०२४

सूत उवाच-

विश्वास-प्रस्तुतिः

एकादश्याः फलं श्रुत्वा सुप्रीतो जैमिनिस्ततः
कृताञ्जलिरुवाचेदं कृष्णद्वैपायनं प्रभुम् ॥ १ ॥

मूलम्

जैमिनिरुवाच-
विष्णोर्देवस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया
तुलस्या ब्रूहि माहात्म्यं शृण्वतां पापनाशनम् ॥ २ ॥

व्यास उवाच-
इन्द्राद्यैर्दैवतैः सर्वैस्तुलसी भगवत्यसौ
संसेव्या सर्वदा विप्र चतुर्वर्गफलप्रदा ॥ ३ ॥

स्वर्गे मर्त्ये च पाताले तुलसी दुर्ल्लभा सताम्
चतुर्वर्गफलप्राप्तिस्तस्यां भक्तिः करोति वै ॥ ४ ॥

यत्रैकस्तुलसीवृक्षस्तिष्ठत्यपि च सत्तम
तत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः ॥ ५ ॥

केशवः पत्रमध्ये च पत्राग्रे च प्रजापतिः
पत्रवृन्ते शिवस्तिष्ठेत्तुलस्याः सर्वदैव हि ॥ ६ ॥

लक्ष्मी सरस्वती चैव गायत्री चण्डिका तथा
सर्वाश्चान्या देवपत्न्यस्तत्पत्रेषु वंसति च ॥ ७ ॥

इन्द्रो ऽग्नि शमनश्चैव नैरृतिर्वरुणस्तथा
पवनश्च कुबरेश्च तच्छाखायां वसन्त्यमी ॥ ८ ॥

आदित्यादि ग्रहाः सर्वे विश्वेदेवाश्च सर्वदा
वसवो मुनयश्चैव तथा देवर्षयोऽखिलाः ॥ ९ ॥

कोटिब्रह्माण्डमध्येषु यानि तीर्थानि भूतले
तुलसीदलमाश्रित्य तान्येव निवसन्ति वै ॥ १० ॥

तुलसीं सेवते यस्तु भक्तिभावसमन्वितः
सेवितास्तेन तीर्थाश्च देवा ब्रह्मादयस्तथा ॥ ११ ॥

छिन्दन्ति तृणजालानि तुलसीमूलजानि ये
तद्देहस्थां ब्रह्महत्यां क्षिणत्ति तत्क्षणाद्धरिः ॥ १२ ॥

ग्रीष्मकाले द्विजश्रेष्ठ सुगन्धैः शीतलैर्जलैः
तुलसीसेचनं कृत्वा नरो निर्वाणमाप्नुयात् ॥ १३ ॥

चन्द्रातपं वा छत्रं वा तस्यै यस्तु प्रयच्छति
विशेषतो निदाघेषु स मुक्तः सर्वपातकैः ॥ १४ ॥

वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः
सिञ्चयेत्सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः ॥ १५ ॥

प्रसृतोदकमात्रेण तुलसीं यस्य सेचयेत्
सोऽपि स्वर्गमवाप्नोति सर्वपापविवर्जितः ॥ १६ ॥

कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः
तस्य वेश्मनि विप्रर्षे लक्ष्मीर्भवति निश्चला ॥ १७ ॥

गोमयैस्तुलसीमूलं यः कुर्यादुपलेपनम्
सम्मार्जनं च विप्रर्षे तस्य पुण्यफलं शृणु ॥ १८ ॥

रजांसि तत्र यावन्ति दूरीभूतानि जैमिने
तावत्कल्पसहस्राणि मोदते विष्णुना सह ॥ १९ ॥

प्रदीपं यस्तु सन्ध्यायां स्थापयेत्तुलसीतले
स याति मन्दिरं विष्णोः कुलकोटिसमन्वितः ॥ २० ॥

गोभ्यः श्वभ्यः खरेभ्यश्च मनुष्येभ्यश्च रक्षति
शिशुभ्यस्तुलसीं यस्तु तं रक्षेत्केशवः सदा ॥ २१ ॥

तुलस्यारोपणं यस्तु भक्तितः कुरुते नरः
स मृतः परमं मोक्षं प्राप्नोत्येव न संशयः ॥ २२ ॥

प्रभाते तुलसीं पश्येद्भक्तिमान्यो नरोत्तमः
स विष्णुदर्शनस्यैव फलं प्राप्नोति चाक्षयम् ॥ २३ ॥

तुलसीं प्रणमेद्यस्तु नरो भक्तिसमन्वितः
आयुर्बलं यशोवित्तं सन्ततिस्तस्य वर्द्धते ॥ २४ ॥

