

मूढैरेवम्कृतोब्रह्मन्कुतःशापोमनीषिणाम्॥२४॥

देहानुबन्धोयावत्तुयावत्स्यादिन्द्रियाश्रयः।

तावत्कथम्महाभागहृदयेज्ञानमुत्तमम्॥२५॥

क्रोधादिदूषितेचित्तेकथम्विष्णर्वसिष्यते।

कथम्वापङ्किलोतीर्थेहम्सोबध्नातिवैरतिम्॥२६॥

इत्येवम्बहुधानैच्यम्ब्रुवन्तस्तेमुनीश्वराः।

शरण्यम्शरणम्जग्मुर्भगवन्तमधोक्षजम्॥२७॥

श्रीभगवन्

अनुग्रहोहियुष्माभिरेतयोःपरिकल्पितः॥२८॥

तथैवत्रीणिजन्मानिमत्कथापरिपन्थिनौ।

भविष्यतोनसन्देहोविप्रवाक्यम्तुतत्तथा॥२९॥

इत्युक्त्वातान्समाश्वास्यतयोःकार्यम्विनिर्दिशन्।

पश्यताम्योगिवर्याणाम्तत्रैवान्तरधीयत॥३०॥

योगिनःस्मयमापन्नाःस्मरन्तोहरिभाषितम्।

पुलकाङ्कितसर्वाङ्गाःस्वम्स्वम्धामप्रपेदिरे॥३१॥

जयश्चविजयश्चैवतौहरेर्द्वारपालकौ।

प्रारब्दशेषमापन्नौजननेदधतुर्मनः॥३२॥

हिरण्यकहिरण्याक्षौसञ्जातौलोककण्टकौ।

अत्यन्तभीषणाकारावमरत्रासकारिणौ॥

तपसाराध्यधातारम्तल्लब्धवरदर्पितौ॥३३॥

हिरण्याक्षस्तुबलवान्क्रोडरूपेणविष्णुना।

प्रसह्यनिहतःसङ्ख्येलोकानुग्रहकारिणा॥३४॥

हिरण्यकशिपुर्धीमान्शौर्यवीर्यपराक्रमैः।

ससुरासुरगन्धर्वम्जिगायभुवनत्रयम्॥३५॥

ईश्वरोऽहमहम्भोगीसिद्धोऽहम्बलवान्सुखी।

आढ्योऽभिजनवानस्मिकोऽन्योऽस्तिसदृशोमया॥ ३६॥

अहम्विष्णुरहम्ब्रह्माअहम्लोकान्तकःशिवः।

सृष्टिस्थित्यन्तकर्माणिअहमेवकरोमिवै॥३७॥

हरिर्हरोविधातेतिमूढैरेवप्रकल्पितः।

स्वसामर्थ्यमनादृत्यकथमन्येनसिध्यति॥३८॥

नस्वाध्यायवषट्करौनाग्नयःसवनम्तथा।

नवेदशास्त्रपठनम्नाग्निहोत्रक्रियास्तथा॥३९॥

न कर्तव्यम्द्विजवरैर्देवतोद्देशतःक्वचित्।

मामुद्दिश्यैवकर्तव्यमहम्भोक्ताफलप्रदः॥४०॥

येतुविष्णुम्हरिम्वापिस्मरन्तिगतचेतसः।

येकुर्वन्तिहरिम्प्रीत्याइष्टापूर्तादिकम्विधिम्॥

तेनिर्वाप्यानसन्देहोऽस्मद्विषयवासिनः॥४१॥

इत्येवम्दुष्टचेष्टोऽयम्हिरण्यकमहासुरः।

शशासपृथिवीमेताम्विधातृवरदर्पितः॥४२॥

हिरण्यकशिपोस्त्रस्ताःसेन्द्राःदेवगणास्तदा।

परमापदमापन्नाबृहस्पतिमथाब्रुवन्॥४३॥

कथम्निस्तरणोपायोहिरण्यकशिपोर्भवेत्।

एवमुक्तस्तदातैस्तुबृहस्पतिरभाषत॥४४॥

बृहस्पतिः

क्षीरोदस्योत्तरतटेस्तूयताम्तत्रकेशवः।

युष्माभिः सम्स्तुतोविष्णुःप्रसन्नोभवतिक्षणात्॥ ४५॥

तस्मिन्प्रसन्नेदैत्यस्यवधोपायोभविष्यति।

इत्युक्तास्तुतदादेवाःसाधुसाध्वितितेऽब्रुवन्॥४६॥

