व्यास उवाच-
विश्वास-प्रस्तुतिः
विष्णुपूजाफलं विप्र सङ्क्षेपात्कथितं मया
इदानीं वच्मि दानानि निशामय समाहितः ॥ १ ॥
मूलम्
विष्णुपूजाफलं विप्र सङ्क्षेपात्कथितं मया
इदानीं वच्मि दानानि निशामय समाहितः ॥ १ ॥
विश्वास-प्रस्तुतिः
दानं तपो द्वयोर्मध्ये दानमेकं परं स्मृतम्
तपसा पापमित्युक्तं न पापो दानकर्मणि ॥ २ ॥
मूलम्
दानं तपो द्वयोर्मध्ये दानमेकं परं स्मृतम्
तपसा पापमित्युक्तं न पापो दानकर्मणि ॥ २ ॥
विश्वास-प्रस्तुतिः
तपः कृतयुगे श्रेष्ठं त्रेतायां ध्यानमेव च
सपर्या द्वापरे श्रेष्ठा दानं श्रेष्ठं कलौ युगे ॥ ३ ॥
मूलम्
तपः कृतयुगे श्रेष्ठं त्रेतायां ध्यानमेव च
सपर्या द्वापरे श्रेष्ठा दानं श्रेष्ठं कलौ युगे ॥ ३ ॥
विश्वास-प्रस्तुतिः
तस्मात्कलियुगे दानं प्रीतये कमलापतेः
कर्तव्यं सततं प्राज्ञैरिच्छद्भिः परमं पदम् ॥ ४ ॥
मूलम्
तस्मात्कलियुगे दानं प्रीतये कमलापतेः
कर्तव्यं सततं प्राज्ञैरिच्छद्भिः परमं पदम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
कलया कलया चन्द्र कलां संवर्द्धते तथा
दानस्य सा गतिः प्रोक्ता तपसश्च मनीषिभिः ॥ ५ ॥
मूलम्
कलया कलया चन्द्र कलां संवर्द्धते तथा
दानस्य सा गतिः प्रोक्ता तपसश्च मनीषिभिः ॥ ५ ॥
विश्वास-प्रस्तुतिः
पलादपि द्विजश्रेष्ठ कर्तव्यो वित्तसङ्ग्रहः
सञ्चितं तु धनं प्राज्ञो दानकर्मणि सङ्क्षिपेत् ॥ ६ ॥
मूलम्
पलादपि द्विजश्रेष्ठ कर्तव्यो वित्तसङ्ग्रहः
सञ्चितं तु धनं प्राज्ञो दानकर्मणि सङ्क्षिपेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
धने स्थितोपि यो मर्त्यो नाश्नाति न ददाति यः
दरिद्र सः च विज्ञेयो दानभोगविवर्जितः ॥ ७ ॥
मूलम्
धने स्थितोपि यो मर्त्यो नाश्नाति न ददाति यः
दरिद्र सः च विज्ञेयो दानभोगविवर्जितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
वित्तं केन सहायाति याति तेन तु को द्विज
आयाति तत्पुरा दत्तमिह पञ्चत्वमागते ॥ ८ ॥
मूलम्
वित्तं केन सहायाति याति तेन तु को द्विज
आयाति तत्पुरा दत्तमिह पञ्चत्वमागते ॥ ८ ॥
विश्वास-प्रस्तुतिः
दत्वा दत्वा सदा दानं मानवा ये दरिद्रति
न ते दरिद्रा विज्ञेयाः परलोके महेश्वराः ॥ ९ ॥
मूलम्
दत्वा दत्वा सदा दानं मानवा ये दरिद्रति
न ते दरिद्रा विज्ञेयाः परलोके महेश्वराः ॥ ९ ॥
विश्वास-प्रस्तुतिः
धनं रक्षन्ति कार्पण्याद्ये ते ज्ञेयाः सुदुःखिताः
अन्ते त्यक्त्वा च तत्सर्वं निराशा यान्ति जैमिने ॥ १० ॥
मूलम्
धनं रक्षन्ति कार्पण्याद्ये ते ज्ञेयाः सुदुःखिताः
अन्ते त्यक्त्वा च तत्सर्वं निराशा यान्ति जैमिने ॥ १० ॥
विश्वास-प्रस्तुतिः
परलोके द्विजश्रेष्ठः साधुसद्बलवर्जितः
निर्द्धने बन्धुहीने च नादत्तमुपतिष्ठते ॥ ११ ॥
मूलम्
परलोके द्विजश्रेष्ठः साधुसद्बलवर्जितः
निर्द्धने बन्धुहीने च नादत्तमुपतिष्ठते ॥ ११ ॥
विश्वास-प्रस्तुतिः
स्तोकं स्तोकं च विप्रेन्द्र भक्तिश्रद्धासमन्वितः
नित्यं देयानि दानानि वैष्णवैर्निजभक्तितः ॥ १२ ॥
मूलम्
स्तोकं स्तोकं च विप्रेन्द्र भक्तिश्रद्धासमन्वितः
नित्यं देयानि दानानि वैष्णवैर्निजभक्तितः ॥ १२ ॥
विश्वास-प्रस्तुतिः
सर्वेषामेव दानानामन्नदानं द्विजोत्तम
जलदानं च तत्वज्ञैरतिश्रेष्ठं प्रकीर्तितम् ॥ १३ ॥
मूलम्
सर्वेषामेव दानानामन्नदानं द्विजोत्तम
जलदानं च तत्वज्ञैरतिश्रेष्ठं प्रकीर्तितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
विनान्नेन न तिष्ठन्ति प्राणा देहेषु देहिनाम्
अन्नदः प्राणदो ज्ञेयः प्राणदः सकलप्रदः ॥ १४ ॥
मूलम्
विनान्नेन न तिष्ठन्ति प्राणा देहेषु देहिनाम्
अन्नदः प्राणदो ज्ञेयः प्राणदः सकलप्रदः ॥ १४ ॥
विश्वास-प्रस्तुतिः
तस्मात्समस्तदानानामन्नदो लभते फलम्
अन्नदानसमं दानं जलदानं च जैमिने ॥ १५ ॥
मूलम्
तस्मात्समस्तदानानामन्नदो लभते फलम्
अन्नदानसमं दानं जलदानं च जैमिने ॥ १५ ॥
विश्वास-प्रस्तुतिः
विना तोयेन नान्नं स्यादतस्तोयं प्रदीयते
क्षुधा तृषापि विप्रेन्द्र द्वे तुल्ये तु प्रकीर्तिते ॥ १६ ॥
मूलम्
विना तोयेन नान्नं स्यादतस्तोयं प्रदीयते
