व्यास उवाच-
विश्वास-प्रस्तुतिः
ब्रह्मणो वचनं श्रुत्वा हरिशर्मा द्विजोत्तमः
भूयोऽपि तं नमस्कृत्य भक्त्या प्राहेति जैमिने ॥ १ ॥
मूलम्

हरिशर्मोवाच-
प्रोक्तानि यानि दानानि सुखहूनि त्वया प्रभो
कस्मै देयानि दानानि तन्मे गदितुमर्हसि ॥ २ ॥

ब्रह्मोवाच-
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः
तस्मै देयानि दानानि भक्तिश्रद्धासमन्वितैः ॥ ३ ॥

सर्वदेवाश्रयो विप्रः प्रत्यक्षस्त्रिदशो भुवि
स तारयति दातारं दुस्तरे विश्वसागरे ॥ ४ ॥

ब्राह्मण उवाच-
सर्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम
तेषां मध्ये तु कः श्रेष्ठः कस्मै दानं प्रदीयते ॥ ५ ॥

सर्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि
स्तेयादिदोषतप्ता ये ब्राह्मणा ब्राह्मणोत्तम ॥ ६ ॥

अस्माकं द्वेषिणस्ते च परेभ्यो न कदाचन
अनाचारा द्विजाः पूज्या न च शूद्रा जितेन्द्रियाः
अभक्ष्यभक्षका गावो लोकानां मातरः स्मृताः ॥ ७ ॥

माहात्म्यं भूमिदेवानां विशेषादुच्यते मया
तव स्नेहाद्द्विजश्रेष्ठ निशामय समाहितः ॥ ८ ॥

क्षत्त्रियाणां च वैश्यानां शूद्राणां गुरवो द्विजाः
अन्योन्यं गुरवो विप्राः पूजनीयाश्च भूसुराः ॥ ९ ॥

ब्राह्मणं पूजयेद्यस्तु विष्णुबुद्ध्या नरोत्तम
आयुः पुत्रश्च कीर्तिश्च सम्पत्तिस्तस्य वर्द्धते ॥ १० ॥

सञ्चिनोति द्विजं यस्तु मूढधीर्मानवो भुवि
सुदर्शनेन तच्छीर्षं हन्तुमिच्छति केशवः ॥ ११ ॥

पुष्पहस्तं पयोहस्तं देवहस्तं च जैमिने
न नमेद्ब्राह्मणं प्राज्ञस्तैलाभ्यङ्गितविग्रहम् ॥ १२ ॥

जलस्थं देववेश्मस्थं ध्यानमज्जितचेतसम्
देवपूजां प्रकुर्वन्तं न नमेद्ब्राह्मणं बुधः ॥ १३ ॥

बहिष्क्रियां प्रकुर्वन्तं भुञ्जानं च द्विजोत्तम
तथा सामानि गायन्तं न नमेद्ब्राह्मणं बुधः ॥ १४ ॥

ब्राह्मणा यत्र तिष्ठन्ति बहबो द्विजसत्तम
प्रत्येकं तु नमस्कारस्तत्र कार्यो न धीमता ॥ १५ ॥

कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत्
स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदाचन ॥ १६ ॥

कृतप्रणामन्तनयन्नमेताम्पितरौनच
कृतप्रणामाः सर्वेऽपि नमस्कार्या द्विजैर्द्विजाः ॥ १७ ॥

कृतदोषान्द्विजान्गाश्च न द्विषन्ति विचक्षणाः
द्विषन्ति वापि मोहेन तेषां रुष्टः सदा हरिः ॥ १८ ॥

याचकान्ब्राह्मणान्यस्तु कोपदृष्ट्या प्रपश्यति
सूचीप्ररोपणं तस्य नेत्रयोः कुरुते यमः ॥ १९ ॥

विप्रनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्वते
तस्मिन्वक्त्रे यमस्तप्तं लोहदण्डं ददाति वै ॥ २० ॥

ब्राह्मणो यद्गृहं भुङ्क्ते तद्गृहे केशवः स्वयम्
देवताः सकला ये च पितरश्च सुरर्षयः ॥ २१ ॥

विप्रपादोदकं यस्तु कणमात्रं वहेद्बुधः
देहस्थं पातकं तस्य सर्वमेवाशु नश्यति ॥ २२ ॥

कोटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि वै
तीर्थानि तानि सर्वाणि विप्रपादे तु दक्षिणे ॥ २३ ॥

विप्रपादोदकैर्नित्यं सिक्तं स्याद्यस्य मस्तकम्
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ २४ ॥

सर्वपापानि घोराणि ब्रह्महत्यादिकानि च
सद्यस्तस्य विनश्यन्ति विप्रपादाम्बुधारणात् ॥ २५ ॥

क्षयाद्या व्याधयः सर्वाः परमक्लेशदायिकाः
गच्छन्ति विलयं सद्यो विप्रपादाम्बुधारणात् ॥ २६ ॥

पित्रर्थं यानि तोयानि दीयन्ते विप्रपादयोः
तैस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्रतारकम् ॥ २७ ॥

प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः
तेनार्चितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः ॥ २८ ॥

विप्राणां पादनिर्माल्यं यो मर्त्यः शिरसा वहेत्
सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती ॥ २९ ॥

विप्रं प्रदक्षिणीकृत्ये वन्दते यो नरोत्तमः
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ ३० ॥

यो दद्यात्फलताम्बूलं विप्राणां पादसेचनात्
रोगी रोगात्प्रमुच्येत पापी मुच्यत पातकात् ॥ ३१ ॥

मुच्यते बन्धनाद्बद्धो विप्राणां पादसेचने
अनपत्याश्च या नार्यो मृता पत्याश्च याः स्त्रियः ॥ ३२ ॥

बह्वपत्या जीववत्सा विप्रपादस्य सेचनात्
माहान्त्यं शृणु विप्रेन्द्र सर्वपापप्रणाशनम् ॥ ३३ ॥

द्विजाङ्घ्रिसेचनस्याहं समासेन ब्रवीमि ते
पूर्वं भद्रक्रियो नाम पवित्रकुलसम्भवः ॥ ३४ ॥

बभूव ब्राह्मणो विष्णोः परिचर्यापरायणः
वेदवित्सदयः शान्तः पितृभक्तिपरायणः ॥ ३५ ॥

अतिथीनां कृता पूजा ज्ञातिपूजाकरस्तथा
एकदा स द्विजश्रेष्ठस्तैलाभ्यङ्गितविग्रहः ॥ ३६ ॥

जगाम सरसीं स्नातुं गृहीतस्नानवस्त्रकः
कृतस्नानः स विप्रेन्द्रो विधिना तर्पणादिकम् ॥ ३७ ॥

चकार सर्वशास्त्रज्ञः सर्वलोकहिते रतः
समाप्य स्नानकर्माणि हरिनामानि कीर्तयन् ॥ ३८ ॥

आजगाम स्वके गेहे हरिपूजापरोऽभवत्
पादौ प्रक्षालयामास पानीयैरतिशीतलैः ॥ ३९ ॥

प्रक्षालिताङ्घ्रिहस्तोऽसौ ब्राह्मणो ब्राह्मणार्चकः
स्थापयामास सर्वाणि स्नानोपकरणानि च ॥ ४० ॥

द्वारदेशे द्विजश्रेष्ठ निदाघतपनातपैः
तापितो भषकः कश्चिदग्निकल्पैः समागतः ॥ ४१ ॥

विप्रपादोदके तस्मिन्प्रसुप्तोत्यन्तशीतले
विप्रपादोदकस्पर्शाद्भषक्तोऽत्यन्तपातकी ॥ ४२ ॥

विमुक्तः पातकैः सर्वैः कोटिजन्मकृतैरपि
स सुप्तो मन्दिरद्वारि भषको विकलस्तृषा ॥ ४३ ॥

पानीयं याचयामास ताडितो द्विजकिङ्करैः
जगाम पञ्चतां सद्यस्तत्रैव भषको द्विजः ॥ ४४ ॥

द्विजाङ्घ्रिसेचनस्पर्शाद्भषको वीतकल्मषः
तमालोक्य महात्मानं मूर्तिमन्तमिवेश्वरम् ॥ ४५ ॥

विनयावनतः प्राह ब्राह्मणोऽसौ तपोधनः
ब्राह्मण उवाच-
कस्त्वं ब्रूहि महाभाग केन दुःखी तु कर्मणा
भषकस्य कुले जातो नानादुःखसमाकुले ॥ ४६ ॥

