०२३

व्यास उवाच-

विश्वास-प्रस्तुतिः

पूर्वं कोचरशोनाम राजाऽभूत्क्षितिमण्डले
शान्तः परमधर्मज्ञो राजनीतिविदांवरः ॥ १ ॥

मूलम्

पूर्वं कोचरशोनाम राजाऽभूत्क्षितिमण्डले
शान्तः परमधर्मज्ञो राजनीतिविदांवरः ॥ १ ॥

विश्वास-प्रस्तुतिः

सत्यवादी जितक्रोधो जितवैरि समुच्चयः
नारायणार्चनपरो हरिसेवा रतः परः ॥ २ ॥

मूलम्

सत्यवादी जितक्रोधो जितवैरि समुच्चयः
नारायणार्चनपरो हरिसेवा रतः परः ॥ २ ॥

विश्वास-प्रस्तुतिः

सुप्रज्ञा नाम महिषी तस्यासीत्प्रियवादिनी
सर्वलक्षणसम्पन्ना पतिसेवापरायणा ॥ ३ ॥

मूलम्

सुप्रज्ञा नाम महिषी तस्यासीत्प्रियवादिनी
सर्वलक्षणसम्पन्ना पतिसेवापरायणा ॥ ३ ॥

विश्वास-प्रस्तुतिः

एकादशीव्रतरता सर्वप्राणिहितैषिणी
जातिस्मरा महाभागा सुशीला वरवर्णिनी ॥ ४ ॥

मूलम्

एकादशीव्रतरता सर्वप्राणिहितैषिणी
जातिस्मरा महाभागा सुशीला वरवर्णिनी ॥ ४ ॥

विश्वास-प्रस्तुतिः

स राजा दशमीं कृत्वा सदारः परमार्थवित्
एकादशीं निशीथिन्यां जागरं कर्तुमुद्यतः ॥ ५ ॥

मूलम्

स राजा दशमीं कृत्वा सदारः परमार्थवित्
एकादशीं निशीथिन्यां जागरं कर्तुमुद्यतः ॥ ५ ॥

विश्वास-प्रस्तुतिः

तत्रान्तरे द्विजः कश्चिच्छौरिर्नाम महीपतेः
आजगाम महातेजास्तस्य जागरमण्डपम् ॥ ६ ॥

मूलम्

तत्रान्तरे द्विजः कश्चिच्छौरिर्नाम महीपतेः
आजगाम महातेजास्तस्य जागरमण्डपम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तमायान्तं स भूपालो नारायणपरायणः
पाद्याद्यैः पूजयामास सदारोऽत्यन्तहर्षितः ॥ ७ ॥

मूलम्

तमायान्तं स भूपालो नारायणपरायणः
पाद्याद्यैः पूजयामास सदारोऽत्यन्तहर्षितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

तेषां मध्ये सूपविष्ठः स विप्रोऽखिलतत्ववित्
विष्णुपूजापरांस्तत्र ददर्श व्रतिनो बहून् ॥ ८ ॥

मूलम्

तेषां मध्ये सूपविष्ठः स विप्रोऽखिलतत्ववित्
विष्णुपूजापरांस्तत्र ददर्श व्रतिनो बहून् ॥ ८ ॥

विश्वास-प्रस्तुतिः

पूजयन्ति हरिं केचिन्नानापुष्पैर्मनोरमैः
गन्धैर्धूपैस्तथादीपैरुपहारैरनुत्तमैः ॥ ९ ॥

मूलम्

पूजयन्ति हरिं केचिन्नानापुष्पैर्मनोरमैः
गन्धैर्धूपैस्तथादीपैरुपहारैरनुत्तमैः ॥ ९ ॥

विश्वास-प्रस्तुतिः

गङ्गामृद्भूषिताकेचित्तुलसीपत्रमालया
अलङ्कृता हरेरग्रे नृत्यन्ति व्रतिनो मुदा ॥ १० ॥

मूलम्

गङ्गामृद्भूषिताकेचित्तुलसीपत्रमालया
अलङ्कृता हरेरग्रे नृत्यन्ति व्रतिनो मुदा ॥ १० ॥

विश्वास-प्रस्तुतिः

केचिद्गायन्ति गीतानि ललितानि हरेः पुनः
करतालं समादाय व्रतिनो भगवत्प्रियाः ॥ ११ ॥

मूलम्

केचिद्गायन्ति गीतानि ललितानि हरेः पुनः
करतालं समादाय व्रतिनो भगवत्प्रियाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

स्तवैरनुत्तमैः केचिन्नारायणमनामयम्
स्तुवन्ति जगतामीशं दिव्यार्थैः कोमलाक्षरैः ॥ १२ ॥

मूलम्

स्तवैरनुत्तमैः केचिन्नारायणमनामयम्
स्तुवन्ति जगतामीशं दिव्यार्थैः कोमलाक्षरैः ॥ १२ ॥

विश्वास-प्रस्तुतिः

श्वेतचामरवातेन शीतलेन जगत्पतेः
वीजयन्ति हरेः प्रीतिं केचिच्च महतीं तथा ॥ १३ ॥

मूलम्

श्वेतचामरवातेन शीतलेन जगत्पतेः
वीजयन्ति हरेः प्रीतिं केचिच्च महतीं तथा ॥ १३ ॥

विश्वास-प्रस्तुतिः

केचिद्वीणादिकं वाद्यं ललितं शुचिमङ्गलम्
वादयन्तो महात्मानः केचिद्गायन्ति केशवम् ॥ १४ ॥

मूलम्

केचिद्वीणादिकं वाद्यं ललितं शुचिमङ्गलम्
वादयन्तो महात्मानः केचिद्गायन्ति केशवम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

स राजा राजमहिषी द्वावप्यत्यन्तहर्षितौ
गायतां ललितं गीतं नृत्यतां नृत्यमुत्तमम् ॥ १५ ॥

मूलम्

स राजा राजमहिषी द्वावप्यत्यन्तहर्षितौ
गायतां ललितं गीतं नृत्यतां नृत्यमुत्तमम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

तौ दम्पती महात्मानौ नृत्यगीतादिकारिणौ
वाचा मधुरया प्राह स शौरिर्ब्राह्मणोत्तमः ॥ १६ ॥

मूलम्

तौ दम्पती महात्मानौ नृत्यगीतादिकारिणौ
वाचा मधुरया प्राह स शौरिर्ब्राह्मणोत्तमः ॥ १६ ॥

विश्वास-प्रस्तुतिः

शौरिरुवाच-
धन्योऽसि त्वं महीपाल धन्या च महिषी तव
चरित्रं युवयोरेतन्मङ्गलं भुविदुर्ल्लभम् ॥ १७ ॥

मूलम्

शौरिरुवाच-
धन्योऽसि त्वं महीपाल धन्या च महिषी तव
चरित्रं युवयोरेतन्मङ्गलं भुविदुर्ल्लभम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