क्षुधा तृषापि विप्रेन्द्र द्वे तुल्ये तु प्रकीर्तिते ॥ १६ ॥
विश्वास-प्रस्तुतिः
तस्माद्दत्वा च तोयं च श्रेष्ठं प्रोक्तं मनीषिभिः
जीवनं जीवनं नॄणां जीवनं न च जीवनम् ॥ १७ ॥
मूलम्
तस्माद्दत्वा च तोयं च श्रेष्ठं प्रोक्तं मनीषिभिः
जीवनं जीवनं नॄणां जीवनं न च जीवनम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
अतो जीवनरक्षार्थं जीवनं प्राज्ञ उत्सृजेत्
अन्नं तोयं च विप्रेन्द्र दत्तं येन महीतले ॥ १८ ॥
मूलम्
अतो जीवनरक्षार्थं जीवनं प्राज्ञ उत्सृजेत्
अन्नं तोयं च विप्रेन्द्र दत्तं येन महीतले ॥ १८ ॥
विश्वास-प्रस्तुतिः
तेन सर्वाणि दानानि कृतानि नात्र संशयः
अन्नदानस्य माहात्म्यं जलदानस्य वै शृणु ॥ १९ ॥
मूलम्
तेन सर्वाणि दानानि कृतानि नात्र संशयः
अन्नदानस्य माहात्म्यं जलदानस्य वै शृणु ॥ १९ ॥
विश्वास-प्रस्तुतिः
बभूव हास्तिनपुरे कुबेर इव वित्तवान्
तस्मिन्नेव पुरे वेश्या बभूव सुरसुन्दरी ॥ २० ॥
मूलम्
बभूव हास्तिनपुरे कुबेर इव वित्तवान्
तस्मिन्नेव पुरे वेश्या बभूव सुरसुन्दरी ॥ २० ॥
विश्वास-प्रस्तुतिः
ख्याता रतिविदग्धेति सर्वलक्षणसंयुता
तत्र क्षेमङ्करी नाम ब्राह्मणी श्रेष्ठवंशजा ॥ २१ ॥
मूलम्
ख्याता रतिविदग्धेति सर्वलक्षणसंयुता
तत्र क्षेमङ्करी नाम ब्राह्मणी श्रेष्ठवंशजा ॥ २१ ॥
विश्वास-प्रस्तुतिः
समस्तगुणसम्पन्ना विधवासीद्द्विजात्मजा
सा ब्राह्मणी द्विजश्रेष्ठ जारानुरक्तमानसा ॥ २२ ॥
मूलम्
समस्तगुणसम्पन्ना विधवासीद्द्विजात्मजा
सा ब्राह्मणी द्विजश्रेष्ठ जारानुरक्तमानसा ॥ २२ ॥
विश्वास-प्रस्तुतिः
निषिद्धं कर्म कुर्वन्ती त्यक्त्वा यात्यविवेकताम्
तया सन्निहिता विप्र वेश्यापि ब्राह्मणी च सा ॥ २३ ॥
मूलम्
निषिद्धं कर्म कुर्वन्ती त्यक्त्वा यात्यविवेकताम्
तया सन्निहिता विप्र वेश्यापि ब्राह्मणी च सा ॥ २३ ॥
विश्वास-प्रस्तुतिः
चकार सख्यं स्नेहेन वेश्यावृत्तिमुपेत्य सा
सा वेश्या ब्राह्मणी चापि द्वेऽप्येकत्र दिने दिने ॥ २४ ॥
मूलम्
चकार सख्यं स्नेहेन वेश्यावृत्तिमुपेत्य सा
सा वेश्या ब्राह्मणी चापि द्वेऽप्येकत्र दिने दिने ॥ २४ ॥
विश्वास-प्रस्तुतिः
पापानि चक्रतुः प्रीत्या असङ्ख्यातानि जैमिने
ततो रतिविदग्धा सा वृद्धभावमुपागता ॥ २५ ॥
मूलम्
पापानि चक्रतुः प्रीत्या असङ्ख्यातानि जैमिने
ततो रतिविदग्धा सा वृद्धभावमुपागता ॥ २५ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणी चापि विप्रेन्द्र दुःशीलात्यन्तपापिनी
कदाचिद्वारमुख्या सा जरन्ती तां निजां सखीम् ॥ २६ ॥
मूलम्
ब्राह्मणी चापि विप्रेन्द्र दुःशीलात्यन्तपापिनी
कदाचिद्वारमुख्या सा जरन्ती तां निजां सखीम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
प्राहेति विस्मिता विप्र वचनं विनयान्विता
रतिविदग्धोवाच -
सखि त्वया सहानेकं दारुणं पातकं कृतम् ॥ २७ ॥
मूलम्
प्राहेति विस्मिता विप्र वचनं विनयान्विता
रतिविदग्धोवाच -
सखि त्वया सहानेकं दारुणं पातकं कृतम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
अद्यापि पातके दृष्टिर्महती वर्तते मम
सौन्दर्यं च बलं चैव सर्वं मे जरया हृतम् ॥ २८ ॥
मूलम्
अद्यापि पातके दृष्टिर्महती वर्तते मम
सौन्दर्यं च बलं चैव सर्वं मे जरया हृतम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
इत्थमस्वास्थ्यकृन्नित्यमाशां त्यक्तुं न शक्यते
स्थावरं सुमहत्प्राप्तं कृतपातकया मया ॥ २९ ॥
मूलम्
इत्थमस्वास्थ्यकृन्नित्यमाशां त्यक्तुं न शक्यते
स्थावरं सुमहत्प्राप्तं कृतपातकया मया ॥ २९ ॥
विश्वास-प्रस्तुतिः
समागतमिवैतर्हि समीक्ष्य मरणं गतम्
उपार्जितेन पापेन यानि वित्तानि वै मया ॥ ३० ॥
मूलम्
समागतमिवैतर्हि समीक्ष्य मरणं गतम्
उपार्जितेन पापेन यानि वित्तानि वै मया ॥ ३० ॥
विश्वास-प्रस्तुतिः
रक्षिष्यन्त्यनपत्यायां मृतायां मयि तानि के
तस्मात्सर्वाणि वित्तानि अन्यायोपार्जितानि च ॥ ३१ ॥
मूलम्
रक्षिष्यन्त्यनपत्यायां मृतायां मयि तानि के
तस्मात्सर्वाणि वित्तानि अन्यायोपार्जितानि च ॥ ३१ ॥
विश्वास-प्रस्तुतिः
दातुमिच्छामि विप्रेभ्यो यदि त्वं मन्यसे सखि
ब्राह्मण्युवाच-