वचनं तस्य विप्रर्षेः समाकर्ण्य महायशाः
कथयामास वृत्तान्तं मूलतः सर्वमात्मनः ॥ ४७ ॥

अहमासं सर्वभौमः शङ्खनामा महाबलः
चतुर्वर्षसहस्राणि महीं कृत्स्नामपालयम् ॥ ४८ ॥

मयाज्ञया कृताः सर्वे जिताश्च रिपवो युधि
दत्तानि सर्वदानानि पालिताज्ञा तयोनिजाः ॥ ४९ ॥

एकदाऽहं महाभागं सन्धितः स्मरसायकैः
बलाज्जनवधूं काञ्चिज्जहार भृशसुन्दरीम् ५० 7.21.50
तेन पापप्रभावेण मम श्रीः संशयं गता
ततस्समस्तैर्लोकैश्च निरस्तोऽहं महाबलः ॥ ५१ ॥

ततस्तु भ्रष्टराज्योऽहं काननाभ्यन्तरे स्थितः
क्षुधातृषापरिश्रान्तःकदाचित्पञ्चतां गतः ॥ ५२ ॥

अन्तकस्य पुरं गत्वा दुःखं भुक्तं मया चिरम्
तदाकर्ण्य विप्रेन्द्र शृण्वतां चित्तदुःखदम् ॥ ५३ ॥

सन्तप्तलोहशस्त्रायां तप्ता ताम्रमयीं महीम्
संरेमे प्रज्वलद्वह्निं शिखाततिसुभीषणाम् ॥ ५४ ॥

ततस्तु शमनादेशाल्लोहस्तम्भं सुभीषणम्
ज्वलता वह्निना तप्तं समालिङ्ग्य स्थितोऽस्म्यहम् ॥ ५५ ॥

शीते क्षुराम्बुधाराभिः सिक्तोऽहं यमकिङ्करैः
दुःखमन्यच्च सुमहद्भुक्तं तत्र यमालये ॥ ५६ ॥

ततो नरकशेषे च जन्मासाद्य मुहुर्मुहुः
पापयोनौ मया दुःखमनुभूतं चिरं महत् ॥ ५७ ॥

त्वत्पादजलसंसर्गान्मुक्तोऽहं पापरज्जुना
गच्छामि परमं धाम दुर्ल्लभं योगिनामपि ॥ ५८ ॥

त्वं मे गुरुर्द्विजश्रेष्ठ नमस्तेऽस्तु महात्मने
त्वत्प्रसादाद्विमुक्तोऽहं पापैर्यामि पुरं हरेः ॥ ५९ ॥

भद्रक्रिय उवाच-
पूर्वजन्मकथा राजन्मनुष्यो न कदाचन
अतस्तु तनयं त्यक्त्वा सर्वदा नीतिमाचरेत् ॥ ६० ॥

नीतिग्राही नृपो यस्तु विपत्तिर्नास्ति तस्य वै
चिरं भुनक्ति पृथिवीं कण्टकैः परिवर्जिताम् ॥ ६१ ॥

यस्मै न रोचते नीतिर्भूपालाय दुरात्मने
भ्रष्टश्रीरचिरेणापि स भवेन्नात्र संशयः ॥ ६२ ॥

आयुर्बलं यशो मित्रं विजयं सुखमिच्छता
मन्त्रिणः पण्डिता राज्ञा नियोज्याः सर्वदैव हि ॥ ६३ ॥

अवज्ञाय महीभर्तुस्त्यजन्ते सादरं बुधाः
सभायां बुधहीनायां नीतिर्बलवती नहि ॥ ६४ ॥

ततो नीतौ विनष्टायां सहसा धरणीपतेः
राजश्रियो विनश्यन्ति सकोशबलवाहनाः ॥ ६५ ॥

ब्राह्मणान्गणकांश्चैव वैद्यांश्च बान्धवांस्तथा
नृपाः कल्याणमिच्छन्ति न द्विषन्ति कदाचन ॥ ६६ ॥

गतश्रीर्गणकद्वेष्टा वैद्यद्वेष्टायुवर्जितः
ज्ञातिद्वेष्टानिष्कुलः स्याद्द्विजद्वेष्टाखिलार्तिभाक् ॥ ६७ ॥

राजानः पितरः प्रोक्ताः पुत्रा जानपदास्तथा
ततो भूपाः पालयन्ति प्रजाः पुत्रमिवौरसान् ॥ ६८ ॥

