०१५

व्यास उवाच-

विश्वास-प्रस्तुतिः

नारायणस्य माहात्म्यं पुनर्वच्मि शृणु द्विज
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ॥ १ ॥

मूलम्

विष्ण्वंशभूतं सकलं जगदेतद्दिवजोत्तम
तस्माद्विष्णुमयं धीराः पश्यन्ति परमार्थिनः ॥ २ ॥

ब्रह्मशङ्कररुद्राद्या विष्ण्वंशाः सकलाः सुराः
तस्मात्समस्तदेवार्चा विष्णुमेकं प्रपद्यते ॥ ३ ॥

स्मरतां विष्णुनामानि सर्वपापहराणि च
येनकेनाप्युपायेन विद्यते नाशुभं क्वचित् ॥ ४ ॥

सर्वमेव द्विजश्रेष्ठ कर्मणा पापमुच्यते
अनपायि इदं विष्णोः स्मरणं पापनाशनम् ॥ ५ ॥

स्वपन्भुञ्जन्वदंस्तिष्ठन्नुत्तिष्ठंश्च व्रजंस्तथा
स्मरेदविरतं विष्णुं मुमुक्षुर्वैष्णवोजनः॥ ६ ॥

उत्तुङ्गैर्मुनिभिः सर्वैः स्मरणे कमलापतेः
न कालनियमः प्रोक्तः सर्वदुःखविनाशनः ॥ ७ ॥

नामप्रभावं विप्रर्षे केशवस्य महात्मनः
ब्रवीम्यहं समासेन सेतिहासं निशामय ॥ ८ ॥

मूलम्

नामप्रभावं विप्रर्षे केशवस्य महात्मनः
ब्रवीम्यहं समासेन सेतिहासं निशामय ॥ ८ ॥

विश्वास-प्रस्तुतिः

आसीत्स परशुर्नाम पूर्वं कृतयुगे शुचिः
वैश्यो वैश्यकुलश्रेष्ठः समस्तगुणपारगः ॥ ९ ॥

स वैश्यो दैवयोगेन प्रथमे वयसि द्विज
जगाम वशतां मृत्योः कासश्वासगदार्दितः ॥ १० ॥

जीवन्ती नाम तत्पत्नी सुमध्या नवयौवना
मृते भर्तरि तातस्य जगाम निलयं यतः ॥ ११ ॥

सा जीवन्ती द्विजश्रेष्ठ नवयौवनगर्विता
गतिं चकार जारेषु बाध्यमानापि बान्धवैः ॥ १२ ॥

व्रतस्य नियमं वापि गृहव्यापारमेव च
जारानुरक्तचित्ता सा तत्याज्य नवयौवना ॥ १३ ॥

अन्धीकृता सा कामेन सुश्रोणी पीवरस्तनी
धर्ममार्गं द्विजश्रेष्ठ न कदाचिद्ददर्श ह ॥ १४ ॥

दुःशीलां चैव तां दृष्ट्वा तत्पिता धर्मतत्परः
अपकीर्तिभयाद्भीरुरित्याहात्यन्त कोपवान् ॥ १५ ॥

दुष्टे पापिनि मद्वंशे सर्वदोषविवर्जिते
आसाद्य जन्म किमिति क्रियते पातकं त्वया ॥ १६ ॥

यदि ते पातके चित्तं ह्यदितुं नैव एहि वै
अभद्रे गच्छ सदनाज्जहीहि मम मन्दिरम् ॥ १७ ॥

तातेनेति निरुक्ता सा क्रोधारुणितलोचना
पितुर्गेहं परित्यज्य साजगाम यथासुखम् ॥ १८ ॥

अथ सा स्वेच्छया नारी भ्रमन्ती जारकाङ्क्षया
वेश्यावृत्तिं समाश्रित्य तस्थौ लज्जाविवर्जिता ॥ १९ ॥

पुलिन्दः शबरो वापि चाण्डालो वापि तद्गृहम्
आयाति तस्यास्तेनापि मुदा क्रीडति साऽसती ॥ २० ॥

परलोकभयं विप्र कदाचिदपि चेतसा
न चिन्तयामास च सा वारनारी यथाक्रमात् ॥ २१ ॥

कदाचिद्ब्राह्मणश्रेष्ठ कश्चिद्व्याधस्तदालये
शुकशावं समादाय विक्रयार्थं समाययौ ॥ २२ ॥

