०१९

व्यास उवाच-

विश्वास-प्रस्तुतिः

नारायणप्रपन्ना ये नराभक्तिसमन्विताः
कदाचिदशुभं तेषां विद्यते न द्विजोत्तम ॥ १ ॥

मूलम्

पुनरेव प्रवक्ष्यामि माहात्म्यं कमलापतेः
यच्छ्रुत्वा मानवाः सर्वे लभन्ते परमं पदम् ॥ २ ॥

वासुदेवस्य माहात्म्यं श्रुत्वा तृप्यन्ति वैष्णवाः
पाखण्डा न हि तृप्यन्ति नरके क्लेशभागिनः ॥ ३ ॥

पाखण्डानां समीपे तु विष्णुमाहात्म्यमुत्तमम्
न वक्तव्यं द्विजश्रेष्ठ वक्तव्यं वैष्णवाग्रतः ॥ ४ ॥

पूर्वं त्रेतायुगे विप्र उर्वीशुर्नाम जैमिने
आसीत्पापरतो नित्यं धर्मनिन्दापरायणः ॥ ५ ॥

ब्रह्मस्वहारी विप्रेन्द्र परस्त्रीगमनोद्यतः
गोमांसाशी सुरापी च वेश्याविभ्रमलोलुपः ॥ ६ ॥

शरणागतहन्ता च परनिन्दाकरः सदा
विश्वासघाती मित्रघ्नो ज्ञातिपीडाकरस्तथा ॥ ७ ॥

असत्यभाषी क्रूरश्च पाखण्डजनसङ्गभाक्
वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा ॥ ८ ॥

तादृशं तं समालोक्य दुष्टं पापपरायणम्
आजग्मुर्ज्ञातयः सर्वे क्रुद्धास्तस्य निजङ्गृहम् ॥ ९ ॥

ज्ञातय ऊचुः -
प्रतिष्ठोपार्जिता पूर्वैरस्माकं विमले कुले
सा प्रतिष्ठा त्वया मूढ विनाशं प्रतिनीयते ॥ १० ॥

धर्ममार्गं परित्यज्य कुरुषे पातकं सदा
मद्वंशकीर्तिहननं जातोऽसि ज्ञातिदुःखदः ॥ ११ ॥

अतिविस्मयदा सृष्टिर्विधातुर्मन्यते त्वयि
यस्मिन्सिन्धौ शशी जातस्तत्र क्ष्वेडोद्भवोऽपि च ॥ १२ ॥

अहो शक्तिः कुपुत्राणां सङ्ख्यातुं न च शक्यते
अनेकैः पुरुषैः कीर्तिं सञ्चितां हन्ति तत्क्षणात् ॥ १३ ॥

जाते पुत्रोत्तमे वंशः श्रेष्ठः स्यादधमोऽपि च
पुत्रेधमेतु श्रेष्ठोऽपि वंशो गच्छति हीनताम् ॥ १४ ॥

इत्युक्त्वा ज्ञातयस्ते च तं सर्वे पापिनां वरम्
अपकीर्तिभयात्क्रुद्धास्तत्यजुः सहसा द्विज ॥ १५ ॥

ज्ञातिभिः स परित्यक्तो जनैः सर्वैश्च धिक्कृतः
प्रपेदे दस्युतां दुःखी विभ्रष्टाखिलवैभवः ॥ १६ ॥

तं दस्युकर्मकुर्वन्तं निर्द्दयं परहिंसकम्
धृत्वा जनपदाः सर्वे भूपालाय न्यवेदयन् ॥ १७ ॥

तेन भूमिभुजा तस्य पितृस्नेहाद्दिवजोत्तम
न हतोऽसौ दुराचारो निजदेशाद्वहिष्कृतः ॥ १८ ॥

ततोऽसौ वनमाश्रित्य दस्युभिः सह निर्द्दयः
पान्थस्वहरणार्थाय तस्थौ बहुभिरुद्धतैः ॥ १९ ॥

कदाचित्तटिनीतीरं दस्युभिः सह जैमिने
वनपर्यटने श्रान्तो जगाम स्नानहेतवे ॥ २० ॥

तस्यां तटिन्यां भगवत्परिचर्यापरायणान्
असौ ददर्श दुष्टात्मा ब्राह्मणाकृतिनो बहून् ॥ २१ ॥

