०१६

व्यास उवाच-

विश्वास-प्रस्तुतिः

भूय एव द्विजश्रेष्ठ महाविष्णोः परात्मनः
ब्रवीमि शृणु माहात्म्यं सर्वदुःखविनाशनम् ॥ १ ॥

मूलम्

ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्येन्त्यजास्तथा
हरिभक्तिं प्रपन्ना ये ते कृतार्था न संशयः ॥ २ ॥

हरेरभक्तो विप्रोऽपि विज्ञेयः श्वपचाधिकः
हरिभक्तः श्वपाकोऽपि विज्ञेयो ब्राह्मणाधिकः ॥ ३ ॥

स कथं ब्राह्मणो यस्तु हरिभक्तिविवर्जितः
स कथं श्वपचो यस्तु भगवद्भक्तिमानसः ॥ ४ ॥

अव्याजेन यदा विष्णुः श्वपाकेनापि पूज्यते
तदा पश्येत्तमप्येवं चतुर्वेदद्विजाधिकम् ॥ ५ ॥

पुरासीच्चक्रिको नाम शबरो लोककर्षकृत्
सुजातिवृत्तिहीनश्च युगे द्वापरसञ्ज्ञके ॥ ६ ॥

विप्रवादी जितक्रोधः परहिंसाविवर्जितः
दयालुर्द्दम्भहीनश्च पितृमातृपरायणः ॥ ७ ॥

न कृतो वैष्णवोलापो मोक्षशास्त्रं न च श्रुतम्
तथापि जाता तच्चित्ते हरिभक्तिरचञ्चला ॥ ८ ॥

हरे केशव गोविन्द वासुदेव जनार्दन
इत्यादीनि स्मरन्नित्यं स च नामानिचक्रिणः ॥ ९ ॥

वन्यं फलं च यत्किञ्चित्प्राप्नोति द्विजसत्तम
आदौ ददाति तद्वक्त्रे निजे शबरवंशजः ॥ १० ॥

तन्माधुर्यं ततो ज्ञात्वा वक्त्रान्निष्कास्य तत्पुनः
ददाति हरये भक्त्या सुप्रीतः प्रतिवासरम् ॥ ११ ॥

उच्छिष्टं वाप्यनुच्छिष्टं द्वयमेव न वेत्ति सः
निजजातिस्वभावो हि सततं मूर्घ्नि वर्तते ॥ १२ ॥

कदाचित्स द्विजश्रेष्ठ काननाभ्यन्तरे भ्रमन्
फलमेकं प्राप्य पक्वं प्रियालस्येति शाखिनः ॥ १३ ॥

अथासौ हर्षितस्तस्य फलमप्राप्य चक्रिकः
स संरम्भेण ज्ञात्वा वै निजवक्त्रान्तरे ददौ ॥ १४ ॥

स ददौ तत्फलं यावन्निजवक्त्रान्तरे द्विज
प्रविवेश गलं तावत्तत्फलं शृणु जैमिने ॥ १५ ॥

तावत्सव्येन हस्तेन गलरन्ध्रं बबन्ध सः
यत्नाद्विधृत्य सव्येन पाणिना सकलं द्विज ॥ १६ ॥

चक्रिकश्चिन्तयामास हरिभक्तिपरायणः
फलमेतद्यदा तस्मै न ददामि मुरारये ॥ १७ ॥

मूलम्

चक्रिकश्चिन्तयामास हरिभक्तिपरायणः
फलमेतद्यदा तस्मै न ददामि मुरारये ॥ १७ ॥

विश्वास-प्रस्तुतिः

न जातः कोऽपि संसारे तदाहमिव पातकी
हरिं सञ्चिन्त्य बहुधा स चकार मतिं ततः ॥ १८ ॥

तथापि तत्फलं तस्य न निष्क्रान्तं गलाद्द्विज
हरेरेकान्तभक्तोऽसौ छित्त्वा परशुना गलम् ॥ १९ ॥

आनीय तत्फलं पक्वं ददौ देवाय विष्णवे
तत्सन्निधिं समायातस्तमेव हृदि चिन्तयन् ॥ २० ॥

रुधिरोक्षितसर्वाङ्गः पतितः क्षितिमण्डले
तं दृष्ट्वा भगवान्विष्णुर्गतासुं व्यथितोऽभवत् ॥ २१ ॥