सापि वाराङ्गना तं च शुकशावकमुत्तमम्
जगृहे परमप्रीत्या धनैः सम्पूज्य लुब्धकम् ॥ २३ ॥

तद्योग्याहारदानेन वारस्त्री नित्यमेव सा
शुकस्य पोषणं चक्रे तस्य जातकुतूहला ॥ २४ ॥

वाराङ्गनानपत्या सा तमेव शुकशावकम्
मत्वा पुत्रमिवात्मानं चक्रे तत्प्रतिपालनम् ॥ २५ ॥

सोऽपि पक्षी द्विजश्रेष्ठ नित्यमेव तदाज्ञया
ज्ञातिवच्चित्तवात्सल्य व्यवहारं करोति च ॥ २६ ॥

ततोऽसौ लब्धभावश्च शुको गणिकया तदा
रामेति सततं नाम पाठ्यते सुन्दराक्षरम् ॥ २७ ॥

रामनाम परं ब्रह्म सर्वदेवाधिकं महत्
समस्तपातकध्वंसि स शुकस्तु सदा पठन् ॥ २८ ॥

रामोच्चारणमात्रेण तयोश्च शुकवेश्ययोः
विनष्टमभवत्पापं सर्वमेव सुदारुणम् ॥ २९ ॥

कदाचिद्वारमुख्या सा शुकोऽपि च द्विजोत्तम
उभावपि च पञ्चत्वमेककाले गतौ ततः ॥ ३० ॥

समानेतुं ततस्तौ तु विहिताखिलपातकौ
किङ्करान्प्रेषयामास चण्डाद्यान्धर्मराट्ततः ॥ ३१ ॥

ततस्ते किङ्कराः सर्वे चण्डाद्याः अतिवेगिनः
यमाज्ञया समायाताः पाशमुद्गरपाणयः ॥ ३२ ॥

आनेतुं तौ समायाताः सर्वे विष्णुपराक्रमाः
पाशबद्धौ तु तौ दृष्ट्वा पतितौ विष्णुकिङ्कराः ॥ ३३ ॥

ऊचुर्वाक्यमिदं क्रुद्धा यमदूतान्सुरासदान् ॥ ३४ ॥

विष्णुदूता ऊचुः -
अहो चित्रमिदं वाक्यं यमदूता मुखाच्छ्रुतम् ॥ ३५ ॥

भक्तावपि हरेरेतौ दण्ड्यौ भास्करसूनुना
अहो चरित्रं दुष्टानां कदाचिदपि नोत्तमम् ॥ ३६ ॥

यत्नादपि यतो हिंसां कुर्वन्ति सततं सताम्
दुष्टानां कृतपापानां चरित्रमिदमद्भुतम् ॥ ३७ ॥

निष्पापमपि पश्यन्ति पुण्यात्मानोऽखिलं जगत्
पापिनस्तु न पश्यन्ति कृतपापमिवाखिलम् ॥ ३८ ॥

श्रुत्वा पुण्यात्मनां पुण्यमभितृप्यन्ति धर्मिणः
तृप्यन्ति पातकं श्रुत्वा पापिनां पापिनो जनाः ॥ ३९ ॥

पापचर्चां समाकर्ण्य यथा तृप्यन्ति पापिनः
न तृप्यन्ति यथा प्राप्य स्वर्णभारशतान्यपि ॥ ४० ॥

अहो बलवती माया महाविष्णोर्महात्मनः
आत्मपीडाकरमपि पापं कुर्वन्ति ते द्विज ॥ ४१ ॥

इत्युक्त्वा विष्णुदूतास्ते विष्णुभक्ति परायणाः
छिन्नवन्तस्तयोर्विप्र बन्धनं चक्रधारया ॥ ४२ ॥

ततस्तु शमनप्रेष्याः क्रुद्धास्ते वह्निसन्न्निभाः
ववर्षुः सहसा तत्र ज्वलदङ्गारसञ्चयान् ॥ ४३ ॥

दण्ड उवाच-
विहितं च मयाप्येवं शुकं वेश्यां च पापिनीम्
नेतुं यूयं समायाता इत्यद्भुतमिवाभवत् ॥ ४४ ॥