अथ ते ब्राह्मणाः सर्वे समाराध्य जनार्दनम्
अन्योन्यं कथयामासुर्विहिता अति कौतुकात् ॥ २२ ॥

अद्य चम्पकपुष्पाणि मया त्यक्तानि तानि वै
कश्चिद्वदति ताम्बूलं मया दत्तं मुरारये ॥ २३ ॥

न खादितव्यं ताम्बूलं कदाचिदपि जन्मनि
मयाद्य हरये दत्तं कदलीफलमुत्तमम् ॥ २४ ॥

मूलम्

न खादितव्यं ताम्बूलं कदाचिदपि जन्मनि
मयाद्य हरये दत्तं कदलीफलमुत्तमम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

जन्मजन्मानि च मया भक्ष्यं च कदलीफलम्
कोऽपि वक्ति मया दत्तं हरये दाडिमीफलम् ॥ २५ ॥

कोऽपि वक्ति मया दत्तं रसालफलमुत्तमम्
अन्योऽन्यमेतद्वदतां तेषां श्रुत्वा वचांसि च ॥ २६ ॥

उर्वीशुश्चिन्तयामास किं प्रदास्यामि विष्णवे
संसारे यानि वस्तूनि भक्ष्याणि सन्ति तान्यहम् ॥ २७ ॥

न हि शक्नोमि सन्त्यक्तुं किं दास्यामि मुरारये
नित्यं वनान्तरस्थोऽहं चौरो राजभयाकुलः ॥ २८ ॥

शकटारोहणे नास्ति ह्यधिकारः कदापि मे
व्यास उवाच-
इत्युक्त्वा दस्युना तेन भूयोभूयो द्विजोत्तम ॥ २९ ॥

शकटं हरये दत्तं चतुर्वर्गप्रदायिने
अथ तेब्राह्मणाः सर्वे जग्मुर्विप्र यथागताः ॥ ३० ॥

सोऽपि दस्युर्दस्युभिश्च जगाम निजमाश्रयम्
एकदा गुडकण्डोलं तेनैव खलु वर्त्मना ॥ ३१ ॥

गृहीत्वा पथिकः कश्चित्काकीमण्डलमागतः
ततोऽसौ सहसा दस्युर्निर्भयः परहिंसकः ॥ ३२ ॥

जहार गुडकण्डोलमध्वनीनस्य तस्य च
अथ ते दस्यवश्चक्रुर्गुडकण्डोल भञ्जनम् ॥ ३३ ॥

उर्वीशुश्चापतद्भागे शकटं गुडनिर्मितम्
उर्वीशुः शकटं गौडं समासाद्य द्विजोत्तम ॥ ३४ ॥

मनसा चिन्तयामास वचःस्मरणपूर्वकम्
अनो मया पुरा दत्तं स्वयमेव मुरारये ॥ ३५ ॥

तस्मादनो न मे ग्राह्यं कदाचिदिह जन्मनि
विचिन्त्येति हृदा दातुं तदनो गुडनिर्मितम् ॥ ३६ ॥

दत्तं विप्राय कस्मैचिन्माधवप्रीतिहेतवे
तां भक्तिं तस्य विज्ञाय महापातकिनो द्विज ॥ ३७ ॥

जहार सकलं पापं सद्यः प्रीतो जनार्दनः
तस्मिन्नेव दिने विप्र प्रविश्य च महावनम् ॥ ३८ ॥

हतः पौरजनैः सर्वैरथ क्रुद्धैः स उर्विशुः
भगवानथ तं नेतुं विमानं स्वर्णनिर्मितम् ॥ ३९ ॥

दूतांश्च प्रेषयामास नानाभरणभूषितान्
अथ ते भगवद्दूतास्तमुर्वीशुं गतैनसम् ॥ ४० ॥

समारोप्य विमाने तं सद्यो जग्मुः पुरं हरेः
ततौऽसौ हरिसान्निध्यं प्राप्य पुण्यात्मनां वरः ॥ ४१ ॥