त्वां वक्ष्यामि यतः कश्चिन्न दृष्टो वैष्णवोत्तमः
त्वया भूमिभुजा पृथ्वी धन्येयं नात्र संशयः ॥ १८ ॥

मूलम्

त्वां वक्ष्यामि यतः कश्चिन्न दृष्टो वैष्णवोत्तमः
त्वया भूमिभुजा पृथ्वी धन्येयं नात्र संशयः ॥ १८ ॥

विश्वास-प्रस्तुतिः

एकादशीव्रतमिदं पवित्रं भगवत्प्रियम्
सदारः कुरुषे भूप तस्मात्त्वं वैष्णवाग्रणीः ॥ १९ ॥

मूलम्

एकादशीव्रतमिदं पवित्रं भगवत्प्रियम्
सदारः कुरुषे भूप तस्मात्त्वं वैष्णवाग्रणीः ॥ १९ ॥

विश्वास-प्रस्तुतिः

सप्तद्वीपैकनाथश्च सदारस्त्वं नृपोत्तम
नारायणाग्रतः प्रीत्या यतो नृत्यसि गायसि ॥ २० ॥

मूलम्

सप्तद्वीपैकनाथश्च सदारस्त्वं नृपोत्तम
नारायणाग्रतः प्रीत्या यतो नृत्यसि गायसि ॥ २० ॥

विश्वास-प्रस्तुतिः

चरित्रं युवयोरेतद्दम्पत्योर्दृष्टमद्भुतम्
कस्माद्बुद्धिरियं जाता युवयोरतिनिर्मला ॥ २१ ॥

मूलम्

चरित्रं युवयोरेतद्दम्पत्योर्दृष्टमद्भुतम्
कस्माद्बुद्धिरियं जाता युवयोरतिनिर्मला ॥ २१ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
तस्येदं वाक्यमाकर्ण्य शौरिनाम्नो द्विजन्मनः
ईषद्धास्यमुखीप्राह सुप्राज्ञा तमथो द्विजम् ॥ २२ ॥

मूलम्

व्यास उवाच-
तस्येदं वाक्यमाकर्ण्य शौरिनाम्नो द्विजन्मनः
ईषद्धास्यमुखीप्राह सुप्राज्ञा तमथो द्विजम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

सुप्राज्ञोवाच-
एकादशीप्रभावेन पूर्वमावां द्विजोत्तम
अतिपातकिनौ मुक्तौ सूर्यजेन महात्मना ॥ २३ ॥

मूलम्

सुप्राज्ञोवाच-
एकादशीप्रभावेन पूर्वमावां द्विजोत्तम
अतिपातकिनौ मुक्तौ सूर्यजेन महात्मना ॥ २३ ॥

विश्वास-प्रस्तुतिः

जातिस्मृतिप्रभावेण दिव्यमेकादशीव्रतम्
कुर्वः सम्प्रति विप्रेन्द्र परमस्थानकाङ्क्षया ॥ २४ ॥

मूलम्

जातिस्मृतिप्रभावेण दिव्यमेकादशीव्रतम्
कुर्वः सम्प्रति विप्रेन्द्र परमस्थानकाङ्क्षया ॥ २४ ॥

विश्वास-प्रस्तुतिः

शौरिरुवाच-
यदि नूनं वरारोहे पूर्वां जातिं त्वमात्मनः
वेत्सि मे ब्रूहि तां श्रोतुं जायते कौतुकं हृदि ॥ २५ ॥

मूलम्

शौरिरुवाच-
यदि नूनं वरारोहे पूर्वां जातिं त्वमात्मनः
वेत्सि मे ब्रूहि तां श्रोतुं जायते कौतुकं हृदि ॥ २५ ॥

विश्वास-प्रस्तुतिः

पूर्वं स्थिता का भवती पतिर्वा कः स्थितस्तव
कथं भास्करिणा त्यक्तौ युवां पातकिनावपि ॥ २६ ॥

मूलम्

पूर्वं स्थिता का भवती पतिर्वा कः स्थितस्तव
कथं भास्करिणा त्यक्तौ युवां पातकिनावपि ॥ २६ ॥

विश्वास-प्रस्तुतिः

सुप्राज्ञोवाच-
अप्रकाश्यमिदं वाक्यं यद्यपि द्विजसत्तम
स्थितास्मि वारमुख्याऽहं रतिशास्त्रविशारदा ॥ २७ ॥

मूलम्

सुप्राज्ञोवाच-
अप्रकाश्यमिदं वाक्यं यद्यपि द्विजसत्तम
स्थितास्मि वारमुख्याऽहं रतिशास्त्रविशारदा ॥ २७ ॥

विश्वास-प्रस्तुतिः

तस्मिञ्जन्मनि पापानि घोराणि सुबहूनि च
मया कृतानि विप्रेन्द्र नरकक्लेशदानि वै ॥ २८ ॥

मूलम्

तस्मिञ्जन्मनि पापानि घोराणि सुबहूनि च
मया कृतानि विप्रेन्द्र नरकक्लेशदानि वै ॥ २८ ॥

विश्वास-प्रस्तुतिः

अयं नित्योदयो नाम शूद्र स्वाःचारवर्जितः
परदारहरः क्रूरः परद्रव्यापहारकः ॥ २९ ॥

मूलम्

अयं नित्योदयो नाम शूद्र स्वाःचारवर्जितः
परदारहरः क्रूरः परद्रव्यापहारकः ॥ २९ ॥

विश्वास-प्रस्तुतिः

सुरापो मित्रहन्ता च भ्रूणहा परहिंसकः
अत्यहङ्कारयुक्तश्च धर्मनिन्दाकरः सदा ॥ ३० ॥

मूलम्

सुरापो मित्रहन्ता च भ्रूणहा परहिंसकः
अत्यहङ्कारयुक्तश्च धर्मनिन्दाकरः सदा ॥ ३० ॥

विश्वास-प्रस्तुतिः

एकदा ज्ञातिभिः सर्वैः परित्यक्तो हि सद्व्रतैः
आजगाम ममागारं वेश्याविभ्रमलोलुपः ॥ ३१ ॥

मूलम्

एकदा ज्ञातिभिः सर्वैः परित्यक्तो हि सद्व्रतैः
आजगाम ममागारं वेश्याविभ्रमलोलुपः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

युवानं सुन्दरं दृष्ट्वा तमेनं द्विजसत्तम
मयापि प्रीतिमासाद्य सन्तुष्टः सुरतैरपि ॥ ३२ ॥

मूलम्

युवानं सुन्दरं दृष्ट्वा तमेनं द्विजसत्तम
मयापि प्रीतिमासाद्य सन्तुष्टः सुरतैरपि ॥ ३२ ॥

