जैमिनिरुवाच-
विश्वास-प्रस्तुतिः
गङ्गायाः शुभ माहात्म्यं विष्णुपूजाफलं तथा
अन्नदानस्य माहात्म्यं जलदानस्य चोत्तमम् ॥ १ ॥
मूलम्
गङ्गायाः शुभ माहात्म्यं विष्णुपूजाफलं तथा
अन्नदानस्य माहात्म्यं जलदानस्य चोत्तमम् ॥ १ ॥
विश्वास-प्रस्तुतिः
विप्रपादोदकस्यापि माहात्म्यं पापनाशनम्
त्वत्प्रसादाच्छ्रुतं सर्वं सेतिहासं गुरो मया ॥ २ ॥
मूलम्
विप्रपादोदकस्यापि माहात्म्यं पापनाशनम्
त्वत्प्रसादाच्छ्रुतं सर्वं सेतिहासं गुरो मया ॥ २ ॥
विश्वास-प्रस्तुतिः
इदानीं मुनिशार्दूल श्रोतुमिच्छामि सादरम्
एकादश्याः फलं सर्वं सर्वपातकनाशनम् ॥ ३ ॥
मूलम्
इदानीं मुनिशार्दूल श्रोतुमिच्छामि सादरम्
एकादश्याः फलं सर्वं सर्वपातकनाशनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
कस्मादेकादशी श्रेष्ठा तस्याः को वा विधिः स्मृतः
कदाचित् क्रियते किं वा फलं तस्या वदस्व मे ॥ ४ ॥
मूलम्
कस्मादेकादशी श्रेष्ठा तस्याः को वा विधिः स्मृतः
कदाचित् क्रियते किं वा फलं तस्या वदस्व मे ॥ ४ ॥
विश्वास-प्रस्तुतिः
का वा पूज्यतमा तत्र देवता सद्गुणार्णव
अकुर्वतः स्यात्को दोषस्तन्मे वक्तुमिहार्हसि ॥ ५ ॥
मूलम्
का वा पूज्यतमा तत्र देवता सद्गुणार्णव
अकुर्वतः स्यात्को दोषस्तन्मे वक्तुमिहार्हसि ॥ ५ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
एकादश्याः फलं सर्वं वक्तुं नारायणादृते
शक्नोति नान्यो विप्रर्षे तस्माद्वच्मि समासतः ॥ ६ ॥
मूलम्
व्यास उवाच-
एकादश्याः फलं सर्वं वक्तुं नारायणादृते
शक्नोति नान्यो विप्रर्षे तस्माद्वच्मि समासतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम्
सर्वेषां दमनार्थाय सृष्टवान्पापपूरुषम् ॥ ७ ॥
मूलम्
सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम्
सर्वेषां दमनार्थाय सृष्टवान्पापपूरुषम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम्
स्वर्णस्तेयं च वदनं गुरुतल्पगतिः श्रुतिः ॥ ८ ॥
मूलम्
द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम्
स्वर्णस्तेयं च वदनं गुरुतल्पगतिः श्रुतिः ॥ ८ ॥
विश्वास-प्रस्तुतिः
स्त्रीहत्या नासिकं चैव गोहत्यादोष बाहुकम्
न्यासापहारण ग्रीवं भ्रूणहत्या गलं तथा ॥ ९ ॥
मूलम्
स्त्रीहत्या नासिकं चैव गोहत्यादोष बाहुकम्
न्यासापहारण ग्रीवं भ्रूणहत्या गलं तथा ॥ ९ ॥
विश्वास-प्रस्तुतिः
परस्त्रीगतबुक्काग्रं सुहृल्लोकवधोदरम्
शरणापन्नहत्यादि नाभिगर्तावधिं कटिम् ॥ १० ॥
मूलम्
परस्त्रीगतबुक्काग्रं सुहृल्लोकवधोदरम्
शरणापन्नहत्यादि नाभिगर्तावधिं कटिम् ॥ १० ॥
विश्वास-प्रस्तुतिः
गुरुनिन्दा सक्थिभागं कन्याविक्रय शेफसम्
विश्वासवाक्यकथनं पायुं प्रीतिवधाङ्घ्रिकम् ॥ ११ ॥
मूलम्
गुरुनिन्दा सक्थिभागं कन्याविक्रय शेफसम्
विश्वासवाक्यकथनं पायुं प्रीतिवधाङ्घ्रिकम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
उपपातकरोमाणं महाकायं भयङ्करम्
कृष्णवर्णं पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम् ॥ १२ ॥
मूलम्
उपपातकरोमाणं महाकायं भयङ्करम्
कृष्णवर्णं पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा पापपुरुषमत्युग्रं पुरुषोत्तमम्
सदयश्चिन्तयामास प्रजाक्लेशहरः प्रभुः ॥ १३ ॥
मूलम्
तं दृष्ट्वा पापपुरुषमत्युग्रं पुरुषोत्तमम्
सदयश्चिन्तयामास प्रजाक्लेशहरः प्रभुः ॥ १३ ॥
विश्वास-प्रस्तुतिः
सृष्टोऽयं दुर्जनः क्रूरः स्वाश्रयक्लेशदायकः
प्रजानां दमनार्थाय सृजाम्येतस्य कारणम् ॥ १४ ॥
मूलम्
सृष्टोऽयं दुर्जनः क्रूरः स्वाश्रयक्लेशदायकः
प्रजानां दमनार्थाय सृजाम्येतस्य कारणम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
अथासौ भगवान्विष्णुर्बभूव स्वयमन्तकः
ससर्ज रौरवादींश्च निरयान्पापिदुःखदान् ॥ १५ ॥
मूलम्
अथासौ भगवान्विष्णुर्बभूव स्वयमन्तकः
ससर्ज रौरवादींश्च निरयान्पापिदुःखदान् ॥ १५ ॥
विश्वास-प्रस्तुतिः
