जैमिनिरुवाच-
विश्वास-प्रस्तुतिः
भूय एव महाभाग तुलस्याः पापनाशनम्
अतिथेः पूजनस्यापि माहात्म्यं ब्रूहि विस्तरात् ॥ १ ॥
मूलम्

सूत उवाच-
ततो व्यासो महातेजास्तुलस्या द्विजसत्तम
माहात्म्यं वक्तुमारेभे शृण्वतां पापनाशनम् ॥ २ ॥

व्यास उवाच-
इयं साक्षान्महालक्ष्मीस्तुलसी भगवत्प्रिया
तस्मादिमां न पश्यन्ति वृक्षज्ञानेन जैमिने ॥ ३ ॥

सदैव तुलसीं मर्त्यो यथैव भुवि सेवते
तथैव सेन्द्रा विबुधाः सेवन्ते तं सुरालये ॥ ४ ॥

परब्रह्मस्वरूपेयं तुलसी यत्र तिष्ठति
तत्रैव कुशलं सर्वं सुदृढं प्रोच्यते मया ॥ ५ ॥

प्राप्नोति मृत्युकाले यस्तोयं पातकवानपि
तुलसीपत्रगलितं स याति हरिसन्निधिम् ॥ ६ ॥

तुलसीमृत्तिकापुण्ड्रं यो मृत्युसमये वहेत्
स मुक्तः सकलैः पापैः पुरं गच्छति चक्रिणः ॥ ७ ॥

यस्य स्यात्तुलसीपत्रं मुखे शिरसि कर्णयोः
मृत्युकाले द्विजश्रेष्ठ तस्य स्वामी न भास्करिः ॥ ८ ॥

पवित्रनामा सुमतिर्बभूव परमार्थवित्
बभूव ब्राह्मणी तस्य बहुला नाम धारिणी ॥ ९ ॥

सद्वंशप्रभवा साध्वी पतिसेवापरायणा
अनपत्यपतिर्नाम तत्रैकोस्ति द्विजोत्तमः ॥ १० ॥

सख्यं तेन पवित्रोऽसौ चकार द्विजसेविना
ततोऽनपत्यपतिना कथालोभेन सत्तमः ॥ ११ ॥
मूलम्
सख्यं तेन पवित्रोऽसौ चकार द्विजसेविना
ततोऽनपत्यपतिना कथालोभेन सत्तमः ॥ ११ ॥
विश्वास-प्रस्तुतिः
उपविष्टः पवित्रोऽसौ स्नेहादेकवरासने
तत्रान्तरे महातेजा लोमशो नाम स द्विजः ॥ १२ ॥

कथयन्तौ कथाश्चित्राः समागत्य ददर्श तौ
अथ तं लोमशं विप्रं विप्रावुत्थाय पीठतः ॥ १३ ॥

पाद्यार्घ्याचमनीयाद्यैः पूजयामासतुश्च तौ
सुप्रीतो लोमशस्ताभ्यां नारायणपरायणः ॥ १४ ॥

उवास ब्राह्मणश्रेष्ठ आसने कीर्तयन्हरिम्
आसनस्थं महात्मानं लोमशं तं कृताञ्जलिम् ॥ १५ ॥

पवित्रानापत्यमुनी भक्त्या प्राहतुर्लोमशम्
भगवन्सर्वधर्मज्ञ त्वत्पादयुगलैर्नृभिः ॥ १६ ॥

सद्भिर्ग्राह्यैराश्रमोऽयं पूतोऽभून्नूनमावयोः
कृतानि यानि पापानि आवाभ्यां मोहतः पुरा ॥ १७ ॥

तानि सर्वाणि नष्टानि त्वत्पादयुगदर्शनात्
भवान्नारायणः साक्षात्पूजनीयोऽमरैरपि ॥ १८ ॥

सम्यक्ते पूजनं कर्तुं किमावां मानुषौ क्षमौ
अतिथेर्या कृता पूजा तेऽस्माभिर्निजशक्तितः ॥ १९ ॥

अनया भव सुप्रीतः क्षमस्व दोषमावयोः
इत्युक्त्वा तौ महात्मानौ तस्यागन्तोः पदद्वये
निपेततुर्द्विजश्रेष्ठ वयस्यौ गृहमेधिनौ ॥ २० ॥

ततो भक्त्या सुसन्तुष्टो लोमशो विदुषांवरः
युवां विनयिनां श्रेष्ठौ द्विजाग्र्यौ धर्मतत्परौ ॥ २१ ॥