विश्वास-प्रस्तुतिः

ततोऽनुभूय सुरतं मया सह तपोधन
अयमाह च मां प्रेम्णा विनयावनतो वचः ॥ ३३ ॥

मूलम्

ततोऽनुभूय सुरतं मया सह तपोधन
अयमाह च मां प्रेम्णा विनयावनतो वचः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अहं सुरतशास्त्रज्ञः परित्यक्तः स्वबन्धुभिः
यदि त्वं मन्यसे तस्मिंस्तिष्ठाम्यत्र त्वया सह ॥ ३४ ॥

मूलम्

अहं सुरतशास्त्रज्ञः परित्यक्तः स्वबन्धुभिः
यदि त्वं मन्यसे तस्मिंस्तिष्ठाम्यत्र त्वया सह ॥ ३४ ॥

विश्वास-प्रस्तुतिः

विनयावनतं वाक्यमिदं शुश्राव तद्दिवज
दम्पतीभावमासाद्य सहानेन स्थितास्म्यहम् ॥ ३५ ॥

मूलम्

विनयावनतं वाक्यमिदं शुश्राव तद्दिवज
दम्पतीभावमासाद्य सहानेन स्थितास्म्यहम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कदाचिद्दिवजशार्दूल एकादश्यां तिथौ हरेः
महद्भिः पीडिताहं च देहदेहावघातकैः ॥ ३६ ॥

मूलम्

कदाचिद्दिवजशार्दूल एकादश्यां तिथौ हरेः
महद्भिः पीडिताहं च देहदेहावघातकैः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तस्मिन्नेव द्विजश्रेष्ठ ज्वरजर्जरदेहया
न पीतमुदकं नान्नं भुक्तं च परया भिया ॥ ३७ ॥

मूलम्

तस्मिन्नेव द्विजश्रेष्ठ ज्वरजर्जरदेहया
न पीतमुदकं नान्नं भुक्तं च परया भिया ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ममस्नेहोदयोऽयं च तस्मिन्नेव दिने हरेः
तत्याजान्नं च तोयं च विषण्ण इव जन्मना ॥ ३८ ॥

मूलम्

ममस्नेहोदयोऽयं च तस्मिन्नेव दिने हरेः
तत्याजान्नं च तोयं च विषण्ण इव जन्मना ॥ ३८ ॥

विश्वास-प्रस्तुतिः

अथ रात्रौ द्विजश्रेष्ठ दीपं प्रज्वाल्य सर्पिषा
मया कृतं जागरणं ज्वरापहतचेतसा ॥ ३९ ॥

मूलम्

अथ रात्रौ द्विजश्रेष्ठ दीपं प्रज्वाल्य सर्पिषा
मया कृतं जागरणं ज्वरापहतचेतसा ॥ ३९ ॥

विश्वास-प्रस्तुतिः

नारायण हरेकृष्ण रक्ष मामिति जल्पता
मुहुर्मुहुरनेनापि कृतं जागरणं निशि ॥ ४० ॥

मूलम्

नारायण हरेकृष्ण रक्ष मामिति जल्पता
मुहुर्मुहुरनेनापि कृतं जागरणं निशि ॥ ४० ॥

विश्वास-प्रस्तुतिः

उपवासप्रभावेण केशवोच्चारणेन च
आवयोः सकलं पापं विनष्टमभवद्दिवज ॥ ४१ ॥

मूलम्

उपवासप्रभावेण केशवोच्चारणेन च
आवयोः सकलं पापं विनष्टमभवद्दिवज ॥ ४१ ॥

विश्वास-प्रस्तुतिः

ततः प्रभाते विमले भगवत्युदिते रवौ
ज्वरार्दिताहं पञ्चत्वं गता ब्राह्मणसत्तम ॥ ४२ ॥

मूलम्

ततः प्रभाते विमले भगवत्युदिते रवौ
ज्वरार्दिताहं पञ्चत्वं गता ब्राह्मणसत्तम ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सम्प्राप्तपञ्चतां दृष्ट्वा मामयं च ततः शुचिः
सहत्या मरणं भेजे निन्दितः सकलैर्जनैः ॥ ४३ ॥

मूलम्

सम्प्राप्तपञ्चतां दृष्ट्वा मामयं च ततः शुचिः
सहत्या मरणं भेजे निन्दितः सकलैर्जनैः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

सूर्य्यजस्य ततः प्रेष्यैर्ज्वलदग्निनिभेक्षणैः
बद्ध्वा दृढेन पाशेन नीतौ दुर्गमवर्त्मना ॥ ४४ ॥

मूलम्

सूर्य्यजस्य ततः प्रेष्यैर्ज्वलदग्निनिभेक्षणैः
बद्ध्वा दृढेन पाशेन नीतौ दुर्गमवर्त्मना ॥ ४४ ॥

विश्वास-प्रस्तुतिः

शुभकर्मा शुभं वापि चित्रगुप्तो यमाज्ञया
सर्वं विचारयामास मूलात्स तु विचक्षणः ॥ ४५ ॥

मूलम्

शुभकर्मा शुभं वापि चित्रगुप्तो यमाज्ञया
सर्वं विचारयामास मूलात्स तु विचक्षणः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

चित्रगुप्त उवाच-
यद्यप्येतौ महाबाहो महापातकिनां वरौ
तथापि पातकैर्मुक्तौ ह्येकादश्यामुपोषणात् ॥ ४६ ॥

मूलम्

चित्रगुप्त उवाच-
यद्यप्येतौ महाबाहो महापातकिनां वरौ
तथापि पातकैर्मुक्तौ ह्येकादश्यामुपोषणात् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

अनिच्छयापि यः कुर्यात्पुण्यमेकादशीव्रतम्
सोऽपि गच्छेत्परंस्थानं सर्वपापविवर्जितः ॥ ४७ ॥

मूलम्

अनिच्छयापि यः कुर्यात्पुण्यमेकादशीव्रतम्
सोऽपि गच्छेत्परंस्थानं सर्वपापविवर्जितः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

इत्युक्तश्चित्रगुप्तेन धर्मराजो महायशाः
आसनात्सहसोत्थाय ववन्दे ताममुञ्च सः ॥ ४८ ॥

मूलम्

इत्युक्तश्चित्रगुप्तेन धर्मराजो महायशाः
आसनात्सहसोत्थाय ववन्दे ताममुञ्च सः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

सुगन्धैश्चन्दनैर्दिव्यैर्धूपैः पुष्पैश्च मृत्युना
सुवर्णाभरणैरेव मण्डितौ पापवर्जितौ ॥ ४९ ॥

मूलम्

सुगन्धैश्चन्दनैर्दिव्यैर्धूपैः पुष्पैश्च मृत्युना
सुवर्णाभरणैरेव मण्डितौ पापवर्जितौ ॥ ४९ ॥

विश्वास-प्रस्तुतिः

फलैर्नानाविधैस्तत्र मधुरैरमृतोपमैः
भास्करिः कारयामास प्रीत्या भोजनमावयोः ५० 7.23.50
अथ स्तुत्वा स्तवैर्दिव्यैः स्वयमावां यमः प्रभुः
समारोप्य रथे दिव्ये प्रोवाचेति कृताञ्जलि ॥ ५१ ॥