तुलसीस्मरणेनैव सर्वपापं विनश्यति
तुलसीस्पर्शनेनैव नश्यन्ति व्याधयो नृणाम् ॥ २५ ॥

योऽश्नाति तुलसीपत्रं सर्वपापहरं शुभम्
तच्छरीरान्तरस्थायि पापं नश्यति तत्क्षणात् ॥ २६ ॥

तुलसीकाष्ठसम्भूतां मालां वहति यो नरः
तद्देहे पातकं नास्ति सत्यमेतन्मयोच्यते ॥ २७ ॥

तुलसीपत्रगलितं यस्तोयं शिरसा वहेत्
गङ्गायाः स्नानजं पुण्यं लभते नात्र संशयः ॥ २८ ॥

दूर्वाभिरक्षतैः पुष्पैर्नैवेद्यैस्तुलसीं शुभाम्
समाराध्य नरो भक्त्या विष्णुपूजा फलं लभेत् ॥ २९ ॥

येनार्चिता भगवती तुलसी कदाचिन्नैवेद्य पुष्पवरधूपघृतप्रदीपैः
धर्मार्थकामपरमामृतदायि विप्राः किं तस्य विष्णुचरणापचितिप्रयोगैः ॥ ३० ॥

स्थानेषु दोषरहितेषु सुरौघसेव्यामारोपयन्ति तुलसीं हरितुष्टिकर्त्रीम्
तुष्टो हरिस्त्रिजगतामधिपोऽमुरारिस्तेभ्यो ददाति परमं पदमाशु विप्र ॥ ३१ ॥

यज्ञं व्रतं च पितृपूजनमच्युतार्च्चां दानं यदन्यदपि कर्मशुभं मनुष्याः
कुर्वन्ति दोषरहिते तुलसीतले च तान्यक्षयाणि सकलानि भवन्ति नूनम् ॥ ३२ ॥

यद्धर्मकर्मकुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना च
तत्सर्वमेव विफलं भवति द्विजेन्द्र पद्मेक्षणोऽपि न हि तुष्यति देवदेवः ॥ ३३ ॥

यात्रासु पश्यति शुभां तुलसीं पवित्रां यो भक्तिभावसहितो मनुजो हि नूनम्
यात्राफलं सकलमेव हरिप्रसादात्तस्याशु सिद्ध्यति वचः सुदृढं ममैतत् ॥ ३४ ॥

त्यक्त्वा सुगन्धिकुसुमं भुवनैकनाथो मन्दारकुन्दनलिनादिकमप्यनन्तः
गृह्णाति सद्गुणमयीं तुलसीं प्रमोदैः शुष्कामपि प्रचुरपापविनाशरक्षाम् ॥ ३५ ॥

उत्पाट्य चैव तुलसीं भुवि निक्षिपन्ति पापाशयाऽमृतलताभ निदानभूताम्
अज्ञानतो नरहरिस्तुलसीप्रियोऽसौ तेषां श्रियं हरति सन्ततमेव सत्यम् ॥ ३६ ॥

मूत्रं पुरीषं तुलसीतलेषु कुर्वन्ति येऽपि च मलं सततं मनुष्याः
देवाश्रये सञ्चित पातकानां तेषां हरत्याशु हरिर्धनानि ॥ ३७ ॥

नारायणस्यपूजार्थं चिनोमि त्वां नमोस्तुते
कुसुमैः पारिजाताद्यैर्गन्धाद्यैरपि केशवः ॥ ३८ ॥

त्वया विना नैति तृप्तिं चिनोमि त्वामतः शुभे
त्वया विना महाभागे समस्तं कर्म निष्फलम् ॥ ३९ ॥

अतस्तु तुलसी देवि चिनोमि वरदा भव
चयनोद्भव दुःखं ते यद्देवि हृदि जायते ॥ ४० ॥

तत्क्षमस्व जगन्नाथे तुलसि त्वां नमाम्यहम्
कृताञ्जलिरिमान्मन्त्रान्पठित्वा वैष्णवो जनः ॥ ४१ ॥

करतालद्वयं दत्वा चिनोति तुलसीदलम्
यथा न कम्पते शाखा तुलस्या द्विजसत्तम ॥ ४२ ॥

पत्रस्य चयने देवी भग्नशाखा यदा भवेत्
तदा हृदि व्यथा विष्णोर्ज्जायते तुलसीपतेः ॥ ४३ ॥

शाखाग्रात्पतितं भूमौ पत्रं पत्रं पुरातनम्
तेनापि पूज्यो गोविन्दो मधुकैटभमर्द्दनः ॥ ४४ ॥