पुनर्मन्वन्तरशतं स्थित्वा केशवसन्निधिम्
परमं ज्ञानमासाद्य स विवेश तनुं हरेः ॥ ४२ ॥

येन केनाप्युपायेन हरिभक्तिकरो नरः
संसारजलधेः पारं राजहंस इव व्रजन् ॥ ४३ ॥

मूलम्

व्यास उवाच-
येन केनाप्युपायेन हरिभक्तिकरो नरः
संसारजलधेः पारं राजहंस इव व्रजन् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

क्षणमेव हरेर्भक्तिर्वर्तते यस्य चेतसि
तत्पदं परमं याति स पापात्मापि गच्छति ॥ ४४ ॥

एकमप्युत्तमं वस्तु दत्वाऽसौ तन्मुरारये
स्वयमेव हि भोक्तव्यं पश्चात्पापोपशान्तये ॥ ४५ ॥

यद्वस्तु हरये दत्तं तच्च दद्याद्दिवजातये
किञ्चिच्छेषं न भोक्तव्यं तस्यावश्यं स्वयं बुधैः ॥ ४६ ॥

वस्तूनि ब्राह्मणश्रेष्ठमिष्टानि यानि कानि च
अदत्वा विष्णवे तानि न भोक्तव्यानि वैष्णवैः ॥ ४७ ॥

विष्णुनैवेद्यमाहात्म्यं सर्वपापप्रणाशनम्
सेतिहासं पुनर्वच्मि शृणु विप्र समाहितः ॥ ४८ ॥

आसीत्सर्वजनिर्नाम ब्राह्मणः शुद्धवंशजः
शान्तो दान्तो दयायुक्तो गुरुब्राह्मणपूजकः ॥ ४९ ॥

हरेः पूजापरश्चैव हरिस्मरणतत्परः
प्रपन्नक्लेशविध्वंसी सत्यवादी जितेन्द्रियः ५० 7.19.50
प्रातःस्नायी निजाचारग्राही हिंसा विवर्जितः
एकादशीव्रतरतो ज्ञातिपूजापरायणः ॥ ५१ ॥

कदाचित्स द्विजश्रेष्ठः स्वप्नेऽपश्यच्च केशवम्
श्यामं विरजपद्माक्षं स्मेरास्यं पीतवाससम् ॥ ५२ ॥

स्वर्णकुण्डलमञ्जीरकिरीटोज्ज्वलविग्रहम्
कौस्तुभोद्भासितोरस्कं वनमालाविभूषितम् ॥ ५३ ॥

चतुर्बाहुं शङ्खचक्रगदापद्मधरं प्रभुम्
समस्तैर्लक्षणैर्युक्तं स्वर्णयज्ञोपवीतिनम् ॥ ५४ ॥

सम्प्राप्य दर्शनं स्वप्ने स विप्रो जगतीपतेः
कृताञ्जलिस्तमस्तौषीद्रोमाञ्चिततनुर्मुदा ॥ ५५ ॥

तुभ्यं नमोऽस्तु जगतः सकलस्यभर्त्त्रे सल्लोकशोकभयरोगविनाशनाय
नारायणाय कमलाहृदयप्रियाय धर्मार्थकामपरमामृतदाय तुभ्यम् ॥ ५६ ॥

पापानि चैव सकलानि मया कृतानि मत्तेन मोहवशगेन सदा मुरारे
तस्माद्बिभेमि जगदम्बुनिधेर्गभीरान्मामुद्धरस्व निजभक्तितरीं प्रदाय ॥ ५७ ॥

जानामि यद्यपि हरे दुरितं मनुष्यो व्यामोहमाशुचलभे भुवि कैटभारे
पापं तथापि च मुदा सततं करोमि तस्मान्न कोऽप्यहमिवास्ति जनो विमूढः ॥ ५८ ॥

पुण्यद्रुमः सुखफलं सहसैव धत्ते किं वेद्मि नेति नृहरे कृतपातकोऽहम्
पुष्पद्रुमार्पणविधौ न ममास्ति वित्तं नाथ प्रसीद भगवन्किमहं करोमि ॥ ५९ ॥