मूलम्

फलैर्नानाविधैस्तत्र मधुरैरमृतोपमैः
भास्करिः कारयामास प्रीत्या भोजनमावयोः ५० 7.23.50
अथ स्तुत्वा स्तवैर्दिव्यैः स्वयमावां यमः प्रभुः
समारोप्य रथे दिव्ये प्रोवाचेति कृताञ्जलि ॥ ५१ ॥

विश्वास-प्रस्तुतिः

यम उवाच-
युवां पुण्यवतां श्रेष्ठौ सर्वपापविवर्जितौ
यत्रास्ते भगवान्विष्णुर्गञ्च्छेतां तत्र सम्प्रति ॥ ५२ ॥

मूलम्

यम उवाच-
युवां पुण्यवतां श्रेष्ठौ सर्वपापविवर्जितौ
यत्रास्ते भगवान्विष्णुर्गञ्च्छेतां तत्र सम्प्रति ॥ ५२ ॥

विश्वास-प्रस्तुतिः

इत्युक्तौ धर्मराजेन विनयावनतेन वै
अथैतदुक्तमावाभ्यां नत्वा तत्पादपङ्कजे ॥ ५३ ॥

मूलम्

इत्युक्तौ धर्मराजेन विनयावनतेन वै
अथैतदुक्तमावाभ्यां नत्वा तत्पादपङ्कजे ॥ ५३ ॥

विश्वास-प्रस्तुतिः

गन्तव्यं नान्यथा देव तद्विष्णोः परमं पदम्
किन्त्वस्ति नरकं द्रष्टुं त्वद्गृहस्थं स्पृहावयोः ॥ ५४ ॥

मूलम्

गन्तव्यं नान्यथा देव तद्विष्णोः परमं पदम्
किन्त्वस्ति नरकं द्रष्टुं त्वद्गृहस्थं स्पृहावयोः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

यमाज्ञया ततो विप्र रथमारुह्य शोभनम्
दुष्प्रेक्ष्या निरया दृष्टा आवाभ्यां तत्र विस्तराः ॥ ५५ ॥

मूलम्

यमाज्ञया ततो विप्र रथमारुह्य शोभनम्
दुष्प्रेक्ष्या निरया दृष्टा आवाभ्यां तत्र विस्तराः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ब्राह्मण उवाच-
तत्रावस्था पापवतां या या दृष्टाः पतिव्रते
विस्तरेण समाख्यातुं तास्ताः सर्वास्त्वमर्हसि ॥ ५६ ॥

मूलम्

ब्राह्मण उवाच-
तत्रावस्था पापवतां या या दृष्टाः पतिव्रते
विस्तरेण समाख्यातुं तास्ताः सर्वास्त्वमर्हसि ॥ ५६ ॥

विश्वास-प्रस्तुतिः

पुण्यात्मानः पथा येन व्रजन्ति यममन्दिरम्
पापात्मानश्च सुश्रोणि तन्मे कथय विस्तरात् ॥ ५७ ॥

मूलम्

पुण्यात्मानः पथा येन व्रजन्ति यममन्दिरम्
पापात्मानश्च सुश्रोणि तन्मे कथय विस्तरात् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

पुण्यात्मा कीदृशं पश्येत्तत्र वैवस्वतं प्रभुम्
पुण्यात्मनां पापिनां च पन्थानं सुखदुःखदम् ॥ ५८ ॥

मूलम्

पुण्यात्मा कीदृशं पश्येत्तत्र वैवस्वतं प्रभुम्
पुण्यात्मनां पापिनां च पन्थानं सुखदुःखदम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

सुप्राज्ञोवाच-
आदौ ब्रवीमि पन्थानं नृणां पुण्यवतामहम्
शृणुष्व द्विजशार्दूल शृण्वतां प्रीतिवर्द्धनम् ॥ ५९ ॥

मूलम्

सुप्राज्ञोवाच-
आदौ ब्रवीमि पन्थानं नृणां पुण्यवतामहम्
शृणुष्व द्विजशार्दूल शृण्वतां प्रीतिवर्द्धनम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

प्रस्तरैर्विस्तरैर्बद्धो दिव्यवस्त्रैः समावृतः
भाति पुण्यवतां पन्थाः सर्वोपद्रववर्जितः ॥ ६० ॥

मूलम्

प्रस्तरैर्विस्तरैर्बद्धो दिव्यवस्त्रैः समावृतः
भाति पुण्यवतां पन्थाः सर्वोपद्रववर्जितः ॥ ६० ॥

विश्वास-प्रस्तुतिः

क्वचिद्गन्धर्वकन्याभिर्गीयते गानमद्भुतम्
क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते ॥ ६१ ॥

मूलम्

क्वचिद्गन्धर्वकन्याभिर्गीयते गानमद्भुतम्
क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते ॥ ६१ ॥

विश्वास-प्रस्तुतिः

क्वचिद्वीणाक्वणं नाना वाद्यं चक्रुर्मनोरमम्
क्वचित्कुसुमवृष्टिश्च क्वचिद्वायुश्च शीतलः ॥ ६२ ॥

मूलम्

क्वचिद्वीणाक्वणं नाना वाद्यं चक्रुर्मनोरमम्
क्वचित्कुसुमवृष्टिश्च क्वचिद्वायुश्च शीतलः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

क्वचित्प्रपा शीततोया क्वचिच्च भुक्तिशालिकाः
क्वचिद्देवाश्च गन्धर्वाः पठन्ति स्तवमुत्तमम् ॥ ६३ ॥

मूलम्

क्वचित्प्रपा शीततोया क्वचिच्च भुक्तिशालिकाः
क्वचिद्देवाश्च गन्धर्वाः पठन्ति स्तवमुत्तमम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

क्वचित्क्वचिद्दीर्घिकाश्च फुल्लपद्माः सुशोभनाः
सुच्छायाः पादपाः क्वापि पुष्पिता वञ्जुलादयः ॥ ६४ ॥

मूलम्

क्वचित्क्वचिद्दीर्घिकाश्च फुल्लपद्माः सुशोभनाः
सुच्छायाः पादपाः क्वापि पुष्पिता वञ्जुलादयः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

ततस्तु सुखसम्पन्नाः पथि गच्छन्ति मानवाः
पुण्यात्मानो द्विजश्रेष्ठ सुखमृत्युमवाप्य च ॥ ६५ ॥

मूलम्

ततस्तु सुखसम्पन्नाः पथि गच्छन्ति मानवाः
पुण्यात्मानो द्विजश्रेष्ठ सुखमृत्युमवाप्य च ॥ ६५ ॥

विश्वास-प्रस्तुतिः

केचित्तुरङ्गमारूढा नानालङ्कारभूषिताः
उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृत्य मस्तकम् ॥ ६६ ॥

