०२६

जैमिनिरुवाच-

विश्वास-प्रस्तुतिः

कलौ युगे महाभाग समायाते सुदारुणे
भविष्यन्ति जनाः सर्वे कीदृशास्तद्वदस्व मे ॥ १ ॥

मूलम्

व्यास उवाच-
आद्यं सत्ययुगं प्राहुस्तत्र विप्रादयो जनाः
नारायणार्चनपराः शोकव्याधिविवर्जिताः ॥ २ ॥

सत्योक्तिभाषिणः सर्वे सदया दीर्घजीविनः
धनधान्यादिसम्पन्ना हिंसादम्भविवर्जिताः ॥ ३ ॥

परोपकरणाश्चैव सर्वशास्त्रविदस्तथा
एवंविधाः सत्ययुगे सर्वे लोका द्विजोत्तम ॥ ४ ॥

राजधर्मग्राहिणश्च भूपाला जनपालनाः
अहो सत्ययुगस्यास्ति को व्याख्यातुं गुणं यशः ॥ ५ ॥

अधर्मोच्चारणं यत्र जनाः केऽपि न कुर्वते
त्रेतायुगे समायाते धर्मः पादोनकं गतः ॥ ६ ॥

अल्पशोकान्विता लोकाः केचित्केचिदघाश्रयाः
विष्णुध्यानरता लोका यज्ञदानपरायणाः ॥ ७ ॥

वर्णाश्रमाचाररताः सुखिनः स्वस्थचेतसः
क्षेत्रभूमिकृतः शूद्राः सर्वेब्राह्मणसेविनः ॥ ८ ॥

ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः
प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः ॥ ९ ॥

तपोव्रतरता नित्यं दातारो विष्णुसेविनः
त्रेतायुगस्यावसाने द्वापरे युग आगते ॥ १० ॥

द्विपादहीनो धर्मः स्यात्सुखदुःखान्विता नराः
केचित्केचित्पापरताः केचित्केचिच्च धर्मिणः ॥ ११ ॥

केचित्केचिद्गुणैर्हीनाः केचित्केचिन्महागुणाः
अत्यन्तदुःखिनः केचित्केचिच्च सुखिनस्तथा ॥ १२ ॥

प्रतिग्रहे ब्राह्मणश्च कदाचित्कुरुते स्पृहाम्
भूभुजैर्धनलोभेन कदाचित्पीड्यते प्रजा ॥ १३ ॥

विष्णुपूजापरा विप्राः शूद्राश्च द्विजसेविनः
यदा युगेयुगे धर्मः पादोनतां गतो द्विज ॥ १४ ॥

तदा व्यासो विष्णुरूपी वेदभागं चकार ह
कलौयुगे च विप्रेन्द्र सर्वपापैकमन्दिरे ॥ १५ ॥

एकपादो भवेद्धर्मः सर्वे पापरता जनाः
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राः पापपरायणाः ॥ १६ ॥

अत्यन्तकामिनः क्रूरा भविष्यन्ति कलौ युगे
वेदनिन्दाकराश्चैव द्यूतचौर्यकरास्तथा ॥ १७ ॥

विधवासङ्गमग्नाश्च भविष्यन्ति कलौ युगे
वृत्त्यर्थब्राह्मणाः केचिन्महाकपटधर्मिणः ॥ १८ ॥

सर्वे स्त्रैणा भविष्यन्ति मादकद्रव्यसेविनः
सदा स्त्रीयोनिनिरताः परद्रव्यं हरन्ति च ॥ १९ ॥

परान्नलोलुपा नित्यं तपोव्रतपराङ्मुखाः
पाखण्डसङ्गबद्धाश्च भविष्यन्ति कलौ युगे ॥ २० ॥

रक्ताम्बरा भविष्यन्ति ब्राह्मणाः शूद्रधर्मिणः
कलौ यास्यन्ति निर्वृत्ता उत्तमा अति नीचताम् ॥ २१ ॥

नीचाश्च धनसम्पन्ना यास्यन्त्युच्चपदं प्रति
प्रदास्यन्त्युपकारिभ्यो दानानि सकला जनाः ॥ २२ ॥

यत्नादपि च नेष्यन्ति वृषला विप्रवर्त्तनम्
मित्रस्नेहाद्वदिष्यन्ति कूटसाक्ष्यं कलौ जनाः ॥ २३ ॥

अधर्मबुद्धिलपना धर्मबुद्धिविलापिनः
परोक्षनिन्दकाः क्रूराः सम्मुखे प्रियवादिनः ॥ २४ ॥

साध्वीवादं वदिष्यन्ति भर्तारं पुंश्चली स्त्रियः
परस्त्रीहिंसकाश्चैव गोत्रविक्रयिणो द्विजाः ॥ २५ ॥

कन्याविक्रयिणश्चैव भविष्यन्ति कलौ युगे
स्त्रीजिताः पुरुषाः सर्वे स्त्रियोऽप्यत्यन्तचञ्चलाः ॥ २६ ॥

कलौयुगे भविष्यन्ति कलौ मर्त्या दुराशयाः
अल्पसस्या वसुमती मेघाः स्वल्पोदकास्तथा ॥ २७ ॥

अकालवर्षिणश्चापि भविष्यन्ति कलौ युगे
कलौ विड्भोजिनो गावः स्वल्पक्षीराश्च जैमिने ॥ २८ ॥

घृतहीनं च तत्क्षीरं भविष्यन्ति न संशयः
आत्मस्तुतिपरा लोकाः परनिन्दापरायणाः ॥ २९ ॥