त्वत्पादपद्मयुगलं परमामृतस्य स्थानं विहाय मम चित्तमधुव्रतोऽयम्
नारीमुखं व्रजति देवमृतिप्रदं यच्छ्लेष्मप्रकीर्णमनिशं कमलभ्रमेण ॥ ६० ॥

पाणिःप्रदानरहितोऽनृतभाषिवक्त्रं कर्णौ च पापश्रवणाय सदैव दक्षौ
दोषानिमान्मम हरे हर सेवकस्य यस्मान्नु नाथ शरणागतदोषहन्ता ॥ ६१ ॥

संसारघोरजलधौ नृहरे कदाचित्त्वद्भक्तिनौरिह मया सुदृढा च लब्धा
तत्रापि दैववशगोऽहमहो दुरात्मा वर्तेत एव सततं ममदुःखकालः ॥ ६२ ॥

संसारपारगमनाय लसत्पथोऽस्ति किं सर्वदुःखरहितः सदयः प्रसन्नः
अन्धीकृतस्य मम मोहमहत्तमिस्रैर्दृष्टिस्त्वयीह न कदापि च याति विष्णो ॥ ६३ ॥

पापात्मनोऽपि मम चित्तमिदं मुरारे नष्टं विनष्टजनकष्टविनष्टिकारि
यस्त्वां समस्तसुरवन्दितपादपद्म स्वप्नेऽपि केशिमथनाद्य विभो समीक्षे ॥ ६४ ॥

इति तेन स्तुतो देवो भगवान्कमलापतिः
उवाच वाक्यं वाक्यज्ञः संसारार्णवतारकः ॥ ६५ ॥

श्रीभगवानुवाच-
भक्तिभिस्तव विप्रेन्द्र तुष्टोऽहं नित्यमेव च
तस्मात्तवाचिरेणैव सर्वं भद्रं भविष्यति ॥ ६६ ॥

पापिनोऽपि तवोद्धारो मया पूर्वं कृतो द्विज
अधुना मम भक्तोऽसि न विपत्तिर्भविष्यति ॥ ६७ ॥

ब्राह्मण उवाच
कोऽहं तस्थौ पुरा विष्णो किं वा पापं मया कृतम्
पापिनोऽपि ममोद्धारः कथं पूर्वं त्वया कृतः ॥ ६८ ॥

संसारेऽस्मिन्कथं जातो जनितोऽहं कथं त्वया
एतत्सर्वं विभो ब्रूहि यतस्त्वं सदयः सदा ॥ ६९ ॥

मूलम्

संसारेऽस्मिन्कथं जातो जनितोऽहं कथं त्वया
एतत्सर्वं विभो ब्रूहि यतस्त्वं सदयः सदा ॥ ६९ ॥

विश्वास-प्रस्तुतिः

श्रीभगवानुवाच-
अप्रकाश्यमिदं गुह्यं यद्यपि द्विजसत्तम
तथापि तव वात्सल्यान्निगदामि निशामय ॥ ७० ॥

पुरा त्वं ब्राह्मणश्रेष्ठ पक्षिवंशसमुद्भवः
भूतोऽसि भूमिभागेषु निजकर्मविपाकतः ॥ ७१ ॥

क्षुधया तृषया वापि सततं व्याकुलो भवान्
बभ्राम भक्षयन्कीटान्निर्झरोष्णोदकं तथा ॥ ७२ ॥

नानादुःखं सदा भुञ्जन्पक्षियोनौ समुद्भवः
चतुर्वर्षसहस्राणि स्थितोऽसि त्वं पुरा क्षितौ ॥ ७३ ॥

एकदा कुलभद्राख्यो ब्राह्मणः सर्वतत्ववित्
पूजयामास मां भक्त्या नैवेद्याद्यैर्नदीतटे ॥ ७४ ॥

समभ्यर्च्य स विप्रेन्द्रो मम नैवेद्यतन्दुलम्
ययौ तत्रैव निक्षिप्य भूय एव निजं गृहम् ॥ ७५ ॥

ततो वृक्षात्समागत्य क्षुधिना पक्षिणा त्वया
मम नैवेद्यसम्बन्धि भक्षितं सर्वतन्दुलम् ॥ ७६ ॥