कोमलैस्तुलसीपत्रैर्योऽर्चयेदच्युतं प्रभुम्
सर्वं स लभते शीघ्रं यद्यदिच्छति चेतसा ॥ ४५ ॥

तुलसीवृक्षसदृशः कोवृक्षोऽस्ति द्विजर्षभ
तमहं ज्ञातुमिच्छामि ब्रूहि सत्यवतीसुत ॥ ४६ ॥

यथा प्रियतमा विष्णोस्तुलसी सततं द्विज
तथा प्रियतमा धात्री सर्वपापप्रणाशिनी ॥ ४७ ॥

तुलसीवृक्षमासाद्य या यास्तिष्ठन्ति देवताः
आमलक्यास्तले तास्ता निवसन्ति द्विजोत्तम ॥ ४८ ॥

गङ्गादीनि च तीर्थानि तत्रैव द्विजसत्तम
विष्णुप्रियतमा धात्री पवित्रा यत्र तिष्ठति ॥ ४९ ॥

अशुभं वाशुभं वापि यत्कर्मामलकीतले
क्रियते मानवैर्विम्प्र भवेत्तत्सत्यमक्षयम् ५० 7.24.50
पवित्रैर्नूतनेः पत्रैर्धात्र्या यः पूजयेद्धरिम्
स मुक्तः पापजालेन सायुज्यं लभते हरेः ॥ ५१ ॥

धात्री च तुलसीदेवी न तिष्ठेद्यत्र जैमिने
स्थानं तदपवित्रं स्यान्न च क्रियाफलं लभेत् ॥ ५२ ॥

न तिष्ठत्याश्रमे यस्य धात्री च तुलसी शुभा
तेन कर्म कृतं सर्वं नूनं गच्छति निष्फलम् ॥ ५३ ॥

धात्र्या तुलस्या हीनं च निलयं यस्य भूसुर
अलक्ष्मीः पातकं सर्वं कलिश्च तेन तोषितः ॥ ५४ ॥

स्थाने तस्मिन्द्विजश्रेष्ठ न धात्री तुलसी न च
श्मशानतुल्यं स्थानं तद्विज्ञेयं तत्वदर्शिभिः ॥ ५५ ॥

धात्री च तुलसी यत्र तिष्ठेत्तत्राखिलाः सुराः
न धात्री तुलसी पत्रं तत्रैवाखिलपातकम् ॥ ५६ ॥

धात्रीफलस्रजं यस्तु पापहर्त्रीं वहेद्बुधः
तस्याश्रित्य तनुं विष्णुः सदा तिष्ठेच्छ्रिया सह ॥ ५७ ॥

धात्रीकाष्ठस्य मालां च यो वहेन्मतिमान्नरः
तस्य देहं समाश्रित्य तिष्ठन्ति सर्वदेवताः ॥ ५८ ॥

धात्रीफलस्रजं गृह्णन्यत्कर्म कुरुते नरः
तत्सर्वमक्षयं प्रोक्तं शुभं वा यदि वाशुभम् ॥ ५९ ॥

यस्तु धात्रीफलं भुङ्क्ते मानवोऽखिलतत्ववित्
तद्देहाभ्यन्तरस्थायि सर्वं पापं विनश्यति ॥ ६० ॥

धात्रीफलमयीं मालां यो वहेद्दिवजसत्तम
ब्रवीमि शृणु माहात्म्यं सर्वपापहरं परम् ॥ ६१ ॥

श्मशानेऽपि यदा मृत्युस्तस्य स्याद्दैवयोगतः
गङ्गामरणजं पुण्यं सम्प्राप्नोति न संशयः ॥ ६२ ॥

तं दृष्ट्वा पापिनः सर्वे पापजालैः सुदारुणैः
सद्य एव प्रमुच्यन्ते जन्मकोटिशतैरपि ॥ ६३ ॥

नित्यं गृह्णाति विप्रेन्द्र यो धात्रीफलकर्द्दमम्
दिने दिने लभेत्पुण्यं सम्प्राप्नोति न संशयः ॥ ६४ ॥

धात्रीतरुं च यो हन्ति सर्वदेवगणाश्रयम्
स ददाति हरेरङ्गे घातं नास्त्यत्र संशयः ॥ ६५ ॥

सर्वदेवमयी धात्री विशेषात्केशवप्रिया
सम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते ॥ ६६ ॥

धात्र्यास्तुलस्या विदधाति भक्तिं यो मानवो ज्ञातसमस्ततत्वः
भुक्त्वा च भोगान्सकलां स्ततोंऽते स मुक्तिमाप्नोति हरेः प्रसादात् ॥ ६७ ॥

इति श्रीपद्मपुराणे क्रियायोगसारे तुलसीमाहात्म्यं नाम चतुर्विंशोऽध्यायः २४