पापं यः सेवते मूढो न याति परमं पदम्
यमाज्ञया व्रजेत्तत्र नरकं रौरवादिकम् ॥ १६ ॥
मूलम्
पापं यः सेवते मूढो न याति परमं पदम्
यमाज्ञया व्रजेत्तत्र नरकं रौरवादिकम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
एकदा भगवान्विष्णुः प्रजानां दुःखनाशनः
वैनतेयं समारुह्य जगाम यममन्दिरम् ॥ १७ ॥
मूलम्
एकदा भगवान्विष्णुः प्रजानां दुःखनाशनः
वैनतेयं समारुह्य जगाम यममन्दिरम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा जगतामीशं नारायणमनामयम्
धूपाद्यैः पूजयामास भास्करिस्तुष्टमानसः ॥ १८ ॥
मूलम्
तं दृष्ट्वा जगतामीशं नारायणमनामयम्
धूपाद्यैः पूजयामास भास्करिस्तुष्टमानसः ॥ १८ ॥
विश्वास-प्रस्तुतिः
यमेनाभ्यर्चितो विष्णुः सर्वलोकैकनायकः
उवास द्विजशार्दूल पीठे कनकनिर्मिते ॥ १९ ॥
मूलम्
यमेनाभ्यर्चितो विष्णुः सर्वलोकैकनायकः
उवास द्विजशार्दूल पीठे कनकनिर्मिते ॥ १९ ॥
विश्वास-प्रस्तुतिः
तत्रोपविष्टो भगवान्यमेन सह दैत्यहा
शुश्राव क्रन्दनं ध्यानं दक्षिणस्यां दिशि प्रभो ॥ २० ॥
मूलम्
तत्रोपविष्टो भगवान्यमेन सह दैत्यहा
शुश्राव क्रन्दनं ध्यानं दक्षिणस्यां दिशि प्रभो ॥ २० ॥
विश्वास-प्रस्तुतिः
अथासौ कमलाकान्तो विस्मयाविष्टमानसः
उवाचेति यमं तेषां कुतोऽयं क्रन्दनध्वनिः ॥ २१ ॥
मूलम्
अथासौ कमलाकान्तो विस्मयाविष्टमानसः
उवाचेति यमं तेषां कुतोऽयं क्रन्दनध्वनिः ॥ २१ ॥
विश्वास-प्रस्तुतिः
यम उवाच-
देवपातकिनो मर्त्या निरयेऽत्यन्तदुःखदे
स्वहस्तार्जितदोषेण सीदन्ति च ममालये ॥ २२ ॥
मूलम्
यम उवाच-
देवपातकिनो मर्त्या निरयेऽत्यन्तदुःखदे
स्वहस्तार्जितदोषेण सीदन्ति च ममालये ॥ २२ ॥
विश्वास-प्रस्तुतिः
पापवृक्षफलं विष्णो भोक्तुमत्यन्तदुःखदम्
रुदन्ति पापिनस्तस्मात्तेषां ध्वनिरसौ महान् ॥ २३ ॥
मूलम्
पापवृक्षफलं विष्णो भोक्तुमत्यन्तदुःखदम्
रुदन्ति पापिनस्तस्मात्तेषां ध्वनिरसौ महान् ॥ २३ ॥
विश्वास-प्रस्तुतिः
इत्युक्तः सूर्यपुत्रेण कृष्णः कमललोचनः
जगाम सहसा तत्र पापवन्तो रुदन्ति ते ॥ २४ ॥
मूलम्
इत्युक्तः सूर्यपुत्रेण कृष्णः कमललोचनः
जगाम सहसा तत्र पापवन्तो रुदन्ति ते ॥ २४ ॥
विश्वास-प्रस्तुतिः
तान्दृष्ट्वा पापिनो मर्त्यान्रौरवादिषु संस्थितान्
भगवांश्चिन्तयामास हृदिजातदयः प्रभुः ॥ २५ ॥
मूलम्
तान्दृष्ट्वा पापिनो मर्त्यान्रौरवादिषु संस्थितान्
भगवांश्चिन्तयामास हृदिजातदयः प्रभुः ॥ २५ ॥
विश्वास-प्रस्तुतिः
मया सृष्टाः प्रजाः सर्वा दोषेण निजकर्मणाम्
मयि स्थितेऽपि नरके सीदन्त्येकान्तदुःखदे ॥ २६ ॥
मूलम्
मया सृष्टाः प्रजाः सर्वा दोषेण निजकर्मणाम्
मयि स्थितेऽपि नरके सीदन्त्येकान्तदुःखदे ॥ २६ ॥
विश्वास-प्रस्तुतिः
एतच्चान्यच्च विप्रेन्द्र विचिन्त्य करुणामयः
बभूव सहसा तत्र स्वयमेकादशी तिथिः ॥ २७ ॥
मूलम्
एतच्चान्यच्च विप्रेन्द्र विचिन्त्य करुणामयः
बभूव सहसा तत्र स्वयमेकादशी तिथिः ॥ २७ ॥
विश्वास-प्रस्तुतिः
ततस्तान्पापिनः सर्वान्कारयामास तच्छ्रुतम्
ते च सर्वे परं धाम ययुर्गलितकल्मषाः ॥ २८ ॥
मूलम्
ततस्तान्पापिनः सर्वान्कारयामास तच्छ्रुतम्
ते च सर्वे परं धाम ययुर्गलितकल्मषाः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तस्मादेकादशीं विष्णोमूर्तिं विद्धि परात्मनः
समस्तदुष्कृतिश्रेष्ठं व्रतानां व्रतमुत्तमम् ॥ २९ ॥
मूलम्
तस्मादेकादशीं विष्णोमूर्तिं विद्धि परात्मनः
समस्तदुष्कृतिश्रेष्ठं व्रतानां व्रतमुत्तमम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
एकादशीं तिथिं कृत्वा पावयन्तीं जगत्त्रयम्
शङ्कितः पापपुरुषो विष्णुं स्तोतुमुपाययौ ॥ ३० ॥
मूलम्
एकादशीं तिथिं कृत्वा पावयन्तीं जगत्त्रयम्
शङ्कितः पापपुरुषो विष्णुं स्तोतुमुपाययौ ॥ ३० ॥
विश्वास-प्रस्तुतिः
ततो बद्धाञ्जलिर्भक्त्या स पापपुरुषो द्विज
तुष्टाव कमलाकान्तं भगवन्तं जनार्दनम् ॥ ३१ ॥
मूलम्
ततो बद्धाञ्जलिर्भक्त्या स पापपुरुषो द्विज