एतस्य सदृशो भक्तो मम कोऽपि न विद्यते
यतो निजगलं छित्त्वा मम सन्तोषणं कृतम् ॥ २२ ॥

यथा भक्तिमताऽनेन सात्विकं कर्म वै कृतम्
यद्दत्वानृण्यमाप्नोति तथा वस्तुकिमस्ति मे ॥ २३ ॥

धन्योऽयमतिधन्योऽयं धन्योऽयं नात्र संशयः
प्राणानपि परित्यज्य ममसन्तोषणं कृतम् ॥ २४ ॥

ब्रह्मत्वं वा शिवत्वं वा चक्रित्वं वापि दीयते
तदाप्यानृण्यमेतस्य भक्तस्य न हि गम्यते ॥ २५ ॥

इत्युक्त्वात्यन्त सन्तुष्टो भगवान्गरुडध्वजः
स्वहस्तकमलेनास्य ततो मस्तकमस्पृशत् ॥ २६ ॥

तद्धस्तकमलस्पर्शाच्छबरोऽसौ गतव्यथः
समुत्तस्थौ महासत्वो नारायणपरायणः ॥ २७ ॥

मूलम्

तद्धस्तकमलस्पर्शाच्छबरोऽसौ गतव्यथः
समुत्तस्थौ महासत्वो नारायणपरायणः ॥ २७ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
ततोऽस्य भक्तश्रेष्ठस्य निजवस्त्रेण केशवः
पुत्रस्येव पिता गात्ररजः प्रोक्षितवान्द्विज ॥ २८ ॥

चक्रिकस्तं समालोक्य मूर्तिमन्तं जनार्दनम्
वाचा मधुरयाऽस्तौषीत्प्रह्वमस्तः कृताञ्जलिः ॥ २९ ॥

चक्रिक उवाच-
गोविन्द केशव हरे जगदीश विष्णो जानामि यद्यपि न ते स्तुतियोगवाक्यम्
स्तोतुं तथापि रसना मम वाञ्छति त्वां स्वामिन्प्रसीद हर दोषमिमं प्रवृद्धम् ॥ ३० ॥

त्यक्त्वा भवन्तमखिलेश्वरचक्रपाणे अन्यं यजन्ति मनुजा जगतीह ये वै
मूढास्त एव दुरितप्रकरैकधाम सानुग्रहस्त्वमसि मय्यपि देव यस्मात् ॥ ३१ ॥

जानाति देव भवतो भवनैकनाथ भक्त्यैव यद्यपि नृणाम्भवबन्धहर्त्रीम्
एकान्तपापशबरान्वयलब्धजन्मा विष्णोस्तथापि भगवान्मयि सुप्रसन्नः ॥ ३२ ॥

यस्य प्रभो तव मनोज्ञ करारविन्दं स्पर्शं चतुर्मुखमुखा अपि देववृन्दाः
न प्राप्नुवन्ति विदितस्य मयाद्य लब्धं त्वत्तो न कोऽपि सदयो निजसेवकेषु ॥ ३३ ॥

येन त्वया भगवता त्रिदशाद्यवैरी कंसासुरो निमिसुतः कृतसर्वपापः
सेन्द्रामरप्रकरमर्त्यहिताय पूर्वं तस्मै नमः परममङ्गलदाय तुभ्यम् ॥ ३४ ॥

येन त्वयातिबलिना यमलार्जुनौ तौ देवोत्तमेन निहतौ वसुदेवजेन
दुष्टश्च कालयवनो युधि धेनुकश्च तस्मै नमोऽस्तु नवमेघनिभाय तुभ्यम् ॥ ३५ ॥

श्रीकृष्णदामोदरभो ह्यनन्त येन त्वयामरपतेरचला विभूतिः
पूर्वं कृता भगवता परमेश्वरेण तस्मै नमोऽस्तु यदुवंशपराय तुभ्यम् ॥ ३६ ॥

पारिजातो हृतो येन विजितोऽखण्डलस्त्वया
लीलाजित महेशाय तस्मै तुभ्यं नमोनमः ॥ ३७ ॥

कृत्वा वृकोदरं हेतुं जरासन्धो निपातितः
बाणासुरस्य निहता बाहवो ये त्वया हताः ॥ ३८ ॥

