०१८

जैमिनिरुवाच-

विश्वास-प्रस्तुतिः

तीर्थश्रेष्ठमिति प्रोक्तं यत्त्वया पुरुषोत्तमम्
तन्माहात्म्यं गुरो ब्रूहि यदि ते मय्यनुग्रहः ॥ १ ॥

मूलम्

व्यास उवाच-
पुरुषोत्तमस्य माहात्म्यं समासेन शृणु द्विज
सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो विष्णुना विना ॥ २ ॥

लवणाम्भोनिधेस्तीरं पुरुषोत्तमसञ्ज्ञितम्
पुरं तद्ब्राह्मणश्रेष्ठ स्वर्गादपि च दुर्ल्लभम् ॥ ३ ॥

स्वयमस्ति पुरे तस्मिन्यतः श्रीपुरुषोत्तमः
पुरुषोत्तममित्युक्तं तस्मात्तन्नामकोविदैः ॥ ४ ॥

क्षेत्रं तद्दुर्ल्लभं विप्र समन्ताद्दशयोजनम्
तत्रस्थदेहिनो देवैर्दृश्यन्ते च चतुर्भुजाः ॥ ५ ॥

प्रविशन्वै तु तत्क्षेत्रं सर्वे स्युर्विष्णुमूर्तयः
तस्माद्विचारणा तत्र न कर्त्तव्या विचक्षणैः ॥ ६ ॥

चाण्डालेनापि संस्पृष्टं ग्राह्यं तत्रान्नमग्रजैः
साक्षाद्विष्णुर्यतस्तत्र चाण्डालो द्विजसत्तम ॥ ७ ॥

तत्रान्नपाचिका लक्ष्मीः स्वयं भोक्ता जनार्द्दनः
तस्मात्तत्रौदनं विप्र दैवतैरपि दुर्ल्लभम् ॥ ८ ॥

हरिभुक्तावशिष्टं यत्पवित्रं भुवि दुर्ल्लभम्
अन्नं ये भुञ्जते लोकास्तेषां मुक्तिर्न दुर्ल्लभा ॥ ९ ॥

ब्रह्माद्यास्त्रिदशाः सर्वे तदन्नमतिदुर्ल्लभम्
भुञ्जते नित्यमागत्य मानुषाणां च का कथा ॥ १० ॥

न यस्य रमते चित्तं तस्मिन्नन्ने सुदुर्ल्लभे
तमेव विष्णुद्वेष्टारं प्राहुः सर्वमहर्षयः ॥ ११ ॥

पवित्रं भुवि सर्वत्र यथा गङ्गाजलं द्विज
तथा पवित्रं सर्वत्र तदन्नं पापनाशनम् ॥ १२ ॥

तदन्नं कोमलं दिव्यं यद्यपि द्विजसत्तम
कृकचस्योदरप्रायं तथाप्यघविदारणे ॥ १३ ॥

मूलम्

तदन्नं कोमलं दिव्यं यद्यपि द्विजसत्तम
कृकचस्योदरप्रायं तथाप्यघविदारणे ॥ १३ ॥

विश्वास-प्रस्तुतिः

पूर्वार्जितानि पापानि क्षयं यास्यन्ति यस्य वै
भक्तिः प्रवर्तते यस्य तस्मिन्नन्ने सुदुर्ल्लभे ॥ १४ ॥

बहुजन्मार्जितं पुण्यं यस्य यास्यति सङ्क्षयम्
तस्मिन्नन्ने द्विजश्रेष्ठ तस्य भक्तिर्न जायते ॥ १५ ॥

इन्द्रद्युम्नस्य सरसि मार्कण्डेयह्रदे तथा
रोहिण्यां च समुद्रे च श्वेतगङ्गाजलेषु च ॥ १६ ॥

स्नानं ये कुर्वते मर्त्या भक्तिभावसमन्विताः
तेषां न विद्यते जन्म पुनरस्मिन्महीतले ॥ १७ ॥