तुष्टाव कमलाकान्तं भगवन्तं जनार्दनम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तस्यस्तवं समाकर्ण्य प्रसन्नः परमेश्वरः
उवाचाहं प्रसन्नोऽस्मि किन्तेऽभिमतमुच्यताम् ॥ ३२ ॥
मूलम्
तस्यस्तवं समाकर्ण्य प्रसन्नः परमेश्वरः
उवाचाहं प्रसन्नोऽस्मि किन्तेऽभिमतमुच्यताम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पापपुरुष उवाच-
सृष्टो भगवता विष्णो निजानुग्रहदुःखदः
एकदश्याः प्रभावेण क्षयं प्राप्नोमि साम्प्रतम् ॥ ३३ ॥
मूलम्
पापपुरुष उवाच-
सृष्टो भगवता विष्णो निजानुग्रहदुःखदः
एकदश्याः प्रभावेण क्षयं प्राप्नोमि साम्प्रतम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
मृते मयि जगत्यस्मिन्सर्वे ते च शरीरिणः
भविष्यन्ति विनिर्मुक्ता भवबन्धैः शरीरिणः ॥ ३४ ॥
मूलम्
मृते मयि जगत्यस्मिन्सर्वे ते च शरीरिणः
भविष्यन्ति विनिर्मुक्ता भवबन्धैः शरीरिणः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
सर्वेषु च विमुक्तेषु देहिश्रेष्ठेषु पूरुषम्
संसारकौतुकागारे कैस्त्वं क्रीडिष्यसे प्रभो ॥ ३५ ॥
मूलम्
सर्वेषु च विमुक्तेषु देहिश्रेष्ठेषु पूरुषम्
संसारकौतुकागारे कैस्त्वं क्रीडिष्यसे प्रभो ॥ ३५ ॥
विश्वास-प्रस्तुतिः
क्रीडितुं यदि ते वाञ्छा जगत्कौतुकमन्दिरे
एकादशी तिथि भयात्तदा मां त्राहि केशव ॥ ३६ ॥
मूलम्
क्रीडितुं यदि ते वाञ्छा जगत्कौतुकमन्दिरे
एकादशी तिथि भयात्तदा मां त्राहि केशव ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अन्यैः पुण्यसहस्रैस्तु मां हन्तुं न हि शक्यते
शक्नोत्येकादशी पुण्या मां हन्तुं वरदो भव ॥ ३७ ॥
मूलम्
अन्यैः पुण्यसहस्रैस्तु मां हन्तुं न हि शक्यते
शक्नोत्येकादशी पुण्या मां हन्तुं वरदो भव ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मनुष्यपशुकीटेषु तथाऽन्येषु च जन्तुषु
पर्वतेषु च वृक्षेषु स्थानेषु च जलेषु च ॥ ३८ ॥
मूलम्
मनुष्यपशुकीटेषु तथाऽन्येषु च जन्तुषु
पर्वतेषु च वृक्षेषु स्थानेषु च जलेषु च ॥ ३८ ॥
विश्वास-प्रस्तुतिः
नदीषु च समुद्रेषु वनेषु प्रान्तरेषु च
स्वर्गे मर्त्ये च पाताले देवगन्धर्वपक्षिषु ॥ ३९ ॥
मूलम्
नदीषु च समुद्रेषु वनेषु प्रान्तरेषु च
स्वर्गे मर्त्ये च पाताले देवगन्धर्वपक्षिषु ॥ ३९ ॥
विश्वास-प्रस्तुतिः
एकादशीतिथि भयाद्भूयान्विष्णो पलायितः
कुत्रापि निर्भयस्थानं न च तेन च कुत्रचित् ॥ ४० ॥
मूलम्
एकादशीतिथि भयाद्भूयान्विष्णो पलायितः
कुत्रापि निर्भयस्थानं न च तेन च कुत्रचित् ॥ ४० ॥
विश्वास-प्रस्तुतिः
कोटिब्रह्माण्डमध्येषु देवदेव सनातन
एकादश्यां तिथौ स्थातुं मया स्थानं न लभ्यते ॥ ४१ ॥
मूलम्
कोटिब्रह्माण्डमध्येषु देवदेव सनातन
एकादश्यां तिथौ स्थातुं मया स्थानं न लभ्यते ॥ ४१ ॥
विश्वास-प्रस्तुतिः
एकादश्यामहं कुत्र वत्स्यामि निर्भयः प्रभो
तन्मे कथय देवेश त्वयासृष्टोऽस्म्यहेतुकः ॥ ४२ ॥
मूलम्
एकादश्यामहं कुत्र वत्स्यामि निर्भयः प्रभो
तन्मे कथय देवेश त्वयासृष्टोऽस्म्यहेतुकः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
इत्युक्त्वा पापपुरुषः क्लेशनाशनमच्युतम्
भूमौ निपत्य चक्रन्द स्रवद्वाष्पविलोचनः ॥ ४३ ॥
मूलम्
व्यास उवाच-
इत्युक्त्वा पापपुरुषः क्लेशनाशनमच्युतम्
भूमौ निपत्य चक्रन्द स्रवद्वाष्पविलोचनः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ततः प्रहस्य भगवान्मधुकैटभमर्दनः
एकादशी भयात्त्रस्तमुवाच पापपूरुषम् ॥ ४४ ॥
मूलम्
ततः प्रहस्य भगवान्मधुकैटभमर्दनः
एकादशी भयात्त्रस्तमुवाच पापपूरुषम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
उत्तिष्ठ पापपुरुष त्यज शोकं मुदं कुरु
एकादश्यां तिथौ यत्र तव स्थानं वदामि ते ॥ ४५ ॥
मूलम्
श्रीभगवानुवाच-
उत्तिष्ठ पापपुरुष त्यज शोकं मुदं कुरु
एकादश्यां तिथौ यत्र तव स्थानं वदामि ते ॥ ४५ ॥
विश्वास-प्रस्तुतिः