भुक्त्वैव सद्यो मुक्तोऽसि पातकैरतिदारुणैः
कदाचित्प्राप्तकालस्त्वं कालधर्मगतो द्विज ॥ ७७ ॥

त्वामानेतुं मया दूताः प्रेषिताः सर्वथा निजाः
ततो रथे समारोप्य भवन्तं नष्टकल्मषम् ॥ ७८ ॥

सद्यो दूतगणाः सर्वे समायाताः परं पदम्
युगकोटिसहस्राणि स्थितोऽसि मम सन्निधौ ॥ ७९ ॥

भुञ्जन्सुखानि सर्वाणि दुर्ल्लभानि सुरैरपि
ततो यातोऽसि विप्रेन्द्र विशुद्धे ब्राह्मणान्वये ॥ ८० ॥

तत्रापि मयि भक्तिस्ते जातातिसुदृढा पुनः
क्रियायोगेन मां नित्यं समाराध्य द्विजोत्तम ॥ ८१ ॥

आयुषोन्ते मत्प्रसादान्मामकं पदमाप्स्यसि
यदा तुष्टोऽस्म्यहं विप्र सपापात्मापि मुक्तिभाक् ॥ ८२ ॥

कदाचिद्यस्य रुष्टोस्मि पुण्यात्मापि च पापभाक्
तस्माद्ब्राह्मण भद्रं ते भक्तोऽसि मम सुव्रत ॥ ८३ ॥

दास्यामि ते परं स्थानं यदलभ्यं सुरैरपि
ब्राह्मण उवाच-
त्वत्प्रसादाच्छ्रुतं नाथ पूर्ववृत्तान्तमात्मनः ॥ ८४ ॥

इदानीं श्रोतुमिच्छामि यत्किञ्चिद्ब्रूहि तत्प्रभो
कस्य तुष्टोऽसि देवेन्द्र कस्य रुष्टोऽसि वा प्रभो ॥ ८५ ॥

महत्या कृपया सर्वमेतन्मे वक्तुमर्हसि
श्रीभगवानुवाच-
कर्मणा येनविप्रेन्द्र तुष्टिर्मे हृदि जायते ॥ ८६ ॥

क्रोधश्च तत्समस्तं च कथयामि समासतः
यो दयावान्द्विजश्रेष्ठ सर्वभूतेषु सर्वदा ॥ ८७ ॥

अहङ्कारविहीनश्च तस्य तुष्टोऽस्म्यहं सदा
कर्म कुर्यान्मदर्थं यो धर्मभक्तिसमन्वितः ॥ ८८ ॥

ब्रूते मदर्थं यः शान्तं तस्य तुष्टोऽस्म्यहं सदा
मिष्टं वस्तु समासाद्य दत्वा मे यश्च मानवः ॥ ८९ ॥

मानापमाने सदृशस्तस्य तुष्टोऽस्म्यहं सदा
सर्वभूतशरीरस्थं यो मां जानाति मानवः ॥ ९० ॥

परहिंसाविहीनो यस्तस्य तुष्टोऽस्म्यहं सदा
कर्माणि कुरुते यस्तु सुविचार्य पुनः पुनः ॥ ९१ ॥

गोब्राह्मणहितैषी यस्तस्य तुष्टोऽस्म्यहं सदा
स्वयं निरुक्तं वचनं यत्नाद्यः परिपालयेत् ॥ ९२ ॥

प्रपन्नं याति यत्नाद्यस्तस्य तुष्टोऽस्म्यहं सदा
ददात्यनुपकारिभ्यो दानानि द्विजसत्तम ॥ ९३ ॥

मयि चित्तं सदा यस्य तस्य तुष्टोऽस्म्यहं सदा
कर्मणा येनतुष्टोऽस्मि निरुक्तं तत्समासतः ॥ ९४ ॥

रुष्टोऽस्मि कर्मणा येन विप्र वच्मि शृणुष्वतम्
परहिंसारतो यस्तु निर्द्दयः सर्वजन्तुषु ॥ ९५ ॥

अहंयुः सर्वदा क्रुद्धः समां नयति शत्रुताम्
असत्यभाषीक्रूरश्च परनिन्दापरस्तु यः ॥ ९६ ॥