भविष्यन्ति च खर्वाङ्गा बाला बह्वन्नभोजनाः
पितृयज्ञं करिष्यन्ति दम्भार्थं ब्राह्मणाः कलौ ॥ ३० ॥

सर्वे वचःस्नेहिनः स्युर्यावत्कार्यं न सिद्ध्यति
नरान्धर्मपरान्दृष्ट्वा सर्वे चोपहसन्ति वै ॥ ३१ ॥

वर्धन्त्यधर्मतो लोकास्तस्मात्पापरता जनाः
दशद्वादशवर्षे च समूलोऽप्येति सङ्क्षयम् ॥ ३२ ॥

जलस्येव भविष्यन्ति यथा वर्षासु वृद्धयः
ततो लोका भविष्यन्ति कलौ गलितयौवनाः ॥ ३३ ॥

पञ्चमे वापि षष्ठे वा वर्षे स्त्री गर्भधारिणी
बह्वपत्याश्च पुरुषा भविष्यन्त्यतिदुःखिनः ॥ ३४ ॥

नेतुकामाश्च सर्वेऽपि दातुकामा न केऽपि च
कलौ म्लेच्छा भविष्यन्ति राजानः पापतत्पराः ॥ ३५ ॥

एकवर्णा भविष्यन्ति विषयार्थं कलौ जनाः
कलेः प्रथमसन्ध्यायां हरिं निन्दन्ति मानवाः ॥ ३६ ॥

कलेर्मध्ये न पश्यन्ति हरेर्नामानि केवले
ब्राह्मणाः क्षत्त्रिया वैश्या वृषलाश्च कलौ युगे ॥ ३७ ॥

एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च
यदायदा द्विजश्रेष्ठ हानिः सुकृतिनां भवेत् ॥ ३८ ॥

वृद्धिश्च पापिनां नॄणां ज्ञेया वृद्धिस्तदा कलौ
यद्यप्ययं कलिर्घोरो मया प्रोक्तो द्विजोत्तम ॥ ३९ ॥

तथाप्यस्ति महानस्य गुणो गुणवतां वर
सत्ये द्वादशभिर्वर्षैर्भवेत्पुण्यस्य साधनम् ॥ ४० ॥

तदर्धेन च त्रेतायां मासेन द्वापरे भवेत्
अहोरात्रेणैव विप्र भवेत्तच्च कलौ युगे ॥ ४१ ॥

तस्मात्कलियुगे नॄणां मर्त्येनैवोत्तमा गतिः
द्वादशाब्दैर्युगेऽन्यस्मिन्हरिमभ्यर्च्य यत्फलम् ॥ ४२ ॥

तत्फलं लभते मर्त्यो हरिमुच्चार्य वै कलौ
हरेर्नामैकमप्यत्र कलौ वदति यो नरः ॥ ४३ ॥

कलिर्न बाधते तं च सत्यं सत्यं न संशयः
जैमिनिरुवाच-
मनः शुद्धिविहीनत्वात्समस्तं कर्मनिष्फलम् ॥ ४४ ॥

इति पूर्वं त्वया प्रोक्तं मनो विस्मयदं मम
कलौ सर्वे भविष्यन्ति मनःशुद्धिविवर्जिताः ॥ ४५ ॥

तेषां यथा भवेत्कर्म सकलं ब्रूहि तद्गुरो
व्यास उवाच-
यत्किञ्चित्कुरुते कर्म मर्त्यो धर्मं कलौ युगे ॥ ४६ ॥

तदर्पयेन्महाविष्णौ भक्तिभावसमन्वितः
विष्णौ समर्पितं कर्म सर्वमेवाक्षयं भवेत् ॥ ४७ ॥

इति ते कथितं सर्वं वृत्तं ब्राह्मणसत्तम
यच्छ्रुत्वा भक्तिभावेन नरो मोक्षमवाप्नुयात् ॥ ४८ ॥

सूत उवाच-
एवं प्रबोधितस्तेन जैमिनिः परमात्मना
क्रियायोगरतो भूत्वा जगाम परमं पदम् ॥ ४९ ॥

इमं क्रियायोगसारं व्यासेनोक्तं महात्मना
ये पठन्ति जना भक्त्या शृण्वन्ति च मुमुक्षवः ५० 7.26.50
ते सर्वे पातकैर्घोरैर्बहुजन्मार्जितैरपि
विमुक्ताः परमां मुक्तिं लभन्ते नात्र संशयः ॥ ५१ ॥

यद्यदिष्टं पठन्त्येतच्छृण्वन्ति च मुमुक्षवः
लभन्ते तत्तदेवाशु प्रसादात्कमलापतेः ॥ ५२ ॥

श्लोकार्द्धं श्लोकमेकं वा श्लोकपादमथापि वा
नरः पठित्वा श्रुत्वा च लभते वाञ्छितं फलम् ॥ ५३ ॥

लिखित्वा लेखयित्वा वा यः शास्त्रमिदमर्चयेत्
स विष्णुपूजनस्यैव फलं प्राप्नोति मानवः ॥ ५४ ॥

इदमतिशयगुह्यं निःसृतं व्यास वक्त्राद् ??चिरतरपुराणं प्रीतिदं वैष्णवानाम्
चिरममरवराद्यैर्वन्दिताङ्घ्रेर्मुरारेः सकलभुवनभर्त्तुश्चक्रिणः प्रीतयेऽस्तु ॥ ५५ ॥

इति श्रीपद्मपुराणे क्रियायोगसारखण्डे व्यासजैमिनिसंवादे युगधर्मनिरूपण
पूर्वकं पुराणमाहात्म्यवर्णनन्नाम षड्विंशतितमोऽध्यायः २६