एकादश्यां समायान्त्यां प्रपुनन्त्यां जगत्त्रयम्
स्थातव्यमन्नमाश्रित्य भवता पापपूरुषः ॥ ४६ ॥
मूलम्
एकादश्यां समायान्त्यां प्रपुनन्त्यां जगत्त्रयम्
स्थातव्यमन्नमाश्रित्य भवता पापपूरुषः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अन्नमाश्रित्य तिष्ठन्तं भवन्तं पापपूरुषम्
न हनिष्यति मन्मूर्तिरियमेकादशी तिथिः ॥ ४७ ॥
मूलम्
अन्नमाश्रित्य तिष्ठन्तं भवन्तं पापपूरुषम्
न हनिष्यति मन्मूर्तिरियमेकादशी तिथिः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ततो देवोऽपि विप्रर्षे तत्रैवान्तर्हितोऽभवत्
कृतार्थः पापपुरुषो ययौ च स यथागतः ॥ ४८ ॥
मूलम्
ततो देवोऽपि विप्रर्षे तत्रैवान्तर्हितोऽभवत्
कृतार्थः पापपुरुषो ययौ च स यथागतः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः
आत्मनो हितमिच्छद्भिः सम्प्राप्ते हरिवासरे ॥ ४९ ॥
मूलम्
तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः
आत्मनो हितमिच्छद्भिः सम्प्राप्ते हरिवासरे ॥ ४९ ॥
विश्वास-प्रस्तुतिः
संसारे यानि पापानि तान्येवैकादशीदिने
अन्नमाश्रित्य तिष्ठन्ति श्रीमन्नारायणाज्ञया ५० 7.22.50
कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत्
येचान्नं भुञ्जतेऽत्रापि ते ज्ञेयाः पापिनां वराः ॥ ५१ ॥

भूयोभूयो दृढं वच्मि श्रूयतां श्रूयतां जनाः
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं कदाचन ॥ ५२ ॥
मूलम्
भूयोभूयो दृढं वच्मि श्रूयतां श्रूयतां जनाः
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं कदाचन ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मक्षत्रियविट्शूद्रैरन्यैश्च द्विजसत्तम
सर्वैरेकादशी कार्या चतुर्वर्गफलप्रदा ॥ ५३ ॥
मूलम्
ब्रह्मक्षत्रियविट्शूद्रैरन्यैश्च द्विजसत्तम
सर्वैरेकादशी कार्या चतुर्वर्गफलप्रदा ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अष्टादशनिमेषास्तु काष्ठा प्रोक्ता मनीषिभिः
क्षणं त्रिंशत्कलाभिः स्यान्मुहूर्तो द्वादशक्षणैः
त्रिंशन्मुहूर्ता लोकानामहोरात्रः प्रकीर्तितः ॥ ५५ ॥
मूलम्
अष्टादशनिमेषास्तु काष्ठा प्रोक्ता मनीषिभिः
क्षणं त्रिंशत्कलाभिः स्यान्मुहूर्तो द्वादशक्षणैः
त्रिंशन्मुहूर्ता लोकानामहोरात्रः प्रकीर्तितः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तैः पञ्ञ्चदशभिः पक्षो विज्ञेयो द्विजसत्तम
पक्षाभ्यां शुक्लकृष्णाभ्यां मासस्तु परिकल्पितः ॥ ५६ ॥
मूलम्
तैः पञ्ञ्चदशभिः पक्षो विज्ञेयो द्विजसत्तम
पक्षाभ्यां शुक्लकृष्णाभ्यां मासस्तु परिकल्पितः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तस्मिन्मासे द्विजश्रेष्ठ पक्षयोः शुक्ल कृष्णयोः
महापातकयुक्तोऽपि करोत्येकादशीं यदि ॥ ५७ ॥
मूलम्
तस्मिन्मासे द्विजश्रेष्ठ पक्षयोः शुक्ल कृष्णयोः
महापातकयुक्तोऽपि करोत्येकादशीं यदि ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात्
माता न प्रोच्यते माता माता ह्येकादशी तिथिः ॥ ५८ ॥
मूलम्
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात्
माता न प्रोच्यते माता माता ह्येकादशी तिथिः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
इहैव पालयेन्माता सर्वत्रैकादशी तिथिः
एकादशीव्रतं त्यक्त्वा व्रतमन्यत्करोति यः ॥ ५९ ॥
मूलम्
इहैव पालयेन्माता सर्वत्रैकादशी तिथिः
एकादशीव्रतं त्यक्त्वा व्रतमन्यत्करोति यः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
स्वकरस्थं मणिं त्यक्त्वा लोष्ठं गृह्णाति मूढधीः
एकादशीव्रतं यैस्तु कृतं भक्तिसमन्वितैः ॥ ६० ॥
मूलम्
स्वकरस्थं मणिं त्यक्त्वा लोष्ठं गृह्णाति मूढधीः
एकादशीव्रतं यैस्तु कृतं भक्तिसमन्वितैः ॥ ६० ॥
विश्वास-प्रस्तुतिः
तैस्तु यज्ञा कृताः सर्वे व्रतानि सकलानि च
एकादश्यां च भुञ्जन्ति ये मोहात्पापिनो नराः ॥ ६१ ॥
मूलम्
तैस्तु यज्ञा कृताः सर्वे व्रतानि सकलानि च