आप्यायितोऽस्मि सुतरां युवयोर्विनयोक्तिभिः
साक्षाद्ब्रह्मा शिवो विष्णुरतिथिः प्रोच्यते बुधैः ॥ २२ ॥

तस्मिन्नेतावतीभक्तिर्युवयोरस्तु मङ्गलम्
आराधितोऽस्म्यहंसम्यगतिथिर्भूरिभोजनैः ॥ २३ ॥

तत उत्थाय तौ विप्रौ तत्पादकमलद्वये
भूयोऽपि तं नमस्कृत्य प्राहतुर्लोमशं मुनिम् ॥ २४ ॥

ब्राह्मणावूचतुः
ब्रह्मन्नतिथिपूजाया माहात्म्यं वक्तुमर्हसि
यां कृत्वा प्राप्यते मुक्तिर्दुःखलभ्यापि मानवैः ॥ २५ ॥

कोऽतिथिः प्रोच्यते लोके तस्य पूजा च कीदृशी
आतिथेयोऽतिथिश्चेमौ लभेते कामुभौ गतिम् ॥ २६ ॥

लोमश उवाच-
वानप्रस्थो ब्रह्मचारी भिक्षुश्चैषां प्रपूजनात्
निरुच्यते गृहं श्रेष्ठमाश्रमेषु चतुर्ष्वपि ॥ २७ ॥

चतुराश्रममध्येषु प्रधाना गृहिणो मताः
तैश्चातिथीनां कर्तव्या पूजा भक्तिसमन्वितैः ॥ २८ ॥

गृहिणां परमो धर्मः प्रोक्तश्चातिथिपूजनम्
आश्रमाचारतोऽभ्रष्टास्ततस्ते गृहिणो मताः ॥ २९ ॥

वंहत्यतिथिपूजायां दक्षतां गृहिणो यदि
तदा प्रयोजनं तेषां किमन्यैः पुण्यकर्मभिः ॥ ३० ॥

यस्य न श्रूयते नाम न च गोत्रं न च स्थितिः
अकस्माद्गृहमागच्छेत्सोऽतिथिः प्रोच्यते बुधैः ॥ ३१ ॥

ब्राह्मणाः क्षत्रिया वापि वैश्या वा वृषलास्तथा
गृहागताः पूजिताश्च विष्णुवत्तत्त्वदर्शिभिः ॥ ३२ ॥

चाण्डालप्रमुखा येऽन्ये हीनवर्णसमुद्भवाः
विष्णुवत्पूजितव्यास्ते पाद्यार्घ्यैर्भूरिभोजनैः ॥ ३३ ॥

समागतेष्वतिथिषु प्रयाणं कुरुते गृही
अपि स त्वरया दद्यात्पाद्यार्घ्यादीनि च द्विजः ॥ ३४ ॥

कुर्याच्च कुशलं प्रश्नं वचनैः कोमलाक्षरैः
कारयेद्भोजनं वापि दिव्यरत्नैर्मुदा गृही ॥ ३५ ॥

सुखदे मन्दिरे तस्य शयनं कारयेद्बुधः
प्रातर्जिगमिषुं दृष्ट्वा तमायान्तं विवर्जयेत् ॥ ३६ ॥

यदि कर्मविपाकेन गृही भवति वित्तवान्
अतिथ्येनातिथिः पूज्यस्तदहं वच्मि सत्तमौ ॥ ३७ ॥

समागतेष्वतिथिषु भक्त्या दद्यात्तृणादिकम्
तृणाभावेन वै ब्रूयाद्भूमौ तिष्ठेति भक्तितः ॥ ३८ ॥

पादप्रक्षालनार्थं तुदद्यादुदकमुत्तमम्
अतो मधुरया वाचा पृच्छेच्च कुशलादिकम् ॥ ३९ ॥

फलादिकं ततो दद्याद्भक्त्या भोजनहेतवे
तदभावेन मतिमान्मुदा विप्र प्रकाशयेत् ॥ ४० ॥

वदेच्चाहं महापापी दरिद्र प्रवरोऽतिथे
कर्त्तुमिच्छामि भक्तिं ते दैवतन्त्रंविरोधकम् ॥ ४१ ॥

अनेन विधिना दीनः सत्यक्त्वातिथिपूजनम्
स्वाचारपतितो नान्यो यथोक्तं फलमाप्नुयात् ॥ ४२ ॥

अनर्चितोऽतिथिर्यस्य गच्छेद्वै गृहिणो गृहात्
जन्मकोट्यर्जितं पुण्यं तस्य गच्छति सङ्क्षयम् ॥ ४३ ॥