मया यावन्ति वित्तानि पश्येति सञ्चितानि च ॥ ३२ ॥
मूलम्
दातुमिच्छामि विप्रेभ्यो यदि त्वं मन्यसे सखि
ब्राह्मण्युवाच-
मया यावन्ति वित्तानि पश्येति सञ्चितानि च ॥ ३२ ॥
विश्वास-प्रस्तुतिः
असत्पात्रेषु दत्तानि तानि सर्वाणि नित्यशः
तस्मादहं धनैर्हीना किं दास्यामि द्विजातये ॥ ३३ ॥
मूलम्
असत्पात्रेषु दत्तानि तानि सर्वाणि नित्यशः
तस्मादहं धनैर्हीना किं दास्यामि द्विजातये ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अस्ति चेद्यदि वित्तं ते दानमाशु तदा कुरु
तस्या एवं वचः श्रुत्वा सा वेश्यात्यन्तहर्षिता ॥ ३४ ॥
मूलम्
अस्ति चेद्यदि वित्तं ते दानमाशु तदा कुरु
तस्या एवं वचः श्रुत्वा सा वेश्यात्यन्तहर्षिता ॥ ३४ ॥
विश्वास-प्रस्तुतिः
वित्तेन सकलेनैव अन्नदानं चकार ह
हरिशर्मा च विप्रेन्द्रो धनवानतिभक्तितः ॥ ३५ ॥
मूलम्
वित्तेन सकलेनैव अन्नदानं चकार ह
हरिशर्मा च विप्रेन्द्रो धनवानतिभक्तितः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
पूजयामास सततं भगवन्तं जनार्दनम्
जितेन्द्रियो जितक्रोधो हिंसादम्भविवर्जितः ॥ ३६ ॥
मूलम्
पूजयामास सततं भगवन्तं जनार्दनम्
जितेन्द्रियो जितक्रोधो हिंसादम्भविवर्जितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्रीतये कमलाभर्तुः स तेपे सुमहत्तपः
गन्धपुष्पैश्च बलिभिर्घृतधूपैः प्रदीपकैः ॥ ३७ ॥
मूलम्
प्रीतये कमलाभर्तुः स तेपे सुमहत्तपः
गन्धपुष्पैश्च बलिभिर्घृतधूपैः प्रदीपकैः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
पूजयामास देवेशं नित्यमेव जनार्दनम्
धनवानपि विप्रोऽसौ वित्तस्य क्षयशङ्कितः ॥ ३८ ॥
मूलम्
पूजयामास देवेशं नित्यमेव जनार्दनम्
धनवानपि विप्रोऽसौ वित्तस्य क्षयशङ्कितः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पिपीलिकामूषिकाश्च तथान्येऽपि च जन्तवः
कृपणस्य द्विजश्रेष्ठ गृहे नित्यं बुभुक्षिताः ॥ ३९ ॥
मूलम्
पिपीलिकामूषिकाश्च तथान्येऽपि च जन्तवः
कृपणस्य द्विजश्रेष्ठ गृहे नित्यं बुभुक्षिताः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
उपार्जितं धनं सर्वं स्वयमेव दिनेदिने
बुभुजे ब्राह्मणश्रेष्ठ दानकर्मविवर्जितः ॥ ४० ॥
मूलम्
उपार्जितं धनं सर्वं स्वयमेव दिनेदिने
बुभुजे ब्राह्मणश्रेष्ठ दानकर्मविवर्जितः ॥ ४० ॥
विश्वास-प्रस्तुतिः
सुहृदां ब्राह्मणानां च बान्धवानां कदापि सः
चकार न च सम्भाषामर्थप्रार्थनशङ्कया ॥ ४१ ॥
मूलम्
सुहृदां ब्राह्मणानां च बान्धवानां कदापि सः
चकार न च सम्भाषामर्थप्रार्थनशङ्कया ॥ ४१ ॥
विश्वास-प्रस्तुतिः
विगणय्य स्ववित्तानि सुबहूनि निजालये
मत्वा श्रेष्ठमिवात्मानं मोदतेऽसौ द्विजोत्तम ॥ ४२ ॥
मूलम्
विगणय्य स्ववित्तानि सुबहूनि निजालये
मत्वा श्रेष्ठमिवात्मानं मोदतेऽसौ द्विजोत्तम ॥ ४२ ॥
विश्वास-प्रस्तुतिः
कदाचित्प्राप्तकालोऽसौ ब्राह्मणोऽत्यन्तवित्तवान्
गणिका ब्राह्मणी सा च एककाले मृता द्विज ॥ ४३ ॥
मूलम्
कदाचित्प्राप्तकालोऽसौ ब्राह्मणोऽत्यन्तवित्तवान्
गणिका ब्राह्मणी सा च एककाले मृता द्विज ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अथ दूताः समायातास्तान्नेतुमतिभीषणाः
धर्मराजस्य देवस्य पाशमुद्गरपाणयः ॥ ४४ ॥
मूलम्
अथ दूताः समायातास्तान्नेतुमतिभीषणाः
धर्मराजस्य देवस्य पाशमुद्गरपाणयः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ते च चण्डादयो दूतास्तान्समादाय जैमिने
ययुर्धर्मपुरं सद्यो दुर्गमेन पथा ततः ॥ ४५ ॥
मूलम्
ते च चण्डादयो दूतास्तान्समादाय जैमिने
ययुर्धर्मपुरं सद्यो दुर्गमेन पथा ततः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
चण्ड उवाच-
आनीतो हरिशर्मा च वेश्या च ब्राह्मणी च सा
तवाज्ञया जीवितेश पश्यैतान्पुरतः स्थितान् ॥ ४६ ॥
मूलम्
चण्ड उवाच-
आनीतो हरिशर्मा च वेश्या च ब्राह्मणी च सा
तवाज्ञया जीवितेश पश्यैतान्पुरतः स्थितान् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तान्समालोक्य जीवेशः प्रहस्य द्विजसत्तम
चित्रगुप्तमिति प्राह सर्वकार्यविचक्षणम् ॥ ४७ ॥
मूलम्