एकादश्यां च भुञ्जन्ति ये मोहात्पापिनो नराः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
शुक्लायां वापि कृष्णायां तेषां रुष्टः सदा हरिः
तेन धर्माः कृताः सर्वे लङ्घिता येन सा तिथिः ॥ ६२ ॥
मूलम्
शुक्लायां वापि कृष्णायां तेषां रुष्टः सदा हरिः
तेन धर्माः कृताः सर्वे लङ्घिता येन सा तिथिः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
यथा समस्तदेवानां श्रेष्ठो विष्णुः प्रकीर्तितः
तथा सर्वव्रतानां च श्रेष्ठमेकादशी व्रतम् ॥ ६३ ॥
मूलम्
यथा समस्तदेवानां श्रेष्ठो विष्णुः प्रकीर्तितः
तथा सर्वव्रतानां च श्रेष्ठमेकादशी व्रतम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
आदित्यानां यथा सूर्यो नक्षत्राणां यथा शशी
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥ ६४ ॥
मूलम्
आदित्यानां यथा सूर्यो नक्षत्राणां यथा शशी
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
वृक्षाणां च यथाश्वत्थो वेदानां साम कीर्तितम्
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥ ६५ ॥
मूलम्
वृक्षाणां च यथाश्वत्थो वेदानां साम कीर्तितम्
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
कवीनामुशना श्रेष्ठो वर्णानां ब्राह्मणो यथा
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥ ६६ ॥
मूलम्
कवीनामुशना श्रेष्ठो वर्णानां ब्राह्मणो यथा
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
व्यासः श्रेष्ठो मुनीनां च देवर्षीणां च नारदः
तथा व्रतानां सर्वेषां श्रेष्ठमेकादशीव्रतम् ॥ ६७ ॥
मूलम्
व्यासः श्रेष्ठो मुनीनां च देवर्षीणां च नारदः
तथा व्रतानां सर्वेषां श्रेष्ठमेकादशीव्रतम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
यथा समस्तदानानामन्नदानं वरं स्मृतम्
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥ ६८ ॥
मूलम्
यथा समस्तदानानामन्नदानं वरं स्मृतम्
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
यथा पुण्यसमं मित्रं नास्ति शास्त्रसमो गुरुः
तथैवैकादशी तुल्यं व्रतं नास्ति जगत्त्रये ॥ ६९ ॥
मूलम्
यथा पुण्यसमं मित्रं नास्ति शास्त्रसमो गुरुः
तथैवैकादशी तुल्यं व्रतं नास्ति जगत्त्रये ॥ ६९ ॥
विश्वास-प्रस्तुतिः
इन्द्रियाणां यथा श्रेष्ठं मनः प्रोक्तं मनीषिभिः
मासानां कार्तिकः श्रेष्ठः पाण्डवानां यथार्जुनः ॥ ७० ॥
मूलम्
इन्द्रियाणां यथा श्रेष्ठं मनः प्रोक्तं मनीषिभिः
मासानां कार्तिकः श्रेष्ठः पाण्डवानां यथार्जुनः ॥ ७० ॥
विश्वास-प्रस्तुतिः
यथा समस्तशास्त्राणां श्रेष्ठा वेदाः प्रकीर्तिताः
तथा व्रतानां प्रवरं स्मृतमेकादशीव्रतम् ॥ ७१ ॥
मूलम्
यथा समस्तशास्त्राणां श्रेष्ठा वेदाः प्रकीर्तिताः
तथा व्रतानां प्रवरं स्मृतमेकादशीव्रतम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
वेदागमपुराणेषु शास्त्रेष्वन्येषु च द्विज
कुत्राप्येकादशीतुल्यं व्रतं प्रोक्तं न कोविदैः ॥ ७२ ॥
मूलम्
वेदागमपुराणेषु शास्त्रेष्वन्येषु च द्विज
कुत्राप्येकादशीतुल्यं व्रतं प्रोक्तं न कोविदैः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
निर्भया मानवाः सर्वे तिष्ठन्ति क्षितिमण्डले
एकादशीव्रतं कृत्वा किं करिष्यति भास्करिः ॥ ७३ ॥
मूलम्
निर्भया मानवाः सर्वे तिष्ठन्ति क्षितिमण्डले
एकादशीव्रतं कृत्वा किं करिष्यति भास्करिः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
एकामेकादशीं सम्यक्कुर्वतां किङ्करो यमः
एकादशीव्रतं तस्मात्कर्तव्यं हि शुभप्रदम् ॥ ७४ ॥
मूलम्
एकामेकादशीं सम्यक्कुर्वतां किङ्करो यमः
एकादशीव्रतं तस्मात्कर्तव्यं हि शुभप्रदम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
एकादशीव्रतविधिं सङ्क्षेपात्कथयाम्यहम्
समाहितमना भूत्वा शृणु सत्तम जैमिने ॥ ७५ ॥
मूलम्
एकादशीव्रतविधिं सङ्क्षेपात्कथयाम्यहम्
समाहितमना भूत्वा शृणु सत्तम जैमिने ॥ ७५ ॥