एक एवातिथिर्येन भक्तिभावेन पूज्यते
हरेत्तस्य हरिः सद्यो पातकं कोटिजन्मजम् ॥ ४४ ॥

सत्यं वच्मि हितं वच्मि दृढं वच्मि प्रयत्नतः
विनातिथिसपर्याभिर्गृहिणो नास्ति वा गतिः ॥ ४५ ॥

सत्यं सत्यं पुनः सत्यमागन्तुपूजया विना
गतिर्नास्त्येव नास्त्येव नास्त्येव गृहिधर्मिणाम् ॥ ४६ ॥

ज्ञातिधर्म इति ख्यातो वल्लभो द्वापरे युगे
बभूव सर्वधर्मज्ञस्तस्य श्रीवल्लभाह्वया ॥ ४७ ॥

तेन सर्वाणि कर्माणि कृतानि ज्ञातिसेविना
सौराष्ट्रे वसतिं चक्रे तया सह सभार्यया ॥ ४८ ॥

तत्र दुर्ग्रहसञ्चाराद्द्वादशाब्दं च वासवः
न ववर्षाम्बु तेनासीद्दुर्भिक्षं सुमहद्द्विजौ ॥ ४९ ॥

तस्मिन्महति दुर्भिक्षे लोकास्तद्देशवासिनः
बभूवुर्दुःखिताः सर्वे मर्यादामपि तत्यजुः ५० 7.25.50
ज्ञानभद्रो महायोगी युगे द्वापर सञ्ज्ञके
दुर्भिक्षहृतसम्पत्तिर्बभूवात्यन्तदुःखितः ॥ ५१ ॥

क्षुधाकुलान्सुतान्दृष्ट्वा दारांश्च द्विजसम्मतौ
फलमूलादनार्थाय जगामोत्पत्यकां गिरेः ॥ ५२ ॥

गिरेरुपत्यकाप्रान्ते चिरायुः स बुभुक्षितः
कूष्माण्डफलमेकं च लेभे ब्राह्मणसत्तमौ ॥ ५३ ॥

समादाय फलं तच्च हर्षितोऽसौ निजालयम्
जवैर्जगाम विप्रेन्द्रो ज्ञानभद्रो महायशाः ॥ ५४ ॥

एतस्मिन्नन्तरे विप्र मेघैर्न्नीलपदैरिव
आवृते गगने वृष्टिर्महासारैर्बभूव ह ॥ ५५ ॥

स मुनिश्च तया वृष्ट्या प्लाविताखिलविग्रह
वनाद्वनचरः कश्चिच्छीतार्तश्चाययौ गृहम् ॥ ५६ ॥

दृष्ट्वातिथिं तु शीतार्तं ववन्दे शिरसा ततः
ददौ तृणासनं भक्त्या तस्मै पाद्यादिकं ततः ॥ ५७ ॥

ततो मधुरया वाचा तेनैवातिथिना सह
तस्थौ स्वस्थेन मनसा प्रज्ञालापं प्रकुर्वता ॥ ५८ ॥

गृहिण्या सह गोपेन स्वामिसेवा सुदक्षया
ततः कूष्माण्डकं नव्यं पक्वमत्यन्त यत्नतः ॥ ५९ ॥

सम्प्राप्य हर्षिता साध्वी ददौ भागं विधाय सा
अथासौ दुर्बलो गोपो दिनविंशमुपोषणात् ॥ ६० ॥

आतिथेयो महाभागं ददौ चातिथये मुदा
ततस्तद्गृहिणी साध्वी स्वामिभक्तिपरायणा ॥ ६१ ॥

ददौ सा पतितं भागं तस्मै चातिथये मुदा
अथातिथेस्तयोस्तत्र दम्पत्योः सुमहात्मनोः ॥ ६२ ॥

अभूद्भागद्वयं भुक्त्वा सुप्रीतो द्विजसत्तम
विष्णुवत्पूजितस्ताभ्यां सोऽतिथिर्दृढभक्तितः ॥ ६३ ॥

विश्रामं रात्रौ तत्रैव प्रातः स्नात्वा चिरं ययौ
गतैवमुपवासेन दिनानामेकविंशतिः ॥ ६४ ॥

दम्पती तौ महात्मानौ पञ्चतां ययतुस्ततः
तेन पुण्यप्रभावेण दम्पती तौ महाशयौ ॥ ६५ ॥

प्रापतुर्विष्णुसायुज्यं दुर्ल्लभं योगिनामपि
तयोः पुण्यप्रभावेण विहितातिथिपूजया ॥ ६६ ॥