पौरलोके तथा कुर्याद्यथा स्नेहो निजात्मजे
प्रजापीडाकरा ये च भूपाला अतिपापिनः ॥ ६९ ॥

शिरःस्था विपदस्तेषां विज्ञेया दीर्घदर्शिभिः
विवेकिनो महीपालाः पालयन्ति यथा प्रजाः ॥ ७० ॥

तथा तानपि देवेशः पालयत्यनिशं हरिः
प्रजानां पालनं दण्डं द्वेऽपि राज्ञे शुभावहे ॥ ७१ ॥

द्वाभ्यां विवर्जिता भूपास्ते विज्ञेया नृपाधमाः
दुष्टानां शासनं चैव शिष्टानां प्रतिपालनम् ॥ ७२ ॥

प्रकुर्वन्तो महीपालाश्चिरं नन्दन्ति भूतले
न्यायेनोपार्जितं वित्तं यत्नाद्रक्षेन्महीपतिः ॥ ७३ ॥

दुर्वृत्तो हि महीपालो विपत्तौ न हि विस्तरेत्
नृपाः कल्याणमिच्छन्तो निजराज्यं शुभाशुभम् ॥ ७४ ॥

पश्यन्ति नित्यं विप्रेन्द्र सत्वराश्चारचक्षुषा
परचक्रभयं यावन्नायाति चिन्तयेद्भयम् ॥ ७५ ॥

आगते तु भये भूप आचरेन्निर्भयोऽपि च
ज्ञातौ वापि च मित्रे वा पुत्रे वापि च मन्त्रिणि ॥ ७६ ॥

कुर्यान्मुखेन गाम्भीर्यं मनसा प्रेमकेवलम्
मन्त्रिणो ज्ञातयः पुत्राः प्रजाश्च भ्रातरस्तथा ॥ ७७ ॥

गाम्भीर्यहीनं भूपालं मन्यन्ते नहि भूपवत्
तिष्ठन्ति प्रथमं दूरे न सन्ति पुरतस्तथा ॥ ७८ ॥

लोकाश्रयं न हीच्छन्ति त्यक्तगाम्भीर्यभूपतेः
एकश्च मन्त्री राजा वै चिरं राज्यत्वमिच्छता ॥ ७९ ॥

कर्तव्यः सकले राज्ये वृद्धये न हि भूसुर
अत्यन्तबुद्धिवृत्तीनां भृत्यानां सपदं हरेत् ॥ ८० ॥

तस्मात्संसदि भूपालो भृत्यमन्यं नियोजयेत्
मूर्खस्त्रीविजितो राजा गीतवाद्यरतः सदा ॥ ८१ ॥

तुरङ्गवाहनैर्हीनः सहसा विपदं व्रजेत्
आचारग्रहणं सत्यं स्ववाक्यप्रतिपालनम् ॥ ८२ ॥

गाम्भीर्यं चेति भूपानां लक्षणानि द्विजोत्तम
स कथं नृपतिर्यस्तु प्रतापेन विवर्जितः ॥ ८३ ॥

स कथं नृपतिर्येनाऽनिर्जिता परमेदिनी
जितायां परमेदिन्यां यावत्पादं व्रजेन्नृपः ॥ ८४ ॥

प्रतिपादेऽश्वमेधस्य फलं प्राप्नोति चाक्षयम्
परभूमिजयाकाङ्क्षी हतो नृपतिभिर्युधि ॥ ८५ ॥

तदागच्छेत्परं स्थानं विमुक्तः सर्वपातकैः
युधि प्राप्तजयो राजा प्राप्नोति परमं पदम् ॥ ८६ ॥

सङ्ग्रामे प्राप्तमृत्युर्वा दिवीन्द्र सम्पदं लभेत्
त्यक्तशस्त्रं त्यक्तसत्वं पलायनपरायणम् ॥ ८७ ॥

योद्धारं यदि यो हन्ति स भूपो यात्यधोगतिम्
पलायनपरो युद्धे तद्धन्ता च द्विजोत्तम ॥ ८८ ॥

तावुभावपि तिष्ठेतां नरकेऽत्यन्तदुःसहे
युद्ध्येत्साहसवान्योद्धा तद्धन्ता च द्विजोत्तम ॥ ८९ ॥