विश्वास-प्रस्तुतिः
दशम्यां प्रातरुत्थाय कर्तव्यं दन्तधावनम्
ततस्तैलादृते स्नानं कर्तव्यमन्नवर्जनैः ॥ ७६ ॥
मूलम्
दशम्यां प्रातरुत्थाय कर्तव्यं दन्तधावनम्
ततस्तैलादृते स्नानं कर्तव्यमन्नवर्जनैः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
ततो विष्णुं समभ्यर्च्य पाद्याद्यैर्जगदीश्वरम्
हरिध्यानपरो भूत्वा एकभोजनमाचरेत् ॥ ७७ ॥
मूलम्
ततो विष्णुं समभ्यर्च्य पाद्याद्यैर्जगदीश्वरम्
हरिध्यानपरो भूत्वा एकभोजनमाचरेत् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
आमिषं लवणं चैव तथा मांसं मसूरकम्
बृहन्माषं तथा शाकं दशम्यां परिवर्जयेत् ॥ ७८ ॥
मूलम्
आमिषं लवणं चैव तथा मांसं मसूरकम्
बृहन्माषं तथा शाकं दशम्यां परिवर्जयेत् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
द्विर्भोजनं परान्नं च मधूनि मैथुनं तथा
भोजनं कांस्यपात्रेषु दशम्यां परिवर्जयेत् ॥ ७९ ॥
मूलम्
द्विर्भोजनं परान्नं च मधूनि मैथुनं तथा
भोजनं कांस्यपात्रेषु दशम्यां परिवर्जयेत् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
निम्बपत्रं च वृन्ताकं दग्धं जम्बीरमेव च
घृतहीनं तथा गव्यं दशम्यां परिवर्जयेत् ॥ ८० ॥
मूलम्
निम्बपत्रं च वृन्ताकं दग्धं जम्बीरमेव च
घृतहीनं तथा गव्यं दशम्यां परिवर्जयेत् ॥ ८० ॥
विश्वास-प्रस्तुतिः
अत्यन्तभोजनं चैव अत्यन्ताशनभोजनम्
ताम्बूलभक्षणं चैव दशम्यां परिवर्जयेत् ॥ ८१ ॥
मूलम्
अत्यन्तभोजनं चैव अत्यन्ताशनभोजनम्
ताम्बूलभक्षणं चैव दशम्यां परिवर्जयेत् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
दशम्यां यानि वस्तूनि निषिद्धानि द्विजोत्तम
द्वादश्यामपि तान्येव निषिद्धानि न संशयः ॥ ८२ ॥
मूलम्
दशम्यां यानि वस्तूनि निषिद्धानि द्विजोत्तम
द्वादश्यामपि तान्येव निषिद्धानि न संशयः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
दशम्यां विप्रशार्दूल द्वादश्यामपि वैष्णवः
सम्यग्व्रतफलप्रेप्सुर्न कुर्यान्निशि भोजनम् ॥ ८३ ॥
मूलम्
दशम्यां विप्रशार्दूल द्वादश्यामपि वैष्णवः
सम्यग्व्रतफलप्रेप्सुर्न कुर्यान्निशि भोजनम् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
अतो हविष्यं कृत्वा तु दशम्यां सत्वरो व्रती
अपराह्णे पुनः कुर्याद्विधिना दन्तधावनम् ॥ ८४ ॥
मूलम्
अतो हविष्यं कृत्वा तु दशम्यां सत्वरो व्रती
अपराह्णे पुनः कुर्याद्विधिना दन्तधावनम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
सायं देवालयं गत्वा गृहीत्वा कुसुमाञ्जलिम्
केशवं मनसा ध्मायन्मन्त्रमेतमुदीरयेत् ॥ ८५ ॥
मूलम्
सायं देवालयं गत्वा गृहीत्वा कुसुमाञ्जलिम्
केशवं मनसा ध्मायन्मन्त्रमेतमुदीरयेत् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
एतद्गृहीतं गोविन्द मया त्वत्पुरतो व्रतम्
सिद्धिं गच्छतु निर्विघ्नं तव पादानुकम्पया ॥ ८६ ॥
मूलम्
एतद्गृहीतं गोविन्द मया त्वत्पुरतो व्रतम्
सिद्धिं गच्छतु निर्विघ्नं तव पादानुकम्पया ॥ ८६ ॥
विश्वास-प्रस्तुतिः
अतिचञ्चलचित्तोऽहं लोभमोहमयो नरः
शक्नोम्येतद्व्रतं कर्तुं किं तवानुग्रहादृते ॥ ८७ ॥
मूलम्
अतिचञ्चलचित्तोऽहं लोभमोहमयो नरः
शक्नोम्येतद्व्रतं कर्तुं किं तवानुग्रहादृते ॥ ८७ ॥
विश्वास-प्रस्तुतिः
इमौ मन्त्रौ पठित्वा तु तमेव कुसुमाञ्जलिम्
दत्वा नारायणायाथ दण्डवत्प्रणमेद्भुवि ॥ ८८ ॥
मूलम्
इमौ मन्त्रौ पठित्वा तु तमेव कुसुमाञ्जलिम्
दत्वा नारायणायाथ दण्डवत्प्रणमेद्भुवि ॥ ८८ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नेव गृहे विष्णोर्विष्णुस्मरणतत्परः
कुशेन शय्यामास्तीर्य भूमौ शयनमाचरेत् ॥ ८९ ॥
मूलम्
तस्मिन्नेव गृहे विष्णोर्विष्णुस्मरणतत्परः
कुशेन शय्यामास्तीर्य भूमौ शयनमाचरेत् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
ततः प्रभाते विमले न कुर्याद्दन्तधावनम्
कल्लोलैर्मुखशुद्धिं तु कुर्याद्द्वादशभिर्बुधः ॥ ९० ॥