कविवर्तनविध्वंसी समां नयति शत्रुताम्
अदृष्टदोषौ पितरौ स्त्रीभ्रातृभगिनी तथा ॥ ९७ ॥

मोहात्त्यजति यो मूढः समां नयति शत्रुताम्
पितृभिर्भर्त्सनं यस्तु कुरुते मूढधीर्नरः ॥ ९८ ॥

गुर्ववज्ञाकरो विप्र समां नयति शत्रुताम्
आरामच्छेदिनो ये च जलाशयविलायिनः ॥ ९९ ॥

मूलम्

गुर्ववज्ञाकरो विप्र समां नयति शत्रुताम्
आरामच्छेदिनो ये च जलाशयविलायिनः ॥ ९९ ॥

ग्रामनाशकरायेचतेमान्नयन्तिशत्रुताम्
परस्त्रियं समालोक्य विषादं यान्ति ये जनाः १०० 7.19.100
शृण्वन्ति पापचर्चां च तेषां रुष्टोस्म्यहं सदा
द्विषन्ति नाथं ये मूढा अनाथस्वं हरन्ति ये १०१
विश्वासघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा
ये च गोवीर्यहन्तारो वृषलीपतयश्च ये १०२
अश्वत्थघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा
ब्रह्मविष्णुमहेशानां मध्ये ये भेदकारिणः १०३
परदारातिरक्ता ये तेषां रुष्टोऽस्म्यहं सदा
एकादश्यां भुञ्जते ये लोभात्पापधियो नराः १०४
वेदनिन्दाकरा ये च तेषांरुष्टोऽस्म्यहं सदा
पापबुद्धिरता ये च मित्रद्रोहरतास्तथा १०५
धात्रीतरुं च ये घ्नन्ति तेषां रुष्टोऽस्म्यहं सदा
दिवसे मैथुनं ये च कुर्वन्ते काममोहिताः १०६
रजस्वला स्त्रियां चैव तेषां रुष्टोऽस्म्यहं सदा
ये चादृष्टार्तवां नारीं मोहाद्गच्छन्ति सत्तम १०७
व्रतस्थां च सदा जाल्मास्ते मां नयन्ति शत्रुताम्
अमावास्यातिथौ ये च कुर्वन्ते निशिभोजनम् १०८
भोजनद्वयमेवार्के तेषां रुष्टोऽस्म्यहं सदा
आमिषं मैथुनं तैलममावास्यादिने द्विजाः १०९
न ये त्यजन्ति विप्रेन्द्र तेषां रुष्टोऽस्म्यहं सदा
बहुनात्र किमुक्तेन सङ्क्षेपात्ते वदाम्यहम् ११०
निन्दन्ति वैष्णवान्ये च तेषां रुष्टोस्म्यहं सदा
व्यास उवाच-
इत्युक्त्वा भगवान्विष्णुरदृश्यः सहसाऽभवत् १११
स च विप्रः समुत्तस्थौ त्यक्तनिद्रस्तु मञ्चतः
केशवोक्तेन वाक्येन स विप्रो हरिभक्तिकृत् ११२
सन्त्यज्य सकलं कार्यं क्रियायोगरतोऽभवत्
नारायणस्य नैवेद्यं भुञ्जतोऽपि फलं त्विदम् ११३
हरिपूजाकृतां पुंसां न जाने किं भवेदिति
समासेन ब्रवीमि त्वां शृणु सत्तम जैमिने ११४
सकृत्कृत्वा हरेः पूजां प्राप्यते परमं पदम्
मानुष्यं दुर्ल्लभं लोके पूजा तत्रापि चक्रिणः ११५
भक्तिस्तत्रापि विप्रेन्द्र दुर्ल्लभा परिकीर्तिता ११६
संसाराब्धिं सर्वदुःखप्रपूर्णं तर्तुं वाञ्छा यस्य चित्तेस्ति पुंसः
भक्त्या नित्यं वासुदेवस्य पूजां कुर्यादार्यः कर्मणां सोऽखिलानाम् ११७
इति श्रीपद्मपुराणे क्रियायोगसारे एकोनविंशतितमोऽध्यायः १९