नूनमेतौ यदा नेतुं यूयमिच्छतसत्तमाः
तदा कुरुत सङ्ग्राममस्माभिः सह सम्प्रति ॥ ४५ ॥

इत्युक्त्वा रामदूतास्ते बलिनो विधृतायुधाः
सिंहनादैर्दिशः सर्वे पूरयामासुरुद्धताः ॥ ४६ ॥

विष्णुदूता महात्मानः सुप्रतीकादयस्तथा
शङ्खनादैः सुललितैश्चक्रुः शब्दमयं जगत् ॥ ४७ ॥

याम्यैस्ततो महादूतैर्धनुर्मुक्तैः शिलीमुखैः
छादिता विष्णुदूतास्ते सङ्ग्रामेऽत्यन्तदारुणे ॥ ४८ ॥

शूलान्यध्यक्षिपुः केचिच्छक्तिं केचिन्महार्णवे
केचिच्छरसहस्राणि केचिच्चक्राणि ते रुषा ॥ ४९ ॥

तैर्मुक्तानि महास्त्राणि विष्णुदूता महामराः
बाणान्विचूर्णयामासुर्गदाप्रहरणादिभिः ५० 7.15.50
ततो भागवतैरेतैर्याम्यानां चक्रधारया
केषाञ्चिच्चरणाश्छिन्नाः केषाञ्चिद्बाहवस्तथा ॥ ५१ ॥

केचिद्विच्छिन्नशिरसः केचिन्निर्भिन्नवक्षसः
अत्यद्भुत क्षताः केचिद्व्यास्याः पेतुर्गतासवः ॥ ५२ ॥

छिन्नैकचरणाः केचित्केचिच्छिन्नैकपाणयः
सन्त्यज्य सहसा याम्याः सङ्ग्रामाच्च प्रदुद्रुवुः ॥ ५३ ॥

तानालोक्य ततो दूतान्पलायनपरायणान्
प्रविवेश रुषा चण्डः सङ्ग्रामं धृतमुद्गरः ॥ ५४ ॥

यमदूतगणश्रेष्ठश्चण्डोऽत्यन्त प्रतापवान्
ताडयामास शतशो मुद्गरैर्विष्णुकिङ्करान् ॥ ५५ ॥

अथ भागवता दूता निशितायुधवर्षणैः
ववर्षुस्तरसा क्रुद्धास्तं चण्डं चण्डविक्रमम् ॥ ५६ ॥

मुद्गरेण ततश्चण्डो विष्णुदूतान्पृथक्पृथक्
ताडयामास विगलद्रक्तसंसिक्तविग्रहः ॥ ५७ ॥

चण्डेन ताडितास्तेन दूता भगवतो युधि
त्यक्तसत्वाः पृष्ठभागं सुप्रकाशस्य वै ययुः ॥ ५८ ॥

सुप्रकाशस्ततः क्रुद्धो जपापुष्पनिभेक्षणः
प्रविवेश रणे युद्धं गदापाणिर्महाबलः ॥ ५९ ॥

ताडयामास सङ्क्रुद्धो विष्णुतुल्यपराक्रमः
मुद्गराच्चण्डहस्ताच्च प्रेक्ष्य जनभयप्रदात् ॥ ६० ॥

समुत्तस्थौ महाभीष्मः सधूमः पूतिगन्धवान्
स मुद्गरेण चण्डेन ताडितस्तस्य वेगिना॥ ६१ ॥

स्फुलिङ्गा वर्षणं सद्यो मुमोचात्यन्तभीतिदम्
ततः क्रुद्धेन चण्डोऽसौ तेनैव मुद्गरेण च ॥ ६२ ॥

ताडयामास विप्रर्षे सुप्रकाशं महाबलम्
सुप्रकाशस्ततो विप्र व्यथां विस्मृत्य कोपवान् ॥ ६३ ॥

गदया ताडयामास चण्डं शमनकिङ्करम्
तेन प्रताडितश्चण्डस्तत्र रक्तः परिप्लुतः ॥ ६४ ॥

पपात मूर्च्छितो भूमौ बालार्क इव जैमिने
याम्यदूतास्ततस्ते च चण्डमादाय मूर्च्छितम् ॥ ६५ ॥

हाहाकारं प्रकुर्वन्तो युद्धाद्भीताः प्रदुद्रुवुः
विष्णुदूतास्ततो विप्र सर्वे चातिप्रहर्षिताः ॥ ६६ ॥