मूलम्

केचित्तुरङ्गमारूढा नानालङ्कारभूषिताः
उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृत्य मस्तकम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

केचिद्यान्ति गजारूढा रथारूढाश्च केचन
यानारूढा जनाः केचित्सुखेन यममन्दिरम् ॥ ६७ ॥

मूलम्

केचिद्यान्ति गजारूढा रथारूढाश्च केचन
यानारूढा जनाः केचित्सुखेन यममन्दिरम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

केचिद्देवाङ्गना हस्त न्यस्तचामरवायुभिः
गच्छन्ति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः ॥ ६८ ॥

मूलम्

केचिद्देवाङ्गना हस्त न्यस्तचामरवायुभिः
गच्छन्ति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

केचिद्दिव्यायुधधराः स्रक्चन्दनविभूषिताः
भुञ्जन्तो यान्ति ताम्बूलं पुण्यात्मानो यमालयम् ॥ ६९ ॥

मूलम्

केचिद्दिव्यायुधधराः स्रक्चन्दनविभूषिताः
भुञ्जन्तो यान्ति ताम्बूलं पुण्यात्मानो यमालयम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

निजगात्रत्विषा केचिज्ज्वालयन्तो दिशो दश
व्रजन्ति शमनागारं जलग्रहनिवासिनः ॥ ७० ॥

मूलम्

निजगात्रत्विषा केचिज्ज्वालयन्तो दिशो दश
व्रजन्ति शमनागारं जलग्रहनिवासिनः ॥ ७० ॥

विश्वास-प्रस्तुतिः

केचिच्च पायसं दिव्यं भुञ्जतो यान्ति सत्तम
सुभक्षणं प्रकुर्वन्तः पथि यान्तः सुखेन च ॥ ७१ ॥

मूलम्

केचिच्च पायसं दिव्यं भुञ्जतो यान्ति सत्तम
सुभक्षणं प्रकुर्वन्तः पथि यान्तः सुखेन च ॥ ७१ ॥

विश्वास-प्रस्तुतिः

केचिद्दुग्धं पिबन्तश्च केचिदिक्षुरसं तथा
केचित्तक्रं पिबन्तश्च गच्छन्ति यममन्दिरम् ॥ ७२ ॥

मूलम्

केचिद्दुग्धं पिबन्तश्च केचिदिक्षुरसं तथा
केचित्तक्रं पिबन्तश्च गच्छन्ति यममन्दिरम् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

केचिद्दधीनि भक्षन्तः केचिन्नानाफलानि च
केचिन्मधुपिबन्तश्च पुण्यवन्तो व्रजन्ति वै ॥ ७३ ॥

मूलम्

केचिद्दधीनि भक्षन्तः केचिन्नानाफलानि च
केचिन्मधुपिबन्तश्च पुण्यवन्तो व्रजन्ति वै ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तानागतांस्ततो दृष्ट्वा बहून्धर्मपरायणान्
भास्करीं प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥ ७४ ॥

मूलम्

तानागतांस्ततो दृष्ट्वा बहून्धर्मपरायणान्
भास्करीं प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः
शङ्खचक्रगदापद्मधारी गरुडवाहनः ॥ ७५ ॥

मूलम्

चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः
शङ्खचक्रगदापद्मधारी गरुडवाहनः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

स्वर्णयज्ञोपवीती च स्मरचारुमहाननः
किरीटी कुण्डली चैव वनमालाविभूषितः ॥ ७६ ॥

मूलम्

स्वर्णयज्ञोपवीती च स्मरचारुमहाननः
किरीटी कुण्डली चैव वनमालाविभूषितः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

चित्रगुप्तो महाप्राज्ञश्चण्डाद्या यमकिङ्कराः
सर्वे नारायणाकारा बभूवुर्मधुरोक्तयः ॥ ७७ ॥

मूलम्

चित्रगुप्तो महाप्राज्ञश्चण्डाद्या यमकिङ्कराः
सर्वे नारायणाकारा बभूवुर्मधुरोक्तयः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

ततः स्वयं धर्मराजस्तान्सर्वान्मनुजोत्तमान्
परमां प्रीतिमासाद्य मित्रवच्चार्चयेद्द्विज ॥ ७८ ॥

मूलम्

ततः स्वयं धर्मराजस्तान्सर्वान्मनुजोत्तमान्
परमां प्रीतिमासाद्य मित्रवच्चार्चयेद्द्विज ॥ ७८ ॥

विश्वास-प्रस्तुतिः

दिव्यरत्नैः फलैश्चैव तेषां पुण्यवतां नृणाम्
भोजनं कारयित्वा तु तानुवाचाथ भास्करिः ॥ ७९ ॥

मूलम्

दिव्यरत्नैः फलैश्चैव तेषां पुण्यवतां नृणाम्
भोजनं कारयित्वा तु तानुवाचाथ भास्करिः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

यम उवाच-
यूयं सर्वे महात्मानो नरकक्लेशभीरवः
निजकर्मप्रभावेण गम्यतां परमं पदम् ॥ ८० ॥

मूलम्

यम उवाच-
यूयं सर्वे महात्मानो नरकक्लेशभीरवः
निजकर्मप्रभावेण गम्यतां परमं पदम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

संसारे जन्म सम्प्राप्य पुण्यं यः कुरुते नरः
स मे पिता स मे भ्राता स मे बन्धुसमः सुहृत् ॥ ८१ ॥

मूलम्

संसारे जन्म सम्प्राप्य पुण्यं यः कुरुते नरः
स मे पिता स मे भ्राता स मे बन्धुसमः सुहृत् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

इत्युक्ता धर्मराजेन ते सर्वे द्विजसत्तम
दिव्यं रथं समारुह्य नारायणपुरं गताः ॥ ८२ ॥

मूलम्

इत्युक्ता धर्मराजेन ते सर्वे द्विजसत्तम
दिव्यं रथं समारुह्य नारायणपुरं गताः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

पुण्यात्मनां गतिः प्रोक्ता समासेन द्विजोत्तम
पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् ॥ ८३ ॥

मूलम्

पुण्यात्मनां गतिः प्रोक्ता समासेन द्विजोत्तम
पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

षडशीतिसहस्राणि योजनानि दुरात्मनाम्
प्रोक्तो मार्गस्य विस्तारः सर्वदुःखान्वितः स च ॥ ८४ ॥

मूलम्

षडशीतिसहस्राणि योजनानि दुरात्मनाम्
प्रोक्तो मार्गस्य विस्तारः सर्वदुःखान्वितः स च ॥ ८४ ॥

विश्वास-प्रस्तुतिः

कुत्रचिद्वह्निवृष्टिश्च कुत्रचिच्चाश्मवर्षणम्
क्वचित्क्वचिद्द्विजश्रेष्ठ सन्तप्तं तप्तवालुकम् ॥ ८५ ॥