लवणाम्भोनिधेस्तोयैः पितरस्तर्पिता द्विज
सर्वदुःखविनिर्मुक्ता व्रजन्ति हरिमन्दिरम् ॥ १८ ॥

तीर्थराजः समुद्रो ऽसौ कीर्तितस्तत्वदर्शिभिः
तस्मात्तत्र कृतं कर्म सर्वमेवाक्षयं भवेत् ॥ १९ ॥

पित्रर्चनं तथा दानं भगवच्चरणार्चनम्
जप यज्ञं तथान्यच्च तस्मिन्क्षेत्रे मनोरमे ॥ २० ॥

यत्कर्म कुरुते मर्त्यो विष्णुप्रीणनहेतवे
सर्वमेवाक्षयं तच्च भवेन्नास्त्यत्र संशयः ॥ २१ ॥

बलभद्रं सुभद्रां च कृष्णं च कमलेक्षणम्
ये मानवाः प्रपश्यन्ति तेषां किञ्चिन्न दुर्ल्लभम् ॥ २२ ॥

अदृष्ट्वा श्रीजगन्नाथं सुभद्रां च बलं तथा
मोक्षं न लभते मर्त्यः कुर्वन्पुण्यशतान्यपि ॥ २३ ॥

तत्र वेत्रप्रहारेण शरीरं यस्य लोहितम्
तं वन्दन्ते द्विजश्रेष्ठ देवाः शक्रादयोऽखिलाः ॥ २४ ॥

स्थित्वान्तरिक्षे शक्राद्याः सर्वदेवगणा द्विज
विमानचारिणोऽन्योन्यं प्रवदन्तीति हर्षिताः २५अं
कदा मानुष्यमस्मभ्यं दास्यते कमलापतिः
मनुष्य इव गच्छामस्तदा द्रष्टुं हरिं प्रभुम् ॥ २६ ॥

कदा वेत्रप्रहारेण क्षेत्रे श्रीपुरुषोत्तमे
भविष्यन्त्यस्मदीयानि लोहितानि वपूंषि च ॥ २७ ॥

वासवाद्याः सुराः सर्वे तस्मिन्क्षेत्रे वरप्रदे
सदा वेत्रप्रहारांश्च वाञ्छन्ति द्विजसत्तम ॥ २८ ॥

तत्राक्षयवटं ये तु भक्त्या पश्यन्ति मानवाः
कोटिजन्मार्जितैः पापैर्मुक्ता यान्ति परां गतिम् ॥ २९ ॥

सुभद्रां बलभद्रं च जगन्नाथमनामयम्
श्वेतं माधवदेवेशं मार्कण्डेयह्रदं तथा ॥ ३० ॥

ज्यामेश्वरं हनूमन्तं तत्राक्षय्यं वटं द्विज
पश्यन्ति भक्त्या ये मर्त्यास्तेषां मुक्तिर्हि शाश्वती ॥ ३१ ॥

दोलायमानं गोविन्दं फाल्गुनेमासि तत्र ये
पश्यन्ति मानवा भक्त्या तेषां पुण्यं निशामय ॥ ३२ ॥

विमुक्ताः सकलैः पापैरन्ते यान्ति हरेर्गृहम्
ज्ञानं सम्प्राप्य तत्रैव मोक्षं यान्ति सुदुर्ल्लभम् ॥ ३३ ॥

चेत्रके मासि वारुण्यां यो जगन्नाथमीक्षते
स मृतः प्रविशेद्देहं जगन्नाथस्य जैमिने ॥ ३४ ॥

वैशाखे चैव शुक्लायामेकादश्यां जगत्पतिम्
तृतीयायां च यः पश्येन्मुक्त एव स मानवः ॥ ३५ ॥

प्रविशेद्यस्तु मनुजो महास्नानं जगत्पतेः
तस्य सिद्ध्यन्ति विप्रर्षे सर्व एव मनोरथाः ॥ ३६ ॥