मूलम्
ततः प्रभाते विमले न कुर्याद्दन्तधावनम्
कल्लोलैर्मुखशुद्धिं तु कुर्याद्द्वादशभिर्बुधः ॥ ९० ॥
विश्वास-प्रस्तुतिः
नित्यक्रियां प्रकुर्वीत विष्णुपूजादिकक्रियाम्
ततो निशायां विप्रेन्द्र सकलैर्व्रतिभिर्जनैः ॥ ९१ ॥
मूलम्
नित्यक्रियां प्रकुर्वीत विष्णुपूजादिकक्रियाम्
ततो निशायां विप्रेन्द्र सकलैर्व्रतिभिर्जनैः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
एकत्र जागरं कुर्यात्पुरतो जगताम्पतेः
समातृकः सभार्यश्च सभ्राता सपिता तथा ॥ ९२ ॥
मूलम्
एकत्र जागरं कुर्यात्पुरतो जगताम्पतेः
समातृकः सभार्यश्च सभ्राता सपिता तथा ॥ ९२ ॥
विश्वास-प्रस्तुतिः
तथा सपुत्रमित्रश्च कुरुते जागरं हरेः
स तिष्ठेद्विष्णुभवने चिरं व्रतकरो द्विज ॥ ९३ ॥
मूलम्
तथा सपुत्रमित्रश्च कुरुते जागरं हरेः
स तिष्ठेद्विष्णुभवने चिरं व्रतकरो द्विज ॥ ९३ ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रादिकं चित्रं यो लिखेद्विष्णुमन्दिरे
बहुजन्मकृतं पापं हरेत्तस्य जनार्दनः ॥ ९४ ॥
मूलम्
शङ्खचक्रादिकं चित्रं यो लिखेद्विष्णुमन्दिरे
बहुजन्मकृतं पापं हरेत्तस्य जनार्दनः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
तण्डूलचूर्णपङ्केन विष्णोरायतनेषु च
अन्यैर्वन्यैश्च वा चित्रं लिखेत्तस्य फलं शृणु ॥ ९५ ॥
मूलम्
तण्डूलचूर्णपङ्केन विष्णोरायतनेषु च
अन्यैर्वन्यैश्च वा चित्रं लिखेत्तस्य फलं शृणु ॥ ९५ ॥
विश्वास-प्रस्तुतिः
पुत्रपौत्रप्रपौत्रैश्च भुङ्क्ते च सकलं शुभम्
शेषे विष्णुपुरं गत्वा तत्र मोक्षमवाप्नुयात् ॥ ९६ ॥
मूलम्
पुत्रपौत्रप्रपौत्रैश्च भुङ्क्ते च सकलं शुभम्
शेषे विष्णुपुरं गत्वा तत्र मोक्षमवाप्नुयात् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
वासरे कमलाभर्तुर्ध्वजारोपणकृन्नरः
उद्धृत्य कोटिपुरुषान्नारायणपुरं व्रजेत् ॥ ९७ ॥
मूलम्
वासरे कमलाभर्तुर्ध्वजारोपणकृन्नरः
उद्धृत्य कोटिपुरुषान्नारायणपुरं व्रजेत् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
पताकावल्लिभिर्युक्तं विष्णोरायतनं जनः
मण्डयत्यवनीपालः स लभेत्प्रतिजन्मनि ॥ ९८ ॥
मूलम्
पताकावल्लिभिर्युक्तं विष्णोरायतनं जनः
मण्डयत्यवनीपालः स लभेत्प्रतिजन्मनि ॥ ९८ ॥
विश्वास-प्रस्तुतिः
पताकाप्रचलन्ती च यावद्भवति वायुना
तत्कर्तुः पातकं सर्वं तावदेव विनश्यति ॥ ९९ ॥
मूलम्
पताकाप्रचलन्ती च यावद्भवति वायुना
तत्कर्तुः पातकं सर्वं तावदेव विनश्यति ॥ ९९ ॥
पताकावलयाः प्राज्ञैर्नानावर्णा हरेर्गृहे
स्थापितव्याः परं स्थानमिच्छद्भिर्हरिवासरे १०० 7.22.100
विष्णोः शिरसि यच्छत्रं धत्ते चारुतरं जनः
प्रतिजन्मनि विप्रर्षे क्षत्त्री भवति स क्षितौ १०१
वासरे वासुदेवस्य पुष्पमण्डपकृन्नरः
प्रतिपुष्पं लभेत्पुण्यं वाजिमेधशतोत्तरम् १०२
वासुदेवदिने पुष्पैः सुङ्गधैर्मण्डयन्बुधः
यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये १०३
यो वस्त्रगृहनिर्माणं कुरुते हरिवासरे
स सौधवासी विप्रर्षे भवति त्रिदशालये १०४
निर्माय वस्त्रभवनं तत्र बध्नाति मानवः
श्वेतं वा लोहितं वापि कृष्णं वासोऽच्युतप्रियः १०५
शालिग्रामशिलां तत्र प्रतिमां वा श्रियःपतेः
पञ्चामृतेन संस्नाप्य स्थापयेद्भक्तितो व्रती १०६
आदौ स्वस्त्ययनं कुर्यात्सङ्कल्पं च तथा बुधः
यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये १०७
भूतशुद्धिं निजां विप्र विधानं शास्त्रभाषितैः
ततश्चैकमना भूत्वा गृहीत्वा पुष्पमुत्तमम् १०८
ध्यायन्नारायणं देवं हृदयाम्भोजवासिनम्
आसीनं हेमपीठे च तथा मणिमयेऽपि च १०९
आसीनं हेमपीठे मणिमयज्वलनालङ्कृतं क्रीडवेशं बिभ्रल्ले
खोज्ज्वलाभ्रद्युतिरुचिरतनुं दीर्घदोर्भिश्चतुर्भिः
नित्यं विभ्राजमानं सकलकरलयैः सायुधैः पद्मनेत्रैः
पश्यन्तं श्रीमुखं तच्छ्रमनुदमनिशं तं भजेऽपाङ्गदृष्ट्या ११०
आगच्छ भगवन्देवसहितः श्रीपतेः प्रिय