मूलम्

कुत्रचिद्वह्निवृष्टिश्च कुत्रचिच्चाश्मवर्षणम्
क्वचित्क्वचिद्द्विजश्रेष्ठ सन्तप्तं तप्तवालुकम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

क्वचित्क्वचित्तीक्ष्णशिलाः क्वचित्तप्तशिलास्तथा
क्वचित्क्वचिच्छस्त्रवृष्टिः क्वचिदङ्गारवर्षणम् ॥ ८६ ॥

मूलम्

क्वचित्क्वचित्तीक्ष्णशिलाः क्वचित्तप्तशिलास्तथा
क्वचित्क्वचिच्छस्त्रवृष्टिः क्वचिदङ्गारवर्षणम् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

क्वचिदग्निरिवातीव सन्तप्ता वान्ति मारुताः
गम्भीरान्धकराः क्वापि तृणावर्तमुखा द्विज ॥ ८७ ॥

मूलम्

क्वचिदग्निरिवातीव सन्तप्ता वान्ति मारुताः
गम्भीरान्धकराः क्वापि तृणावर्तमुखा द्विज ॥ ८७ ॥

विश्वास-प्रस्तुतिः

क्वचित्कण्टकवृष्टिश्च नाराचमयकण्टकैः
पाषाणश्रेणयः क्वापि दुःखरोहाः सपन्नगाः ॥ ८८ ॥

मूलम्

क्वचित्कण्टकवृष्टिश्च नाराचमयकण्टकैः
पाषाणश्रेणयः क्वापि दुःखरोहाः सपन्नगाः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

गच्छन्ति पापिनस्तत्र शुष्ककण्ठोष्ठतालुकाः
एवं बहुविधक्लेशे छायाजलविवर्जिते ॥ ८९ ॥

मूलम्

गच्छन्ति पापिनस्तत्र शुष्ककण्ठोष्ठतालुकाः
एवं बहुविधक्लेशे छायाजलविवर्जिते ॥ ८९ ॥

विश्वास-प्रस्तुतिः

तस्मिन्मार्गे द्विजश्रेष्ठ पापिनो यान्ति दुःखिताः
नाम्ना विमुक्तकेशाश्च प्रेताकारा भयङ्कराः ॥ ९० ॥

मूलम्

तस्मिन्मार्गे द्विजश्रेष्ठ पापिनो यान्ति दुःखिताः
नाम्ना विमुक्तकेशाश्च प्रेताकारा भयङ्कराः ॥ ९० ॥

विश्वास-प्रस्तुतिः

रुधिरौघप्लुताः केचित्केचित्कर्दमभूषिताः
केचित्केचिच्च कृष्णाङ्गाः पथि गच्छन्ति पापिनः ॥ ९१ ॥

मूलम्

रुधिरौघप्लुताः केचित्केचित्कर्दमभूषिताः
केचित्केचिच्च कृष्णाङ्गाः पथि गच्छन्ति पापिनः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

क्रन्दन्तो व्यथया केचित्स्रवद्बाष्पाकुले क्षणाः
शोचन्तः स्वानि कर्माणि केचिद्गच्छन्ति पापिनः ॥ ९२ ॥

मूलम्

क्रन्दन्तो व्यथया केचित्स्रवद्बाष्पाकुले क्षणाः
शोचन्तः स्वानि कर्माणि केचिद्गच्छन्ति पापिनः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

कस्यचिच्चर्मपाशस्य बन्धनं पापिनां गले
कङ्काले कस्यचिद्बद्धाः कस्यचिच्च पदद्वये ॥ ९३ ॥

मूलम्

कस्यचिच्चर्मपाशस्य बन्धनं पापिनां गले
कङ्काले कस्यचिद्बद्धाः कस्यचिच्च पदद्वये ॥ ९३ ॥

विश्वास-प्रस्तुतिः

गले सूचीसमुत्कीर्णे पाशं दत्वा दृढं रुषा
आकृष्यन्ते यमप्रेष्याः केषाञ्चिच्च कृतैनसाम् ॥ ९४ ॥

मूलम्

गले सूचीसमुत्कीर्णे पाशं दत्वा दृढं रुषा
आकृष्यन्ते यमप्रेष्याः केषाञ्चिच्च कृतैनसाम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

वर्त्मस्थान्गुरुपाषाणान्वहन्तः कर्णरन्ध्रकैः
अयोभारांश्च शीर्षाग्रैर्व्रजन्ति पथि पापिनः ॥ ९५ ॥

मूलम्

वर्त्मस्थान्गुरुपाषाणान्वहन्तः कर्णरन्ध्रकैः
अयोभारांश्च शीर्षाग्रैर्व्रजन्ति पथि पापिनः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

कांश्चिद्भुजेषु पाशेषु नयन्ति यमकिङ्कराः
ग्रीवासु पापिनः केचित्करप्रहरणैर्दृढैः ॥ ९६ ॥

मूलम्

कांश्चिद्भुजेषु पाशेषु नयन्ति यमकिङ्कराः
ग्रीवासु पापिनः केचित्करप्रहरणैर्दृढैः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

क्षिप्तक्षिप्ता यमप्रेष्या नयन्ति यमकिङ्कराः
यान्त्यधः शिरसः केचिदूर्ध्वपादास्तथापरे ॥ ९७ ॥

मूलम्

क्षिप्तक्षिप्ता यमप्रेष्या नयन्ति यमकिङ्कराः
यान्त्यधः शिरसः केचिदूर्ध्वपादास्तथापरे ॥ ९७ ॥

विश्वास-प्रस्तुतिः

गच्छन्ति बाहुभिः केचिदेकपादाश्च केचन
इत्येवं विकृताकारा आर्तरावविरावणाः ॥ ९८ ॥

मूलम्

गच्छन्ति बाहुभिः केचिदेकपादाश्च केचन
इत्येवं विकृताकारा आर्तरावविरावणाः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

यमदूतैस्ताड्यमानाः पापिनो यान्ति तत्पथे
तेष्वागतेषु सर्वेषु पापात्मा सुरुषा यमः ॥ ९९ ॥

मूलम्

यमदूतैस्ताड्यमानाः पापिनो यान्ति तत्पथे
तेष्वागतेषु सर्वेषु पापात्मा सुरुषा यमः ॥ ९९ ॥