तस्मिन्राज्ये तु दुर्भिक्षं विनष्टमभवत्ततः
अत्यन्तसुखिनोलोकाः शोकव्याधिविवर्जिताः ॥ ६७ ॥

धनधान्यादिसम्पन्ना बभूवुर्धर्मतत्पराः
विनष्टा दस्यवस्तत्र नृपोऽभूल्लोकपालकः ॥ ६८ ॥

निजाचाररतालोका जलदाः कामवर्षिणः
पूर्वजाः कोटिपुरुषास्तथैवापरजास्तयोः ॥ ६९ ॥

तेनैव कर्मणा मुक्तिं जग्मुः पापविवर्जिताः
निर्दोषा धनसम्पन्नाः सर्वलोकैकपूजिताः ॥ ७० ॥

शोकव्याधिविहीना च ववृधे सन्ततिस्तयोः
लोमश उवाच-
आगन्तुपूजामाहात्म्यं सेतिहासं मयोदितम् ॥ ७१ ॥

युवयोः प्रीतयोर्विप्रौ किमन्यच्छ्रोतुमिच्छथ
व्यास उवाच-
इति ब्रुवति वै तस्मिल्ँलोमशे तपसां धने ॥ ७२ ॥

कालग्रस्तः कृष्णआखुस्तत्रोत्तस्थौ बिलान्निजात्
तमुत्थितं बिलात्कृष्णमूषकं क्रोधविह्वलः ॥ ७३ ॥

पवित्रस्तत्र चोत्तस्थौ वदन्निति मुहुर्मुहुः
अयं पापाशयो दुष्टो मूषको निशि चाश्रमम् ॥ ७४ ॥

खनते तीक्ष्णदन्तौघैर्गृहद्रव्यं च कृन्तति
सर्वेषामेव वर्णानां कृपा श्रेष्ठा प्रकीर्तिता ॥ ७५ ॥

सा च सर्वेषु कर्तव्या न च दुष्टेषु जन्तुषु
इत्युक्त्वासौ मूषिकं तं द्विजश्रेष्ठ कृतैनसम् ॥ ७६ ॥

नाराचेनातितीक्ष्णेन प्राप्तकालं जघान ह
स्रवच्छोणितधाराभिः प्लाविताङ्गः स मूषकः ॥ ७७ ॥

पपात भूमौ विप्रर्षे व्यथया हतचेतनः
आखौ निपतिते तस्मिन्दयालुर्द्विजसत्तमः ॥ ७८ ॥

हाहाकारं ततः कृत्वा समुत्तस्थौ जवेन सः
निजकर्णात्समानीय तुलसीपत्रमुत्तमम् ॥ ७९ ॥

तस्याखोर्वदने शीर्षे कर्णयोश्च प्रदत्तवान्
मातस्तु तुलसीदेवि गोगिन्दह्लादकारिणि ॥ ८० ॥

अस्याखोः कृतपापस्य कुरु त्वं गतिमुत्तमाम्
इत्युक्त्वा सद्विजश्रेष्ठ सर्वलोकोपकारकः ॥ ८१ ॥

हरेनारायणानन्त इत्युच्चैरकरोद्ध्वनिम्
तुलसीपत्रसंस्पर्शान्मूषको वीतकल्मषः ॥ ८२ ॥

श्रवणाद्धरिनाम्नश्च मुक्तोऽभूद्भवबन्धनात्
ततो दूता महाविष्णोः सर्वलक्षणसंयुताः ॥ ८३ ॥

आजग्मुः सुरथैः शीघ्रं नेतुं तं गतकल्मषम्
समारुह्य रथं दिव्यं विष्णुदूतगणैर्वृताः ॥ ८४ ॥

जगाम परमं स्थानं मूषको द्विजसत्तम
युगकोटिसहस्राणि स्थित्वा नारायणाश्रमे ॥ ८५ ॥

ज्ञानमासाद्य तत्रैव मोक्षमाखुर्जगाम सः
व्यास उवाच-
माहात्म्यं तुलसीदेव्याः कथितं ते द्विजोत्तम ॥ ८६ ॥

इदानीं ब्रूहि किं श्रोतुं महाभागत्वमिच्छसि ॥ ८७ ॥

इति श्रीपद्मपुराणे क्रियायोगसारे पञ्चविंशोऽध्यायः २५