अथ शङ्खान्समादध्मुर्जैमिने द्विजसत्तम
यमदूतास्ततस्ते च शोणितौघपरिप्लुताः ॥ ६७ ॥

यमस्यसन्निधिं जग्मुः क्रन्दन्तो भयविह्वलाः ॥ ६८ ॥

यमदूता ऊचुः-
सूर्यपुत्र महाबाहो तवाज्ञाकारिणो वयम्
तथापि विष्णुदूतैर्नः कृता दुर्गतिरीदृशी ॥ ६९ ॥

महापातकिनां श्रेष्ठौ प्रभो यद्यपि तौ खलु
रामनामप्रभावेण गतौ नारायणालयम् ॥ ७० ॥

भवता दण्डनीया ये दुरात्मानः कृतैनसः
तेऽपि विष्णुपुरं यान्ति प्रभुत्वं तव किं तदा ॥ ७१ ॥

नास्माकं विष्णुदूतात्स्तैः कृतः परिभवस्त्वयम्
तवैव केवलं नाथ यतो वै किङ्करा वयम् ॥ ७२ ॥

यम उवाच-
दूताः स्मरन्तौ तौ राम रामनामाक्षरद्वयम्
तदा न मे दण्डनीयौ तयोर्नारायणः प्रभुः ॥ ७३ ॥

संसारे नास्ति तत्पापं यद्रामस्मरणैरपि
न याति सङ्क्षयं सद्यो दृढं शृणुत किङ्कराः ॥ ७४ ॥

ये मानवाः प्रतिदिनं मधुसूदनस्य नामानि घोरदुरितौघविनाशनानि
भक्त्या स्मरन्ति विबुधप्रवरार्चितस्य ते पापिनोऽपि हि भटा मम नैव दण्ड्याः ॥ ७५ ॥

गोविन्द केशव हरे जगदीश विष्णो नारायणप्रणतवत्सलमाधवेति
भक्त्या वदन्ति पुरुषाः सततं क्षितौ ये दण्ड्या न ते मम भटा अतिपापिनोऽपि ॥ ७६ ॥

भक्तार्तिनाशनसुरेश्वरदीनबन्धो लक्ष्मीपते सकलपापविनाशकारिन्
एतद्वदान्तसततं भुवि ये मनुष्यास्ते पापिनोऽपि न भटा मम दण्डनीयाः ॥ ७७ ॥

दामोदरेश्वरमुखामरवृन्दसेव्य श्रीवासुदेव पुरुषोत्तम माधवेति
येषां वदन्ति वदनेषु सदैव शब्दा दूता नमाम्यहमपि प्रतिवासरं तान् ॥ ७८ ॥

नारायणस्य जगदेकपतेर्मुरारेश्चर्चासु चित्तमतिहार्द्दि नृणां च येषाम्
तेषामहं च सततं सुभटा ह्यधीनो ये ते प्रफुल्लकमलेक्षणरूपभाजः ॥ ७९ ॥

ये विष्णुपूजनरता हरिभक्तभक्ता एकादशीव्रतरताः कपटैर्विहीनाः
ये विष्णुपादसलिलं शिरसा वहन्ति ते पापिनोऽपि न भटा मम दण्डनीयाः ॥ ८० ॥

ये भुञ्जते भगवतो मधुसूदनस्य नैवेद्यशेषमखिलौघविनाशकारि
ये कर्णयोश्च शिरसिच्छदनं तुलस्या नित्यं वहन्ति च भटाः प्रणमाम्यहं तान् ॥ ८१ ॥

ये कृष्णपादकमलार्चनतत्पराश्च ये ब्राह्मणार्चनरता गुणसेविनश्च
ये दीनलोकहृदयातिसुखप्रदाश्च तेषामहं सततमेव भटा अधीनः ॥ ८२ ॥

ये सत्यवाक्यकथनेषु सदानुरक्ता लोकप्रियाश्च शरणागतलोकपालाः
पश्यन्ति ये च सततं विषवत्परस्वं ते मानवा मम भटा न हि दण्डनीयाः॥ ८३ ॥

ये चान्नदाननिरताः सलिलप्रदाश्च भूमिप्रदा निखिललोकहितैषिणश्च
ये वृत्तिहीनजनतृप्तिकराः प्रशान्ता दूता न ते खलु कदापि च दण्डनीयाः ॥ ८४ ॥