प्रीत्यापरमयायुक्तागतिम्चक्रुर्यथोदितम्।

पुण्येतिथौदिनेलग्नेपुण्याहम्स्वस्तिमङ्गलम्॥ ४७॥

कारयित्वामुनिवरैःप्रस्थितास्तेदिवौकसः।

नाशायदुष्टदैत्यस्यस्वभूत्यैचद्विजोत्तमाः॥४८॥

तेशर्वमग्रतःकृत्वाक्षीराब्धेरुत्तरम्तटम्।

तत्रगत्वासुरास्सर्वेसेन्द्राविष्णुम्जनार्दनम्॥

अस्तुवन्विविधैःस्तोत्रैःपूजयन्तोऽवतस्थिरे॥४९॥

भवोऽपिभगवद्भक्त्याभगवन्तम्जनार्दनम्।

अस्तुवन्नामभिःपुण्यैरेकान्तमनसाहरिम्॥५०॥

महादेवः

विष्णुर्जिष्णुर्विभुर्यज्ञोयज्ञेशोयज्ञपालकः।

प्रभविष्णुर्ग्रसिष्णुश्चलोकात्मालोकनायकः॥५१॥

मोदकःपुण्डरीकाक्षःक्षीराब्धिकृतकेतनः।

पूज्यः सुरासुरैरीशः प्रेरकः पापनाशनः ॥५२॥

वैकुण्ठःकमलावासःसर्वदेवनमस्कृतः।

त्वम्यज्ञस्त्वम्वषट्कारस्त्वमोङ्कारस्त्वमग्नयः॥५३॥

त्वम्स्वाहात्वम्स्वधादेवस्त्वम्सुधापुरुषोत्तमः।

नमोदेवाधिदेवायविष्णवेशाश्वतायच॥५४॥

अनन्तायाप्रमेयायनमस्तेगरुडध्वज।

इतिस्तोत्रम्महच्चक्रेभगवान्पार्वतीपतिः॥

ततःप्रसन्नोभगवानिदम्वचनमब्रवीत्॥५५॥

युष्माभिःसम्स्रुतोदेवाःशिवेनचमहात्मना।

अहम्किमर्थम्तद्भूतश्रुत्वासर्वम्करोमिवः॥५६॥

देवदेवहृषिकेशपुण्डरीकाक्षमाधव।

त्वमेवजानासिहरेकिमस्मान्परिपृच्छसि॥५७॥

श्रीभगवान्

युष्मदागमनम्सर्वम्जानाम्यसुरमर्दनाः।

हिरण्यकविनाशायस्तुतोऽहम्शङ्करेणतु॥५८॥

पुण्यैर्नामविशेषैस्तुस्तुतोऽहम्परितोषितः॥५९॥

एतेनयस्तुमाम्नित्यम्शङ्करोक्तेनभावयेत्।

तेनाहम्पूजितोनित्यम्शङ्करेणयथातथा॥६०॥

इत्युक्त्वाशङ्करम्प्राहबहुमानपुरस्सरम्।

प्रीतोऽहम्गच्छशम्भोत्वम्कैलासनिलयम्शुभम्॥ ६१॥

त्वयास्तुतोहनिष्यामिहिरण्यकशिपुम्भव।

गच्छध्वमधुनादेवाःस्वस्थानम्विगतज्वराः॥६२॥

अहमद्यगमिष्यामिवधार्थम्सुरवैरिणः।

इत्युक्त्वान्तर्दधे देवः स्वम् स्वम् स्थानम् सुरा ययुः ॥६२॥

कर्मणाकल्पितम्कालम्स्वाज्ञारूपम्जनार्दनः।

अवेक्षमाणःसम्स्तस्थौकालोहिदुरतिक्रमः॥६४॥

हिरण्यकशिपुर्विप्रान्पीडयन्पृथिवीमिमाम्।

शशानबलदोर्दण्डखण्डिताखण्डलद्युतिः॥६५॥

शून्यमासिज्जगत्रस्तम्वैदिकाचारवर्जनात्॥६६॥

इतिभुवनमशेषम्पीडयन्पद्मयोनेः

अनुपमवरदानाद्दर्पितोदैत्यराजः।

नगणयतिसुरेशम्शूलिनम्वामुरारिम्

कमलभवमथान्यान्काकथामानुशेषु॥६७॥

॥इतिश्रीब्रह्माण्डपुराणेक्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

पञ्चमोऽध्यायः॥