तान्समालोक्य जीवेशः प्रहस्य द्विजसत्तम
चित्रगुप्तमिति प्राह सर्वकार्यविचक्षणम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
यम उवाच-
एतेषां सर्वकार्याणि शुभदान्यशुभानि च
मूलाद्विचारय प्राज्ञ चित्रगुप्त महामते ॥ ४८ ॥
मूलम्
यम उवाच-
एतेषां सर्वकार्याणि शुभदान्यशुभानि च
मूलाद्विचारय प्राज्ञ चित्रगुप्त महामते ॥ ४८ ॥
विश्वास-प्रस्तुतिः
यमादेशात्ततस्तेषां चित्रगुप्तो विचक्षणः
सर्वं विचारयामास शुभकर्माशुभं तथा ॥ ४९ ॥
मूलम्
यमादेशात्ततस्तेषां चित्रगुप्तो विचक्षणः
सर्वं विचारयामास शुभकर्माशुभं तथा ॥ ४९ ॥
विश्वास-प्रस्तुतिः
चित्रगुप्त उवाच-
देवाकर्णय वक्ष्यामि पुण्यं च पातकं तथा
इयं वेश्या ब्राह्मणी च हरिशर्मा चकार यत् ५० 7.20.50
एषा रतिविदग्धाख्या गणिकाति दुराशया
चकार यानि पापानि वक्तुं तानि न शक्यते ॥ ५१ ॥

अन्यायोपार्जितैर्वित्तैरखिलैरेव सूर्यज
अन्नदानं चकारेयं गणिका गतयौवना ॥ ५२ ॥
मूलम्
अन्यायोपार्जितैर्वित्तैरखिलैरेव सूर्यज
अन्नदानं चकारेयं गणिका गतयौवना ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अन्नदानप्रभावेण यातनागृहवासदैः
त्यक्तेयं पातकैः सर्वैः कोटिजन्मार्जितैरपि ॥ ५३ ॥
मूलम्
अन्नदानप्रभावेण यातनागृहवासदैः
त्यक्तेयं पातकैः सर्वैः कोटिजन्मार्जितैरपि ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अन्नदानं महाराज ये कुर्वन्ति जनाः क्षितौ
ते पापिनोऽपि गच्छन्ति तद्विष्णोः परमं पदम् ॥ ५४ ॥
मूलम्
अन्नदानं महाराज ये कुर्वन्ति जनाः क्षितौ
ते पापिनोऽपि गच्छन्ति तद्विष्णोः परमं पदम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
यावन्त्यन्नानि यच्छन्ति मानवाः क्षितिमण्डले
तावन्त्यो ब्रह्महत्याश्च तस्य नश्यन्त्यसंशयः ॥ ५५ ॥
मूलम्
यावन्त्यन्नानि यच्छन्ति मानवाः क्षितिमण्डले
तावन्त्यो ब्रह्महत्याश्च तस्य नश्यन्त्यसंशयः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
अन्नानि यच्छतां त्यक्त्वा शरीराणि च पातकम्
गृह्णतामेव पात्राणि सहसा याति सूर्यज ॥ ५६ ॥
मूलम्
अन्नानि यच्छतां त्यक्त्वा शरीराणि च पातकम्
गृह्णतामेव पात्राणि सहसा याति सूर्यज ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तस्मात्पापिनामन्नानि न गृह्णन्ति विचक्षणाः
मोहाद्गृह्णन्ति ये मूढास्त एव पापभागिनः ॥ ५७ ॥
मूलम्
तस्मात्पापिनामन्नानि न गृह्णन्ति विचक्षणाः
मोहाद्गृह्णन्ति ये मूढास्त एव पापभागिनः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
शुभकर्माशुभं वापि वेश्यायाः कथितं प्रभो
ब्राह्मण्याः शृणु कर्माणि शुभानि चाशुभानि च ॥ ५८ ॥
मूलम्
शुभकर्माशुभं वापि वेश्यायाः कथितं प्रभो
ब्राह्मण्याः शृणु कर्माणि शुभानि चाशुभानि च ॥ ५८ ॥
विश्वास-प्रस्तुतिः
इयं क्षेमङ्करी नाम ब्राह्मणी शुद्धवंशजा
भद्रकीर्तिप्रिया सर्वं चकार दुरितं प्रभो ॥ ५९ ॥
मूलम्
इयं क्षेमङ्करी नाम ब्राह्मणी शुद्धवंशजा
भद्रकीर्तिप्रिया सर्वं चकार दुरितं प्रभो ॥ ५९ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा निजाश्रमाचारं निजयौवनगर्विता
बभूवात्यन्तपापिष्ठा जारसङ्गमलोलुपा ॥ ६० ॥
मूलम्
त्यक्त्वा निजाश्रमाचारं निजयौवनगर्विता
बभूवात्यन्तपापिष्ठा जारसङ्गमलोलुपा ॥ ६० ॥
विश्वास-प्रस्तुतिः
कदाचिच्छैशवे राजन्खेलन्ती शिशुभिः सह
रथ्यायां खननं चक्रे चतुष्कोणसमन्वितम् ॥ ६१ ॥
मूलम्
कदाचिच्छैशवे राजन्खेलन्ती शिशुभिः सह
रथ्यायां खननं चक्रे चतुष्कोणसमन्वितम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नेव दिने मेघ उदकानि ववर्ष च
पूरितं तज्जलैः खातं तया विनिर्मितं प्रभो ॥ ६२ ॥
मूलम्
तस्मिन्नेव दिने मेघ उदकानि ववर्ष च
पूरितं तज्जलैः खातं तया विनिर्मितं प्रभो ॥ ६२ ॥
विश्वास-प्रस्तुतिः
ततो मध्याह्नसमये गौरेकस्तृषितो नृप
अपिबत्तत्र पानीयं तापितस्तपनातपैः ॥ ६३ ॥
मूलम्
ततो मध्याह्नसमये गौरेकस्तृषितो नृप
अपिबत्तत्र पानीयं तापितस्तपनातपैः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तेनैव सर्वपापानि विनष्टानि महान्ति वै