दिव्यां मूर्तिं परित्यज्य बभूवात्यन्तभैरवः
त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः १०० 7.23.100
धूम्रवर्णो महातेजाः प्रलम्बो घर्घरध्वनिः
सुदीर्घदशनश्रेणिः शूर्पोपम नखावलिः १०१
प्रचण्डमहिषारूढः सन्दष्टदशनच्छदः
दण्डहस्तश्चर्मपाशो भ्रुकुटी कुटिलाननः १०२
चित्रगुप्तो महामायः क्रोधारुणितलोचनः
अट्टाट्टहासं कुर्वाणः समवर्ती विराजते १०३
चण्डाद्याः किङ्कराः सर्वे पाशमुद्गरपाणयः
बभूवुर्भैरवाः क्रुद्धा गर्जन्तो जलदा इव १०४
जहि जह्याशु पापिष्ठान्भिन्धि च्छिन्दय विन्धय
समन्तादेव धावन्तो वल्गन्ति यमकिङ्कराः १०५
तानाह पततः सर्वान्पापिनो धर्मराट्प्रभुः
तर्जयेत्कालदण्डेन त्यजन्हुङ्कारनिःस्वनम् १०६
यम उवाच-
रेरे पापा दुराचारा युष्माभिरविवेकिभिः
अहो कृतानि पापानि आत्मपीडाकराण्यपि १०७
मस्तकोपरि तिष्ठन्तं नेक्षध्वं समवर्तिनम्
ज्ञात्वापि मां जीवितेशं युष्माभिः पातकं कृतम् १०८
पुण्यात्मनामहं बन्धुरहं पापात्मनां रिपुः
इति कुत्रापि युष्माभिर्न श्रुतं श्रवणैः स्वकैः १०९
निरया दुःसहाः सन्ति नानादुःखसमन्विताः
पापिनो भुञ्जते तांश्च युष्माभिर्नेति विश्रुतम् ११०
मत्वा मिथ्यैव युष्माभिश्चर्चा मम दुराशयाः
अद्य सैव स्वकैर्नेत्रैर्दृश्यतां कृतपातकाः १११
वित्तान्ध्येन वचो मत्ता यूयं सर्वे सदैव हि
चक्रिरे पापजालानि युष्माभिः सततं यथा ११२
तथा पापफलं दुष्टा भुञ्जतां क्रन्दनेन किम्
सुप्राज्ञोवाच-
इत्युक्त्वा भास्करिर्देवश्चित्रगुप्तमुवाच ह ११३
एतेषां पापकर्माणि महाभाग विचारय
धर्मराजवचः श्रुत्वा चित्रगुप्तो महत्तदा ११४
तेषां यावन्ति पापानि तावन्ति प्राह चोदितः
ततस्ते पापिनः सर्वे क्रन्दन्ति द्विजसत्तम ११५
इत्यूचुः शमनं भीताश्चर्मपाशे नियन्त्रिताः
पापिन ऊचुः
अस्माभिर्यानि पापानि कृतानि भास्करात्मज ११६
के स्थिताः साक्षिणस्तत्र के वा यूयं निवेदिताः
अशुभं वा शुभं वापि यतोऽस्माभिः कृतं पुरा ११७
तथा च दृष्टं केनात्र पुरोऽस्माकं निगद्यताम्
ततः प्रहस्य भगवान्कोपेन महता द्विज ११८
आहूय साक्षिणः सर्वानिदं वचनमब्रवीत्
यम उवाच-
यूयं सर्वे यथावृत्तं सन्निधौ साक्षिणस्तथा ११९
आकाशं पृथिवीं चैव जलं च तिथयस्तथा
दिनं रात्रिरुभे सन्ध्ये धर्मश्चैते तु साक्षिणः १२०
तेषां पापात्मनामूचुः सर्वं कर्मशुभाशुभम्
यस्य यस्य च वेलायां कर्म यद्यदिकारितम् १२१
स स साक्षी तस्य तस्य जगाद यमसन्निधौ
तच्छ्रुत्वा पापिनः सर्वे साध्वसा कृष्टमानसाः १२२
सकम्पहृदयास्तस्थुर्मेघं दृष्ट्वा मृगा इव
ततस्तु दन्तावलिभिः कुर्वन्कडकडध्वनिम् १२३
धर्मराट्कालदण्डेन ताञ्जघान पृथक्पृथक्
ताडिता धर्मराजेन ते सर्वे कृतपातकाः १२४
क्रन्दन्ति निजकर्माणि शोचन्तः प्राप्तसाध्वसाः
ततस्तान्पापिनः सर्वान्दूताश्चण्डादयो रुषा १२५
नरकेषु यमादेशाद्रौरवादिषु चिक्षिपुः
तपने चिक्षिपुः कांश्चिदवीचौ कृतपातकान् १२६
सङ्घाते कालसूत्रे च महारौरवके तथा
सन्तप्ते वालुकाकुण्डे कुम्भीपाके तथापरान् १२७
निरुच्छ्वासे महाघोरे चिक्षिपुश्च प्रमर्द्दने
असिपत्रवने घोरे नानाभक्षेषु पापिनः १२८
वैतरण्यां तथा केऽपि चिक्षिपुर्यमकिङ्कराः
घोरे विष्ठाह्रदे कांश्चित्तुषाङ्गारास्थिकण्टकैः १२९
पूर्णे नितान्तसन्तप्ते चिक्षिपुर्यमकिङ्कराः
पुरीषलेपने चैव पुरीषभोजने तथा १३०
स्वमांसभोजने चैव स्थापिता यमकिङ्करैः
श्लेष्माणं भुञ्जते केचित्केचिद्वीर्यं च भुञ्जते १३१
पिबन्ति केचिन्मूत्राणि केचिद्रक्तानि पापिनः
केषाञ्चिद्वदनेष्वेव जलौकाः पन्नगोपमाः १३२
पूर्यन्ते पन्नगाश्चैव यमदूतैर्भयङ्करैः
उत्पाद्यन्तेऽतिसन्तप्तैर्जिह्वाश्च द्विजसत्तम १३३
केषाञ्चित्कर्णरन्ध्रेषु मुखेषु च कृतैनसाम्
तप्ततैलानि पूर्यन्ते निर्द्दयैर्यमकिङ्करैः १३४
केषाञ्चित्खङ्गधाराभिर्बाहुं च चरणं तथा
कर्णादिनासिकाश्चैव च्छिन्दन्ति च दुरात्मनाम् १३५
शयनं कुर्वते केचिज्ज्वलदङ्गारसञ्चये
केचिन्नाराचतुल्येषु शयनं कण्टकेषु च १३६
कर्दमेषु च तप्तेषु कांश्चिच्छमनकिङ्कराः
पातयन्ति द्विजश्रेष्ठ केशेष्वाकृष्य पापिनः १३७
वमनेषु च केषाञ्चिन्नखसन्धिषु पापिनाम्
तप्तसूचीसहस्राणि प्रक्षिपन्ति मुहुर्मुहुः १३८
सन्तप्तलोहशूलाग्रे कांश्चिदारोपयन्ति वै
क्रन्दन्ति कण्टकैस्तीक्ष्णैः केषाञ्चिन्मस्तकानि वै १३९