कर्तव्या हि मया भक्त्या सपर्यास्मिन्व्रते तव १११
सर्वलक्षणसम्पन्न लक्ष्म्या सह जगद्गुरो
अस्मिन्वरासने तिष्ठ यावत्पूजां करोमि ते ११२
समस्तलोकविख्यात कीर्ते नारायणप्रभो
कच्चित्ते कुशलं सर्वं सर्वं वद सुरार्चित ११३
पाद्यं गृहाण देवेश नारायणसुवासितम्
पादद्वयरजोहारि पवित्रमतिशीतलम् ११४
अर्घ्यं ददामि ते विष्णो दूर्वापल्लवसंयुतम्
अखण्डतण्डुलोपेतं पुण्डरीकनिभेक्षण ११५
इदमाचमनीयं ते सुपवित्रं ददाम्यहम्
गृहाण परमानन्द परमानन्दवर्द्धनम् ११६
मया दत्तेन गन्धेन जरासन्धविनाशन
तवास्तु भूषितं गात्रं लक्ष्मीनाथ सुगन्धिना ११७
ददाम्यहं पवित्रार्थं जगतामादिकारकम्
इदमाचमनं देव तद्गृहाण सुरेश्वर ११८
सृष्टोऽयं विधिना पूर्वं देवानां तुष्टिवृद्धये
अतस्तुभ्यं सुरश्रेष्ठ धूपोऽयं दीयते मया ११९
तमसः स्तोमसंहर्ता घृतपूर्णो जनार्दन
तवास्तु प्रीतये देव एष दीपो जनार्दन १२०
सोत्तरीयमिदं वस्त्रं बस्तिश्रोणिसुशोभनम्
ददाम्यहं ते देवेश सोपवीतं जगद्गुरो १२१
अन्नं चतुर्विधं स्वादुरसैः षड्भिः समन्वितम्
मया निवेदितं भक्त्या गृहाण परमेश्वर १२२
मुखदुर्गन्धहरणं कर्पूरखदिरान्वितम्
गृहाण विष्णो ताम्बूलं कैवल्यद महामते १२३
विधिनानेन गोविन्दमुपहारैरनुत्तमैः
पूजयेत्संवृतो भक्त्या प्रहरेषु चतुर्ष्वपि १२४
नानोपहारान्हरये यो यच्छेद्धरिवासरे
वित्तशाठ्यं न कर्तव्यं कर्मणां फलमिच्छता १२५
ततस्तु व्रतिभिः सर्वैर्नारायणपरायणैः
निशि जागरणं कार्य्यं नृत्यगीतस्तवादिभिः १२६
प्रदक्षिणं द्विजश्रेष्ठ नामानि कमलापतेः
सर्वपापविनाशीनि स्मर्तव्यानि व्रते रतैः १२७
स्फुरन्तं प्रतिवक्त्रेभ्यो हरिनामध्वनिं जनाः
शृण्वन्ति ते विमुक्ताः स्युर्महद्भिः पापसञ्चयैः १२८
न पाखण्ण्डजनालापः कर्तव्यो हरिवासरे
पाखण्डालापमात्रेण सर्वधर्मो विनश्यति १२९
नारायणयशोगीतं प्रतिकण्ठं विनिःसृतम्
श्रुत्वा मूढा न तृप्यन्ति श्वानो वीणाक्वणं यथा १३०
सन्तो हर्षं समायान्ति श्रुत्वा गीतं जगत्पतेः
समस्तपापविध्वंसि वीणाक्वाणं यथा मृगाः १३१
गायन्तं हरिगीतानि नृत्यन्ति नृत्यमुत्तमम्
तृप्यन्ति व्रतिनो दृष्ट्वा तृप्यन्ति कमलापतेः १३२
व्रतिनो येन तृप्यन्ति विष्णोरायतने द्विज
प्रतिजन्मनि वै तेषां पशुता शाश्वती भवेत् १३३
न ये गीतानि गायन्ति व्रतिनो हरिवासरे
विहीना वचनैस्ते च भ्रमन्ति प्रतिजन्मनि १३४
मृदङ्गादीनि वाद्यानि कर्तव्यानि हरेः पुरः
यतो वाद्यैर्भवेत्तुष्टो भगवान्मधुसूदनः १३५
कुर्वन्ति जागरं विष्णोर्वेदाध्ययनमुत्तमम्
पुराणपठनं वापि कर्तव्यं वैष्णवैर्जनैः १३६
रामायणं भागवतं भारतं व्यासभाषितम्
अन्यानि च पुराणानि पाठ्यानि हरिवासरे १३७
ये पठन्ति पुरो विष्णोर्ये शृण्वन्ति हरेर्दिने
प्रत्यक्षरे लभन्ते ते कपिलादानजं फलम् १३८
निशि जागरणं कुर्यात्सानन्दो वैष्णवो जनः
जितनिद्रो भवेत्सम्यग्ध्यायते केशवं हृदा १३९
प्रदक्षिणाकारतया भूयोभूयो हरेर्द्दिने
निपत्य दण्डवद्भूमौ प्रणमेच्च जनार्द्दनम् १४०
ततः प्रभाते विमले कृतपञ्चमहाध्वरः
हरिं संस्नाप्य दुग्धेन पूजयेद्भक्तिमान्व्रती १४१
व्रतस्य दक्षिणां दद्यान्निजशक्त्या द्विजन्मने
ततस्तु द्वादशीमध्ये व्रती पारणमाचरेत् १४२
पारणं कुरुते यस्तु विलङ्घ्य द्वादशीतिथिम्
जन्मकोट्यर्जितं पुण्यं तस्य चैव विनश्यति १४३
द्वादशीतिथिमध्ये तु कर्तव्यं पारणं बुधैः
न कदाचित्त्रयोदश्यां व्रतस्य फलमिच्छुभिः १४४
उपवासदिने विप्र निशायामपि वैष्णवः
उपवासफलप्रेप्सुर्यत्नात्स्वापं विवर्जयेत् १४५
विना जागरणं नूनमुपवासो निरर्थकः
अतो जागरणं कार्य्यमुभयोरपि पक्षयोः १४६
एकादशीव्रतं येन विधिनानेन कुर्वते
सत्यं सत्यं द्विजश्रेष्ठ सर्वे ते मोक्षगामिनः १४७
जन्ममृत्युहरणैकनिदानं सेन्द्र देवनिकरैरपि कार्यम्
वासुदेवदिवसव्रतसारं जैमिने त्वमनिशं कुरु यत्नात् १४८
इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये द्वाविंशोऽध्यायः २२