ये ज्ञातिपोषणरताः प्रियवादिनश्च ये दम्भकोपमदमत्सरहीनचित्ताः
ये पापदृष्टिरहिता विजितेन्द्रियाश्च तेषामहं न विदधामि कदापि चर्चाम् ॥ ८५ ॥

एवं प्रबोधितास्तेन यमेन यमकिङ्कराः
ज्ञातवन्तो जगद्भर्तुः प्रभावमतुलं हरेः ॥ ८६ ॥

विष्णोर्नामानि विप्रेन्द्र सर्वदेवाधिकानि वै
तेषां मध्ये तु तत्त्वज्ञा रामनामवरं स्मृतम् ॥ ८७ ॥

रामेत्यक्षरयुग्मं हि सर्वं मन्त्राधिकं द्विज
यदुच्चारणमात्रेण पापी याति पराङ्गतिम् ॥ ८८ ॥

रामनामप्रभावं हि सर्वदेवप्रपूजनम्
महेश एव जानाति नान्यो जानाति जैमिने ॥ ८९ ॥

विष्णोर्नामसहस्राणां पठनाल्लभते फलम्
तत्फलं लभते मर्त्यो रामनामस्मरन्नपि ॥ ९० ॥

अहो चित्रं मनुष्याणां चरित्रमिदमुच्यते
रामेति मुक्तिदं नाम न स्मरन्ति दुराशयाः ॥ ९१ ॥

वक्तुं श्रमो न चाल्पोऽपि श्रोतुमत्यन्तसुन्दरम्
तथापि रामरामेति न वदन्ति दुराशयाः ॥ ९२ ॥

अत्यन्तदुःखलभ्यापि मुक्तिर्जगति मानवैः
लभ्यते रामनाम्नैव कर्मास्ति किमतः परम् ॥ ९३ ॥

तावत्तिष्ठन्ति पापानि देहेषु देहिनां वर
रामरामेति यावद्वै न स्मरन्ति सुखप्रदम् ॥ ९४ ॥

श्राद्धे च तर्पणे चैव बलिदाने तथोत्सवे
यज्ञे दाने व्रते चैव देवताराधनेऽपि च ॥ ९५ ॥

अन्येष्वपि च कार्येषु वैदिकेषु विचक्षणः
स्मरेद्यस्तत्फलप्रेप्सू रामरामेति भक्तितः ॥ ९६ ॥

नमो रामायेति विप्रेन्द्र मन्त्रमोङ्कारपूर्वकम्
षडक्षरं जपेद्यस्तु सायुज्यं प्राप्यते हरेः ॥ ९७ ॥

षडक्षरेण मन्त्रेण हरिपूजनकृन्नरः
सर्वान्कामानवाप्नोति प्रसादाच्चक्रपाणिनः ॥ ९८ ॥

मृत्युकाले द्विजश्रेष्ठ रामरामेति यः स्मरेत्
स पापिष्ठोऽपि परमं मोक्षमाप्नोति मानवः ॥ ९९ ॥

रामेति नाम यात्रायां ये स्मरन्ति मनीषिणः
सर्वसिद्धिर्भवेत्तेषां यात्रायां नात्र संशयः १०० 7.15.100
अरण्ये प्रान्तरेवापि श्मशाने यो भयानके
रामनामस्मरेत्तस्य विद्यन्ते नापदो द्विज १०१
राजद्वारे तथा दुर्गे विदेशे दस्युसम्मुखे
दुःस्वप्नदर्शने चैव ग्रहपीडासु जैमिने १०२
औत्पातिके भये चैव वातरोगभये तथा
रामनाम स्मरन्मर्त्यो लभते नाशुभं क्वचित् १०३
रामनाम द्विजश्रेष्ठ सर्वाशुभनिवारणम्
कामदं मोक्षदं चैव स्मर्तव्यं सततं बुधैः १०४
रामनामेति विप्रर्षे यस्मिन्न स्मर्यते क्षणे
क्षणः स एव व्यर्थः स्यात्सत्यमेव मयोच्यते १०५
स्मरन्तो हरिनामानि नावसीदन्ति मानवाः १०६
जन्मकोटिदुरितक्षयमिच्छुः सम्पदं च लभते भुवि मर्त्यः
विष्णुनाम सततं भुवि भक्त्या मोक्षदातिमधुरं स्मरति स्म १०७