तस्याः सूर्यसुत प्राज्ञ जलदानप्रभावतः ॥ ६४ ॥
मूलम्
तेनैव सर्वपापानि विनष्टानि महान्ति वै
तस्याः सूर्यसुत प्राज्ञ जलदानप्रभावतः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
विमुक्ताः सकलैः पापैर्व्रजेन्नारायणालयम्
कृतपापा हि देवेश ब्राह्मणीयं दुराशया ॥ ६५ ॥
मूलम्
विमुक्ताः सकलैः पापैर्व्रजेन्नारायणालयम्
कृतपापा हि देवेश ब्राह्मणीयं दुराशया ॥ ६५ ॥
विश्वास-प्रस्तुतिः
विमुक्ता सकलैः पापैर्जलदानप्रभावतः
अयं विप्रो महाभक्तो देवदेवस्य चक्रिणः ॥ ६६ ॥
मूलम्
विमुक्ता सकलैः पापैर्जलदानप्रभावतः
अयं विप्रो महाभक्तो देवदेवस्य चक्रिणः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
ततोऽस्योपरि जीवेश प्रभुरेकोऽच्युतः स्मृतः
व्यास उवाच-
चित्रगुप्तस्य तद्वाक्यं समाकर्ण्य स दण्डभृत् ॥ ६७ ॥
मूलम्
ततोऽस्योपरि जीवेश प्रभुरेकोऽच्युतः स्मृतः
व्यास उवाच-
चित्रगुप्तस्य तद्वाक्यं समाकर्ण्य स दण्डभृत् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तां वेश्यां ब्राह्मणीं चापि ववन्दे ब्राह्मणं च तम्
दिव्यैः सुवर्णालङ्कारैर्वस्त्रैर्नानाविधैस्तथा ॥ ६८ ॥
मूलम्
तां वेश्यां ब्राह्मणीं चापि ववन्दे ब्राह्मणं च तम्
दिव्यैः सुवर्णालङ्कारैर्वस्त्रैर्नानाविधैस्तथा ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तेषां पूजां यमः श्रुत्वा कुटुम्बिनां च जैमिने
उवाच प्रहसन्वाक्यं सुप्रीतो मृदुलाक्षरम् ॥ ८९ ॥
मूलम्
तेषां पूजां यमः श्रुत्वा कुटुम्बिनां च जैमिने
उवाच प्रहसन्वाक्यं सुप्रीतो मृदुलाक्षरम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
यम उवाच-
यूयं सर्वे महात्मानो विनष्टाखिलपातकाः
समस्तसुखदं स्थानं गच्छत श्रीपतेः प्रभोः ॥ ७० ॥
मूलम्
यम उवाच-
यूयं सर्वे महात्मानो विनष्टाखिलपातकाः
समस्तसुखदं स्थानं गच्छत श्रीपतेः प्रभोः ॥ ७० ॥
विश्वास-प्रस्तुतिः
तानारोप्य ततो दिव्ये यमः काञ्चननिर्मिते
राजहंसयुते स्थाने प्रेषयामास चक्रिणः ॥ ७१ ॥
मूलम्
तानारोप्य ततो दिव्ये यमः काञ्चननिर्मिते
राजहंसयुते स्थाने प्रेषयामास चक्रिणः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
ततो दिव्यरथारूढाः सर्वाभरणभूषिताः
पुरं भगवतो जग्मुस्ते सर्वे गतपातकाः ॥ ७२ ॥
मूलम्
ततो दिव्यरथारूढाः सर्वाभरणभूषिताः
पुरं भगवतो जग्मुस्ते सर्वे गतपातकाः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
गणिका ब्राह्मणी सा च विनष्टाखिलकल्मषा
सान्निध्यं प्राप्य देवस्य तस्थौ विप्र चिरं सुखम् ॥ ७३ ॥
मूलम्
गणिका ब्राह्मणी सा च विनष्टाखिलकल्मषा
सान्निध्यं प्राप्य देवस्य तस्थौ विप्र चिरं सुखम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
हरिशर्माणमालोक्य समायान्तं जनार्द्दनः
ददौ वरासनं तस्मै स्नेहात्कनकनिर्मितम् ॥ ७४ ॥
मूलम्
हरिशर्माणमालोक्य समायान्तं जनार्द्दनः
ददौ वरासनं तस्मै स्नेहात्कनकनिर्मितम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
पाद्यार्घ्याचमनीयैश्च तमभ्यर्च द्विजोत्तमम्
वरासनोपविष्टं च पप्रच्छेति मुदा हरिः ॥ ७५ ॥
मूलम्
पाद्यार्घ्याचमनीयैश्च तमभ्यर्च द्विजोत्तमम्
वरासनोपविष्टं च पप्रच्छेति मुदा हरिः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
द्विजन्म कुशलं ब्रूहि मद्भक्तप्रवरोऽसि यत्
चिरं मे मन्दिरं तिष्ठ सर्वोपद्रववर्जिते ॥ ७६ ॥
मूलम्
श्रीभगवानुवाच-
द्विजन्म कुशलं ब्रूहि मद्भक्तप्रवरोऽसि यत्
चिरं मे मन्दिरं तिष्ठ सर्वोपद्रववर्जिते ॥ ७६ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच-
त्वां स्मृत्वापीक्षितो देव लभते कुशलं प्रभो
त्वत्सान्निध्यं मया प्राप्तं कुशलं किमतः परम् ॥ ७७ ॥
मूलम्
ब्राह्मण उवाच-
त्वां स्मृत्वापीक्षितो देव लभते कुशलं प्रभो
त्वत्सान्निध्यं मया प्राप्तं कुशलं किमतः परम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
एतस्य वचनं श्रुत्वा भगवान्प्रणयोदितम्
दत्तवान्निजसारूप्यं प्रीतस्तस्मै द्विजन्मने ॥ ७८ ॥
मूलम्
व्यास उवाच-