ब्रह्माद्यास्त्रिदशाः सर्वे स्थित्वाकाशे जगत्पतेः
महास्नानं प्रपश्यन्ति भक्तिभावसमन्विताः ॥ ३७ ॥

महाज्येष्ठ्यां च विप्रर्षे जगन्नाथमनामयम्
आलोक्य लभते मर्त्यो विष्णोस्तत्परमं पदम् ॥ ३८ ॥

गुण्डिकामण्डपं यान्तमाषाढे कमलापतिम्
बलभद्रं च यः पश्येत्स मुक्तो नात्र संशयः ॥ ३९ ॥

यः पश्यति जगन्नाथं रथस्थं कमलेक्षणम्
तस्य नास्ति पुनर्जन्म संसारे सर्वदुःखदे ॥ ४० ॥

रथारूढां सुभद्रां च भक्त्या पश्यन्ति मानवाः
छिनत्ति भगवांस्तस्य दुःखदं भवबन्धनम् ॥ ४१ ॥

अपुत्रा मृतपुत्रा च या सुभद्रां प्रपश्यति
बह्वपत्या जीववत्सा सा नारी भवति द्विज ॥ ४२ ॥

दुर्भगा काकवन्ध्या वा सुभद्रां या प्रपश्यति
सा स्वामिसुभगा नारी बह्वपत्या भवेत्खलु ॥ ४३ ॥

गुण्डिकामण्डपस्थं च कृष्णं पश्यति यः पुमान्
बलभद्रं सुभद्रां च स याति परमं पदम् ॥ ४४ ॥

रोगी दुःखी च यः पश्येद्गुण्डिकामण्डपे हरिम्
रोगाच्छोकाच्च सहसा जैमिने स प्रमुच्यते ॥ ४५ ॥

यस्त्वपुत्रो जगन्नाथं गुण्डिकामण्डपे स्थितम्
पश्येत्स च द्विजश्रेष्ठ पुत्रं प्राप्नोति वैष्णवम् ॥ ४६ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
दारार्थी लभते दारान्मोक्षार्थी मोक्षमाप्नुयात् ॥ ४७ ॥

भ्रष्टराज्यो नृपो यस्तु हरिं पश्यति भक्तितः
गुण्डिकामण्डपे विप्र निजराज्यं लभेत सः ॥ ४८ ॥

शत्रुभिर्वर्जितो यस्तु गुण्डिकामण्डपे हरिम्
भक्त्या पश्यति विप्रर्षे तस्य नश्यन्ति शत्रवः ॥ ४९ ॥

गुण्डिकामण्डपे पश्येद्यो राजपीडितो भृशम्
स सद्य एव राजानं स्वकीयं वशमानयेत् ५० 7.18.50
सर्वासामेव यात्राणां गुण्डिका प्रवरा मता
तस्मात्स मानवैः कार्या त्यक्त्वा कार्यशतान्यपि ॥ ५१ ॥

शयने च तथोत्थाने तस्मिन्क्षेत्रे मनोरमे
हरिं पश्यति यो मर्त्यः स देवैरपि पूज्यते ॥ ५२ ॥

पुरुषोत्तममाहात्म्यं वक्तुं शक्नोति कः क्षितौ
यस्य प्रवेशमात्रेण नरो नारायणो भवेत् ॥ ५३ ॥

बहुनात्र किमुक्तेन सङ्क्षेपादुच्यते मया
सर्वेषामेव तीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ५४ ॥

संसारसिन्धुमतिनिम्नमिमं तितीर्षुः क्लेशप्रदं विषमपापगणाश्रयं यः
क्षेत्रे समस्तसुखदे पुरुषोत्तमाख्ये पश्येदमुं सुरवरं पुरुषोत्तमं च ॥ ५५ ॥

इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तममाहत्म्यन्नाम अष्टादशोऽध्यायः १८