शिशुपालो हतो येन तस्मै नित्यं नमोनमः
भूमेरपहृतो भारस्त्वया येन महात्मना ॥ ३९ ॥

क्षत्त्रियान्मायया हत्वा तस्मै नित्यं नमोनमः
व्यास उवाच-
इति तेन स्तुतो विष्णुश्चक्रिकेन महात्मना ॥ ४० ॥

उवाच परमप्रीतो वरं वृण्विति जैमिने
चक्रिक उवाच-
परं ब्रह्म परं धाम परमात्मन्कृपामय ॥ ४१ ॥

पश्यामि त्वामहं साक्षाद्वरैः किमपरैर्द्विज
न ध्याता भवतो मूर्तिः पूजा च न कृता तव ॥ ४२ ॥

नैवेद्यैर्दिव्यपुष्पैश्च दिव्यधूपैः प्रदीपकैः
न ते स्मृतानि नामानि कदाचिद्भवतो मया ॥ ४३ ॥

त्वत्पादसलिलं स्वामिन्विधृतं न हि मूर्द्धनि
न भुक्तं तव नैवेद्यं त्वद्व्रतं न मया कृतम् ॥ ४४ ॥

तथाप्यहमपश्यं त्वां किं करोम्यपरैर्वरैः
शबरान्वयजन्मास्मि सर्वधर्मबहिष्कृतः ॥ ४५ ॥

तथापि पादपद्मं ते दैवतैरपि दुर्ल्लभम्
तदेवाद्य मया प्राप्तं वरैः किमपरैर्मम ॥ ४६ ॥

तथापि कमलाकान्त वरदित्सुर्यदा भवान्
त्वयि तिष्ठतु मे चित्तं न मज्जेत्त्वदनुग्रहात् ॥ ४७ ॥

श्रीभगवानुवाच-
वचनाऽमृतवर्षेण त्वदीयेन महाशय
सम्प्राप्य महतीं तुष्टिं मया सेवकपापिना ॥ ४८ ॥

यदिदं वत्स मे दत्तं त्वया कमलमुत्तमम्
अनेनात्यन्ततुष्टोऽस्मि भक्तिं गृह्णामि हर्षितः ॥ ४९ ॥

इत्युक्त्वा भगवान्विष्णुर्भक्तिग्राही दयामयः
तमालिङ्गितवान्भक्तं चतुर्भिर्दीर्घबाहुभिः ५० 7.16.50
श्रीभगवानुवाच-
तुष्टोऽस्मि भवतो भक्त्या वत्स चक्रिकसत्तम
यदिदं वत्स मे दत्तं क्षिप्रं भवति निश्चितम् ॥ ५१ ॥

भूयोऽपि तं महाभक्तमालिङ्ग्य परमेश्वरः
तत्रैवान्तर्द्दधे विप्र विश्वात्मा विश्वपालकः ॥ ५२ ॥

स चक्रिकोऽतिसन्तुष्टो हरिभक्तिपरायणः
पुत्रदारादिकं त्यक्त्वा जगाम द्वारकां पुरीम् ॥ ५३ ॥

तत्र चैवं समासाद्य कृपया कमलापतेः
आयुषोऽन्ते ययौ मोक्षं देवानामपि दुर्ल्लभम् ॥ ५४ ॥

तस्माद्भक्तवशो देवो भक्तिमात्रेण तुष्यति
न च स्तोत्रैर्न वित्तैश्च न तपोभिर्जपेन च ॥ ५५ ॥

फलं यद्यपि चोच्छिष्टं दत्तं तेन द्विजोत्तम
तथापि तुष्टवान्विष्णुर्ज्ञात्वा भक्तिमचञ्चलाम् ॥ ५६ ॥

तस्मान्नारायणो देवः संसारेऽस्मिन्मुमुक्षुभिः ॥ ५७ ॥

ये यजन्ति दृढया किल भक्त्या वासुदेवचरणाम्बुजयुग्मम्
वासवादिविबुधप्रवरेज्यं ते व्रजन्ति मनुजाः किल मोक्षम् ॥ ५८ ॥

इति श्रीपद्मपुराणे क्रियायोगसारे षोडशोऽध्यायः १६