तिष्ठेतां तावपि स्वर्गे यावच्चन्द्र दिवाकरौ
बहुनात्र किमुक्तेन सङ्क्षेपादुच्यते मया ॥ ९० ॥

प्रजापालनकृद्राजा कदाचिन्नावसीदति
ब्रह्मोवाच-
इति ब्रुवति भूपाले तस्मिन्गलितकल्मषे ॥ ९१ ॥

पुष्पवृष्टिरभूत्तस्मिन्महती गगनाद्द्विज
अथ दूताः समायाताः केशवस्य महात्मनः ॥ ९२ ॥

राजहंसयुतं दिव्यं रथमादाय सुन्दरम्
रथं स तं समारुह्य दिव्यं कनकनिर्मितम् ॥ ९३ ॥

जगाम विष्णुभवनं स राजा गतकल्मषः
विप्रपादोदकस्यैतन्माहात्म्यं ते प्रकीर्तितम् ॥ ९४ ॥

तच्छ्रुत्वा भक्तिभावेन नरो निर्वाणमाप्नुयात्
इति ते कथितं सर्वं श्रोतुं यद्वाञ्छितं त्वया ॥ ९५ ॥

गच्छ ब्राह्मण भद्रं ते चक्रिणो निलयं प्रति
हरिशर्मोवाच-
क्षुधानलेन महता शरीरं मम दह्यते ॥ ९६ ॥

केनोपायेन भगवन्क्षुधाशान्तिर्भवेन्मम
एतन्मे वद देवेश भक्तस्त्वं भक्तवत्सलः ॥ ९७ ॥

प्राप्नोमि सुमहद्दुःखं नित्यं दग्धक्षुधानलैः
ब्रह्मोवाच-
यच्छरीरं त्वया पुष्टं सततं भोजनैः कृतम् ॥ ९८ ॥

भुङ्क्ष्व तस्य शरीरस्य मांसानि द्विजसत्तम
आत्मतृप्तिं प्रकुर्वन्ति भोजनेन परस्य ये
मांसानि स्वशरीराणां भुञ्जते तेपरत्र हि ॥ ९९ ॥