एतस्य वचनं श्रुत्वा भगवान्प्रणयोदितम्
दत्तवान्निजसारूप्यं प्रीतस्तस्मै द्विजन्मने ॥ ७८ ॥
विश्वास-प्रस्तुतिः
ददौ तस्मै सुखं सर्वं दुर्ल्लभं कमलापतिः
आहारमात्रं न ददौ तत्कार्पण्यं स्मरन्प्रभुः ॥ ७९ ॥
मूलम्
ददौ तस्मै सुखं सर्वं दुर्ल्लभं कमलापतिः
आहारमात्रं न ददौ तत्कार्पण्यं स्मरन्प्रभुः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
दिनद्वयान्तरे विप्रो निराहारः क्षुधाकुलः
प्रोवाच विष्णुं देवेशं विनयावनतः स्थितः ॥ ८० ॥
मूलम्
दिनद्वयान्तरे विप्रो निराहारः क्षुधाकुलः
प्रोवाच विष्णुं देवेशं विनयावनतः स्थितः ॥ ८० ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच-
प्रभोप्राप्तन्तवस्थानमनेकतपसाम्फलैः
अत्रापि क्षुधया नित्यं विफलोऽस्मि कथं प्रभो ॥ ८१ ॥
मूलम्
ब्राह्मण उवाच-
प्रभोप्राप्तन्तवस्थानमनेकतपसाम्फलैः
अत्रापि क्षुधया नित्यं विफलोऽस्मि कथं प्रभो ॥ ८१ ॥
विश्वास-प्रस्तुतिः
देवकन्या गणैर्दिव्यैः सम्प्राप्तनवयौवनैः
श्वेतचामरवातेन मञ्चेष्वपि निवीजितः ॥ ८२ ॥
मूलम्
देवकन्या गणैर्दिव्यैः सम्प्राप्तनवयौवनैः
श्वेतचामरवातेन मञ्चेष्वपि निवीजितः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
सुगन्धानां प्रसूनानां महास्रग्भिरलङ्कृतः
चन्दनैर्लिप्तसर्वाङ्गो राजश्रेष्ठ इव प्रभो ॥ ८३ ॥
मूलम्
सुगन्धानां प्रसूनानां महास्रग्भिरलङ्कृतः
चन्दनैर्लिप्तसर्वाङ्गो राजश्रेष्ठ इव प्रभो ॥ ८३ ॥
विश्वास-प्रस्तुतिः
चार्वङ्गीभिः कामिनीभिर्नित्यं मत्पुरतः प्रभो
गीतेन नृत्यते चापि नारायण तवाज्ञया ॥ ८४ ॥
मूलम्
चार्वङ्गीभिः कामिनीभिर्नित्यं मत्पुरतः प्रभो
गीतेन नृत्यते चापि नारायण तवाज्ञया ॥ ८४ ॥
विश्वास-प्रस्तुतिः
वासवाद्याः सुराः सर्वे रजांसि मम पादयोः
शिरः किरीटशोभीनि नित्यमेव वहन्ति वै ॥ ८५ ॥
मूलम्
वासवाद्याः सुराः सर्वे रजांसि मम पादयोः
शिरः किरीटशोभीनि नित्यमेव वहन्ति वै ॥ ८५ ॥
विश्वास-प्रस्तुतिः
देवदेवर्षयश्चापि मुनयश्च जगत्पते
स्तुवन्ति मां स्तवैर्नित्यं किङ्करा इव सर्वदा ॥ ८६ ॥
मूलम्
देवदेवर्षयश्चापि मुनयश्च जगत्पते
स्तुवन्ति मां स्तवैर्नित्यं किङ्करा इव सर्वदा ॥ ८६ ॥
विश्वास-प्रस्तुतिः
चतुर्बाहुरहं श्यामः शङ्खचक्रगदाब्जभृत्
प्रफुल्लपुण्डरीकाक्षः पीतवासाः सुकुण्डलः ॥ ८७ ॥
मूलम्
चतुर्बाहुरहं श्यामः शङ्खचक्रगदाब्जभृत्
प्रफुल्लपुण्डरीकाक्षः पीतवासाः सुकुण्डलः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
स्वर्णयज्ञोपवीती च किरीटी कुण्डली तथा
दृश्ये त्वमिव देवाद्यैर्द्वितीयो गरुडध्वजः ॥ ८८ ॥
मूलम्
स्वर्णयज्ञोपवीती च किरीटी कुण्डली तथा
दृश्ये त्वमिव देवाद्यैर्द्वितीयो गरुडध्वजः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
सुखान्येतानि दत्तानि दुर्ल्लभानि त्वया प्रभो
ददासि कथमाहारं न मह्यं परमेश्वर ॥ ८९ ॥
मूलम्
सुखान्येतानि दत्तानि दुर्ल्लभानि त्वया प्रभो
ददासि कथमाहारं न मह्यं परमेश्वर ॥ ८९ ॥
विश्वास-प्रस्तुतिः
क्षुधाग्निना च सुमहच्छरीरं मम दह्यते
यथैव ज्वलितो वृक्षः कोटरस्थेन वह्निना ॥ ९० ॥
मूलम्
क्षुधाग्निना च सुमहच्छरीरं मम दह्यते
यथैव ज्वलितो वृक्षः कोटरस्थेन वह्निना ॥ ९० ॥
विश्वास-प्रस्तुतिः
सुखमेतत्त्वया दत्तं हरे मह्यं न रोचते
प्रज्वलज्जठराग्नौ तु विह्वलाङ्गाय केशव ॥ ९१ ॥
मूलम्
सुखमेतत्त्वया दत्तं हरे मह्यं न रोचते
प्रज्वलज्जठराग्नौ तु विह्वलाङ्गाय केशव ॥ ९१ ॥
विश्वास-प्रस्तुतिः
कर्मणा मनसा वाचा त्वां विना जगदीश्वरम्
न पूजितो मया कश्चिद्देवदेव गणार्चितः ॥ ९२ ॥
मूलम्
कर्मणा मनसा वाचा त्वां विना जगदीश्वरम्
न पूजितो मया कश्चिद्देवदेव गणार्चितः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
स्वप्नेनापि जगन्नाथ तस्य भक्तिः कृता नहि
आहारं केन दोषेण ददासि नहि मे प्रभो ॥ ९३ ॥
मूलम्
स्वप्नेनापि जगन्नाथ तस्य भक्तिः कृता नहि
आहारं केन दोषेण ददासि नहि मे प्रभो ॥ ९३ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
अथासौ भगवान्विष्णुः कौतुकी समुवाच तम्