गृहीत्वा हस्तपादेषु शाल्मलिद्रुमकण्टकैः
निष्कुषन्ति रुषा कांश्चिदार्त्तरावविराविणः १४०
बद्ध्वा गलेषु पाषाणं कांश्चिच्छमनकिङ्कराः
रक्तगर्ते पयोगर्ते पातयन्ति पुनः पुनः १४१
याम्यैर्दूतैरुद्गिरन्ति शिरांसि पापिनां नृणाम्
चूर्णयन्त्युपलैर्याम्या मुहुर्मुहुरतिक्रुधा १४२
वक्षोमध्येषु केषाञ्चिल्लोहकीलकसञ्चयान्
आरोपयन्ति लोकानां क्रन्दतां दुरितात्मनाम् १४३
चक्षूंषि बडिशैः केषामुत्पाट्यन्ते कृतैनसाम्
केषाञ्चिन्नासिका एव पूर्य्यन्ते वृश्चिकैर्द्विज १४४
केषाञ्चिद्वृक्षशाखायां बद्ध्वा पादांश्च पाशकैः
ज्वालयन्ति तले वह्निं सधूमं यमकिङ्कराः १४५
धूमपानं प्रकुर्वन्ति ते तत्र कृतकिल्विषाः
अधोमुखा ऊर्ध्वपादास्तस्थुराचन्द्र तारकम् १४६
मुसलैर्मुद्गरैः केचित्ताड्यमानाः पुनः पुनः
याम्यैर्दूतैरुद्गिरन्ति शोणितानि व्यथाकुलाः १४७
अन्धकारमये गेहे पूतिगन्धवति द्विज
दंशैश्च मशकैश्चैव केचित्सीदन्ति पापिनः १४८
भस्मानि भुञ्जते केचित्कृमीन्केचिच्च भुञ्जते
केचिद्दुर्गन्धमांसानि केचिच्च पूतिमृत्तिकाम् १४९
श्वभिर्व्याघ्रैः शृगालैश्च वज्रदन्तनखैस्तथा
ऋक्षैः केचिद्भक्ष्यमाणाः क्रन्दन्ति रुधिराप्लुताः १५० 7.23.150
नितान्तोग्रविषैः सर्पैर्भक्ष्यमाणास्तथापरे
अन्ये महिषशृङ्गाग्रनिर्भिन्नवक्षसो द्विज १५१
पतन्ति मूर्च्छिताः पृथ्वीं सिञ्चन्तो रुधिरैर्महीम्
यमदूतधनुर्मुक्तैर्घोरैराशीविषोपमैः १५२
जर्जराखिलदेहाश्च लुठन्त्यन्ये महीतले
तप्तायः पिण्डनिलयं तप्तपाषाणमेव च १५३
दंशशस्त्रेण केषाञ्चित्कुष्णन्ति वदनेषु च
नासारन्ध्रेषु केषाञ्चिद्यमदूता मुखेषु च १५४
श्वासानिलनिरोधार्थं नासारन्ध्रं वयन्ति वै
केषाञ्चित्तीक्ष्णधाराभिर्यमशाक्तिभिरुद्धतैः १५५
उत्पाट्यन्तेङ्गचर्माणि यमदूतैर्महाबलैः
कांश्चिद्गृहीत्वा केशेषु निपात्य पृथिवीतले १५६
कीलैः पादादिभिर्घातैस्ताडयन्ति सदैव हि
केचित्क्षाराम्बुधाराभिः सन्तप्ताः कृतपातकाः १५७
क्षाराम्बुपानं कुर्वन्ति क्रन्दन्तो बहुधा द्विज
पित्तपानं महाभाग केचित्कुर्वन्ति पापिनः १५८
स्नुहीक्षीराणि केचिच्च पिबन्ति पापिनां वराः
केषाञ्चित्स्वपतां भूमौ वक्षःसु यमकिङ्करैः १५९
दीयन्ते गुरुपाषाणाः सन्तप्ताः पर्वतोपमाः
काष्ठखण्डद्वयं दत्वा ग्रीवायां च गले तथा १६०
उदग्रमुखं बध्नन्ति केषाञ्चिद्दृढपाशकैः
आरोप्य वृक्षशाखायां कांश्चिद्भूमौ क्षिपन्ति च १६१
उत्थापयन्ति भूमौ च प्रक्षिपन्ति पुनः पुनः
एवं ते पापिनः सर्वे क्षुधितास्तृषितास्तथा १६२
त्राहि त्राहीति जल्पन्तो रुदन्ति यातनागृहे
युगकल्पान्तपर्यन्तं भुक्त्वा निरययातनाम् १६३
नातिभुक्त्वा पापशेषे जायन्ते पापयोनिषु
पापयोनौ समुत्पन्ना भवन्ति व्याधिपीडिताः १६४
हीनाङ्गा अधिकाङ्गाश्च दुःखिनः पापसेवकाः
अपुत्रा अतिमूर्खाश्च परहिंसापरायणाः १६५
अल्पायुषोऽल्पमतयः कुभार्यापतयस्तथा
नित्यं पापानि कर्माणि कर्मणा मनसा गिरा १६६
पुनः पापप्रभावेन निरयं यान्ति पूर्ववत्
तस्मात्पापं न कर्तव्यं कदाचिदपि सत्तमैः १६७
नराणां कृतपापानां नरकान्नास्ति निष्कृतिः
सङ्क्षेपात्पापिनां दुःखं निरुक्तं द्विजसत्तम १६८
सम्यग्वक्तुं कः क्षमोस्ति वर्षायुतशतैरपि
दुर्गतीनां ततो दृष्ट्वा मनुजानां कृतैनसाम् १६९
आवां विमानमारुह्य नारायणपुरं गतौ
कल्पकोटिसहस्राणि भुक्त्वा भोगान्हरेर्गृहे १७०
जातौ वै राजवंशेऽस्मिन्विशुद्धे द्विजसत्तम
अत्र भुक्त्वाखिलान्भोगान्सर्वसम्पत्समन्वितान् १७१
सुखमृत्युं समासाद्य गन्तव्यं परमं पदम्
एकादशीव्रतसमं व्रतं नास्ति जगत्त्रये १७२
अनिच्छयापि यत्कृत्वा गतिरेवंविधाऽवयोः
एकादशीव्रतं ये तु भक्तिभावेन कुर्वते १७३
न जाने किं भवेत्तेषां वासुदेवानुकम्पया
इति ते कथितं सर्वं पृष्टं ब्राह्मणसत्तम १७४
विष्णोर्दिवसमाहात्म्यं किमन्यच्छ्रोतुमर्हसि
व्यास उवाच-
तस्यैतद्वचनं श्रुत्वा स विप्रः परमार्थवित् १७५
एकादशीव्रते चित्तं चकार सुदृढं निजम्
स राजा राजमहिषी चिरं भुक्त्वा वसुन्धराम् १७६
अन्ते विष्णुपुरं गत्वा प्राप्तवन्तौ परं पदम्
व्रतराजस्य माहात्म्यं ये शृण्वन्ति पठन्ति च १७७
पापजालैर्विनिर्मुक्ता लभन्ते हरिसन्निधौ १७८
इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये त्रयोविंशतितमोऽध्यायः २३