ब्रह्मणो वचनं श्रुत्वा निष्ठुरं द्विजसत्तमः
पुनस्तुष्टाव तं देवं वचनैः कोमलाक्षरैः १०० 7.21.100
ब्राह्मण उवाच-
प्रसीद देवदेवेश शरणागतपालक
क्षमस्व सकलं दोषं सुरश्रेष्ठ नमोऽस्तु ते १०१
मलमूलप्रकीर्णानि वपूंषि वहतां नृणाम्
सर्व एव प्रभो दोषाः सन्ति केचिद्गुणा न च १०२
कृतं मया मोहवता दूषणं क्षन्तुमर्हसि
शरणापन्नलोकानां सद्भिर्दोषो न चेक्ष्यते १०३
आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते
देहिनां वद यद्योग्यं सन्तुष्टिर्जायते यतः १०४
इत्येवमुक्तं वचनं भक्त्या तेनाग्रजन्मना
उवाच सदयो ब्रह्मा सर्वज्ञो ब्राह्मणप्रियः १०५
ब्रह्मोवाच-
शोकं मा कुरु विप्रेन्द्र शृणु मे वचनं शुभम्
आहारो लभते येन प्रकारेणात्र सम्प्रति १०६
आत्मनो जायते पुत्रो यथैवात्मा तथा सुतः
तस्मात्पुत्रकृतं कर्म लभन्ते पितरः खलु १०७
चिरं तिष्ठसि देवस्य भवनेऽत्यन्तशोभने
एवमुक्तस्ततस्तेन स विप्रः क्षुधयाकुलः १०८
स्वप्ने सन्दर्शनं दत्वा पुत्रं वचनमब्रवीत्
ब्राह्मण उवाच-
दीक्षितोऽसि सुतश्रेष्ठ तथास्तु परमां शिवम् १०९
तवास्मि जनकः सौम्य ममदुःखं निशामय
तपःप्रभावैः परमं धाम प्राप्तं मया सुत ११०
क्षुधानलेन सन्तप्तस्तत्र सीदाम्यहं सदा
यदा मयि पितृस्नेहस्तवास्ति सुत सम्प्रति १११
तदान्नमुदकं चापि मदर्थं दीयतां द्विज
यत्किञ्चिद्दीयते पुत्रैः पित्रर्थं क्षितिमण्डले ११२
लभन्ते पितरस्तच्च यत्पुत्राः पितृदेहजाः
पुरा परमया भक्त्या पूजितो भगवान्मया ११३
गीतैर्वाद्यैश्चनृत्यैश्च स्तवपाठैश्च शोभनैः
गन्धैर्धूपैश्च नैवेद्यैर्घृतपूर्णप्रदीपकैः ११४
पाद्यार्घ्याचमनीयैश्च ध्यानैरावाहनादिभिः
न दत्तं जगदीशाय कृपणेन मयात्मज ११५
अन्नमत्रमपि क्वापि नैवेद्यं पापहारिणे
अतिथेर्न कृता पूजा तोयैरन्यैः कदाचन ११६
ज्ञातीनां याचकानां च सन्तुष्टिर्न कृता मया
तेनैव कर्मणा पुत्र नारायणगृहेऽपि च ११७
क्षुधानलेन सन्तप्तः सीदामि प्रतिवासरे
अतोऽन्नतोयदानानि दरिद्राय द्विजातये ११८
दत्वा क्षिप्रं सुरश्रेष्ठ प्राणरक्षां कुरुष्व भोः
अथवा न करोषि त्वं निष्ठुरत्वाद्यदा भवान् ११९
स्वमांसान्येव भोक्ष्यामि तदा वै विष्णुमन्दिरे
अथाऽसौ क्षुधितो विप्रः शुष्ककण्ठोष्ठतालुकः १२०
इत्युक्त्वा दीक्षितं पुत्रमदृश्यः सहसाऽभवत्
ततः प्रभाते विमले प्रादुर्भूते दिवाकरे १२१
स्वप्ने यदुक्तं पित्रा तु चिन्तयामास दीक्षितः
आत्मनः कर्मदोषेण परलोकेऽपि मत्पिता १२२
क्षुधया दग्धसर्वाङ्गः सीदति प्रतिवासरम्
धिगस्तु मां मन्दधियं कृपणप्रवरञ्जनम् १२३
मयापि पितृपुण्येन न किञ्चिदपि दीयते
इति सञ्चिन्त्य बहुधा दीक्षितोऽपि द्विजोत्तम १२४
ददौ दानानि विप्रेभ्यः श्रद्धाभक्तिसमन्वितः
तेन पुण्यप्रभावेण तृषयारहितः क्षुधा १२५
तस्थौ नारायणागारे यावत्कालं शृणुष्व तत्
चतुर्युगसहस्राणि ब्रह्मणोऽहं प्रकीर्तितम् १२६
भवन्ति तस्मिन्नेवाह्नि मनवश्च चतुर्दश
इन्द्राश्चतुर्द्दश प्रोक्तास्तस्मिन्नेव दिने च ते १२७
भुञ्जते ब्राह्मणः श्रेष्ठ विषयान्स्वान्पृथक्पृथक्
एकस्मिन्ब्रह्मदिवसे भुक्त्वा स्वान्विषयाञ्छुभान् १२८
इन्द्राश्च मनवश्चैव विनश्यन्ति चतुर्दश
विष्णुलोके स्थिते तस्मिन्हरिशर्मातिभास्वरे १२९
समस्तसुखदे रम्ये ब्रह्मणो दिवसो गतः
तत्रासौ कालमेतावद्भुक्त्वा भोगान्मनोरमान् १३०
परमं ज्ञानमासाद्य प्रविवेश हरेस्तनुम्
व्यास उवाच-
अन्नतोयसमं दानं संसारे नास्ति जैमिने १३१
सर्वदानफलान्येव अन्नतोयप्रदानतः
न च पात्रपरीक्षा च न कालनियमः क्वचित् २३२
अन्नतोयप्रदानेषु निरुक्तस्तत्वदर्शिभिः
अन्नतोयप्रदानानि कर्तव्यानि सदैव हि १३३
एतत्पठन्ति मनुजाः परमादरेण माहात्म्यमन्नजलयोश्च तथा द्विजानाम्
ते प्राप्य चान्नजलदानफलं ततोंऽते नारायणस्य निलयं सुखदं प्रयान्ति १३४
इति श्रीपद्मपुराणे क्रियायोगसारे अन्नदानजलदानमाहात्म्यन्नाम एकविंशतितमोऽध्यायः २१