गच्छ ब्राह्मण भद्रं ते ब्रह्माणं प्रति सत्वरम् ॥ ९४ ॥
मूलम्
व्यास उवाच-
अथासौ भगवान्विष्णुः कौतुकी समुवाच तम्
गच्छ ब्राह्मण भद्रं ते ब्रह्माणं प्रति सत्वरम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा वचो विप्रः शीघ्रं ब्रह्माणमाययौ
ब्रह्मा तं प्रति प्रोवाच कार्पण्यं तस्य दर्शयन् ॥ ९५ ॥
मूलम्
इति श्रुत्वा वचो विप्रः शीघ्रं ब्रह्माणमाययौ
ब्रह्मा तं प्रति प्रोवाच कार्पण्यं तस्य दर्शयन् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
दुःखादुपार्जितं कर्म दीयते यन्न भूसुरे
स्वयं न भुञ्जते तच्च नष्टमेव न संशयः ॥ ९६ ॥
मूलम्
ब्रह्मोवाच-
दुःखादुपार्जितं कर्म दीयते यन्न भूसुरे
स्वयं न भुञ्जते तच्च नष्टमेव न संशयः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
कारणं तव दुःखस्य सर्वमेव मयोदितम्
गच्छ ब्राह्मण भद्रं ते निःसन्देहोयमागतः ॥ ९७ ॥
मूलम्
कारणं तव दुःखस्य सर्वमेव मयोदितम्
गच्छ ब्राह्मण भद्रं ते निःसन्देहोयमागतः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच-
निजकर्मविपाकोऽयं त्वत्प्रसादाच्छ्रुतोऽखिलः
इदानीं ब्रूहि दानानि कानि देयानि मानवैः ॥ ९८ ॥
मूलम्
ब्राह्मण उवाच-
निजकर्मविपाकोऽयं त्वत्प्रसादाच्छ्रुतोऽखिलः
इदानीं ब्रूहि दानानि कानि देयानि मानवैः ॥ ९८ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
बहूनि सन्ति दानानि तानि वक्तुं न शक्यते
सङ्क्षेपात्कथ्यते विप्र निशामय समाहितः ॥ ९९ ॥
मूलम्
ब्रह्मोवाच-
बहूनि सन्ति दानानि तानि वक्तुं न शक्यते
सङ्क्षेपात्कथ्यते विप्र निशामय समाहितः ॥ ९९ ॥
भूमिदानं द्विजश्रेष्ठ सर्वदानोत्तमोत्तमम्
कृतं पुण्यात्मना येन स ज्ञेयः सर्वदानकृत् १०० 7.20.100
गोचर्ममात्रं भूमिं यो ददाति द्विजसत्तम
स गच्छेत्परमं स्थानं विमुक्तः सर्वपातकैः १०१
भूमिं सस्यसमेतां यो दरिद्राय द्विजातये
ददाति ब्राह्मणश्रेष्ठ तस्य पुण्यं निशामय १०२
सर्वपापविनिर्मुक्तो नारायणपुरं व्रजेत्
तत्र भुङ्क्ते सुखं सर्वं यावदिन्द्राश्चतुर्दश १०३
भूयो भूमिं समासाद्य सार्वभौमो नृपो भवेत्
चिरं भुक्त्वा महीं कृत्स्नां नरो नारायणो भवेत् १०४
यस्माद्भूमिर्द्विजैर्ग्राह्या त्यक्त्वा दानशतान्यपि
भूमिदो भूमिनेता च द्वावपि स्वर्गगामिनौ १०५
मन्दबुर्द्धिर्द्विजो यस्तु भूमिदानं परित्यजेत्
प्रतिजन्मनि विप्रेन्द्र स भवेदतिदुःखितः १०६
अन्येभ्योऽपि समादाय भूमिदानं य आचरेत्
तस्य विष्णुरति प्रीतो ददाति परमं पदम् १०७
ग्रामं यच्छति यो विप्र दरिद्राय द्विजातये
दापयत्यपि वा तस्य पुण्यं वापि निशामय १०८
यावन्तो रेणवो भूमौ यावन्तो वृष्टिबिन्दवः
मन्वन्तराणि तावन्ति विष्णुलोके वसेत्सुधीः १०९
धेनुं पयस्विनीं यस्तु सवत्सां यच्छति द्विज
तस्य ब्रवीम्यहं पुण्यमाकर्णय महात्मनः ११०
सप्तद्वीपां महीं दत्वा ससस्यां यत्फलं लभेत्
तत्फलं लभते मर्त्यो धेनुं यच्छन्द्विजातये १११
ददाति वृषभं यस्तु ब्राह्मणाय कुटुम्बिने
विमुक्तः पातकै रुद्रै रुद्रलोकं स गच्छति ११२
तस्य यावन्ति रोमाणि शरीरे वृषभस्य च
तावत्कल्पसहस्राणि रुद्रेण सह मोदते ११३
यस्तु वेदविदे धेनुं दद्यादुभयतोमुखीम्
न तस्य पुनरावृत्ती रुद्रलोकात्कदाचन ११४
वृषं तिलसमायुक्तं कृष्णं यस्तु प्रयच्छति
स रुद्रभवने तिष्ठेद्द्विजेन्द्र तिलसङ्ख्यया ११५
तिलप्रमाणमपि च स्वर्णं दद्याद्द्विजातये
स याति विष्णुभवनं कुलकोटिसमन्वितः ११६
यो भक्त्या रजतं यच्छेद्दरिद्राय द्विजातये
चन्द्रलोकं समासाद्य सुधापानं करोति सः ११७
हीरकं मौक्तिकं चापि प्रवालं च मणिं तथा
यो ददाति द्विजश्रेष्ठ शक्रलोकं स गच्छति ११८
अश्वदानं द्विजश्रेष्ठ यः करोति महाशयः
गन्धर्वराजराजत्वं स प्राप्नोति न संशयः ११९
ददाति वारणं यस्तु युवानं दोषवर्जितम्
देवराज्ये विभागी स भवेदिन्द्र इव द्विज १२०
नरदोलां च यो दद्याद्ब्राह्मणाय सदक्षिणाम्
सोऽपीन्द्रपदमासाद्य वसेत्कल्पचतुष्टयम् १२१
शालिग्रामशिलादानं यो ददाति द्विजातये
तस्य पुण्यं प्रवक्ष्यामि समासेन शृणु द्विज १२२
सप्तद्वीपां महीं दत्वा सशैलवनकाननाम्
यत्फलं तच्च लभते शालग्रामशिलाप्रदः १२३
तुलापुरुषदानेन यत्फलं प्राप्यते नरैः
शालग्रामशिलां यच्छंस्तस्मात्कोटिगुणं लभेत् १२४
शालग्रामशिला येन प्रदत्ता द्विजसत्तम
नूनं तेन प्रदत्तानि भुवनानि चतुर्दश १२५
तुलापुरुषदानं यः प्रकरोति नरोत्तम
दिवि दिव्याम्बरधरश्चिरं स च महीपतिः १२६
जननीजठरे भूयस्तस्य जन्म न विद्यते
ददाति यस्तु वै कन्यां सालङ्कारां नरोत्तमः १२७
स गच्छेद्विष्णुभवनं पुनरावृत्तिवर्जितः
यः कन्याविक्रयं मूढो मोहात्प्रकुरुते नरः १२८
स गच्छेन्नरकं घोरं पुरीषह्रदसञ्ज्ञकम्
विक्रीतायाश्च कन्याया यः पुत्रो जायते द्विज १२९
स चाण्डाल इव ज्ञेयः सर्वधर्मबहिष्कृतः
कन्याविक्रयिणः पुंसो मुखं पश्येन्न शास्त्रवित् १३०
पश्येदज्ञानतो वापि कुर्याद्भास्करदर्शनम्
यत्किञ्चित्क्रियते कर्म कन्याविक्रयिणः पुरः १३१
शुभं तत्सकलं कर्म गच्छेद्विफलतां द्विज
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः १३२
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः
बहुनात्र किमुक्तेन सङ्क्षेपेण ब्रवीमि ते १३३
हीरकक्षितिकन्यानां फलं स्याच्च शताधिकम्
उपानहं चातपत्रं यस्तु यच्छति भूतले १३४
शृणु तस्य तु वै पुण्यं सङ्क्षेपेण ब्रवीमि ते
इह वर्षशतं जीवेत्सर्वसम्पत्समन्वितः १३५
मृतः शक्रपुरं प्राप्य शतकल्पचतुष्टयम्
ददाति नूतनं वस्त्रं स याति परमां गतिम् १३६
वस्त्रं पुरातनं यच्छेद्धेनुं च रजतीं तथा
कन्यां रजस्वलां यस्तु स सदा नरकं व्रजेत् १३७
फलदो मानवो विप्र गच्छति त्रिदशालयम्
भुङ्क्ते कल्पसहस्राणि फलं तत्रामृतोपमम् १३८
शाकप्रदो याति विप्र शम्भोर्भगवतः पदम्
तत्र कल्पद्वयं भुङ्क्ते पायसं दुर्ल्लभं सुरैः १३९
दुग्धदो दधिदश्चैव घृतदस्तक्रदस्तथा
प्राप्नोति वै सुधापानं पुरो भगवतो हरेः १४०
पुष्पदो मनुजो विप्र गन्धदश्च सुरालयम्
तिष्ठेद्युगसहस्राणि पुष्पगन्धविभूषितः १४१
शय्यादानं द्विजश्रेष्ठ यः करोति द्विजोत्तम
स ब्रह्मलोकमागत्य पर्यङ्कशयनश्चिरम् १४२
दीपदः पीठदश्चैव सर्वपापविवर्जितः
दिव्यसिंहासनस्थश्च जलदीपावलीवृतः १४३
ताम्बूलदो नरो राजन्भुवि भुङ्क्तेऽखिलं शुभम्
दिवि देवाङ्गनाक्रोडे सुप्तस्ताम्बूलमत्ति वै १४४
विद्यादानं द्विजश्रेष्ठ यः करोति नरोत्तम
सम्प्राप्य सन्निधिं विष्णोस्तिष्ठेद्युगशतद्वयम् १४५
ततो ज्ञानं समासाद्य तत्रैव द्विजसत्तम
प्राप्नोति दुर्ल्लभं मोक्षं प्रसादात्कमलापतेः १४६
अनाथं ब्राह्मणं यस्तु पाठयत्यतिदुःखितम्
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् १४७
कुलीनोऽपि द्विजश्रेष्ठो न भाति विद्यया विना
तस्माद्दिवजं पाठयन्तः प्रयान्ति परमं पदम् १४८
भुवि प्रत्यक्षदेवोऽपि ब्राह्मणो देवताश्रयः
सर्ववर्णगुरुर्नैव विद्याहीनो विराजते १४९
संसारे यानि दानानि सन्ति हेमादिकानि च
तानि तेन प्रदत्तानि ब्राह्मणो येन पाठितः १५० 7.20.150
कुर्यात्पुस्तकदानं यो नरो भक्तिसमन्वितः
तस्य पुण्यं द्विजश्रेष्ठ सङ्क्षेपात्ते वदाम्यहम् १५१
तत्राक्षराणि यावन्ति पत्रे पत्रे च पुस्तके
प्रत्यक्षरे लभेत्पुण्यं कपिलाकोटिदानजम् १५२
यावद्दिनं पुस्तकं तत्प्रपठन्ति द्विजातयः
तावन्मन्वन्तरं तिष्ठेद्वैकुण्ठे पुस्तकप्रदः १५३
एवमादीन्यनेकानि सन्ति दानानि भूसुर
सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो द्विशतैरपि १५४
ब्रह्महत्यादि पापानि क्रियन्ते यानि मानवैः
हन्यन्ते तानि पापानि तस्माद्दानं समाचरेत् १५५
आत्मपुण्येन यद्दानं दीयते च त्रिभिर्जनैः
यावद्द्रव्यं फलं तस्मात्तस्य दानस्य लभ्यते १५६
प्रीतये कमलाभर्तुर्यद्दानं दीयते जनैः
तस्यकोटिगुणं पुण्यं लभते नात्र संशयः १५७
तस्मान्नारायणप्रीतिहेतवे मतिमान्नरः
दानं समाचरेद्विप्र भक्तिकर्मसमन्वितः १५८
तपसोऽपि परं दानं निरुक्तं तत्वदर्शिभिः
अतो यत्नादपि प्राज्ञो दानकर्मसमाचरेत् १५९
दानं तपो द्वे अपि यः प्रकरोति नरोत्तमः
तस्य तुल्यो जगत्यस्मिन्विद्यते न हि भूसुर १६०
इति श्रीपद्मपुराणे क्रियायोगसारे सर्वदानमाहात्म्यन्नाम विंशोऽध्यायः २०